गणेशभुजङ्गम् (मूलसहितम्)

विकिस्रोतः तः
गणेशभुजङ्गम्
शङ्कराचार्यः
१९१०

॥ श्रीः॥

॥ गणेशभुजंगम् ॥


रणत्क्षुद्रघण्टानिनादाभिरामं
 चलत्ताण्डवोद्दण्डवत्पद्मतालम् ।
लसत्तुन्दिलाङ्गोपरिव्यालहारं
 गणाधीशमीशानसूनुं तमीडे ॥ १ ॥

ध्वनिध्वंसवीणालयोल्लासिवक्त्रं
 स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् ।
गलद्दर्पसौगन्ध्यलोलालिमालं
 गणाधीशमीशानसूनुं तमीडे ॥ २ ॥

प्रकाशज्जपारत्करत्नप्रसून-
 प्रवालप्रभातारुणज्योतिरेकम् ।
प्रलम्बोदरं वक्रतुण्डैकदन्तं
 गणाधीशमीशानसूनुं तमीडे ॥ ३ ॥

विचित्रस्फुरद्रत्नमालाकिरीटं
 किरीटोल्लसञ्चन्द्ररेखाविभूषम् ।
विभूषैकभूषं भवध्वंसहेतुं
 गणाधीशमीशानसूनुं तमीडे ॥ ४ ॥

उदञ्चद्भुजावल्लरीदृश्यमूलो-
 च्चलद्भ्रूलताविभ्रमभ्राजदक्षम् ।
मरुत्सुन्दरीचामरैः सेव्यमानं
 गणाधीशमीशानसूनुं तमीडे ॥ ५ ॥

स्फुरन्निष्ठुरालोलपिङ्गाक्षितारं
 कृपाकोमलोदारलीलावतारम् ।
कलाबिन्दुगं गीयते योगिवर्यै-
 र्गणाधीशमीशानसूनुं तमीडे ॥ ६ ॥

यमेकाक्षरं निर्मलं निर्विकल्पं
 गुणातीतमानन्दमाकारशून्यम् ।
परं पारमोंकारमाम्नायगर्भं
 वदन्ति प्रगल्भं पुराणं तमीडे ॥ ७ ॥

चिदानन्दसान्द्राय शान्ताय तुभ्यं
 नमो विश्वकर्त्रे च हर्त्रे च तुभ्यम् ।
नमोऽनन्तलीलाय कैवल्यभासे
 नमो विश्वबीज प्रसीदेशसूनो ॥ ८ ॥

इमं सुस्तवं प्रातरुत्थाय भक्त्या
 पठेद्यस्तु मर्त्यो लभेत्सर्वकामान् ।
गणेशप्रसादेन सिध्यन्ति वाचो
 गणेशे विभौ दुर्लभं किं प्रसन्ने ॥ ९ ॥