कौशिकसूत्रम्/अध्यायः ०८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

60 अग्नीनाधास्यमानः सवान्वा दास्यन्संवत्सरं ब्रह्मौदनिकमग्निं दीपयति १ अहोरात्रौ वा २ याथाकामी वा ३ संवत्सरं तु प्रशस्तम् ४ सवाग्निसेनाग्नी तादर्थिकौ निर्मथ्यौ वा भवतः ५ औपासनौ चोभौ हि विज्ञायेते ६ तस्मिन्देवहेडनेनाज्यं जुहुयात् ७ समिधोऽभ्यादध्यात् ८ शकलान्वा ९ तस्मिन्यथाकामं सवान्ददात्येकं द्वौ सर्वान्वा १० अपि वैकैकमात्माशिषो दातारं वाचयति ११ पराशिषोऽनुमन्त्रणमनिर्दिष्टाशिषश्च १२ दातारौ कर्माणि कुरुतः १३ तौ यथालिङ्गमनुमन्त्रयते १४ उभयलिङ्गैरुभौ पुंलिङ्गैर्दातारं स्त्रीलिङ्गैः पत्नीम् १५ उदहृत्संप्रैषवर्जम् १६ अथ देवयजनम् १७ तद्यत्समं समूलमविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणमाकृतिलोष्टवल्मीकेनास्तीर्य दर्भैश्च लोमभिः पशूनाम् १८ अग्ने जायस्वेति मन्थन्तावनुमन्त्रयते १९ पत्नी मन्त्रं संनमयति २० यजमानं च २१ कृणुत धूममिति धूमम् २२ अग्नेऽजनिष्ठा इति जातम् २३ समिद्धो अग्न इति समिध्यमानम् २४ परेहि नारीत्युदहृतं संप्रेष्यत्यनुगुप्तामलंकृताम् २५ एमा अगुरित्यायतीमनुमन्त्रयते २६ उत्तिष्ठ नारीति पत्नीं संप्रेष्यति २७ प्रति कुम्भं गृभायेति प्रतिगृह्णाति २८ ऊर्जो भाग इति निदधाति २९ इयं महीति चर्मास्तृणाति प्राग्ग्रीवमुत्तरलोम ३० पुमान्पुंस इति चर्मारोहयति ३१ पत्नी ह्वयमानम् ३२ तृतीयस्यामपत्यमन्वाह्वयति ३३ ऋषिप्रशिष्टेत्युदपात्रं चर्मणि निदधाति ३४ तदापस्पुत्रास इति सापत्यावनुनिपद्येते ३५ ६०

(८,१[६०].१) अग्नीनाधास्यमानः सवान् वा दास्यन् संवत्सरं ब्रह्मौदनिकमग्निं दीपयति

(८,१[६०].२) अहोरात्रौ वा

(८,१[६०].३) याथाकामी वा

(८,१[६०].४) संवत्सरं तु प्रशस्तम्

(८,१[६०].५) सवाग्निसेनाग्नी तादर्थिकौ निर्मथ्यौ वा भवतः

(८,१[६०].६) औपासनौ च_उभौ हि विज्ञायेते

(८,१[६०].७) तस्मिन् देवहेडनेनाज्यं जुहुयात्

(८,१[६०].८) समिधो_अभ्यादध्यात्

(८,१[६०].९) शकलान् वा

(८,१[६०].१०) तस्मिन् यथाकामं सवान् ददाति_एकं द्वौ सर्वान् वा

(८,१[६०].११) अपि वा_एकैकमात्माशिषो दातारं वाचयति

(८,१[६०].१२) पराशिषो_अनुमन्त्रणमनिर्दिष्टाशिषश्च

(८,१[६०].१३) दातारौ कर्माणि कुरुतः

(८,१[६०].१४) तौ यथालिङ्गमनुमन्त्रयते

(८,१[६०].१५) उभयलिङ्गैरुभौ पुंलिङ्गैर्दातारं स्त्रीलिङ्गैः पत्नीम्

(८,१[६०].१६) उदहृत्संप्रैषवर्जम्

(८,१[६०].१७) अथ देवयजनम्

(८,१[६०].१८) तद्यत्समं समूलमविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणमाकृतिलोष्टवल्मीकेनास्तीर्य दर्भैश्च लोमभिः पशूनाम्

(८,१[६०].१९) [१]_इति मन्थन्तौ_अनुमन्त्रयते

(८,१[६०].२०) पत्नी मन्त्रं संनमयति

(८,१[६०].२१) यजमानश्च [एम्. Cअलन्द्, Kल्. ष्छ्र्. प्. ८९, Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४]

(८,१[६०].२२) [२]_इति धूमम्

(८,१[६०].२३) [३] इति जातम्

(८,१[६०].२४) [४]_इति समिध्यमानम्

(८,१[६०].२५) [५]_इत्युदहृतं संप्रेष्यति_अनुगुप्तामलंकृताम्

(८,१[६०].२६) [६] इत्यायतीमनुमन्त्रयते

(८,१[६०].२७) [७]_इति पत्नीं संप्रेष्यति

(८,१[६०].२८) [८]_इति प्रतिगृह्णाति

(८,१[६०].२९) [९]_इति निदधाति

(८,१[६०].३०) [१०]_इति चर्मास्तृणाति प्राग्ग्रीवमुत्तरलोम

(८,१[६०].३१) [११]_इति चर्मारोहयति

(८,१[६०].३२) पत्नी ह्वयमानम्

(८,१[६०].३३) तृतीयस्यामपत्यमन्वाह्वयति

(८,१[६०].३४) [१२]_इत्युदपात्रं चर्मणि निदधाति

(८,१[६०].३५) तद्[१३]_इति सापत्यौ_अनुनिपद्येते


61 प्राचींप्राचीमिति मन्त्रोक्तम् १ चतसृभिरुदपात्रमनुपरियन्ति २ प्रतिदिशं ध्रुवेयं विराडित्युपतिष्ठन्ते ३ पितेव पुत्रानित्यवरोह्य भूमिं तेनोदकार्थान्कुर्वन्ति ४ पवित्रैः संप्रोक्षन्ते ५ दर्भाग्राभ्यां चर्महविः संप्रोक्षति ६ आदिष्टानां सानजानत्यै प्रयच्छति ७ तांस्त्रेधा भाग इति व्रीहिराशिषु निदधाति ८ तेषां यः पितॄणां तं श्राद्धं करोति ९ यो मनुष्याणां तं ब्राह्मणान्भोजयति १० यो देवानां तमग्ने सहस्वानिति दक्षिणं जान्वाच्यापराजिताभिमुखः प्रह्वो वा मुष्टिप्रसृताञ्जलिभिः कुम्भ्यां निर्वपति ११ कुम्भ्या वा चतुः १२ तान्सप्त मेधानिति सापत्यावभिमृशतः १३ गृह्णामि हस्तमिति मन्त्रोक्तम् १४ त्रयो वरा इति त्रीन्वरान्वृणीष्वेति १५ अनेन कर्मणा ध्रुवानिति प्रथमं वृणीते १६ यावपरौ तावेव पत्नी १७ एतौ ग्रावाणावयं ग्रावेत्युलूखलमुसलं शूर्पं प्रक्षालितं चर्मण्याधाय १८ गृहाण ग्रावाणावित्युभयं गृह्णाति १९ साकं सजातैरिति व्रीहीनुलूखल आवपति २० वनस्पतिरिति मुसलमुच्छ्रयति २१ निर्भिन्ध्यंशून्पाहि पाप्मानमित्यवहन्ति २२ इयं ते धीतिर्वर्षवृद्धमिति शूर्पं गृह्णाति २३ ऊर्ध्वं प्रजां विश्वव्यचा इत्युदूहन्तीम् २४ परा पुनीहि तुषं पलावानिति निष्पुनतीम् २५ पृथग्रूपाणीत्यवक्षिणतीम् २६ त्रयो लोका इत्यवक्षीणानभिमृशतः २७ पुनरा यन्तु शूर्पमित्युद्वपति २८ उपश्वस इत्यपवेवेक्ति २९ पृथिवीं त्वा पृथिव्यामिति कुम्भीमालिम्पति ३० अग्ने चरुरित्यधिश्रयति ३१ अग्निः पचन्निति पर्यादधाति ३२ ऋषिप्रशिष्टेत्युदकमपकर्षति ३३ शुद्धाः पूताः पूताः पवित्रैरिति पवित्रे अन्तर्धाय ३४ उदकमासिञ्चति ३५ ब्रह्मणा शुद्धाः संख्याता स्तोका इत्यापस्तासु निक्त्वा तण्डुलानावपति ३६ उरुः प्रथस्वोद्योधन्तीति श्रपयति ३७ प्र यच्छ पर्शुमिति दर्भाहाराय दात्रं प्रयच्छति ३८ ओषधीर्दान्तु पर्वन्नित्युपरि पर्वणां लुनाति ३९ नवं बर्हिरिति बर्हि स्तृणाति ४० उदेहि वेदिं धर्ता ध्रियस्वेत्युद्वासयति ४१ अभ्यावर्तस्वेति कुम्भीं प्रदक्षिणमावर्तयति ४२ वनस्पते स्तीर्णमिति बर्हिषि पात्रीं निदधाति ४३ अंसध्रीमित्युपदधाति ४४ उप स्तृणीहीत्याज्येनोपस्तृणाति ४५ उपास्तरीरित्युपस्तीर्णामनुमन्त्रयते ४६ २ ६१ (८,२[६१].१) [१४]_इति मन्त्रोक्तम्

(८,२[६१].२) चतसृभिरुदपात्रमनुपरियन्ति

(८,२[६१].३) प्रतिदिशं [१५]_इत्युपतिष्ठन्ते

(८,२[६१].४) [१६] इत्यवरोह्य भूमिं तेन_उदकार्थान् कुर्वन्ति

(८,२[६१].५) पवित्रैः संप्रोक्षन्ते

(८,२[६१].६) दर्भाग्राभ्यां चर्महविः संप्रोक्षति

(८,२[६१].७) आदिष्टानां सानजानत्यै प्रयछति

(८,२[६१].८) तान्_[१७]_इति व्रीहिराशिषु निदधाति

(८,२[६१].९) तेषां यः पितॄणां तं श्राद्धं करोति

(८,२[६१].१०) यो मनुष्याणां तं ब्राह्मणान् भोजयति

(८,२[६१].११) यो देवानां तम् [१८] इति दक्षिणं जानु_आच्यापराजिताभिमुखः प्रह्वो वा मुष्टिप्रसृताञ्जलिभिः कुम्भ्यां निर्वपति

(८,२[६१].१२) कुम्भ्या वा चतुः

(८,२[६१].१३) तान् [१९] इति सापत्यौ_अभिमृशतः

(८,२[६१].१४) [२०] इति मन्त्रोक्तम्

(८,२[६१].१५) [२१] इति त्रीन् वरान् वृणीष्व_इति

(८,२[६१].१६) अनेन कर्मणा ध्रुवानिति प्रथमं वृणीते

(८,२[६१].१७) यौ_अपरौ तौ_एव पत्नी

(८,२[६१].१८) [२२]_[२३]_इत्युलूखलमुसलं शूर्पं प्रक्षालितं चर्मणि_आधाय

(८,२[६१].१९) [२४]_इत्युभयं गृह्णाति

(८,२[६१].२०) [२५]_इति व्रीहीनुलूखल आवपति

(८,२[६१].२१) [२६]_इति मुसलमुच्छ्रयति

(८,२[६१].२२) [२७] [२८] इत्यवहन्ति

(८,२[६१].२३) [२९] [३०] इति शूर्पं गृह्णाति

(८,२[६१].२४) [३१]_[३२] इत्युदूहन्तीम्

(८,२[६१].२५) [३३] [३४] इति निष्पुनतीम्

(८,२[६१].२६) [३५]_इत्यवक्षिणतीम्

(८,२[६१].२७) [३६]_इत्यवक्षीणानभिमृशतः

(८,२[६१].२८) [३७] इत्युद्वपति

(८,२[६१].२९) [३८]_इत्यपवेवेक्ति

(८,२[६१].३०) [३९] इति कुम्भीमालिम्पति

(८,२[६१].३१) [४०]_इत्यधिश्रयति

(८,२[६१].३२) [४१]_इति पर्यादधाति

(८,२[६१].३३) [४२]_इत्युदकमपकर्षति

(८,२[६१].३४) [४३] [४४]_इति पवित्रे अन्तर्धाय

(८,२[६१].३५) उदकमासिञ्चति

(८,२[६१].३६) [४५] [४६]_इत्यापस्तासु निक्त्वा तण्डुलानावपति

(८,२[६१].३७) [४७]_[४८] श्रपयति

(८,२[६१].३८) [४९]_इति दर्भाहाराय दात्रं प्रयछति

(८,२[६१].३९) [५०]_इत्युपरि पर्वणां लुनाति

(८,२[६१].४०) [५१] इति बर्हि स्तृणाति

(८,२[६१].४१) [५२] [५३]_इत्युद्वासयति

(८,२[६१].४२) [५४]_इति कुम्भीं प्रदक्षिणमावर्तयति

(८,२[६१].४३) [५५] इति बर्हिषि पात्रीं निदधाति

(८,२[६१].४४) [५६]_इत्युपदधाति

(८,२[६१].४५) [५७]_इत्याज्येन_उपस्तृणाति

(८,२[६१].४६) [५८] इत्युपस्तीर्णामनुमन्त्रयते 62 अदितेर्हस्तां सर्वान्समागा इति मन्त्रोक्तम् १ तत उदकमादाय पात्र्यामानयति २ दर्व्या कुम्भ्यां ३ दर्विकृते तत्रैव प्रत्यानयति ४ दर्व्योत्तममपादाय तत्सुहृद्दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति ५ अथोद्धरति ६ उद्धृते यदपादाय धारयति तदुत्तरार्ध आदधाति ७ अनुत्तराधरताया ओदनस्य यदुत्तरं तदुत्तरमोदन एवौदनः ८ षष्ट्यां शरत्स्विति पश्चादग्नेरुपसादयति ९ निधिं निधिपा इति त्रीणि काण्डानि करोति १० यद्यज्जायेति मन्त्रोक्तम् ११ सा पत्यावन्वारभते १२ अन्वारब्धेष्वत ऊर्ध्वं करोति १३ अग्नी रक्ष इति पर्यग्नि करोति १४ बभ्रेरध्वर्यो इदं प्रापमित्युपर्यापानं करोति १५ बभ्रेर्ब्रह्मन्निति ब्रूयादनध्वर्युम् १६ घृतेन गात्रा सिञ्च सर्पिरिति सर्पिषा विष्यन्दयति १७ वसोर्या धारा आदित्येभ्यो अङ्गिरीभ्य इति रसैरुपसिञ्चति १८ प्रियं प्रियाणामित्युत्तरतोऽग्नेर्धेन्वादीन्यनुमन्त्रयते १९ तामत्यासरत्प्रथमेति यथोक्तं दोहयित्वोपसिञ्चति २० अत्यासरत्प्रथमा धोक्ष्यमाणा सर्वान्यज्ञान्बिभ्रती वैश्वदेवी। उप वत्सं सृजत वाश्यते गौर्व्यसृष्ट सुमना हिंकृणोति।। बधान वत्समभि धेहि भुञ्जती निज्य गोधुगुप सीद दुग्धि। इरामस्मा ओदनं पिन्वमाना कीलालं घृतं मदमन्नभागम्।। सा धावतु यमराज्ञः सवत्सा सुदुघां पथा प्रथमेह दत्ता। अतूर्णदत्ता प्रथमेदमागन्वत्सेन गां सं सृज विश्वरूपामिति।। २१ इदं मे ज्योतिः समग्नय इति हिरण्यमधिदधाति २२ एषा त्वचामित्यमोतं वासोऽग्रतः सहिरण्यं निदधाति २३ ३ ६२

(८,३[६२].१) [५९] [६०] इति मन्त्रोक्तम्

(८,३[६२].२) तत उदकमादाय पात्र्यामानयति

(८,३[६२].३) दर्व्या कुम्भ्यां

(८,३[६२].४) दर्विकृते तत्र_एव प्रत्यानयति

(८,३[६२].५) दर्व्या_उत्तममपादाय तत्सुहृद्दक्षिणतो_अग्नेरुदङ्मुख आसीनो धारयति

(८,३[६२].६) अथ_उद्धरति

(८,३[६२].७) उद्धृते यदपादाय धारयति ततुत्तरार्ध आदधाति

(८,३[६२].८) अनुत्तराधरताया ओदनस्य यदुत्तरं तदुत्तरमोदन एव_ओदनः

(८,३[६२].९) [६१]_इति पश्चादग्नेरुपसादयति

(८,३[६२].१०) [६२] इति त्रीणि काण्डानि करोति

(८,३[६२].११) [६३]_इति मन्त्रोक्तम्

(८,३[६२].१२) सा पत्यौ_अन्वारभते

(८,३[६२].१३) अन्वारब्धेषु_अत ऊर्ध्वं करोति

(८,३[६२].१४) [६४]_इति पर्यग्नि करोति

(८,३[६२].१५) [६५] [६६] इत्युपरि_आपानं करोति

(८,३[६२].१६) [६७] इति ब्रूयादनध्वर्युम्

(८,३[६२].१७) [६८]_[६९] इति सर्पिषा विष्यन्दयति

(८,३[६२].१८) [७०] [७१]_इति रसैरुपसिञ्चति

(८,३[६२].१९) [७२]_इत्युत्तरतो_अग्नेर्धेन्वादीनि_अनुमन्त्रयते

(८,३[६२].२०) ताम् [७३]_इति यथोक्तं दोहयित्वा_उपसिञ्चति

(८,३[६२].२१) [७४] इति

(८,३[६२].२२) [७५]_[७६]_इति हिरण्यमधिदधाति

(८,३[६२].२३) [७७]_इत्यमा_ऊतं वासो_अग्रतः सहिरण्यं निदधाति


63 यदक्षेष्विति समानवसनौ भवतः १ द्वितीयं तत्पापचैलं भवति तन्मनुष्याधमाय दद्यादित्येके २ शृतं त्वा हव्यमिति चतुर आर्षेयान्भृग्वङ्गिरोविद उपसादयति ३ शुद्धाः पूता इति मन्त्रोक्तम् ४ पक्वं क्षेत्राद्वर्षं वनुष्वेत्यपकर्षति ५ अग्नौ तुषानिति तुषानावपति ६ परः कम्बूकानिति सव्येन पादेन फलीकरणानपोहति ७ तन्वं स्वर्ग इत्यन्यानावपति ८ अग्ने प्रेहि समाचिनुष्वेत्याज्यं जुहुयात् ९ एष सवानां संस्कारः १० अर्थलुप्तानि निवर्तन्ते ११ यथासवं मन्त्रं संनमयति १२ लिङ्गं परिहितस्य लिङ्गस्यानन्तरं कर्मकर्मानुपूर्वेण लिङ्गं परीक्षेत १३ लिङ्गेन वा १४ कर्मोत्पत्त्यानुपूर्वं प्रशस्तम् १५ अतथोत्पत्तेर्यथालिङ्गम् १६ समुच्चयस्तुल्यार्थानां विकल्पो वा १७ अथैतयोर्विभागः १८ सूक्तेन पूर्वं संपातवन्तं करोति १९ श्राम्यत इति प्रभृतिभिर्वा सूक्तेनाभिमन्त्रयाभिनिगद्य दद्याद्दाता वाच्यमानः २० अनुवाकेनोत्तरं संपातवन्तं करोति २१ प्राच्यै त्वा दिश इतिप्रभृतिभिर्वानुवाकेनाभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः २२ यथासवमन्यान्पृथग्वेति प्रकृतिः २३ सर्वे यथोत्पत्त्याचार्याणां पञ्चौदनवर्जम् २४ प्रयुक्तानां पुनरप्रयोगम् २५ एके सहिरण्यां धेनुं दक्षिणां २६ गोदक्षिणां वा कौरुपथिः २७ संपातवतोऽभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः २८ एतं भागमेतं सधस्था उलूखल इति संस्थितहोमाः २९ आवपते ३० अनुमन्त्रणं च ३१ ४ ६३ (८,४[६३].१) [७८]_इति समानवसनौ भवतः

(८,४[६३].२) द्वितीयं तत्पापचैलं भवति तन्मनुष्यान्धमाय दद्यादित्येके

(८,४[६३].३) [७९] इति वतुर आर्षेयान् भृग्वङ्गिरोविदुपसादयति

(८,४[६३].४) [८०] इति मन्त्रोक्तम्

(८,४[६३].५) [८१]_[८२]_इत्यपकर्षति

(८,४[६३].६) [८३] इति तुषानावपति

(८,४[६३].७) [८४] इति सव्येन पादेन फलीकरणानपोहति

(८,४[६३].८) [८५]_इत्यन्यानावपति

(८,४[६३].९) [८६]_[८७]_इत्याज्यं जुहुयात्

(८,४[६३].१०) एष सवानां संस्कारः

(८,४[६३].११) अर्थलुप्तानि निवर्तन्ते

(८,४[६३].१२) यथासवं मन्त्रं संनमयति

(८,४[६३].१३) लिङ्गं परिहितस्य लिङ्गस्यानन्तरं कर्मकर्मानुपूर्वेण लिङ्गं परीक्षेत

(८,४[६३].१४) लिङ्गेन वा

(८,४[६३].१५) कर्मोत्पत्त्यानुपूर्वं प्रशस्तम्

(८,४[६३].१६) अतथा_उत्पत्तेर्यथालिङ्गम्

(८,४[६३].१७) समुच्चयस्तुल्यार्थानां विकल्पो वा

(८,४[६३].१८) अथ_एतयोर्विभागः

(८,४[६३].१९) सूक्तेन पूर्वं संपातवन्तं करोति

(८,४[६३].२०) [८८]_इतिप्रभृतिभिर्वा सूक्तेनाभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः

(८,४[६३].२१) अनुवाकेन_उत्तरं संपातवन्तं करोति

(८,४[६३].२२) [८९]_इतिप्रभृतिभिर्वानुवाकेनाभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः

(८,४[६३].२३) यथासवमन्यान् पृथग्वा_इति प्रकृतिः

(८,४[६३].२४) सर्वे यथोत्पत्त्याचार्याणां पञ्चौदनवर्जम्

(८,४[६३].२५) प्रयुक्तानां पुनरप्रयोगम्

(८,४[६३].२६) एके सहिरण्यां धेनुं दक्षिणां

(८,४[६३].२७) गोदक्षिणां वा कौरुपथिः

(८,४[६३].२८) संपातवतो_अभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः

(८,४[६३].२९) [९०]_[९१]_[९२]_इति संस्थितहोमाः

(८,४[६३].३०) आवपते

(८,४[६३].३१) अनुमन्त्रणं च


64 आशानामिति चतुःशरावम् १ यद्राजान इत्यवेक्षति २ पदस्नातस्य पृथक्पादेष्वपूपान्निदधाति ३ नाभ्यां पञ्चमम् ४ उन्नह्यन्वसनेन सहिरण्यं संपातवन्तम् ५ आ नयैतमि[९३]त्यपराजिताद[९४]जमानीयमानमनुमन्त्रयते ६ इन्द्राय भाग[९५]मित्यग्निं परिणीयमानम् ७ ये नो द्विषन्तीति[९६] संज्ञप्यमानम् ८ प्र पद इति[९७] पदः प्रक्षालयन्तम् ९ अनु च्छ्य श्यामेनेति[९८] यथापरु विशसन्तम् १० ऋचा कुम्भी[९९]मित्यधिश्रयन्तम् ११ आ सिञ्चे[१००]त्यासिञ्चन्तम् १२ अव धेही[१०१]त्यवदधतम् १३ पर्याधत्तेति[१०२] पर्यादधतम् १४ शृतो गच्छत्वि[१०३]त्युद्वासयन्तम् १५ उत्क्रामात इति[१०४] पश्चादग्नेर्दर्भेषूद्धरन्तम् १६ उद्धृतमजमनज्मी[१०५]त्याज्येनानक्ति १७ पञ्चौदनमिति[१०६] मन्त्रोक्तम् १८ ओदनान्पृथक्पादेषु निदधाति १९ मध्ये पञ्चमम् २० दक्षिणं पश्चार्धं यूपेनोपसिच्य २१ शृतमजमित्यनुबद्धशिरःपादं त्वेतस्य चर्म २२ अजो हीति[१०७] सूक्तेन संपातवन्तं यथोक्तम् २३ उत्तरोऽमोतं तस्याग्रतः सहिरण्यं निदधाति २४ पञ्च रुक्मेति मन्त्रोक्तम् २५ धेन्वादीन्युत्तरतः सोपधानमास्तरणं वासो हिरण्यं च २६ आ नयैतमिति[१०८] सूक्तेन संपातवन्तम् २७ आञ्जनान्तं शतौदनायाः पञ्चौदनेन व्याख्यातम् २८ ५ ६४ (८,५[६४].१) [१०९] इति चतुःशरावम्

(८,५[६४].२) [११०]_इत्यवेक्षति

(८,५[६४].३) पदस्नातस्य पृथक्पादेषु_अपूपान्निदधाति

(८,५[६४].४) नाभ्यां पञ्चमम्

(८,५[६४].५) उन्नह्यन् वसनेन सहिरण्यं संपातवन्तम्

(८,५[६४].६) [१११] इत्यपराजितादजमानीयमानमनुमन्त्रयते

(८,५[६४].७) [११२]_इति अग्निं परिणीयमानम्

(८,५[६४].८) [११३]_इति संज्ञप्यमानम्

(८,५[६४].९) [११४]_इति पदः प्रक्षालयन्तम्

(८,५[६४].१०) [११५]_इति यथापरु विशन्तम्

(८,५[६४].११) [११६] इत्यधिश्रयन्तम्

(८,५[६४].१२) [११७]_इत्यासिञ्चन्तम्

(८,५[६४].१३) [११८]_इत्यवदधतम्

(८,५[६४].१४) [११९]_इति पर्यादधतम्

(८,५[६४].१५) [१२०]_इत्युद्वासयन्तम्

(८,५[६४].१६) [१२१]_इति पश्चादग्नेर्दर्भेषूद्धरन्तम्

(८,५[६४].१७) उद्धृतम् [१२२]_इत्याज्येनानक्ति

(८,५[६४].१८) [१२३]_इति मन्त्रोक्तम्

(८,५[६४].१९) ओदनान् पृथक्पादेषु निदधाति

(८,५[६४].२०) मध्ये पञ्चमम्

(८,५[६४].२१) दक्षिणं पश्चार्धं यूपेन_उपसिच्य

(८,५[६४].२२) [१२४]_इत्यनुबद्धशिरःपादं तु_एतस्य चर्म

(८,५[६४].२३) [१२५]_इति सूक्तेन संपातवन्तं यथोक्तम्

(८,५[६४].२४) उत्तरो_अमोतं तस्याग्रतः सहिरण्यं निदधाति

(८,५[६४].२५) [१२६]_इति मन्त्रोक्तम्

(८,५[६४].२६) धेन्वादीनि_उत्तरतः सोपधानमास्तरणं वासो हिरण्यं च

(८,५[६४].२७) [१२७] इति सूक्तेन संपातवन्तम्

(८,५[६४].२८) आञ्जनान्तं शतौदनायाः पञ्चौदेन व्याख्यातम्


65 अघायतामित्यत्र मुखमपिनह्यमानमनुमन्त्रयते १ सपत्नेषु वज्रं ग्रावा त्वैष इति निपतन्तम् २ वेदिष्ट इति मन्त्रोक्तमास्तृणाति ३ विंशत्योदनासु श्रयणीषु शतमवदानानि वध्रीसंनद्धानि पृथगोदनेषूपर्यादधति ४ मध्यमायाः प्रथमे रन्ध्रिण्यामिक्षां दशमेऽभितः सप्तसप्तापूपान्परिश्रयति ५ पञ्चदशे पुरोडाशौ ६ अग्रे हिरण्यम् ७ अपो देवीरित्यग्रत उदकुम्भान् ८ बालास्त इति सूक्तेन संपातवतीम् ९ प्रदक्षिणमग्निमनुपरिणीयोपवेशनप्रक्षालनाचमनमुक्तम् १० पाणावुदकमानीय ११ अथामुष्यौदनस्यावदानानां च मध्यात्पूर्वार्धाच्च द्विरवदायोपरिष्टादुदकेनाभिघार्य जुहोति सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयेषु नि दध ओदन त्वेति १२ अथ प्राश्नाति १३ अग्नेष्ट्वास्येन प्राश्नामि बृहस्पतेर्मुखेन। इन्द्रस्य त्वा जठरे सादयामि वरुणस्योदरे। तद्यथा हुतमिष्टं प्राश्नीयाद्देवात्मा त्वा प्राश्नाम्यात्मास्यात्मन्नात्मानं मे मा हिंसीरिति प्राशितमनुमन्त्रयते १४ योऽग्निर्नृमणा नाम ब्राह्मणेषु प्रविष्टः। तस्मिन्म एष सुहुतोऽस्त्वोदनः स मा मा हिंसीत्परमे व्योमन्।। सो अस्मभ्यमस्तु परमे व्योमन्निति दातारं वाचयति १५ वीक्षणान्तं शतौदनायाः प्रातर्जपेन व्याख्यातम् १६ ६ ६५ (८,६[६५].१) [१२८] इत्यत्र मुखमपिनह्यमानमनुमन्त्रयते

(८,६[६५].२) [१२९]_[१३०]_इति निपतन्तम्

(८,६[६५].३) [१३१]_इति मन्त्रोक्तमास्तृणाति

(८,६[६५].४) विंशत्योदनासु श्रयणीषु शतमवदानानि वध्रीसंनद्धानि पृथगोदनेषूपर्यादधति

(८,६[६५].५) मध्यमायाः प्रथमे रन्ध्रिण्यामिक्षां दशमे_अभितः सप्तसप्तापूपान् परिश्रयति

(८,६[६५].६) पञ्चदशे पुरोडाशौ

(८,६[६५].७) अग्रे हिरण्यम्

(८,६[६५].८) [१३२]_इत्यग्रत उदकुम्भान्

(८,६[६५].९) [१३३]_इति सूक्तेन संपातवतीम्

(८,६[६५].१०) प्रदक्षिणमग्निमनुपरिणीय_उपवेशनप्रक्षालनाचमनमुक्तम्

(८,६[६५].११) पाणौ_उदकमानीय

(८,६[६५].१२) अथामुष्य_ओदनस्यावदानानां च मध्यात्पूर्वार्धात्_च द्विरवदाय_उपरिष्टादुदकेनाभिघार्य जुहोति [१३४] [१३५]_इति

(८,६[६५].१३) अथ प्राश्नाति

(८,६[६५].१४) [१३६] इति प्राशितमनुमन्त्रयते

(८,६[६५].१५) [१३७] इति दातारं वाचयति

(८,६[६५].१६) वीक्षणान्तं शतौदनायाः प्रातर्जपेन व्याख्यातम्

66 वाङ्म आसन्निति मन्त्रोक्तान्यभिमन्त्रयते १ बृहता मनो द्यौश्च मे पुनर्मैत्विन्द्रियमिति प्रतिमन्त्रयते २ प्रतिमन्त्रिते व्यवदायाश्नन्ति ३ शतौदनायां द्वादशं शतं दक्षिणाः ४ अधिकं ददतः कामप्रं संपद्यते ५ ब्रह्मास्येत्योदने ह्रदान्प्रतिदिशं करोति ६ उपर्यापानम् ७ तदभितश्चतस्रो दिश्याः कुल्याः ८ ता रसैः पूरयति ९ पृथिव्यां सुरयाद्भिराण्डीकादिवन्ति मन्त्रोक्तानि प्रतिदिशं निधाय १० यमोदनमित्यतिमृत्युम् ११ अनड्वानित्यनड्वाहम् १२ सूर्यस्य रश्मीनिति कर्कीं सानूबन्ध्यां ददाति १३ आयं गौः पृश्निरयं सहस्रमिति पृश्निं गाम् १४ देवा इमं मधुना संयुतं यवमिति पौनःशिलं मधुमन्थं सहिरण्यं संपातवन्तम् १५ पुनन्तु मा देवजना इति पवित्रं कृशरम् १६ कः पृश्निमित्युर्वराम् १७ साहस्र इत्यृषभम् १८ प्रजापतिश्चेत्यनड्वाहम् १९ नमस्ते जायमानायै ददामीति वशामुदपात्रेण संपातवता संप्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः २० भूमिष्ट्वेत्येनां प्रतिगृह्णाति २१ उपमितामिति यच्छालया सह दास्यन्भवति तदन्तर्भवत्यपिहितम् २२ मन्त्रोक्तं तु प्रशस्तम् २३ इटस्य ते वि चृतामीति द्वारमवसारयति २४ प्रतीचीं त्वा प्रतीचीन इत्युदपात्रमग्निमादाय प्रपद्यन्ते २५ तदन्तरेव सूक्तेन संपातवत्त्करोति २६ उदपात्रेण संपातवता शालां संप्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः २७ अन्तरा द्यां च पृथिवीं चेत्येनां प्रतिगृह्णाति २८ उपमितामिति मन्त्रोक्तानि प्रचृतति २९ मा नः पाशमित्यभिमन्त्र्य धारयति ३० नास्यास्थीनीति यथोक्तम् ३१ सर्वमेनं समादायेत्यद्भिः पूर्णे गर्ते प्रविध्य संवपति ३२ शतौदनां च ३३ ७ ६६ (८,७[६६].१) [१३८]_इति मन्त्रोक्तानि_अभिमन्त्रयते

(८,७[६६].२) [१३९] [१४०] [१४१]_इति प्रतिमन्त्रयते

(८,७[६६].३) प्रतिमन्त्रिते व्यवदायाश्नन्ति

(८,७[६६].४) शतौदनायां द्वादशं शतं दक्षिणाः

(८,७[६६].५) अधिकं ददतः कामप्रं संपद्यते

(८,७[६६].६) [१४२]_इत्योदने ह्रदान् प्रतिदिशं करोति

(८,७[६६].७) उपरि_आपानम्

(८,७[६६].८) तदभितश्चतस्रो दिश्याः कुल्याः

(८,७[६६].९) ता रसैः पूरयति

(८,७[६६].१०) पृथिव्यां सुरयाद्भिराण्डीकादिवन्ति मन्त्रोक्तानि प्रतिदिशं निधाय

(८,७[६६].११) [१४३]_इत्यतिमृत्युम्

(८,७[६६].१२) [१४४] इत्यनड्वाहम्

(८,७[६६].१३) [१४५] इति कर्कीं सानूबन्ध्यां ददाति

(८,७[६६].१४) [१४६] [१४७] इति पृश्निं गाम्

(८,७[६६].१५) [१४८] इति पौनःशिलं मधुमन्तं सहिरण्यं संपातवन्तम्

(८,७[६६].१६) [१४९]_इति पवित्रं कृशरम्

(८,७[६६].१७) [१५०]_इत्युर्वराम्

(८,७[६६].१८) [१५१]_इत्यृषभम्

(८,७[६६].१९) [१५२]_इत्यनड्वाहम्

(८,७[६६].२०) [१५३] [१५४]_इति वशामुदपात्रेण संपातवता संप्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः

(८,७[६६].२१) [१५५]_इत्येनां प्रतिगृह्णाति

(८,७[६६].२२) [१५६]_इति यत्_शालया सह दास्यन् भवति तदन्तर्भवति_अपिहितम्

(८,७[६६].२३) मन्त्रोक्तं तु प्रशस्तम्

(८,७[६६].२४) [१५७]_इति द्वारमवसारयति

(८,७[६६].२५) [१५८]_इत्युदपात्रमग्निमादाय प्रपद्यन्ते

(८,७[६६].२६) तदन्तरेव सूक्तेन संपातवत्करोति

(८,७[६६].२७) उदपात्रेण संपातवता शालां संप्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः

(८,७[६६].२८) [१५९]_इत्येनां प्रतिगृह्णाति

(८,७[६६].२९) [१६०]_इति मन्त्रोक्तानि प्रचृतति

(८,७[६६].३०) [१६१]_इत्यभिमन्त्र्य धारयति

(८,७[६६].३१) [१६२]_इति यथोक्तम्

(८,७[६६].३२) [१६३]_इत्यद्भिः पूर्णे गर्ते प्रविध्य संवपति

(८,७[६६].३३) शतौदनां च


67 संभृतेषु साविकेषु संभारेषु ब्राह्मणमृत्विजं वृणीत १ ऋषिमार्षेयं सुधातुदक्षिणमनैमित्तिकम् २ एष ह वा ऋषिरार्षेयः सुधातुदक्षिणो यस्य त्र्यवरार्ध्याः पूर्वपुरुषा विद्याचरणवृत्तशीलसंपन्नाः ३ उदगयन इत्येके ४ अथात ओदनसवानामुपाचारकल्पं व्याख्यास्यामः ५ सवान्दत्त्वाग्नीनादधीत ६ सार्ववैदिक इत्येके ७ सर्वे वेदा द्विकल्पाः ८ मासपरार्ध्या दीक्षा द्वादशरात्रो वा ९ त्रिरात्र इत्येके १० हविष्यभक्षा स्युर्ब्रह्मचारिणः ११ अधः शयीरन् १२ कर्तुदातारावा समापनात्कामं न भुञ्जीरन्संतताश्चेत्स्युः १३ अहनि समाप्तमित्येके १४ यात्रार्थं दातारौ वा दाता केशश्मश्रुरोमनखानि वापयीत १५ केशवर्जं पत्नी १६ स्नातावहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यावुपवसतः १७ श्वो भूते यज्ञोपवीती शान्त्युदकं कृत्वा यज्ञवास्तु च संप्रोक्ष्य ब्रह्मौदनिकमग्निं मथित्वा १८ यद्देवा देवहेडनं यद्विद्वांसो यदविद्वांसोऽपमित्यमप्रतीत्तमित्येतैस्त्रिभिः सूक्तैरन्वारब्धे दातरि पूर्णहोमं जुहुयात् १९ पूर्वाह्णे बाह्यतः शान्तवृक्षस्येध्मं प्राञ्चमुपसमाधाय २० परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य २१ नित्यान्पुरस्ताद्धोमान्हुत्वाज्यभागौ च २२ पश्चादग्नेः पल्पूलितविहितमौक्षं वानडुहं वा रोहितं चर्म प्राग्ग्रीवमुत्तरलोम परिस्तीर्य २३ पवित्रे कुरुते २४ दर्भावप्रच्छिन्नप्रान्तौ प्रक्षाल्यानुलोममनुमार्ष्टि २५ दक्षिणं जान्वाच्यापराजिताभिमुखः प्रह्वो वा मुष्टिना प्रसृतिनाञ्जलिना यस्यां श्रपयिष्यन्स्यात्तया चतुर्थम् २६ शरावेण चतुःशरावं देवस्य त्वा सवितुः प्रसव ऋषिभ्यस्त्वार्षेयेभ्यस्त्वैकर्षये त्वा जुष्टं निर्वपामि २७ ८ ६७ (८,८[६७].१) संभृतेषु साविकेषु संभारेषु ब्राह्मणमृत्विजं वृणीत

(८,८[६७].२) ऋषिमार्षेयं सुधातुदक्षिणमनैमित्तिकम्

(८,८[६७].३) एष ह वा ऋषिरार्षेयः सुधातुदक्षिणो यस्य त्र्यवरार्ध्याः पूर्वपुरुषा विद्याचरणवृत्तशीलसंपन्नाः

(८,८[६७].४) उदगयन इत्येके

(८,८[६७].५) अथात ओदनसवानामुपाचारकल्पं व्याख्यास्यामः

(८,८[६७].६) सवान् दत्त्वाग्नीनादधीत

(८,८[६७].७) सार्ववैदिक इत्येके

(८,८[६७].८) सर्वे वेदा द्विकल्पाः

(८,८[६७].९) मासपरार्ध्या दीक्षा द्वादशरात्रो वा

(८,८[६७].१०) त्रिरात्र इत्येके

(८,८[६७].११) हविष्यभक्षा स्युर्ब्रह्मचारिणः

(८,८[६७].१२) अधः शयीरन्

(८,८[६७].१३) कर्तृदातारौ_आ समापनात्कामं न भुञ्जीरन् संतताश्चेत्स्युः

(८,८[६७].१४) अहनि समाप्तमित्येके

(८,८[६७].१५) यात्रार्थं दातारौ वा दाता केशश्मश्रुरोमनखानि वापयीत

(८,८[६७].१६) केशवर्जं पत्नी

(८,८[६७].१७) स्नातावहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यौ_उपवसतः

(८,८[६७].१८) श्वो भूते यज्ञोपवीती शान्त्युदकं कृत्वा यज्ञवास्तु च संप्रोक्ष्य ब्रह्मौदनिकमग्निं मथित्वा

(८,८[६७].१९) [१६४] [१६५] [१६६]_इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे दातरि पूर्णहोमं जुहुयात्

(८,८[६७].२०) पूर्वाह्णे बाह्यतः शान्तवृक्षस्य_इध्मं प्राञ्चमुपसमाधाय

(८,८[६७].२१) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य

(८,८[६७].२२) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च

(८,८[६७].२३) पश्चादग्नेः पल्पूलितविहितमौक्षं वानडुहं वा रोहितं चर्म प्राग्ग्रीवमुत्तरलोम परिस्तीर्य

(८,८[६७].२४) पवित्रे कुरुते

(८,८[६७].२५) दर्भौ_अप्रछिन्नप्रान्तौ प्रक्षाल्यानुलोममनुमार्ष्टि

(८,८[६७].२६) दक्षिणं जानु_आच्यापराजिताभिमुखः प्रह्वो वा मुष्टिना प्रसृतिनाञ्जलिना यस्यां श्रपयिष्यन् स्यात्तया चतुर्थम्

(८,८[६७].२७) शरावेण चतुःशरावं [१६७]_[१६८]

68 वसवस्त्वा गायत्रेण छन्दसा निर्वपन्तु । ऊर्जमक्षितमक्षीयमाणमुपजीव्यासमिति दातारं वाचयति १ रुद्रास्त्वा त्रैष्टुभेन च्छन्दसा । आदित्यास्त्वा जागतेन च्छन्दसा । विश्वे त्वा देवा आनुष्टुभेन च्छन्दसा निर्वपन्तु । ऊर्जमक्षितमक्षीयमाणमुपजीव्यासमिति दातारं वाचयति २ निरुप्तं सूक्तेनाभिमृशति ३ स्वर्गब्रह्मौदनौ तन्त्रम् ४ संनिपाते ब्रह्मौदनमितमुदकमासेचयेद्विभागम् ५ यावन्तस्तण्डुलाः स्युर्नावसिञ्चेन्न प्रतिषिञ्चेत् ६ यद्यवसिञ्चेन्मयि वर्चो अथो यश इति ब्रह्मा यजमानं वाचयति ७ अथ प्रतिषिञ्चेत् ८ आ प्यायस्व सं ते पयांसीति द्वाभ्यां प्रतिषिञ्चेत् ९ आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् भवा वाजस्य संगथे सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्वेति १० तत्र चेदुपाधिमात्रायां नखेन न लवणस्य कुर्यात्तेनैवास्य तद्वृथान्नं संपद्यते ११ अहतं वासो दक्षिणत उपशेते १२ तत्सहिरण्यम् १३ तत्र द्वे उदपात्रे निहिते भवतः १४ दक्षिणमन्यदन्तरमन्यत् १५ अन्तरं यतोऽधिचरिष्यन्भवति १६ बाह्यं जाङ्मायनम् १७ तत उदकमादाय पात्र्यामानयति १८ दर्व्या कुम्भ्याम् १९ दर्विकृते तत्रैव प्रत्यानयति २० दर्व्योत्तममपादाय तत्सुहृद्दक्षिणतोऽग्नेरुदङ्मुख आसीनो धारयति २१ अथोद्धरति २२ उद्धृते यदपादाय धारयति तदुत्तरार्ध आधाय रसैरुपसिच्य प्रतिग्रहीत्रे दातोपवहति २३ तस्मिन्नन्वारब्धं दातारं वाचयति २४ तन्त्रं सूक्तं पच्छः स्नानेन यौ ते पक्षौ यदतिष्ठः २५ यौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्योदन ताभ्यां पथ्यास्म सुकृतस्य लोकं यत्र ऋषयः प्रथमजाः पुराणाः यदतिष्ठो दिवस्पृष्ठे व्योमन्नध्योदन अन्वायन्सत्यधर्माणो ब्राह्मणा राधसा सह २६ क्रमध्वमग्निना नाकं पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहं स्वर्यन्तो नापेक्षन्त उरुः प्रथस्व महता महिम्नेदं मे ज्योतिः सत्याय चेति तिस्रः समग्नय इति सार्धमेतया २७ अत ऊर्ध्वं वाचिते हुते संस्थितेऽमूं ते ददामीति नामग्राहमुपस्पृशेत् २८ सदक्षिणं कामस्तदित्युक्तम् २९ ये भक्षयन्त इति पुरस्ताद्धोमाः ३० अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः। तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः।। गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः सुमित्रः सुमनो भवेत्याज्यभागौ ३१ पाणावुदकमानीयेत्युक्तम् ३२ प्रतिमन्त्रणान्तम् ३३ प्रतिमन्त्रिते व्यवदायाश्नन्ति ३४ इदावत्सरायेति व्रतविसर्जनमाज्यं जुहुयात् ३५ समिधोऽभ्यादध्यात् ३६ तत्र श्लोकौ यजुषा मथिते अग्नौ यजुषोपसमाहिते। सवान्दत्त्वा सवाग्नेस्तु कथमुत्सर्जनं भवेत्।। वाचयित्वा सवान्सर्वान्प्रतिगृह्य यथाविधि। हुत्वा संनतिभिस्तत्रोत्सर्गं कौशिकोऽब्रवीत्।। ३७ प्राञ्चोऽपराजितां वा दिशमवभृथाय व्रजन्ति ३८ अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति ३९ ब्राह्मणान्भक्तेनोपेप्सन्ति ४० यथोक्ता दक्षिणा यथोक्ता दक्षिणा ४१ ९ ६८ (८,९[६८].१) [१६९] इति दातारं वाचयति

(८,९[६८].२) [१७०] इति दातारं वाचयति

(८,९[६८].३) निरुप्तं सूक्तेनाभिमृशति

(८,९[६८].४) स्वर्गब्रह्मौदनौ तन्त्रम्

(८,९[६८].५) संनिपाते ब्रह्मौदनमितमुदकमासेचयेद्द्विभागम्

(८,९[६८].६) यावन्तस्तण्डुलाः स्युर्नावसिञ्चेत्_न प्रतिषिञ्चेत्

(८,९[६८].७) यदि_अवसिञ्चेत्_[१७१]_इति ब्रह्मा यजमानं वाचयति

(८,९[६८].८) अथ प्रतिषिञ्चेत्

(८,९[६८].९) [१७२] [१७३]_इति द्वाभ्यां प्रतिषिञ्चेत्

(८,९[६८].१०) [१७४]_इति

(८,९[६८].११) तत्र चेदुपाधिमात्रायां नखेन न लवणस्य कुर्यात्तेन_एवास्य तद्वृथान्नं संपद्यते

(८,९[६८].१२) अहतं वासो दक्षिणत उपशेते

(८,९[६८].१३) तत्सहिरण्यम्

(८,९[६८].१४) तत्र द्वे उदपात्रे निहिते भवतः

(८,९[६८].१५) दक्षिणमन्यदन्तरमन्यत्

(८,९[६८].१६) अन्तरं यतो_अधिचरिष्यन् भवति

(८,९[६८].१७) बाह्यं जाङ्मायनम्

(८,९[६८].१८) तत उदकमादाय पात्र्यामानयति

(८,९[६८].१९) दर्व्या कुम्भ्याम्

(८,९[६८].२०) दर्विकृते तत्र_एव प्रत्यानयति

(८,९[६८].२१) दर्व्या_उत्तममपादाय तत्सुहृद्दक्षिणतो_अग्नेरुदङ्मुख आसीनो धारयति

(८,९[६८].२२) अथ_उद्धरति

(८,९[६८].२३) उद्धृते यदपादाय धारयति तदुत्तरार्ध आधाय रसैरुपसिच्य प्रतिग्रहीत्रे दाता_उपवहति

(८,९[६८].२४) तस्मिन्नन्वारब्धं दातारं वाचयति

(८,९[६८].२५) तन्त्रं सूक्तं पच्छः स्नातेन [१७५] [१७६]

(८,९[६८].२६) [१७७]

(८,९[६८].२७) [१७८]_[१७९]_[१८०] [१८१]_[१८२]_[१८३]_इति तिस्रः [१८४]_इति सार्धमेतया

(८,९[६८].२८) अत ऊर्ध्वं वाचिते हुते संस्थिते_अमूं ते ददामीति नामग्राहमुपस्पृशेत्

(८,९[६८].२९) सदक्षिणं [१८५] इत्युक्तम्

(८,९[६८].३०) [१८६]_इति पुरस्ताद्धोमाः

(८,९[६८].३१) [१८७] [१८८]_इत्याज्यभागौ

(८,९[६८].३२) पाणौ_उदकमानीय_इत्युक्तम्

(८,९[६८].३३) प्रतिमन्त्रणान्तम्

(८,९[६८].३४) प्रतिमन्त्रिते व्यवदायाश्नन्ति

(८,९[६८].३५) [१८९]_इति व्रतविसर्जनमाज्यं जुहुयात्

(८,९[६८].३६) समिधो_अभ्याध्यात्

(८,९[६८].३७) तत्र श्लोकौ । यजुषा मथिते अग्नौ यजुषोपसमाहिते । सवान् दत्त्वा सवाग्नेस्तु कथमुत्सर्जनं भवेत् ॥ वाचयित्वा सवान् सर्वान् प्रतिगृह्य यथाविधि । हुत्वा संनतिभिस्तत्रोत्सर्गं कौशिकोऽब्रवीत्

(८,९[६८].३८) प्राञ्चो_अपराजितां वा दिशमवभृथाय व्रजन्ति

(८,९[६८].३९) अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति

(८,९[६८].४०) ब्राह्मणान् भक्तेन_उपेप्सन्ति

(८,९[६८].४१) यथोक्ता दक्षिणा यथोक्ता दक्षिणा इत्यथर्ववेदे कौशिकसूत्रेऽष्टमोऽध्यायः समाप्तः



(कौ.सू.८ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रेऽष्टमोऽध्यायः समाप्तः

  1. अग्ने जायस्व [११.१.१]
  2. कृणुत धूमं [११.१.२]
  3. अग्नेऽजनिष्ठा [११.१.३]
  4. समिद्धो अग्ने [११.१.४]
  5. परेहि नारि [११.१.१३]
  6. एमा अगुर्[११.१.१४ ]
  7. उत्तिष्ठ नारि [११.१.१४ ]
  8. प्रति कुम्भं गृभाय [११.१.१४ ]
  9. ऊर्जो भागो [११.१.१५]
  10. इयं मही [११.१.८]
  11. पुमान् पुंसो [१२.३.१]
  12. ऋषिप्रशिष्टा [११.१.१५ ]
  13. आपस्पुत्रासो [१२.३.४]
  14. प्राचींप्राचीं [१२.३.७]
  15. ध्रुवेयं विराण्[१२.३.११]
  16. पितेव पुत्रान् [१२.३.१२]
  17. त्रेधा भागो [११.१.५]
  18. अग्ने सहस्वान् [११.१.६]
  19. सप्त मेधान् [१२.३.१६]
  20. गृह्णामि हस्तम् [१२.३.१७ ]
  21. त्रयो वरा [११.१.१० ]
  22. एतौ ग्रावाणौ [११.१.९]
  23. अयं ग्रावा [१२.३.१४]
  24. गृहाण ग्रावाणौ [११.१.१०]
  25. साकं सजातैः [११.१.७]
  26. वनस्पतिः [१२.३.१५]
  27. निर्बिन्ध्यंशून् [११.१.९ ]
  28. ग्राहिं पाप्मानम् [१२.३.१८]
  29. इयं ते धीतिर्[११.१.११]
  30. वर्षवृद्धम् [१२.३.१९ ]
  31. ऊर्ध्वं प्रजाम् [११.१.९ ]
  32. विश्वव्यचा [१२.३.१९]
  33. परा पुनीहि [११.१.११ ]
  34. तुषं पलावान् [१२.३.१९ ]
  35. पृथग्रूपाणि [१२.३.२१]
  36. त्रयो लोकाः [१२.३.२०]
  37. पुनरा यन्तु शूर्पम् [१२.३.२० ]
  38. उपश्वसे [११.१.१२]
  39. पृथिवीं त्वा पृथिव्याम् [१२.३.२२]
  40. अग्ने चरुर्[११.१.१६]
  41. अग्निः पचन् [१२.३.२४]
  42. ऋषिप्रशिष्टा [११.१.१५ ]
  43. शुद्धाः पूताः [११.१.१७]
  44. पूताः पवित्रैः [१२.३.२५]
  45. ब्रह्मणा शुद्धाः [११.१.१८]
  46. संख्याता स्तोकाः [१२.३.२८]
  47. उरुः प्रथस्व [११.१.१९]
  48. उद्योधन्ति [१२.३.२९]
  49. प्र यछ पर्शुं [१२.३.३१]
  50. ओषधीर्दान्तु पर्वन् [१२.३.३१ ]
  51. नवं बर्हिर्[१२.३.३२]
  52. उदेहि वेदिं [११.१.२१]
  53. धर्ता ध्रियस्व [१२.३.३५]
  54. अभ्यावर्तस्व [११.१.२२]
  55. वनस्पते स्तीर्णम् [१२.३.३३]
  56. अंसध्रीं [११.१.२३ ]
  57. उप स्तृणीहि [१२.३.२७]
  58. उपस्तरीर्[१२.३.२८]
  59. अदितेर्हस्तां [११.१.२४]
  60. सर्वान् समागा [१२.३.३६]
  61. षष्ठ्यां शरत्सु [१२.३.३४]
  62. निधिं निधिपा [१२.३.४२]
  63. यद्यज्जाया [१२.३.३९]
  64. अग्नी रक्षस्[१२.३.४३]
  65. बभ्रेरध्वर्यो [११.१.३१]
  66. इदं प्रापम् [१२.३.४५]
  67. बभ्रेर्ब्रह्मन्न् [दृष्टव्यम्‌ ११.१.३१]
  68. घृतेन गात्रा [११.१.३१ ]
  69. आ सिञ्च सर्पिर्[१२.३.४५ ]
  70. वसोर्या धारा [१२.३.४१]
  71. आदित्येभ्यो अङ्गिरोभ्यो [१२.३.४४]
  72. प्रियं प्रियाणां [१२.३.४९]
  73. अत्यासरत्प्रथमा [पै.सं.५.३१.१]
  74. अत्यासरत्प्रथमा धोक्ष्यमाणा सर्वान् यज्ञान् बिभ्रती वैश्वदेवी । उप वत्सं सृजत वाश्यते गौर्व्यसृष्ट सुमना हिं कृणोति ॥ बधान वत्समभि धेहि भुञ्जती निज्य गोधुगुप सीद दुग्धि । इरामस्मा ओदनं पिन्वमाना कीलालं घृतं मदमन्नभागम् ॥ सा धावतु यमराज्ञः सवत्सा सुदुघां पथा प्रथमेह दत्ता । अतूर्णदत्ता प्रथमेदमागन् वत्सेन गां सं सृज विश्वरूपाम् [पै.सं.५.३१.१३]
  75. इदं मे ज्योतिर्[११.१.२८]
  76. समग्नयः [१२.३.५०]
  77. एषा त्वचां [१२.३.५१]
  78. यदक्षेषु [१२.३.५२]
  79. शृतं त्वा हव्यम् [११.१.२५]
  80. शुद्धाः पूता [११.१.२७]
  81. पक्वं क्षेत्रात्[११.१.२८ ]
  82. वर्षं वनुष्व [१२.३.५३]
  83. अग्नौ तुषान् [११.१.२९]
  84. परः कम्बूकान् [११.१.२९ ]
  85. तन्वं स्वर्गो [१२.३.५४]
  86. अग्ने प्रेहि [४.१४.५]
  87. समाचिनुष्व [११.१.३६]
  88. श्राम्यतः [११.१.३०]
  89. प्राच्यै त्वा दिशे [१२.३.५५]
  90. एतं भागं [६.१२२.१]
  91. एतं सधस्थाः [६.१२३.१]
  92. उलूखले [१०.९.२६]
  93. शौअ ९.५.१
  94. https://puranastudy.angelfire.com/pur_index2/aparaajit.htm
  95. ९.५.२
  96. ९.५.२
  97. ९.५.३
  98. ९.५.४
  99. ९.५.५
  100. ९.५.५
  101. ९.५.५
  102. ९.५.५
  103. ९.५.५
  104. ९.५.६
  105. शौअ ४.१४.६
  106. ४.१४.७
  107. शौअ ४.१४.१
  108. ९.५.१
  109. आशानाम् [१.३१.१]
  110. यद्राजानो [३.२९.१]
  111. आ नयैतम् [९.५.१]
  112. इन्द्राय भागं [९.५.२]
  113. ये नो द्विषन्ति [९.५.२ ]
  114. प्र पदो [९.५.३]
  115. अनुछ्य श्यामेन [९.५.४]
  116. ऋचा कुम्भीम् [९.५.५]
  117. आ सिञ्च [९.५.५ ]
  118. अव धेहि [९.५.५ ড়र्त्]
  119. पर्याधत्त [९.५.५ ]
  120. शृतो गछतु [९.५.५ ]
  121. उत्क्रामातः [९.५.६]
  122. अजमनज्मि [४.१४.६]
  123. पञ्चौदनं [४.१४.७]
  124. शृतमजं [४.१४.९]
  125. अजो हि [४.१४.१]
  126. पञ्च रुक्मा [९.५.२५(२६)]
  127. आ नयैतम् [९.५.१]
  128. अघायताम् [१०.९.१]
  129. सपत्नेषु वज्रम् [१०.९.१ ]
  130. ग्रावा त्वैषो [१०.९.२ ]
  131. वेदिष्टे [१०.९.२]
  132. अपो देवीर्[१०.९.२७]
  133. बालास्ते [१०.९.३]
  134. सोमेन पूतो जठरे सीद ब्रह्मणाम् [११.१.२५ ]
  135. आर्षेयेषु नि दध ओदन त्वा [११.१.३३ ]
  136. अग्नेष्ट्वास्येन प्राश्नामि बृहस्पतेर्मुखेन । इन्द्रस्य त्वा जठरे सादयामि वरुणस्योदरे । तद्यथा हुतमिष्टं प्राश्नीयाद्देवात्मा त्वा प्राश्नाम्यात्मास्यात्मन्नात्मानं मे मा हिंसीर्[पै.सं.२०.५७.१४॑ दृष्टव्यम्‌ पै.सं.९.२१.१ f., Vष्K २.३.५+७, Vऐत्ष्३.११]
  137. योऽग्निर्नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन्म एष सुहुतोऽस्त्वोदनः स मा मा हिंसीत्परमे व्योमन् ॥ सो अस्मभ्यमस्तु परमे व्योमन्न् [दृष्टव्यम्‌ पै.सं.२०.५७.१५, पै.सं.१६.७२.९]
  138. वाङ्म आसन् [१९.६०.१]
  139. बृहता मनो [५.१०.८]
  140. द्यौश्च मे [६.५३.१]
  141. पुनर्मैत्विन्द्रियं [७.६७.१]
  142. ब्रह्मास्य [४.३४.१]
  143. यमोदनं [४.३५.१]
  144. अनड्वान् [४.११.१]
  145. सूर्यस्य रश्मीन् [४.३८.५]
  146. आयं गौः पृश्निर्[६.३१.१]
  147. अयं सहस्रम् [७.२२.१]
  148. देवा इमं मदुना संयुतं यवं [६.३०.१]
  149. पुनन्तु मा देवजनाः [६.१९.१]
  150. कः पृश्निं [७.१०४.१]
  151. साहस्रस्[९.४.१]
  152. प्रजापतिश्च [९.७.१]
  153. नमस्ते जायमानायै [१०.१०.१]
  154. ददामि [१२.४.१]
  155. भूमिष्ट्वा [३.२९.८]
  156. उपमितां [९.३.१ (५.२८.५)]
  157. इटस्य ते वि चृतामि [९.३.१८]
  158. प्रतीचीं त्वा प्रतीचीनः [९.३.२२]
  159. अन्तरा द्यां च पृथिवीं च [९.३.१५]
  160. उपमितां [९.३.१]
  161. मा नः पाशं [९.३.२४]
  162. नास्यास्थीनि [९.५.२३]
  163. सर्वमेनं समादय [९.५.२३ ]
  164. यद्देवा देवहेडनं [६.११४.१]
  165. यद्विद्वांसो यदविद्वांसो [६.११५.१]
  166. ऽपमित्यमप्रतीत्तं [६.११७.१]
  167. देवस्य त्वा सवितुः प्रसवे [पै.सं.१६.७०.१, तै.सं.२.४.६.१ इत्यादि]
  168. ऋषिभ्यस्त्वार्षेयेभ्यस्त्वैकर्षये त्वा जुष्टं निर्वपामि [दृष्टव्यम्‌ पै.सं.१६.७०.२]
  169. वसवस्त्वा गायत्रेण छन्दसा निर्वपन्तु । ऊर्जमक्षितमक्षीयमाणमुपजीव्यासम् [दृष्टव्यम्‌ पै.सं.१६.७०.२+३]
  170. रुद्रास्त्वा त्रैष्टुभेन छन्दसा । आदित्यास्त्वा जागतेन छन्दसा । विश्वे त्वा देवा आनुष्टुभेन छन्दसा निर्वपन्तु । ऊर्जमक्षितमक्षीयमाणमुप जीव्यासम् [दृष्टव्यम्‌ पै.सं.१६.७०.२+४+५, ऐतरेयब्राह्मण ८.१२]
  171. मयि वर्चो अथो यशो [६.६९.३]
  172. आ प्यायस्व [पै.सं.२०.५५.४, .ऋ.वे. १.१९.१६ इत्यादि]
  173. सं ते पयांसि [पै.सं.२०.५५.६, .ऋ.वे. १.९१.१८ इत्यादि]
  174. आ प्यायस्व समेतु ते विस्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे ॥ सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥ [पै.सं.२०.५५.४+६, .ऋ.वे. १.९१.१६+१८]
  175. यौ ते पक्षौ [पै.सं.३.३८.६]
  176. यदतिष्ठः [पै.सं.३.३८.७]
  177. यौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्योदन । ताभ्यां पथ्यास्म सुकृतस्य लोकं यत्र ऋषयः प्रथमजाः पुराणाः ॥ यदतिष्ठो दिवस्पृष्ठे व्योमन्नध्योदन । अन्वायन् सत्यधर्माणो ब्राह्मणा राधसा सह ॥ [पै.सं.३.३८.६७, दृष्टव्यम्‌ तै.सं.४.७.१३.१, वा.सं. १८.५२]
  178. क्रमध्वमग्निना नाकम् [४.१४.२]
  179. पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहम् [४.१४.३]
  180. स्वर्यन्तो नापेक्षन्त [४.१४.४]
  181. उरुः प्रथस्व महता महिम्ना [११.१.१९]
  182. इदं मे ज्योतिर्[११.१.२८]
  183. सत्याय च [१२.३.४६]
  184. समग्नयः [१२.३.५०]
  185. कामस्तद्[१९.५२.१]
  186. ये भक्षयन्तो [२.३५.१]
  187. अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥ [.ऋ.वे. ५.२४.१ ब्+२ देत्च्.]
  188. गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः । सुमित्रः सुमनो भव [दृष्टव्यम्‌ .ऋ.वे. १.९१.१२ इत्यादि]
  189. इदावत्सराय [पै.सं.१९.५१.१४]