सामग्री पर जाएँ

कृष्‍णयजुर्वेदः/काण्डम् ७/प्रपाठकः १/अनुवाक ५

विकिस्रोतः तः

7.1.5 अनुवाक 5 गर्गत्रिरात्राभिधानम्
VERSE: 1
    आपो वा इदम् अग्रे सलिलम् आसीत्
    तस्मिन् प्रजापतिर् वायुर् भूत्वाऽचरत्
    स इमाम् अपश्यत्
    तां वराहो भूत्वाऽहरत्
    तां विश्वकर्मा भूत्वा व्य् अमार्ट्
    साऽप्रथत
    सा पृथिव्यभवत्
    तत् पृथिव्यै पृथिवित्वम् ।
    तस्याम् अश्राम्यत् प्रजापतिः
    स देवान् असृजत वसून् रुद्रान् आदित्यान्
    ते देवाः प्रजापतिम् अब्रुवन्
    प्र जायामहा इति
   सो ऽब्रवीत्

VERSE: 2
    यथाहं युष्माम्̇स् तपसासृक्ष्य् एवं तपसि प्रजननम् इच्छध्वम् इति
    तेभ्यो ऽग्निम् आयतनम् प्रायच्छत् ।
    एतेनायतनेन श्राम्यतेति
    ते ऽग्निनायतनेनाश्राम्यन्
    ते संवत्सर एकां गाम् असृजन्त
    तां वसुभ्यो रुद्रेभ्य आदित्येभ्यः प्रायच्छन् ।
    एताम्̇ रक्षध्वम् इति
    तां वसवो रुद्रा आदित्या अरक्षन्त
    सा वसुभ्यो रुद्रेभ्य आदित्येभ्यः प्राजायत त्रीणि च ॥

VERSE: 3
    शतानि त्रयस्त्रिम्̇शतं च ।
सहस्रतम्य् अभवत्
    ते देवाः प्रजापतिम् अब्रुवन् ।
    सहस्रेण नो याजयेति
    सो ऽग्निष्टोमेन वसून् अयाजयत्
    त इमं लोकम् अजयन्
    तच् चाददुः
    स उक्थ्येन रुद्रान् अयाजयत्
    ते ऽन्तरिक्षम् अजयन्
    तच् चाददुः
    सो ऽतिरात्रेणादित्यान् अयाजयत्
   ते ऽमुं लोकम् अजयन्
   तच् चाददुस्
   तद् अन्तरिक्षम्

VERSE: 4
    व्यवैर्यत
- - -- - -- - - -- - -- - - -
व्यवैर्यत - विशीर्णमभूत् - सायणभाष्य
- - -- -- - -- - - -- - -- --
तस्माद् रुद्रा घातुकाः ।
    अनायतना हि
    तस्माद् आहुः
    शिथिलं वै मध्यमम् अहस् त्रिरात्रस्य वि हि तद् अवैर्यतेति
    त्रैष्टुभम् मध्यमस्याह्न आज्यम् भवति
    संयानानि सूक्तानि शम्̇सति
    षोडशिनम्̇ शम्̇सति ।
    अह्नो धृत्या अशिथिलम्भावाय
    तस्मात् त्रिरात्रस्याग्निष्टोम एव प्रथमम् अहः स्याद् अथोक्थ्यो ऽथातिरात्रः ।
    एषां लोकानां विधृत्यै
   त्रीणित्रीणि शतान्य् अनूचीनाहम् अव्यवछिन्नानि ददाति

VERSE: 5
    एषां लोकानाम् अनु संतत्यै
    दशतं न वि च्छिन्द्यात् ।
    विराजं नेद् विच्छिनदानीति ।
    अथ या सहस्रतम्य् आसीत् तस्याम् इन्द्रश् च विष्णुश् च व्यायच्छेताम् ।
- - - -- - -
व्यायच्छेताम् - कलहं कुरुतः - सायणभाष्य
- - --- -- - -- -
    स इन्द्रो ऽमन्यत ।
    अनया वा इदं विष्णुः सहस्रं वर्क्ष्यत इति
    तस्याम् अकल्पेताम् ।
    द्विभाग इन्द्रस् तृतीये विष्णुस्
    तद् वा एषाभ्यनूच्यते ।
    उभा जिग्यथुर् इति
    तां वा एताम् अच्छावाकः

VERSE: 6
    एव शम्̇सति ।
    अथ या सहस्रतमी सा होत्रे देयेति
    होतारं वा अभ्यतिरिच्यते
    यद् अतिरिच्यते होताऽनाप्तस्याऽऽपयिता ।
    अथाऽऽहुः ।
    उन्नेत्रे देयेति ।
    अतिरिक्ता वा एषा सहस्रस्य ।
    अतिरिक्त उन्नेतर्त्विजाम्
    अथाऽऽहुः
    सर्वेभ्यः सदस्येभ्यो देयेति ।
    अथाहुः ।
    उदाकृत्या सा वशं चरेद् इति ।
    अथाहुः ।
   ब्रह्मणे चाग्नीधे च देयेति ॥

VERSE: 7
    द्विभागम् ब्रह्मणे तृतीयम् अग्नीधे ।
    ऐन्द्रो वै ब्रह्मा वैष्णवो ऽग्नीध् ।
    यथैव ताव् अकल्पेताम् इति ।
    अथाहुः ।
    या कल्याणी बहुरूपा सा देयेति ।
    अथाहुः ।
    या द्विरूपोभयतएनी सा देयेति सहस्रस्य परिगृहीत्यै
    तद् वा एतत् सहस्रस्यायनम् ।
    सहस्रम्̇ स्तोत्रीयाः
    सहस्रं दक्षिणाः
    सहस्रसम्मितः सुवर्गो लोकः
   सुवर्गस्य लोकस्याभिजित्यै ॥