गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५६

विकिस्रोतः तः
← गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५५ गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५६
गर्गमुनि
गर्गसंहिता/खण्डः १० (अश्वमेधखण्डः)/अध्यायः ५७ →


गर्ग उवाच ।।
उग्रसेनस्य यज्ञे वै हयमेधे महात्मनः ।।
तस्यासन्परिचर्यायां बांधवा प्रेमबंधनाः ।। १ ।।
ततश्चकार यदुराण् ना- नाकर्मसुबांधवान् ।।
भीमं महानसाध्यक्षं धर्मं धर्मस्य पालने ।। २ ।।
शुश्रूषणे सतां जिष्णुं नकुलं द्रव्यसाधने ।।
पूजने सहदेवं च धनाध्यक्षं सुयोधनम् ।। ३ ।।
दाने च दानिनं कर्णं द्रौपदीं परिवेषणे ।।
रक्षायां कृष्णपुत्रान्वै ह्यष्टादशमहारथान् ।।४।।
युयुधानं विकर्णं च हृदीकं विदुरं तथा ।।
अक्रूरमुद्धवं चैव नानाकर्मसु भूपतिः ।। ५
कृत्वा प्रत्याह श्रीकृष्णं देव्त्वं किं करिष्यसि ।।
श्रुत्वा कृष्ण उवाचाथ बाह्मणानां करोम्यहम् ।। ६ ।।
पादप्रक्षालनं राजन्निंद्रप्रस्थे कृतं मया ।।
इति श्रुत्वा च ब्रह्माद्या जहसुर्भूजनास्तथा ।। ७ ।।
गर्ग उवाच ।।
इत्युक्त्वा भगवान्साक्षादृषीणां च तपस्विनाम् ।।
पादप्रक्षालनं कृत्वा स्थापयामास तान्नृप ।।८।।
आसनेषूपविष्टास्ते वासांसि परिधाय च ।।
तिलकैर्द्वादशैर्युक्ता दिव्याभरणभूषिताः।।९।।
नानामतानां मालाभिर्युक्ताः कर्पूरवीटकान् ।।
भुक्त्वा ते रेजिरे यज्ञे देवा इव महीसुराः।।10.56.१०।।
ततोर्थिनो भिक्षवश्च विरक्ताश्च बुभुक्षिताः।।
कुर्वंति याचनां सर्वे दूरदेशात्समागताः ।। ११ ।।
ददस्वान्नं ददस्वान्नं ददस्वान्नं नरेश्वर ।।
उपानहश्च पात्राणि वस्त्राणि कंबलानि च।।१२।।
उग्रसेनस्य यज्ञे वै मुनि- वृंदैर्नृपैर्वृते ।।
तेषां तां करुणां वाचं निशम्य यदुसत्तमः ।। १३ ।।
सुवर्णं रजतं चैव वस्त्राणि भाजनानि च ।।
गजाश्वरथगोछत्र शिबिकादीनि हर्षितः ।।१४।।
येषांयेषां प्रियं यद्वै तेभ्यस्तेभ्यो ददौ नृपः ।।
उग्रसेनः कृतस्नानः क्रतुकर्मणि दीक्षितः ।।१५।।
असिपत्रव्रतधरो रुचिमत्या बभौ ततः ।।
विप्रा विंशतिसाहस्रा वेदशास्त्रविशारदाः ।। १६ ।।
व्यासगर्गादयश्चैव कारयंति क्रतूत्तमम् ।।
हस्तिशुण्डासमाधारा ह्यग्निकुंडे पपात ह ।।१७।।
घृतस्य च नृपश्रेष्ठ मुनिभिर्ब्रह्मवादिभिः।।
तद्यज्ञे कृष्णकृपया ह्यनलो जीर्णतां ययौ।।१८।।
ततः प्रोवाच वह्निस्तु सर्वेषां शृण्वतां नृपम् ।।
प्रसन्नोहं प्रसन्नोहं पशुं मम प्र- यच्छ वै ।। १९ ।।
निशम्य चाग्नेर्वचनं सभायां श्रीयादवेन्द्रो मुनिभिः समं च ।।
बद्धं तुरंगं तपनीय यूपे हिरण्यदाम्ना च तमाह भूपः ।। 10.56.२० ।।
उग्रसेन उवाच ।।
अग्नेर्वाक्यं शृणु हय शुद्धं त्वां च पशुं क्रतोः ।।
भक्षयिष्यति वह्निस्तु घृतैस्तृप्तोपि चाध्वरे ।। २१ ।।
नृपस्य वचनं श्रुत्वा श्याम- कर्णस्तुरंगमः ।।
कृष्णं विलोकयन्प्रीतो कंपयामास स्वाननम् ।।२२।।
ततो हयमतं ज्ञात्वा वेदव्यासः समं मया ।।
मण्डपे मुनिभिर्युक्ते श्रीकृष्णाद्यैर्नृ- पैर्वृते ।। २३ ।।
ब्राह्मणैः क्षत्रियै वैश्यैः शूद्रैर्यज्ञदिदृक्षुभिः ।।
स्त्रीभिर्युते प्रलंबघ्नं प्राह द्वैपायनो मुनिः ।। २४ ।।
व्यास उवाच ।।
उत्तिष्ट बलभद्र त्वं करवालं प्रगृह्य च ।।
छिंधिकं वाजिनश्चाग्नेः प्रीतये ह्यधुना त्वरम् ।।२५।।
निहते तुरगे राम हवने च कृते सति ।।
यज्ञावतारः कृष्णस्तु प्रसन्नो भवति क्रतौ ।। २६ ।।
गर्ग उवाच ।।
एवं व्यासवचः श्रुत्वा बलः खड्गेन सत्वरम् ।।
शिरो हयस्य चिच्छेद तच्छिरो गगनं ययौ ।। २७ ।।
गत्वार्द्धं नृपशार्दूल लीनं तद्रविमंडले ।।
देव दैत्य नराः सर्वे तद्दृष्ट्वा विस्मयं गताः।।२८।।
हयस्य हृदये शूलं निजघान हसन्हरिः ।।
मकरंदसमाधारा राजँस्तत्र विनिर्गता ।।२९।।
ततश्च निर्गता ज्योतिस्तुरगस्य कलेवरात् ।।
पश्यतां चैव सर्वेषां विवेश मधुसूदने ।।10.56.३० ।।
पश्चाद्भूत्वा च कर्पूर शरीरं पतितं पशोः ।।
गात्रा च्युतायथा राजन्विभूतिः शंकरस्य च ।। ३१ ।।
दृष्ट्वा च कर्पूरसमूहमद्भुतं सभां सुगंधेन वृतां च द्वारकाम् ।।
व्यासादयस्ते मुनयः प्रहर्षिता ऊचुर्नृपं वै क्रतुकर्मणिस्थितम् ।।३२।।
दिष्ट्या ते नृपशार्दूल सफलोभूत्क्रतूत्तमः ।।
कर्पूरेणापि हवनं करिष्यामश्च त्वं कुरु। ।। ३३ ।।
इत्युक्त्वा ऋत्विजः सर्वे यज्ञकुंडे च तत्क्षणात् ।।
घनसारं हि जुहुवुः पूर्वं यज्ञेश्वराय च ।। ३४ ।।
यत्र यज्ञेश्वरः कृष्णश्चतुर्व्यूहधरः परः ।।
रेजे पुत्रैश्च पौत्रैश्च तत्र किं दुर्लभं नृप ।। ३५ ।।
तस्मिन्यज्ञे महेन्द्राय वचः प्रकथितं मया ।।
गृहाण शक्र यज्ञेस्मिन्कर्पूरस्याहुतिं विभो ।।३६ ।।
एहि राज्ञार्पितां चैनां कलावग्रे हि दुर्लभाम् ।।
इति श्रुत्वा च वचनं शक्रः प्रोवाच सस्मितम्।।३७।।
पुनर्गृह्णामि मुनयो धर्मराजक्रतूत्तमे ।।
कुलक्षये गजपुरे प्रदत्तामाहुतिं द्विजैः ।। ३८ ।।
इति श्रुत्वा हरेर्वाक्यं सत्यं मत्वा मुनीश्वराः।।
सर्वान्देवान्नृपश्रेष्ठ ह्यध्वरे चाहुतिं ददुः।।३९।।
अग्नये स्वाहेति मन्त्रैश्च सर्वानेवाहुतीर्ददुः ।।10.56.४०।।
कर्पूरहवनेनापि प्रीतं विश्वं चराचरम्।।
उग्रसेनस्तु राजा वै निर्ऋणोभून्महाध्वरे।।४१।।
उग्रसेनो द्विजोत्तमैः ।।
कृष्णाद्यैर्यादवैर्भूपैस्तीर्थे पिण्डारके करोत् ।।४२।।
भार्यया सहितः स्नात्वा वेदोक्तविधिना नृपः।।
धृत्वा क्षौमांबरं रेजे यज्ञो दक्षिणया यथा ।। ४३ ।।
देवदुंदुभयो नेदुर्नरदुंदुभयस्तदा ।।
उग्रसेनोपरि सुराः पुष्पवर्षं प्रचक्रिरे ।।४४।।
कारयित्वा स्वधापानं प्रा- शयित्वा यथाक्रमम् ।।
सर्वेभ्यश्च पुरोडाशं दत्त्वा शेषमथासृजत् ।। ४५ ।।
उग्रसेनं च वादित्रैस्तुष्टुवुर्वंदिनो मुदा ।।
ततो नीराजनं चकुर्देवक्या- द्याश्च योषितः ।। ४६ ।।
अलंकाराश्च रत्नानि वस्त्राणि विविधानि च ।।
नीराजनांते प्रददौ ताभ्यः प्रीतो नृपेश्वरः ।। ४७ ।।
इति श्रीमद्गर्गसंहितायामश्वमेधखण्डे यज्ञपूर्तौ नृपस्याभिषेकोनाम षदपंचाशत्तमोऽध्यायः ।। ५६ ।।



वर्गःगर्ग संहिता