तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ६/प्रपाठकः ४

विकिस्रोतः तः

6.4 प्रपाठक: 4
6.4.1 अनुवाक 1 गुदयागकथनम्
1 यज्ञेन वै प्रजापतिः प्रजा असृजत ता उपयड्भिर् एवासृजत यद् उपयज उपयजति प्रजा एव तद् यजमानः सृजते जघनार्धाद् अव द्यति जघनार्धाद् धि प्रजाः प्रजायन्ते स्थविमतो ऽव द्यति स्थविमतो हि प्रजाः प्रजायन्ते । असम्भिन्दन्न् अव द्यति प्राणानाम् असम्भेदाय न पर्यावर्तयति यत् पर्यावर्तयेद् उदावर्तः प्रजा ग्राहुकः स्यात् समुद्रं गच्छ स्वाहेत्य् आह रेतः
2 एव तद् दधाति । अन्तरिक्षं गच्छ स्वाहेत्य् आह । अन्तरिक्षेणैवास्मै प्रजाः प्र जनयति । अन्तरिक्षꣳ ह्य् अनु प्रजाः प्रजायन्ते देवꣳ सवितारं गच्छ स्वाहेत्य् आह सवितृप्रसूत एवास्मै प्रजाः प्र जनयति । अहोरात्रे गच्छ स्वाहेत्य् आह । अहोरात्राभ्याम् एवास्मै प्रजाः प्र जनयति । अहोरात्रे ह्य् अनु प्रजाः प्रजायन्ते मित्रावरुणौ गच्छ स्वाहा
3 इत्य् आह प्रजास्व् एव प्रजातासु प्राणापानौ दधाति सोमं गच्छ स्वाहेत्य् आह सौम्या हि देवतया प्रजाः । यज्ञं गच्छ स्वाहेत्य् आह प्रजा एव यज्ञियाः करोति छन्दाꣳसि गच्छ स्वाहेत्य् आह पशवो वै छन्दाꣳसि पशून् एवाव रुन्द्धे द्यावापृथिवी गच्छ स्वाहेत्य् आह प्रजा एव प्रजाता द्यावापृथिवीभ्याम् उभयतः परि गृह्णाति नभः
4 दिव्यं गच्छ स्वाहेत्य् आह प्रजाभ्य एव प्रजाताभ्यो वृष्टिं नि यच्छति । अग्निं वैश्वानरं गच्छ स्वाहेत्य् आह प्रजा एव प्रजाता अस्याम् प्रति ष्ठापयति प्राणानां वा एषो ऽव द्यति यो ऽवद्यति गुदस्य मनो मे हार्दि यच्छेत्य् आह प्राणान् एव यथास्थानम् उप ह्वयते पशोर् वा आलब्धस्य हृदयꣳ शुग् ऋच्छति सा हृदयशूलम्
5 अभि सम् एति यत् पृथिव्याꣳ हृदयशूलम् उद्वासयेत् पृथिवीꣳ शुचार्पयेत् । यद् अप्स्व् अपः शुचार्पयेत् । शुष्कस्य चार्द्रस्य च संधाव् उद् वासयत्य् उभयस्य शान्त्यै यं द्विष्यात् तं ध्यायेत् । शुचैवैनम् अर्पयति ॥

6.4.2 अनुवाक 2 वसतीवर्यभिधानम्
1 देवा वै यज्ञम् आग्नीध्रे व्यभजन्त ततो यद् अत्यशिष्यत तद् अब्रुवन्न् वसतु नु न इदम् इति तद् वसतीवरीणां वसतीवरित्वम् । तस्मिन् प्रातर् न सम् अशक्नुवन् तद् अप्सु प्रावेशयन् ता वसतीवरीर् अभवन् वसतीवरीर् गृह्णाति यज्ञो वै वसतीवरीः । यज्ञम् एवाऽऽरभ्य गृहीत्वोप वसति यस्यागृहीता अभि निम्रोचेद् अनारब्धो ऽस्य यज्ञः स्यात्
2 यज्ञं वि छिन्द्यात् । ज्योतिष्या वा गृह्णीयाद् धिरण्यं वावधाय सशुक्राणाम् एव गृह्णाति यो वा ब्राह्मणो बहुयाजी तस्य कुम्भ्यानां गृह्णीयात् स हि गृहीतवसतीवरीकः । वसतीवरीर् गृह्णाति पशवो वै वसतीवरीः पशून् एवारभ्य गृहीत्वोप वसति यद् अन्वीपं तिष्ठन् गृह्णीयान् निर्मार्गुका अस्मात् पशवः स्युः प्रतीपं तिष्ठन् गृह्णाति प्रतिरुध्यैवास्मै पशून् गृह्णाति । इन्द्रः
3 वृत्रं अहन् । सो ऽपो ऽभ्य् अम्रियत तासां यन् मेध्यं यज्ञियꣳ सदेवम् आसीत् तद् अत्य् अमुच्यत ता वहन्तीर् अभवन् वहन्तीनां गृह्णाति या एव मेध्या यज्ञियाः सदेवा आपस् तासाम् एव गृह्णाति नान्तमा वहन्तीर् अतीयात् । यद् अन्तमा वहन्तीर् अतीयाद् यज्ञम् अति मन्येत न स्थावराणां गृह्णीयात् । वरुणगृहीता वै स्थावराः यत् स्थावराणां गृह्णीयात्
4 वरुणेनास्य यज्ञं ग्राहयेत् । यद् वै दिवा भवत्य् अपो रात्रिः प्र विशति तस्मात् ताम्रा आपो दिवा ददृश्रे यन् नक्तम् भवत्य् अपो ऽहः प्र विशति तस्माच् चन्द्रा आपो नक्तं ददृश्रे छायायै चातपतश् च संधौ गृह्णाति । अहोरात्रयोर् एवास्मै वर्णं गृह्णाति हविष्मतीर् इमा आप इत्य् आह हविष्कृतानाम् एव गृह्णाति हविष्माꣳ अस्तु
5 सूर्य इत्य् आह सशुक्राणाम् एव गृह्णाति । अनुष्टुभा गृह्णाति वाग् वा अनुष्टुग् वाचैवैनाः सर्वया गृह्णाति चतुष्पदयर्चा गृह्णाति त्रिः सादयति सप्त सम् पद्यन्ते सप्तपदा शक्वरी पशवः शक्वरी पशून् एवाव रुन्द्धे । अस्मै वै लोकाय गार्हपत्य आ धीयते ऽमुष्मा आहवनीयः । यद् गार्हपत्य उपसादयेद् अस्मिम्̐ लोके पशुमान्त् स्यात् । यद् आहवनीये ऽमुष्मिन्
6 लोके पशुमान्त् स्यात् । उभयोर् उप सादयति । उभयोर् एवैनं लोकयोः पशुमन्तं करोति सर्वतः परि हरति रक्षसाम् अपहत्यै । इन्द्राग्नियोर् भागधेयी स्थेत्य् आह यथायजुर् एवैतत् । आग्नीध्र उप वासयति । एतद् वै यज्ञस्यापराजितं यद् आग्नीध्रम् । यद् एव यज्ञस्यापराजितं तद् एवैना उप वासयति यतः खलु वै यज्ञस्य विततस्य न क्रियते तद् अनु यज्ञꣳ रक्षाꣳस्य अव चरन्ति यद् वहन्तीनां गृह्णाति क्रियमाणम् एव तद् यज्ञस्य शये रक्षसाम् अनन्ववचाराय न ह्य् एता ईलयन्ति । आ तृतीयसवनात् परि शेरे यज्ञस्य संतत्यै ॥

6.4.3 अनुवाक 3 सोमोपावहरणकथनम्
1 ब्रह्मवादिनो वदन्ति स त्वा अध्वर्युः स्याद् यः सोमम् उपावहरन्त् सर्वाभ्यो देवताभ्य उपावहरेद् इति हृदे त्वेत्य् आह मनुष्येभ्य एवैतेन करोति मनसे त्वेत्य् आह पितृभ्य एवैतेन करोति दिवे त्वा सूर्याय त्वेत्य् आह देवेभ्य एवैतेन करोति । एतावतीर् वै देवतास् ताभ्य एवैनꣳ सर्वाभ्य उपावहरति पुरा वाचः
2 प्रवदितोः प्रातरनुवाकम् उपाकरोति यावत्य् एव वाक् ताम् अव रुन्द्धे । अपो ऽग्रे ऽभिव्याहरति यज्ञो वा आपो यज्ञम् एवाभि वाचं वि सृजति सर्वाणि छन्दाꣳस्य् अन्व् आह पशवो वै छन्दाꣳसि पशून् एवाव रुन्द्धे गायत्रिया तेजस्कामस्य परि दध्यात् त्रिष्टुभेन्द्रियकामस्य जगत्या पशुकामस्यानुष्टुभा प्रतिष्ठाकामस्य पङ्क्त्या यज्ञकामस्य विराजान्नकामस्य शृणोत्व् अग्निः समिधा हवम्
3 म इत्य् आह सवितृप्रसूत एव देवताभ्यो निवेद्यापो ऽच्छैति । अप इष्य होतर् इत्य् आहेषितꣳ हि कर्म क्रियते मैत्रावरुणस्य चमसाध्वर्यव् आ द्रवेत्य् आह मैत्रावरुणौ वा अपां नेतारौ ताभ्याम् एवैना अच्छैति देवीर् आपो अपां नपाद् इत्य् आहाऽऽहुत्यैवैना निष्क्रीय गृह्णात्य् अथो हविष्कृतानाम् एवाभिघृतानां गृह्णाति ।
4 कार्षिर् असीत्य् आह शमलम् एवाऽऽसाम् अप प्लावयति समुद्रस्य वोऽक्षित्या उन् नय इत्य् आह तस्माद् अद्यमानाः पीयमाना आपो न क्षीयन्ते
योनिर् वै यज्ञस्य चात्वालं यज्ञो वसतीवरीर् होतृचमसं च मैत्रावरुणचमसं च सꣳस्पर्श्य वसतीवरीर् व्यानयति यज्ञस्य सयोनित्वाय । अथो स्वाद् एवैना योनेः प्र जनयति । अध्वर्यो ऽवेर् अपा3 इत्य् आह । उतेमनंनमुर् उतेमाः पश्य । इति वावैतद् आह यद्य् अग्निष्टोमो जुहोति यद्य् उक्थ्यः परिधौ नि मार्ष्टि यद्य् अतिरात्रो यजुर् वदन् प्र पद्यते यज्ञक्रतूनां व्यावृत्त्यै ॥


उपांशुसवनम् Upamshusavanam

6.4.4 अनुवाक 4 सोमोन्मानकथनम्
1 देवस्य त्वा सवितुः प्रसव इति ग्रावाणम् आ दत्ते प्रसूत्यै । अश्विनोर् बाहुभ्याम् इत्य् आह । अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् पूष्णो हस्ताभ्याम् इत्य् आह यत्यै पशवो वै सोमो व्यान उपाꣳशुसवनः । यद् उपाꣳशुसवनम् अभि मिमीते व्यानम् एव पशुषु दधाति । इन्द्राय त्वेन्द्राय त्वेति मिमीते । इन्द्राय हि सोम आह्रियते पञ्च कृत्वो यजुषा मिमीते ।
2 पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः । यज्ञम् एवाव रुन्द्धे पञ्च कृत्वस् तूष्णीम् । दश सम् पद्यन्ते दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्द्धे श्वात्रा स्थ वृत्रतुर इत्य् आह । एष वा अपाꣳ सोमपीथः । य एवं वेद नाप्स्व् आर्तिम् आर्च्छति यत् ते सोम दिवि ज्योतिर् इत्य् आह । एभ्य एवैनम्
3 लोकेभ्यः सम् भरति सोमो वै राजा दिशो ऽभ्यध्यायत् स दिशो ऽनु प्राविशत् प्राग् अपाग् उदग् अधराग् इत्य् आह दिग्भ्य एवैनꣳ सम् भरत्य् अथो दिश एवास्मा अव रुन्द्धे । अम्ब नि ष्वरेत्य् आह कामुका एनꣳ स्त्रियो भवन्ति य एवं वेद यत् ते सोमादाभ्यं नाम जागृवीति
4 आह । एष वै सोमस्य सोमपीथः । य एवं वेद न सौम्याम् आर्तिम् आर्च्छति घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति । अꣳशून् अप गृह्णाति त्रायत एवैनम् प्राणा वा अꣳशवः पशवः सोमः । अꣳशून् पुनर् अपि सृजति प्राणान् एव पशुषु दधाति द्वौद्वाव् अपि सृजति तस्माद् द्वौद्वौ प्राणाः ॥


उपांशुपात्रम्

6.4.5 अनुवाक 5 उपांशुग्रहकथनम्
1 प्राणो वा एष यद् उपाꣳशुः । यद् उपाꣳश्वग्रा ग्रहा गृह्यन्ते प्राणम् एवानु प्र यन्ति । अरुणो ह स्माहौपवेशिः प्रातःसवन एवाहं यज्ञꣳ सꣳ स्थापयामि तेन ततः सꣳस्थितेन चरामीति । अष्टौ कृत्वो ऽग्रे ऽभि षुणोति । अष्टाक्षरा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवनम् एव तेनाप्नोति । एकादश कृत्वो द्वितीयम् एकादशाक्षरा त्रिष्टुभ् । त्रैष्टुभम् माध्यंदिनम्
2 सवनम् माध्यंदिनम् एव सवनं तेनाप्नोति द्वादश कृत्वस् तृतीयम् । द्वादशाक्षरा जगती जागतं तृतीयसवनम् । तृतीयसवनम् एव तेनाप्नोति । एताꣳ ह वाव स यज्ञस्य सꣳस्थितिम् उवाच । अस्कन्दाय । अस्कन्नꣳ हि तद् यद् यज्ञस्य सꣳस्थितस्य स्कन्दति । अथो खल्व् आहुः । गायत्री वाव प्रातःसवने नातिवाद इति । अनतिवादुक एनम् भ्रातृव्यो भवति य एवं वेद तस्माद् अष्टावष्टौ
3 कृत्वो ऽभिषुत्यम् ब्रह्मवादिनो वदन्ति पवित्रवन्तो ऽन्ये ग्रहा गृह्यन्ते किंपवित्र उपाꣳशुर् इति वाक्पवित्र इति ब्रूयात् । वाचस् पतये पवस्व वाजिन्न् इत्य् आह वाचैवैनम् पवयति वृष्णो अꣳशुभ्याम् इत्य् आह वृष्णो ह्य् एताव् अꣳशू यौ सोमस्य गभस्तिपूत इत्य् आह गभस्तिना ह्य् एनम् पवयति देवो देवानाम् पवित्रम् असीत्य् आह देवो ह्य् एषः
4 देवानाम् पवित्रम् । येषाम् भागो ऽसि तेभ्यस् त्वेत्य् आह येषाꣳ ह्य् एष भागस् तेभ्य एनं गृह्णाति स्वांकृतो ऽसीत्य् आह प्राणम् एव स्वम् अकृत मधुमतीर् न इषस् कृधीत्य् आह सर्वम् एवास्मा इदꣳ स्वदयति विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इत्य् आह । उभयेष्व् एव देवमनुष्येषु प्राणान् दधाति मनस् त्वा
5 अष्ट्व् इत्य् आह मन एवाश्नुते । उर्व् अन्तरिक्षम् अन्व् इहीत्य् आह । अन्तरिक्षदेवत्यो हि प्राणः स्वाहा त्वा सुभवः सूर्यायेत्य् आह प्राणा वै स्वभवसो देवास् तेष्व् एव परोऽक्षं जुहोति देवेभ्यस् त्वा मरीचिपेभ्य इत्य् आह । आदित्यस्य वै रश्मयो देवा मरीचिपास् तेषां तद् भागधेयम् । तान् एव तेन प्रीणाति यदि कामयेत वर्षुकः पर्जन्यः
6 स्याद् इति नीचा हस्तेन नि मृज्यात् । वृष्टिम् एव नि यच्छति यदि कामयेत । अवर्षुकः स्याद् इत्य् उत्तानेन नि मृज्यात् । वृष्टिम् एवोद् यच्छति यद्य् अभिचरेद् अमुं जह्य् अथ त्वा होष्यामीति ब्रूयात् । आहुतिम् एवैनम् प्रेप्सन् हन्ति यदि दूरे स्याद् आ तमितोस् तिष्ठेत् प्राणम् एवास्यानुगत्य हन्ति यद्य् अभिचरेद् अमुष्य
7 त्वा प्राणे सादयामीति सादयेत् । असन्नो वै प्राणः प्राणम् एवास्य सादयति षड्भिर् अꣳशुभिः पवयति षड् वा ऋतवः । ऋतुभिर् एवैनम् पवयति त्रिः पवयति त्रय इमे लोकाः । एभिर् एवैनं लोकैः पवयति ब्रह्मवादिनो वदन्ति कस्माद् सत्यात् त्रयः पशूनाꣳ हस्तादाना इति यत् त्रिर् उपाꣳशुꣳ हस्तेन विगृह्णाति तस्माद् त्रयः पशूनाꣳ हस्तादानाः पुरुषो हस्ती मर्कटः ॥

6.4.6 अनुवाक 6 अन्तर्यागग्रहकथनम्
1 देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा उपाꣳशौ यज्ञꣳ सꣳस्थाप्यम् अपश्यन् तम् उपाꣳशौ सम् अस्थापयन् ते ऽसुरा वज्रम् उद्यत्य देवान् अभ्य् आयन्त ते देवा बिभ्यत इन्द्रम् उपाधावन् तान् इन्द्रो ऽन्तर्यामेणान्तर् अधत्त तद् अन्तर्यामस्यान्तर्यामत्वम् । यद् अन्तर्यामो गृह्यते भ्रातृव्यान् एव तद् यजमानो ऽन्तर् धत्ते । अन्तस् ते
2 दधामि द्यावापृथिवी अन्तर् उर्व् अन्तरिक्षम् इत्य् आह । एभिर् एव लोकैर् यजमानो भ्रातृव्यान् अन्तर् धत्ते ते देवा अमन्यन्त । इन्द्रो वा इदम् अभूद् यद् वयꣳ स्म इति ते ऽब्रुवन् मघवन्न् अनु न आ भजेति सजोषा देवैर् अवरैः परैश् चेत्य् अब्रवीत् । ये चैव देवाः परे ये चावरे तान् उभयान्
3 अन्वाभजत् सजोषा देवैर् अवरैः परैश् चेत्य् आह ये चैव देवाः परे य चावरे तान् उभयान् अन्वाभजति । अन्तर्यामे मघवन् मादयस्वेत्य् आह यज्ञाद् एव यजमानं नान्तर् एति । उपयामगृहीतो ऽसीत्य् आह । अपानस्य धृत्यै यद् उभाव् अपवित्रौ गृह्येयाताम् प्राणम् अपानो ऽनु न्य् ऋच्छेत् प्रमायुकः स्यात् पवित्रवान् अन्तर्यामो गृह्यते ।
4 प्राणापानयोर् विधृत्यै प्राणापानौ वा एतौ यद् उपाꣳश्वन्तर्यामौ व्यान उपाꣳशुसवनः । यं कामयेत प्रमायुकः स्याद् इत्य् असꣳस्पृष्टौ तस्य सादयेत् । व्यानेनैवास्य प्राणापानौ वि च्छिनत्ति ताजक् प्रमीयते यं कामयेत सर्वम् आयुर् इयाद् इति सꣳस्पृष्टौ तस्य सादयेत् । व्यानेनैवास्य प्राणापानौ सं तनोति सर्वम् आयुर् एति ॥


द्विदेवत्यसोमभक्षणम्

(द्र. बौ.श्रौ.सू. ७.१४, शांश्रौसू. ७.३)

द्विदेवत्यग्रह१

6.4.7 अनुवाक 7 ऐन्द्रवायवग्रहकथनम्
1 वाग् वा एषा यद् ऐन्द्रवायवः । यद् ऐन्द्रवायवाग्रा ग्रहा गृह्यन्ते वाचम् एवानु प्र यन्ति वायुं देवा अब्रुवन् । सोमꣳ राजानꣳ हनामेति सो ऽब्रवीत् । वरं वृणै मदग्रा एव वो ग्रहा गृह्यान्ता इति तस्माद् ऐन्द्रवायवाग्रा ग्रहा गृह्यन्ते तम् अघ्नन् । सो ऽपूयत् तं देवा नोपाधृष्णुवन् ते वायुम् अब्रुवन् । इमं नः स्वदय
2 इति सो ऽब्रवीत् । वरं वृणै मद्देवत्यान्य् एव वः पात्राण्य् उच्यान्ता इति तस्मान् नानादेवत्यानि सन्ति वायव्यान्य् उच्यन्ते तम् एभ्यो वायुर् एवास्वदयत् तस्माद् यत् पूयति तत् प्रवाते वि षजन्ति वायुर् हि तस्य पवयिता स्वदयिता तस्य विग्रहणं नाविन्दन् । साऽदितिर् अब्रवीत् । वरं वृणा अथ मया वि गृह्णीध्वम् मद्देवत्या एव वः सोमाः
3 सन्ना असन्न् इति । उपयामगृहीतो ऽसीत्य् आहादितिदेवत्यास् तेन यानि हि दारुमयाणि पात्राण्य् अस्यै तानि योनेः सम्भूतानि यानि मृन्मयानि साक्षात् तान्य् अस्यै तस्माद् एवम् आह वाग् वै पराच्य् अव्याकृतावदत् ते देवा इन्द्रम् अब्रुवन् । इमां नो वाचं व्याकुर्व् इति सो ऽब्रवीत् । वरं वृणै मह्यं चैवैष वायवे च सह गृह्याता इति तस्माद् ऐन्द्रवायवः सह गृह्यते ताम् इन्द्रो मध्यतो ऽवक्रम्य व्याकरोत् तस्माद् इयं व्याकृता वाग् उद्यते तस्मात् सकृद् इन्द्राय मध्यतो गृह्यते द्विर् वायवे द्वौ हि स वराव् अवृणीत


द्विदेवत्यग्रह२

6.4.8 अनुवाक 8 मैत्रावरुणग्रहकथनम्
1 मित्रं देवा अब्रुवन् । सोमꣳ राजानꣳ हनामेति सो ऽब्रवीत् । नाहꣳ सर्वस्य वा अहम् मित्रम् अस्मीति तम् अब्रुवन् हनामैवेति सो ऽब्रवीत् । वरं वृणै पयसैव मे सोमꣳ श्रीणन्न् इति तस्मान् मैत्रावरुणम् पयसा श्रीणन्ति तस्मात् पशवो ऽपाक्रामन् मित्रः सन् क्रूरम् अकर् इति क्रूरम् इव खलु वा एषः
2 करोति यः सोमेन यजते तस्मात् पशवो ऽप क्रामन्ति यन् मैत्रावरुणम् पयसा श्रीणाति पशुभिर् एव तन् मित्रꣳ समर्धयति पशुभिर् यजमानम्
पुरा खलु वावैवम् मित्रो ऽवेत् । अप मत् क्रूरं चक्रुषः पशवः क्रमिष्यन्तीति तस्माद् एवम् अवृणीत वरुणं देवा अब्रुवन् त्वयाꣳशभुवा सोमꣳ राजानꣳ हनामेति सो ऽब्रवीत् । वरं वृणै मह्यं च
3 एवैष मित्राय च सह गृह्याता इति तस्मान् मैत्रावरुणः सह गृह्यते तस्माद् राज्ञा राजानम् अꣳशभुवा घ्नन्ति वैश्येन वैश्यꣳ शूद्रेण शूद्रम् । न वा इदं दिवा न नक्तम् आसीद् अव्यावृत्तम् । ते देवा मित्रावरुणाव् अब्रुवन् । इदं नो वि वासयतम् इति ताव् अब्रूताम् । वरं वृणावहा एक एवाऽऽवत् पूर्वो ग्रहो गृह्याता इति तस्माद् ऐन्द्रवायवः पूर्वो मैत्रावरुणाद् गृह्यते प्राणापानौ ह्य् एतौ यद् उपाꣳश्वन्तर्यामौ मित्रो ऽहर् अजनयद् वरुणो रात्रिम् । ततो वा इदं व्यौच्छत् । यन् मैत्रावरुणो गृह्यते व्युष्ट्यै ॥


द्विदेवत्यग्रह३

6.4.9 अनुवाक 9 आश्विनग्रहकथनम्
1 यज्ञस्य शिरो ऽछिद्यत ते देवा अश्विनाव् अब्रुवन् भिषजौ वै स्थ इदं यज्ञस्य शिरः प्रति धत्तम् इति ताव् अब्रूताम् । वरं वृणावहै ग्रह एव नाव् अत्रापि गृह्यताम् इति ताभ्याम् एतम् आश्विनम् अगृह्णन् ततो वै तौ यज्ञस्य शिरः प्रत्यधत्ताम् । यद् आश्विनो गृह्यते यज्ञस्य निष्कृत्यै तौ देवा अब्रुवन् । अपूतौ वा इमौ मनुष्यचरु
2 भिषजाव् इति तस्माद् ब्राह्मणेन भेषजं न कार्यम् अपूतो ह्य् एषो ऽमेध्यो यो भिषक् तौ बहिष्पवमानेन पवयित्वा ताभ्याम् एतम् आश्विनम् अगृह्णन् तस्माद् बहिष्पवमाने स्तुत आश्विनो गृह्यते तस्माद् एवं विदुषा बहिष्पवमान उपसद्यः पवित्रं वै बहिष्पवमान आत्मानम् एव पवयते तयोस् त्रेधा भैषज्यं वि न्य् अदधुः । अग्नौ तृतीयम् अप्सु तृतीयम् ब्राह्मणे तृतीयम् । तस्माद् उदपात्रम्
3 उपनिधाय ब्राह्मणं दक्षिणतो निषाद्य भेषजं कुर्यात् । यावद् एव भेषजं तेन करोति समर्धुकम् अस्य कृतम् भवति ब्रह्मवादिनो वदन्ति कस्मात् सत्याद् एकपात्रा द्विदेवत्या गृह्यन्ते द्विपात्रा हूयन्त इति यद् एकपात्रा गृह्यन्ते तस्माद् एको ऽन्तरतः प्राणो द्विपात्त्रा हूयन्ते तस्माद् द्वौद्वौ बहिष्टात् प्राणाः प्राणा वा एते यद् द्विदेवत्याः पशव इडा यद् इडाम् पूर्वां द्विदेवत्येभ्य उपह्वयेत ।
4 पशुभिः प्राणान् अन्तर् दधीत प्रमायुकः स्यात् । द्विदेवत्यान् भक्षयित्वेडाम् उप ह्वयते प्राणान् एवात्मन् धित्वा पशून् उप ह्वयते वाग् वा ऐन्द्र वायवश् चक्षुर् मैत्रावरुणः श्रोत्रम् आश्विनः पुरस्ताद् ऐन्द्रवायवम् भक्षयति तस्मात् पुरस्ताद् वाचा वदति पुरस्तान् मैत्रावरुणं तस्माद् पुरस्ताच् चक्षुषा पश्यति सर्वतः परिहारम् आश्विनं तस्मात् सर्वतः श्रोत्रेण शृणोति प्राणा वा एते यद् द्विदेवत्याः
5 अरिक्तानि पात्राणि सादयति तस्माद् अरिक्ता अन्तरतः प्राणा यतः खलु वै यज्ञस्य विततस्य न क्रियते तद् अनु यज्ञꣳ रक्षाꣳस्य् अव चरन्ति यद् अरिक्तानि पात्राणि सादयति क्रियमाणम् एव तद् यज्ञस्य शये रक्षसाम् अनन्ववचाराय दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्याꣳ सादयति वाच्य् एव वाचं दधाति । आ तृतीयसवनात् परि शेरे यज्ञस्य संतत्यै॥


शुक्रामन्थी ग्रहौ .

6.4.10 अनुवाक 10 शुक्रामन्थिग्रहकथनम्
1 बृहस्पतिर् देवानाम् पुरोहित आसीच् छण्डामर्काव् असुराणाम् ब्रह्मण्वन्तो देवा आसन् ब्रह्मण्वन्तो ऽसुरास् ते ऽन्योऽन्यं नाशक्नुवन्न् अभिभवितुम् । ते देवाः शण्डामर्काव् उपामन्त्रयन्त ताव् अब्रूताम् । वरं वृणावहै ग्रहाव् एव नाव् अत्रापि गृह्येताम् इति ताभ्याम् एतौ शुक्रामन्थिनाव् अगृह्णन् ततो देवा अभवन् परासुराः । यस्यैवं विदुषः शुक्रामन्थिनौ गृह्येते भवत्य् आत्मना परा
2 अस्य भ्रातृव्यो भवति तौ देवा अपनुद्यात्मन इन्द्रायाजुहवुः । अपनुत्तौ शण्डामर्कौ सहामुनेति ब्रूयाद् यं द्विष्यात् । यम् एव द्वेष्टि तेनैनौ सहाप नुदते स प्रथमः संकृतिर् विश्वकर्मेत्य् एवैनाव् आत्मन इन्द्रायाजुहवुः । इन्द्रो ह्य् एतानि रूपाणि करिक्रद् अचरत् । असौ वा आदित्यः शुक्रश् चन्द्रमा मन्थी । अपिगृह्य प्राञ्चौ निः
3 क्रामतस् तस्मात् प्राञ्चौ यन्तौ न पश्यन्ति प्रत्यञ्चाव् आवृत्य जुहुतस् तस्मात् प्रत्यञ्चौ यन्तौ पश्यन्ति चक्षुषी वा एते यज्ञस्य यच् छुक्रामन्थिनौ नासिकोत्तरवेदिः । अभितः परिक्रम्य जुहुतस् तस्माद् अभितो नासिकां चक्षुषी तस्मान् नासिकया चक्षुषी विधृते सर्वतः परि क्रामतो रक्षसाम् अपहत्यै देवा वै याः प्राचीर् आहुतीर् अजुहवुर् ये पुरस्ताद् असुरा आसन् ताꣳस् ताभिः प्र
4 अनुदन्त याः प्रतीचीर् ये पश्चाद् असुरा आसन् ताꣳस् ताभिर् अपानुदन्त प्राचीर् अन्या आहुतयो हूयन्ते प्रत्यञ्चौ शुक्रामन्थिनौ पश्चाच् चैव पुरस्ताच् च यजमानो भ्रातृव्यान् प्र णुदते तस्मात् पराचीः प्रजाः प्र वीयन्ते प्रतीचीर् जायन्ते शुक्रामन्थिनौ वा अनु प्रजाः प्र जायन्ते ऽत्त्रीश् चाऽऽद्याश् च सुवीराः प्रजाः प्रजनयन् परीहि शुक्रः शुक्रशोचिषा
5 सुप्रजाः प्रजाः प्रजनयन् परीहि मन्थी मन्थिशोचिषेत्य् आह । एता वै सुवीरा या अत्त्रीः । एताः सुप्रजा या आद्याः । य एवं वेदात्त्र्य् अस्य प्रजा जायते नाद्या प्रजापतेर् अक्ष्य् अश्वयत् तत् परापतत् तद् विकङ्कतम् प्राविशत् तद् विकङ्कते नारमत तद् यवम् प्राविशत् तद् यवे ऽरमत तद् यवस्य
6 यवत्वम् । यद् वैकङ्कतम् मन्थिपात्रम् भवति सक्तुभिः श्रीणाति प्रजापतेर् एव तच् चक्षुः सम् भरति ब्रह्मवादिनो वदन्ति कस्मात् सत्यान् मन्थिपात्रꣳ सदो नाश्नुत इति । आर्तपात्रꣳ हीति ब्रूयात् । यद् अश्नुवीतान्धो ऽध्वर्युः स्याद् आर्तिम् आर्छेत् तस्मान् नाश्नुते ॥


आग्रयण स्थाली

6.4.11 अनुवाक 11 आग्रयणग्रहकथनम्
1 देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा आग्रयणाग्रान् ग्रहान् अपश्यन् तान् अगृह्णत ततो वै ते ऽग्रम् पर्य् आयन् यस्यैवं विदुष आग्रयणाग्रा ग्रहा गृह्यन्ते ऽग्रम् एव समानानाम् पर्य् एति रुग्णवत्यर्चा भ्रातृव्यवतो गृह्णीयात् । भ्रातृव्यस्यैव रुक्त्वाग्रꣳ समानानाम् पर्य् एति ये देवा दिव्य् एकादश स्थेत्य् आह
2 एतावतीर् वै देवतास् ताभ्य एवैनꣳ सर्वाभ्यो गृह्णाति । एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्य इति आह वैश्वदेवो ह्य् एष देवतया वाग् वै देवेभ्यो ऽपाक्रामद् यज्ञायातिष्ठमाना ते देवा वाच्य् अपक्रान्तायां तूष्णीं ग्रहान् अगृह्णत साऽमन्यत वाग् अन्तर् यन्ति वै मेति साऽऽग्रयणम् प्रत्य् आऽगच्छत् तद् आग्रयणस्याऽऽग्रयणत्वम्
3 तस्माद् आग्रयणे वाग् वि सृज्यते यत् तूष्णीम् पूर्वे ग्रहा गृह्यन्ते यथा त्सारीयति म आख इयति नाप रात्स्यामीत्य् उपावसृजत्य् एवम् एव तद् अध्वर्युर् आग्रयणं गृहीत्वा यज्ञम् आरभ्य वाचं वि सृजते त्रिर् हिं करोत्य् उद्गातॄन् एव तद् वृणीते प्रजापतिर् वा एष यद् आग्रयणो यद् आग्रयणं गृहीत्वा हिंकरोति प्रजापतिर् एव
4 तत् प्रजा अभि जिघ्रति तस्माद् वत्सं जातं गौर् अभि जिघ्रति । आत्मा वा एष यज्ञस्य यद् आग्रयणः सवनेसवने ऽभि गृह्णात्य् आत्मन्न् एव यज्ञꣳ सं तनोति । उपरिष्टाद् आ नयति रेत एव तद् दधाति । अधस्ताद् उप गृह्णाति प्र जनयत्य् एव तत् । ब्रह्मवादिनो वदन्ति कस्मात् सत्याद् गायत्री कनिष्ठा छन्दसाꣳ सती सर्वाणि सवनानि वहतीति । एष वै गायत्रियै वत्सो यद् आग्रयणस् तम् एव तद् अभिनिवर्तꣳ सर्वाणि सवनानि वहति तस्माद् वत्सम् अपाकृतं गौर् अभि नि वर्तते ॥

टिप्पणी

६.४.५

उपांश्वोपरि वैदिकसंदर्भाः


६.४.७

ऐन्द्रवायवग्रहोपरि टिप्पणी एवं संदर्भाः

द्विदेवत्यग्रहाणां प्रचारः सोमयागे सुत्यादिवसे बहिष्पवमानकृत्यस्य अन्तिम चरणे एवं प्रातःसवनात् प्राक् भवति।

शतपथब्राह्मणे आश्विनग्रहप्रचारः

6.4.1 अनुवाक 1 गुदयागकथनम्
 1
    यज्ञेन वै प्रजापतिः प्रजा असृजत
    ता उपयड्भिर् एवासृजत
    यद् उपयज उपयजति प्रजा एव तद् यजमानः सृजते
    जघनार्धाद् अव द्यति
    जघनार्धाद् धि प्रजाः प्रजायन्ते
    स्थविमतो ऽव द्यति
    स्थविमतो हि प्रजाः प्रजायन्ते ।
    असम्भिन्दन्न् अव द्यति प्राणानाम् असम्भेदाय
    न पर्यावर्तयति
    यत् पर्यावर्तयेद् उदावर्तः प्रजा ग्राहुकः स्यात्
    समुद्रं गच्छ स्वाहेत्य् आह
    रेतः

 2
    एव तद् दधाति ।
    अन्तरिक्षं गच्छ स्वाहेत्य् आह ।
    अन्तरिक्षेणैवास्मै प्रजाः प्र जनयति ।
    अन्तरिक्षꣳ ह्य् अनु प्रजाः प्रजायन्ते
    देवꣳ सवितारं गच्छ स्वाहेत्य् आह
    सवितृप्रसूत एवास्मै प्रजाः प्र जनयति ।
    अहोरात्रे गच्छ स्वाहेत्य् आह ।
    अहोरात्राभ्याम् एवास्मै प्रजाः प्र जनयति ।
    अहोरात्रे ह्य् अनु प्रजाः प्रजायन्ते
    मित्रावरुणौ गच्छ स्वाहा

 3
    इत्य् आह
    प्रजास्व् एव प्रजातासु प्राणापानौ दधाति
    सोमं गच्छ स्वाहेत्य् आह
    सौम्या हि देवतया प्रजाः ।
    यज्ञं गच्छ स्वाहेत्य् आह
    प्रजा एव यज्ञियाः करोति
    छन्दाꣳसि गच्छ स्वाहेत्य् आह
    पशवो वै छन्दाꣳसि
    पशून् एवाव रुन्द्धे
    द्यावापृथिवी गच्छ स्वाहेत्य् आह
   प्रजा एव प्रजाता द्यावापृथिवीभ्याम् उभयतः परि गृह्णाति
    नभः

 4
    दिव्यं गच्छ स्वाहेत्य् आह
    प्रजाभ्य एव प्रजाताभ्यो वृष्टिं नि यच्छति ।
    अग्निं वैश्वानरं गच्छ स्वाहेत्य् आह
    प्रजा एव प्रजाता अस्याम् प्रति ष्ठापयति
    प्राणानां वा एषो ऽव द्यति यो ऽवद्यति गुदस्य
    मनो मे हार्दि यच्छेत्य् आह
    प्राणान् एव यथास्थानम् उप ह्वयते
    पशोर् वा आलब्धस्य हृदयꣳ शुग् ऋच्छति
    सा हृदयशूलम्

 5
    अभि सम् एति
    यत् पृथिव्याꣳ हृदयशूलम् उद्वासयेत् पृथिवीꣳ शुचार्पयेत् ।
    यद् अप्स्व् अपः शुचार्पयेत् ।
    शुष्कस्य चार्द्रस्य च संधाव् उद् वासयत्य् उभयस्य शान्त्यै
    यं द्विष्यात् तं ध्यायेत् ।
    शुचैवैनम् अर्पयति ॥

6.4.2 अनुवाक 2 वसतीवर्यभिधानम्
 1
    देवा वै यज्ञम् आग्नीध्रे व्यभजन्त
    ततो यद् अत्यशिष्यत तद् अब्रुवन्न्
    वसतु नु न इदम् इति
    तद् वसतीवरीणां वसतीवरित्वम् ।
    तस्मिन् प्रातर् न सम् अशक्नुवन्
    तद् अप्सु प्रावेशयन्
    ता वसतीवरीर् अभवन्
    वसतीवरीर् गृह्णाति
    यज्ञो वै वसतीवरीः ।
    यज्ञम् एवाऽऽरभ्य गृहीत्वोप वसति
    यस्यागृहीता अभि निम्रोचेद् अनारब्धो ऽस्य यज्ञः स्यात्

 2
    यज्ञं वि छिन्द्यात् ।
    ज्योतिष्या वा गृह्णीयाद् धिरण्यं वावधाय सशुक्राणाम् एव गृह्णाति
    यो वा ब्राह्मणो बहुयाजी तस्य कुम्भ्यानां गृह्णीयात्
    स हि गृहीतवसतीवरीकः ।
    वसतीवरीर् गृह्णाति
    पशवो वै वसतीवरीः
    पशून् एवारभ्य गृहीत्वोप वसति
    यद् अन्वीपं तिष्ठन् गृह्णीयान् निर्मार्गुका अस्मात् पशवः स्युः
    प्रतीपं तिष्ठन् गृह्णाति
    प्रतिरुध्यैवास्मै पशून् गृह्णाति ।
    इन्द्रः

 3
    वृत्रं अहन् ।
    सो ऽपो ऽभ्य् अम्रियत
    तासां यन् मेध्यं यज्ञियꣳ सदेवम् आसीत् तद् अत्य् अमुच्यत
    ता वहन्तीर् अभवन्
    वहन्तीनां गृह्णाति
    या एव मेध्या यज्ञियाः सदेवा आपस् तासाम् एव गृह्णाति
    नान्तमा वहन्तीर् अतीयात् ।
    यद् अन्तमा वहन्तीर् अतीयाद् यज्ञम् अति मन्येत
    न स्थावराणां गृह्णीयात् ।
    वरुणगृहीता वै स्थावराः
    यत् स्थावराणां गृह्णीयात्

 4
    वरुणेनास्य यज्ञं ग्राहयेत् ।
    यद् वै दिवा भवत्य् अपो रात्रिः प्र विशति
    तस्मात् ताम्रा आपो दिवा ददृश्रे
    यन् नक्तम् भवत्य् अपो ऽहः प्र विशति
    तस्माच् चन्द्रा आपो नक्तं ददृश्रे
    छायायै चातपतश् च संधौ गृह्णाति ।
    अहोरात्रयोर् एवास्मै वर्णं गृह्णाति
    हविष्मतीर् इमा आप इत्य् आह
    हविष्कृतानाम् एव गृह्णाति
    हविष्माꣳ अस्तु

 5
    सूर्य इत्य् आह
    सशुक्राणाम् एव गृह्णाति ।
    अनुष्टुभा गृह्णाति
    वाग् वा अनुष्टुग्
    वाचैवैनाः सर्वया गृह्णाति
    चतुष्पदयर्चा गृह्णाति
    त्रिः सादयति
    सप्त सम् पद्यन्ते
    सप्तपदा शक्वरी
    पशवः शक्वरी
   पशून् एवाव रुन्द्धे ।
   अस्मै वै लोकाय गार्हपत्य आ धीयते ऽमुष्मा आहवनीयः ।
  यद् गार्हपत्य उपसादयेद् अस्मिम्̐ लोके पशुमान्त् स्यात् ।
   यद् आहवनीये ऽमुष्मिन्

 6
    लोके पशुमान्त् स्यात् ।
    उभयोर् उप सादयति ।
    उभयोर् एवैनं लोकयोः पशुमन्तं करोति
    सर्वतः परि हरति
    रक्षसाम् अपहत्यै ।
    इन्द्राग्नियोर् भागधेयी स्थेत्य् आह
    यथायजुर् एवैतत् ।
    आग्नीध्र उप वासयति ।
    एतद् वै यज्ञस्यापराजितं यद् आग्नीध्रम् ।
    यद् एव यज्ञस्यापराजितं तद् एवैना उप वासयति
   यतः खलु वै यज्ञस्य विततस्य न क्रियते तद् अनु यज्ञꣳ रक्षाꣳस्य अव चरन्ति
    यद् वहन्तीनां गृह्णाति क्रियमाणम् एव तद् यज्ञस्य शये
    रक्षसाम् अनन्ववचाराय
   न ह्य् एता ईलयन्ति ।
   आ तृतीयसवनात् परि शेरे
    यज्ञस्य संतत्यै ॥

6.4.3 अनुवाक 3 सोमोपावहरणकथनम्
 1
    ब्रह्मवादिनो वदन्ति
    स त्वा अध्वर्युः स्याद् यः सोमम् उपावहरन्त् सर्वाभ्यो देवताभ्य उपावहरेद् इति
    हृदे त्वेत्य् आह मनुष्येभ्य एवैतेन करोति
    मनसे त्वेत्य् आह पितृभ्य एवैतेन करोति दिवे त्वा सूर्याय त्वेत्य् आह देवेभ्य एवैतेन करोति ।
    एतावतीर् वै देवतास् ताभ्य एवैनꣳ सर्वाभ्य उपावहरति
    पुरा वाचः

 2
    प्रवदितोः प्रातरनुवाकम् उपाकरोति यावत्य् एव वाक् ताम् अव रुन्द्धे ।
    अपो ऽग्रे ऽभिव्याहरति यज्ञो वा आपो यज्ञम् एवाभि वाचं वि सृजति
    सर्वाणि छन्दाꣳस्य् अन्व् आह पशवो वै छन्दाꣳसि पशून् एवाव रुन्द्धे
    गायत्रिया तेजस्कामस्य परि दध्यात् त्रिष्टुभेन्द्रियकामस्य जगत्या पशुकामस्यानुष्टुभा प्रतिष्ठाकामस्य पङ्क्त्या यज्ञकामस्य विराजान्नकामस्य
    शृणोत्व् अग्निः समिधा हवम्

 3
    म इत्य् आह सवितृप्रसूत एव देवताभ्यो निवेद्यापो ऽच्छैति ।
    अप इष्य होतर् इत्य् आहेषितꣳ हि कर्म क्रियते
    मैत्रावरुणस्य चमसाध्वर्यव् आ द्रवेत्य् आह मैत्रावरुणौ वा अपां नेतारौ ताभ्याम् एवैना अच्छैति
    देवीर् आपो अपां नपाद् इत्य् आहाऽऽहुत्यैवैना निष्क्रीय गृह्णात्य् अथो हविष्कृतानाम् एवाभिघृतानां गृह्णाति ।

 4
    कार्षिर् असीत्य् आह शमलम् एवाऽऽसाम् अप प्लावयति
    समुद्रस्य वोऽक्षित्या उन् नय इत्य् आह तस्माद् अद्यमानाः पीयमाना आपो न क्षीयन्ते
    योनिर् वै यज्ञस्य चात्वालं यज्ञो वसतीवरीर् होतृचमसं च मैत्रावरुणचमसं च सꣳस्पर्श्य वसतीवरीर् व्यानयति यज्ञस्य सयोनित्वाय ।
    अथो स्वाद् एवैना योनेः प्र जनयति ।
    अध्वर्यो ऽवेर् अपा3
    इत्य् आह ।
    उतेमनंनमुर् उतेमाः पश्य ।
    इति वावैतद् आह
    यद्य् अग्निष्टोमो जुहोति यद्य् उक्थ्यः परिधौ नि मार्ष्टि यद्य् अतिरात्रो यजुर् वदन् प्र पद्यते यज्ञक्रतूनां व्यावृत्त्यै ॥

6.4.4 अनुवाक 4 सोमोन्मानकथनम्
 1
    देवस्य त्वा सवितुः प्रसव इति ग्रावाणम् आ दत्ते
    प्रसूत्यै ।
    अश्विनोर् बाहुभ्याम् इत्य् आह ।
    अश्विनौ हि देवानाम् अध्वर्यू आस्ताम्
    पूष्णो हस्ताभ्याम् इत्य् आह यत्यै
    पशवो वै सोमो व्यान उपाꣳशुसवनः ।
    यद् उपाꣳशुसवनम् अभि मिमीते व्यानम् एव पशुषु दधाति ।
    इन्द्राय त्वेन्द्राय त्वेति मिमीते ।
    इन्द्राय हि सोम आह्रियते
    पञ्च कृत्वो यजुषा मिमीते ।

 2
    पञ्चाक्षरा पङ्क्तिः
    पाङ्क्तो यज्ञः ।
    यज्ञम् एवाव रुन्द्धे
    पञ्च कृत्वस् तूष्णीम् ।
    दश सम् पद्यन्ते
    दशाक्षरा विराड्
    अन्नं विराड्
    विराजैवान्नाद्यम् अव रुन्द्धे
    श्वात्रा स्थ वृत्रतुर इत्य् आह ।
    एष वा अपाꣳ सोमपीथः ।
    य एवं वेद नाप्स्व् आर्तिम् आर्च्छति
    यत् ते सोम दिवि ज्योतिर् इत्य् आह ।
    एभ्य एवैनम्

 3
    लोकेभ्यः सम् भरति
    सोमो वै राजा दिशो ऽभ्यध्यायत्
    स दिशो ऽनु प्राविशत्
    प्राग् अपाग् उदग् अधराग् इत्य् आह
    दिग्भ्य एवैनꣳ सम् भरत्य् अथो दिश एवास्मा अव रुन्द्धे ।
    अम्ब नि ष्वरेत्य् आह
    कामुका एनꣳ स्त्रियो भवन्ति य एवं वेद
    यत् ते सोमादाभ्यं नाम जागृवीति

 4
    आह ।
    एष वै सोमस्य सोमपीथः ।
    य एवं वेद न सौम्याम् आर्तिम् आर्च्छति
    घ्नन्ति वा एतत् सोमं यद् अभिषुण्वन्ति ।
    अꣳशून् अप गृह्णाति
    त्रायत एवैनम्
    प्राणा वा अꣳशवः पशवः सोमः ।
    अꣳशून् पुनर् अपि सृजति
    प्राणान् एव पशुषु दधाति
    द्वौद्वाव् अपि सृजति
   तस्माद् द्वौद्वौ प्राणाः ॥

6.4.5 अनुवाक 5 उपांशुग्रहकथनम्
 1
    प्राणो वा एष यद् उपाꣳशुः ।
    यद् उपाꣳश्वग्रा ग्रहा गृह्यन्ते प्राणम् एवानु प्र यन्ति ।
    अरुणो ह स्माहौपवेशिः
    प्रातःसवन एवाहं यज्ञꣳ सꣳ स्थापयामि तेन ततः सꣳस्थितेन चरामीति ।
    अष्टौ कृत्वो ऽग्रे ऽभि षुणोति ।
    अष्टाक्षरा गायत्री
    गायत्रम् प्रातःसवनम्
    प्रातःसवनम् एव तेनाप्नोति ।
    एकादश कृत्वो द्वितीयम्
    एकादशाक्षरा त्रिष्टुभ् ।
    त्रैष्टुभम् माध्यंदिनम्

 2
    सवनम्
    माध्यंदिनम् एव सवनं तेनाप्नोति
    द्वादश कृत्वस् तृतीयम् ।
    द्वादशाक्षरा जगती
    जागतं तृतीयसवनम् ।
    तृतीयसवनम् एव तेनाप्नोति ।
    एताꣳ ह वाव स यज्ञस्य सꣳस्थितिम् उवाच ।
    अस्कन्दाय ।
    अस्कन्नꣳ हि तद् यद् यज्ञस्य सꣳस्थितस्य स्कन्दति ।
    अथो खल्व् आहुः ।
    गायत्री वाव प्रातःसवने नातिवाद इति ।
    अनतिवादुक एनम् भ्रातृव्यो भवति य एवं वेद
    तस्माद् अष्टावष्टौ

 3
    कृत्वो ऽभिषुत्यम्
    ब्रह्मवादिनो वदनति
    पवित्रवन्तो ऽन्ये ग्रहा गृह्यन्ते किम्पवित्र उपाꣳशुर् इति
    वाक्पवित्र इति ब्रूयात् ।
    वाचस् पतये पवस्व वाजिन्न् इत्य् आह
    वाचैवैनम् पवयति
    वृष्णो अꣳशुभ्याम् इत्य् आह
    वृष्णो ह्य् एताव् अꣳशू यौ सोमस्य
    गभस्तिपूत इत्य् आह
    गभस्तिना ह्य् एनम् पवयति
    देवो देवानाम् पवित्रम् असीत्य् आह
    देवो ह्य् एषः

 4
    देवानाम् पवित्रम् ।
    येषाम् भागो ऽसि तेभ्यस् त्वेत्य् आह
    येषाꣳ ह्य् एष भागस् तेभ्य एनं गृह्णाति
    स्वांकृतो ऽसीत्य् आह
    प्राणम् एव स्वम् अकृत
    मधुमतीर् न इषस् कृधीत्य् आह
    सर्वम् एवास्मा इदꣳ स्वदयति
    विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्य इत्य् आह ।
    उभयेष्व् एव देवमनुष्येषु प्राणान् दधाति
    मनस् त्वा

 5
    अष्ट्व् इत्य् आह
    मन एवाश्नुते ।
    उर्व् अन्तरिक्षम् अन्व् इहीत्य् आह ।
    अन्तरिक्षदेवत्यो हि प्राणः
    स्वाहा त्वा सुभवः सूर्यायेत्य् आह
    प्राणा वै स्वभवसो देवास्
    तेष्व् एव परोऽक्षं जुहोति
    देवेभ्यस् त्वा मरीचिपेभ्य इत्य् आह ।
    आदित्यस्य वै रश्मयो देवा मरीचिपास्
    तेषां तद् भागधेयम् ।
    तान् एव तेन प्रीणाति
    यदि कामयेत
    वर्षुकः पर्जन्यः

 6
    स्याद् इति नीचा हस्तेन नि मृज्यात् ।
    वृष्टिम् एव नि यच्छति
    यदि कामयेत ।
    अवर्षुकः स्याद् इत्य् उत्तानेन नि मृज्यात् ।
    वृष्टिम् एवोद् यच्छति
    यद्य् अभिचरेद् अमुं जह्य् अथ त्वा होष्यामीति ब्रूयात् ।
    आहुतिम् एवैनम् प्रेप्सन् हन्ति
    यदि दूरे स्याद् आ तमितोस् तिष्ठेत्
    प्राणम् एवास्यानुगत्य हन्ति
    यद्य् अभिचरेद् अमुष्य

 7
    त्वा प्राणे सादयामीति सादयेत् ।
    असन्नो वै प्राणः
    प्राणम् एवास्य सादयति
    षड्भिर् अꣳशुभिः पवयति
    षड् वा ऋतवः ।
    ऋतुभिर् एवैनम् पवयति
    त्रिः पवयति
    त्रय इमे लोकाः ।
    एभिर् एवैनं लोकैः पवयति
    ब्रह्मवादिनो वदन्ति
    कस्माद् सत्यात् त्रयः पशूनाꣳ हस्तादाना इति
    यत् त्रिर् उपाꣳशुꣳ हस्तेन विगृह्णाति
    तस्माद् त्रयः पशूनाꣳ हस्तादानाः पुरुषो हस्ती मर्कटः ॥

6.4.6 अनुवाक 6 अन्तर्यागग्रहकथनम्
 1
    देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
    ते देवा उपाꣳशौ यज्ञꣳ सꣳस्थाप्यम् अपश्यन्
    तम् उपाꣳशौ सम् अस्थापयन्
    ते ऽसुरा वज्रम् उद्यत्य देवान् अभ्य् आयन्त
    ते देवा बिभ्यत इन्द्रम् उपाधावन्
    तान् इन्द्रो ऽन्तर्यामेणान्तर् अधत्त
    तद् अन्तर्यामस्यान्तर्यामत्वम् ।
    यद् अन्तर्यामो गृह्यते भ्रातृव्यान् एव तद् यजमानो ऽन्तर् धत्ते ।
    अन्तस् ते

 2
    दधामि द्यावापृथिवी अन्तर् उर्व् अन्तरिक्षम् इत्य् आह ।
    एभिर् एव लोकैर् यजमानो भ्रातृव्यान् अन्तर् धत्ते
    ते देवा अमन्यन्त ।
    इन्द्रो वा इदम् अभूद् यद् वयꣳ स्म इति
    ते ऽब्रुवन्
    मघवन्न् अनु न आ भजेति
    सजोषा देवैर् अवरैः परैश् चेत्य् अब्रवीत् ।
    ये चैव देवाः परे ये चावरे तान् उभयान्

 3
    अन्वाभजत्
    सजोषा देवैर् अवरैः परैश् चेत्य् आह
    ये चैव देवाः परे य चावरे तान् उभयान् अन्वाभजति ।
    अन्तर्यामे मघवन् मादयस्वेत्य् आह
    यज्ञाद् एव यजमानं नान्तर् एति ।
    उपयामगृहीतो ऽसीत्य् आह ।
    अपानस्य धृत्यै
    यद् उभाव् अपवित्रौ गृह्येयाताम् प्राणम् अपानो ऽनु न्य् ऋच्छेत्
    प्रमायुकः स्यात्
    पवित्रवान् अन्तर्यामो गृह्यते ।

 4
    प्राणापानयोर् विधृत्यै
    प्राणापानौ वा एतौ यद् उपाꣳश्वन्तर्यामौ व्यान उपाꣳशुसवनः ।
    यं कामयेत
    प्रमायुकः स्याद् इत्य् असꣳस्पृष्टौ तस्य सादयेत् ।
    व्यानेनैवास्य प्राणापानौ वि च्छिनत्ति
    ताजक् प्रमीयते
    यं कामयेत
    सर्वम् आयुर् इयाद् इति सꣳस्पृष्टौ तस्य सादयेत् ।
    व्यानेनैवास्य प्राणापानौ सं तनोति
    सर्वम् आयुर् एति ॥

6.4.7 अनुवाक 7 ऐन्द्रवायवग्रहकथनम्
 1
    वाग् वा एषा यद् ऐन्द्रवायवः ।
    यद् ऐन्द्रवायवाग्रा ग्रहा गृह्यन्ते वाचम् एवानु प्र यन्ति
    वायुं देवा अब्रुवन् ।
    सोमꣳ राजानꣳ हनामेति
    सो ऽब्रवीत् ।
    वरं वृणै मदग्रा एव वो ग्रहा गृह्यान्ता इति
    तस्माद् ऐन्द्रवायवाग्रा ग्रहा गृह्यन्ते
    तम् अघ्नन् ।
    सो ऽपूयत्
    तं देवा नोपाधृष्णुवन्
    ते वायुम् अब्रुवन् ।
    इमं नः स्वदय

 2
    इति
    सो ऽब्रवीत् ।
    वरं वृणै मद्देवत्यान्य् एव वः पात्राण्य् उच्यान्ता इति
    तस्मान् नानादेवत्यानि सन्ति वायव्यान्य् उच्यन्ते
    तम् एभ्यो वायुर् एवास्वदयत्
    तस्माद् यत् पूयति तत् प्रवाते वि षजन्ति
    वायुर् हि तस्य पवयिता स्वदयिता
    तस्य विग्रहणं नाविन्दन् ।
    साऽदितिर् अब्रवीत् ।
    वरं वृणा अथ मया वि गृह्णीध्वम् मद्देवत्या एव वः सोमाः

 3
    सन्ना असन्न् इति ।
    उपयामगृहीतो ऽसीत्य् आहादितिदेवत्यास् तेन
    यानि हि दारुमयाणि पात्राण्य् अस्यै तानि योनेः सम्भूतानि
    यानि मृन्मयानि साक्षात् तान्य् अस्यै
    तस्माद् एवम् आह
    वाग् वै पराच्य् अव्याकृतावदत्
    ते देवा इन्द्रम् अब्रुवन् ।
    इमां नो वाचं व्याकुर्व् इति
    सो ऽब्रवीत् ।
    वरं वृणै मह्यं चैवैष वायवे च सह गृह्याता इति
    तस्माद् ऐन्द्रवायवः सह गृह्यते
    ताम् इन्द्रो मध्यतो ऽवक्रम्य व्याकरोत्
    तस्माद् इयं व्याकृता वाग् उद्यते
   तस्मात् सकृद् इन्द्राय मध्यतो गृह्यते द्विर् वायवे
   द्वौ हि स वराव् अवृणीत

6.4.8 अनुवाक 8 मैत्रावरुणग्रहकथनम्
 1
    मित्रं देवा अब्रुवन् ।
    सोमꣳ राजानꣳ हनामेति
    सो ऽब्रवीत् ।
    नाहꣳ सर्वस्य वा अहम् मित्रम् अस्मीति
    तम् अब्रुवन्
    हनामैवेति
    सो ऽब्रवीत् ।
    वरं वृणै पयसैव मे सोमꣳ श्रीणन्न् इति
    तस्मान् मैत्रावरुणम् पयसा श्रीणन्ति
    तस्मात् पशवो ऽपाक्रामन्
    मित्रः सन् क्रूरम् अकर् इति
    क्रूरम् इव खलु वा एषः

 2
    करोति यः सोमेन यजते
    तस्मात् पशवो ऽप क्रामन्ति
    यन् मैत्रावरुणम् पयसा श्रीणाति पशुभिर् एव तन् मित्रꣳ समर्धयति पशुभिर् यजमानम्
    पुरा खलु वावैवम् मित्रो ऽवेत् ।
    अप मत् क्रूरं चक्रुषः पशवः क्रमिष्यन्तीति
    तस्माद् एवम् अवृणीत
    वरुणं देवा अब्रुवन्
    त्वयाꣳशभुवा सोमꣳ राजानꣳ हनामेति
    सो ऽब्रवीत् ।
    वरं वृणै मह्यं च

 3
    एवैष मित्राय च सह गृह्याता इति
    तस्मान् मैत्रावरुणः सह गृह्यते
    तस्माद् राज्ञा राजानम् अꣳशभुवा घ्नन्ति वैश्येन वैश्यꣳ शूद्रेण शूद्रम् ।
    न वा इदं दिवा न नक्तम् आसीद् अव्यावृत्तम् ।
    ते देवा मित्रावरुणाव् अब्रुवन् ।
    इदं नो वि वासयतम् इति
    ताव् अब्रूताम् ।
    वरं वृणावहा एक एवाऽऽवत् पूर्वो ग्रहो गृह्याता इति
    तस्माद् ऐन्द्रवायवः पूर्वो मैत्रावरुणाद् गृह्यते
    प्राणापानौ ह्य् एतौ यद् उपाꣳश्वन्तर्यामौ
    मित्रो ऽहर् अजनयद् वरुणो रात्रिम् ।
    ततो वा इदं व्यौच्छत् ।
    यन् मैत्रावरुणो गृह्यते व्युष्ट्यै ॥

6.4.9 अनुवाक 9 आश्विनग्रहकथनम्
 1
    यज्ञस्य शिरो ऽछिद्यत
    ते देवा अश्विनाव् अब्रुवन्
    भिषजौ वै स्थ इदं यज्ञस्य शिरः प्रति धत्तम् इति
    ताव् अब्रूताम् ।
    वरं वृणावहै ग्रह एव नाव् अत्रापि गृह्यताम् इति
    ताभ्याम् एतम् आश्विनम् अगृह्णन्
    ततो वै तौ यज्ञस्य शिरः प्रत्यधत्ताम् ।
    यद् आश्विनो गृह्यते यज्ञस्य निष्कृत्यै
    तौ देवा अब्रुवन् ।
    अपूतौ वा इमौ मनुष्यचरु

 2
    भिषजाव् इति
    तस्माद् ब्राह्मणेन भेषजं न कार्यम् अपूतो ह्य् एषो ऽमेध्यो यो भिषक्
    तौ बहिष्पवमानेन पवयित्वा ताभ्याम् एतम् आश्विनम् अगृह्णन्
    तस्माद् बहिष्पवमाने स्तुत आश्विनो गृह्यते
    तस्माद् एवं विदुषा बहिष्पवमान उपसद्यः पवित्रं वै बहिष्पवमान आत्मानम् एव पवयते
    तयोस् त्रेधा भैषज्यं वि न्य् अदधुः ।
    अग्नौ तृतीयम् अप्सु तृतीयम् ब्राह्मणे तृतीयम् ।
    तस्माद् उदपात्रम्

 3
    उपनिधाय ब्राह्मणं दक्षिणतो निषाद्य भेषजं कुर्यात् ।
    यावद् एव भेषजं तेन करोति समर्धुकम् अस्य कृतम् भवति
    ब्रह्मवादिनो वदन्ति
    कस्मात् सत्याद् एकपात्रा द्विदेवत्या गृह्यन्ते द्विपात्रा हूयन्त इति
    यद् एकपात्रा गृह्यन्ते तस्माद् एको ऽन्तरतः प्राणो द्विपात्त्रा हूयन्ते तस्माद् द्वौद्वौ बहिष्टात् प्राणाः
    प्राणा वा एते यद् द्विदेवत्याः पशव इडा यद् इडाम् पूर्वां द्विदेवत्येभ्य उपह्वयेत ।

 4
    पशुभिः प्राणान् अन्तर् दधीत प्रमायुकः स्यात् ।
    द्विदेवत्यान् भक्षयित्वेडाम् उप ह्वयते
    प्राणान् एवात्मन् धित्वा पशून् उप ह्वयते
    वाग् वा ऐन्द्र वायवश् चक्षुर् मैत्रावरुणः श्रोत्रम् आश्विनः
    पुरस्ताद् ऐन्द्रवायवम् भक्षयति तस्मात् पुरस्ताद् वाचा वदति
    पुरस्तान् मैत्रावरुणं तस्माद् पुरस्ताच् चक्षुषा पश्यति सर्वतः परिहारम् आश्विनं तस्मात् सर्वतः श्रोत्रेण शृणोति
    प्राणा वा एते यद् द्विदेवत्याः

 5
    अरिक्तानि पात्राणि सादयति
    तस्माद् अरिक्ता अन्तरतः प्राणा यतः खलु वै यज्ञस्य विततस्य न क्रियते तद् अनु यज्ञꣳ रक्षाꣳस्य् अव चरन्ति
    यद् अरिक्तानि पात्राणि सादयति क्रियमाणम् एव तद् यज्ञस्य शये रक्षसाम् अनन्ववचाराय
    दक्षिणस्य हविर्धानस्योत्तरस्यां वर्तन्याꣳ सादयति वाच्य् एव वाचं दधाति ।
    आ तृतीयसवनात् परि शेरे यज्ञस्य संतत्यै॥

6.4.10 अनुवाक 10 शुक्रामन्थिग्रहकथनम्
 1
    बृहस्पतिर् देवानाम् पुरोहित आसीच् छण्डामर्काव् असुराणाम्
    ब्रह्मण्वन्तो देवा आसन् ब्रह्मण्वन्तो ऽसुरास्
    ते ऽन्योऽन्यं नाशक्नुवन्न् अभिभवितुम् ।
    ते देवाः शण्डामर्काव् उपामन्त्रयन्त
    ताव् अब्रूताम् ।
    वरं वृणावहै ग्रहाव् एव नाव् अत्रापि गृह्येताम् इति
    ताभ्याम् एतौ शुक्रामन्थिनाव् अगृह्णन्
    ततो देवा अभवन् परासुराः ।
    यस्यैवं विदुषः शुक्रामन्थिनौ गृह्येते भवत्य् आत्मना परा

 2
    अस्य भ्रातृव्यो भवति
    तौ देवा अपनुद्यात्मन इन्द्रायाजुहवुः ।
    अपनुत्तौ शण्डामर्कौ सहामुनेति ब्रूयाद् यं द्विष्यात् ।
    यम् एव द्वेष्टि तेनैनौ सहाप नुदते
    स प्रथमः संकृतिर् विश्वकर्मेत्य् एवैनाव् आत्मन इन्द्रायाजुहवुः ।
    इन्द्रो ह्य् एतानि रूपाणि करिक्रद् अचरत् ।
    असौ वा आदित्यः शुक्रश् चन्द्रमा मन्थी ।
    अपिगृह्य प्राञ्चौ निः

 3
    क्रामतस्
    तस्मात् प्राञ्चौ यन्तौ न पश्यन्ति
    प्रत्यञ्चाव् आवृत्य जुहुतस्
    तस्मात् प्रत्यञ्चौ यन्तौ पश्यन्ति
    चक्षुषी वा एते यज्ञस्य यच् छुक्रामन्थिनौ नासिकोत्तरवेदिः ।
    अभितः परिक्रम्य जुहुतस्
    तस्माद् अभितो नासिकां चक्षुषी
    तस्मान् नासिकया चक्षुषी विधृते
    सर्वतः परि क्रामतो रक्षसाम् अपहत्यै
    देवा वै याः प्राचीर् आहुतीर् अजुहवुर् ये पुरस्ताद् असुरा आसन् ताꣳस् ताभिः प्र

 4
    अनुदन्त
    याः प्रतीचीर् ये पश्चाद् असुरा आसन् ताꣳस् ताभिर् अपानुदन्त
    प्राचीर् अन्या आहुतयो हूयन्ते प्रत्यञ्चौ शुक्रामन्थिनौ
    पश्चाच् चैव पुरस्ताच् च यजमानो भ्रातृव्यान् प्र णुदते
    तस्मात् पराचीः प्रजाः प्र वीयन्ते प्रतीचीर् जायन्ते
    शुक्रामन्थिनौ वा अनु प्रजाः प्र जायन्ते ऽत्त्रीश् चाऽऽद्याश् च
    सुवीराः प्रजाः प्रजनयन् परीहि शुक्रः शुक्रशोचिषा

 5
    सुप्रजाः प्रजाः प्रजनयन् परीहि मन्थी मन्थिशोचिषेत्य् आह ।
    एता वै सुवीरा या अत्त्रीः ।
    एताः सुप्रजा या आद्याः ।
    य एवं वेदात्त्र्य् अस्य प्रजा जायते नाद्या
    प्रजापतेर् अक्ष्य् अश्वयत्
    तत् परापतत्
    तद् विकङ्कतम् प्राविशत्
    तद् विकङ्कते नारमत
    तद् यवम् प्राविशत्
    तद् यवे ऽरमत
   तद् यवस्य

 6
    यवत्वम् ।
    यद् वैकङ्कतम् मन्थिपात्रम् भवति सक्तुभिः श्रीणाति प्रजापतेर् एव तच् चक्षुः सम् भरति
    ब्रह्मवादिनो वदन्ति
    कस्मात् सत्यान् मन्थिपात्रꣳ सदो नाश्नुत इति ।
    आर्तपात्रꣳ हीति ब्रूयात् ।
    यद् अश्नुवीतान्धो ऽध्वर्युः स्याद् आर्तिम् आर्छेत्
    तस्मान् नाश्नुते ॥

6.4.11 अनुवाक 11 आग्रयणग्रहकथनम्
 1
    देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
    ते देवा आग्रयणाग्रान् ग्रहान् अपश्यन्
    तान् अगृह्णत
    ततो वै ते ऽग्रम् पर्य् आयन्
    यस्यैवं विदुष आग्रयणाग्रा ग्रहा गृह्यन्ते ऽग्रम् एव समानानाम् पर्य् एति
    रुग्णवत्यर्चा भ्रातृव्यवतो गृह्णीयात् ।
    भ्रातृव्यस्यैव रुक्त्वाग्रꣳ समानानाम् पर्य् एति
    ये देवा दिव्य् एकादश स्थेत्य् आह

 2
    एतावतीर् वै देवतास् ताभ्य एवैनꣳ सर्वाभ्यो गृह्णाति ।
    एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्य इति आह
    वैश्वदेवो ह्य् एष देवतया
    वाग् वै देवेभ्यो ऽपाक्रामद् यज्ञायातिष्ठमाना ते देवा वाच्य् अपक्रान्तायां तूष्णीं ग्रहान् अगृह्णत साऽमन्यत वाग् अन्तर् यन्ति वै मेति साऽऽग्रयणम् प्रत्य् आऽगच्छत्
    तद् आग्रयणस्याऽऽग्रयणत्वम्

 3
    तस्माद् आग्रयणे वाग् वि सृज्यते
    यत् तूष्णीम् पूर्वे ग्रहा गृह्यन्ते यथा त्सारीयति
     म आख इयति नाप रात्स्यामीत्य् उपावसृजत्य् एवम् एव तद् अध्वर्युर् आग्रयणं गृहीत्वा यज्ञम् आरभ्य वाचं वि सृजते
    त्रिर् हिं करोत्य् उद्गातॄन् एव तद् वृणीते
    प्रजापतिर् वा एष यद् आग्रयणो यद् आग्रयणं गृहीत्वा हिंकरोति प्रजापतिर् एव

 4
    तत् प्रजा अभि जिघ्रति
    तस्माद् वत्सं जातं गौर् अभि जिघ्रति ।
    आत्मा वा एष यज्ञस्य यद् आग्रयणः सवनेसवने ऽभि गृह्णात्य् आत्मन्न् एव यज्ञꣳ सं तनोति ।
    उपरिष्टाद् आ नयति रेत एव तद् दधाति ।
    अधस्ताद् उप गृह्णाति प्र जनयत्य् एव तत् ।
    ब्रह्मवादिनो वदन्ति
    कस्मात् सत्याद् गायत्री कनिष्ठा छन्दसाꣳ सती सर्वाणि सवनानि वहतीति ।
    एष वै गायत्रियै वत्सो यद् आग्रयणस् तम् एव तद् अभिनिवर्तꣳ सर्वाणि सवनानि वहति
    तस्माद् वत्सम् अपाकृतं गौर् अभि नि वर्तते ॥