सामग्री पर जाएँ

क्रियोड्डीशमहातन्त्रराजः

विकिस्रोतः तः
क्रियोड्डीशमहातन्त्रराजः
इन्द्रजित्




|| श्री ||

श्रीमदिन्द्रजित्प्रणीतः

क्रियोड्डीशमहातन्त्रराजः

प्रथमः पटलः

आनन्दशिखरारूढं पार्वत्या सह शङ्करम् |
पप्रच्छ गिरिजा कान्ता पुनर्नत्वा वृषध्वजम् || १ ||

श्रीपार्वत्युवाच

भगवन् सर्वदेवेश! सर्वज्ञानमय! प्रभो! |
इदानीं श्रोतुमिच्छामि क्रियोड्डीशं विभो वद || २ ||

श्रीश्वर उवाच

शृणु देवि! प्रवक्ष्यामि उड्डीशं तन्त्रमुत्तमम् |
गोपितव्यं प्रयत्नेन मम स्वप्राणवल्लभे || ३ ||

शान्त्यादिषट्कर्माणि तेषां लक्षणं च

स्वदेवतादिक्कालादि ज्ञात्वा कर्माणि साधयेत् |
शीतांशुसलिलक्षोणीव्योमवायुहविर्भुजः || ४ ||

एतेषाम्बीजयोगेन ग्रथनादिक्रमेण कर्म साधयेत् - ठं वं लं हं यं
वं |

तत्तद्देवताः

रतिर्वाणी रमा ज्येष्ठा मातङ्गी कुलकामिनी |
दुर्गा चैव भद्रकाली कर्मादौ ताः प्रपूजयेत् || ५ ||

वसन्ताद्यृतुकालनियमः |

इति क्रियोड्डीशमहातन्त्रराजे देवीश्वरसंवादे प्रथमः पटलः || १ ||



अथ द्वितीयः पटलः

सर्वरोगमुक्तिकवचम्

श्रीदेव्युवाच

देवदेव! महादेव! सुरासुरनमस्कृत |
इदानीं श्रोतुमिच्छामि रोगमुक्तः कथं प्रभो! || १ ||

नास्ति त्राता च जगतां त्वां विना परमेश्वर |
ज्वरादिवारणं शीघ्र कृपया परया वद || २ ||

ईश्वर उवाच

कथयामि तव स्नेहात् कवचं वारणं महत् || ३ ||

ओं नमो भगवति वज्रशृंखले हनतु भक्षतु खादतु अहो रक्तं पिबपिब
नरवक्षास्थिरक्तपटे भस्माङ्गिभस्मलिप्तशरीरे वज्रायुधे
वज्रप्राकारानिचिते पूर्वां दिशं मुञ्चतु दक्षिणां दिशं मुञ्चतु
पश्चिमां दिशं मुञ्चतु उत्तरां दिशं मुञ्चतु नागार्थं
धनग्रहपतिं बन्धतु नागपीठं बन्धतु यक्षराक्षसपिशाचान् बन्धतु
प्रेतभूतगन्धर्वादयो ये केचिदुपद्रवास्तेभ्यो रक्षतु ऊर्ध्वं रक्षतु अधो
रक्षतु श्येनिकां मुञ्चतु ज्वल महाबले एह्येहि तु मोटि-मोटि सटावलि वज्राग्नि
वज्रप्राकारे ऐं फट् ह्रीं ह्रीं श्रीं फट् ह्रं हं फुं फें फः
सर्वग्रहेभ्यः सर्वव्याधिभ्यः सर्वदुष्टोपद्रवेभ्यः ह्रीं अशेषेभ्यो मा
रक्षतु ||

इतीदं कवचं देवि सुरासुरसुदुर्लभम् |
ग्रहज्वरादिभूतेषु सर्वकर्मसु योजयेत् || ४ ||

न देयं यस्य कस्यापि कवचं मन्मुखाच्च्युतम् |
तद्दत्ते सिद्धिहानिः स्याद्योगिनीनां भवेत्पशुः || ५ ||

दद्याच्छान्ताय वीराय सत्कुलीनाय योगिने |
सदाचाररतो यश्च निर्जिताशेष एव हि || ६ ||

ऐकाहिको द्व्याहिकश्च त्र्याहिकश्चातुराहिकः |
सर्वे ज्वरा विनश्यन्ति कवचं धारयेद्यदि || ७ ||

स्त्रिया वामकरे धार्यं पुंसा च दक्षिणे करे |
अवश्यमेव सिद्धिः स्यात्सत्यं सत्यं वरानने || ८ ||

इति क्रियोड्डीशमहातन्त्रराजे देवीश्वरसंवादे द्वितीयः पटलः || २ ||



अथ तृतीयः पटलः

सर्वरोगविनाशाय पार्थिवशिवलिङ्गपूजनप्रकरणम्

अतः परं महेशानि पूजनं पार्थिवं शिवम् |
विशेषतः सर्वरोगे त्र्यम्बकस्य प्रपूजनम् || १ ||

यत्कृत्वा सर्वतः शान्तिर्भवेद्देवि न संशयः |
ततः प्रयोगं सर्वेषां वश्यादीनां च कारयेत् || २ ||

विधानं तत्र वक्ष्यामि शृणुष्व कमलानने || ३ ||

शिवपूजाविधानम्

मृदा लिङ्गं विनिर्माय शततोलकमानया |
तत्रानीय मृतं मुण्डं स्थापयित्वा ममार्चनम् || ४ ||

पूर्वमग्निं च संस्थाप्य यज्ञस्थानं चतुर्विधम् |
उत्तरे दक्षिणे वापि पूर्वे च पश्चिमे तथा || ५ ||

सर्वकामेषु होतव्यमन्यथा निष्फलं भवेत् |
घटं संस्थाप्य मम पूजां यथाशक्ति कुर्यात् | ततो वह्निस्थापनम् |
मुण्डस्थापनम् | नरमहिषमार्जारमुण्डत्रयम् | अथवा नृमुण्डत्रयम् |
एकमुण्डं वा तदुपरि मां सम्पूज्य गन्धोदकैः स्नापयित्वा
वितस्तिमितधरातले पोथयित्वा तस्योपरि वेदीं कल्पयेत् | तत्रैव भूतनाथादीन्
चतुर्दिक्षु समर्चयेत् | पूर्वे ओं भूतनाथाय नमः इति पाद्यादिभिः
पूजयित्वा बलिं दद्यात् | एवं दक्षिणे श्मशानाधिपाय | पश्चिमे
कालभैरवाय | उत्तरे च ईशानाय | वेदीमध्ये हौं प्रेतबीजं विलिख्य
तत्रैव भारतीं पूजयेत् |
पुष्पाञ्जलिः

रे वीर शव देवेश मुण्डरूप जगत्पते |
दयां कुरु महाभाग सिद्धिदो भव मज्जपे || ६ ||

इति पुष्पाञ्जलित्रयंभव मदत्त्वा आग्ने ययां ह्रीं नमः नैर्-ऋत्यां ह्रीं
चण्डिकायै नमः | वायव्यां ह्रीं भद्रकाल्यै नमः | ईशाने ह्रीं
दयामययै नमः |

श्मशानवासिनो ये ये देवादेवाश्च भैरवाः |
दयां कुर्वन्तु ते सर्वे सिद्धिदाश्च भवन्तु मे || ७ ||

अनेन प्रणवाद्येन पुष्पाञ्जलित्रयं क्षिपेत् |
ततः स्थानं तु संस्पृश्य वश्यो भव वदेदिति || ८ ||

ततः स्नानं तत्र लिङ्गं संस्थाप्य परमेश्वरि |
स्नानं तु पञ्चगव्येन दधिदुग्धादिकं तथा || ९ ||

अथवा परमेशानि शर्करामधुना युतम् |
पञ्चामृतैस्ततः स्नानं कारयेत्परमेश्वरि || १० ||

ईशानाय प्रथमं स्नानं वामदेवाय द्वितीयकम् |
तृतीये सद्योजाताय चतुर्थे च पिनाकधृक् || ११ ||

पञ्चमं देवदेवेशं पूजयेत्पार्थिवं शिवम् |
अधुना मूलमन्त्रेण शर्करया गायत्रिकंपरम् |
ततो जीवन्यासं कृत्वा न्यासादिकं ततः परम् || १२ ||

ध्यानं शृणु महादेव! स्नेहेन कथितं मया || १३ ||

हस्ताभ्यां कलशद्वयामृतरसैराप्लावयन्तं शिरो
द्वाभ्यां तौ दधतं मृगाक्षवलये द्वाभ्यां वहन्तं परम् |
अङ्के न्यस्तकरद्वयामृतघटं कैलासकान्तं शिवं
स्वच्छाम्भोजगतं नवेन्दुमुकुटं देवं त्रिनेत्रं भजे || १४ ||

पुनर्ध्यात्वा तु सम्पूज्य अङ्गन्यासं ततः परम् |

अङ्गन्यासः

ओं तत्सवितुर्वरेण्यं हृदयाय नमः | त्रयम्बकं यजामहे सुगन्धिं
पुष्टिवर्द्धनं शिरसे स्वाहा | भर्गोदेवस्य धीमहि शिखायै वषट् |
उर्वारुकमिव बन्धनात् कवचाय हुम् | धियो यो नः प्रचोदयात् नेत्रत्रयाय
वौषट् | मृत्योर्मुक्षीय मामृतात् अस्त्राय फट् || एवं करन्यासः ||
ततः षोडशोपचारैः पूजा

जपापराजिता कृष्णबिल्वपत्रं च पिप्पलम् || १५ ||

करवीरमपामार्गं प्रत्येकं जुहुयाच्छिवे |

अष्टाधिकशतेनैव पूजयेत् || १६ ||

अतः परं महेशानि! मधु देयं विशेषतः |
गुडार्द्रकरसेनैव सुरास्तु ब्राह्मणस्य तु || १७ ||

नारिकेलोदकं चैव कांस्ये तु क्षत्रियस्य च |
शूद्रस्य ताम्रपात्रे तु मधुयुक्तं निवेदयेत् || १८ ||

अथवा सार्षपं तैलमाज्येन होमयेद्द्विजः |
जुहुयात्सर्वकर्माणि कथितानि महेश्वरि! || १९ ||

मन्त्रः

मत्रं शृणु महादेवि! कथितं तव श्रद्धया || २० ||

ओं तत्सवितुर्वरेण्यं त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनं भर्गो
देवस्य धीमहि उर्वारुकमिव बन्धनाद् धियो यो नः प्रचोदयात्
मृत्योर्मुक्षीय मामृतात् |

स्थानभेदकम्

शून्यागारे नदीतीरे पर्वते वा चतुष्पथे |
बिल्वमूले श्मशाने वा निर्जने च प्रपूजयेत् || २१ ||

अणिमाद्यष्टशक्तिं च वन्ध्या वा
मृतवत्सा वा बद्धो वा राजशत्रुके |
सर्वशान्तिकरं देवि पूजनं त्र्यंबके शिवे |
अत एव कथितं मे च सत्यं सत्यं वरानने || २२ ||

इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे तृतीयः पटलः || ३ ||



अथ चतुर्थः पटलः

सर्वव्याधिमोचनम्

शृणु वक्ष्यामि चार्वङ्गि सर्वव्याधिविमोचनम् |
एकादश पूजयेद्रुद्रान्दशांशं गुग्गुलैर्घृतैः |
चत्वारः कुम्भाः संस्थाप्याः पञ्चपल्लवसंयुताः || १ ||

उक्तमन्त्रेण रौप्याष्टदलपद्ममध्ये लिङ्गं पूजयेत् |

प्रतिवासरं सप्तलिङ्गं पूजयेत् लक्षं जप्त्वा |
पलाशसमिधा होमम् उक्तमन्त्रेण तत्क्रमात् || २ ||
अत्र पीठे यजमानमभिषेचयेत् | दक्षिणां दद्याद्गोभूहेमतिलाञ्जलीन्
ब्राह्मणेभ्यः किञ्चिद्देया आचार्याय दद्यात् ||

इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे चतुर्थः पटलः || ४ ||


अथ पञ्चमः पटलः

क्रियोपदेशः

वशीकरणादिकर्माणि वारतिथिनक्षत्रमण्डलविशेषे कर्त्तव्यानि |
स्फाटिकीमाला सर्वसिद्धिदा | मणिसंख्या -

पञ्चविंशतिभिर्मोक्षं पुष्टौ तु सप्तविंशतिः |
त्रिंशद्भिर्धनसिद्धिस्तु पञ्चाशन्मन्त्रसिद्धये || १ ||

अष्टोत्तरशतैः सर्वसिद्धिः |

शिवमन्त्रसमायुक्तमौषधं सफलम्भवेत् |

मूलिकोत्पाटनच्छेदनविधिः पूर्वतन्त्रे कथितः | वन्ध्यादिदोषनिवारणम् |
स्त्रीणां बाधकमोचनम् | रक्तमाद्र्यादि चतुर्विधबाधकदोषनिवारणम् |
तत्र यन्त्रम् -

त्रिकोणमथ षट्कोणं नवकोणं मण्डलाकृतिः |
यन्त्राण्येतानि संलिख्य वाहयेन्मन्त्रपूर्वकम् || २ ||

तन्त्रपूजनात् औषधादि भक्षणाद्दोषशान्तिः |
इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे पञ्चमः पटलः || ५ ||


अथ षष्ठः पटलः

मृतवत्सादिशान्तिकवचम्

मृतवत्सामृतगर्भापुत्रहीनानां शान्तिः कवचधारणात् | कवचं
प्रथमम् | ओं नमो नरसिंहाय नमो महाविपन्नाशाय दिव्यरूपाय
नरसिंहाय नमः | स्थौं क्षौं रामाय नमः | रां रामाय नमः | ओं
ह्रीं श्रीं फणं हुं हां फेत्कारशब्देन सर्वबालकस्य
सर्वभयोपद्रवनाशाय इमां विद्यां पठति धारयति यदि तदा नरसिंहो
रक्षति सदा हुं फट् स्वाहा |

प्रकारान्तरेण द्वितीयकवचम्

ओं नमो नरसिंहाय हिरण्यकशिपोर्वक्षःस्थलविदारणाय
त्रिभुवनव्यापकाय भूतप्रेतपिशाचडाकिनीकुलनाशाय स्तम्भोद्भवाय
समस्तदोषान् हर हर विष विष पच पच मथ मथ हन हन फट् हुं
फट् ठः ठः एहि रुद्रो ज्ञापयति स्वाहा |
ओं क्षौं नमो भगवते नरसिंहाय ज्वालामालिने दीप्तदंष्ट्राय
अग्निनेत्राय सर्वरक्षोघ्नाय सर्वभूतविनाशाय सर्वज्वरविनाशाय दह
दह पच पच रक्ष रक्ष हुं फट् स्वाहा |

गोरोचनया भूर्जे विलिख्य स्वर्णथा गुटिका स्त्रिया वामकरे पुरुषेण दक्षिणे
करे धार्या कदापि न दोषः |

इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे षष्ठः पटलः || ६ ||



अथ सप्तमः पटलः

श्रीदेव्युवाच

श्रुतं कवचचरितमपूर्वं देववाञ्छितम् |
इदानीं श्रोतुमिच्छामि यन्त्रं कथय मे प्रभो || १ ||

यन्त्रम्

ईश्वर उवाच

मात्राहीनं रकारं तु पार्श्वे शीर्षं तथा पुनः |
मायात्मकं तेन भवेत् षट्कोणं यन्त्रमुत्तमम् || २ ||

मायाबीज ह्रीं गर्भम् |

स्त्रिया वामहस्ते धारणाद्वन्ध्या पुत्रवती भवेत् | बालाया बालकस्यापि
कण्ठे सन्धार्य सुखी भवेत् | भूर्जे गोरोचनया विलिख्य स्वर्णस्थं धारयेत्
| षोडशीचक्रस्य गोरोचनया भूर्जे विलिख्य धारणात् स्त्रीणां
सौभाग्यवृद्धिः | चतुष्कोणचक्रं संलिख्य ह्रीं गर्भबाहौ धारणात्
नारी जीवत्पुत्रिका अथवा चतुष्कोणे प्रणवादि क्षं पुनः मीनचक्रं
संलिख्य धारणात् वन्ध्या जीवत्पुत्रिका भवति |

अतः परम् अष्टदलकर्णिकामध्ये माया | ततः परं दलमध्ये द्वे द्वे
मायाबीजे पुनः पुनः | इतः परं नवदलं मायाबीजं विलिखया बाहौ
धारणात् मृतवत्सा जीवद्वत्सा | गोरोचनाकुङ्कुमेन संलिख्य रक्तसूत्रेण
संवेष्ट्य गुटिकां पञ्चामृतैः पञ्चगव्यैः स्नापयित्वा | प्रणवेनतु
सम्मन्त्र्य स्नापयेद्गन्धद्रव्यकैः | प्राणान् प्रतिष्ठाप्य देवतारूपां
गुटिकां सम्पूज्य धारयेत् |

शिवस्नानम्

घृतेन मधुना वापि स्नापयेद्वश्यकर्मणि |
दुग्धादिना तथा देवि शान्तौ मृत्युञ्जयेऽपि च || ३ ||

आकर्षणे तु मधुना भस्मना क्रूरकर्मणि |

अस्य परिमाणम्

शततोलकमानेन द्रव्यमेत्प्रकीर्तितम् || ४ ||

तन्मानं संविदाचूर्णं नैवेद्यं च सुरेश्वरि |
बिल्वपत्रं तथा पुष्पं दद्यादष्टोत्तरं शतम् || ५ ||

शान्तिकादौ द्रोणपुष्पं बर्बरा चाभिचारके |
स्तम्भने मोहने चैव धत्तूरं कनकाह्वयम् || ६ ||

विद्वेषोच्चाटने देवि विजयाप्यपराजिता |
चतुर्दश्यां समारभ्य यावदन्या चतुर्दशी || ७ ||

एकैकं क्रमशो लिङ्गं पूजयेद्भक्तिभावतः |
अष्टाधिकसहस्रं तु जपं कुर्याद्दिने दिने || ८ ||

सप्ताहे सप्त लिङ्गानि पञ्चाहे वाथ पञ्चकम् |
चण्डोग्रेण विधानेन जपपूजादिकं स्मृतम् || ९ ||

वटुकेन तु मन्त्रेण मञ्जुघोषेण वा प्रिये |
त्रैयम्बकेण देवेशि ! शान्तिके जपपूजनम् || १० ||

तत्तत्कल्पविधानेन जपं पूजां समाचरेत् |
जातिध्वंसे कुलोच्छेदे ज्वरादौ रोगसङ्कटे || ११ ||

महाभये समुत्पन्ने सर्वाभिचारसम्भवे |
यत्नेन पूजयेद्देवि लिङ्गमष्टोत्तरं शतम् || १२ ||

अतिरुद्रयोगादौ रुद्राध्यायेन वा पुनः |
नीलकण्ठेन वा देवि स्तवेन तोषयेच्छिवम् || १३ ||

नमस्करोमि भूतेश रक्ष मां जगदीश्वर |
पापेभ्यो नरकेभ्यश्च त्राहि मां भक्तवत्सल || ६ ||

जन्ममृत्युजराव्याधिकामक्रोधादपि प्रभो |
लोभमोहान्महादेव रक्ष मां त्रिदशेश्वर || ७ ||

त्वं गतिस्त्वं मतिश्चैव त्वं भूमिस्त्वं परायणः |
कायेन मनसा वाचा त्वयि भक्तिर्दृढास्तु मे || ८ ||

फलश्रुतिः

इत्येतद्रुद्रकवचं पाठनात्पापनाशनम् |
महादेवप्रसादेन भैरवेन च कीर्तितम् || ९ ||

न तस्य पापं देहेषु न भयं तस्य विद्यते |
प्राप्नोति सुखमारोग्यं पुत्रमायुः प्रवर्द्धनम् || १० ||

पुत्रार्थी लभते पुत्रान्धनार्थी धनमाप्नुयात् |
विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमेव च || ११ ||

व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् |
ब्रह्महत्यादि पापं च पठनादेव नश्यति || १२ ||

इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे अष्टमः पटलः || ८ ||



अथ नवमः पटलः

आसनम्

एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् |
व्याघ्राजिने सर्वसिद्धिर्ज्ञानसिद्धिर्मृगाजिने || १ ||

वस्त्रासनं रोगहरं वेत्रजं प्रीतिवर्द्धनम् |
कौशेयं पुष्टिदं प्रोक्तं कम्बलं सर्वसिद्धिदम् || २ ||

शुक्लं वा यदि वा कृष्णं विशेषाद्रक्तकम्बलम् |
मेषासनं तु वश्यार्थमाकृष्टौ व्याघ्रचर्म च || ३ ||

शान्तौ मृगाजिनं शस्तं मोक्षार्थं व्याघ्रचर्म च |
गोचर्म स्तम्भने देवि! वाजिं चोचाटने तथा || ४ ||

विद्वेषे श्वानचर्म च

मारणे माहिषं चर्म कर्मोद्दिष्टं समाचरेत् |
सर्वकामार्थदं देवि! पट्टवस्त्रासनं तथा || ५ ||

कुशासनं कम्बलं वा सर्वकर्मसु पूजितम् |
दुःखदारिद्र्यनाशं तु काष्ठपाषाणजासनम् || ६ ||

होमघटादिस्थापनम्

नित्यं नैमित्तिकं कार्यं स्थण्डिले वा समाचरेत् |
हस्तमात्रेण तत्कुर्याद्वालुकाभिः सुशोभनम् || ७ ||

तोयपूर्णान्घटान्पञ्च स्थापयेत्परमेश्वरि |
एकेन मन्त्रयुग्मेन स्थापिताः स्युः सपल्लवैः || ८ ||

अशक्तौ च महादेवि एकैकेन च वाससा |
कदाचिदपि चैकेन सर्वान्नाच्छादयेच्छिवे || ९ ||

अनाच्छादिततोयानि स्थापयित्वा व्रजत्यधः |

ततः स्थां स्थीं इति श्रीमिति मन्त्रेण घटं स्थिरीकृत्य | क्लीं इति
घटप्रोक्षणम् | क्रामिति घटाभिमन्त्रणम् | ह्रीं इत्यारोपणम् | ह्रीं जलेन
पूरणम् | ततः कृताञ्जलिः पठेत् |

गंगाद्याः सरितः सर्वाः समुद्राश्च सरांसि च || १० ||

सर्वे समुद्राः सरितः सरांसि जलदा नदाः |
ह्रदाः प्रस्रवणाः पुण्याः स्वर्गपातालभूगताः |
सर्वतीर्थानि पुण्यानि घटे कुर्वन्तु सन्निधिम् || ११ ||

ततः श्रीमिति पल्लवम् हुमिति फलम् रमिति सिन्दूरम् बमिति पुष्पम् मूलेन
दूर्वाम् ओं ओं ओं इत्यभ्युक्षणम् ओं फट् स्वाहा इति कुशेन ताडनम् |
शान्त्यर्थं स्नापयेत्कुम्भम् |

पुण्याहं वाचयित्वा कर्म कुर्यात् दिग्बन्धनादि
गणेशग्रहदिक्पालादीन्प्रतिकुण्डे पूजयेत् | स्थण्डिले पूजयेल्लिङ्गं
सर्वापत्तिविनाशनम् | कुम्भे चापि पूजयेत् | ततः अग्निमानीय संस्कृत्य
होमं कुर्यात् |

महाविपत्तौ जुहुयात् जवां कृष्णपराजिताम् |
द्रोणं वा करवीरं वा मनोभीष्टफलं लभेत् || १२ ||

करवीरैः श्वेतरक्तै रक्तचन्दनमिश्रितैः |
द्रोणैश्च केतकीपुष्पैर्होमो रोगं विमोचयेत् || १३ ||

चम्पकैः श्वेतपद्मैश्च कोकनदञ्च बन्धुकम् |
बिल्वपत्रं कुरुवकं मुनिपुष्पं च केसरम् || १४ ||

हुत्वा यदि महादेवि अवश्यं पुत्रवान्भवेत् |
रक्तोत्पलं बिल्वपत्रं काञ्चनं रक्तवर्णकम् || १५ ||

शान्तिमन्त्रत्रिकं चापि शतसंख्याक्रमेण तु |
जुहुयात्तु महेशानि सर्वसिद्धिर्भवेत्तदा || १६ ||

इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे नवमः पटलः || ९ ||


अथ दशमः पटलः

शाक्ताभिषेकः

शाक्ताभिषेको वन्ध्यामृतवत्सारोगिणीनां शान्तिकरः |
धनकीर्त्यायुर्वृद्धिः सौभाग्यजननः सर्वाशापूर्णो
मन्त्रदोषनिवारणोऽभिचारहरो ग्रहदोषनाशनः सर्वसिद्धिप्रदोऽभिषेकः
||

नयनरञ्जनम्

दीपं कृत्वा ताम्रपात्रे कज्जलं पातयेदथ |
गवां घृतेन चालोड्य चक्षुषी अथ रञ्जयेत् |
पूर्वे च यादृशं दृष्टं तादृशं च प्रपश्यति || १ ||

प्रकारान्तरे

रक्तचन्दनसंयोगान्मधुना सहरौदुके |
कियद्दृष्टमञ्जनञ्च तिमिरं हन्ति सुन्दरि || २ ||

अथान्यः

पुनर्नवाघृतं सद्यश्चक्षुस्तेजःकरं भवेत् || ३ ||

ज्वरहरणम्

अपामार्गस्य मूलं च कन्यकासूत्रबन्धने |
स्वात्यां तथा वैष्णवे च ज्वरं हन्ति सुदारुणम् || ४ ||

सर्वज्वरनिवारणम्

रक्तवाट्या मूलमर्कवारे कदलीसूत्रैः शययायां दापयेत्सर्वज्वरं
तापज्वरं हरेत् |

उदररोगप्रशम्

नागेश्वरमूलं मधुना सह पानादुदररोगशान्तिः |

तृष्णानाशः

रक्तचन्दनं वर्षयित्वा तोलकं जलसम्मिश्रं वामहस्ते गृहीत्वा
मनुमष्टोत्तरशतं
सञ्जप्य पिबेत् | सप्ताहात्तस्य तृष्णानाशो भवति |

मन्त्रः

शब्दबीजद्वयं भद्रे! नाशय द्वितयं वदेत् |
तृष्णोति पदमुच्चार्य ततः स्वाहा मनुर्मतः |
अनेन मनुना देवि! तृष्णानाशो भविष्यति || ५ ||

सर्वापच्छान्तिकरं महास्वस्त्ययनम्

अथ वक्ष्ये महेशानि महास्वस्त्ययनं शृणु |
सर्वसिद्धिकरं पुण्यं सर्वपापविनाशनम् || ६ ||

सर्वोपद्रवशमनं सर्वारिष्टविनाशनम् |
महाव्याधिप्रशमनमपस्मारविनाशनम् || ७ ||

योगिनीभूतवेतालाः प्रेतकूष्माण्डपन्नगाः |
तत्र स्थाने न तिष्ठन्ति डाकिन्याद्या विशेषतः || ८ ||

कृत्यामभ्यर्च्चयेद्देवि! यथाविधि पुरःसरम् |
षोडशारं लिखेत्पद्मं योनियुग्मं सबिन्दुकम् || ९ ||

तन्मध्येऽष्टदलं लिख्य यकारादीन्न्यसेत्क्रमात् |
तन्मध्ये चैव षट्कोणं लिखेन्मूलमनुस्मरन् || १० ||

चन्द्रबिम्बं लिखेन्मध्ये असाध्ये पार्थिवं शिवम् |
तस्य मध्ये न्यसेत् कुम्भं गले स्रग्दामभूषितम् || ११ ||

तस्य मध्ये न्यसेत् कृत्यां सर्वलक्षणसंयुताम् |
पूजयेच्च यथान्यासं पायसन्तु निवेदयेत् || १२ ||

परितोष्य घटे न्यस्य असिताङ्गादिभैरवान् |
गन्धपुष्पादिनाभ्यर्च्य तद्बाह्ये क्षेत्रपालकान् || १३ ||

लोकपालं यजेद्देवि! तदग्रे होममाचरेत् |
जुहुयादाज्यापामार्गेण रक्षतां भिदमर्षणौ || १४ ||

दूर्वाग्रखदिराश्वत्थं प्रत्येकन्तु शतादिकम् |
कुण्डे व स्थण्डिले वापि होमकर्म समाचरेत् || १५ ||

तस्य दक्षिणपार्श्वे तु लक्ष्मीं ध्यायेद्यथाविधि |
कुण्डमध्ये न्यसेद्देवीं दक्षिणे च श्रियं स्मरेत् || १६ ||

वामपार्श्वे स्मरेद्देवीं हृल्लेखां परमेश्वरीम् |
तस्यैव वामपार्श्वे तु पूजयेद्दश नायकम् || १७ ||

अयुतं मूलमन्त्रञ्च जपेन्मृत्युविनाशनम् |
अयुतं भ्रूणहत्यायां जपेत् परिमाणं विदुः || १८ ||

महाव्याधिप्रशमनं तावज्जप्त्वाभिषेकतः |
एवं यः कुरुते मर्त्यः पुण्यां गतिमवाप्नुयात् || १९ ||

तस्यावश्यं न विद्येत व्याधिभ्योऽपि भयं नहि || २० ||

इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे दशमः पटलः || १० ||


अथैकादशः पटलः

कुमार्यावेशनम्

श्रीश्वर उवाच

अथ वक्ष्यामि संक्षेपात् कुमार्यावेशनं शृणु |
सुगुप्ते विजने देशे गोमयेनोपलेपिते || १ ||

आचार्यः प्रयतो भूत्वा सुस्नातो विजितेन्द्रियः |
नवकुम्भान् समादाय शुद्धकुम्भेन पूरयेत् || २ ||

नवं शरावमानीय कपिलाघृतपूरितम् |
कुम्भोपरि समारोप्य दीपं प्रज्वालयेत्ततः || ३ ||

शताष्टमन्त्रजापेन कुमारा वा कुमारिकाः |
अतीतानागतञ्चैव वर्तमानं च यद्भवेत् || ४ ||

शुभाशुभानि सर्वाणि पश्यन्ति नात्र संशयः |
सम्यग्ध्यात्वा गणेशानं गते यामे जपेन्निशि || ५ ||

शुभाशुभानि कर्माणि कथयन्ति न संशयः |
कन्यकार्थी शुचिर्भूत्वा मन्त्रराजं गणेशितुः || ६ ||

जप्त्वा दशसहस्राणि भानुरुक्ता श्वभावजैः |
पुष्पैर्दशांशहवनात् तां कन्यां लभते ध्रुवम् || ७ ||

काम्यकर्माणि

वक्ष्यामि काम्यकर्माणि साधकानां हिताय वै |
शास्त्रोक्तेनैव मन्त्रेण संक्षेपान्न तु विस्तरात् || ८ ||

दिव्यज्ञानादिलाभः

स्वहृत्पद्मे गणेशानं कुन्देन्दुधवलप्रभम् |
शुक्लालङ्कारसम्पन्नं भावयेद्यो निरन्तरम् || ९ ||

भारती तस्य वक्त्राब्जे शास्त्रज्ञा बहुसुन्दरी |
नित्यं प्रकाशते सत्यं दिव्यज्ञानप्रदायिनी || १० ||

वशीकरणम्

न विनश्येद् गणेशानं सिन्दूरसदृशप्रभम् |
पाशांकुशधरं ध्यात्वा यो जपेन्मन्त्रवित्तमः |
अनङ्गवशसम्पन्ना तमभ्येति वराङ्गना || ११ ||

प्रकारान्तरम्

पाशांकुशवराभीतिं हिमकुन्देन्दुमल्लिभम् |
दिग्वस्त्रं चन्द्रवर्णाभं स्फुरन्माणिक्यमण्डलम् |
यः स्मरेत्तस्य वशगा ह्यवश्याऽपि वराङ्गना || १२ ||

मुखस्तम्भनम्

विवादेषु गणेशानं ज्वलदग्निसमप्रभम् |
प्रतिवादिमुखे ध्यायन्प्रजपेन्मनसा मनुम् || १३ ||

तन्मुखं स्तम्भयेदाशु वादी दीनोऽपि नान्यथा || १४ ||

सर्वरोगहरणम्

अंगुष्ठमानं हृत्पद्मे शुद्धस्फटिकसन्निभम् |
चिन्तयित्वा गणेशानं चिदम्बरसुधारसम् || १५ ||

अभिषिच्य सुरश्रेष्ठ सततं धरणीतले |
सर्वरोगविनिर्मुक्तश्चिरकालं स जीवति || १६ ||

विषहरणम्

शुक्लवर्णं गणेशानं दशबाहूं मदोत्कटम् |
शुक्लाम्बरधरं सौम्यं चिच्छशांकामृतप्लुतम् || १७ ||

भावयेद्धृदयाम्भोजे नित्यं निर्मलमानसः |
मन्त्री गरुडवत् सद्यस्त्रिविधं हरते विषम् || १८ ||

नानाविधकार्याणि

धनार्थी मधुना नित्यं वशार्थी पायसैर्हुनेत् |
घृतेन लक्ष्मीसम्प्राप्त्यै हुनेत् शर्करया तथा || १९ ||

आयुषे चार्थसम्पत्तौ दध्ना च जुहुयात्तथा |
अन्नेन चान्नसम्पत्त्यै द्रव्याप्त्यै तिलतण्डुलैः || २० ||

लवणैरप्यनावृष्ट्यै वृष्टि कामस्तु बिल्वकैः |
सौभाग्यार्थी तथा लाजैः कुसुमैश्चापि सोदनैः || २१ ||

विविधवशीकरणानि

वशिने जुहुयात् पद्मै राजानं वशमानयेत् |
अश्वत्थोदुम्बरप्लक्षन्यग्रोधसमिधो हुनेत् || २२ ||

विप्रक्षत्रियविट्शूद्राः सद्यो वश्या भवन्ति वै || २३ ||

स्त्रीवशीकरणम्

स्त्रीणां प्रतिकृतिं कृत्वा पिष्टेन प्रतिवासरम् |
साज्याहुतित्रयन्तस्य वशमायान्ति नान्यथा || २४ ||

प्रकारान्तरम्

मन्त्रराजं जपित्वा तु यथाविधि महोदरम् |
दशांशे जुहुयान्मन्त्री राजिकालवणेन च || २५ ||

तद्भस्म वामहस्तेन गृहीत्वा ताडयेत् स्त्रियम् |
समागच्छति सा नारी मदनानलविह्वला || २६ ||

रिपुस्तम्भनम्

तद्वच्च प्रजपेदेनं पीतपुष्पैश्च मन्त्रवित् |
स्तम्भयेद्रिपुसैन्यं च सामात्यबलवाहनम् || २७ ||

प्रतिवादी भवेन्मूको मन्त्रस्यास्य प्रभावतः |
स्तम्भयेत् पञ्चद्रव्याणि नात्र कार्या विचारणा || २८ ||

शत्रूच्चाटनम्

विभीतकसमिद्भिस्तु नियतं जुहुयात्तथा |
सम्यगुच्चाटयेच्छत्रून् स्वस्थानात्तु विशेषतः || २९ ||

मेरुमण्डलतुल्यो वा स देवोद्विग्नमानसः |
ग्रामयुद्धे पुरे वापि इमं स्तुत्वा तु होमयेत् || ३० ||

उच्चाटयति वेगेन मानुषेषु च का कथा || ३१ ||

मारणम्

मानुषास्थि समानीय सम्यगष्टांगुलीमितम् |
मृतकेशैस्तु संवेष्ट्य सहस्राष्टाभिमन्त्रितम् || ३२ ||

कुलिकोदयवेलायां शत्रुद्वारे खनेद्भुवि |
सप्ताहान्मरणं तस्य भविष्यति न संशयः || ३३ ||

गणेशयन्त्रम्

अतः परं यन्त्रराजं शृणु देवि! गणेशितुः |
सुसमे भूतले शुद्धे गजाद्यैः सुपरिष्कृते || ३४ ||

कामक्रोधविनिर्मुक्तः पूर्ववन्न्याससंयुतः |
संपूज्य देवदेवेशं गणेशं शङ्करात्मजम् || ३५ ||

भूर्जे क्षौमे तस्योपरि यन्त्रराजं समुद्धरेत् |
कस्तूरीरोचनायन्त्रकाश्मीरं चन्दनं रसम् || ३६ ||

गोशकृद्रससंयुक्तैर्मातङ्गमदमिश्रितैः |
सर्वैश्च सुसमैरेभिः प्राणमापूर्य संलिखेत् || ३७ ||

लेखन्या हेमशूच्या वा जातिकाष्ठेन दूर्वया |
षट्त्रिंशत्कोणमष्टारं द्वादशारं ततः परम् || ३८ ||

कवर्गादीनि गायत्र्या वर्णान्यपि लिखेद्बहिः |
महाभूमण्डलं कुर्याद्गजाष्टकविभूषितम् || ३९ ||

तद्बाह्यं वारुणं कूर्ममण्डलञ्च नतं शुभम् |
कर्णिकायां लिखेन्मन्त्री दक्षौ प्रणववेष्टितौ || ४० ||

अङ्गानि चाष्टकोणेषु लक्ष्मीमनुदलं लिखेत् |
द्वादशारे लिखेच्छक्तिं विना नपुंसकस्वरम् || ४१ ||

स्वरपत्रं कलापत्रे ततश्चाष्टदलाम्बुजे |
कादिमन्ताक्षरञ्चापि सर्वं पूर्वादितो लिखेत् || ४२ ||

पुनः पार्श्वककोणेषु वादि सान्तं समालिखेत् |
एतन्मन्त्रं समाख्यातं न देयं यस्य कस्यचित् || ४३ ||

अणिमाद्यष्टमन्त्रेण चाष्टबाहुं प्रपूजयेत् || ४४ ||

अं अणिमायै नमः स्वाहा | लं लक्ष्म्यै नमः | व्यं व्याप्त्यै | प्रं
प्राकाम्यायै | मं महिमायै | ईं ईशित्वायै | वं वशित्वायै | कं
कामावशायित्वायै नमः स्वाहा ||

एवं सम्पूज्य विधिवन्मन्त्री मुनिगणान्यजेत् |
भोजयित्वा विधानेन नानामिष्टफलादिभिः || ४५ ||

दिव्यगन्धयुतैः पुष्पैर्दिव्यगन्धप्रलेपनैः |
मूषिकं पूजयामास नानामिष्टफलादिभिः || ४६ ||

ओं समूषिकाय गणाधिपवाहनाय धर्मराजाय स्वाहा |

इत्यनेनैव मन्त्रेण मूषिकं पूजयेत्ततः || ४७ ||

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् |

इति क्रियोड्डीशे महातन्त्रराजे शिवगौरीसंवादे एकादशः पटलः || ११ ||



अथ द्वादशः पटलः

वशीकरणम्

पलार्द्धस्वर्णेन रजतेन वा साध्यस्य प्रतिमां कृत्वा सार्धहस्तं गर्तं
कृत्वा हरितालहरिद्राचूर्णकं पलार्द्धं तत्र निःक्षिप्य रक्तासने
तत्रोपविश्य चतुर्दिक्षु पताकां निवेश्य तिलपूर्णघटमधः कृत्वा
संस्थाप्य प्राणप्रतिष्ठां कृत्वा पूर्वास्यः प्रवालमालया
दशसाहस्रजपेन प्रयोगार्हो भवेत् |
मन्त्रः

प्रणवं पूर्वमुच्चार्य मायाबीजं द्वितीयकम् |
कात्वं त्वल्लाकिनीयुक्तं वामकर्णेन्दुभूषितम् || १ ||

ततो मत्रपदं ब्रूयाच्चामुण्डे तदनन्तरम् |
साध्यनाम ततो न्यस्य वशमानय तत्परम् || २ ||

वह्निजायावधिर्मन्त्रं जयेद्दशसहस्रकम् |

अथान्यत्-चामुण्डे मोहय मोहय अमुकं वशमानय स्वाहा | प्रातः
स्नात्वा हविष्याशी जितेन्द्रियः शुचिर्भूत्वा प्रातः कालमारभ्य
मध्यन्दिनावधिजपसमाप्तेर्दशांशादिक्रमेण होमादींश्च कारयेत् |

जातीपुष्पैर्होमेन वशयेन्नात्र संशयः || ३ ||

कामतुल्यश्च नारीणां रिपूणां शमनोपमः |
यावज्जीवनपर्यन्तं स्मरणं च प्रजायते || ४ ||

अन्यच्च

श्वेतापराजितामूलं पेषयेद्रोचनायुतम् |
शतेन मन्त्रिदं कृत्वा तिलकं कारयेत्ततः || ५ ||

वशयेन्नात्र सन्देहः |

राजवशीकरणम्

रक्तपुष्पेण चामुण्डापूजा ध्यानम्-

दंष्ट्राकोटिविशङ्कटा सुवदना सान्द्रा कृकारे स्थिता
खट्वाङ्गासिनिगूढदक्षिणकरा वामेन पाशांकुशा |
श्यामा पिङ्गलमूर्द्धजा भयकरी शार्दूलचर्मावृता
चामुण्डा शववाहिनी जपविधौ ध्येया सदा साधकैः || ६ ||

जप्त्व किंशुककुसुमैर्हुत्वा फलप्राप्तिः | आद्यन्ते महती पूजा
पञ्चदिनप्रयोगेण राजानं वशमानयेत् |

प्रकारान्तरेण वशीकरणम्

मृगशीर्षे तु संग्राह्यं सुरक्तकरवीरकम् |
नवांगुलं कीलकं तत् सप्तवाराभिमन्त्रितम् || ७ ||

यस्य नाम्ना खनेद्भूमौ स वश्यो भवति धुवम् |

मन्त्रः

ओं हुं हुं स्वाहा |

तत्तत्स्थाने यथासंख्यामनुक्ते त्वयुतं जपेत् || ८ ||

इति क्रियोड्डीशमहातन्त्रराजे गौरीश्वरसंवादे द्वादशः पटलः || १२ ||



अथ त्रयोदशः पटलः

विद्वेषणम्

गृहीत्वा शल्लकीकण्टं निखनेद्भूविदारतः |
कलहो जायते नित्यं शत्रोर्गेहे न संशयः || १ ||

मन्त्रः

ओं नमो नारायणाय अमुकामुकेन सह विद्वेषं कुरु कुरु स्वाहा |

अन्यच्च

परस्परं रिपोर्वैरं मित्रेण सह निश्चितम् |
महिषाश्वपुरीषाभ्यां गोमूत्रेण समालिखेत् || २ ||

ययोर्नाम तयोः शीघ्रं विद्वेषश्च परस्परम् || ३ ||

अन्यच्च

रक्तेन महिषाश्वेन श्मशानवस्त्रके लिखेत् |
ययोर्नाम तयोः शीघ्रं विद्वेषश्च परस्परम् || ४ ||

षट्कोणचक्रमध्ये तु रिपोर्नामसमन्वितम् |
मन्त्रं ततः प्रवक्ष्यामि महाभैरवसंज्ञकम् || ५ ||

महाभैरवमन्त्रः

ओं नमो भगवते श्मशानकालिके अमुकं विद्वेषय विद्वेषय हन हन पच
पच मथ मथ ओं फट् स्वाहा |

अनेन मन्त्रराजेन होमयेद्यत्नतः सुधीः |
वह्निकुण्डे श्मशानाग्निं दीपयेत् खादिरैन्धसा || ६ ||

कटुतैलान्वितैः पत्रैर्निम्बस्य परिशोधितैः |
होमयेदयुतं धीमान्साकं तिलयवाक्षतैः || ७ ||

भावयन् कालिकां देवीं मन्त्रशीलक्षमप्रभाम् |
व्योमनीलां महाचण्डां सुरासुरविमर्दिनीम् || ८ ||

त्रिलोचनां महारावां सर्वाभरणभूषिताम् |
कपालकर्तृकाहस्तां चन्द्रसूर्योपरिस्थिताम् || ९ ||

शरजालधराञ्चञ्चत् प्रेतभैरववेष्टिताम् |
वसन्तीं पितृगहने सर्वसिद्धिप्रदायिनीम् || १० ||

होमयेद्विविधैः पुष्पैर्वलिछागोपहारकैः |
पूजयित्वा महेशानीं भक्तियुक्तेन चेतसा || ११ ||

एतद्भस्म समादाय धारयेदभिमन्त्रितम् |
भस्मना तेन मनुना विद्वेषो जायते नृणाम् || १२ ||

मन्त्रः

ओं द्रीं विद्वेषिणि अमुकामुकयोः परस्परयोर्विद्वेषणं कुरु कुरु स्वाहा |

अथोच्चाटनम्

सौरारयोर्दिने ग्राह्यं नरास्थि चतुरङ्गुलम् |
निशावसाने संलिख्य प्रधानभवने क्षिपेत् |
सप्ताहाऽभ्यन्तरे शत्रोराशु चोच्चाटनम्भवेत् || १३ ||

द्रुं अमुकस्योच्चाटनं कुरु कुरु स्वाहा | द्रूं अमुकं हन हन स्वाहा |

स्तम्भनम्

अमुकस्य मनः स्तम्भय स्तम्भय द्रुं फट् ||

शान्तिः

शान्तिः सर्वाभिचारस्य पञ्चगव्येन जायते |
काम्यप्रयोगे सर्वत्र नियमोऽयुतसंख्यकः || १४ ||


मारणम्

महाकृत्याप्रयोगः

अतः परं महेशानि! मारणं शृणु पार्वति |
येन विज्ञातमात्रेण सुसाध्यं भुवनत्रये || १५ ||

रुद्रजाया महायोगिन्यतो गौरीपदं वदेत् |
भुवनभयंकरीति पदं वर्मास्त्रमुच्चरेन्मनुम् || १६ ||

अथवा प्रथं न्यासमथातो ब्रह्मणः पदम् |
यद्दीर्घयुक्तबीजेन चाङ्गमन्त्रेण योजना || १७ ||

हृदयं च ततोऽङ्गेन धर्मास्त्रेण शिरःक्रमात् |
शिखाकवचनेत्रास्त्रमेवं न्यासक्रमः स्मृतः || १८ ||

अङ्गिराश्च ऋषिर्देवि गायत्रीच्छन्द ईरितम् |
सिंहवक्त्रा च भूतानां भयङ्करि ततः परम् |
महाकृत्या देवता च इत्युक्त्या न्यासमाचरेत् || १९ ||

ध्यानम्

सिंहाननां कृष्णमुखीं लम्बगात्रपयोधराम् |
दंष्ट्राकरालवदनां त्रिनेत्रां सर्वप्रोज्ज्वलाम् || २० ||

कृष्णकाञ्चीसमायुक्तां विधूमाग्निसमप्रभाम् |
त्रिशूलचक्रमुशलखट्वाङ्गकरपङ्कजाम् || २१ ||

लेलिहानमहज्जिह्वां विद्युत्पुञ्जसुभीषणाम् |
ध्यात्वा कृत्यां विधानेन पूजयेन्मन्त्रवित्तमः || २२ ||

ध्यात्वा कृत्यामर्च्चयेद्वै रक्तैः पुष्पैश्च वश्यके |
कृष्णैर्मारणकृत्येषु मांसरक्तासवैः स्तुताम् || २३ ||

कृत्याञ्च मदनां कुमार्यश्वच्छादिनीं तथा |
भीषणां श्रीमतीं चैव प्रतिष्ठाञ्च ततः परम् || २४ ||

विद्यामभ्यर्चयेदष्टपत्रेषु हि सुलोचनाम् |
पूर्वे तु शांकरीं नाम शुक्लवर्णां वरान्विताम् || २५ ||

द्विभुजां सौम्यवदनां पाशांकुशधरां शिवाम् |
दक्षिणे भीषिकां नाम लम्बजिह्वां सुधामुखीम् || २६ ||

कृष्णवर्णां रक्तमुखीं रक्तमालानुलेपनाम् |
चतुर्भुजां सिंहनादां महाघोषां कपालिनीम् || २७ ||

खड्गहस्तां शिरोमालां सर्वाभरणभूषिताम् |
पश्चिमे वारुणीं नाम स्वर्णवर्णां हसन्मुखीम् || २८ ||

सुरुद्रमालिकां शुभ्रदंष्ट्रामभयदां सदा |
उत्तरे भीमिकां नाम चतुर्हस्तां भयङ्करीम् || २९ ||

पूजयित्वा जपेन्मन्त्रं नित्यमष्टोत्तरं शतम् |
अवाप्य विनियोगस्तु कर्तव्यो मन्त्रिणा सदा || ३० ||

कालं विदित्वा प्रतिमां मधूच्छिष्टेन कारयेत् |
द्वादशांगुलकं शत्रोर्नखलोमसमन्वितम् || ३१ ||

हृदये नामधेयञ्च फट्कारञ्च समर्मके |
अस्य प्राणान् प्रतिष्ठाप्य मरिचैर्लेपयेत्ततः || ३२ ||

मृतब्राह्मणचाण्डालकेशाभ्यां पादयोः पृथक् |
बद्ध्वा करे करमये तोरणे चाऽप्यधोमुखम् || ३३ ||

तस्याधो मेखलायुक्तं त्रिकोणं तत्र कुण्डकम् |
तत्र शारं विधायाग्निं परिस्तीर्य शरैस्तृणैः || ३४ ||

विभीतकं परिधाय कल्पयेद्यस्य मारणम् |
जुहुयान्निम्बतैलाक्तैः काकोलूकस्य पुच्छकैः || ३५ ||

दारयैनं शोषयैनं मारयेत्यभिधाय च |
अष्टोत्तरशतेनैव मनुना विधिना ततः || ३६ ||

होमान्ते विधिवत् कृत्वा बाह्ये अग्नेश्च सन्निधौ |
यो मे द्वेष्टि जनः कश्चिद्दूरस्थो वान्तिकेऽपि च || ३७ ||

पिब कृत्येऽमुकं तस्य हुमित्युक्त्वा निवेदयेत् |
संरक्ष्याग्निं विधानेन नवरात्रं समाचरेत् || ३८ ||

हुनेद्यावत्तावदस्य भवेदेव रिपोर्मृतिः |
अर्कक्षीरे च मरिचं पिष्ट्वा सिद्धार्थमेव च || ३९ ||

जलैः संलोड्य मन्त्रेण रिपुं ध्यात्वा निरुद्धदृक् |
कृष्णाम्बरोत्तरीयाग्रपादेनाक्रम्य तद्रिपुम् || ४० ||

वज्रशूलमिति ध्यात्वा तस्योपरि तु निक्षिपेत् |
नवरात्रात् परे शत्रुर्म्रियते नात्र संशयः || ४१ ||

वटुकभैरवप्रयोगः

अतः परं महेशानि! शृणुष्व कर्मसिद्धिदम् |
वटुकं विमलाङ्गाख्यं पूजयेत् षट्सु कर्मसु || ४२ ||

आचम्य स्वस्तिवाचनसूक्तं पठित्वा

अभ्यर्च्य च शिरःपद्मे श्रीगुरुं करुणामय || ४३ ||

सङ्कल्पः

अद्येत्याद्यमुकगोत्रान्तनामग्रहविशिष्टोपशमनपूर्वकारोग्यायुर्वृद्धि-
कामो गणेशदिपूजापूर्वकवटुकपार्थिवशिवपूजनमहं करिष्ये |

शान्तिकादौ

रतिं च पूजयेदादौ क्षेत्रपालं ततः पुनः |
रुद्रं च पूजयेद्देवि ध्यानं शृणु महामते! || ४४ ||

प्रणवाद्यं ध्यानम्

शूलहस्तं महारौद्रं सर्वविघ्ननिषूदनम् |
पूर्णचन्द्रसमाभासं रुद्रं वृषभवाहनम् |
एवं ध्यात्वा महाकालीं पूजयेद्रुद्रदैवतम् || ४५ ||

प्रणवाद्यं रुद्राय नमः इतिभक्तियोगतः शततोलकपरिमितलिङ्गमानीय
कांस्यपात्रे लिङ्गं संस्थाप्य |

सामान्यार्घ्यं ततः कृत्वा भूतशुद्धिं महेश्वरि |
प्राणायाममङ्गन्यासं पीठन्यासं समाचरेत् || ४६ ||

ततः ऋष्यादिन्यासः | ततो देहन्यासः | यथा मूर्ध्नि ओं भैरवाय नमः |
एवं ललाटे भीमदर्शनाय नमः | नेत्रयोः भूताश्रयाय नमः | मुखे
तीक्ष्णदर्शनाय नमः | कर्णयोः क्षेत्रपाय नमः | हृदि क्षेत्रपालाय
नमः | नाभिदेशे क्षेत्राख्याय नमः | कट्यां सर्वाघनाशनाय नमः |
ऊर्वोस्त्रिनेत्राय नमः | जंघयोः रक्तपाणिकाय नमः | पादयोः
देवदेवेशाय नमः | सर्वाङ्गे वटुकाय नमः ||

कराङ्गन्यासः

ओं ह्रीं वां अंगुष्ठभ्यां नमः इत्यादि | ओं ह्रां वां हृदयाय नमः
इत्यादि |
ततो मूलेन व्यापकं कृत्वा ध्यायेत् | ओं वन्दे बालमित्यादि संपूज्य-

द्वाविंशदक्षरञ्चैवं जपेद्रुद्रसहस्रकम् |
अभिषेकं तर्पणञ्च यथाविधि समाचरेत् || ४७ ||

एषा शान्तिर्महाशान्तिः कथिवा तव श्रद्धया || ४८ ||

वशीकरणम्

पूर्ववत् संकल्प्य राजसध्यानेन ओं उद्यद्भास्करादि ध्यात्वा |

स्तम्भनम्

अतः परं महादेवि! पूजनं क्रूरकर्मणि || ४९ ||

पूर्ववत् संकल्प्य विद्वेषणोच्चाटनादिषु च क्रूरकर्मसु ध्यानम् | यथा-
ध्यायेन्नीलाद्रिकान्तमित्यादि ध्यात्वा सम्पूज्य
शिवसहस्रसंख्याकमुक्तं शेषे अमुकं वशमानय स्वाहा इति
मन्त्रजपकर्माहं करिष्ये |

यन्त्रे पूजाक्रमः

पुनर्ध्यात्वा यन्त्रे पुष्पं निधाय आवाहनादिकं कुर्यात् | यथा तत्र
क्रमः- मूलादि सद्योजातमन्त्रेणावाहनम् | यथा मूलं ओं सद्योजातं
प्रपद्यामि सद्योजाताय वै नमः | भवेऽभवेऽनातिभवे भवस्व मां
भवोद्भवाय नमः | पिनाकधृगिहागच्छ इहागच्छ | पुनर्मूलमुच्चार्य ओं
वामदेवाय नमः एवं ज्येष्ठाय रुद्राय कालाय कलविकरणाय बलाय
बलविकरणाय बलप्रमथनाय सर्वभूतदमनाय नमो नमः | उन्मनाय
नमः इह तिष्ठ इह तिष्ठ मूलं इह सन्निधेहि |
ओं वामदेवाय नमः | ओं ज्येष्ठाय नमः | ओं रुद्राय नमः | ओं कालाय
नमः | ओं कलविकरणाय नमः | ओं बलाय नमः | ओं बलविकरणाय नमः | ओं
बलप्रमथनाय नमः | ओं सर्वभूतदमनाय नमो नमः | ओं उन्मनाय
नमः | इह तिष्ठ इह तिष्ठ मूलं इह सन्निधेहि |

अघोरेण सन्निरोधनम्

पुनर्मूलं ओं अघोरेभ्योऽथ घोरेभ्योऽघोरघोरतरेभ्यः | सर्वेभ्यः
सर्वशर्वेभ्यो नमोऽस्तु ते रुद्ररूपेभ्यः | इह सन्निरुद्धस्व |

तत्पुरुषेण योनिमुद्राप्रदर्शनम्

पुनर्मूलम् | ओं तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः
प्रचोदयात् इति योनिमुद्रां प्रदर्शयेत् |

ईशानेन वन्दनामिति | पुनर्मूलम् | ओं ईशानः सर्वविद्यानामीश्वरः
सर्वभूतानां ब्रह्मणोऽधिपतिर्ब्रह्माशिवो मेऽस्तु सदाशिव ओं | शिवं
वन्दयामि नमः | ततः प्राणप्रतिष्ठा | आं द्रीं क्रों हंसः वटुकाय
नमः पशुपते शूलपाणेः प्राणा इह प्राणाः जीव इह स्थितः |
सर्वेन्द्रियाणि | चक्षुःश्रोत्रघ्राणप्राणाः इहागत्य सुखं चिरं तिष्ठन्तु
स्वाहा | हुं इत्यवगुण्ठ्य | वमिति धेनुमुद्रयाऽमृतीकृत्य
छोटिकाभिर्दिग्बन्धनं कृत्वा षडङ्गानि सम्पूज्य देवं पूजयेत् |
मूलमुच्चार्य एतत् पाद्यम् | ओं महादेवाय सोममूर्तये बटुकत्मने
पशुपतये शिवाय नमः | एवं क्रमेणार्घ्याचमनीयादिकं दद्यात् | स्नाने
तु विशेषः | यथा- अद्येत्यादि
अमुकस्याऽशेषाशुभनिवृत्तिपूर्वकग्रहारिष्टोपशमनारोग्यायु-
र्वृद्धिकामनया शततोलकपरिमितदुग्धेन वटुकात्मकपशुपतेर्लिङ्गं
स्नापयामि | ओं सद्योजातं प्रपद्यामि इत्यादिना स्नापयेत् | ततो जलेन
स्नापयित्वा मूलम् | एवं गन्धः | ओं महादेवाय सोममूर्तये नमः | पुष्पे
तु अद्येत्यादि उक्तवत् कामनया बटुकात्मकपशुपतये
शिवायाष्टोत्तशतद्रोणपुष्पाण्यहं सम्प्रददे | मूलमुच्चार्य ओं
महादेवाय सोममूर्तये नमः | इति मन्त्रेण एकं एकं कृत्वा दद्यात् | एवं
बिल्वपत्रम् | मधुपर्कं धूपदीपे तु गन्धवत् | नैवेद्यम् | अद्येत्यादि-
स्नानीयवत् कामनया एतत् सोपकरणशततोलकपरिमितातपतण्डुलनैवेद्यं
बटुकात्मकपशुपतये शिवाय तुभ्यमहं सम्प्रददे | ओं महादेवाय
सोममूर्तये नमः | शततोलकपरिमितसंविदाचूर्णं पानीयं ताम्बूलं
च पूर्ववत् संकल्प्य दद्यात् |

वशीकरणमन्त्रे मूलमुच्चार्य ओं भवाय जलमूर्तये वटुकात्मने शिवाय
नमः | एवंक्रमेण पूजयेत् | एवमर्घ्याचमनीयं दद्यात् | स्नाने तु
अद्येत्यादि अमुकस्यामुकवशीकरणार्थ शततोलकपरिमितघृतेन मधुताना
व बटुकात्मकपाशुपतशिवलिङ्गं स्नापयामि मूलमुच्चार्य | एवं
गन्धः ओं भवाय जलमूर्तये | पुष्पे तु अद्येत्यादि
अमुकस्यामुकवशीकरणार्थम् अष्टोत्तरशतद्रोणपुष्पं बटुकात्मने
पशुपतिशिवायाऽहं सम्प्रददे | मूलमुच्चार्य एतत् द्रोणपुष्पं ओं भवाय
जलमूर्तये नमः इति प्रत्येकम् | एवं बिल्वपत्रम् | धूपदीपे तु ओं भवाय
जलमूर्तये नमः | नैवेद्यं तु अद्येत्यादि अमुकस्यामुकवशीकरणार्थं
शततोलकपरिमितसोपकरणनैवेद्यं ओं वटुकात्मकपशुपतिशिवायाऽहं
सम्प्रददे | मूलमुच्चार्य एतत् सोपकरणशततोलकपरिमितनैवेद्यं
संविदाचूर्णञ्च ओं भवाय जलमूर्तये नमः | ततः पानार्थोदकम्
आचमनीयं ताम्बूलं च दद्यात् |

ततः अष्टावरणं पूजयेत् | ततोऽष्टमूर्तिं पूजयेत् | ततो मूलेन
पुष्पाञ्जलित्रयं दत्त्वा संकल्प्य शिवसहस्रसंख्याकं तन्मन्त्रं जपेत्
शान्तिकादौ क्रूरकर्मण्यपि | ततो गुह्यादिना जपं समाप्य स्तोत्रादिकं
पठेत् |

ततो बलिदानम् | यथा- मूलमुच्चार्य बटुकभैरवाय एष बलिर्नमः |
भैरवपरिवारगणैः सह मम शत्रून् सरुधिरं पिव पिव इमं बलिं
गृह्णगृह्ण स्वाहा |

ओं शत्रुपक्षस्य रुधिरं पिशितं च दिने दिने |
भक्षय स्वगणैः सार्द्धं सारमेयसमन्वितम् || ५० ||

ततो विहितद्रव्यैः अष्टोत्तरशतं सहस्रं वा होमयेत् |

वशीकरणे तु घृताक्तराजिकाभिरष्टोत्तरसहस्रहोमः | शान्त्यर्थं
दूर्वादिकम् | क्रूरकर्मणि बिल्वपत्रम् | उच्चाटने तु ओं ह्रीं हुं शिवाय
स्वाहा | इति विशेषः | दक्षिणां बटुकात्मकपशुपतये शिवाय तुभ्यमहं
सम्प्रददे | श्वेतसर्षपं लवणमिति |

इति क्रियोड्डीशे महातन्त्रराजे उमामाहेश्वरसंवादे त्रयोदशः पटलः ||
१३ ||


अथ चतुर्दशः पटलः

षट्कर्मणां कवचं शत्रुमर्दनम्

श्रीदेव्युवाच

श्रुतं वटुकमाहात्म्यं पूर्णविस्मयकारकम् |
इदानीं श्रोतुमिच्छामि कवचं वै षट्कर्मणाम् || १ ||

श्रीश्वर उवाच

शृणु देवि! प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि |
श्रवणात् पठनाद्वापि शत्रुनाशाय तत्क्षणात् || २ ||

श्रीदेव्युवाच

त्रैलोक्यमोहनार्थं तु कवचं मे प्रकाशय |
त्रैलोक्यशत्रुं संहन्तु नाशितं यत्क्षमं भवेत् || ३ ||

एवमुक्तो महादेवः क्रुद्धो भूत्वा जगत्पतिः |
देवीं प्रबोधयामास वाक्येनामृतवर्षिणा || ४ ||

श्रीमहादेव उवाच

परानिष्टे महादेवि ! कुतस्ते जायते मतिः || ५ ||

श्रीदेव्युवाच

जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् |
ये यथा मां प्रपद्यन्ते श्रुतिरस्ति पुरातनी || ६ ||

यदि ते वर्तते देव दया हि कथ्यतां मयि |
शत्रूणां प्राणनाशार्थमुच्चाटनवशीकृतौ || ७ ||

तेषां हि बलनाशार्थं सर्वदा प्रयता नराः || ८ ||

ईश्वर उवाच

शृणु देवि! महाभागे! कालाग्निप्राणवल्लभे |
यस्य धारणमात्रेण शत्रूणां नाशनं भवेत् || ९ ||

धृत्वा तु पादमूलेन स्पृष्ट्वा दास इवाकरोत् |
शरणागतमात्रन्तु नाशितुं नैव शक्यते || १० ||

शृणु देवि! महाभागे सावधानावधारय |
शत्रूणां प्राणनाशार्थं कुपितः काल एव सः || ११ ||

दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा |
कोटिसूर्यप्रभा काली मम शत्रून् विनाशय |
नाशयित्वा क्षणं देवि अन्यशत्रून् विनाशय || १२ ||

क्रीं क्रीं क्रीं उग्रप्रभे विकटदंष्ट्रे परपक्षं मोहय मोहय पच पच
मथ मथ दह दह हन हन मारय मारय ये मां हिंसितुमुद्यता
योगिनीचक्रैस्तान् वारय वारय छिन्धि छिन्धि भिन्धि भिन्धि करालिनि
गृह्णगृह्ण ओं क्रीं क्रीं क्रीं क्रीं स्फूर स्फूर पूर पूर पून पून
चूल्व चूल्व धक धक धम धम मारय मारय सर्वजगद्वशमानय ओं
नमः स्वाहा |

इति ते कवचं देवि! भद्रकाल्या प्रचोदितम् |
भूर्जे विलिखितञ्चैतत् स्वर्णस्थं धारयेद्यदि || १३ ||

शिखायां दक्षिणे बाहौ कण्ठे वा धारयेद्यदि |
त्रैलोक्यं मोहयेत्क्रोधात्त्रैलोक्यं चूर्णयेत्क्षणात् || १४ ||

पुत्रवान्धनवान्धीमान् नानाविद्यानिधिर्भवेत् |
ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रस्पर्शनात्ततः || १५ ||

शत्रवो नाशमायान्ति रजतेन प्रघारितम् |
मासमात्रेण शत्रूणां महविपदकारणम् || १६ ||

यं यं शत्रुं स्मरन्मर्त्यः कवचं पठति ध्रुवम् |
तं तं नाशयते सद्यस्तथ्यं ते तद्वदाम्यहम् || १७ ||

धारणे भजते शत्रुः कण्ठशोषं सदा भवेत् |
हृत्कम्पो जायते तावद्यावत्तस्य कृपा न चेत् || १८ ||

मोहनकवचम्

ईश्वर उवाच

त्रिकालं गोपितं देवि! कलिकाले प्रकाशितम् |
न वक्तव्यं न द्रष्टव्यं तव स्नेहात् प्रकाश्यते || १९ ||

काली दिगम्बरी देवि! जगन्मोहनकारिणी |
तच्छृणुष्व महादेवि! त्रैलोक्यमोहनन्त्विदम् || २० ||
अस्य महाकालभैरव ऋषिः अनुष्टुप्छन्दः श्मशानकालिका देवता
सर्वमोहने विनियोगः |

ऐं क्रीं क्रूं क्रः स्वाहा विवादे पातु मां सदा |
क्लीं दक्षिणकालिकादेवतायै सभामध्ये जयप्रदा || २१ ||

क्रीं क्रीं श्यामांगिन्यै शत्रुं मारय मारय |
ह्रीं क्रीं क्रीं क्लीं त्रैलोक्यं वशमानय || २२ ||

ह्रीं श्रीं क्रीं मां रक्ष रक्ष विवादे राजगोचरे |
द्वाविंशत्यक्षरी ब्रह्म सर्वत्र रक्ष मां सदा || २३ ||

कवचे वर्जिते यत्र तत्र मां पातु कीलका |
सर्वत्र रक्ष मां देवि श्यामा तूग्रस्वरूपिणी || २४ ||

एतेषां परमं मोहं भवद्भाग्ये प्रकाशितम् |
सदा यस्तु पठेद्वापि त्रैलोक्यं वशमानयेत् || २५ ||

इदं कवचमज्ञात्वा पूजयेद्धोररूपिणीम् |
सर्वदा स महाव्याधिपीडितो नात्र संशयः || २६ ||

अल्पायुः स भवेद्रोगी कथितं तव नारद |
धारणं कवचस्यास्य भूर्जपत्रे विशेषतः || २७ ||

सयन्त्रं कवचं धृत्वा इच्छासिद्धिः प्रजायते |
शुक्लाष्टम्यां लिखेन्मन्त्रं धारयेत् स्वर्णपत्रके || २८ ||

कवचस्यास्य माहात्म्यं नाहं वक्तुं महामुने |
शिखायां धारयेद्योगी फलार्थी दक्षिणे भुजे || २९ ||

इदं कल्पद्रुमं देवि तव स्नेहात् प्रकाश्यते |
गोपनीयं प्रयत्नेन पठनीयं महामुने || ३० ||

ऐं क्रीं क्रूं क्रः स्वाहा विवादे पातु मां सदा क्लीं दक्षिणकालिका
देवतायै सभामध्ये जयप्रदा क्रीं क्रीं श्यामांगिन्यै शत्रुं मारय
मारय ह्रीं क्रीं क्लीं त्रैलोक्यं वशमानय ह्रीं श्रीं क्रीं मां रक्ष
रक्ष विवादे राजगोचरे द्वाविंशत्यक्षरी ब्रह्म सर्वत्र रक्ष मां सदा |

श्रीविष्णुरुवाच

इत्येवं कवचं नित्यं महालक्ष्मि! प्रपठ्यताम् |
अवश्यं वशमायाति त्रैलोक्यं सचराचरम् || ३१ ||

शिवेन कथितं पूर्वं नारदे कलहास्पदे |
तत्पाठान्नारदेनापि मोहितं सचराचरम् || ३२ ||

इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे चतुर्दशः पटलः || १४ ||


अथ पञ्चदशः पटलः

सर्वरक्षाकरं कवचम्

श्रीदेव्युवाच

भगवन्देवदेवेश सर्वाऽम्नायप्रपूजितः |
सर्वं मे कथितं देव कवचं न प्रकाशितम् || १ ||

प्रासादाख्यस्य मन्त्रस्य कवचं मे प्रकाशय |
सर्वरक्षाकरं देवं यदि स्नेहोऽस्ति सम्प्रति || २ ||

श्रीभगवानुवाच

प्रासादमन्त्रकवचस्य वामदेव ऋषिः पंक्तिश्छन्दः सदाशिवो देवता
साधकाभीष्टसिद्धये विनियोगः प्रकीर्तितः |

शिरो मे सर्वदा पातु प्रासादाख्यः सदाशिवः |
षडक्षरस्वरूपो मे वदनं च महेश्वरः || ३ ||

पाञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु |
मृत्युञ्जयस्त्रिबीजात्मा आयू रक्षतु मे सदा || ४ ||

वटमूलसमासीनो दक्षिणामूर्तिरव्ययः |
सदा मां सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् || ५ ||

द्वाविंशार्णात्मको रुद्रः कुक्षौ मे परिरक्षतु |
त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा || ६ ||

चिन्तामणिर्बीजरूपे सर्वनारीश्वरो हरः |
सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः || ७ ||

एकाक्षरस्वरूपात्मा कूटरूपी महेश्वरः |
मार्तण्डभैरवो नित्यं पादौ मे परिरक्षतु || ८ ||

ओमित्याख्यो महाबीजस्वरूपस्त्रिपुरान्तकः |
सदा मां रणभूमौ तु रक्षतु त्रिदशाधिपः || ९ ||
ऊर्द्ध्वमूर्द्धानमीशानो मम रक्षतु सर्वदा |
दक्षिणस्यां तत्पुरुषो अव्यान्मे गिरिनायकः || १० ||

अघोराख्यो महादेवः पूर्वस्यां परिरक्षतु |
वामदेवः पश्चिमस्यां सदा मे परिरक्षतु |
उत्तरस्यां सदा पातु सद्योजातः स्वरूपधृक् || ११ ||

इत्थ रक्षाकरं देवि! कवचं देवदुर्लभम् |
प्रातःकाले पठेद्यस्तु सोऽभीष्टफलमाप्नुयात् || १२ ||

पूजाकाले पठेद्यस्तु साधको दक्षिणे भुजे |
देवा मनुष्या गन्धर्वा वश्यास्तस्य न संशयः || १३ ||

कवचं यस्तु शिरसि धारयेद्यदि मानवः |
करस्थास्तस्य देवेशि अणिमाद्यष्टसिद्धयः || १४ ||

स्वर्णपत्रे त्विमां विद्यां शुक्लपट्टेन वेष्टिताम् |
राजतोदरसंविष्टां कृत्वा च धारयेत्सुधीः || १५ ||

संप्राप्य महतीं लक्ष्मीमन्त्रं च शिवरूपधृक् |
यस्मै कस्मै न दातव्यं न प्रकाश्यं कदाचन || १६ ||

शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् |
अन्यथा सिद्धिहानिः स्यात् सत्यमेतन्मनोरमे || १७ ||

तव स्नेहान्महादेवि! कथितं कवचं शुभम् |
न देयं कस्यचिद्भद्रे यदीच्छेदात्मनो हितम् || १८ ||

योऽर्चयेद् गन्धपुष्पाद्यैः कवचं मन्मुखोदितम् |
तेनार्चिता महादेवि! सर्वे देवा न संशयः || १९ ||

इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे पञ्चदशः पटलः || १५ ||


अथ षोडशः पटलः

त्र्यम्बकमृत्युञ्जयमन्त्रः

श्रीदेव्युवाच

इदानीं श्रोतुमिच्छामि पूर्वमुक्तं च त्र्यम्बकम् |
प्रभेदे कथितं देव शान्तिं मृतसञ्जीवनीम् || १ ||

ईश्वर उवाच

शृणु देवि! प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि |
मातॄणां तिसृणामम्ब गर्भजातो यतो हरः || २ ||

अतस्त्र्यम्बक इत्युक्तं मम नाम महेश्वरि |
वशिष्ठोऽस्य ऋषिः प्रोक्तश्छन्दोऽनुष्टुबुदाहृतः || ३ ||

देवताऽस्य समुद्दिश्यस्त्रम्बकः पार्वतीपतिः |
विभक्तैर्मन्त्रवर्णैश्च षडङ्गानां च कल्पनाम् || ४ ||

ततश्च वह्निबीजेन समन्ताज्जलधारया |
प्राचीरं चिन्तनं कुर्यात्ततः सङ्कल्पमाचरेत् || ५ ||

पुनः संकल्प्य देवेशि! भूतशद्ध्यादिकं च यत् |
ततः पश्चात् करन्यासं कुर्याच्च मम सुन्दरि || ६ ||

त्र्यम्बकं अङ्गुष्ठाभ्यां नमः | यजामहे तर्ज्जनीभ्यां स्वाहा |
सगन्धिं पुष्टिवर्धनं मध्यामाभ्यां वौषट् | ऊर्वारुकमिक
बन्धनादनामिकाभ्यां हुम् | मृत्योर्मुक्षीय कनिष्ठाभ्यां वौषट् |
मामृतात् करतलकरपृष्ठाभ्यां फट् | एवं हृदयादिषु |

ततो द्वाविंशन्मन्त्रवर्णान्न्यसेत् पूर्वपश्चिमयाम्योत्तरेषु वक्त्रेषु ४ |
उरोगलोर्द्ध्वास्ये ३ | पुनर्नाभिहृत्पृष्ठकुक्षिषु ४ | लिंगपायूरुमूलान्ते ६ |
जानुयुग्मे २ | गुल्फयोर्युग्मे २ | स्तनयोः २ | पार्श्वयोः २ | पादयोः २ | पाण्योः
२ | नासिकयोः २ | शीर्षे १ | मन्त्रवर्णान्न्यसेत्क्रमात् पुनस्ततः
पादाद्येकादशस्थानेषु न्यसेत् | शिरो १ भ्रूयुगला १ क्षिषु १ वक्त्रे १
गण्डयुगे १ भुजयोः २ हृदये १ जठरे १ पुनः गुह्यो १ रु १ जानु १ पादेषु १
न्यासमेवं समाचरेत् |

तत उक्तध्यानेन ध्यात्वा मानसोपचारैः सम्पूज्य विशेषार्घ्यं
संस्थाप्य शैवोक्तपूजावाहनादिकं पञ्चपुष्पाञ्जलीन्दत्त्वा वरुणं
पूजयेत् | त्र्यम्बकं हृदयाय नमः | इत्यादि षडङ्गानि पूजयेत् |
ततोऽष्टपत्रेषु ओं अर्काय नमः | एवमिन्दवे वसुधायै जलाय वह्नये वायवे
व्योम्ने यजमानाय तद्बाह्ये पूर्वादितः ओं रामाय नमः ओं राकायै
नमः ओं प्रभायै नमः | ओं ज्योत्स्नायै नमः | ओं पूर्णायै नमः | ओं उषसे
नमः | ओं पूषायै नमः | ओं स्वधायै नमः | ओं विश्वायै नमः | ओं विद्यायै
नमः | ओं सितायै नमः | ओं कृत्यै नमः | ओं श्रद्धायै नमः | ओं सरायै
नमः | ओं सन्ध्यायै नमः | ओं दिवायै नमः | ओं निशायै नमः | तद्बाह्ये ओं
आर्यायै नमः | ओं आर्द्रायै नमः | ओं प्रज्ञायै नमः | ओं मेधायै नमः
| ओं कान्त्यै नमः | ओं शान्त्यै नमः | ओं पुष्ट्यै नमः | ओं बुद्ध्यै नमः | ओं
धृत्यै नमः | ओं मत्यै नमः | ततो धूपादिविसर्जनान्तं कर्म समापयेत् |
प्रयोगस्तु शनैश्चरे कुजे वा अश्वत्थमूलं स्पृष्ट्वा सहस्रं जपेत् |

पुरश्चरणविधानेन सर्वं कुर्यान्महेश्वरि |
साक्षान्मृत्योर्विमुच्येत किमन्याः क्षुद्रिकाः क्रियाः || ७ ||

प्रत्यहं जुहुयान्मन्त्री चतुःस्थण्डिलविधानतः |
द्विसहस्रं दूर्वावटजवाभि करवीरकैः || ८ ||

बिल्वपत्रं पलाशञ्च तथा कृष्णापराजिता |
वटवृक्षस्य समिधं जुहुयादयुतावधिः || ९ ||

धनधान्यसमृद्धिः स्यात्सत्यं सत्यं महेश्वरि! || १० ||

मृतसञ्जीविनी विद्या

अतः परं देवि! शृणु मृतसञ्जीविनीं तथा |
आदौ प्रासादबीजं तदनु मृतिहरं तारकं व्याहृतिं च |
प्रोच्चार्य त्र्यम्बकं यो जपति च सततं संपुटं चानुलोमम् || ११ ||

त्र्यम्बकमिति मृत्युञ्जयमन्त्रस्य जपात्सर्वसिद्धिर्भवति |

एतन्मन्त्रं जपेदाशु व्याधिमुक्तो भवेद्ध्रुवम् || १२ ||

हौं - ओं जूं सः - ओं - भूर्भुवः स्वः |

ध्यानं शृणु महादेवि-

स्वच्छं स्वच्छारविन्दं स्थितमुभयकरे संस्थितौ पूर्णकुम्भौ
पाण्योर्हेलाक्षमाले निजकरकमले द्वौ घटौ नित्यपूर्णौ |
द्वाभ्यां तौ च स्रवन्तौ शिरसि शशिकला चामृतैः प्लावयन्ती
देहं देवो दधानो विदिशतु विशदा कल्पजालां श्रियं नः || १३ ||

एवं ध्यात्वा त्र्यम्बकाय महारुद्राय नमः |
महाघोरं यदि तदा पूजयेत्परमेश्वरम् || १४ ||

ततः सुरसुन्दरीत्यादि योगिनीसाधनम् | ततो भूतिनीसाधनम् |

भूतिनीसाधनम्

श्रीदेव्युवाच

योगिनीसाधनं ज्ञातं भूतिनीसाधनोत्तमम् |
तद्वदस्व महादेव! कृपास्ति यदि मां प्रति || १५ ||

श्रीश्वर उवाच

आद्या विभूषिणी देवी पराकुण्डलधारिणी |
हारिणी सिंहिनी चैव हंसिनी च ततो नटी || १६ ||

कामेश्वरी तथा प्रोक्ता रतिदेवी ततः प्रिया |
इत्यष्टौ नायिकाः प्रोक्ताः साधकानां सुखावहाः || १७ ||

आद्याविभूषिणीसाधनम्

यथामन्त्रं महेशानि आद्या विभूषिणी तथा |

मंत्रः

हूं फट् फट् ह्रीं भूतिनीं हूं हूं हूं |
क्रोधास्त्रद्वयं मायान्ते भूतिनीं च त्रिकूर्चतः || १८ ||

अथवा- शृणु देवेशि ओं ह्रीं ह्रीं फट् फट् विभूषिणी हूं हूं हूं |
तारं लज्जाद्वयास्त्रद्वयं विभूषिणीक्रोधद्वयम् |
ध्यानम्

दक्षे कर्त्तरिकां परेऽसिलतिकां हस्ताब्जके विभ्रतीं
ह्युत्तुङ्गस्तनशोभिवक्षसि चलैर्हारादिभिः शोभिता |
दन्तान्तर्गतमांसशोणितवसासिक्तास्ति यस्यास्तनुः
कालश्यामलवर्णिकार्म्रेगभुजंगैर्वेष्टिता रक्षतु || १९ ||

स्थानं वृक्षतले तत्र यामिन्यां दिवसत्रयम् |
जपेदष्टसहस्रं तु ध्यायेदेकाग्रमानसः || २० ||

जपान्ते च महापूजा पुनर्धूपं निवेदयेत् |
चन्दनोदकमिश्रेण दत्त्वार्घ्यं तुष्यति ध्रुवम् || २१ ||

माता वा भगिनी भार्या हृष्टा भवति कामिता |
करामलकतां कृत्वा माता भूत्वा जगत्त्रयम् || २२ ||

शताष्टपरिवारस्य ददात्यञ्जनभूषणम् |
भगिनी चेन्महाभागा सहस्रयोजनादपि || २३ ||

ददाति स्त्रियमानीय दिव्यं रसं रसायनम् |
भार्या चेत्पृष्ठमारोप्य स्वर्गं प्रयाति नित्यशः || २४ ||

दीनाराणां सहस्रन्तु रसं चैव रसायनम् |
सर्वाशां पूरयत्येव सदा देवी विभूषिणी || २५ ||
पराकुण्डलिनीसाधनम्

पराकुण्डलिनीध्यानं शृणु देवि! महेश्वरि! |
कर्णे कुण्डलधारिणी शशिमुखी लीलावती सस्मिता
शैलश्रोणिविलम्बिकाञ्चिवितता व्यामुग्धलोकत्रया |
मुक्ताहारमरीचिकान्तिविलसत्प्रोत्तुङ्गकुम्भस्तनी
पायात्कुण्डलधारिणी त्रिजगतामानन्दसन्दोहभूः || २६ ||

श्मशाने पूजयेदेतामयुतं जपमाचरेत् |
आयाति तत्क्षणाद्देवी ततः कुण्डलधारिणी || २७ ||

साधकेनापि रक्तार्घ्यं देयं तुष्टा वदत्यपि |
किं कर्त्तव्यं मया वत्स मातरुक्त्वेति साधकः || २८ ||

पञ्चाशतञ्च दीनारान्देहि त्रैलोक्यदायिनि |

सिन्दूरहारिणीसाधनम्

अतः परन्तु चार्वङ्गि! सिन्दूरहारिणीमनुः || २९ ||

क्रोधद्वयेन्दुसंयुक्तः सिन्दूरहारिणीपदम् |
कूर्चबीजत्रयं चास्त्रं सम्प्रोक्तं विविधं तथा || ३० ||

ध्यानम्

सिन्दूराकृतिहारिणी चलदलव्यालोलशाखास्वरा
सोत्कण्ठीकृतगात्रयष्टिशुभगा शुभ्रांशुचन्द्रस्मिता |
अन्तः सन्ततदन्तकान्तिमलिना त्रैलोक्यशोभाकरी पायादुन्नतबाहुयुग्मलतिका
सिन्दूरहारिण्यसौ || ३१ ||

शून्ये देवालये गत्वा निर्जने निशि साधकः |
तत्त्वसंख्यादिनं यावज्जपस्तत्त्वसहस्रकः || ३२ ||

तदन्ते महतीं पूजां वस्त्रालङ्कारभूषणैः |
कुर्यात्साधकवर्यस्तु भार्या भवति कामिता || ३३ ||

वरं वरय शीघ्रं त्वं प्रोक्ता सिन्दूरहारिणी |
रक्षति द्वादशदिनं देवि सिन्दूरहारिणी || ३४ ||

सिंहिनीसाधनम्

अतः परं देवि! शृणु सिंहिन्याश्च महामनुम् |
मायाद्वयं क्रोधद्वयं सिंहिनीति पदन्ततः || ३५ ||

पुनः क्रोधं तदन्ते च सिंहिनी च महामनुः |
ह्रीं ह्रीं फट् फट् सिंहिनी हूं हूं फट् || ३६ ||

शैलाग्रे निर्जने वापि सिंहिन्याः पूजनं तथा || ३७ ||

ध्यानम्

शैलाग्रक्रमदुर्गमन्तु अटवीदुर्गास्तु दैत्याहते
केशाग्रस्थसमस्तविष्णुचरणं प्रभ्रष्टसंसिंहिनी |
यावन्तो बलदण्डवारणबलात् प्रक्षु क्वसिद्धाङ्गना
शेषं पातु समस्तमन्तककुलव्याकल्पमाना कला || ३८ ||

शैलाग्र-द्रुम-दुर्ग-दन्तुरदरी-दुर्गान्त-दैत्यस्थिता
केशस्रस्त-समस्त-विश्वचरणा प्रभ्रष्ट-चन्द्रासनी |
यावत्तारविदन्त-धारण-वन-प्रक्षुब्ध-सिद्धाङ्गना
सेयं पातु समस्तमस्तककुलव्यालम्बिमालाकुला ||

गत्वैकलिङ्गं यामिन्यां प्रजपेदयुतं मनुम् |
ततो हृष्टातिवरदा सिंहिनी चेति पूजिता || ३९ ||

किं करोमि वदत्येव भार्या भवति कामिता |
दिनावसाने यामिन्यां सिंहिन्यायाति राति च |
वस्त्रयुग्मं रसमयं साधकाय दिने दिने || ४० ||

हंसिनीसाधनम्

अतः परं शृणु चार्वङ्गि हंसिनीसाधनक्रमम् |

ओं हूं हूं हूं फट् हंसिनी |

प्रणवञ्च त्रिकूर्चास्त्रहंसिनीकथितो मनुः || ४१ ||

ध्यानम्

शुभ्रा शुभ्रसरोजतुल्यनयना सायुग्मबाणान्विता
शुश्रूषा कुलमुग्धसाध्यवनिता संसेविता सादरम् |
किञ्चित्तिर्यगपाङ्गलोलवलितव्यामुग्धस्मेरानना
दिव्या काञ्चनरत्नहारललिता श्रीहंसिनी पातु नः || ४२ ||

वज्रपाणिर्गृहं गत्वा प्रतिमां शोभनां लिखेत् |
अवधानेन सम्पूज्य जपेदयुतसंख्यकम् || ४३ ||

यावदर्धनिशा देवी हंसिन्यायाति निश्चितम् |
चन्दनार्घ्यप्रदानेन दृष्टा भवति हंसिनी || ४४ ||

किं मया ते प्रकर्त्तव्यं शीघ्रं तद्वद साधक! |
वस्त्रालङ्कारभोज्यानि दिव्यार्थं सम्प्रयच्छति || ४५ ||

अवशेषव्ययाभावान्न ददाति प्रकुप्यति || ४६ ||
नटीसाधनम्

इतः परं महामाये शृणु मे नटीसाधनम् |
ओं हूं हूं फट् फट् नटी हूं हूं हूं || ४७ ||

तारं कूर्चक्रोधास्त्रद्वयतो नटीति पदमुद्धरेत् |
कूर्चत्रयन्तु मन्त्रोऽयं कथितो नर्तकीमनुः || ४८ ||

ध्यानम्

फुल्लेन्दीवरसुन्दरोदरमुखी प्रोत्तुङ्गकुम्भस्तनी
द्योतन्ती मृगमीनयुग्मनयना सानन्दमन्दस्मिता |
क्षीराम्भोनिधिसम्भवा विलसिता भक्तारिसंनाशिनी
वीणागीतविशालिनी भगवती व्याहारवाक्चातुरी || ४९ ||

नीचपाशं गमं गत्वा सप्ताहजपपूजने |
नटी सुसिद्धा भवति धूपं दद्यान्मुहुर्मुहः || ५० ||

चन्दनेनार्घ्यं देयन्तु नैवेद्यञ्च मनोहरम् |
सदा कामभोगदात्री भार्या भवति नर्तकी || ५१ ||

सुवर्णफलमेकन्तु व्ययं त्यक्त्वानुग्च्छति |
दिने दिने नटी देवी स्थायिनी भवति ध्रुवम् || ५२ ||

चेटीसाधनम्

अतः परं महादेवि चेट्या आकर्षणं शृणु || ५३ ||

मन्त्रो यथा

तारं कूर्चद्वयान्ते च अस्त्रयुग्मं ततः परम् |
चेटी क्रोधद्वयञ्चोक्तं चेटी मन्त्रोत्तमोत्तमः || ५४ ||

ओं हूं हूं फट् फट् चेटी हूं हूं

ध्यानम्

देव्येषाऽमृतभाषिणी शशिमुखी भ्रष्टोत्तरीयाधरा
बिभ्राणा कलशं सरोजममलं स्वर्णं च सीमन्तके |
श्रीखण्डादिविलेपनामलवपुः सौरभ्यसम्भाविता
किञ्चिद्धर्मसमाहितापिकरवा पायात्प्रभा चेटिका || ५५ ||

अत्रापि भीषणस्थाने नामोच्चारणमात्रतः |
ध्रुवं चेटी समागत्य चेटीकर्म करोत्यपि || ५६ ||

अथवा स्वगृहद्वारे त्र्यहं रात्रौ जपं चरेत् |
आगत्य नियतं देवी चेटीकर्म करोति च || ५७ ||

कामेश्वरीसाधनम्

कामेश्वरीप्रयोगः

तारं कूर्चास्त्रयुग्मं कामेश्वरी भूतिनी ततः |
परं ङेन्तं क्रोधत्रयं कामेश्वर्या मनुः स्मृतः || ५८ ||

ध्यानम्

ओं तालस्कन्धसमागता मधुरता कामन्तु पुष्पान्विता
गायत्री मधुराधरा स्मितमुखी वीणायुता गायती |
रक्ताम्भोजविलोचना मधुमदैर्युक्ता समन्तादियं
पायात् पुष्पधनुर्धरा मधुमुखी कामेश्वरी भूतिनी || ५९ ||

तत्र स्थानं समागत्य कृत्वा मांसस्य भक्षणम् |
मांसादिना बलिं दत्त्वा सहस्रं जपमाचरेत् || ६० ||

मनुमर्कं सहस्रन्तु जपित्वा सिद्धिमाप्नुयात् |
जपन्निशीथमायाति रक्तेनार्घ्यं निवेदयेत् || ६१ ||

कामेश्वरी भवेत्तुष्टा भार्या भवति कामिता |
सर्वाशां पूरयत्येव राज्यं यच्छति निश्चितम् || ६२ ||

कुमारीसाधनम्

हूं हूं फट् फट् देव्यै हूं हूं हूं |
क्रोधद्वयास्त्रयुग्मं च देवीति पदमुद्धरेत्
ङेऽन्तं क्रोधत्रयं गुप्तं कुमारीमन्त्रमुत्तमम् || ६३ ||

ध्यानम्

दिव्यकार्मुकहेमाभा कुमारी दिव्यरूपिणी |
सर्वालङ्कारसंयुक्ता भार्या भवति साधिता || ६४ ||

रात्रौ देवगृहं गत्वा तत्र शययां प्रकल्पयेत् |
सितवस्त्रं चन्दनं च ज्योतिःपुष्पं प्रदापयेत् || ६५ ||

धूपं तु गुग्गुलं दत्त्वाष्टसहस्रं जपेन्मनुम् |
जपान्ते नित्यमायाति चुम्बनालिङ्गनादिभिः || ६६ ||

कामिता जायते भार्या सत्यं देवी कुमारिका |
ददात्यष्टौ च दीनारान्दिव्यवस्त्रयुगं तथा || ६७ ||

कामिकं भोजनं दिव्यं परिवारस्य दास्यति |
अन्याश्रमगृहाद्द्रव्यमानीयाशु प्रयच्छति || ६८ ||

नित्यं सहस्रं जप्त्वा तु सा चायाति कुमारिका |
सत्यं सत्यं पुनः सत्यं शृणु मे प्राणवल्लभे || ६९ ||
मुहुर्मुहुर्जपन्मन्त्रं क्रोधस्य मन्त्रमुत्तमम् |
क्रोधाधिपं व्योमवक्त्रं वज्रपाणिं सुरान्तकम् || ७० ||

एतन्मन्त्रमविज्ञाय यो जपेत्सिद्धिकांक्षया |
तस्य स्यान्निष्फलं कर्म अन्ते नरकमाप्नुयात् |
कलिकल्पतरोर्वल्ली भूतिनी सिद्धिरुच्यते || ७१ ||

सुन्दरीसाधनम्

साधनक्रमः

अतः शृणु परं देवि सुन्दरीसिद्धिसाधनम् |
सुन्दर्यादिप्रभेदेन प्रत्येकं पूजयेच्छिवे || ७२ ||

प्रातरुत्थाय सुस्नाते नित्यकर्म समाचरेत् |
ततः प्रासादमारुह्य पूजास्थानं सुशोभनम् || ७३ ||

बिल्वमूले श्मशाने वा प्रान्तरे च चतुष्पथे |
तत्रस्थः साधयेद्योगी योगिन्यादि च भूतिनीम् || ७४ ||

अजिनासनगः शुद्धस्तिलकं मूर्ध्नि कारयेत् |
ततो विधिवदाचम्य सूर्यार्घ्यं प्रददेत्ततः || ७५ ||
स्वस्तिवाचनिकं कृत्वा शान्तिपाठं पुनः पुनः |
गणेशं बटुकञ्चैव पूजयेद्यन्त्रकोपरि || ७६ ||

ततश्चोदङ्मुखो भूत्वा संकल्पं तत्र कारयेत् |
गणेशं क्रोधभैरवं च पूजयेत्परमेश्वरि || ७७ ||

मूलमन्त्रेण प्राणायामं षडङ्गन्यासमाचरेत् |
पूर्ववच्च पुनर्ध्यात्वा मानसैः पूजयेत्ततः || ७८ ||

कृत्वार्घ्यं स्थापनं तत्र पट्टमष्टदलं लिखेत् |
तन्मध्ये च विनिर्माय चन्दनेन विलेपनम् || ७९ ||

लज्जाबीजं लिखेत्तत्र पुनर्ध्यात्वा प्रपूजयेत् |
निशायां पूजयेद्वीरं दिवसे पूजयेत्पशुम् || ८० ||

मूलमन्त्रं महादेव मासं व्याप्य जपेत् सुधीः |
अर्द्धरात्रे ततः पूजां बलिं कृत्वा विधानतः |
निर्भयः सञ्जपेन्मन्त्रं हृद्गतं च निवेदयेत् || ८१ ||

यक्षसाधनम्

अतः परं महादेवि! यक्षसाधनमुत्तमम् |

यक्षमन्त्रः

गगनो ग्रहणश्चैव युक्तचन्द्रार्द्धशेखरः || ८२ ||
एकाक्षरमहामन्त्रो साधकैर्जप्यते यदि |
संख्ययाष्टसहस्राश्च सर्वसिद्धिप्रदायकः || ८३ ||

श्रीदेव्युवाच

भीमवक्त्रादियक्षाणां महामन्त्राः श्रुता मया |
चन्द्रशेखर तद्ध्यानं संक्षेपेण वद प्रभो || ८४ ||

यक्षाणां ध्यानानि

भीमवक्त्रध्यानम्

प्रत्यालीढपदं कृष्णं खर्वकर्बुरमूर्धजम् |
द्विभुजं दक्षिणे कर्त्री वामे खर्परधारिणीम् |
व्याघ्रचर्माम्बरधरं त्रिनेत्रां भीषणाननाम् || ८५ ||

महावक्त्रध्यानम्

ध्यायेद्देवं महावक्त्रमग्निवर्णं त्रिनेत्रकम् |
द्विभुजं दक्षिणे खड्गं खेटकं वामहस्तकम् || ८६ ||

कृष्णकेशन्तु कुटिलं विकृतास्यं भयानकम् |
साधकाय प्रयच्छन्तमभयं वरमेव च || ८७ ||

सिंहवक्त्रध्यानम्

ध्यायेद्देवं सिंहवक्त्रं जटाभारसमन्वितम् |
विकृतास्यं द्विजिह्वं च चतुर्नेत्रं द्विकर्णकम् || ८८ ||

द्विभुजं च गदापाणिं वामे चाऽभयसंयुतम् || ८९ ||

हयाननध्यानम्

श्वेतो हयाननः सर्वो द्विभुजोऽतिभयानकः |
दक्षे डमरुकं धत्ते वामे चैव त्रिशूलकम् || ९० ||

महावीरध्यानम्

ध्यायेद्देवं महावीरं द्विकर्णन्तु त्रिनेत्रकम् |
द्विभुजं हास्यवदनं वराऽभयविधारकम् || ९१ ||

इति क्रियोड्डीशे महातन्त्रराजे गौरीश्वरसंवादेषोडशः पटलः || १६ ||


अथ सप्तदशः पटलः

मृत्युञ्जयविधानम्

श्रीदेव्युवाच

प्राणनाथ कृपासिन्धो ब्रूहि शास्त्रविशारद |
मृत्युञ्जयस्य पूजायाः किं फलं किं विधानकम् || १ ||

श्रीशिव उवाच

वक्तुं नाहं क्षमो गौरि त्वयि स्नेहात्प्रकाशितम् |
मृत्युञ्जयविधानं तु न वक्तव्यं बहिर्मुखे || २ ||

मुखे तु देवि! वक्तव्यं यत्नतः प्राणवल्लभे |
मृत्युञ्जयो महादेवः साक्षान्मृत्युहरः परः || ३ ||

विधानं तस्य संक्षेपाद्वक्तव्यं शृणु सुन्दरी |
देवेशि रोगशान्त्यर्थं तस्य पूजाविधिर्यथा || ४ ||

मृत्युञ्जयं समापूज्य लिङ्गं त्रिभुवनेश्वरम् |
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् || ५ ||

यस्तु सम्पूजयेद्भक्त्या लिङ्गं मृत्युञ्जयाधिधम् |
यमोऽपि प्रणमेद्भक्त्या किं करिष्यति पामरः || ६ ||

तस्य पूजाविधिं वक्ष्ये शृणु मत्प्राणवल्लभे |
जातिभेदैर्मृत्तिकां तु गृहीत्वाऽशीतितोलकाम् || ७ ||

निर्माय पार्थिवं लिङ्गं कान्त्याधारे निवेशयेत् |
पौराणिकेन मन्त्रेण कुर्याच्च पठनं बुधः || ८ ||

स्नापयेत् पञ्चगव्येन प्रत्येकस्याष्टतोलकम् |
स्वस्वमन्त्रैश्च प्रत्येकद्रव्येण स्नापयेत् सुधीः || ९ ||

रोगक्षयेच्छया विद्वान्नामगोत्रादिपूर्वकम् |
उपविश्यासने विप्रो धृत्वा धौतं च वाससम् || १० ||

रुद्राक्षमालां कण्ठे वै धृत्वा भस्मत्रिपुण्ड्रकम् |
उपचाराः षोडशं तु देया भक्त्या प्रयत्नतः || ११ ||

सुवर्णस्यासनं देयं तथैवाभरणानि च |
वस्त्रयुग्मं प्रदद्यात्तु परिधेयं यथा भवेत् || १२ ||

शिवयन्त्रम्

षट्कोणमण्डलं कृत्वा तदन्ते साध्यनामकम् |

प्रासादबीजं हौं संलिख्य यतः षट्कोणेषु
प्रणवसहितपञ्चाक्षरवर्णानषडङ्गमन्त्रांश्च विलिख्य तद्बहिः
पञ्चदलानि विरच्य तद्दले ओं ईशानाय नमः | ओं तत्पुरुषाय नमः | ओं
अघोराय नमः | ओं सद्योजाताय नमः | ओं वामदेवाय नमः | इति
पञ्चमन्त्रान् प्रागादिक्रमेण लिखेत् | तद्बहिरष्टदलानि रचयित्वा तद्दलेषु
मातृकावर्णान् लिखेत् | तद्बहिर्वृत्तं त्र्यम्बकेण वेष्टयेत् | एतद्यन्त्रं
जपहोमादिना सम्पूज्य धारयेत् | आयुरारोग्यैश्वर्यादिसिद्धिर्भवति |

मृत्युञ्जययन्त्रम्

अथवा शृणु देवेशि यन्त्रं सर्वसुसिद्धिदम् || १३ ||

मध्ये साध्याक्षराढ्यं ध्रुवमभिविलिखेन्मध्यमं दिग्दलेषु
कोणेष्वन्तं मनोस्तत् क्षितिभुवनमयो दिक्षु चन्द्रं विदिक्षु |
ढान्तं यन्त्रं तदुक्तं सकलभयहरं क्ष्वेडभूतापमृत्यु-
व्याधिव्यामोहदुःखप्रशमनमुदितं श्रीपदं कीर्तिदायि || १४ ||

मधुपर्कं कांस्यपात्रे दद्याद्भोजनयुग्मकम् |
बिल्वपत्रसहस्रन्तु ह्यभग्नं विनिवेदयेत् || १५ ||

एवं संपूज्य लिङ्गैकं द्विसहस्रं मनुं जपेत् |
समिद्भिस्तु गुडूच्यास्तु तत्र होमं समाचरेत् || १६ ||

दक्षिणां ब्राह्मणे देवि सुवर्णं वस्त्रकं तथा |
तदर्धं वा तदर्धं वा यथाविभवमानतः || १७ ||

अंगहीना न कर्त्तव्या पूजा चाफलदा यतः |
एकलिङ्गं समाराध्य फलं स्यादन्यके युगे || १८ ||

तत्फलं लभते देवि कलौ संख्या चतुर्गुणा |
आम्रपात्रे तु संस्थाप्य जलं चाशीतितोलकम् || १९ ||

तज्जलेनैव देवेशि कुलैः सम्मार्ज्य रोगिणम् |
क्षिपेद्दीपशिखायां च मन्त्रमुच्चार्य मानकम् || २० ||

एवं विधिविधानेन पूजयेन्मम लिङ्गकम् |
यादृग्यादृग् भवेद्रोगो नाशमेति मयोदितम् || २१ ||

साङ्गेन पूजयित्वा तु लभते वाञ्छितं फलम् |
अङ्गव्यतिक्रमेणैव वृथा भवति वासना || २२ ||

रोगी प्रमुच्यते सद्यो भोगीवोज्झितकञ्चुकः |
यदि मद्वचने भक्तिस्तदा मुक्तो भवेद्ध्रुवम् || २३ ||

अन्यथा यदि देवेशि सर्वं भवति निष्फलम् || २४ ||

यन्त्रपूजाविधानम्

अतः परं देवि! शृणु यन्त्रपूजाविधानकम् |
कृतनित्यक्रियो देवि! स्वस्तिवाचनपूर्वकम् |
संकल्पं च ततः कुर्याद्विधिवाक्यानुसारतः || २५ ||

अद्येत्यादि अमुकगोत्रः श्रीपूर्वकदेवशर्मा यन्त्राधिष्ठित | देवतायाः
पूजार्थममुकमन्त्रसंस्कारमहं करिष्ये |

इति संकल्प्य महादेवि! गुरोरर्चनमाचरेत् |
पञ्चगव्यं ततः कृत्वा शिवमन्त्रेण मन्त्रितम् || २६ ||

तत्र चक्रं क्षिपेन्मन्त्री प्रणवेन समाकुलम् |
तदुद्धृत्य ततश्चकं स्थापयेत्स्वर्णपात्रके || २७ ||

पञ्चामृतेन दुग्धेन कस्तूरीकुङ्कुमेन च |
पयोदधिघृतक्षौद्रशर्कराद्यौरनुक्रमात् || २८ ||

तोयधूपान्तरैः कुर्यात् पञ्चामृतमनुत्तमम् |
अष्टाभिः कलशैर्देवीमष्टाभिर्वारिपूरितैः || २९ ||

कषायजलसम्पन्नैः कारयेत् स्नानमुत्तमम् |
स्नानं समाप्य तां देवीं स्थापयेत् स्वर्णपीठके || ३० ||

गायत्री यथा- यन्त्रराजाय विद्महे महामन्त्राय धीमहि तन्नो यन्त्रः
प्रचोदयात् |

स्पृष्ट्वा यन्त्रं कुशाग्रेण गायत्र्या चाभिमन्त्रयेत् |
अष्टोत्तरशतं देवि देवताभावसिद्धये || ३१ ||

आत्मशुद्धिं ततः कृत्वा षडङ्गैर्देवतां यजेत् |
तत्रावाह्य महादेवि! जीवन्यासञ्च कारयेत् || ३२ ||

प्राणप्रतिष्ठा

अस्य प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः | ऋग्यजुः
सामानि च्छन्दांसि चैतन्यं देवता प्राणप्रतिष्ठायां विनियोगः |

उपचारैः षोडशभिर्महामुद्रादिभिस्तथा |
फलताम्बूलनैवेद्यैः शिवं तत्र समर्चयेत् || ३३ ||

पट्टसूत्रादिकं दद्याद्वस्त्रालङ्कारमेव च |
अगुरुं चामरं घण्टां यथायोग्यं महेश्वरि || ३४ ||

सर्वमेतत्प्रयत्नेन दद्यादात्महिते रतः |
ततो जपेत्सहस्रन्तु सकलेप्सितसिद्धये || ३५ ||

जपसमापनं कुर्यादष्टाङ्गेन नमस्कृतम् |
अष्टोत्तरशतं हुत्वा सम्पाताज्यं विनिक्षिपेत् || ३६ ||

होमकर्मण्यशक्तश्चेद्द्विगुणं जपमाचरेत् |
गुरवे दक्षिणां दद्यात्ततो देवीं विसर्जयेत् || ३७ ||

अस्य प्रयोगः

कृतनित्यक्रियः स्वस्तिवाचनपूर्वकं सङ्कल्पं कुर्यात् | अद्येत्यादि
अमुकगोर्त्रः श्री अमुकदेवशर्मा
अमुकदेवतापूजार्थममुकयन्त्रसंस्कारमहं करिष्ये | ततः
पञ्चगव्यमानीय हौं इति मन्त्रेणाष्टोत्तरशतमभिमन्त्र्य प्रणवेन
यन्त्रं तत्र क्षिपेत् | तत उत्थाप्य स्नापयेच्छीतलजलचन्दनगन्धकस्तूरी
कुङ्कुमैः | स्नापयित्वा पञ्चगव्यमानीय हौं इति
मन्त्रेणाष्टोत्तरशतमभिमन्त्र्य प्रणवेन शोधयित्वा स्नापयेत् | तत्र क्रमः
| प्रथमं क्षीरेण स्नापयित्वा धूपं दद्यात् | एवं दध्ना घृतेन
मधुना शर्करया च | ततोऽष्टाभिः कलशैः स्नापयेत् | कुङ्कुमगोरोचनया
चन्दनमिश्रितैस्तोयैः स्नापयेत् | सर्वत्र स्नानं मूलमन्त्रेण ततो
यन्त्रमुत्तोल्य कुशाग्रेण तत्स्पृष्ट्वा गायत्र्यष्टोत्तरशताभिमन्त्रितं कृत्वा
प्राणप्रतिष्ठां कुर्यात् | अस्य प्राणप्रतिष्ठमन्त्रस्य
ब्रह्मविष्णुमहेश्वरा ऋषयः ऋग्यजुः सामानि च्छन्दांसि चैतन्यं देवता
प्राणप्रतिष्ठायां विनियोगः | तद्यथा- आं ह्रीं क्रौं यं रं लं वं
शं षं सं हौं हंसः | अमुकदेवतायाः प्राणा इह प्राणाः | जीव इह
स्थितः | सर्वेन्द्रियाणि वाङ्मन इत्यादि प्राणान् प्रतिष्ठाप्य तत्र
प्रकृतिदेवतामावाह्य षोडशोपचारैः पञ्चोपचारैर्वा पूजयेत् | तत्र
पट्टसूत्रादिकं दत्त्वा अष्टोत्तरशतं सहस्रं वा जपित्वा शक्तश्चेद्बलिं
दद्यात् | ततोऽष्टोत्तरशतं होमं कुर्यात् | होमाभावे द्विगुणो जपः कार्यः |
ततो दक्षिणां दत्त्वा छिद्रावधारणं कुर्यात् |

इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे सप्तदशः पटलः || १७ ||



अथाष्टादशः पटलः

तत्रादौ षट्कोणमण्डलं कृत्वा तदन्ते साध्यनामयुक्तं प्रासादबीजं
विलिख्य षट्कोणेषु प्रणवसहितपञ्चाक्षरवर्णान् विलिख्य
विवरेषु षडङ्गमन्त्रात् तद्बहिः पञ्चदलानि विरच्य तद्दलेषु ओं
वामदेवाय नमः ओं ईशानाय नमः ओं तत्पुरुषाय नमः ओं अघोराय
नमः ओं सद्योजाताय नमः इति पञ्च मन्त्रान् प्रागादिक्रमेण लिखेत् |
तद्बहिरष्टदलानि रचयित्वा तद्दलेषु मातृकावर्णान् लिखेत् | तद्बहिर्वृत्तं
त्र्यम्बकेन वेष्टयेत् | तद्यन्त्रे जपहोमादिः कार्यः |

मृत्युञ्जयमन्त्रम्

मध्ये साध्याक्षराढ्यं ध्रुवमभिविलिखेन्मध्यमं दिग्दलेषु
कोणेष्वन्तं मनस्तक्षितिभुवनमथो दिक्षु चन्द्रं विदिक्षु |
ढान्तं यन्त्रं तदुक्तं सकलभयहरं क्ष्वेडभूतापमृत्युः
व्याधिव्यामोहदुःखप्रशमनमुदितं श्रीप्रदं कीर्तिदायि ||

रोगशान्त्यर्थं त्र्यम्बकमृतसञ्जीविनीविधानम्

स्वच्छं स्वच्छारविन्दस्थितमुभयकरे संस्थितौ पूर्णकुम्भौ
द्वाभ्यामेणाक्षमाले निजकरकमले द्वौ घटौ नित्यपूर्णौ |
द्वाभ्यां द्वौ च स्रवन्तौ शिरसि शशिकलां चामृतैः प्लावयन्तं
देहं देवो दधानं विदिशतु विशदां कल्पजालैः श्रियं वः ||

आदौ प्रासादबीजं तदनु मृतिहरं तारकं व्याहृतिञ्च
प्रोच्चार्य त्र्यम्बकं यो जपति च सततं संपुटं चानुलोमम् |
गायत्र्याः पूर्वपादं तदनु च शिवदं त्र्यम्बकस्यादिमं तत्
प्रोच्चार्यं ध्यानपूर्वं जपति हि मननोऽत्वेति मृत्युं ध्रुवं सः ||

प्रासादबीजं हौं मृतिहरं त्र्यक्षरं मृत्युञ्जयमन्त्रं ओं जूं सः |
तारकम् | ओं व्याहृत भूर्भुवः स्वः | तेन हौं जूं सः | ओं भूर्भुवः स्वः
ततस्त्र्यम्बकमन्त्रः पूर्वमन्त्रेणानुलोमक्रमेण सम्पुटितः अस्य जपात्
सर्वसिद्धिर्भवति | पुनः गायत्र्या प्रथमपादं त्र्यम्बकस्य
प्रथमपादमित्यादि च ध्यानं पूर्वमुक्तम् |

इति श्रीक्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादेऽष्टादशः पटलः || १८
||



अथैकोनविंशः पटलः

श्रीदेव्युवाच

बगवन्! देवदेवेश! देवताभिः प्रपूजितः |
सर्वं मे कथितं देव कवचं न प्रकाशितम् || १ ||

मृत्युरक्षाकरं देव सर्वाशुभविनाशनम् |
कथयस्वाद्य मे नाथ यदि स्नेहोऽस्ति मां प्रति || २ ||

श्रीश्वर उवाच

अस्य मृत्युञ्जयमन्त्रस्य वामदेव ऋषिर्गायत्रीच्छन्दः मृत्युञ्जयो
देवतासाधकाभीष्टसिद्ध्यर्थे जपे विनियोग |

शिरो मे सर्वदा पातु मृत्युञ्जयसदाशिवः |
सत्र्यक्षरस्वरूपो मे वदनं च महेश्वरः || ३ ||

पञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु |
मृत्युञ्जयस्त्रिबीजात्मा ह्यायू रक्षतु मे सदा || ४ ||

बिल्ववृक्षसमासीनो दक्षिणामूर्तिरव्ययः |
सदा मे सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् || ५ ||

द्वाविंशत्यक्षरो रुद्रः कुक्षौ मे परिरक्षतु |
त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा || ६ ||

चिन्तामणिर्बीजपूरे ह्यर्द्धनरीश्वरो हरः |
सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः || ७ ||

सत्र्यक्षरस्वरूपात्मा कूटरूपी महेश्वरः |
मार्तण्डभैरवो नित्यं पादौ मे परिरक्षतु || ८ ||

ओं जूं सः महाबीजस्वरूपस्त्रिपुरान्तकः |
ऊर्द्ध्वमूर्द्धनि चेशानो मम रक्षतु सर्वदा || ९ ||

दक्षिणस्यां महादेवो रक्षेन्मे गिरिनायकः |
अघोराख्यो महादेवः पूर्वस्यां परिरक्षतु || १० ||

वामदेवः पश्चिमस्यां सदा मे परिरक्षतु |
उत्तरस्यां सदा पातु सद्योजातस्वरूपधृक् || ११ ||

इत्थं रक्षाकारं देवि कवचं देवदुर्लभम् |
प्रातर्मध्याह्नकाले तु यः पठेच्छिवसन्निधौ || १२ ||

सोऽभीष्टफलमाप्नोति कवचस्य प्रसादतः |
कवचं धारयेद्यस्तु साधको दक्षिणे भुजे || १३ ||

सर्वसिद्धिकरं पुण्यं सर्वारिष्टविनाशनम् |
योगिनीभूतवेतालाः प्रेतकूष्माण्डपन्नगाः || १४ ||

न तस्य हिंसां कुर्वन्ति पुत्रवत्या लयन्ति ते |
पठित्वाऽभ्यर्चयेद्देवि यथाविधिपुरःसरम् || १५ ||

लक्षञ्च मूलमन्त्रस्य पुरश्चरणमुच्यते |
तद्धारणे महादेवि! मृत्युरोगविनाशनम् || १६ ||

एवं यः कुरुते मर्त्यः पुण्यां गतिमवाप्नुयात् |
इति ज्ञातं महादेवि! तस्य वक्त्रे स्थितं सदा || १७ ||

कवचस्य प्रसादेन मृत्युमुक्तो भवेन्नरः |
अन्यथा सिद्धिहानिः स्यात्सत्यमेतन्मनोरमे || १८ ||

तव स्नेहान्महादेवि कथितं कवचं शुभम् |
न देयं कस्यचिद्भद्रे यदीच्छेदात्मनो हितम् || १९ ||

इति श्रीक्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे एकोनविंशतितमः
पटलः || १९ ||



अथ विंशतितमः पटलः

यन्त्रप्रकरणम्

वन्ध्यायन्त्रम्

अतः परं देवि! शृणु यन्त्रधारणमुत्तमम् |
यन्त्रधारणमात्रेण सर्वाभीष्टफलं लभेत् || १ ||

जन्मवन्ध्या च या नारी शुभपुत्रवती भवेत् |
तदा गोरोचनाद्येन लिखेद्यन्त्रमनुत्तमम् || २ ||

वृत्तद्वयं समालिख्य पद्मष्टदलं लिखेत् |
प्रतिपद्मे लिखेन्मायाबीजं भूपुरकं ततः || ३ ||

भूर्जपत्रे लिखेद्यन्त्रं धारयेत्तु महेश्वरि |
कुक्षौ धृत्वा महायन्त्रं शुभपुत्रवती भवेत् || ४ ||

प्रयोगान्तरमन्यत्र प्राणसङ्कटतो नहि |
दक्षिणां गुरवे दत्त्वा गृह्णीयाद्यन्त्रमुत्तमम् || ५ ||

वृत्तं चतुर्दलं पद्मं भूपुरेण समन्वितम् |
वृत्तमध्ये लिखेद्देवि साधकाख्यां विशेषतः || ६ ||

पुत्रवतीपदं पश्चात् भवत्विति पदं ततः |
प्रणवैः पुटिता लज्जा त्रिधा पत्रेषु संलिखेत् || ७ ||

पूर्ववत्पूजयेद्देवि धारयेद्दक्षिणे भुजे |
सत्यं सत्यं हि देवेशि वन्ध्या पुत्रवती भवेत् || ८ ||

दुर्भगा चेद्भवेन्नारी सुभगा मासतो भवेत् || ९ ||

रक्षायन्त्रम्

अतः परं प्रवक्ष्यामि महारक्षाकरं परम् |
धारणाद्दानवपतिर्महारक्षाकरो भवेत् || १० ||

पञ्चदलं लिखेद्देवि ग्लौं बीजेनैव लाञ्छितम् |
गं पञ्चकं सर्वमध्ये लिखित्वा धारयेद्यदि || ११ ||

न तस्य पुत्रभीतिः स्यात्तत्र रक्षाकरो हरः |
गोरोचनाकुङ्कुमाभ्यां भूर्जे संलिख्य धारयेत् || १२ ||

तत्र पूजां महादेवि गणपतिस्तु समाचरेत् |
पूजितं धारितञ्चैव सर्वोपद्रवनाशनम् || १३ ||

वृत्तमष्टदलं पद्मं पुनः पद्मेषु संलिखेत् |
गोरोचनाभिः संलिख्य धारयेत्परमेश्वरि || १४ ||

उक्तरूपेण लिङ्गस्य पूजां कृत्वा महेश्वरि |
धारयेद्यो भवेत्तस्य ह्यपमृत्युविनाशनम् | १५ ||

पुत्रजननयन्त्रम्

बिन्दुवृत्तं समालिख्य लिखेदष्टदलं ततः |
प्रतिपत्रेषु यंबीजं लिखेदथ पृथक्पृथक् || १६ ||
पूर्ववत्पूजयेद्देवि धारणान्मृत्युनाशनम् |
काकवन्ध्याजनस्यापि बहुपुत्रकरं परम् || १७ ||

षट्कोणं विलिखेद् वृत्तं ततश्चाष्टदलं लिखेत् |
षट्कोणेषु च षट् दीर्घान् विलिखेत्परमेश्वरि || १८ ||

ऐं ह्रीं ओं ऐं ह्रीं फट् स्वाहा लिखेदष्टदले ततः |
सर्वमध्ये लिखेद्देवि ततः शृणु महेश्वरि || १९ ||

प्रणवस्तु ततो माया साधकाख्यं तु ङेऽन्तकम् |
सुपुत्रञ्च समालिख्य उत्पादय पदन्ततः || २० ||

विधाय चैवं विधिवद्धारयेद्यन्त्रमुत्तमम् |
धारणात्सर्वसम्पत्तिर्भवेद्देवि न संशयः || २१ ||

पूजनं पूर्वमुक्तम् | देवीं कालीमन्त्रेण पूजयेत् |

वशीकरणम्

वशीकरणयन्त्रन्तु शृणु मत्प्राणवल्लभे !
यस्य धारणमात्रेण वशीकुर्यात् पुनः प्रिये || २२ ||

चतुर्वृत्तं समालिख्य लिखेदष्टदलं ततः |
ओं शत्रुमुखं बन्धयेति प्रतिपद्मदलं लिखेत् || २३ ||

यस्य नामाभिसंलिख्य बाहौ सन्धारयेच्छिवे |
पूर्ववत्पूजयेद्देवीं जपेल्लक्षं विधानतः || २४ ||

चामुण्डोक्तविधानेन पूजयेद्देवि साधकः |
हुत्वा चैव विधानेन स वशी भवति ध्रुवम् || २५ ||

बन्धमुक्तियन्त्रम्

प्रथमन्तु लिखेद्वृत्तं तद्बहिस्तु स्वरांल्लिखेत् |
बहिर्बुभूद्वयं लिख्य चतुर्दिक्षु च ह्रीं लिखेत् || २६ ||

वृत्तयुग्माष्टपत्रञ्च लिखेद्गोरोचनादिना |
ग्रीवायां कण्ठदेशे वा शिखायां वापि धारणात् || २७ ||

बन्धमुक्तिर्भवेत्तस्य नवमे दिवसे तथा |
पूर्वोक्तविधिना लक्षं दुर्गामन्त्रं जपेद्बुधः || २८ ||

डाकिन्यादिभयविनाशनयन्त्रं जीववत्सायन्त्रञ्च

वृत्तयुग्मं लिखेत्तत्र महाबीजचतुष्टयम् |
चतुष्कोणद्वयं बाह्ये लिखित्वा धारयेद्यदि || २९ ||

नाशयेत्क्षणमात्रेण डाकिन्यादिभवं भयम् |
मृतवत्सा यदि भवेन्नारी दुःखपरायणा |
धारयेत् परमं यन्त्रं जीववत्सा ततो भवेत् || ३० ||

दीर्घरेखाद्वयं दत्त्वा तद्गात्रेऽष्टदलं लिखेत् |
ओं ह्रीं देवदत्त ह्रीं रेखामध्ये लिखेच्छिवे || ३१ ||

रेखागात्रदले ओं हूं रेखाद्यन्तदले च ओं |
गोरोचनाकुंकुमेन तथैवालक्तकेन वा || ३२ ||

यस्य नाम तु संलिख्य स्थापयेत्परमेश्वरि |
पञ्चामृतेषु देवेशि जीववत्सा भवेद्धि सा || ३३ ||

तत्सुतस्याकालमृत्युर्नान्यथा जायते प्रिये |
उक्तरूपे तथा पूजां लक्षमन्त्रं जपेच्छिवे || ३४ ||

इति क्रियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे विंशतितमः पटलः || २० ||


अथैकविंशतितमः पटलः

विजयानुपानम्

दुग्धयोगेन विजया महातेजस्करी स्मृता |
क्षुब्दोधबलकारित्वाच्चक्षुर्दोषापहारिणी || १ ||

जलयोगेन सा हन्ति ह्यजीर्णादिगदान्क्षणात् |
घृतेन मेधाजननी वाग्देवी वशकारिणी || २ ||

कफदोषानशेषांस्तु मधुना सह नाशयेत् |
सैन्धवेन युता सा हि जठराग्निं विवर्द्धयेत् || ३ ||

सितया लवणेनापि गुडेन सह सेविता |
अम्लपित्तं तथा शूलं विनाशयति तत्क्षणात् || ४ ||

फलपुष्टिप्रदा प्रोक्ता मधुरस्वरकारिणी |
कैवल्यज्ञानदा चेत्थं सर्वसिद्धिप्रदायिनी || ५ ||

इति क्रियोड्डीशे महातन्त्रराजे शिवगौरीसंवादे एकविंशतितमः पटलः || २९
||

|| समाप्तोऽयं ग्रन्थः ||