कृषिपराशरम्

विकिस्रोतः तः
Jump to navigation Jump to search


प्रजापतिं नमस्कृत्य कृषिकर्मविवेचनम् । (१.१)
कृषकाणां हितार्थाय ब्रूते ऋषिपराशरः ॥ (१.२)

चतुर्वेदान्तगो विप्रः शास्त्रवादी विचक्षणः । (२.१)
अलक्ष्म्या गृह्यते सोऽपि प्रार्थनालाघवान्वितः ॥ (२.२)

एकया च पुनः कृष्या प्रार्थको नैव जायते । (३.१)
कृष्यन्वितो हि लोकेऽस्मिन्भूयादेकश्च भूपतिः ॥ (३.२)

सुवर्णरौप्यमाणिक्यवसनैरपि पूरिताः । (४.१)
तथापि प्रार्थयन्त्येव कृषकान् भक्ततृष्णया ॥ (४.२)

कण्ठे कर्णे च हस्ते च सुवर्णं विद्यते यदि । (५.१)
उपवासस्तथापि स्यादन्नाभावेन देहिनाम् ॥ (५.२)

यन्न प्राणा बलं चान्नमन्नं सर्वार्थसाधनम् । (६.१)
देवासुरमनुष्याश्च सर्वे चान्नोपजीविनः ॥ (६.२)

अन्नं हि धान्यसंजातं धान्यं कृपया विना न च । (७.१)
तस्मात् सर्वं परित्यज्य कृषिं यत्नेन कारयेत् ॥ (७.२)

कृषिर् धैन्या कृषिर्मेध्या जन्तूनां जीवनं कृषिः । (८.१)
हिंसादिदोषयुक्तो ऽपि मुच्यते तिथिपूजनात् ॥ (८.२)

तेनार्चितं जगत् सर्वमतिथिर्येन पूजितः । (९.१)
अर्चितास्तेन देवाश्च स एव पुरुषोत्तमः ॥ (९.२)

तथा च पराशरः । (१०.१)
वृष्टिमूला कृषिः सर्वा वृष्टिमूलं च जीवनम् । (१०.२)
तस्मादादौ प्रयत्नेन वृष्टिज्ञानं समाचरेत् ॥ (१०.३)

अतो वत्सरराजानं मन्त्रिणं मेघमेव च । (११.१)
आढकं सलिलस्यापि वृष्टिज्ञानाय शोधयेत् ॥ (११.२)

अथ राजानयनम् । (१२.१)

शाकं त्रिगुणितं कृत्वा द्वियुतं मुनिना हरेत् । (१२.२)
भागशिष्टो नृपो ज्ञेयो नृपमन्त्री चतुर्थकः ॥ (१२.३)

चित्तलार्के नृपे वृष्टिर्वृष्टिरुग्रा निशापतौ । (१३.१)
वृष्टिर्मन्दा सदा भौमे चन्द्रजे वृष्टिरुत्तमा ॥ (१३.२)

गुरौ च शोभना वृष्टिर्भार्गवे वृष्टिरुत्तमा । (१४.१)
पृथिवी धूलिसम्पूर्णा वृष्टिहीना शनौ भवेत् ॥ (१४.२)

चक्षूरोगो ज्वरारिष्टं सर्वोपद्रव एव च । (१५.१)
मन्दा वृष्टिः सदा वातो यत्राब्दे भास्करो नृपः ॥ (१५.२)

यस्मिन् संवत्सरे चैव चन्द्रो राजा भवेद् ध्रुवम् । (१६.१)
कुर्यात् शस्यान्वितां पृथ्वीं नैरुज्यं चापि मानवे ॥ (१६.२)

शस्यहानिर्भवेत्तत्र नित्यं रोगश्च मानवे । (१७.१)
यस्मिन् अब्दे कुजो राजा शस्यशून्या च मेदिनी ॥ (१७.२)

नैरुज्यं सुप्रचारश्च सुभिक्षं क्षितिमण्डले । (१८.१)
यत्राब्दे चन्द्रजो राजा सर्वशस्या च मेदिनी ॥ (१८.२)

धर्मस्थितिर्मनःस्थैर्यं वृष्टिकारणमुत्तमम् । (१९.१)
यस्मिन् अब्दे गुरू राजा सर्वा वसुमती मही ॥ (१९.२)

नृपाणां वर्धनं नित्यं धनधान्यादिकं प्हलम् । (२०.१)
राजा दैत्यगुरुः कुर्यात् सर्वशस्यं रसातलम् ॥ (२०.२)

संग्रामो वातवृष्टिश्च रोगोपद्रव एव च । (२१.१)
मन्दा वृष्टिः सदा वातो नृपे संवत्सरे शनौ ॥ (२१.२)

यथा वृष्टिप्हलं प्रोक्तं वत्सरग्रहभूपतौ । (२२.१)
तद्वद् वृष्टिप्हलं ज्ञेयं विज्ञैर्वत्सरमन्त्रिणि ॥ (२२.२)

अथ मेघनयनम् । (२३.१)

शकाब्दं वह्णिसंयुक्तं वेदभागसमाहृतम् । (२३.२)
शेषं मेघं विजानीयादावर्तादि यथाक्रमम् ॥ (२३.३)

आवर्तंश्चैव संवर्तः पुष्करो द्रोण एव च । (२४.१)
चत्वारो जलदाः प्रोक्ता आवर्तादि यथाक्रमम् ॥ (२४.२)

एकदेशेन चावर्तः संवर्तः सर्वतो जलम् । (२५.१)
पुष्करे दुष्करं वारि द्रोणे बहुजला मही ॥ (२५.२)

अथ जलाढकनिर्णयः । (२६.१)

शतयोजनविस्तीर्णं त्रिंशद्योजनमुच्छ्रितम् । (२६.२)
आढकस्य भवेन्मानं मुनिभिः परिकीर्तितम् ॥ (२६.३)

युग्माजगोमत्स्यगते शशाङ्के रविर्यदा कर्कटकं प्रयाति । (२७.१)
जलं शताढं हरिकार्मुके ऽर्धं वदन्ति कन्यामृगयोरशीतिम् ॥ (२७.२)

कुलीरकुम्भालितुलाभिधाने जलाढकं षण्णवतिं वदन्ति । (२८.१)
अनेन मानेन तु वत्सरस्य निरूप्य नीरं कृषिकर्म कार्यम् ॥ (२८.२)

समुद्रे दशभागांश्च षड्भागानपि पर्वते । (२९.१)
पृथिव्यां चतुरो भागान्सदा वर्षति वासवः ॥ (२९.२)

अथ पौषवृष्टिज्ञानम् । (३०.१)

सार्धं दिनद्वयं मानं कृत्वा पौषादिना बुधः । (३०.२)
गणयेन्मासिकीं वृष्टिमवृष्टिं वानिलक्रमात् ॥ (३०.३)

सौम्यवारुणयोर्वृष्टिरवृष्टिः पूर्वयाम्ययोः । (३१.१)
निर्वाते वृष्टिहानिः स्यात् संकुले संकुलं जलम् ॥ (३१.२)

एकैकं पञ्चदण्डेन मासस्य दिवसो मतः । (३२.१)
पूर्वार्द्धे वासरी वृष्टिरुत्तरार्द्धे च नैशिकी ॥ (३२.२)

दत्त्वा दण्डे पताकां तु वातस्यानुक्रमेण च । (३३.१)
विज्ञेया मासिकी वृष्टिः कृत्वा यत्नमहर्निशम् ॥ (३३.२)

धूलीभिरेव धवलीकृतमन्तरिक्षं विद्युच्छटाच्छुरितवारुणदिग्विभागम् । (३४.१)
पौषे यदा भवति मासि सिते च पक्षे तोयेन तत्र सकला प्लवते धरित्री ॥ (३४.२)

पौषे मसि यदा वृष्टिः कुज्झटिर्वा यदा भवेत् । (३५.१)
तदादौ सप्तमे मासि वारिपूर्णा भवेन्मही ॥ (३५.२)

यदा पौषे सिते पक्षे नभो मेघावृतं भवेत् । (३६.१)
तोयावृता धरित्री च भवेत् संवत्सरे तदा ॥ (३६.२)

मीनवृश्चिकयोर्मध्ये यदि वर्षति वासवः । (३७.१)
तदादौ सप्तमे मासि तत्तिथौ प्लवते मही ॥ (३७.२)

अथ माघवृष्टिज्ञानम् । (३८.१)

माघस्य सितसप्तम्यां वृष्टिर्वा मेघदर्शनम् । (३८.२)
तदा संवत्सरो धन्यः सर्वशस्यप्हलप्रदः ॥ (३८.३)

माघे बहुलसप्तम्यां तथैव प्हाल्गुनस्य च । (३९.१)
चैत्रे शुक्लतृतीयायां वैशाखे प्रथमे ऽहनि ॥ (३९.२)

एतासु चण्डवातो वा तडिद्वृष्टिरथापि वा । (४०.१)
तदा स्याच्छोभना प्रावृड् भवेत्सस्यवती मही ॥ (४०.२)

सप्तम्यां स्वातियोगे यदि पतति जलं माघपक्षे ऽन्धकारे वायुर्वा चण्डवेगः सजलजलधरो गर्जितो वासवो वा । (४१.१)
विद्युन्मालाकुलं वा यदि भवति नभो नष्टचन्द्रार्कतारं तावद्वर्षन्ति मेषा धरणितलगता यावद् आ कार्तिकान्तम् ॥ (४१.२)

माघे मासि निरन्तरं यदि भवेत् प्रालेयतोयागमो वाता वान्ति च प्हाल्गुने जलधरैश्चित्रे च छन्नं नभः । (४२.१)
वैशाखे करकाः पतन्ति सततं ज्यैष्ठे प्रचण्डातपाः तावद्वर्षति वासवो रविरसौ यावत्तुलायां व्रजेत् ॥ (४२.२)

अथ प्हाल्गुनवृष्टिज्ञानम् । (४३.१)

पञ्चम्यादिषु पञ्चसु कुम्भे ऽर्के यदि भवति रोहिणीयोगाः । (४३.२)
अधमतमाधममध्यममहदतिमहाम्भसां निपातः ॥ (४३.३)

अथ चैत्रवृष्टिज्ञानम् । (४४.१)

प्रतिपदि मधुमासे भानुवारः सितायां यदि भवति तदा स्याच्चित्तला वृष्टिरब्दे । (४४.२)
अविरलपृथुधारासान्द्रवृष्टिप्रवाहैर् धरणितलम् अशेषं प्लाव्यते सोमवारे ॥ (४४.३)

अवनितनयवारे वारिवृष्टिर्न सम्यग् बुधगुरुभृगुजानां शस्यसम्पत्प्रमोदः । (४५.१)
जलनिधिरपि शोषं याति वारे च शौरेर्भवति खलु धरित्री धूलिजालैरदृश्या ॥ (४५.२)

चैत्राद्यभागे चित्रायां भवेच्च चित्तला क्षितिः । (४६.१)
शेषे नीचैर्न वात्यर्थं क्ष्मामध्ये बहुवर्षिणी ॥ (४६.२)

मूलस्यादौ यमस्यान्ते चैत्रे वायुरहर्निशम् । (४७.१)
आर्द्रादीनि च ऋक्षाणि वृष्टिहेतोर्विशोधयेत् ॥ (४७.२)

अथ वैशाखवृष्टिज्ञानम् । (४८.१)

प्रवाहयुतनद्यां तु दण्डं न्यस्य जले निशि । (४८.२)
वैशाखशुक्लप्रतिपत्तिथौ वृष्टिं निरूपयेत् ॥ (४८.३)

ॐ सिद्धिरिति मन्त्रेण मन्त्रयित्वा शतद्वयम् । (४९.१)
अङ्कयित्वा तु तद्दण्डम् अङ्कतुल्ये जले क्षिपेत् ॥ (४९.२)

प्रातरुत्थाय सहसा तदङ्कं तु निरूपयेत् । (५०.१)
समं चैवाधिकं न्यूनं भविष्यज्जलकाङ्क्षया ॥ (५०.२)

गतवत्सरवद्वारि वन्या चैव समे भवेत् । (५१.१)
हीने हीनं भवेद्वारि भवेद् वन्या च तादृशी ॥ (५१.२)

अङ्काधिक्ये च द्विगुणा वृष्टिर्वन्या च जायते । (५२.१)
इति पराशरेणोक्तं भविष्यद्वृष्टिलक्षणम् ॥ (५२.२)

सूर्योदये विप्लवतो जगतां विपत्तिर्मध्यं गते दिनकरे बहुशस्यहानिः । (५३.१)
अस्तंगते दिनकरे तु तदर्धशस्यं ऐश्वर्यभोगमतुलं खलु चार्धरात्रे ॥ (५३.२)

रेखात्रयं समुल्लिख्य ताभिस्ताश्च विवर्धयेत् । (५४.१)
त्रिशृङ्गं सर्वकोणेषु पर्वतं तत्र दापयेत् ॥ (५४.२)

ईशानादिदक्षिणाङ्कान् स लिखेद् अनलादितः । (५५.१)
येन येनाजसंक्रान्तिस्तेन प्रावृट्प्हलं भवेत् ॥ (५५.२)

अतिवृष्टिः समुद्रे स्यादनावृष्टिस्तु पर्वते । (५६.१)
कक्षयोश्चित्तला वृष्टिः सुवृष्टिस्तीरसङ्गमे ॥ (५६.२)

अथ ज्यैष्ठवृष्टिलक्षणम् । (५७.१)

चित्रास्वातीविशाखासु ज्यैष्ठे मासि निरभ्रता । (५७.२)
तास्वेव श्रावणे मासि यदि वर्षति वासवः । (५७.३)
तदा संवत्सरो धन्यो बहुशस्यप्हलप्रदः ॥ (५७.४)

ज्यैष्ठादौ सितपक्षे च आर्द्रादिदशर्क्षके । (५८.१)
सजला निर्जला यान्ति निर्जलाः सजला इव ॥ (५८.२)

अथावाहवृष्टिलक्षणम् । (५९.१)
आषाढ्यां पौर्णमास्यां सुरपतिककुभो वाति वातः सुवृष्टिः शस्यध्वंसं प्रकुर्याद्दहनदिशिगतो मन्दवृष्टिर्यमेन । (५९.२)
नैकस्यां शस्यहानिर्वरुणदिशि जलं वायुना वायुकोपः कौबेर्यां शस्यपूर्णां प्रथयति नियतं मेदिनीं शम्भुना च ॥ (५९.३)

आषाढस्य सिते पक्षे नवम्यां यदि वर्षति । (६०.१)
वर्षत्येव तदा देवस्तत्रावृष्टौ कुतो जलम् ॥ (६०.२)

शुक्लाषाढ्यां नवम्यामुदयगिरितटी निर्मलत्वं प्रयाति स्वीयं कायं विधत्ते खरतनुकिरणो मण्डलाकारयोगम् । (६१.१)
जीमूतैर्वेष्टितो ऽसौ यदि भवति रविर्गम्यमानो ऽस्तशैले तावत्पर्यन्तमेव प्रगलति जलदो यावदस्तं तुलायाः ॥ (६१.२)

अथ श्रावणवृष्टिलक्षणम् । (६२.१)

रोहिण्यां श्रावणे मासि यदि वर्षति वासवः । (६२.२)
तदा वृष्टिर्भवेत्तावद् यावन्नोत्तिष्ठते हरिः ॥ (६२.३)

कर्कटे रोहिणीकक्षे यदि वृष्टिर्न जायते । (६३.१)
तदा पराशरः प्राह हा हा लोकस्य का गतिः ॥ (६३.२)

श्रावणे मासि रोहिण्यां न भवेद्वर्षणं यदि । (६४.१)
विप्हलारम्भसंक्लेशास्तदा स्युः कृषिवृत्तयः ॥ (६४.२)

अथ सद्योवृष्टिज्ञानम् । (६५.१)

जलस्थो जलहस्तो वा निकटे ऽथ जलस्य वा । (६५.२)
स्रष्टा पृच्छति सृष्ट्यर्थं वृष्टिः संजायते चिरात् ॥ (६५.३)

उत्तिष्ठत्यण्डमादाय यदा चैव पिपीलिका । (६६.१)
भेकः शब्दायते कस्मात् तदा वृष्टिर्भवेद्ध्रुवम् ॥ (६६.२)

बिडाला नकुलाः सर्पा ये चान्ये वा बिलेशयाः । (६७.१)
धावन्ति शलभा मत्ताः सद्योवृष्टिर्भवेद् ध्रुवम् ॥ (६७.२)

कुर्वन्ति बालका मार्गे धूलिभिः सेतुबन्धनम् । (६८.१)
मयूराश्चैव नृत्यन्ति सद्योवृष्टिर्भवेद् ध्रुवम् ॥ (६८.२)

आघातवातदुष्टानां नृणामङ्गे व्यथा यदि । (६९.१)
वृक्षाग्रारोहणं चाहेः सद्योवर्षणलक्षणम् ॥ (६९.२)

पक्षयोः शोषणं रौद्रे खगानामम्बुचारिणाम् । (७०.१)
झिञ्झीरवस् तथाकाशे सद्यो वर्षणलक्षणम् ॥ (७०.२)

अथ ग्रहसंचारे वृष्टिज्ञानम् । (७१.१)

चलत्यङ्गारके वृष्टिर्ध्रुवा वृष्टिः शनैश्चरे । (७१.२)
वारिपूर्णां महीं कृत्वा पश्चात् संचरते गुप्तः ॥ (७१.३)

ग्रहाणामुदये चास्ते तथा वक्रातिचारयोः । (७२.१)
प्रायो वर्षन्ति हि घना नृपाणामुद्यमेषु च ॥ (७२.२)

चित्रामध्यगते जीवे भिन्नभाण्डमिव स्रवेत् । (७३.१)
ततः स्वातिं समासाद्य महामेघान् विमुञ्चति ॥ (७३.२)

पुष्येणोपचितान् मेघान् स्वातिरेका व्यपोहति । (७४.१)
श्रवणे जनितं वर्षं रेवत्येका विमुञ्चति ॥ (७४.२)

अथानावृष्टिलक्षणम् । (७५.१)
ध्रुवे च वैष्णवे हस्ते मूले शक्रे चरन् कुजः । (७५.२)
सद्यः करोत्यनावृष्टिं कृत्तिकासु मघासु च ॥ (७५.३)

कुजपृष्ठगतो भानुः समुद्रमपि शोषयेत् । (७६.१)
स एव विपरीतस्तु पर्वतानपि प्लावयेत् ॥ (७६.२)

सद्यो निकृन्तयेद्वृष्टिं चित्रामध्यगतो भृगुः । (७७.१)
अङ्गारको यदा सिंहे तदाङ्गारमयी मही ॥ (७७.२)

स एव रविणा युक्तः समुद्रमपि शोषयेत् ॥ (७८.१)

अथ कृष्यवेक्षणम् । (७९.१)

प्हलत्यवेक्षिता स्वर्णं दैन्यं सैवानवेक्षिता । (७९.२)
कृषिः कृषिपुराणज्ञ इत्युवाच पराशरः ॥ (७९.३)

अथ चान्ये मुनयः । (८०.१)

पितुरन्तःपुरं दद्यान्मातुर्दद्यान्महानसम् । (८०.२)
गोषु चात्मसमं दद्यात् स्वयमेव कृषिं व्रजेत् ॥ (८०.३)

कृषिगावो वणिग्विद्याः स्त्रियो राजकुलानि च । (८१.१)
क्षणेनैकेन सीदन्ति मुहूर्तमनवेक्षणात् ॥ (८१.२)

समर्थेन कृषिः कार्या लोकानां हितकाम्यया । (८२.१)
असमर्थो हि कृषको भिक्षां प्राप्नोति मानवः ॥ (८२.२)

गोहितः क्षेत्रगामी च कालज्ञो बीजतत्परः । (८३.१)
वितन्द्रः सर्वशस्याढ्यः कृषको नावसीदति ॥ (८३.२)

अथ वाहनविधानम् । (८४.१)

कृषिं च तादृशीं कुर्याद्यथा वाहान्न पीडयेत् । (८४.२)
वाहपीडार्जितं शस्यं गर्हितं सर्वकर्मसु ॥ (८४.३)

वाहपीडार्जितं शस्यं प्हलितं च चतुर्गुणम् । (८५.१)
वाहनिःश्वासवातेन तद्द्रुतं च विनश्यति ॥ (८५.२)

गुडकैर्यवसैर्धूमैस्तथान्यैरपि पोषणैः । (८६.१)
वाहाः क्वचिन्न सीदन्ति सायं प्रातश्च चारणात् ॥ (८६.२)

गोशाला सुदृढा यस्य शुचिर्गोमयवर्जिता । (८७.१)
तस्य वाहा विवर्धन्ते पोषणैरपि वर्जिताः ॥ (८७.२)

गोशकृन्मूत्रलिप्ताङ्गा वाहा यत्र दिने दिने । (८८.१)
निःसरन्ति गवां स्थानात् तत्र किं पोषणादिभिः ॥ (८८.२)

पञ्चपदा तु गोशाला गवां वृद्धिकरी स्मृता । (८९.१)
सिंहगेहे कृता सैव गोनाशं कुरुते ध्रुवम् ॥ (८९.२)

कांस्यं कांस्योदकं चैव तप्तमण्डं झषोदकम् । (९०.१)
कार्पासशोधनं चैव गोस्थाने गोविनाशकृत् ॥ (९०.२)

संमार्जनीं च मुसलमुच्छिष्टं गोनिकेतने । (९१.१)
कृत्वा गोनाशमाप्नोति तत्राजबन्धनाद् ध्रुवम् ॥ (९१.२)

गोमूत्रजालकेनैव यत्रावस्करमोचनम् । (९२.१)
कुर्वन्ति गृहमेधिन्यस्तत्र का वाहवासना ॥ (९२.२)

विलब्धिं गोमयस्यापि रविभौमशनेर्दिने । (९३.१)
न कारयेद् भ्रमेणापि गोवृद्धिं यदि वाञ्छति ॥ (९३.२)

वारत्रयं परित्यज्य दद्यादन्येषु गोमयम् । (९४.१)
शनिभौमार्कवारेषु गवां हानिकरः स्मृतः ॥ (९४.२)

सन्ध्यायां तु गवां स्थाने दीपो यत्र न दीयते । (९५.१)
स्थानं ततकमलाहीनं वीक्ष्य क्रन्दन्ति गोगणाः ॥ (९५.२)

हलमष्टगवं प्रोक्तं षड्गवं व्यवहारिकम् । (९६.१)
चतुर्गवं नृशंसनां द्विगवं तु गवाशिनाम् ॥ (९६.२)

नित्यं दशहले लक्ष्मीर्नित्यं पञ्चहले धनम् । (९७.१)
नित्यं तु त्रिहले भक्तं नित्यमेकहले ऋणम् ॥ (९७.२)

आत्मपोषणमात्रं तु द्विहलेन च सर्वदा । (९८.१)
पितृदेवातिथीनां च नान्नदाने भवेत् क्षमः ॥ (९८.२)

अथ गोपर्वकथनम् । (९९.१)

गोपूजां कार्तिके कुर्याल्लगुडप्रतिपत्तिथौ । (९९.२)
बद्ध्वा श्यामलतां शृङ्गे लिप्त्वा तैलहरिद्रया ॥ (९९.३)

कुङ्कुमैश्चन्दनैश्चापि कृत्वा चाङ्गे विलेपनम् । (१००.१)
उद्यम्य लगुडं हस्ते गोपालाः कृतभूषणाः ॥ (१००.२)

ततो वाद्यैश्च गीतैश्च मण्डयित्वाम्बरादिभिः । (१०१.१)
भ्रामयेयुर्वृषं मुख्यं ग्रामे गोविघ्नशान्तये ॥ (१०१.२)

गवामङ्गे ततो दद्यात् कार्तिकप्रथमे दिने । (१०२.१)
तैलं हरिद्रया युक्तं मिलित्वा कृषकैः सह ॥ (१०२.२)

तप्तलौहं दिने तस्मिन् गवामङ्गेषु दापयेत् । (१०३.१)
छेदनं च प्रकुर्वीत लाङ्गूलकचकर्णयोः ॥ (१०३.२)

सर्वा गोजातयः सुस्था भवन्त्येतेन तद्गृहे । (१०४.१)
नानाव्याधिविनिर्मुक्ता वर्षमेकं न संशयः ॥ (१०४.२)

अथ गोयात्राप्रवेशौ । (१०५.१)

पूर्वात्रयं धनिष्ठा च इन्द्राग्निसौम्यवारुणाः । (१०५.२)
एते शुभप्रदा नित्यं गवां यात्राप्रवेशयोः ॥ (१०५.३)

त्रिषूत्तरेषु रोहिण्यां सिनीवाली चतुर्दशी । (१०६.१)
पुष्यश्रवणहस्तेषु चित्रायामष्टमीषु च ॥ (१०६.२)

गवां यात्रां न कुर्वीत प्रस्थानं वा प्रवेशनम् । (१०७.१)
पशवस्तस्य नश्यन्ति ये चान्ये तृणचारिणः ॥ (१०७.२)

अर्कार्किकुजवारेषु गवां यात्राप्रवेशयोः । (१०८.१)
गमने गोविनाशः स्यात् प्रवेशे गृहिणो वधः ॥ (१०८.२)

अथ गोमयकूटोद्धारः । (१०९.१)

माघे गोमयकूटं तु सम्पूज्य श्रद्धयान्वितः । (१०९.२)
शोभने दिवसे ऋक्षे कुद्दालैस्तोलयेत्ततः ॥ (१०९.३)

रौद्रे संशोष्य तत् सर्वं कृत्वा गुण्डकरूपिणम् । (११०.१)
प्हाल्गुने प्रतिकेदारे सारं गर्ते निधापयेत् ॥ (११०.२)

ततो वपनकाले तु कुर्यात् सारविमोचनम् । (१११.१)
विना सारेण यद्धान्यं वर्धते प्हलवर्जितम् ॥ (१११.२)

अथ हलसामग्रीकथनम् । (११२.१)

ईषायुगहलस्थाणुर्निर्योलस्तस्य पाशिकाः । (११२.२)
अड्डचल्लश्च शौलश्च पच्चनी च हलाष्टकम् ॥ (११२.३)

पञ्चहस्ता भवेदीषा स्थाणुः पञ्चवितस्तिकः । (११३.१)
सार्धहस्तस्तु निर्योलो युगं कर्णसमानकम् ॥ (११३.२)

निर्योलः पाशिका चैव अड्डचल्लस्तथैव च । (११४.१)
द्वादशाङ्गुलमानौ तौ शौलो रत्निप्रमाणकः ॥ (११४.२)

सार्धद्वादशमुष्टिर्वा कार्या वा नवमुष्टिका । (११५.१)
दृढा पच्चनिका ज्ञेया लौहाभा वंशसंभवा ॥ (११५.२)

आबद्धो मण्डलाकारश्चतुःपञ्चाशदङ्गुलः । (११६.१)
योत्रं हस्तचतुष्कं स्यात् रज्जुः पञ्चकरात्मिका ॥ (११६.२)

पञ्चाङ्गुल्यधिको हस्तो हस्तो वा प्हालकः स्मृतः । (११७.१)
अर्कस्य पत्रसदृशी कालिका तु नवाङ्गुला ॥ (११७.२)

एकविंशतिशल्यस्तु विद्धकः परिकीर्तितः । (११८.१)
नवहस्ता तु मदिका प्रशस्ता सर्वकर्मसु ॥ (११८.२)

इयं हि हलसामग्री पराशरमुनेर्मता । (११९.१)
सुदृढा कृषकैः कार्या शुभदा सर्वकर्मसु ॥ (११९.२)

अदृढायुक्तमाना या सामग्री वाहनस्य च । (१२०.१)
विघ्नं पदे पदे कुर्यात् कर्षकाले न संशयः ॥ (१२०.२)

अथ हलप्रसारणम् । (१२१.१)

अनिलोत्तररोहिण्यां मृगमूलपुनर्वसौ । (१२१.२)
पुष्यश्रवणहस्तासु कुर्याद्धलप्रसारणम् ॥ (१२१.३)

हलप्रसारणं कार्यं कृषकैः शस्यवृद्धये । (१२२.१)
शुक्रेन्दुजीवारेषु शशिजस्य विशेषतः ॥ (१२२.२)

भौमार्कदिवसे चैव तथा च शनिवासरे । (१२३.१)
कृषिकर्मसमारम्भे राज्योपद्रवमादिशेत् ॥ (१२३.२)

दशम्येकादशी चैव द्वितीया पञ्चमी तथा । (१२४.१)
त्रयोदशी तृतीया च सप्तमी च शुभावहा ॥ (१२४.२)

शस्यक्षयः प्रतिपदि द्वादश्यां बधबन्धनम् । (१२५.१)
बहुविघ्नकरी षष्ठी कुहूः कर्षकनाशिनी ॥ (१२५.२)

हन्त्यष्टमी बलीवर्दान् नवमी शस्यघातिनी । (१२६.१)
चतुर्थी कीटजननी पतिं हन्ति चतुर्दशी ॥ (१२६.२)

वृषे मीने च कन्यायां युग्मे धनुषि वृश्चिके । (१२७.१)
एतेषु शुभलग्नेषु कुर्याद्धलप्रसारणम् ॥ (१२७.२)

मेषलग्ने पशुं हन्यात् कर्कटे जलजाद्भयम् । (१२८.१)
सिंहे सर्पभयं चैव कुम्भे चौरभयं तथा ॥ (१२८.२)

मकरे शस्यनाशः स्यात्तुलायां प्राणसंशयः । (१२९.१)
तस्माल्लग्नं प्रयत्नेन कृष्यारम्भे विचारयेत् ॥ (१२९.२)

शुभे ऽर्के चन्द्रसंयुक्ते शुक्लयुग्मेन वाससा । (१३०.१)
स्नात्वा गन्धैश्च पुष्पैश्च पूजयित्वा यथाविधि ॥ (१३०.२)

पृथिवीं ग्रहसंयुक्तां पृथुं चैव प्रजापतिम् । (१३१.१)
अग्नेः प्रदक्षिणं कृत्वा भूरि दत्त्वा च दक्षिणाम् ॥ (१३१.२)

प्हालाग्रं स्वर्णसंयुक्तं कृत्वा च मधुलेपनम् । (१३२.१)
अहेः क्रोडे वामपार्श्वे कुर्याद्धलप्रसारणम् ॥ (१३२.२)

स्मर्तव्यो वासवः शुक्रः पृथुरामः पराशरः । (१३३.१)
सम्पूज्याग्निं द्विजं देवं कुर्याद्धलप्रसारणम् ॥ (१३३.२)

कृष्णौ वृषौ हलश्लाघ्यौ रक्तौ वा कृष्णलोहितौ । (१३४.१)
मुखपार्श्वौ तयोर्लेप्यौ नवनीतैर्घृतेन वा ॥ (१३४.२)

उत्तराभिमुखो भूत्वा क्षीरेणार्घ्यं निवेदयेत् । (१३५.१)
शुक्लपुष्पसमायुक्तं दधिक्षीरसमन्वितम् ॥ (१३५.२)

सुवृष्टिं कुरु देवेश गृहाणार्घ्यं शचीपते ॥ (१३६.१)
निविष्टो विष्टरे भक्तः संस्थाप्य जानुनी क्षितौ । (१३७.१)
प्रणमेद् वासवं देवं मन्त्रेणानेन कर्षकः ॥ (१३७.२)

निर्विघ्नां शस्यसम्पत्तिं कुरु देव नमो ऽस्तु ते ॥ (१३८.१)
ततो दद्याच्च नैवेद्यं घृतपूर्णं प्रदीपकम् । (१३९.१)
शस्यसम्पत्तये वश्यं सघनाय मरुत्वते ॥ (१३९.२)

वसुधे हेमगर्भासि शेषस्योपरिशायिनी । (१४०.१)
चराचरधृते देवि देहि मे वाञ्छितं प्हलम् ॥ (१४०.२)

वृषो व्यथैकटिर् वर्ज्यश् छिन्नलाङ्गूलकर्णकः । (१४१.१)
सर्वशुक्लस्तथा वर्ज्यः कृषकैर्हलकर्मणि ॥ (१४१.२)

छिन्नरेखा न कर्तव्या यथा प्राह पराशरः । (१४२.१)
एका तिस्रस्तथा पञ्च हलरेखाः प्रकीर्तिताः ॥ (१४२.२)

एका जयकरी रेखा तृतीया चार्थसिद्धिदा । (१४३.१)
पञ्चसंख्या तु या रेखा बहुशस्यप्रदायिनी ॥ (१४३.२)

हलं प्रवहमाणं तु कूर्ममुत्पाटयेद्यदि । (१४४.१)
गृहिणी म्रियते तस्य तथा चाग्निभयं भवेत् ॥ (१४४.२)

प्हालोत्पाटे च भग्ने च देशत्यागो भवेद्ध्रुवम् । (१४५.१)
लाङ्गलं भिद्यते वापि प्रभुस्तत्र विनश्यति ॥ (१४५.२)

ईषाभङ्गो भवेद्वापि कृषकप्राणनाशकः । (१४६.१)
भ्रातृनाशो युगे भग्ने शौले च म्रियते सुतः ॥ (१४६.२)

योधच्छेदे तु रोगः स्यात् सस्यहानिश्च जायते । (१४७.१)
निपाते कर्षकस्यापि कष्टं स्याद्राजमन्दिरे ॥ (१४७.२)

हलप्रवाहकाले तु गौरेकः प्रपतेद्यदि । (१४८.१)
ज्वरातिसाररोगेण मानुषो म्रियते ध्रुवम् ॥ (१४८.२)

हले प्रवाहमाणे तु वृषो धावन् यदा व्रजेत् । (१४९.१)
कृषिभङ्गो भवेत्तस्य पीडा वापि शरीरजा ॥ (१४९.२)

हलप्रवाहमात्रं तु गौरेको नर्दते यदा । (१५०.१)
नासालीढां प्रकुर्वीत तदा शस्यं चतुर्गुणम् ॥ (१५०.२)

हले प्रवाहमाणे तु शकृन्मूत्रं भवेद् यदा । (१५१.१)
शस्यवृद्धिः शकृत्पाते मूत्रे वन्या प्रजायते ॥ (१५१.२)

हलप्रसारणं येन न कृतं मृगकुम्भयोः । (१५२.१)
कुतस्तस्य कृषाणस्य प्हलाशा कृषिकर्मणि ॥ (१५२.२)

हलप्रसारणं नैव कृत्वा यः कर्षणं चरेत् । (१५३.१)
केवलं बलदर्पेण स करोति कृषिं वृथा ॥ (१५३.२)

मृत् सुवर्णसमा माघे कुम्भे रजतसन्निभा । (१५४.१)
चैत्रे ताम्रसमा प्रोक्ता धान्यतुल्या तु माधवे ॥ (१५४.२)

ज्यैष्ठे तु मृत्समा ज्ञेया आषाढे कर्दमान्विता । (१५५.१)
निष्प्हला कर्कटे चैव हलैरुत्पाटिता तु या ॥ (१५५.२)

तथा च पराशरः । (१५६.१)
हेमन्ते कृष्यते हेम वसन्ते ताम्ररूप्यकम् । (१५६.२)
धान्यं निदाघकाले तु दारिद्र्यं तु घनागमे ॥ (१५६.३)

अथ बीजस्थापनविधिः । (१५७.१)

माघे वा प्हाल्गुने मासि सर्वबीजानि संहरेत् । (१५७.२)
शोषयेदातपे सम्यक् नैवाधो विनिधापयेत् ॥ (१५७.३)

बीजस्य पुटिकां कृत्वा विधान्यं तत्र शोधयेत् । (१५८.१)
बीजं विधान्यसंमिश्रं प्हलहानिकरं परम् ॥ (१५८.२)

एकरूपं तु यद्बीजं प्हलं प्हलति निर्भरम् । (१५९.१)
एकरूपं प्रयत्नेन तस्माद्बीजं समाचरेत् ॥ (१५९.२)

सुदृढं पुटकं कृत्वा तृणं छिन्द्याद् विनिर्गतम् । (१६०.१)
अच्छिन्नतृणके ह्यस्मिन् कृषिः स्यात् तृणपूरिता ॥ (१६०.२)

न वल्मीके न गोस्थाने न प्रसूतानिकेतने । (१६१.१)
न च वन्ध्यावति गेहे बीजस्थापनमाचरेत् ॥ (१६१.२)

नोच्छिष्टं स्पर्शयेद्बीजं न च नारीं रजस्वलाम् । (१६२.१)
न बन्ध्या गर्भिणी चैव न च सद्यःप्रसूतिका ॥ (१६२.२)

घृतं तैलं च तक्रं च प्रदीपं लवणं तथा । (१६३.१)
बीजोपरि भ्रमेणापि कृषको नैव कारयेत् ॥ (१६३.२)

तथा च गार्ग्यः । (१६४.१)
दीपाग्निधूमसंस्पृष्टं वृष्ट्या चोपहतं च यत् । (१६४.२)
वर्जनीयं सदा बीजं यद्गर्तेषु पिधापितम् ॥ (१६४.३)

प्रोथितं मिश्रितं बीजं भ्रान्त्या न निर्वपेत् क्वचित् । (१६५.१)
विधान्यं गुडकोन्मिश्रं तद्बीजं वन्ध्यतां व्रजेत् ॥ (१६५.२)

कृषाणसारकेदारनृपनीरदसञ्चयाः । (१६६.१)
सर्वे ते वन्ध्यतां यान्ति बीजे वन्ध्यत्वम् आगते ॥ (१६६.२)

तिलधान्ययवानां च विधिरेष प्रकीर्तितः । (१६७.१)
बीजे यत्नमतः कुर्याद् बीजमूलाः प्हलश्रियः ॥ (१६७.२)

अथ बीजवपनविधिः । (१६८.१)

वैशाखे वपनं श्रेष्ठं ज्यैष्ठे तु मध्यमं स्मृतम् । (१६८.२)
आषाढे चाधमं प्रोक्तं श्रावणे चाधमाधमम् ॥ (१६८.३)

रोपणार्थं तु बीजानां शुचौ वपनमुत्तमम् । (१६९.१)
श्रावणे चाधमं प्रोक्तं भाद्रे चैवाधमाधमम् ॥ (१६९.२)

उत्तरात्रयमूलेन्द्रमैत्रपैत्रेन्दुधातृषु । (१७०.१)
हस्तायाम् अथ रेवत्यां बीजवपनमुत्तमम् ॥ (१७०.२)

विष्णुपूर्वाविशाखासु याम्यरौद्रानिलाहिषु । (१७१.१)
बीजस्य वपनं कृत्वा बीजमाप्नोति मानवः ॥ (१७१.२)

वपने रोपणे चैव वारयुग्मं विवर्जयेत् । (१७२.१)
मूषिकाणां भयं भौमे मन्दे शलभकीटयोः ॥ (१७२.२)

न वापयेत्तिथौ रिक्ते क्षीणे सोमे विशेषतः । (१७३.१)
एवं सम्यक् प्रयुञ्जानः शस्यवृद्धिमवाप्नुयात् ॥ (१७३.२)

ज्यैष्ठान्ते त्रिदिनं सार्धम् आषाढादौ तथैव च । (१७४.१)
वपनं सर्वशस्यानां प्हलार्थी कृषकस्त्यजेत् ॥ (१७४.२)

वृषान्ते मिथुनादौ च त्रीण्यहानि रजस्वला । (१७५.१)
बीजं न वापयेत्तत्र जनः पापाद् विनश्यति ॥ (१७५.२)

तथा च । (१७६.१)
मृगशिरसि निवृत्ते रौद्रपादे ऽम्बुवाची भवति ऋतुमती क्ष्मा वर्जयेत्त्रीण्यहानि । (१७६.२)
यदि वपति कृषाणः क्षेत्रमासाद्य बीजं न भवति प्हलभागी दारुणश्चात्र कालः ॥ (१७६.३)

हिमवारिनिषिक्तस्य बीजस्य तन्मनाः शुचिः । (१७७.१)
इन्द्रं चित्ते समाधाय स्वयं मुष्टित्रयं वपेत् ॥ (१७७.२)

कृत्वा धान्यस्य पुण्याहं कृषको हृष्टमानसः । (१७८.१)
प्राङ्मुखः कलसं धृत्वा पठेन्मन्त्रमनुत्तमम् ॥ (१७८.२)

वसुन्धरे महाभागे बहुशस्यप्हलप्रदे । (१७९.१)
देवराज्ञि नमो ऽस्तु ते शुभगे शस्यकारिणि ॥ (१७९.२)

रोहन्तु सर्वशस्यानि काले देवः प्रवर्षतु । (१८०.१)
सुस्था भवन्तु कृषका धनधान्यसमृद्धिभिः ॥ (१८०.२)

कृत्वा तु वपनं क्षेत्रे कृषकान् घृतपायसैः । (१८१.१)
भोजयित्वा सुभोज्येन निर्विघ्ना जायते कृषिः ॥ (१८१.२)

अथ मयिकादानम् । (१८२.१)

बीजस्य वपनं कृत्वा मयिकां तत्र दापयेत् । (१८२.२)
तदभावेन बीजानां समजन्म न जायते ॥ (१८२.३)

अथ रोपणविधिः । (१८३.१)

वपनं रोपणं चैव बीजं स्यादुभयात्मकम् । (१८३.२)
वपनं रोगनिर्मुक्तं रोपणं सगदं सदा ॥ (१८३.३)

न वृक्षरूपं धान्यानां बीजाकर्षणमाचरेत् । (१८४.१)
न प्हलन्ति दृढाः सर्वे बीजाः केदारसंस्थिताः ॥ (१८४.२)

हस्तान्तरं कर्कटे च सिंहे हस्तार्द्धमेव च । (१८५.१)
रोपणं सर्वशस्यानां कन्यायां चतुरङ्गुलम् ॥ (१८५.२)

अथ धान्यकट्टनविधिः । (१८६.१)

आषाढे श्रावणे मासि धान्यम् आकट्टयेद् बुधः । (१८६.२)
अनाकट्टं तु यद्धान्यं यथा बीजं तथैव हि ॥ (१८६.३)

कर्कटे कट्टयेद् धान्यम् अवृष्टौ कृषितत्परः । (१८७.१)
भाद्रे चार्द्धप्हलप्राप्तिः प्हलाशा नैव चाश्विने ॥ (१८७.२)

न निम्नभूमौ धान्यस्य कुर्यात् कट्टनरोपणे । (१८८.१)
न च सारप्रदानं तु तृणमात्रं तु शोधयेत् ॥ (१८८.२)

अथ धान्यनिस्तृणीकरणम् । (१८९.१)

निष्पन्नमपि यद्धान्यं न कृतं तृणवर्जितम् । (१८९.२)
न सम्यक् प्हलमाप्नोति तृणक्षीणा कृषिर्भवेत् ॥ (१८९.३)

कुलीरभाद्रयोर्मध्ये यद्धान्यं निस्तृणं भवेत् । (१९०.१)
तृणैरपि तु सम्पूर्णं तद्धान्यं द्विगुणं भवेत् ॥ (१९०.२)

द्विवारं आश्विने मासि कृत्वा धान्यं तु निस्तृणम् । (१९१.१)
अथ पाकविहीनं हि धान्यं प्हलति माषवत् ॥ (१९१.२)

तस्मात् सर्वप्रयत्नेन निस्तृणां कारयेत् कृषिम् । (१९२.१)
निस्तृणा हि कृषाणानां कृषिः कामदुघा भवेत् ॥ (१९२.२)

अथ भाद्रजलमोक्षणम् । (१९३.१)

नैरुज्यार्थं हि धान्यानां जलं भाद्रे विमोचयेत् । (१९३.२)
मूलमात्रार्पितं तत्र कारयेज्जलरक्षणम् ॥ (१९३.३)

भाद्रे च जलसम्पूर्णं धान्यं विविधबाधकैः । (१९४.१)
प्रपीडितं कृषाणानां न दत्ते प्हलमुत्तमम् ॥ (१९४.२)

अथ धान्यव्याधिखण्डनमन्त्रः । (१९५.१)

ॐ सिद्धिः श्रीगुरुपादेभ्यो नमः । (१९५.२)
स्वस्ति हिमगिरिशिखरशङ्खकुन्देन्दुधवलशिलातटात् नन्दनवनसमायतनात् परमेश्वरपरमभट्टारकमहाराजाधिराजश्रीमद्रामपादा विजयिनः समुद्रतटे अनेकशतसहस्रवानरगणमध्ये खरनखरचरणोर्ध्वलांगूलं पवनसुतं वातवेगं परचक्रप्रमथनं श्रीमद्धनूमन्तम् आज्ञापयान्त कुशलमन्यस्य अमुकगोत्रस्य श्रीअमुकस्य क्षेत्रखण्डमध्ये वाता भान्ती शाङ्खीगान्धीपाण्डरमुण्डीधूलीशृङ्गारीकुमारीमडकादयः । (१९५.३)
अजाचटकशुकशूकरमृगमहिषवराहपतङ्गादयश्च सर्वे शस्योपघातिनो यदि त्वदीयवचनेन तत् क्षेत्रं न त्यजन्ति तदा तान् वज्रलांगूलेन ताडयिष्यसीति ॐ घः लिखित्वालक्तकेनापि मन्त्रं शस्येषु बन्धयेत् । (१९५.४)
न व्याधिकीटहिंस्राणां भयं तत्र भवेत् क्वचित् ॥ (१९५.५)

अथ जलरक्षणम् । (१९६.१)

आश्विने कार्तिके चैव धान्यस्य जलरक्षणम् । (१९६.२)
न कृतं येन मूर्खेन तस्य का शस्यवासना ॥ (१९६.३)

यथा कुलार्थी कुरुते कुलस्त्रीपरिरक्षणम् । (१९७.१)
तथा संरक्षयेद् वारि शरत्काले समागते ॥ (१९७.२)

अथ कार्तिकसंक्रान्त्यां क्षेत्रे च रोपयेन्नलम् । (१९८.१)

केदारेशानकोणे च सपत्रं कृषकः शुचिः ॥ (१९८.२)

ततो गन्धैश्च माल्यैश्च धूपैश्च सुमनोहरैः । (१९९.१)
पूजयित्वा नलं तत्र पूजयेद्धान्यवृक्षकान् ॥ (१९९.२)

दधि भक्तं च नैवेद्यं पायसं च विशेषतः । (२००.१)
ततो दद्यात् प्रयत्नेन तालास्थिशस्यमेव च ॥ (२००.२)

तदर्थमन्त्रः । (२०१.१)
बालकास्तरुणा वृद्धा ये चान्ये धान्यवृक्षकाः । (२०१.२)
ज्येष्ठा वापि कनिष्ठा वा सगदा निर्गदाश्च ये ॥ (२०१.३)

आज्ञया हि सुषेणस्य राघवस्य पृथोरपि । (२०२.१)
ताडिता नलदण्डेन सर्वे स्युः समपुष्पिताः ॥ (२०२.२)

समपुष्पत्वमासाद्य शीघ्रं प्हलन्तु निर्भरम् । (२०३.१)
सुस्था भवन्तु कृषका धनधान्यसमन्विताः ॥ (२०३.२)

प्रोपयित्वा नलं क्षेत्रे मन्त्रेणानेन च क्रमात् । (२०४.१)
धान्यवृद्धिं परां प्राप्य नन्दन्ति कृषका जनाः ॥ (२०४.२)

नलं तु घटसंक्रान्त्यां क्षेत्रे नारोपयन्ति ये । (२०५.१)
असमा वन्ध्यपुष्पाश्च तेषां स्युर्धान्यजातयः ॥ (२०५.२)

अथ मार्गे मुष्टिग्रहणम् । (२०६.१)

ततो मार्गे तु सम्प्राप्ते केदारे शुभवासरे । (२०६.२)
धान्यस्य लवनं कुर्यात् सार्धमुष्टिद्वयं शुचिः ॥ (२०६.३)

गन्धैः पुष्पैश्च नैवेद्यैर्धूपैश्च धान्यवृक्षकान् । (२०७.१)
पूजयित्वा यथान्यायमीशाने लवनं चरेत् ॥ (२०७.२)

ततस्तन्मस्तके कृत्वा सम्मुखं शीर्षकान्वितम् । (२०८.१)
स्पृष्ट्वा न किमपि क्वापि व्रजेन्मौनेन मन्दिरम् ॥ (२०८.२)

सप्तपद्यां ततः पादं दत्त्वा मुख्यनिकेतने । (२०९.१)
प्रविश्य स्थापयेत्तत्र पूर्वभागे सुपूजितम् ॥ (२०९.२)

न मुष्टिग्रहणं कुर्यात् कदाचिद् धटपौषयोः । (२१०.१)
श्रेष्ठो मुष्टिग्रहो मार्गे धनधान्यप्हलप्रदः ॥ (२१०.२)

सार्धमुष्टिद्वयं मार्गे यो ऽछित्त्वा लवनं चरेत् । (२११.१)
पदे पदे विप्हलता तस्य धान्यं कुतो गृहे ॥ (२११.२)

रौद्रे माघे तथा सौम्ये पुष्ये हस्तानिलोत्तरे । (२१२.१)
धान्यच्छेदं प्रशंसन्ति मूले श्रवणवासरे ॥ (२१२.२)

व्यतीपाते च भाद्रे च रिक्तायां वैधृतौ तथा । (२१३.१)
भौमार्किबुधवारेषु मुष्टिसंग्रहणं त्यजेत् ॥ (२१३.२)

अथ मार्गे मेधिरोपणम् । (२१४.१)

कृत्वा तु खननं मार्गे समं गोमयलेपितम् । (२१४.२)
आरोपणीयो यत्नेन तत्र मेधिः शुभे ऽहनि ॥ (२१४.३)

स्त्रीनाम्ना कर्षकैः कार्यो मेधिर् वृश्चिकभास्करे । (२१५.१)
मेधेर् गुणेन कृषकः शस्यवृद्धिमवाप्नुयात् ॥ (२१५.२)

न्यग्रोधः सप्तपर्णश्च गम्भारी शाल्मली तथा । (२१६.१)
औदुम्बरी विशेषेण अन्या वा क्षीरवाहिनी ॥ (२१६.२)

वटादीनामभावे तु कार्या स्त्रीनामधारिका । (२१७.१)
वैजयन्तीसमायुक्तो निम्बसर्षपरक्षितः ॥ (२१७.२)

धान्यकेशरसंयुक्तस्तृणकर्कटकान्वितः । (२१८.१)
अर्चितो गन्धपुष्पाभ्यां मेधिः शस्यसुखप्रदः ॥ (२१८.२)

पौषे मेधिर् न चारोप्यः क्रूराहे श्रवणे तथा । (२१९.१)
शस्यवृद्धिकरो मार्गे पौषे शस्यक्षयप्रदः ॥ (२१९.२)

कपित्थबिल्ववंशानां तृणराजस्य चैव हि । (२२०.१)
मेधिः कार्यो नरैर्नैव यदीच्छेदात्मनः शुभम् ॥ (२२०.२)

अथ पौषे पुष्ययात्राकथनम् । (२२१.१)

अखण्डिते ततो धान्ये पौषे मासि शुभे दिने । (२२१.२)
पुष्ययात्रां जनाः कुर्युरन्योन्यं क्षेत्रसन्निधौ ॥ (२२१.३)

परमान्नं च तत्रैव व्यञ्जनैर्मत्स्यमांसकैः । (२२२.१)
निरामिषैस्तथा दिव्यैः सहिङ्गुमरीचान्वितैः ॥ (२२२.२)

दधिभिश्च तथा दुग्धैराज्यपायसपानकैः । (२२३.१)
नानाप्हलैश्च मूलैश्च मिष्टपिष्टकविस्तरैः ॥ (२२३.२)

एभिः सुढौकितं कृत्वा तदन्नं कदलीदले । (२२४.१)
भोजयेयुः जनाः सर्वे यथावृद्धपुरःसराः ॥ (२२४.२)

आचम्य च ततस्तत्र चन्दनैश्च चतुःसमैः । (२२५.१)
अन्योन्यं लेपनं कुर्युस्तैलैः पक्वैः सुगन्धिभिः ॥ (२२५.२)

कर्पूरवासितं दिव्यं ताम्बूलं गन्धपूरितम् । (२२६.१)
भक्षयेयुस्ततो ऽन्योन्यं परिधाय नवाम्बरम् ॥ (२२६.२)

पुष्पैराभरणं कृत्वा नमस्कृत्य शचीपतिम् । (२२७.१)
गीतैर्नृत्यैश्च वाद्यैश्च कुर्युस्तत्र महोत्सवम् ॥ (२२७.२)

ततश्च हर्षिताः सर्वे मन्त्रं श्लोकचतुष्टयम् । (२२८.१)
हस्तसंपुटकं कृत्वा पठेयुर्वीक्ष्य भास्करम् ॥ (२२८.२)

क्षेत्रे चाखण्डितधान्ये पुष्ययात्राप्रभावतः । (२२९.१)
अस्माभिर्मानिता सर्वैः सास्मान् पातु शुभप्रदा ॥ (२२९.२)

कर्मणा मनसा वाचा ये चास्माकं विरोधिनः । (२३०.१)
सर्वे ते प्रशमं यान्तु पुष्ययात्राप्रभावतः ॥ (२३०.२)

धान्यवृद्धिर्यशोवृद्धिः प्रवृद्धिर्दारपुत्रयोः । (२३१.१)
राजसमानवृद्धिश्च गवां वृद्धिस्तथैव च ॥ (२३१.२)

मन्त्रशासनवृद्धिश्च धनवृद्धिरहर्निशम् । (२३२.१)
अस्माकमस्तु सततं यावत् पूर्णो न वत्सरः ॥ (२३२.२)

ततः प्रमुदिताः सर्वे व्रजेयुः स्वनिकेतनम् । (२३३.१)
न भोजनं पुनः कुर्युस्तस्मिन् अहनि ते जनाः ॥ (२३३.२)

हिताय सर्वलोकानां पुष्ययात्रा मनोहरा । (२३४.१)
पुरा पराशरेणेयं कृता सर्वार्थसाधिनी ॥ (२३४.२)

तस्मादियं प्रयत्नेन पुष्ययात्राविधानतः । (२३५.१)
सर्वविघ्नप्रशान्त्यर्थं कार्या शस्यस्य वृद्धये ॥ (२३५.२)

पुष्ययात्रां न कुर्वन्ति ये जना धनगर्विताः । (२३६.१)
न विघ्नोपशमस्तेषां कुतस्तद्वत्सरे सुखम् ॥ (२३६.२)

पौषे मासि ततः कुर्याद्धान्यच्छेदं विचक्षणः । (२३७.१)
मर्दयित्वा यथायोगमाढकेन प्रमापयेत् ॥ (२३७.२)

अथाढकलक्षणम् । (२३८.१)
द्वादशाङ्गुलकैर्मानैराढकः परिकीर्तितः । (२३८.२)
मापनं वामावर्तेन दक्षिणे न कदाचन ॥ (२३८.३)

याम्यावर्तेन धान्यानां मापनं व्ययकारकम् । (२३९.१)
वामावर्तेन सुखदं धान्यवृद्धिकरं परम् ॥ (२३९.२)

श्लेष्मातकाम्रपुन्नागकृतमाढकमुत्तमम् । (२४०.१)
कपित्थपर्कटीनिम्बजनितं दैन्यवर्द्धनम् ॥ (२४०.२)

अथ धान्यस्थापनम् । (२४१.१)

हस्ताहरित्रये पुष्ये रेवत्यां च प्रजापतौ । (२४१.२)
यममूलोत्तरे सौम्ये मघायां च पुनर्वसौ ॥ (२४१.३)

जीवे सौम्ये भृगोर्वारे निधने क्रूरवर्जिते । (२४२.१)
मीनलग्ने शुभे ऋक्षे धान्यस्थापनमुत्तमम् ॥ (२४२.२)

ॐ धनदाथ सर्वलोकहिताय देहि मे धनं स्वाहा । (२४३.१)
ॐ नवधुर्यसहे देवि सर्वकामविवर्धिनि कामरूपिणि सेह मे धनं स्वाहा । (२४३.२)
लिखित्वा तु स्वयं मन्त्रं धान्यागारेषु निक्षिपेत् । (२४३.३)
समृद्धिं च परां कुर्यात् ततो लक्ष्मीं प्रपूजयेत् ॥ (२४३.४)

इति पराशरमुनिविरचितं कृषिपराशरनाम पुस्तकं समाप्तम् ॥ (२४४.१)

"https://sa.wikisource.org/w/index.php?title=कृषिपराशरम्&oldid=91935" इत्यस्माद् प्रतिप्राप्तम्