गणेशपुराणम्/खण्डः २(क्रीडाखण्डम्)/अध्यायाः ०९१-०९५

विकिस्रोतः तः
← अध्यायाः ८६-९० गणेशपुराणम् - खण़्डः २(क्रीडाखण्डम्)
अध्यायाः ९१--९५
[[लेखकः :|]]
अध्यायाः ९६-१०० →

अध्याय ९१ प्रारंभ :-
क उवाच ।
ततो द्वितीये वर्षे स बालो बालैरसंख्यकैः ।
चिक्रीड वाटिकामध्ये नानाद्रुमलताकुले १
फलानि भक्षयामास खर्जूरीपनसानि च ।
ददौ तेभ्योऽतिबलात्स पातयित्वा बहून्यपि २
कूटो नाम महादैत्यः कूटमायाकरः खलः ।
तत्तृषाकालमाज्ञाय वापिकायां विषाणि सः ३
लोडयामास दुर्बुद्धिः सर्वेषां हि जिघांसया ।
येषां तु स्पर्शमात्रेण म्रियन्ते प्राणिनः क्षणात् ४
यदुत्थवायुना स्पृष्टा निपतन्ति खगा भुवि ।
ततः कूटो गतस्तत्र तस्थौ नाशदिदृक्षया ५
ततस्ते बालकाः पातुमज्ञानात्तु जलं ययुः ।
पपुः सर्वे स्वचुलकैरञ्जलीभिश्च केचन ६
मृतान्मत्स्यान्समादाय बहिर्याता मृतास्तदा ।
रक्षको ग्राममध्ये तु घोषयामास तन्मृतिम् ७
ततो महारवं कृत्वा तत्रायुः सर्वनागराः ।
घ्नन्तः पाणितलैर्वक्षः पाषाणैरपरे शिरः ८
हाहाकारो महानासीत्पंवधूयोषितामपि ।
तेषामाक्रन्दनं श्रुत्वा शिवाया अपि बालकः ९
अजीवयद्दृष्टिपातैः सर्वांस्तान्पुरबालकान् ।
क्रूरदृष्ट्या कूटदैत्यं मृतं भूमौ न्यपतयत् २.९१.१०
पंचयोजनविस्तीर्णा चूर्णितां तेन वाटिकाम् ।
ददृशुर्नागराः सर्वे कतिचिच्च पलायिताः ११
सोऽजीवयज्जलचरान्निर्विषां वापिकां व्यधात्।
स्वं स्वं बालं समादाय सर्वे ते स्वालयं ययुः १२
प्रशशंसुः शिवा बालं निनिन्दुर्नास्तिकाः खलाः ।
अस्य संगादरिष्टानि नश्यन्तीति परेऽब्रुवन् १३
ततस्तृतीयवर्षे तु प्रातःकालेऽद्रिजासुतः ।
वंचयित्वा बहिर्यातो मुनिबालास्तमन्वयुः १४
अहोरात्रवियोगेन परस्परमथाश्लिषन् ।
त ऊचुर्निशि देव त्वा स्वप्ने पश्याम सर्वदा १५
रात्रिर्युगसमा देव जायते त्वामपश्यताम् ।
इदानीं त्वां निरीक्ष्यैव प्रसन्नाः स्मोऽखिला वयम् १६
क्रीडामोऽद्य महासत्त्वं द्वन्द्वीभूय यथासुखम् ।
ततोऽर्धं एकतो भूत्वा परेऽर्धे परतोऽपि च १७
अभ्यघ्नन्पंकगोलेन नादयन्तोऽथ रोदसी।
आह्लादेनाथ युध्यन्तो विकर्षन्तः परस्परम् १८
रमन्तस्ते ययुर्दूरमाश्रमं कस्यचिन्मुनेः ।
सरोवरे तत्र रेमुर्योजनायतविस्तरे १९
सिच्चन्तोऽञ्जलिभिर्वारि द्वन्द्वीभूता यथा पुरा ।
निमज्य स्कन्धमारुह्य मज्जयन्तो बलात्परम् २.९१.२०
ततो दैत्यो मत्स्यरूपी तेषु क्रीडारतोऽभवत् ।
आस्फालयन्कराघातैस्तज्जलं तेषु पुच्छतः २१
कलुषात्तज्जलाद्भंगाज्जग्मुस्तीरं मुहुर्मुहुः ।
तीरे दृष्ट्वाऽद्रिजापुत्रं मत्स्यस्तन्निकटं ययौ २२
व्यादाय वदनं दध्रे तदंघ्री विचकर्ष च ।
निनाय धाव धावेति कोशयन्तं महाजले २३
निमज्ज्य स जले तेन चिरकालं महासुरः ।
अरोदिषुर्मुनिसुता मग्नं वीक्ष्याद्रिजासुतम् २४
हाहाकारं प्रकुर्वन्तः करपृष्ठोष्ठसंयुतम् ।
केचिद्गत्वा सरो रम्यं पश्यन्तो ददृशुर्न तम् २५
भवानीताडनाद्भीताः केचिद्बालाः पलायिताः ।
केचित्ते बालका गत्वाऽशंसन्मग्नं शिशुं च तम् २६
सर्वान्नः क्रीडतो हित्वा नीतो मत्स्येन बालकः ।
क उवाच ।
श्रुत्वा तद्वचनं गौरी मूर्च्छिता पतिता भुवि २७
मुहूर्ताच्चेतनां लब्ध्वा रोदमाना ययौ बहिः। ।
मुंचंन्ती नेत्रजं वारि मस्तकात्पतितांचला २८
स्खलन्ती निःश्वसन्ती च पतन्ती धरणीतले ।
सख्यस्तामन्वयुः काश्चिद्धित्वा कार्याणि सत्वराः २९
सरस्तीरं शीघ्रतरमागता सखिभिः सह।
मुनयस्तमुदन्तं च श्रुत्वा याताः सरः प्रति २.९१.३०
अगाधेऽम्भसि ते केचिन्मग्ना नापुरुमासुतम् ।
तामूचुर्जननीं केचिन्मग्ना नो बालका जले ३१
तैः पुनर्न च दृष्टश्च मत्स्योदरगतः सुतः ।
रोदनं पुनरारेभे गौरी श्रुत्वा तु तद्वचः ३२
उमोवाच ।
मम प्राणा गमिष्यन्ति विना तं सर्वसुन्दरम् ।
अतिक्लेशेन संलब्धमतिपौरुषमीश्वरम् ३३
चराचरगुरुं मायातीतं मायाविनं परम् ।
अनन्तकोटिब्रह्माण्डनायकं विश्वसंभवम् ३४
ललाटं निजघानोरो वारंवारं करेण सा ।
रुरुदुर्मुनयो वीक्ष्य रुदतीं तां तथाविधाम् ३५
ततः कारुणिको देवो निशम्य करुणं वचः ।
स्वयमण्डजरूपोऽभूद्युयुधाते परस्परम् ३६
तदाघातेन जलजा मृतास्तीरे निपेतिरे।
दंष्ट्राभ्यां दंशतः स्मोभौ घ्नतः स्म पुच्छघाततः ३७
उदरं स्वोदरेणैव पृष्ठं पृष्ठेन जघ्नतुः ।
एवं चिरतरं युद्धं कृत्वा दारुणमोजसा ३८
मत्स्यरूपं गुणेशोऽथ बलाज्जघ्ने मुखे मुखम् ।
भग्नास्यो भग्नदर्पोऽसौ भग्ननेत्रोऽभवच्च सः ३९
पपाल जलमध्ये स पृष्ठेऽगात्स उमासुतः ।
यत्र यत्र ययौ सोऽथ तत्र तत्राप्यसौ ययौ २.९१.४०
क्वचिल्लीनं तु तं दृष्ट्वा पुच्छाघातैरताडयत् ।
तत्पुच्छं तु मुखे धृत्वा गुणेशो बहिरानयत् ४१
चुचूर्ण निजभारेण गतासुं विससर्ज सः ।
त्यजन्तं रुधिरं वक्त्रान्नदन्तं बलवत्तरम् ४२
तेन शब्देन महता चकम्पे भुवनत्रयम् ।
निर्ययौ जलमध्यात्स लिलिंगं पार्वतीं तदा ४३
आनन्दमग्ना गौरी तं स्तनपानं मुदा ददौ ।
मामपृष्ट्वाथ कुत्र त्वं गतोऽसि बालकैः सह ४४
यद्यदायाति विघ्नं ते तत्तद्दैवाद्विनश्यति ।
मरीचे रक्षणाच्छम्भोः कृपया जगदीशितुः ४५
कुरुषे किं चपलतां रक्षितव्यः कथं मया ।
त्वद्वियोगान्मम प्राणा गमिष्यन्ति प्रियार्भक ४६
क उवाच ।
ततो मुनिगणाः प्रोचुस्त्वां विना दुःखिता वयम ।
इदानीं पुनरानन्दं प्राप्तास्त्वद्दर्शनाद्विभो ४७
पूपूजुर्मुनयो नानाद्रव्यैः सख्यः स्त्रियोऽपि च ।
नमस्कृत्य गुणेशं तं प्रार्थयन्सर्व एव तम् ४८
वयं त्वदीया देवेश न नस्त्यक्तुं त्वमर्हसि ।
ततोमा बालमादाय ययौ स्वस्थानमुत्तमम् ४९
अनन्तरं गणाः सख्यो मुनयो हर्षनिर्भराः ।
मार्गमध्ये परः शैलनामा दैत्यो महाबलः २.९१.५०
सर्वशत्रुहरो नक्रदृढांगो ऽशनिनाशनः ।
गिरीणां यस्य शब्देन दारणं जायते क्षणात् ५१
मार्गं निरुध्य सहसा संस्थिरो रोदसी स्पृशत् ।
द्वियोजनमस्तकोऽसावधो द्वादशयोजनः ५२
सरस्तडागा वृक्षाश्च लता यत्र विभान्ति च ।
क्रीडन्ति सिंहशार्दूला वारणा यक्षराक्षसाः ५३
सर्वे ते विह्वलाः प्रोचुः किमिदं विघ्नमुत्थितम् ।
तदन्तिके स्थिता गौरी तेऽपि सर्वे स्थितास्तदा ५४
ततस्ते मुनयः प्रोचुः कदा द्रक्ष्याम योषितः ।
अपत्यानि गुणेशस्य कदा स्यादत्र विक्रमः ५५
गमिष्यति वथा होमकालोऽयं नः स्वधाक्रियाः ।
गौरी जगाद तान्सर्वन्मिा खेदं कर्तुमहंथ ५६
ममापि चिन्ता संप्राप्ता शंकरस्य हि जायते ।
क उवाच ।
श्रुत्वा वाक्यानि तान्याशु गुणेशो बुद्धिमत्तरः ५७
प्रगृह्य तु विराड्रूपं श्वासमात्रानिराकरोत् ।
ददृशुर्न च तद्रूपं मोहिता मुनयोऽपि ते५८
तच्छ्वासयोगात्स गिरिर्बभ्राम गगने तदा ।
आश्चर्य परमं प्राप्ताः सर्वे ते तं प्रशंसिरे ५९
वात्यागतं यथा पत्रं ततोऽसौ पनितो भुवि ।
सहस्रधाऽभवच्छैलः पुनर्वृक्षानचूर्णयत् २.९१.६०
ततस्ते मुनयः प्रोचुः साधु साधु गुणेश्वर ।
दूरिकृतमरिष्टं नः स्वाश्रमस्था वयं सुखम् ६१
वसामस्त्वत्प्रसादेन स्वस्वकर्मरता भृशम् ।
क उवाच ।
एवमुक्त्वा च नत्वा च पृष्ट्वा संपूज्य तं ययुः ६२
पार्वती च तमादाय विवेश निजमन्दिरम् ।
सख्यश्च मुनिपत्न्यश्च पृष्ट्वा तां स्वगृहं ययुः ६३
इदं यः शृणुयान्मर्त्यः सर्वत्र सुखमाप्नुयात् ।
आयुरारोग्यमैश्वर्यं सर्वत्र विजयं तथा ६४ (४०७८)
इति श्रीगणेशपुराणे क्रीडाखण्डे वत्सशैलासुरवधो नामैकनवतितमोऽध्यायः ॥९१॥

अध्याय ९२ प्रारंभ :-
क उवाच ।
ततः कदाचिद्गिरिजा प्रातः स्नात्वा त्वरान्विता।
सुप्ते बाले चतुर्वर्षे लिंगपूजां चकार सा १
वामहस्ते निधायैव पार्थिवीं मूर्तिमुत्तमाम् ।
स उत्थाय रुदन्स्तन्यं ययाचे हठतत्परः २
क्षणं तिष्ठ क्षणं तिष्ठेत्येवं माता न्यषेधयत् ।
स रुषाऽपातयन्मूर्तिं तद्धस्ताद्धस्तघाततः । ३
तं च सा हस्तघातेन जघान दृढ रोषतः ।
स रुषा पुनरागत्य ददंशांगुलिमुल्बणम् ४
मुंच मुंच मम प्राणा गमिष्यन्तीति साऽब्रवीत् ।
दष्ठामंगुलिमुत्सृज्य पपाल दूरतोऽर्भकः ५
अस्रवद्रुधिरं तस्या अंगुलेर्बहुलं भुवि ।
यथा क्षीरकर्मवृक्षादृढाघातेन पीडितात् ६
ततो यष्टिं समादाय ताडितुं सा सुतं ययौ ।
धावयित्वा दधारैनं ददर्श शिवरूपिणम् ७
पंचवक्त्रं दशभुजं त्रिनेत्रं शेषशोभितम् ।
त्रिशूलं डमरुं भस्मरुण्डमालां च बिभ्रतम् ८
वसानं चर्मणी हस्तिव्याघ्रयोः शशिशेखरम् ।
दृष्ट्वेत्थं लज्जिता यष्टिं तत्याजाधोमुखी शिवा ९
पुरो वा मन्दिरं वापि गन्तुं सा नाशकत्तदा ।
तच्चिन्तां स परिज्ञाय बभूवार्भकरूपवान् २.९२.१०
क्रीडते मुनिपुत्रेषु मुनिबालस्वरूपवान् ।
अन्वयाद्गिरिजा बालं नापश्यत्तेषु तं सुतम ११
पप्रच्छ तान्मुनिसुतान्मम बालः कुतो गतः ।
दष्ट्वांगुलीं मदियां तु पपाल चपलोऽर्भकः १२
त ऊचुर्मुनिपुत्रास्तामितो यातोऽर्भकस्तव ।
ततो जगाम गिरिजा पुरतः पुरतोऽपि च १३
विशीर्णकबरीभारा श्रमघर्मसमन्विता ।
इतस्ततो धावमाना स्रस्तवस्त्रांचला शिवा ।
तस्याः श्रमं स विज्ञाय ययौ पूर्वस्वरूपवान् १४
तदन्तिकं दधारैनं हस्ताभ्यां गिरिजा दृढम् ।
स्वीयांचलेन त बद्ध्वा ययौ हृष्टा स्वमन्दिरम १५
उवाच रोषात्सम्यक्त्वं मम हस्ते समागतः ।
अपस्मारातिचपल मारयिष्येऽधुना भृशम् १६
शम्भवे वा निवेदिष्ये स त्वां वा ताडयिष्यति ।
श्रुत्वेत्थं वचनं मातुर्लुलुण्ठ धरणीतले १७
निःसृतं बन्धनं ज्ञात्वा पपाल त्वरया पुनः ।
पुनर्धावति सा पृष्ठे दुःखिता भृशविह्वला १८
एतस्मिन्नन्तरे दुष्टो दानवः कर्दमासुरः।
द्विजरूपधरो मालां दधानो दक्षिणे करे १९
कमण्डलुं वारिपूर्णं भस्मोद्धूलितविग्रहः ।
अरुणार्कनिभे वस्त्रे वसानो मायिको भृशम् २.९२.२०
स ऊचे वचनं बालं किमर्थं त्वं पलायसे ।
त्वद्भीतेर्वारणं सद्यः करिष्येऽहं न संशयः २१
नेष्ये त्वां यत्र ते माता न जानीयात्कथंचन ।
न च कालभयं तत्र न चान्यद्भयमण्वपि २२
क उवाच ।
तमुवाचार्भको भीतस्तथा कुरु यथा मम ।
न पश्येज्जननी तातः शरणं त्वामुपागतः २३
एवं वदति यावत्तु ययौ बालस्वभावतः ।
गिगील तावदेवासौ तं दुष्टः कर्दमासुरः २४
रम्भाफलस्य पक्वस्य खण्डं कोमलमर्भकम् ।
तत्पादपद्मचिह्नानि भमौ दृष्ट्वा ययौ शिवा २५
द्विजं ददर्श पुरतोऽपृच्छत्तं च ततोऽर्भकम् ।
स्वामिंस्त्वया मम सुत इतो गच्छन्निरीक्षितः २६
इमानि पदपद्मानि चिह्नयुक्तानि पश्य भोः ।
इदानीं धावमानः स कुत्र गुप्तोऽभ वद्द्विज २७
ततस्तामब्रवीद्विप्रो दुखितां तद्धियोगतः।
द्विज उवाच ।
किं नः प्रयोजनं मातस्तनयेन तवानघे २८
उदासीनतया मातस्तिष्ठतामीशचेतसाम् ।
तथापि नैव दृष्टस्ते तनयः क्वापि शैलजे २९
तनयः किं त्वया देवि मदधीनः कृतोऽभवत्।
क उवाच ।
एवं वदति तस्मिंस्तु दुःखितां वीक्ष्य शैलजाम् २.९२.३०
आविरासीन्निर्विकारस्तन्मुखात् स गुणेश्वरः ।
सा प्राह तनयं दृष्ट्वा कथं मिथ्या ब्रवीषि रे ३१
तवैव निकटे पुत्रो दृष्टोऽयं गोपितस्त्वया।
सन्तः प्राणात्यये प्राप्ते न भाषन्तेऽनृतं क्वचित ३२
क उवाच ।
इति तस्या वचः श्रुत्वा स दैत्यो दीर्घदेहवान् ।
व्योमस्पृङमस्तको बालमादाय निर्ययौ ततः ३३
ततः सा पृष्ठतो लग्ना क्रन्दन्ती तनयं शिवा ।
गुणेशोऽपि ततो दध्रे तस्माद्दीर्घंतरं वपुः ३४
दृष्ट्वा दुःखं जनन्यास्तु प्रशोचन्त्या मुहुर्मुहुः ।
तद्देहं शतधा कृत्वा चुचूर्णाङ्घ्रिविघाततः ३५
पतमानोऽपि तद्देहश्चूर्णयामास शाखिनः ।
जनन्या अग्रतस्तस्थौ संहृत्यैवं तु दानवम् ३६
गुणेशो मुनयो देवास्तत्पन्योऽथ समागताः।
ऊचुस्तां पार्वतीं विध्नाः कियन्तोऽस्य भवन्ति हि ३७
त एव नाशमायान्ति तव पुण्यात्सुरेश्वरि ।
सर्वैस्तैः पूजितं बालं गृहीत्वा स्वकटौ शिवा ३८
गृहं जगाम तैस्ताभिर्हर्षनिर्भरमानसा ।
पुरामरगणांज्जित्वा गरुत्मानमृतं यथा ३९
उत्ततार शिवा बालं स्वांगणे कटिदेशतः ।
स तु मूर्छागतो लुंठन्धरण्यां च पुनः पुनः २.९२.४०
वारं वारं ददौ जृम्भां प्रसार्य मुखपंकजम् ।
किं जातमधुनैवास्य धावयित्वा ययौ शिवा ४१
मुखमध्ये ददर्शास्य विश्वं विश्वस्वरूपिणः ।
सप्तद्वीपां वसुमतीं पुरग्रामवनाकरान् ४२
ब्रह्माणं भास्करं शेषं विष्णुं पर्वतसागरान् ।
गन्धर्वान्यक्षरक्षांसि मुनिपक्षिगणानपि ।
नदीवापीतडागानि मनूनष्टौ वसूनपि ४३
शशिसूर्यानलोडूनि सचेतनमचेतनम् ।
पातालान्यपि सप्तानि स्वर्गानप्येकविंशतीन् ४४
एवं त्रिभुवनं दृष्ट्वा मुमूर्छ गिरिजा तदा ।
निमील्य नयने भ्रान्ता मुहूर्तद्वयमास्थिता ४५
शिवं सस्मार मनसा सावधाना ततोऽभवत ।
यथा पूर्वस्थितं बालं पश्यति स्म पुरःस्थितम् ४६
ततस्तं परितुष्टाव तत्प्रसादप्रसन्नधीः ।
पार्वत्युवाच ।
परमात्मा त्वमेवासि चराचरगुरुर्भवान् ४७
चिदानन्दघनो नित्यो नित्यानित्यस्वरूपवान् ।
त्वत्कुक्षौ परिदुष्टानि भुवनानि चतुर्दश ४८
देवा यक्षाश्च रक्षांसि सरितो वृक्षसंचयाः ।
सर्वं चराचरं दृष्टं मया वक्तुं न शक्यते ४९
भ्रान्ताऽहं पतितं भूमौ सावधाना शिवस्मृतेः ।
जाताऽहं बालरूपेणापश्यं त्वां प्राकृतं शिशुम २.९२.५०
क उवाच ।
एवं स्तुवत्यां तस्यां तु मायामाविश्चकार सः ।
लालयित्वा कटौ गृह्य स्तनपानं ददौ शिवा ५१
गृहं प्रविष्टा गिरिजा गृहकार्यरताऽभवत् ।
मुनयो मुनिपत्न्यश्च ययुः स्वं स्वं निवेशनम् ५२
इदमाख्यानकं श्रुत्वा सर्वपापैः प्रपुच्यते ५३ (४१३१)
इति श्रीगणेशपुराणे क्रीडाखण्डे विश्वरूपदर्शनं नाम द्विनवतितमोऽध्यायः ॥९२॥

अध्याय ९३ प्रारंभ :-
क उवाच ।
ततस्तु पंचमे वर्षे प्रवृत्ते मुनिबालकाः ।
उषःकाले गुणेशस्य समागम्य गृहं प्रति १
प्रातःकाले कथं शेषे प्रोत्तिष्ठोत्तिष्ठ हे सखे ।
उत्थापय निजं बालमित्यूचुस्ते शिवामपि २
तानुवाच शिवा वाक्यं निद्रा वो न समागता ।
क्रीडायामेव सक्तानां चपलानां दिवानिशम् ३
कथं याहीत्यनुदिते निर्लज्जा मूढभावत ।
त ऊचुः ।
मातर्न तव वाक्येन कोपो नो जायते क्वचित् ४
वयं ते बालकाः किं न त्वं वा नो जननी न किम् ।
अस्मिंस्तव शिशौ सक्तं सर्वेषां मानसं सदा ५
एनं पश्याम पुरतो दिवानक्तं निरन्तरम् ।
विनैनं च समाधानं न नश्चेतसि जायते ६
श्रुत्वा वाक्यानि तेषां तु प्रोदतिष्ठत्तदा शिशुः ।
लिलिंग बहिरागत्य गुणेशस्तैः परस्परम् ७
ययुर्बहिर्मुदा युक्ता धृत्वा हस्तान्परस्परम् ।
द्विभागीभूय चिक्रीडुर्नानायुद्धविचेष्टितैः ८
मस्तकं मस्तकेनैव वक्षसा वक्ष एव च ।
बाहुभ्यां चैव बाहू च निजघ्नुस्ते परस्परम् ९
जलेन रजसा चैव कन्दुकैर्मुष्टिभिस्तथा।
कर्दमैर्गोमयैः केचिदान्दोलनविकर्षणैः २.९३.१०
कोलाहलं प्रकुर्वन्तः शृंगवंशरवानपि ।
दैत्यभूता जयं प्रापुर्देवभूताः पराजयम् ११
एवं युध्यत्सु तेष्वेवं खड्गनामा महासुरः ।
आययावुष्टरूपेण विशालेन नभस्पृशा १२
पुच्छवातेन महता पतिता वृक्षसंचयाः ।
शूलदन्तो ललज्जिह्वः पादेनामर्दयन्दिशः १३
स महान्तं रवं कृत्वा तमधावद्गुणेश्वरम् ।
प्रतिशब्देन सहसा नादयन्विदिशो दिशः १४
तं दृष्ट्वा विद्रुताः सर्वे मुनिपुत्रा भयातुराः ।
धाव धावेति तं बालं चुक्रुशुः केचिदर्भकाः १५
तेषामाक्रन्दितं श्रुत्वा सहसा स गुणेश्वरः ।
कृत्वा महत्तरं रूपमुड्डीय तं जघान ह १६
मुष्टिघातेन शिरसि वज्रेणेव महाचलम् ।
स भिन्नहृदयो दुष्टो वमन्रक्तं मुखाद्बहु १७
कृत्वा घोरं महाशब्दं पतितो धरणीतले ।
विचाल्य चरणग्रीवामाक्रन्द्य च पुनः पुनः १८
स्वीयं देहं समास्थाय तत्याज जीवितं क्षणात् ।
दशाष्टयोजनायामः पातयन्वृक्षसंचयान् १९
उदुद्धूल रजो भौमं गगनं प्रावृतं क्षणात् ।
तद्देहपातात्पतिता जन्तवोऽथ पतत्रिणः २.९३.२०
तं तथा पतितं दृष्ट्वा सर्व एव कुमारकाः ।
साघु साधु शिवापुत्र महादैत्यो निपातितः २१
दृष्ट्वा महान्तं तं दैत्यं वयं भीत्या पलायिताः ।
कथं त्वया महादैत्यः पौरुषेण कनीयसा २२
हतोऽयं विस्मिताः सर्वे पुनस्ते समुपागताः ।
इत्युक्त्वा ते पुनः क्रीडां चक्रुः सर्वे यथा पुरा २३
कषंयन्तोऽङघ्रिकमले धृत्वा केचित्परस्परम् ।
ततस्तस्य सखा प्रायान्मृतप्रतिकृतीच्छया २४
छायारूपं समास्थाय महाबलपराक्रमः ।
पादाघातेन तस्याशु चकम्पे शेषविग्रहः २५
व्योमस्पृङ्मस्तको दुष्टो गुणेशपृष्ठतो ययौ ।
छायां तदीयामाविश्य पातयामास तं तदा २६
इतरेषामदृश्योऽसौ मायावी बलवत्तरः ।
यथा यथा नृत्यते स तथा दैत्योऽपि नृत्यति २७
तं पतन्तं गुणेशं ते निरीक्ष्य मुनिबालकाः ।
ऊचुस्तं धाविताः केचित्केचिच्च दुःखिता भृशम् २८
कथं वा पतसे नाथ क्व सामर्थ्यं गतं तव।
वारंवारं स्खलसि किं प्रियेषु च सखिष्वपि २९
ततो बालो ददर्शाशु दशदिक्षु समन्ततः :
सामर्थ्यादग्रतो यातुमियेष नाशकच्च सः २.९३.३०
पुनश्च प्रणिधानेन समन्तादवलोकयन् ।
छायाप्रविष्टं तं दैत्यं ज्ञातवान्स गुणेश्वरः ३१
गण्डशैलं समादाय प्राक्षिपच्चोदरेऽस्य ह ।
उपरिष्टान्ननर्तासौ स मृतश्चूर्णतां गतः ३२
अन्तकाले महद्रूपं समास्थाय निजं खलः ।
चूर्णयामास वृक्षान्सपर्वतान्प्राणिसंचयान् ३३
तन्मेदसा च रक्तेन धरणी च गुणेश्वरः ।
रक्ततां समनुप्राप्तौ वसन्ते किंशुकाविव ३४
एवं तं विनिहत्त्याशु गुणेशो लीलयाऽरमत् ।
तत एको वृषस्कन्धः सूकरास्यो गजोदरः ३५
गण्डशैला रज इव श्वासादस्य चलन्ति च ।
चंचलाख्यो महादैत्यो बालरूपधरोऽविशत् ३६
तेषु नानाविधाः क्रीडा दर्शयामास लाघवात् ।
महाबलो महामायः पोधयामास कांश्चन ३७
चरणं कस्यचिद्धृत्वा चकर्ष मुनिबालकम् ।
उभौ करौ विधृत्वैव कस्यचिन्मस्तकेऽहनत् ३८
यस्य नृत्ये धरा सर्वा कम्पते स्म सपर्वता ।
ते धर्मे मृत्तिकां सर्वे चर्चयन्ति स्वविग्रहे ३९
सोऽपि चर्चयते स्वांगं चन्दनेनेव भाग्यवान् ।
ततस्ते कन्दुकं कृत्वा तेन क्रीडामथारभन् २.९३.४०
कन्दुको व्योममार्गस्यो बालत्यक्तोऽस्पृशत्करम् ।
कृत्वा श्ववच्च तं बालमारोहेत्स स कन्दुकः ४१
आरोहको बलाद्भूमौ निक्षिपेत्तं च कन्दकम् ।
अपरो धास्येदूर्ध्वमागतं सोऽपि वा पुनः ४२
यद्धस्ते कन्दुक: सोऽथ बालमारुह्य तं त्यजेत् ।
भूमौ निपतितं बालमादाय तेन ताडयेत् ४३
तेषु मध्ये पलायत्सु यस्य लग्नः स कन्दुकः ।
तेनापि व्योममार्गस्थः कार्यो यस्य करं स्पृशेत् ४४
हस्ते नायाति चेत्सोऽपि व्योमगं तं तु कारयेत् ।
येन हस्ते धृतः सोऽमुमारुहय पूर्ववत्क्षिपेत् ४५
कदाचित्कन्दुकः क्षिप्तो गुणेशेन च व्योमनि ।
चंचलेन धृतो हस्ते तमारूढस्तदाऽसुरा ४६
भारेणाक्रम्य तं देवमुवाच दुष्टदानवः ।
सहस्व भारं मे दुष्ट वल्गसेऽर्भकसंचये ४७
त्यक्तं त्यक्तं कन्दुकं स गृह्णाति स्वकरे पुनः ।
मुहुर्तद्वयमेवं हि चिक्रीडे दुष्टदानवः४८
प्राहसन्मुनिबालास्ते गुणेशं तं तथागतम् ।
ततो गुणेशो दैत्यं तमारूढो दृढविक्रमः ४९
चंचलश्चंचलो जातो नेतुं दूरे मुदान्वितः।
व्योममार्गेण सहसा बाला भूमिगता ययुः२.९३.५०
विमानवत्पक्षिवच्च स जगाम त्वरान्वितः।
ततो निवृत्तास्ते बालाः शोचमाना ययुर्ग़ृहान् ५१
स्थितास्तत्रैव केचिच्च प्रतीक्षन्तो गुणेश्वरम् ।
ततो गुणेशस्तं ज्ञात्वा मनसा दुष्टदानवम् ५२
हिमवत्सदृशं भारं चकार सहसा विभुः ।
भारेण पतितो दैत्यः प्रावदत्तं गुणेश्वरम् ५३
उत्तरस्व महाभारं गमिष्यन्ति ममासवः ।
दयां कुरुश्व दीने त्वं प्रपन्ने शरणं तव ५४
एवं वदन्मुमूर्च्छासौ ततो बालो दधार तम् ।
भ्रामयामास बहुशो गरुडो भुजगं यथा ५५
तत्याज दूरदेशे तं चंचलं दुष्टदानवम् ५६ (४१८७)
इति श्रीगणेशपुराणे क्रीडाखण्डे चंचलवधो नाम त्रिनवतितमोऽध्यायः ॥९३॥

अध्याय ९४ प्रारंभ :-
क उवाच ।
ततो मुनिसुता याताः प्रतीक्षन्तः स्थिताश्च ये।
तेषां जयरवैर्व्योम गर्जितं च दिगन्तरम् १
चिक्रीडुस्ते पुनस्तत्र नानानृत्यैश्च गायनैः ।
एवं रमत्सु बालेषु सार्द्धयामे दिवाकरे २
पितरौ तानदृष्ट्वैव ग्राममध्ये क्वचिद्गृहे।
प्रत्येकं यष्टिमादाय ययुः सर्वे शिशून्प्रति ३
रमन्तो विविधाः क्रीडा मध्ये कृत्वा गुणेश्वरम् ।
नृत्यन्तं नर्तयन्तंच तं च ते निरभर्त्सयन् ४
पितर ऊचुः ।
त्वया विना नो बालाश्च नाचरन्स्नानभोजने ।
आचाराध्ययने चापि ब्राह्मण्यं विनयं तथा५
ततः परस्परं प्राहुर्गतक्रोधा निरीक्ष्य तम् ।
एतस्य ताडने बुद्धिर्गतैनं वीक्ष्य नः कुतः ६
कथयामो यदि शिवौ तावस्य किं करिष्यतः ।
अनेके निहता दैत्या बालेनैव महाबलाः ७
वयं देशान्तरं यामो भीत्या तव गुणेश्वर ।
क उवाच ।
एवं वदत्सु लोकेषु पिदधे स गुणेश्वरः ।
आविरासीद्दूरदेशे ततो बाला व्यलोकयन् ८
धावयित्वा पितॄंस्त्यक्त्वा गुणेशं ते ययुः पुनः ।
क्रीडन्तस्ते ययुः शीघ्रं गौतमाश्रममुत्तमम् ९
ध्यानस्थं तं मुनिं वीक्ष्य पचन्तीं तस्त्रियं च ते ।
गुणेशोऽगान्मध्यदेशं जग्राहौदनपात्रकम् २.९४.१०
ददौ तेभ्यो विभज्यान्नं प्रार्थयामास सादरम् ११
मत्संगेन चिरं कालं यूयं सर्वे बुभुक्षिताः ।
सावकाशं प्रभुंजध्वं ततः क्रीडामहे पुनः १२
अहल्या तं चुकोपाशु ममान्नं स्पृष्टवान्कथम् ।
न कृतो वैश्वदेवो वा नैवेद्यश्चपलार्भकाः । १३
विसृज्य ध्यानं किं कुर्याद्गौतमो मुनिसत्तमः।
उत्थापयामास तदा ध्यानस्थं मुनिसत्तमम् १४
स उत्थाय ददर्शाथ गौतमः सकलार्भकान् ।
जक्षतोऽन्नं क्षुधायुक्तान्बभाषे च गुणेश्वरम् १५
गौतम उवाच ।
महतोः पुत्रतां प्राप्य कथमन्यायकृद्भवान् ।
अत्यद्भुतानि कर्माणि श्रुत्वा ते त्वां वयं पुरा १६
परात्परतरं देवं परब्रह्मस्वरूपिणम् ।
मन्यामहे बालभावं कुरुषे त्वं गुणेश्वर १७
क उवाच ।
धृत्वा करं स च मुनिः पार्वत्या गृहमागमत् ।
करे धृत्वाऽन्नसहितं तत्पात्रं निजमन्दिरात १८
उवाच मातस्ते बालो नित्यमन्यायकृन्मम ।
अद्य त्वां कथितुं यातः किं कार्यं गौर्यतः परम् १९
इतो वा गमनं दूरे मन्यसे यदि तद्वद ।
क उवाच ।
ततो रुषो समायुक्ता श्रुत्वा वाक्यं मुनीरितम् २.९४.२०
ताडयामास यष्ट्या तं वमन्ती नेत्रतोऽनलम् ।
उवाच च मुनिं गौरी प्रणता क्रोधसंयुता २१
ममापि च मुने त्रासो जायतो जन्मतोऽस्य ह ।
द्रष्टव्या राक्षसकृतां कियन्तो विघ्नसंचयाः २२
स्त्रियः प्रवक्तुं कुत्रापि नायान्ति मुनिपुंगवाः ।
अयं तु सर्वतो दुष्टो मुनिपुत्राविभेदकः २३
ममात्मज इति जनो नैनं शापं प्रयच्छति ।
बद्ध्वैनं हस्तपादेषु तत्समक्षं शिवा सुतम् २४
गृहमध्ये तु संस्थाप्य तद्गृहं पिदधे दृढम् ।
मैवं मैवं वदन्यातो गौतमः स्वाश्रमं प्रति २५
ततस्ते बालकाः सर्वे शोचस्तन्तं गुणेश्वरम् ।
कथं नो दर्शनं चास्य भविष्यति कदा न वा २६
द्वारं दत्त्वा दृढं मध्ये स्थापितो गिरिकन्यया ।
एवं तेषु वदत्सेव तन्मध्ये स ययै क्षणात् २७
जनन्याः कटिदेशेऽपि दृश्यते तद्गृहेऽपि च ।
ऊचुस्तां गौरि पुत्रस्ते निःसृतो गृहमध्यतः २८
पश्यति स्म गेहमध्ये बद्धमेव गुणेश्वरम् ।
बहिस्तन्मुनिपुत्रान्सा तत्स्वरूपानपश्यत २९
यं कंचित्स्तनपानाय जुहाव विह्वला शिवा ।
निषिद्धा सा सुतैस्तैस्तु गृहमध्ये शिवे स्थितः २.९४.३०
उद्घाटय द्वारं सा बालं मुक्त्वा स्तन्यं ददौ मुदा ।
गौतमः स्वाश्रमं यातो देवतार्चनमारभत् ३१
गुणेशरूपान्सोऽपश्यत्तृप्तान्देवांस्तथाऽखिलान् ।
पुरः प्रकीर्णमन्नं च ततो विस्मितमानसः ३२
चिन्तयामास मनसि दुर्बुद्धिस्तु कृता मया।
उमायै कथितं सर्वमन्नपात्रं प्रदर्शितम् ३३
तया स ताडितो बद्धोऽव्यक्तो व्यक्तस्य कारणम् ।
परात्परतरो देवो यस्मिंस्तृप्ते महाफलम् ३४
आगत्य बुभुजे बालैः सार्द्धं तु मुनिसंभवैः ।
मोहितो मायया चास्य पूर्वमज्ञासिषं न तम् ३५
क उवाच ।
अहल्यापि पुनः पाक चकाराद्भुतमानसा ।
सोऽपि ध्यानस्थितो भूत्वा नित्यकर्म समापयत् । ३६ (४२२३)
इति श्री गणेशपुराणे क्रीडाखण्डे चतुर्नवतितमोऽध्यायः ॥९४॥

अध्याय ९५ प्रारंभ :-
क उवाच ।
षष्ठे वर्षे प्रवृत्ते तु क्वचिद्यातो बहिः शिशुः ।
उमाया बालकैः सार्द्धं चिक्रीडानेकधा पुनः १
तं दिदृक्षुर्विश्वकर्मा ययावन्तर्गृहं प्रति ।
पार्वती बहिरागत्य मानयामास तं बहु २
चित्रासने समावेश्य पूजयामास सादरम् ।
प्रक्षाल्य चरणौ प्रादाद्गन्धं ताम्बूलमेव च ३
ततस्तदादरं दृष्ट्वा विश्वकर्मा तुतोष ह ।
तुष्टाव परया भक्त्या प्रणिपत्य शिवां मुदा ४
विश्वकर्मोवाच ।
ननामि विश्वेश्वरि विश्वरूपे ब्रह्मेन्द्ररुद्रार्यमविष्णुरूपे ।
त्वया ततं विश्वमनन्तशक्ते ब्रह्मादिदेवैरभिनन्द्यरूपे ५
त्वमेव विश्वं रजसा विधत्से सत्त्वेन मातः परि पासि तच्च ।
त्वमेव सर्वं तमसाथ हंसि त्रैगुण्यमेतत्तव नित्यरूपम् ६
त्वया हता दैत्यगणा विमुक्तिं ब्रह्मर्षयो ज्ञानबलात्प्रपन्नाः।
त्वमेव विष्णोरतुलाऽसि शक्तिः सर्वस्य हेतुः परमाऽसि माया ७
सतोऽसतो यापि परासि शक्तिश्चराचरं त्वं विदधासि विश्वम्।
संमोह्य लोकान्सकलान्सुरेशान्काष्ठाकलाभिश्च ददासि भोगम् ८
ये त्वां प्रपन्ना न भयं तु तेषां मृत्योस्तथा दैत्यकृतं कदाचित ९
त्वमेव लक्ष्मीः सुकृतामलक्ष्मीर्दुष्टात्मनां त्वं प्रमदास्वरूपा।
विद्यास्वरूपासि जगत्त्रये त्वं प्रभास्वरूपा शशिसूर्ययोत्स्वम् २.९५.१०
य आश्रितास्ते जगदास्र्वयास्ते विपत्तिलेशो न च तेषु मातः ।
त्वमेव विश्वेश्वरि विश्वमेत्तद्धरस्यथाप्यायसि वारिरूपा ११
अनादिमध्यानिधनाप्यगम्या हरीशलोकेशसुरेश्वराणाम् ।
तेऽनुग्रहात्त्वा प्रभजन्ति भक्ता आनन्दरूपा निवसन्ति नाके १२
अभक्तिकामान्विनिहंसि रुष्टा त्वामेव मातः शरणं प्रपन्नः ।
धन्ये ममैते नयनेऽथ विद्या जनुश्च माता पितृवंश एव १३
कुलं च धन्यं चरणौ त्वदीयौ दृष्टौ यतस्ते जगदम्बिके मया ।
क उवाच ।
एवं स्तुता जगन्माता वरमस्मै न्यवेदयत् १४
सं वव्रे परमा भक्तिं सा तथेति तमब्रवीत् ।
इदं स्तोत्रं पठेद्यस्तु सर्वान्कामाँल्लभेच्च सः १५
सर्वत्र विजयं पुष्टिं विद्यामायुः सुखं शिवम् ।
शिवोवाच ।
विश्वकर्मन्महाबुद्धे ज्ञानवानसि सर्वत: १६
यच्छ तं शिववाक्येन दृष्टं तत्सकलं त्वयि ।
सिन्धुना पीडिता देवाः सर्वे कारागृहे स्थिताः १७
शिवश्चात्र समायातः कैलासे तु हृते सति ।
दण्डकारण्यदेशेऽत्र कोऽप्याप्तो न हि दृश्यते १८
त्वं तु सम्यक् समायातो बहुकालेन दर्शनम् ।
विश्वकर्मोवाच ।
किमाश्चर्यं जगन्मातर्बालो मातरमाव्रजेत् १९
द्रष्टुं देवं महाभक्तो विद्याकामो गुरुं शिवे ।
पुत्रस्य ते श्रुतो मातर्महिमा परमाद्भुतः २.९५.२०
तमहं द्रष्टुमायातो युवयोर्दर्शनोत्सुकः ।
क उवाच ।
एवं तयोस्तु वदतोरागतोऽसौ विनायकः २१
असंख्यशशिसंकाशो रजसाऽरुणविग्रहः ।
प्रसन्नवदनो बालसमूहपरिवारितः २२
तन्मध्य शोभते स्मासौ मरुन्मध्ये यथा हरिः ।
तं दृष्ट्वा प्रणिपत्यासौ कृतांजलिपुटः स्थितः २३
तुष्टाव परमात्मानं ज्ञात्वा तं गिरिजासुतम् ।
विश्वकर्मोवाच ।
नमामि परमात्मानं सच्चिदानन्दविग्रहम २४
चराचरगुरुं सर्वकारणानां च कारणम् ।
गुणेशं च गुणातीतं सृष्टिस्थित्यन्तकारिणम् २५
सर्वव्यापिनमीशानं व्यक्ताव्यक्तस्वरूपिणम ।
अगम्यं सर्वदेवानां मुनिहृत्पद्मवासिनम् २६
सिद्धिबुद्धिपतिं नानाभक्तसिद्धिप्रदं विभुम् ।
अभक्तकामदहनं सहस्ररविसन्निभम् २७
अनेकशक्तिसंयुक्तं दैत्यदानवमर्दनम् ।
अनादिमव्ययं शान्तं जरामरणवर्जितम् २८
त्रितनुं च त्रयीमूलं ब्रह्मविष्णुशिवात्मकम् ।
क उवाच ।
एवं स्तुतिं समाकर्ण्य सन्तुष्ट: स गुणेश्वरः २९
स्वासने तमुपाविश्य पूजयामास सादरम् ।
प्रक्षाल्य चरणौ गन्धमक्षतान्पुष्पमेव च २.९५.३०
धूपं दीपं च नैवेद्यं निवेद्य तमथाब्रवीत् ।
गुणेश उवाच ।
विश्वकर्मन्नागतोऽसि मम दर्शनकांक्षया ३१
किमानीतं मम मुदे हयुपायनमनुत्तमम्।
विश्वकर्मोवाच ।
निजस्वानन्दपूर्णानां परवांछाविधायिनाम् ३२
निस्पृहाणां सर्वकृतां सर्वशक्तिमतामपि ।
समलोष्टाश्महेम्नां च कल्पवृक्षाधरीकृताम् ।
कर्तुमकर्तुं शक्तानामन्यथाकर्तुमेव च ३३
स्वाधीनानां च तुष्टानां स्वसत्तावर्तिनामपि ।
पराधीनैरशक्तैश्चाकिंचनैर्मर्त्यधर्मभिः ३४
किं देयं परितोषाय स्वशक्त्या किंचिदाहृतम् ।
क उवाच ।
एवमुक्त्वा विश्वकर्माऽस्थापयत्पुरतः सृणिम् ३५
पद्मं च परशुं पाशं सहस्रादित्यसन्निभम् ।
सर्वशत्रुहरं तीक्ष्णं दधार स गुणेश्वरः ३६
उवाच विश्वकर्माणं कुत एतानि विश्वकृत्।
आनीतानि मम प्रीत्यै तद्वदस्वाधुनाऽनघ ३७
विश्वकर्मोवाच ।
संज्ञा नामेति नाम्ना मे कन्या चारुस्वरूपिणी ३८
लज्जितो यन्मुखं वीक्ष्य सहसा शशलांछनः ।
रमा शची च सावित्री शारदाऽरुन्धती रतिः ३९
त्रिलोक्यां न समा कापि परा यस्या गुणेश्वर ।
सा मया त्वये दत्ता त्रिवेदाय त्रिरूपिणे २.९५.४०
आगतेषु त्रिलोकेषु सांगोपांगेषु सर्वशः ।
महोत्सवो महानासीद्दिनाष्टकमहर्निशम् ४१
यां दृष्ट्वा स्खलिता देवा लज्जयाऽधोमुखा गताः।
सविता तामथादाय ययौ स्वस्थानमुत्तमम् ४२
तेजसा तस्य तप्ता मे कन्यका कृशतामगात् ।
सा ततो निर्ममे छायां संज्ञा तु स्वप्रभावतः ४३
सर्वं तस्यै निवेद्यैव सद्यो मम गृहं गता ।
गते कियति काले सा छाया ज्ञाता तु भानुना ४४
नेयं संज्ञेति स प्रायाद्गृहं सद्यो ममार्यमा ।
ततो भीता पुनः संज्ञा मामुवाच न मां पितः ४५
निवेदय रवेर्हस्ते तेजोऽहं न क्षमेऽस्य च ततः।
पित्रा धिक्कृता सा बहिरेव ययौ किल ४६
अश्विनीरूपमास्थाय गुप्तरूपा वनेऽवसत् ।
ततस्तु विश्वकर्मा तामनवेक्ष्य क्वचिद्गृहे ४७
प्रोवाचार्यमणं सोऽथ तेजस्ते सोढुमक्षमा ।
क्व गता न च जाने तामुपायं ते ब्रवीमि च ४८
यदि ते तेजसो भागो न्यूनः किंचिद्भविष्यति ।
तदा सा प्रकटीभूयाद्विहरस्व ततस्तया ४९
रविरुवाच ।
यथा तव भवेच्चेतस्तथा कर्तुं त्वमर्हसि ।
क उवाच ।
विश्वकर्मा ततश्चैनं यन्त्रे स्थाप्योल्लिलेख ह २.९५.५०
तेजीण्ह्रासं चकाराशु किंचित्सौम्योऽभवच्च सः ।
यत्र गुप्ताऽभवत्संज्ञा तत्र यातोऽर्यमा विभुः ५१
अश्वो भूत्वा तया रेमे सा नासत्यावसूत च ।
तामादायार्यमा लोकं निजं हर्षयुतोऽगमत् ५२
विश्वकर्मोवाच ।
तेजःशेषेण तस्याथ प्रबलेन गुणेश्वर ।
निर्मितान्यायुधान्याशु त्वदर्थे जगदीश्वर ५३
अतितीक्ष्णानि कालस्य सदा जयकराण्यपि ।
चत्वारि ते प्रदत्तानि दत्ते चक्रगदे हरेः ५४
त्रिशूलः शम्भवे दत्तः सर्वशत्रुनिबहर्णः ।
गुणेश उवाच ।
सम्यक्कृतं विश्वकर्मन्नायुधानि शुभानि मे ५५
दत्तानि दैत्यनाशाय परोपकृतये सताम् ।
क उवाच ।
एवमुक्त्वायुधान्याशु दधार च दुधाव च ५६
तदा चकम्पे पृथिवी पर्वताश्च वनानि च ।
शुशुभे सोऽपि तैः शस्त्रैः कोटिसूर्यनिभैर्विभुः ५७
विश्वकर्मा नमस्कृत्य ययौ स्वस्थानमाज्ञया ।
उमात्मजोऽपि चिक्रीड मुनिबालैर्वृतः पुनः ५८
तत्राययौ वृको नाम महान्दुष्टतमोऽसुरः ।
भयंकराननो मत्तो ग्रसन्निव महाबली ५९
पुच्छाघातेन च भुवं कम्पयन्हलदन्तवान् ।
दृष्ट्वा भयंकरं दैत्यं मुनिपुत्राः पलायिताः २.९५.६०
स आयुधानि गृह्याशु तं वृकं समताडयत् ।
अङकुशा घातमात्रेण पतितो भुवि सोऽसुरः ६१
वमन्रक्तं निजं रूपमास्थितश्चूर्णयन्द्रुमान् ।
संहरं जीवसंघातान्दशयोजनविस्ततः ६२
स ततोऽस्तमिते सूर्ये ययौ बालयुतो गृहम् ।
बालाः प्राहुरुमायै तेऽनेनाद्य निहतोऽसुरः ६३
वृको नामांकुशाघाताद्दशयोजनमायतः ।
तानुवाचाद्रिजा रोषाद्र्यजन्तु निजमन्दिरम् ६४
ततस्तद्वाक्यमाकर्ण्य ते बालाः स्वालयान्ययुः ६५ (४१८८)
इति श्रीगणेशपुराणे क्रीडाखण्डे बकासुरवधो नाम पंचनवतितमोध्यायः ॥९५॥