गोपथ ब्राह्मणम्/भागः २ (उत्तर भागः)/प्रपाठकः १

विकिस्रोतः तः
Jump to navigation Jump to search

2.1.1
अथ यद् ब्रह्मसदनात् तृणं निरस्यति शोधयत्य् एवैनं तत्
अथोपविशतीदम् अहम् अर्वाग्वसोः सदने सीदामीति
अर्वाग्वसुर् ह वै देवानां ब्रह्मा पराग्वसुर् असुराणाम्
तमेवैतत् पूर्वं सादयति
अरिष्टं यज्ञं तनुताद् इति
अथोपविश्व जपति बृहस्पतिर् ब्रह्मेति
बृहस्पतिर् वा आङ्गिरसो देवानां ब्रह्मा
तस्मिन्न् एवैतद् अनुज्ञाम् इच्छति प्रणीतासु प्रणीयमानासु वाचं यच्छत्य् आ हविष्कृत उद्वादनात्
एतद् वै यज्ञस्य द्वारम्
तद् एतद् अशून्यं करोति
इष्टे च स्विष्टकृत्य् आनुयाजानां प्रसवाद् इति
एतद् वै यज्ञस्य द्वितीयं द्वारम्
तद् एवैतद् अशून्यं करोति
यत् परिधयः परिधीयन्ते यज्ञस्य गोपीथाय
परिधीन् परिधत्ते यज्ञस्य सात्मत्वाय
परिधीन्त् संमार्ष्टि
पुनात्य् एवैनान्
त्रिर् मध्यमम्
त्रय इमे प्राणाः
प्राणान् एवाभिजयति
त्रिर् दक्षिणार्ध्यम्
त्रयो वै लोकाः
लोकान् एवाभिजयति
त्रिर् उत्तरार्ध्यं
त्रयो वै देवलोकाः
देवलोकान् एवाभिजयति
त्रिर् उपवाजयति त्रयो वै देवयानाः पन्थानस्
तान् एवाभिजयति
ते वै द्वादश भवन्ति
द्वादश ह वै मासाः संवत्सरः
संवत्सरम् एव तेन प्रीणाति
अथो संवत्सरम् एवास्मा उपदधाति स्वर्गस्य लोकस्य समष्ट्यै ॥ १ ॥
2.1.2
प्रजापतिर् वै रुद्रं यज्ञान् निरभजत्
सो ऽकामयत
मेयम् अस्मा आकूतिः समर्धि यो मा यज्ञान् निरभाक्षीद् इति
स यज्ञम् अभ्यायम्याविध्यत्
तद् आविद्धं निरकृन्तत्
तत् प्राशित्रम् अभवत्
तद् उदयच्छत्
तद् भगाय पर्यहरन्
तत् प्रत्यैक्षत
तस्य चक्षुः परापतत्
तस्माद् आहुर् अन्धो वै भग इति
अपि ह तं नेच्छेद् यम् इच्छति
तत् सवित्रे पर्यहरन्
तत् प्रत्यगृहात् तस्य पाणी प्रचिच्छेद
तस्मै हिरण्मयौ प्रत्यदधुस्
तस्माद् धिरण्यपाणिर् इति स्तुतस्
तत् पूष्णे पर्यहरन्
तत् प्राश्नात्
तस्य दन्ताः परोप्यन्त
तस्माद् आहुर् अदन्तकः पूषा पिष्टभाजन इति
तद् इध्मायाङ्गिरसाय पर्यहरन्
तत् प्राश्नात्
तस्य शिरो व्यपतत्
तं यज्ञ एवाकल्पयत्
स एष इध्मः
समिधो ह पुरातनस्
तद् बर्हय आङ्गिरसाय पर्यहरन्
तत् प्राश्नात्
तस्याङ्गा पर्वाणि व्यस्रंसन्त
तं यज्ञ एवाकल्पयत्
तद् एतद् बर्हिः
प्रस्तरो ह पुरातनस्
तद् बृहस्पतय आङ्गिरसाय पर्यहरन्
सो ऽबिभेद् बृहस्पतिर् इत्थं वाव स्य आर्तिम् आरिष्यतीति
स एतं मन्त्रम् अपश्यत्
<सूर्यस्य त्वा चक्षुषा प्रतीक्षे [पै.सं. २०.५७.११, Kऔश्ष् ९१.२, Vऐत्ष् ३.८]> इत्य् अब्रवीत्
न हि सूर्यस्य चक्षुः किं चन हिनस्ति
सो ऽबिभेत् प्रतिगृह्णन्तं मा हिंसिष्यतीति
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृहामीत्य् अब्रवीत्
सवितृप्रसूत एवैनं तद् देवताभिः प्रत्यगृह्णात्
तद् व्यूह्य तृणानि प्राग्दण्डं स्थण्डिले निदधाति पृथिव्यास् त्वा नाभौ सादयामीति
पृथिवी वा अन्नानां शमयित्री तयैवैनच् छमयां चकार
सो ऽबिभेत् प्राश्नन्तं मा हिंसिष्यतीति
अग्नेष् ट्वास्येन प्राश्नामीत्य् अब्रवीत्
न ह्य् अग्नेर् आस्यं किं चन हिनस्ति
सो ऽबिभेत् प्राशितं मा हिंसिष्यतीति
इन्द्रस्य त्वा जठरे सादयामीत्य् अब्रवीत्
न हीन्द्रस्य जठरं किं चन हिनस्ति
वरुणस्योदर इति न हि वरुणस्योदरं किं चन हिनस्तीति ॥ २ ॥
2.1.3
अथो आहुर् ब्राह्मणस्योदर इति
आत्मास्यात्मन्न् आत्मानं मे मा हिंसीः स्वाहेति
अन्नं वै सर्वेषां भूतानाम् आत्मा तेनैवैनच् छमयां चकार
प्राशितम् अनुमन्त्रयते <यो ऽग्निर् नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन् म एतत् सुहुतम् अस्तु प्राशित्रं तन् मा मा हिंसीत् परमे व्योमन् [पै.सं. २०.५७.१५]> इति
तत् सर्वेण ब्रह्मणा प्राश्नात्
तत एनं नाहिनत्
तस्माद् यो ब्रह्मिष्ठः स्यात् तं ब्रह्माणं कुर्वीत
बृहस्पतिर् वै सर्वं ब्रह्म
सर्वेण ह वा एतद् ब्रह्मणा यज्ञं दक्षिणत उद्यच्छते
अप वा एतस्मात् प्राणाः क्रामन्ति य आविद्धं प्राश्नाति
अद्भिर् मार्जयित्वा प्राणान्त् संस्पृशते वाङ् म आस्यन्न् इति
अमृतं वै प्राणाः
अमृतम् आपः
प्राणान् एव यथास्थानम् उपाह्वयते
तद् उ हैक आहुर् इन्द्राय पर्यहरन्न् इति
ते देवा अब्रुवन्न् इन्द्रो वै देवानाम् ओजिष्ठो बलिष्ठस्
तस्मा एनत् परिहरतेति
तत् तस्मै पर्यहरन्
तत् स ब्रह्मणा शयमां चकार
तस्माद् आहुर् इन्द्रो ब्रह्मेति
यवमात्रं भवति
यवमात्रं वै विषस्य न हिनस्ति
यद् अधस्ताद् अभिधारयति तस्माद् अधस्तात् प्रक्षरणं प्रजा अरुर् न हिनस्ति
यद् उपरिष्टाद् अभिधारयति तस्माद् उपरिष्टात् प्रक्षरणं प्रजा अरुर् न हिनस्ति
यद् उभयतो ऽभिघारयत्य् उभयतो ऽभिघारि प्रजा अरुर् घातुकं स्यात्
यत् समयाभिहरेद् अनभिविद्धं यज्ञस्याभिविध्येत् ॥ ३ ॥
2.1.4
अग्रेण परिहरति
तीर्थेनैव परिहरति
वि वा एतद् यज्ञश् छिद्यते यत् प्राशित्रं परिहरति
यद् आह ब्रह्मन् प्रस्थास्यामीति बृहस्पतिर् वै सर्वं ब्रह्म
सर्वेण ह वा एतद् ब्रह्मणा यज्ञं दक्षिणतः संदधाति
अथो अत्र वा एतर्हि यज्ञः श्रितो यत्र ब्रह्मा तत्रैव यज्ञः श्रितस्
तत एवैनम् आलभते
यद् धस्तेन प्रमीवेद् वेपनः स्यात्
यच् छीर्ष्णा शीर्षक्तिमान्त् स्यात्
यत् तूष्णीम् आसीतासंप्रत्तो यज्ञः स्यात्
प्रतिष्ठेत्य् एव ब्रूयात्
वाचि वै यज्ञः श्रितः
यत्र ब्रह्मा यत्रैव यज्ञः श्रितस् तत एवैनं संप्रयच्छति
अग्नीध आदधाति
अग्निमुखान् एवर्तून् प्रीणाति
अथोत्तरासाम् आहुतीनां प्रतिष्ठित्या
अथो समिद्वत्य् अव जुहोति
परिधीन्त् संमार्ष्टि
पुनात्य् एवैनान्
सकृत्सकृत् संमार्ष्टि
पराङ् एव ह्य् एतर्हि यज्ञः
चतुः संपद्यते
अथो चतुष्पादः पशवः
पशूनाम् आप्त्यै
देव सवितर् एतत् ते प्राहेत्य् आह प्रसूत्यै
बृहस्पतिर् ब्रह्मेत्य् आह
स हि ब्रह्मिष्ठः
स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि स मां कर्मण्यं पाहीत्य् आह
यज्ञाय च यजमानाय च पशूनाम् आप्त्यै ॥ ४ ॥
2.1.5
न वै पौर्णमास्यां नामावास्यायां दक्षिणा दीयन्ते
य एष ओदनः पच्यते दक्षिणैषा दीयते यज्ञस्यर्द्ध्यै
इष्टी वा एतेन यद् यजते ऽथो वा एतेन पूर्ती य एष ओदनः पच्यते
एष ह वा इष्टापूर्ती य एनं पचति ॥ ५ ॥
2.1.6
द्वया वै देवा यजमानस्य गृहम् आगच्छन्ति सोमपा अन्ये ऽसोमपा अन्ये
हुतादो ऽन्ये ऽहुतादो ऽन्ये
एते वै देवा अहुतादो यद् ब्राह्मणाः
एतद्देवत्य एष यः पुरानीजानः
एते ह वा एतस्य प्रजायाः पशूनाम् ईशते
ते ऽस्याप्रीता इषम् ऊर्जम् आदायापक्रामन्ति
यद् अन्वाहार्यम् अन्वाहरति तान् एव तेन प्रीणाति
दक्षिणतःसद्भ्यः परिहर्तवा आह
दक्षिणावतैव यज्ञेन यजते
आहुतिभिर् एव देवान् हुतादः प्रीणाति दक्षिणाभिर् मनुष्यदेवान्
ते ऽस्मै प्रीता इषम् ऊर्जं नियच्छन्ति ॥ ६ ॥
2.1.7
देवाश् च ह वा असुराश् चास्पर्धन्त
ते देवाः प्रजापतिम् एवाभ्ययजन्त
अन्यो ऽन्यस्यासन्न् असुरा अजुहवुस्
ते देवा एतम् ओदनम् अपश्यन्
तं प्रजापतये भागम् अनुनिरवपन्
तं भागं पश्यन् प्रजापतिर् देवान् उपावर्तत
ततो देवा अभवन् परासुराः
स य एवंविद्वान् एतम् ओदनं पचति भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति
प्रजापतिर् वै देवेभ्यो भागधेयानि व्यकल्पयत्
सो ऽमन्यतात्मानम् अन्तरगाम् इति
स एतम् ओदनम् अभक्तम् अपश्यत्
तम् आत्मने भागं निरवपत्
प्रजापतेर् वा एष भागः
अपरिमितः स्यात्
अपरिमितो हि प्रजापतिः
प्रजापतेर् भागो ऽस्य् ऊर्जस्वान् पयस्वान्
अक्षितो ऽसि
अक्षित्यै त्वा
मा मे क्षेष्ठा अमुत्रामुष्मिंल् लोक इह च
प्राणापनौ मे पाहि
समानव्यानौ मे पाहि
उदानरूपे मे पाहि
ऊर्ग् असि
ऊर्जं मे धेहि
कुर्वतो मे मा क्षेष्ठाः
ददतो मे मोपदसः
प्रजापतिम् अहं त्वया समक्षम् ऋध्यासम् इति
प्रजापतिम् एव समक्षम् ऋध्नोति य एवं वेद य एवं वेद ॥ ७ ॥
2.1.8
ये वा इह यज्ञैर् आर्ध्नुवंस् तेषाम् एतानि ज्योतींषि यान्य् अमूनि नक्षत्राणि
तन् नक्षत्राणां नक्षत्रत्वं यन् न क्षीयन्ति
दर्शपूर्णमासौ वै यज्ञस्यावसानदर्शौ
ये वा अनिष्ट्वा दर्शपूर्णमासाभ्यां सोमेन यजन्ते तेषाम् एतानि ज्योतींषि यान्य् अमूनि नक्षत्राणि पतन्तीव
तद् यथा ह वा इदम् अस्पष्टावसाने नेहावसास्यसि नेहावसास्यसीति नोनुद्यन्त एवं हैवैते ऽमुष्मांल् लोकान् नोनुद्यन्ते
त एते प्रच्यवन्ते ॥ ८ ॥
2.1.9
यस्य हविर् निरुप्तं पुरस्ताच् चन्द्रमा अभ्युदियात् तांस् त्रेधा ताण्डुलान् विभजेत्
ये मध्यमास् तान् अग्नये दात्रे ऽष्टाकपालं निर्वपेत्
ये स्थविष्ठास् तान् इन्द्राय प्रादात्रे दधनि चरुम्
ये क्षोदिष्ठास् तान् विष्णवे शिपिविष्टाय शृते चरुम् [एद्. क्षोदिस्थास्, चोर्र्. ড়त्यल्]
पशवो वा एते ऽतिरिच्यन्ते
तान् एवाप्नोति
तान् अवरुन्द्धे
अग्निर् वै मध्यमस्य दातेन्द्रो वै ज्येष्ठस्य प्रदाता
यद् एवेदं क्षुद्रं पशूनां तद् विष्णोः शिपिविष्टम्
तद् एवाप्नोति
पशून् एवावरुन्द्धे ॥ ९ ॥
2.1.10
या पूर्वा पौर्णमासी सानुमतिः
योत्तरा राका
या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः
चन्द्रमा एव धाता च विधाता च
यत् पूर्णो ऽन्यां वसत्य् अपूर्णो ऽन्यां तन् मिथुनम्
यत् पश्यत्य् अन्यां नान्यां तन् मिथुनम्
यद् अमावास्यायाश् चन्द्रमा अधि प्रजायते तन् मिथुनम्
तस्माद् एवास्मै मिथुनात् पशून् प्रजनयति ॥ १० ॥
2.1.11
न द्वे यजेत
यत् पूर्वया संप्रति यतेतोत्तरया छम्बट्कुर्यात्
यद् उत्तरया संप्रति यजेत पूर्वया छम्बट्कुर्यात्
नेष्टिर् भवति न यज्ञस्
तद् अनु ह्रीतमुख्य् अपगल्भो जायते
एकाम् एव यजेत
प्रगल्भो हैव जायते
अनादृत्य तद् द्वे यजेत
यज्ञमुखम् एव पूर्वयालभते यजत उत्तरया
देवता एवं पूर्वयाप्नोतीन्द्रियम् उत्तर्या
देवलोकम् एव पूर्वयावरुन्द्धे मनुष्यलोकम् उत्तरया भूयसो यज्ञक्रतून् उपैत्य
एषा ह वै सुमना नामेष्टिः
यम् अद्येजानं पश्चाच् चन्द्रमा अभ्युदियाद् अस्मा अस्मिंल् लोक आर्धुकं भवति ॥ ११ ॥
2.1.12
अग्नावैष्णवम् एकादशकपालं निर्वपेद् दर्शपूर्णमासाव् आरिप्समाणः
अग्निर् वै सर्वा देवता विष्णुर् यज्ञः
देवताश् चैव यज्ञं चारभत ऋद्ध्यै
ऋध्नोत्य् एव
उभौ सहारम्भाव् इत्य् आहुः
उदिन् नु शृङ्गे सितो मुच्यत इति
दर्शो वा एतयोः पूर्वः पौर्णमास उत्तरः
अथ यत् परस्तात् पौर्णमास आरभ्यते तद् यथा पूर्वं क्रियते
तद् यत् पौर्णमासम् आरभमाणः सरस्वत्यै चरुं निर्वपेत् सरस्वते द्वादशकपालम् अमावास्या वै सरस्वती पौर्णमासः सरस्वान् इति
उभाव् एवैनौ सहारभत ऋद्ध्यै
ऋध्नोत्य् एव ॥ १२ ॥
2.1.13
अग्नये पथिकृते ऽष्टाकपालं निर्वपेद् यस्य प्रज्ञातेष्टिर् अतिपद्यते
बहिष्पथं वा एष एति यस्य प्रज्ञातेष्टिर् अतिपद्यते
अग्निर् वै देवानां पथिकृत्
तम् एव भागधेयेनोपासरत्
स एनं पन्थानम् अपिनयति
अनड्वान् दक्षिणा
स हि पन्थानम् अभिवहति ॥ १३ ॥
2.1.14
अग्नये व्रतपतये ऽष्टाकपालं निर्वपेद् य आहिताग्निः सन् प्रवसेत्
बहु वा एष व्रतम् अतिपातयति य आहिताग्निः सन् प्रवसति व्रत्ये ऽहनि स्त्रियं वोपैति मांसं वाश्नाति
अग्निर् वै देवानां व्रतपतिः
अग्निम् एतस्य व्रतम् अगात्
तस्माद् एतस्य व्रतम् आलम्भयते ॥ १४ ॥
2.1.15
अग्नये व्रतभृते ऽष्टाकपालं निर्वपेद् य आहिताग्निर् आर्तिजम् अश्रु कुर्यात्
आनीतो वा एष देवानां य आहिताग्निस्
तस्माद् एतेनाश्रु न कर्तव्यम्
न हि देवा अश्रु कुर्वन्ति
अग्निर् वै देवानां व्रतभृत्
अग्निम् एतस्य व्रतम् अगात्
तस्माद् एतस्य व्रतम् आलम्भयते ॥ १५ ॥
2.1.16
ऐन्द्राग्नम् उस्रम् अनुसृष्टम् आलभेत यस्य पिता पितामहः सोमं न पिबेत्
इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति
यद् ऐन्द्र इन्द्रियेणैवैनं तद् वीर्येण समर्धयति
देवताभिर् वा एष वीर्येण व्यृध्यते यस्य पिता पिताम्हः सोमं न पिबति
यद् आग्नेयो ऽग्निर् वै सर्वा देवताः
सर्वाभिर् एवैनं तद् देवताभिः समर्धयति
अनुसृष्टो भवति
अनुसृष्ट इव ह्य् एतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति
तस्माद् एष एव तस्या देवतायाः पशूनां समृद्धः ॥ १६ ॥
2.1.17
देवा वा ओषधीषु पक्वास्व् आजिम् अयुः
स इन्द्रो ऽवेद् अग्निर् वावेमाः प्रथम उज्जेष्यतीति
सो ऽब्रवीद् यतरो नौ पूर्व उज्जयात् तन् नौ सहेति
ता अग्निर् उदजयत्
तद् इन्द्रो ऽनूदजयत्
स एष ऐन्द्राग्नः सन्न् आग्नेन्द्रः
एका वै तर्हि यवस्य श्नुष्टिर् आसीद् एका व्रीहेर् एका माषस्यैका तिलस्य
तद् विश्वे देवा अब्रुवन् वयं वा एतत् प्रथयिष्यामो भागो नो ऽस्त्व् इति
तद् भूम एव वैश्वदेवः
अथो प्रथयत्य् एतेनैव
पयसि स्याद् वैश्वदेवत्वाय
वैश्वदेवं हि पयः
अथेमाव् अब्रूतां न वा ऋत आवाभ्याम् एवैतद् यूयं प्रथयत मयि प्रतिष्ठितम् असौ वृष्ट्या पचति नैतदितो ऽभ्युज्जेष्यतीति
भागो नाव् अस्त्व् इति
ताभ्यां वा एष भागः क्रियत उज्जित्या एव
अथो प्रतिष्ठित्या एव यो द्यावापृथिवीयः
सौमीर् वा ओषधीः
सोम ओषधीनाम् अधिराजः
याश् च ग्राम्या याश्चारण्यास् तासाम् एष उद्धारो यच् छ्यामाकः
यच् छ्यामाकः सौम्यस् तम् एव भागिनं कृणुते
यद् अकृत्वाग्रयणं नवस्याश्नीयाद् देवानां भागं प्रतिकॢप्तम् अद्यात्
संवत्सराद् वा एतद् अधिप्रजायते यद् आग्रयणम्
संवत्सरं वै ब्रह्मा
तस्माद् ब्रह्मा पुरस्ताद्धोमसंस्थितहोमेष्व् आवपेत
एकहायनी दक्षिणा
स हि संवत्सरस्य प्रतिमा
रेत एव ह्य् एषो ऽप्रजातः
प्रजात्यै ॥ १७ ॥
2.1.18
अथ हैतद् अप्रतिरथम् <इन्द्रस्य बाहू स्थविरौ वृषाणौ> इति
एतेन ह वा इन्द्रो ऽसुरान् प्रत्यजयत् [एद्. ऽसुरान]
अप्रति ह भवत्य् एतेन यजमानो भ्रातृव्यं जयति
संग्रामे जुहुयाद् अप्रति ह भवति
एतेन ह वै भरद्वाजः प्रतर्दनं समनह्यत्
स राष्ट्र्य् अभवत्
यं कामयेत राष्ट्री स्याद् इति तम् एतेन संनह्येत्
राष्ट्री ह भवति
एतेन ह वा इन्द्रो विराजम् अभ्यजयत्
दशैवान्वाह
दशाक्षरा विराड् वैराजं वा एतेन यजमानो भ्रातृव्यं वृङ्क्ते
तद् उ हैक एकादशान्वाहुः
एकादशाक्षरा वै त्रिष्टुप् त्रैष्टुभो वज्रः
वज्रेणैवैतद् रक्षांस्य् अपसेधति
दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसन्
तान्य् अप्रतिरथेनापाघ्नत
तस्माद् ब्रह्माप्रतिरथं जपन्न् एति
यद् ब्रह्माप्रतिरथं जपन्न् एति यज्ञस्याभिजित्यै रक्षसाम् अपहत्यै रक्षसाम् अपहत्यै ॥ १८ ॥
2.1.19
अथातश् चातुर्मास्यानां प्रयोगः
फाल्गुन्यां पौर्णमास्यां चातुर्मास्यानि प्रयुञ्जीत
मुखं वा एतत् संवत्सरस्य यत् फाल्गुनी पौर्णमासी मुखम् उत्तरे फाल्गुन्यौ पुच्छं पूर्वे [एद्. पूर्व]
तद् यथा प्रवृत्तस्यान्तौ समेतौ स्याताम् एवम् एवैतत् संवत्सरस्यान्तौ समेतौ भवतस्
तद् यत् फाल्गुन्यां पौर्णमास्यां चातुर्मास्यैर् यजते मुखत एवैतत् संवत्सरं प्रयुङ्क्ते
अथो भैषज्ययज्ञा वा एते यच् चातुर्मास्यानि
तस्माद् ऋतुसंधिषु प्रयुज्यन्ते
ऋतुसंधिषु वै व्याधिर् जायते
तान्य् एतान्य् अष्टौ हवींस्षि भवन्ति
अष्टौ वै चतसृणां पौर्णमासीनां हवींषि भवन्ति
चतसृणां वै पौर्णमासीनां वैश्वदेवं समासः
अथ यद् अग्निं मन्थन्ति प्रजापतिर् वै वैश्वदेवम्
प्रजात्या एव
अथैतं दैवं गर्भं प्रजनयति
अथ यत् सप्तदश सामिधेन्यः सप्तदशो वै प्रजापतिः
प्रजापतेर् आप्त्यै
अथ यत् सद्वन्ताव् आज्यभागाव् असिसंतीति वै सद्वन्तौ भवतः
अथ यद् विराजौ संयाज्ये अन्नं वै श्रीर् विराड् अन्नाद्यस्य श्रियो ऽवरुद्ध्यै [एद्. ऽवरुद्ध्या ऽथ]
अथ यन् नव प्रयाजा नवानुयाजा अष्टौ हवींषि वाजिनं नवमं तन् नक्षत्रीयां विराजम् आप्नोति
अथो आहुर् दशनीं विराजम् इति प्रयाजानुयाजा हवींष्य् आघाराव् आज्यभागाव् इति ॥ १९ ॥
2.1.20
अथ यद् अग्नीषोमौ प्रथमं देवतानां यजत्य् अग्नीषोमौ वै देवानां मुखम्
मुखत एव तद् देवान् प्रीणाति
अथ यत् सवितारं यजत्य् असौ वै सविता यो ऽसौ तपति
एतम् एव तेन प्रीणाति
अथ यत् सरस्वतीं यजति वाग् वै सरस्वती
वाचम् एतेन प्रीणाति
अथ यन् पूषणं यजत्य् असौ वै पूषा यो ऽसौ तपति
एतम् एव तेन प्रीणाति
अथ यन् मरुतः स्वतवसो यजति घोरा वै मरुतः स्वतवसस्
तान् एव तेन प्रीणाति
अथ यद् विश्वान् देवान् यजत्य् एते वै विश्वे देवा यत् सर्वे देवास्
तान् एव तेन प्रीणाति
अथ यद् द्यावापृथिव्यौ यजति प्रतिष्ठे वै द्यावापृथिव्यौ
प्रतिष्ठित्या एव
अथ यद् वाजिनो यजति पशवो वै वाजिनः
पशून् एव तेन प्रीणाति
अथो ऋतवो वै वाजिनः
ऋतून् एव तेन प्रीणाति
अथो छन्दांसि वै वाजिनः
छन्दांस्य् एव तेन प्रीणाति
अथो देवाश्वा वै वाजिनः
अत्र देवाः साश्वा अभीष्टाः प्रीता भवन्ति
अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वैश्वदेवेनेष्टं भवति ॥ २० ॥
2.1.21
वैश्वदेवेन वै प्रजापतिः प्रजा असृजत
ताः सृष्टा अप्रसूता वरुणस्य यवाञ् जक्षुस्
ता वरुणो वरुणपाशैः प्रत्यबन्धात्
ताः प्रजाः प्रजापतिं पितरम् एत्योपावदन्न् उप तं यज्ञक्रतुं जानीहि येनेष्ट्वा वरुणम् अप्रीणात्
स प्रीतो वरुणः
वरुणपाशेभ्यः सर्वस्माच् च पाप्मनः संप्रमुच्यन्त इति
तत एतं प्रजापतिर् यज्ञक्रतुम् अपश्यद् वरुणप्रघासान्
तम् आहरत्
तेनायजत
तेनेष्ट्वा वरुणम् अप्रीणात्
स प्रीतो वरुणो वरुणपाशेभ्यः सर्वस्माच् च पाप्मनः प्रजाः प्रामुञ्चत्
प्र ह वा एतस्य प्रजा वरुणपाशेभ्यः सर्वस्माच् च पाप्मनो मुच्यन्ते
य एवं वेद
अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति
यन् मथ्यते तस्योक्तं ब्राह्मणम्
अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्यभागौ विराजौ संयाज्ये तेषाम् उक्तं ब्राह्मणम्
अथ यन् नव प्रयाजा नवानुयाजा नवैतानि हवींषि
समानानि त्व् एव पञ्च संचराणि हवींषि भवन्ति पौष्णान्तानि
तेषाम् उक्तं ब्राह्मणम् ॥ २१ ॥
2.1.22
अथ यद् ऐन्द्राग्नो द्वादशकपालो भवति बलं वै तेज इन्द्राग्नी
बलम् एव तत् तेजसि प्रतिष्ठापयति
अथ यद् वारुण्य् आमिक्षेन्द्रो वै वरुणः [एद्. आमीक्षेन्द्रो, चोर्र्. ড়त्यल्]
स उ वै पयोभाजनस्
तस्माद् वारुण्य् आमिक्षा [एद्. अमिक्षा]
अथ यन् मारुती पयस्याप्सु वै मरुतः श्रिताः [एद्. श्रितः. चोर्र्. ড়त्यल्]
आपो हि पयः
अथेन्द्रस्य वै मरुतः श्रित ऐन्द्रं पयस्
तस्मान् मारुती पयस्या
अथ यत् काय एककपालः प्रजापतिर् वै कः
प्रजापतेर् आप्त्या
अथो सुखस्य वा एतन् नामधेयं कम् इति [एद्. नामघेयम्]
सुखम् एव तद् अध्य् आत्मन् धत्ते
अथ यन् मिथुनौ गावौ ददाति तत् प्रजात्यै रूपम्
उक्थ्या वाजिनः
अथ यद् अप्सु वरुणं यजति स्व एवैनं तद् आयतने प्रीणाति
अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वरुणप्रघासैर् इष्टं भवति ॥ २२ ॥
2.1.23
ऐन्द्रो वा एष यज्ञक्रतुर् यत् साकमेधास्
तद् यथा महाराजः पुरस्तात् सेनानीकानि व्युह्याभयं पन्थानम् अन्वियाद् एवम् एवैतत् पुरस्ताद् देवता यजति [एद्. सैनानीकानि, चोर्र्. ড়त्यल्]
तद् यथैवादः सोमस्य महाव्रतम् एवम् एवैतद् इष्टिमहाव्रतम्
अथ यद् अग्निम् अनीकवन्तं प्रथमं देवतानां यजत्य् अग्निर् वै देवानां मुखम्
मुखत एव तद् देवान् प्रीणाति
अथ यन् मध्यंदिने मरुतः सांतपनान् यजतीन्द्रो वै मरुतः संतपनाः
ऐन्द्रं माध्यंदिनम्
तस्माद् एतान् इन्द्रेणोपसंहितान् यजति
अथ यत् सायं गृहमेधीयेन चरन्ति पुष्टिकर्म वै गृहमेधीयः
सायं पोषः पशूनाम्
तस्मात् सायं गृहमेधीयेन चरन्ति
अतह् यच् छ्वो भूते गृहमेधीयस्य निष्काशमिश्रेण पूर्णदर्वेण चरन्ति पूर्वेद्युः कर्मणैवैतत् प्रातः कर्मोपसंतन्वन्ति
अथ यत् प्रातर् मरुतः क्रीडिनो यजतीन्द्रो वै मरुतः क्रीडिनस्
तस्माद् एनान् इन्द्रेणोपसंहितान् यजति
अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति
यन् मथ्यते तस्योक्तं ब्राह्मणम्
अथ यत् सप्तदश सामिधेन्यः सद्वन्ताव् आज्यभागौ विराजौ संयाज्ये तेषाम् उक्तं ब्राह्मणम्
अथ यन् नव प्रयाजा नवानुयाजा अष्टौ हवींषि समानानि त्व् एव षट्संचराणि हवींषि भवन्त्य् ऐन्द्राग्नान्तानि
तेषाम् उक्तं ब्राह्मणम्
अथ यन् महेन्द्रम् अन्ततो यजत्य् अन्तं वै श्रेष्ठी भजते
तस्माद् एनम् अन्ततो यजति
अथ यद् वैश्वकर्मण एककपालो ऽसौ वै विश्वकर्मा यो ऽसौ तपति
एतम् एव तेन प्रीणाति
अथ यद् ऋषभं ददात्य् ऐन्द्रो ह यज्ञक्रतुः ॥ २३ ॥
2.1.24
अथ यद् अपराह्णे पितृयज्ञेन चरन्त्य् अपराह्णभाजो वै पितरस्
तस्माद् अपराह्णे पितृयज्ञेन चरन्ति
तद् आहुर् यद् अपरपक्षभाजो वै पितरः कस्माद् एनान् पूर्वपक्षे यजन्तीति
देवा वा एते पितरस्
तस्माद् एनान् पूर्वपक्षे यजन्तीति
अथ यद् एकां सामिधेनीं त्रिर् अन्वाह सकृद् ह वै पितरस्
तस्माद् एकां सामिधेनीं त्रिर् अन्वाह
अथ यद् यजमानस्यार्षेयं नाह नेद् यजमानं प्रवृणजानीति
अथ यत् सोमं पितृमन्तं पितॄन् वा सोमवतः पितॄन् बर्हिषदः पितॄन् अग्निष्वात्तान् इत्य् आवाहयति
न हैके स्वं महिमानम् आवाहयन्ति यजमानस्यैष महिमेति वदन्त आवाहयेद् इति त्व् एव स्थितम्
अग्नेर् ह्य् एष महिमा भवति
ओं स्वधेत्य् आश्रावयति
अस्तु स्वधेति प्रत्याश्रावयति
स्वधाकारो हि पितॄणाम्
अथ यत् प्रयाजानुयाजेभ्यो बर्हिष्मन्ताव् उद्धरति प्रजा वै बर्हिर् नेत् प्रजां पितृषु दधानीति
ते वै षट् संपद्यन्ते
षड् वा ऋतवः
ऋतवः पितरः
पितॄणाम् आप्त्यै ॥ २४ ॥
2.1.25
अथ यज् जीवनवन्ताव् आज्यभागौ भवतो यजमानम् एव तज् जीवयति
अथ यद् एकैकस्य हविषस् तिस्रस्तिस्रो याज्या भवन्ति ह्वयत्य् एवैनान् प्रथमया
द्वितीयया गमयति
प्रैव तृतीयया यच्छति
अथो देवयज्ञम् एवैतत् पितृयज्ञेन व्यावर्तयति
अथो दक्षिणासंस्थो वै पितृयज्ञस्
तम् एवैतद् उदक्संस्थं कुर्वन्ति
अथ यद् अग्निं कव्यवाहनम् अन्ततो यजत्य् एतत् स्विष्टकृतो पितरस्
तस्माद् अग्निं कव्यवाहनम् अन्ततो यजति
अथ यद् इडाम् उपहूयावघ्राय न प्राश्नन्ति पशवो वा इडा
नेत् पशून् प्रवृणजानीति
अथ यत् सूक्तवाके यजमानस्याशिषो ऽन्वाह नेद् यजमानं प्रवृणजानीति
अथ यत् पत्नीं न संयाजयन्ति नेत् पत्नीं प्रवृणजानीति
अथ यत् पवित्रवति मार्जयन्ते शान्तिर् वै भेषजम् आपः
शान्तिर् एवैषा भेषजम् अन्ततो यज्ञे क्रियते
अथ यद् अध्वर्युः पितृभ्यो निपृणाति जीवान् एव तत् पितॄन् अनु मनुष्याः पितरो ऽनुप्रवहन्ति
अथो देवयज्ञम् एवैनं पितृयज्ञेन व्यावर्तयन्ति
अथो दक्षिणासंस्थो वै पितृयज्ञस्
तम् एवैतद् उदक्संस्थं कुर्वन्ति
अथ यत् प्राञ्चो ऽभ्युत्क्रम्यादित्यम् उपतिष्ठन्ते देवलोको वा आदित्यः
पितृलोकः पितरः
देवलोकम् एवैतत् पितृलोकाद् उपसंक्रामन्तीति
अथ यद् दक्षिणाञ्चो ऽभ्युत्क्रम्याग्नीन् उपतिष्ठन्ते प्रीत्यैव तद् देवेष्व् अन्ततो ऽर्धं चरन्ति
अथ यद् उदञ्चो ऽभ्युत्क्रम्य त्रैयंबकैर् यजन्ते रुद्रम् एव तत् स्वस्यां दिशि प्रीणन्ति [एद्. स्वायां बुत् सेए चोर्रिगेन्द प्. ३०२]
अथो देवयज्ञम् एवैतत् पितृयज्ञेन व्यावर्तयन्ति
अथो दक्षिणासंस्थो वै पितृयज्ञस्
तम् एवैतद् उदक्संस्थं कुर्वन्ति
अथ यद् अन्तत आदित्येष्ट्या यजतीयं वा अदितिः
अस्याम् एवैनम् अन्ततः प्रतिष्ठापयति
अथ यत् परस्तात् पौर्णमासेन यजते तथा हास्य पूर्वपक्षे साकमेधैर् इष्टं भवति ॥ २५ ॥
2.1.26
त्रयोदशं वा एतं मासम् आप्नोति यच् छुनासीर्येण यजते
एतावान् वै संवत्सरो यावान् एष त्रयोदशो मासः
अथ यद् अग्निं प्रणयन्ति यम् एवामुं वैश्वदेवे मन्थन्ति तम् एव तत् प्रणयन्ति
यन् मथ्यते तस्योक्तं ब्राह्मणम्
यद्य् उ न मथ्यते पौर्णमासम् एव तन्त्रं भवति
प्रतिष्ठा वै पौर्णमासम्
प्रतिष्ठित्या एवाथ यद् वायुं यजति प्राणो वै वायुः
प्राणम् एव तेन प्रीणाति
अथ यच् छुनासीरं यजति संवत्सरो वै शुनासीरः
संवत्सरम् एव तेन प्रीणाति
अथ यत् सूर्यं यजत्य् असौ वै सूर्यो यो ऽसौ तपति
एतम् एव तेन प्रीणाति
अथ यच् छ्वेतां दक्षिणां ददात्य् एतस्यैव तद् रूपं क्रियते
अथ यत् प्रायश्चित्तप्रतिनिधिं कुर्वन्ति स्वस्त्ययनम् एव तत् कुर्वन्ति
यज्ञस्यैव शान्तिर् यजमानस्य भैषज्याय
तैर् वा एतैश् चातुर्मास्यैर् देवाः सर्वान् कामान् आप्नुवंत् सर्वा इष्टीः सर्वम् अमृतत्वम्
स वा एष प्रजापतिः संवत्सरश् चतुर्विंशो यच् चातुर्मास्यानि
तस्य मुखम् एव वैश्वदेवम्
बाहू वरुणप्रघासाः
प्राणो ऽपानो व्यान इत्य् एतास् तिस्र इष्टयः [एद्. प्रणो]
आत्मा महाहविः
प्रतिष्ठा शुनासीरम्
स वा एष प्रजापतिर् एव संवत्सरो यच् चातुर्मास्यानि
सर्वं वै प्रजापतिः
सर्वं चातुर्मास्यानि
तत् सर्वेणैव सर्वम् आप्नोति य एवं वेद यश् चैवं विद्वांश् चातुर्मास्यैर् यजते चातुर्मास्यैर् यजते चातुर्मास्यैर्यजते

ल्इत्य् अथर्ववेदे गोपथब्राह्मणोत्तरभागे प्रथमः प्रपाठकः ॥