गर्गसंहिता/खण्डः ५ (मथुराखण्डः)/अध्यायः २४

विकिस्रोतः तः
Jump to navigation Jump to search


बहुलाश्व उवाच ।।
गोपीनां चैव गोपानां दत्त्वा संदर्शनं परम् ।।
मथुरायां किं चकार श्रीकृष्णो राम एव च ।। १ ।।
चरित्रं परमं मिष्टं श्रीकृष्णबलदेवयोः ।।
सर्वपापहरं पुण्यं चतुर्वर्गफलप्रदम् ।। २ ।। ।।
श्रीनारद उवाच ।।
अन्यच्चरित्रं शृणुताच्छ्रीकृष्णबलदेवयोः ।।
सर्वपापहरं पुण्यं चतुर्वर्गफलप्रदम् ।। ३ ।।
कोलेन पीडिता लोकाः कौशारविपुरान्नृप ।।
मथुरामाययुः सर्वे सद्विजा दीनमानसाः ।।४।।
अश्वमाशु समारुह्य रोहिणीनन्दनो बलः ।।
स्वल्पैः पुरःसरैः सार्द्धं मृगयार्थी विनिर्गतः ।।५।।
तं नत्वाभ्यर्च्य विधिवत्तदंघ्र्योः पतिताः पथि ।।
कृतांजलिपुटा ऊचुर्हर्षगद्गदया गिरा ।। ६ ।।
प्रजा ऊचुः ।।
रामराम महाबाहो देवदेव महाबल ।।
कोलेन पाडिताः सर्वे आगताः शरणं वयम् ।। ७ ।।
दैत्यः कंससखः कोलो जित्वा कौशारविं नृपम् ।।
कौशारवेः पुरे राज्यं करोति स महाबलः ।। ८ ।।
कौशारविस्तद्भयाद्धि गंगातीरं गतो नृपः ।।
राज्यार्थं त्वत्पदांभोजं भजते सुजितेंद्रियः ।। ९ ।।
तत्सहायं कुरु विभो वयं यस्य प्रजाः शुभाः ।।
पुत्रवत्पालितास्तेन महासौख्यसमन्विताः ।। 5.24.१० ।।
कोलेनाद्यैव दुष्टेन पीडिताः सततं प्रभो ।।
त्रैलोक्यविजयवीरः कंसोपि निहतस्त्वया ।। ११ ।।
कालो जीवति देवेंद्र कंसोपि न मृतः स्मृतः ।।
रक्षार्थं सगुणोसि त्वं भक्तानां प्रकृतेः परः ।। १२ ।।
।। श्रीनारद उवाच ।।
इति श्रुत्वा वचस्तेषां श्रीरामो भक्तवत्सलः ।।
गंगायमुनयोर्मध्ये कौशांबीं नगरीं ययौ ।। १३ ।।
योद्धुं समागतं रामं श्रुत्वा कोलोपि निर्गतः ।।
अक्षौहिणीभिर्दशभिर्मंडितश्चंडविक्रमः ।। १४ ।।
चंचलाश्वतरं गाढ्यां रथेभाश्वतिमिंगिलाम्।।
नदीमिवागतां सेनां प्रलयार्णवनादिनीम् ।। १५ ।।
वीरावर्तां च तां वीक्ष्य बद्ध्वा सेतुं हलं बलः ।।
आकृष्य तां तदग्रेण मुसलेनाहनदृढम् ।। १५ ।।
युगपत्तत्प्रहारेण वीरा अश्वा रथा गजाः ।।
सर्वतः कोटिशः पेतुः पेषिताः फलवद्रणे ।। १७ ।।
शेषाः प्रदुद्रुवुर्वीरा भयार्ता रणमण्डलात् ।।
एकाकी युयुधे दैत्यः कोलो रामेण शस्त्रभृत् ।। ।। १८ ।।
गोमूत्रचयसिंदूरकस्तूरीपत्रभृन्मुखम् ।।
सुवर्णशृंखलायुक्तं प्रखचित्कटिबंधनम्।।१९।।
स्रवन्मदं चतुर्दंतं घण्टाटङ्कारभीषणम् ।।
प्रोन्नतं दिग्गजमिव नदत्कालघनप्रभम् ।। 5.24.२० ।।
शितमंकुशमादाय कोल आरुह्य कर्णतः ।।
स्वगजं नोदयामास बलदेवाय दैत्यराट्।।२१।।
आगतं वीक्ष्य तं नागं मत्तं कोलेन नोदितम् ।।
तताड मुसलेनासौ वज्रेणेन्द्रो यथा गिरिम् ।। २२ ।।
मुसलस्य प्रहारेण विशीर्णोभून्महागजः।।
मृद्धटो नैक वै वाशु दण्ड घातेन मैथिल ।। २३ ।।
कोलः क्रोडमुखो दैत्यो रक्ताक्षः पतितो गजात् ।।
शूलं चिक्षेप निशितं माधवाय महात्मने ।।२४।।
मुसलेन तदा रामस्तच्छूलं शतधाच्छिनत् ।।
काचपात्रं यथा बालो दण्डेन च विदेहराट् ।।२५।
सहस्रभारसंयुक्तां गदां गुर्वीं प्रगृह्य च।।
बलं तताड हृदये जगर्ज घन्वत्खलः ।।२६।।
तद्गदायाः प्रहारेण कोलं कज्जलवत्तनुम्।।
मुसलेनाहनन्मूर्ध्नि बलदेवो महाबलः।।२७।।
मुसलाहत मूर्द्धापि पतितो रणमण्डले।।
मुष्टिघातं घातयित्वा तत्रैवांतरधीयत ।।२८।।
चकार मायां मायावी दैतेयीमतिभीषणाम् ।।
प्रलयप्रभवैर्मेघैमहावातप्रणोदितैः ।।२९।।
अंधकारं प्रकुर्वद्भिरभूदाच्छदितं नभः।।5.24.३०।।
जपापुष्पसमान्बिंदूनजस्रं रुधिरस्य च ।।
मोचयित्वाथ बीभत्स वर्षांश्चक्रुर्घनाघनाः ।।३१।।
पूयमेदोतिविण्मूत्रसुरामांससमन्विताः।।
दृष्ट्वा ताभिश्च वर्षाभिर्हाहाकारो बभूव ह ।। ३२ ।।
ज्ञात्वाथ तत्कृतां मायां बलदेवो महाप्रभुः ।।
चिक्षेप मुसलं दीर्घं परसैन्यविदारणम् ।।३३।।
सर्वास्त्रघातकं स्वच्छमष्टधातुमयं दृढम् ।।
शतयोजनविस्तीर्णं प्रलयाग्निसमप्रभम् ।।३४।।
बलास्त्रं मुसलं रेजे भ्रमद्दशदिगंतरे ।।
विदारयद्धनान्व्योम्नि नीहारं च यथा रविः ।। ३५ ।।
तद्व्योम्निप्रगतं दृष्ट्वा हलास्त्रं च स्वतः प्रभुः ।।
सभूत्याकृष्य च बलान्मध्ये तान्विददार ह ।। ३६ ।।
नाशं गतायां मायायां बलदेवो महाबलः ।।
गृहीत्वा भुजदण्डाभ्यां भुजदण्डे मदोत्कटे ।।३७।।
भ्रामयन्बाल इव तं प्रतूलं स इतस्ततः।।
पातयामास भूपृष्ठे कमण्डलुमिवार्भकः ।।३८।।
तस्य दैत्यस्य पातेन साब्धिशैलवनैः सह ।।
चकंपे नाडिकामात्रं सर्वभूखंडमण्डलम्।।३९।।
भग्नदंतश्चलन्नेत्रो मूर्च्छितो निधनं ययौ ।।
कोलो नाम महादैत्यो वृत्रो वज्रहतो यथा ।। 5.24.४० ।।
तदा जयजयारावो दिवि भूमौ बभूव ह ।।
देवदुंदुभयो नेदुः पुष्पवर्षाः सुरैः कृताः।।४१।।
इत्थं कोलं घातयित्वा बलदेवोच्युताग्रजः।।
दत्त्वाथ कौशारवये कौशांबीं च पुरीं ततः ।। ४२ ।।
स्नातुं भागीरथीं प्रागाद्गर्गाचार्यादिभिर्वृतः ।।
लोकानां संग्रहं कर्तुं सर्वदोषक्षयाय च ।।४३।।
स्नापयांचकुरार्यास्ते गंगायां माधवं बलम् ।।
वेदमंत्रैर्मंगलैश्च गर्गाचार्यादयो द्विजाः ।। ४४
लक्षं गजानां वैदेह स्यंदनानां द्विलक्षकम् ।।
हयानां च तथा कोटिं धेनूनामर्बुदं दश ।। ४५ ।।
शतार्बुदं च रत्नानां भारं जांबूनदावृतम् ।।
रामो दत्त्वा ब्राह्मणेभ्यः प्रययौ मथुरां पुरीम्।।४६।।
यत्र रामेण गंगायां कृतं स्नानं विदेहराट्।।
तत्र तीर्थं महापुण्यं राम तीर्थं विदुर्बुधाः ।। ४७ ।।
कार्तिक्यां कार्तिके स्नात्वा रामतीर्थे तु जाह्नवीम् ।।
हरिद्वाराच्छतगुणं पुण्यं वै लभते जनः ।। ४८ ।।
बहुलाश्व उवाच ।।
कौशांबेश्च कियद्दूरं स्थले कस्मिन्महामुने ।।
रामतीर्थं महापुण्यं मह्यं वक्तुं त्वमर्हसि ।। ४९ ।।
श्रीनारद उवाच ।।
कौशांबेश्च तदीशान्यां चतुर्योजनमेव च ।।
वायव्यां सूकरक्षेत्राच्चतुर्योजनमेव च ।।5.24.५० ।।
 कर्णक्षेत्राच्च षट्क्रोशैर्नलक्षेत्राच्च पंचभिः ।।
आग्नेय्यां दिशि राजेंद्र रामतीर्थं वदंति हि ।। ५१ ।।
वृद्धकेशी सिद्धिपीठाद्बिल्वकेशवनात्पुनः ।।
पूर्वस्यां च त्रिभिः क्रोशै रामतीर्थं विदुर्बुधाः ।।५२।।
दृढाश्वो वंगराजोभूत्कुरूपं लोमशं मुनिम् ।।
दृष्ट्वा जहास सततं तं शशाप महामुनिः।।५३।।
विकरालः क्रोडमुखोऽसुरो भव महाखल।।
इत्थं स मुनिशापेन कोलः क्रोडमुखोभवत्।।५४।।
बलदेवप्रहारेण त्यक्त्वा स्वामासुरीं तनुम् ।।
कोलो नाम महादैत्यः परं मोक्षं जगाम ह ।। ५६ ।।
ततो रामो मंत्रिभिश्च उद्धवादिभिरन्वितः ।।
जह्नुतीर्थं जगामाशु यत्र दक्षश्रुतेरभूत् ।। ५६ ।।
गंगाब्राह्मणमुख्यस्य जाह्नवी येन कथ्यते।।
दत्त्वा दानं द्विजातिभ्य ऊषू रात्रौ जनैः सह ।। ५७ ।।
ततस्तत्पश्चिमे भागे पांडवामतिप्रियम्।।
आहार स्थानकं प्राप्य रात्रौ वासं चकार ह।। ५८ ।। ।।
तत्र दानं द्विजातिभ्यो दत्त्वा सद्गुणभोजनम् ।।
ततो योजनमेकं च देवं मांडूकसंज्ञकम्।।५९।।
तपस्तप्तं महत्तेन चांते देव कृपाप्तये।।
तदर्थं स्वसमाजेन बलदेवो जगाम ह।।5.24.६०।।
ऊर्ध्वास्यमेकपादस्थं ध्यानस्तिमितलोचनम् ।।
स्वभक्तं हृदयस्थं स्वं मूर्तिदर्शनलोलुपम् ।।६१।।
तां जहार तदानंतस्ततो बाह्ये ददर्श ह ।।
स दृष्ट्वानंतदेवस्य रूपं परमसुन्दरम् ।। ६२।।
स्रग्व्येककुण्डलगौरं तालांकरथसंयुतम् ।।
स्तुत्वा परमया भक्त्या पपात चरणौ पुनः ।।६३।।
तस्य शीर्ष्णि करं दत्त्वा वरं ब्रूहीत्युवाच ह ।।
यदि प्रसन्नो भगवाननुग्राह्योस्मि वा यदि ।।६४।।
सर्वोत्तमां भागवतीं संहितां शुकवक्त्रतः ।।
निर्गतां देहि मे स्वामिन्कलिदोषहरां पराम् ।। ६५ ।।
बलदेव उवाच ।।
उद्धवद्वारतः प्राप्तिर्भविष्यति तवानघ ।।
श्रीमद्भागवतीकीर्तिरधिकाया कलौ युगे ।। ६६ ।।
मांडूक उवाच ।।
कथं भगवता दत्ता मुख्या तस्याधिकारिता ।।
कदा योगो मम स्वामिन्कुरु संदेहभंजनम् ।। ६७ ।।
बलदेव उवाच ।।
कथयामि परं गोप्यं रहस्यं परमाद्भुतम् ।।
अद्यापि मम सामीप्य उद्धवोयं विराजते ।। ६८ ।।
तद्दर्शनं कुरु परं पारमार्थप्रदायकम् ।।
अद्य तीर्थस्य यात्रायामुपदेशो न ते भवेत् ।। ६९ ।।
यथोपदेष्टा भवति तेन ते कथयाम्यहम् ।।
उद्धवः स्थापितः श्रीमदाचार्यः संहितामयः ।। 5.24.७० ।
नन्दादिव्रजवासिनां गोपिनां प्रीतये कृतः ।।
स्वस्वरूपं परिकरं यत्किंचिद्भगवत्तमम् ।।७१।।
सर्वस्वभावगुणकं कृष्णेन परमात्मना ।।
उद्धवं चैव स्वात्मानमेक एवाचरद्विभुः ।।७२।।
साक्षात्कारं चकारादौ न स्वीयमंतरं क्वचित् ।।
श्रीकृष्णमेव ते ज्ञात्वा पूजयामासुरादरात् ।।७३।।
वसन्तर्तुश्च ग्रीष्मो पि स चचारव्रजात्मकौ ।।
शमयामास राधायाः शोकं तत्कुण्डपार्श्वजाः।।७४।।
सर्वं भूमण्डलं तत्र विचचार व्रजानुगैः ।।
वियोगार्तिहरः प्रोक्तो गवां नंदादिगोपिनाम् ।। ७५ ।।
मंत्राधिकारकुशलः सर्वपरिकराग्रणीः ।।
अथांतर्धानवेलायां भगवान्धर्मगुप्तनुः।। ७६ ।।
तस्मै स्वतैजसमपि दास्यते परमाद्भुतम्।।
मुद्राधिकारं सर्वत्र सर्वदैव विराजते।।७७।।
अंतर्धानेतु तु स्वस्थाने दत्ता तस्याधिकारिता।।
बदरीस्थं सपरकरं धर्मजं बोधयिष्यति।।७८।।
अर्जुनादिवियोगार्तिहारी सैव भविष्यति।।
वज्रनाभो यादवानां माथुरे संभविष्यति।।७९।।
श्रीकृष्णस्यैव पौत्रेषु महाराज्ञीगणेषु च।।
वियोगार्तिहरश्चैव स्थाप्यते श्री हरिः स्वयम्।।5.24.८०।।
कौरवाणां कुले राजा परिक्षिदिति विश्रुतः।।
तस्य पुत्रोतितेजस्वी विख्यातो जनमेजयः ।।८१।।
पितुःशत्रुहणं यज्ञं करिष्यति न संशयः ।।
तस्यापि सर्वसामग्री उद्धवद्वारतो भवेत् ।।८२।।
श्रीमद्भागवतं दिव्यं पुराणं वाचनं तदा।।
गौरान्वयस्य संप्राप्तिर्भविष्यति न संशयः।।८३।।
श्रीमत्प्रसादाद्विप्रर्षेर्महाभागवतोत्तमात्।।
तददारसर्पयज्ञस्य निवृत्तिः संभविष्यति।।८४।।
यज्ञसंस्कारकर्तॄणां ब्राह्मणानां च पूजनम्।।
स दासयति महाराजा ग्रामाणां शतकं तथा।।८५।।
ततस्त्वाचार्यवर्यस्य श्रीप्रसादस्य चाज्ञया ।।
स गंता सूकरक्षेत्रं मासमेकं स्थितो भवेत् ।। ८६ ।।
दत्त्वा दानान्यनेकानि गोमहागजवाजिनः ।।
रत्नं वासो ब्राह्मणेभ्यो भोजनं च यदृच्छया।।८७।।
तत्तस्मात्तत्स्थलात्सोपि निवर्त्य गुरुणा सह।।
गंगातीरस्थलान्पश्यन्नागमिष्यति सद्वृतः।।८८।।
एकच्छत्र शयान नगरे संस्थां करिष्यति सहानुगः ।।
श्रीगुरोराज्ञया तत्र सामग्रीं साधनैः सह ।। ८९ ।।
अश्वमेधं करोति स्म सर्वजेता भविष्यति ।।
एकच्छत्र धरो भूत्वा श्रीगुरोः शरणं गतः ।। 5.24.९० ।।
ततो गंगातटे रम्ये पूर्वस्यां क्रोशपंचके ।।
परमैकांतरूपेण सेवनं तत्करिष्यति ।। ९१ ।।
तत्र भागवती वार्ता भवरोगविनाशिनी ।।
भविष्यति मुदायुक्ता समाजेषु धर्मिणाम् ।।९२।।
तत्र पूर्णसमाजेषु तेषां मध्येभवानपि।।
शृणोषि भागवद्धर्मं गंताश्री निर्मलं पदम् ।। ९३ ।।
तपस्तप्तं मदर्थं ते तस्मादेतत्प्रकाशितम् ।।
एवं देवं वरं दत्त्वा गतो रामः सहानुगः ।।९४।।
शयाननगगच्छुद्धादीशान्यां दिशि संस्थितम् ।।
स्थानं गंगातटे रम्यं कंटकादुत्तरेभवत् ।। ९५ ।।
पुष्पवत्या दक्षिणे तु क्रोशैकं विस्तरेण च ।।
तत्र संकर्षणो देवः स्थित्वा दानपरोभवत् ।। ९६ ।।
घोटकं दशसाहस्रं रथानां शतकं तथा ।।
द्विपसहस्रं गाश्चैव दक्सहस्रं ददौ मुदा ।।९७।।
तत्र संकर्षणं देवं पूजयामासुरादरात् ।।
देवाः समाययुः सर्वे ऋषयश्च त- पोधनाः ।। ९८ ।।
नमः कोलेशघाताय खरासुरविघातिने ।।
हलायुध नमस्तेस्तु मुसलास्त्राय ते नमः ।।
नमः सौंदर्यरूपाय तालांकाय नमोनमः ।। ९९ ।।
इति श्रुत्वा स्तुतिं तेषां संकर्षण उवाच ह ।।
वरं ब्रुवंतु मां सर्वे भवतां यदभीप्सितम् ।। 5.24.१०० ।।
द्विजदेवा ऊचुः ।।
यदायदा पदयुक्ताः स्मरामो भवतः पदम् ।।
सर्वबाधाविनिर्मुक्ता भवामश्च तवाज्ञया ।। १०१।
।। राम उवाच ।।
यदायदा मां स्मरथ तदाहं शरणागतान् ।।
रक्षितास्यां कलौ नूनमिति सत्यं वचो मम ।। २ ।।
अत्र स्थले वरं प्राप्तं पूजितं मुनिपुंगवैः।।
अतः संकर्षणस्थानं भविष्यति कलौयुगे ।। ३ ।।
येऽस्मिन्स्नास्यंति गंगायां देवान्संपूजयंति ये ।।
दास्यंति दानं विप्रेभ्यो भोजनं कारयंति ये ।। ४ ।।
विष्णुं संपूजयंति स्म सफलं जीवितं क्षितौ ।।
ते यान्ति दैवतस्थानं कामी प्राप्नोति कामनाम् ।। ५ ।।
ततः परिवृतो रामः स्वां पुरीं संजगाम ह ।।
कोलरक्षोवधं कृत्वा स्नात्वा विष्णुपदीजले ।।६।।
रामस्य बलदेवस्य कथां यः शृणुयान्नरः।।
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ।।१०७।।
इति श्रीमद्गर्गसंहितायां मथुराखण्डे नारदबहुलाश्वसंवादे कोलदैत्यवधोनाम चतुर्विंशोऽध्यायः ।। २४ ।।