गरुडपुराणम्/आचारकाण्डः/अध्यायः २३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← आचारकाण्डः, अध्यायः २२ गरुडपुराणम्
अध्यायः २३
वेदव्यासः
आचारकाण्डः, अध्यायः २४ →


।।सूत उवाच ।।
शिवार्चनं प्रवक्ष्यामि धर्म्मकामादिसाधनम् ।।
त्रिभिर्मन्त्रैराचामेत्तु स्वाहान्तैः प्रणवादिकैः ।। 23.1 ।।

ॐ हां आत्मतत्त्वाय विद्यातत्त्वाय हीं तथा ।।
ॐ हूं शिवतत्त्वाय स्वाहा हृदा स्याश्रोत्रवंदनम् ।। 23.2 ।।

भस्मस्न्नानं तर्पणं च ॐ हां स्वाहा सर्वमन्त्रकाः ।।
सर्वे देवाः सर्वमुनिर्नमोऽन्तो वौषडन्तकः ।। 23.3 ।।

स्वधान्ताः सर्वपितरः स्वधान्ताश्च पितामहाः ।।
ॐ हां प्रपितामहेभ्यस्तथा मातामहादयः ।। 23.4 ।।

हां नमः सर्वमातृभ्यस्ततः स्यात्प्राणसंयमः ।।
आचामं मार्जनं चाथो गायत्रीं च जपेत्ततः ।। 23.5 ।।

ॐ हां तन्महेशाय विद्महे, वाग्विशुद्धाय धीमहि, तन्नो रुद्रः प्रचोदयात् ।। 23.6 ।।

सूर्य्योपस्थानकं कृत्वा सूर्य्यमन्त्रैः प्रपूजयेत् ।।
ॐ हां हीं हूं हैं हौं हः शिवसूर्य्याय नमः ।।
ॐ हं खखोल्काय सूर्य्यमूर्त्तये नमः ।।
ॐ ह्रां ह्रीं सः सूर्य्याय नमः ।। 23.7 ।।

दण्डिने पिङ्गले त्वातिभूतानि च ततः स्मरेत् ।।
अग्नयादौ विमलेशानमाराध्य परमं सुखम् ।। 23.8 ।।

यजेत्पद्मां च रां दीप्तां रीं सूक्ष्मां रूं जयां च रें ।।
भद्रां च रैं विभूतिं रों विमलां रौममोधि (रोधि) काम् ।। 23.9 ।।

रं विद्युतां च पूर्वादौ रा (रं) मध्ये सर्वतोमुखीम् ।।
अर्कासनं सूर्य्यमूर्त्तिं ह्रां ह्रूं (ह्रीं) सः सूर्य्यमर्च्चयेत् ।। 23.10 ।।

ॐ आं हृदयार्काय च शिरः शिखा च भूर्भुवः स्वरोम् ।।
ज्वालिनीं ह्रं कवचस्य चास्त्रं राज्ञां च दीक्षिताम् ।। 23.11 ।।

यजेत्सूर्य्यहृदा सर्वान्सों सोमं मं च मंगलम् ।।
बं बुधं बृं बृहस्पतिं भं भार्गवं शं शनैश्चरम् ।। 23.12 ।।

रं राहुं कं यजेत्केतुं ॐ तेजश्चण्डमर्च्चयेत् ।।
सूर्य्यमभ्यर्च्य चाचम्य कनिष्ठातोऽङ्गकांन्यसेत् ।। 23.13 ।।

हां हृच्छिरो हूं शिखा हैं वर्म्म हौं चैव नेत्रकम् ।।
होऽस्त्रं शक्तिस्थितिं कृत्वा भूतशुद्धिं पुनर्न्यसेत् ।। 23.14 ।।

अर्घ्यपात्रं ततः कृत्वा तदद्भिः प्रोक्षयेद्यजेत् ।। 23.15 ।।

आत्मानं पद्मसंस्थं च हौं शिवाय ततो बहिः ।।
द्वारे नन्दिमहाकालौ गंगा च यमुनाथ गौः ।। 23.16 ।।

श्रीवत्सं वास्त्वधिपतिं ब्रह्माणं च गणं गुरुम् ।।
शक्त्यनन्तौ यजेन्मध्ये पूर्वादौ धर्म्मकादिकम् ।। 23.17 ।।

अधर्म्माद्यं च वह्न्यादौ मध्ये पद्मस्य कर्णिके ।।
वामाज्येष्ठा च पूर्वादौ रौद्री काली च पूर्षदः ।। 23.18 ।।

ॐ हौं कलविकरिण्यै बलविकरिणी ततः ।।
बलप्रमथिनी सर्वभूतानां दमनी ततः ।। 23.19 ।।

मनोन्मनी यजेदेताः पठिमध्ये शिवाग्रतः ।।
शिवासनं महामूर्त्ति मूर्त्तिमध्ये शिवाय च ।। 23.20 ।।

आवाहनं स्थापनं च सन्निधानं निरोधनम् ।।
सकलीकरणं मुद्रादर्शनं चार्घ्यपाद्यकम् ।। 23.21 ।।

आचामाभ्यङ्गमुद्वर्त्तं स्नानं निर्म्मथनं चरेत् ।।
वस्त्रं विलेपनं पुष्पं धूपं दीपं चरुं ददेत् ।। 23.22 ।।

आचामं मुखवासं च ताम्बूलं हस्तशोधनम् ।।
छत्रचामरपावित्रं परमीकरणं चरेत् ।। 23.23 ।।

रूपकल्पके चैकाहजपो जाप्यसमर्पणम् ।।
स्तुतिर्नतिर्हृदाद्यैश्च ज्ञेयं नामाङ्ग पूजनम् ।। 23.24 ।।

अग्नीशरक्षो वायव्ये मध्ये पूर्वादितन्त्रकम् ।।
इन्द्राद्यांश्च यजेच्चण्डं तस्मै निर्माल्यमर्पयेत् ।। 23.25 ।।

गुहायातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।।
सिद्धिर्भवतु मे देव तत्प्रसादात्त्वयि स्थितिः ।। 23.26 ।।

यत्किञ्चित्क्रियते कर्म सदा सुकृतदुष्कृतम् ।।
तन्मे शिवपदस्थस्य रुद्र क्षपय शङ्कर ।। 23.27 ।।

शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत् ।।
शिवो जयति सर्वत्र यः शिवः सोऽहमेव च ।। 23.28 ।।

यत्कृतं यत्करिष्यामि तत्सर्वं सुकृतं तव(तस्तवम्) ।।
त्वं त्राता विश्वनेता च नान्योनाथोऽस्तिमेशिव ।। 23.29 ।।

अथान्येन प्रकारेण शिवपूजां वदाम्यहम् ।।
गणः सरस्वती नंदी महाकालोऽथगंगया ।। 23.30 ।।

पवनास्त्रं वास्त्वधिपो द्वारि पूर्वादितस्त्विमे ।।
इंद्राद्याः पूजनीयाश्च तत्त्वानि पृथिवी जलम् ।। 23.31 ।।

तेजो वायुर्व्योम गंधो रसरूपे च शब्दकः ।।
स्पर्शो वाक् पाणि पादं च पायूपस्थं श्रुतित्वचम् ।। 23.32 ।।

चक्षुर्जिह्वा घ्राणमनो बुद्धिश्चाहं प्रकृत्यपि ।।
पुमान्नागो बुद्धिविद्ये कला कालो नियत्यपि ।। 23.33 ।।

माया च शुद्ध विद्या च ईश्वरश्च सदाशिवः ।।
शक्तिः शिवश्च तान्ज्ञात्वा मुक्तो ज्ञानी शिवो भवेत् ।। 23.34 ।।

यः शिवः स हरिर्ब्रह्मा सोऽहं ब्रह्मास्मि शङ्कर ।। 23.35 ।।

भूतशुद्धिं प्रवक्ष्यामि यया शुद्धः शिवो भवेत् ।।
हृत्पद्मे सद्योमंत्रः स्यान्निवृत्तिश्च कला इडा ।। 23.36 ।।

पिंगला द्वे च नाड्यौ तु प्राणोऽपानश्च मारुतौ ।।

इन्द्रो देहो ब्रह्महेतुश्चतुरस्त्रं च मण्डलम् ।। 23.37 ।।
महाभूत mahabhuta


वक्त्रेण लाञ्छितं वायुमेकोद्धातगुणाः शराः ।।
हृत्स्थानसादृश्यरुतं शतकोटिप्रविस्तरम् ।। 23.38 ।।

ॐ ह्रीं प्रतिष्ठायै ह्रूं ह्रः फट् ।।
ॐ ह्रीं ह्रूं विद्यायै ह्रं ह्रः फट् ।।
चतुरशीतिकोटीनामुच्छ्रयं भूमितन्त्रकम् ।। 23.39 ।।

तन्मध्ये भववृक्षं च आत्मानं च विचिन्तयेत् ।।
अधोमुखीं ततः पृथ्वीं तत्तच्छुध्दं भवेद्ध्रुवम् ।। 23.40 ।। द्र. अग्निपुराणम् ७४.१८, विष्णुधर्मोत्तरपुराणम् ३.१५२.४, शिवपुराणम् १.१०


वामादेवी प्रतिष्ठा च सुषुम्ना धारिका तथा ।।
समानोदानवरुणौ देवता विष्णु कारणम् ।। 23.41 ।।

उद्धाताश्च गुणा वेदाः श्वेतं ध्यानं तथैव च ।।
एवं कुर्य्यात्कण्ठपद्ममर्द्धचन्द्राख्यमण्डलम् ।। 23.42 ।।

पद्मांकितं द्विविंशतिककोटिविस्तीर्णमौ स्मरेत् ।।
चतुर्नवत्युच्छ्रयं च आत्मानं च अधोमुखम् ।। 23.43 ।।

तालुस्थानं च पद्मं च अघोरो विद्ययान्वितः ।।
नाभ्यो(ड्यो) ष्ठयोर्हस्तिजिह्वाध्यानो नागोग्निदेवता ।। 23.44 ।।

रुद्रहेतुस्त्रिरुद्धातास्त्रिगुणा रक्तवर्णकम् ।।
ज्वालाकृते त्रिकोणं च चतुः कोटिशतानि च ।। 23.45 ।।

विस्तीर्णं च समुत्सेधं रुद्रतत्त्वं विचिन्तयेत् ।।
ललाटे वै तत्पुरुषः शान्तिर्यः शाद्वलं बुधाः (वृषा) ।। 23.46 ।।

कूर्मश्च कृकरो वायुर्देव ईश्वरकारणम् ।।
द्विरुद्धातो गुणौ द्वौ च धूम्रषट्‌कोणमण्डलम् ।। 23.47 ।।

बिंद्वङ्कितं चाष्टकोटिविस्तीर्णं चोच्छ्रयस्तथा ।।
चतुर्दशाधिकं कोटिवायुतत्त्वं विचिन्तयेत् ।। 23.48 ।।

द्वादशति सरसिजे शान्त्यतीतास्तथेश्वराः ।।
कुहूश्च शङखिनी नाड्यो देवदत्तो धनञ्जयः ।। 23.49 ।।

शिखेशानकारणं च सदाशिव इति स्मृतः ।।
गुण एकस्तथोद्धातः शुद्धस्फटिकवत्स्मरेत् ।। 23.50 ।।

षोडशकोटिविस्तीर्णं पञ्चविंशतिकोच्छ्रयम् ।।
वर्त्तुलं चिंतयेव्द्योम भूतशुद्धिरुदाहृता ।। 23.51 ।।

गुणयो गुरुर्बीजगुरुः शक्तयनंतौ च धर्म्मकः ।।
ज्ञानवैराग्यमैश्वर्य्यैस्ततः पूर्वादिपत्रके ।। 23.52 ।।

अधोर्द्ध्ववदने द्वे च पद्मकर्णिककेसरम् ।।
वामाद्या आत्मविद्या च सदा ध्यायेच्छिवाख्यकम् ।। 23.53 ।।

तत्त्वं शिवासने मूर्त्तिर्ही हौं विद्यादेहाय नमः ।।
बद्धपद्मासनासीनः सितः षोडशवार्षिकः ।। 23.54 ।।

पञ्चवक्त्रः कराग्रैः स्वैर्दशभिश्चैव धारयन् ।।
अभयं प्रसादं शक्तिं शूलं खट्वाङ्गमीश्वरः ।। 23.55 ।।

दक्षैः करैर्वामकैश्च भुजंगं चाक्षसूत्रकम् ।।
डमरुकं नीलोत्पलं बीजपूरकमुत्तमम् ।। 23.56 ।।

इच्छाज्ञानक्रियाशक्तिस्त्रिनेत्रो हि सदाशिवः ।।
एवं शिवार्च्चनध्यानी सर्वदा कालवर्जितः ।। 23.57 ।।

इहाहोरा वचारेण त्रीणि वर्षाणि जीवति ।।
दिनद्वयस्य चारेण जीवेद्वर्षद्वयं नरः ।। 23.58 ।।

दिनत्रयस्य चारेण वर्षमेकं स जीवति ।।
नाकाले शीतले मृत्युरुष्णे चैव तु कारके ।। 23.59 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे शिवार्चननिरूपणं नाम त्रयोविंशोऽध्यायः ।। 23 ।।(इति शिवादि पूजा समाप्ता) ।।