सामग्री पर जाएँ

कुलार्णवतन्त्रम्

विकिस्रोतः तः
॥ श्रीः ॥
कुलार्णवतन्त्रम्


अथ प्रथमोल्लासः

[सम्पाद्यताम्]

कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।

पप्रच्छेशं परानन्दं पार्वती परमेश्वरम् ॥ १ ॥

श्रीदेव्युवाच

भगवन् देवदेवेश पञ्चक्रतुविधायक ।

सर्वज्ञ भक्तिसुलभ शरणागतवत्सल ॥ २ ॥

कुलेश परमेशान करुणामृतवारिधे ।

असारे घोरसंसारे सर्वदुःखमलीमसाः ॥ ३ ॥

नानाविधशरीरस्था अनन्ता जीवराशयः ।

जायन्ते च मिरयन्ते च तेषां मोक्षो न विद्यते ॥ ४ ॥

सदा दुःखातुरा देव न सुखी विद्यते क्वचित् ।

केनोपायेन देवेश मुच्यते वद मे प्रभो ॥ ५ ॥

श्रीईश्वर उवाच

शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण संसाराद् मुच्यते नरः ॥ ६ ॥

अस्ति देविं परब्रह्मस्वरूपो निष्कलः शिवः ।

सर्वज्ञः सर्वकर्त्ता च सर्वेशो निर्मलोऽद्वयः ॥ ७ ॥

स्वयं ज्योतिरनाद्यन्तो निवीकारः परात् परः ।

निर्गुणः सच्चिदानन्दस्तदंशा जीवसंज्ञकाः ॥ ८ ॥

अनाद्यविद्योपहिता यथाग्नौ विस्फुलिङ्गकाः ।

गर्भाद्युपाधिसंभिन्नाः कर्मभिः करणादिभिः ॥ ९ ॥

सर्वदुःखप्रदैः स्वीयपुण्यपापैनीयन्त्रिताः ।

तत्तज्जातियुतं देहम् आयुर्भोगञ्च कर्मजम् ॥ १० ॥

प्रतिजन्म प्रपद्यन्ते मानुषा मूढचेतसः ।

सूक्ष्मलिङ्गशरीरन्तदामोक्षादक्षयं प्रिये ॥ ११ ॥

स्थावराः क्रिमयश्चाब्जाः पक्षिणः पशवो नराः।

धामीकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥ १२ ॥

चतुवीधशरीराणि धृत्वा धृत्वा सहस्रशः ।

सुकृतान्मानवो भूत्वा ज्ञानी चेन्मोक्षमाप्नुयात् ॥ १३ ॥

चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् ।

न मानुष्यं विना यत्र तत्त्वज्ञानं तु लभ्यते ॥ १४ ॥

अत्र जन्मसहस्रेषु सहस्रैरपि पार्वति ।

कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥ १५ ॥

सोपानभूतं मोक्षस्य मानुष्यं प्राप्य दुर्लभम् ।

यस्तारयति नात्मानं तस्मात् पापतरोऽत्र कः ॥ १६ ॥

ततश्चाप्युत्तमं जन्म लब्ध्वा चेन्द्रियसौष्ठवम् ।

न वेत्त्यात्महितं यस्तु स भवेत् आत्मघातकः ॥ १७ ॥

विना देहेन कस्यापि पुरुषार्थो न विद्यते ।

तस्माद्देहधनं प्राप्य पुण्यकर्माणि साधयेत् ॥ १८ ॥

रक्षेत् सर्वात्मनात्मानम् आत्मा सर्वस्य भाजनम् ।

रक्षणे यत्नमातिष्ठेत् यावत्तत्त्वं न पश्यति ॥ १९ ॥

पुनर्ग्रामाः पुनः क्षेत्रं पुनवीत्तं पुनर्गृहम् ।

पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः ॥ २० ॥

शरीररक्षणायासः क्रियते सर्वदा जनैः ।

नहीच्छन्ति तनुत्यागमपि कुष्ठादिरोगतः ॥ २१ ॥

तद्गोपितं स्याद् यत्नेन धर्मो ज्ञानार्थमेव च ।

ज्ञानञ्च ध्यानयोगार्थं सोऽचिरात् परिमुच्यते ॥ २२ ॥

आत्मैव यदि नात्मानमहितेभ्यो निवारयेत् ।

कोऽन्यो हितकरस्तस्मादात्मानं तारयिष्यति ॥ २३ ॥

इहैव नरकव्याधेश्चिकित्सां न करोति यः ।

गत्वा निरौषधं स्थानं व्याधिस्थः किं करिष्यति ॥ २४ ॥

सुदीप्त भवने को वा कूपं खनति दुर्मतिः ।

यावत्तिष्ठति देहोऽयं तावत्तत्त्वं समभ्यसेत् ॥ २५ ॥

व्याघ्रीवास्ते जरा चायुर्याति भिन्नघटाम्बुवत् ।

निघ्नन्ति रिपुवद्रोगास्तस्माच्छ्रेयः समाचरेत् ॥ २६ ॥

यावन्नाश्रयते दुःखं यावन्नायान्ति चापदः ।

यावन्नेन्द्रियवैकल्यं तावच्छ्रेयः समाचरेत् ॥ २७ ॥

कालो न ज्ञायते नानाकार्यैः संसारसम्भवैः ।

सुखदुःखरतो जन्तुर्न वेत्ति हितमात्मनः ॥ २८ ॥

जडानार्त्तान्मृतानापद्गतान् दृष्ट्वाऽतिदुःखितान् ।

लोको मोहसुरां पीत्वा न विभेति कदाचन ॥ २९ ॥

सम्पदः स्वप्नसङ्काशा यौवनं कुसुमोपमम् ।

तडिच्चञ्चलमायुश्च कस्य स्याज्जगतो धृतिः ॥ ३० ॥

शतं जीवितमत्यल्पं निद्रा स्यादर्द्धहारिणी ।

बाल्यरोगजरादुःखैरर्द्धं तदपि निष्फलम् ॥ ३१ ॥

प्रारब्धव्ये निरुद्योगो जागर्त्तव्ये सुषुप्तकः ।

विश्वस्तव्यो भयस्थाने घातकैः किं न हन्यते ॥ ३२ ॥

तोयफेनसमे देहे जीवे शकुनिवत् स्थिते ।

अनित्येऽप्रियसंसारे कथं तिष्ठन्ति निर्भयाः ॥ ३३ ॥

अहिते हितबुद्धिः स्यादध्रुवे ध्रुवचिन्तकः ।

अनर्थं चार्थविज्ञानी स्वमृत्युं यो न वेत्ति च ॥ ३४ ॥

पश्यन्नपि न पश्येत् स शृण्वन्नपि न बुध्यति ।

पठन्नपि न जानाति तव मायाविमोहितः ॥ ३५ ॥

सन्निमज्जज्जगदिदं गम्भीरे कालसागरे ।

मृत्युरोगजराग्राहे न किञ्चिदपि बुध्यति ॥ ३६ ॥

प्रतिक्षणमयं कायो जीर्यमाणो न लक्ष्यते ।

आमकुम्भ इवाम्भःस्थो विशीर्णो नैव भाव्यते ॥ ३७ ॥

युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् ।

ग्रथनञ्च तरङ्गाणामास्था नायुषि युज्यते ॥ ३८ ॥

पृथिवी दह्यते येन मेरुश्चापि विशीर्यते ।

शुष्यते सागरजलं शरीरे देवि का कथा ॥ ३९ ॥

अपत्यं मे कलत्रं मे धनं मे बान्धवश्च मे ।

लपन्तमिति मर्त्त्यं हि हन्ति कालवृको बलात् ॥ ४० ॥

इदं कृतमिदं कार्यमिदमन्यत् कृताकृतम् ।

एवमीहासमायुक्तं मृत्युरत्ति जनं प्रिये ॥ ४१ ॥

श्वःकार्यमद्य कर्त्तव्यं पूर्वाह्णे चापराह्निकम् ।

न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वा कृतम् ॥ ४२ ॥

जरादशीतपन्थानं प्रचण्डव्याधिसैनिकम् ।

मृत्युशत्रुमभिज्ञोऽसि आयान्तं किं न पश्यसि ॥ ४३ ॥

आशा सूचीविनिभीन्नं सिक्तं विषयसपीषा ।

रागद्वेषानले पक्वं मृत्युरश्नाति मानवम् ॥ ४४ ॥

बालांश्च यौवनस्थांश्च वृद्धान् गर्भगतानपि ।

सर्वांश्च हिंसते मृत्युरेवम्भूतमिदं जगत् ॥ ४५ ॥

ब्रह्माविष्णुमहेशादिदेवता भूतजातयः ।

नाशमेवानुधावन्ति तस्माच्छ्रेयः समाचरेत् ॥ ४६ ॥

स्वस्ववर्णाश्रमाचारलङ्घनाद् दुष्प्रतिग्रहात् ।

परस्त्रीधनलोभाच्च नॄणामायुःक्षयो भवेत् ॥ ४७ ॥

वेदशास्त्राद्यनभ्यासात्तथैव गुर्वनर्चनात् ।

नॄणामायुःक्षयो भूयादिन्द्रियाणामनिग्रहात् ॥ ४८ ॥

व्याधिराधिवीषं शस्त्रं ना सर्पः पशवो मृगाः ।

मरणं येन निद्र्दष्टं तेन गच्छन्ति जन्तवः ॥ ४९ ॥

जीवस्तृणजलौकेव देहाद्देहान्तरं व्रजेत् ।

सम्प्राप्य परमंशेन देहं त्यजति पूर्वजम् ॥ ५० ॥

बाल्ययौवनवृद्धत्वं यथा देहान्तरादिकम् ।

तथा देहान्तरप्राप्तिर्गृहाद्गृहमिवागतः ॥ ५१ ॥

जनाः कृत्वेह कर्माणि सुखदुःखानि भुञ्जते ।

परत्राज्ञानिनो देवि यान्त्यायान्ति पुनः पुनः ॥ ५२ ॥

इह यत् क्रियते कर्म तत् परत्रोपभुज्यते ।

सिक्तमूलस्य वृक्षस्य फलं शाखासु दृश्यते ॥ ५३ ॥

दारिद्र्यदुःखरोगाश्च बन्धनव्यसनानि च ।

आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ॥ ५४ ॥

निःसङ्ग एव मोक्षः स्याद्दोषाः सर्वे च सङ्गजाः ।

तस्मात् सङ्गं परित्यज्य तत्त्वनिष्ठः सुखी भवेत् ।

सङ्गाच्च चलते ज्ञानी चावश्यं किमुताल्पवित् ॥ ५५ ॥

सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते ।

सद्भः सह स कर्त्तव्यः सतां सङ्गो हि भेषजम् ॥ ५६ ॥

सत्सङ्गश्च विवेकश्च निर्मलं नयनद्वयम् ।

यस्य नास्ति नरः सोऽन्धः कथं न स्यादमार्गगः ॥ ५७ ॥

यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् ।

तावन्तोऽस्य विशन्त्येते हृदये शोकशङ्कवः ॥ ५८ ॥

स्वदेहमपि जीवोऽयं त्यक्त्वा याति कुलेश्वरि ।

स्त्रीमातृपितृपुत्रादिसम्बन्धः केन हेतुना ॥ ५९ ॥

दुःखमूलो हि संसारः स यस्यास्ति स दुःखितः।

तस्य त्यागः कृतो येन स सुखी नापरः प्रिये ॥ ६० ॥

प्रभवं सर्वदुःखानामाश्रयं सकलापदाम् ।

आलयं सर्वपापानां संसारं वर्जयेत् प्रिये ॥ ६१ ॥

अबन्धबन्धनं घोरं मिश्रीकृतमहाविषम् ।

अशस्त्रखण्डनं देवि संसारासक्तचेतसाम् ॥ ६२ ॥

आदिमध्यावसानेषु सर्वं दुःखमिदं यतः ।

तस्मात् सन्त्यज्य संसारं तत्त्वनिष्ठः सुखी भवेत् ॥ ६३ ॥

लौहदारुमयैः पाशैर्दृढबन्धोऽपि मुच्यते ।

स्त्रीधनादिषु संसक्तो मुच्यते न कदाचन ॥ ६४ ॥

कुटुम्बचिन्तायुक्तस्य श्रुतशीलादयो गुणाः ।

अपक्वकुम्भजलवत् नश्यन्त्यङ्गेन केवलम् ॥ ६५ ॥

वञ्चिताशेषचित्तैस्तैनीत्यं लोको विनाशितः ।

हा हन्त विषयाहारैर्देहस्थेन्द्रियतस्करैः ॥ ६६ ॥

मांसलुब्धो यथा मत्स्यो लौहशंकुं न पश्यति ।

सुखलुब्धस्तथा देही यमबाधां न पश्यति ॥ ६७ ॥

हिताहितं ना जानन्तो नित्यमुन्मार्गगामिनः ।

कुक्षिपूरणनिष्ठा ये तेऽबुधा नारकाः प्रिये ॥ ६८ ॥

निद्रादिमैथुनाहाराः सर्वेषां प्राणिनां समाः ।

ज्ञानवान् मानवः प्रोक्तो ज्ञानहीनः पशुः प्रिये ॥ ६९ ॥

प्रभाते मलमूत्राभ्यां क्षुत्तृड्भ्यां मध्यगे रवौ ।

रात्रौ मदननिद्राभ्यां बाध्यन्ते मानवाः प्रिये ॥ ७० ॥

स्वदेहधर्मदारादिनिरताः सर्वजन्तवः ।

जायन्ते च मिरयन्ते च हा हन्ताज्ञानमोहिताः ॥ ७१ ॥

स्वस्ववर्णाश्रमाचारनिरताः सर्वमानवाः ।

न जानन्ति परं तत्त्वं मूढा नश्यन्ति पार्वति ॥ ७२ ॥

क्रियायासपराः केचित् क्रतुचर्यादि संयुताः ।

अज्ञानसंयुतात्मानः सञ्चरन्ति प्रतारकाः ॥ ७३ ॥

नाममात्रेण सन्तुष्टाः कर्मकाण्डरता नराः ।

मन्त्रोच्चारणहोमाद्यैर्भ्रामिताः क्रतुविस्तरैः ॥ ७४ ॥

एकभक्तोपवासाद्यैनीयमैः कायशोषणैः ।

मूढः परोक्षमिच्छन्ति तव मायाविमोहिताः ॥ ७५ ॥

देहदण्डनमात्रेण का मुक्तिरविवेकिनाम् ।

वल्मीकताडनाद्देवि मृतः किन्नु महोरगः ॥ ७६ ॥

धनाहारार्जने युक्ता दाम्भिका वेषधारिणः ।

भ्रमन्ति ज्ञानिवल्लोके भ्रामयन्ति जनानपि ॥ ७७ ॥

सांसारिकसुखासक्तं ब्रह्मज्ञोऽस्मीति वादिनम् ।

कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा ॥ ७८ ॥

गृहारण्यसमा लोके गतव्रीडा दिगम्बराः ।

चरन्ति गर्दभाद्याश्च योगिनस्ते भवन्ति किम् ॥ ७९ ॥

मृद्भस्मम्रक्षणाद् देवि मुक्ताः स्युर्यदि मानवाः ।

मृद्भस्मवासिनो ग्राम्याः किं ते मुक्ता भवन्ति हि ॥ ८०॥

तृणपर्णोदकाहाराः सततं वनवासिनः ।

हिरणादिमृगा देवि योगिनस्ते भवन्ति किम् ॥ ८१ ॥

आजन्ममरणान्तञ्च गङ्गादितटिनीस्थिताः ।

मण्डूकमत्स्यप्रमुखा व्रतिनस्ते भवन्ति किम् ॥ ८२ ॥

वदन्ति हृदयानन्दं पठन्ति शुकसारिकाः ।

जनानां पुरतो देवि विबुधाः किं भवन्ति हि ॥ ८३ ॥

पारावताः शिलाहाराः परमेश्वरि चातकाः ।

न पिबन्ति महीतोयं योगिनस्ते भवन्ति किम् ॥ ८४ ॥

शीतवातातपसहा भक्ष्याभक्ष्यसमाः प्रिये ।

तिष्ठन्ति शूकराद्याश्च योगिनस्ते भवन्ति किम् ॥ ८५ ॥

तस्मादित्यादिकं कर्म लोकवञ्चनकारकम् ।

मोक्षस्य कारणं साक्षात्तत्त्वज्ञानं कुलेश्वरि ॥ ८६ ॥

षड्दर्शनमहाकूपे पतिताः पशवः प्रिये ।

परमार्थं न जानन्ति पशुपाशानियन्त्रिताः ॥ ८७ ॥

वेदशास्त्रार्णवे घोरे ताड्यमाना इतस्ततः ।

कालोमीग्राहग्रस्ताश्च तिष्ठन्ति हि कुताकीकाः ॥ ८८ ॥

वेदागमपुराणज्ञः परमार्थं न वेत्ति यः ।

विडम्बकस्य तस्यापि तत् सर्वं काकभाषितम् ॥ ८९ ॥

इदं ज्ञानमिदं ज्ञेयमिति चिन्तासमाकुलाः ।

पठन्त्यहनीशं देवि परतत्त्वपराङ्मुखः ॥ ९० ॥

वाक्यच्छन्दोनिबन्धेन काव्यालङ्कारशोभिना ।

चिन्तया दुःखिता मूढास्तिष्ठन्ति व्याकुलेन्द्रियाः ॥ ९१॥

अन्यथा परमं तत्त्वं जनाः क्लिश्यन्ति चान्यथा ।

अन्यथा शास्त्रसद्भावो व्याख्यां कुर्वन्ति चान्यथा ॥ ९२ ॥

कथयन्त्युन्मनीभावं स्वयं नानुभवन्ति हि ।

अहङ्कारहताः केचिदुपदेशविवजीताः ॥ ९३ ॥

पठन्ति वेदशास्त्राणि विवदन्ति परस्परम् ।

न जानन्ति परं तत्त्वं दर्वी पाकरसं यथा ॥ ९४ ॥

शिरो वहति पुष्पाणि गन्धं जानाति नासिका ।

पठन्ति वेदशास्त्राणि दुर्लभो भाववेदकः ॥ ९५ ॥

तत्त्वमात्मस्थमज्ञात्त्वा मूढः शास्त्रेषु मुह्यति ।

गोपः कक्षगतं छागं कूपे पश्यति दुर्मतिः ॥ ९६ ॥

संसार मोहनाशाय शाब्दबोधो न हि क्षमः ।

न निवर्त्तेत तिमिरं कदाचिद्दीपवार्त्तया ॥ ९७ ॥

प्रज्ञाहीनस्य पठनम् अन्धस्यादर्शदर्शनम् ।

देवि प्रज्ञावतः शास्त्रं तत्त्वज्ञानस्य कारणम् ॥ ९८ ॥

अग्रतः पृष्ठतः केचित् पार्श्वयोरपि केचन ।

तत्त्वमीदृक् तादृगिति विवदन्ति परस्परम् ।

सद्विद्यादानशूराद्यैर्गुणैवीख्यातमानवाः ॥ ९९ ॥

प्रत्यक्षग्रहणं नास्ति वार्त्तया ग्रहणं कुतः ।

एवं ये शास्त्रसम्मूढास्ते दूरस्था न संशयः ॥ १०० ॥

इदं ज्ञानमिदं ज्ञेयं सर्वतः श्रोतुमिच्छति ।

देवि वर्षसहस्रायुः शास्त्रान्तं नैव गच्छति ॥ १०१ ॥

वेदाद्यनेकशास्त्राणि स्वल्पायुवीघ्नकोटयः ।

तस्मात् सारं विजानीयात् क्षीरं हंस इवाम्भसः ॥ १०२ ॥

अभ्यस्य सर्वशास्त्राणि तत्त्वं ज्ञात्वा हि बुद्धिमान् ।

पलालमिव धान्यार्थी सर्वशास्त्रं परित्यजेत् ॥ १०३ ॥

यथामृतेन तृप्तस्य नाहारेण प्रयोजनम् ।

तत्त्वज्ञस्य तथा देवि न शास्त्रेण प्रयोजनम् ॥ १०४ ॥

न वेदाध्ययनान्मुक्तिर्न शास्त्रपठनादपि ।

ज्ञानादेव हि मुक्तिः स्यान्नान्यथा वीरवन्दिते ॥ १०५ ॥

नाश्रमाः कारणं मुक्तेर्दर्शनानि न कारणम् ।

तथैव सर्वशास्त्राणि ज्ञानमेव हि कारणम् ॥ १०६ ॥

मुक्तिदा गुरुवागेका विद्याः सर्वा विडम्बकाः ।

काष्ठभारश्रमादस्मादेकं सञ्जीवनं परम् ॥ १०७ ॥

अद्वैतन्तु शिवेनोक्तं क्रियायासविवजीतम् ।

गुरुवक्त्रेण लभ्येत नान्यथागमकोटिभिः ॥ १०८ ॥

आगमोत्थं विवेकोत्थं द्विधा ज्ञानं प्रचक्षते ।

शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥ १०९ ॥

अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे ।

मम तत्त्वं च जानन्ति द्वैताद्वैतविवजीतम् ॥ ११० ॥

द्वे पदे बन्धमोक्षाय ममेति निर्ममेति च ।

ममेति बाध्यते जन्तुर्न ममेति विमुच्यते ॥ १११ ॥

तत् कर्म यन्न बन्धाय विद्या सा या विमुक्तये ।

आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ ११२ ॥

यावत् कामादि दीप्येत यावत् संसारवासना ।

यावदिन्द्रियचापल्यं तावत्तत्त्वकथा कुतः ॥ ११३ ॥

यावत् प्रयत्नवेगोऽस्ति यावत् सङ्कल्पकल्पना ।

यावन्न मनसः स्थैर्यं तावत्तत्त्वकथा कुतः ॥ ११४ ॥

यावद्देहाभिमानश्च ममता यावदस्ति हि ।

यावन्न गुरुकारुण्यं तावत्तत्त्वकथा कुतः ॥ ११५ ॥

तावत्तपो व्रतं तीथर्ं जपहोमार्च्चनादिकम् ।

वेदशास्त्रागमकथा यावत्तत्त्वं न विन्दते ॥ ११६ ॥

तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।

तत्त्वनिष्ठो भवेद्देवि यदीच्छेन्मोक्षमात्मनः ॥ ११७ ॥

धर्मज्ञानसुपुष्पस्य स्वर्गलोक फलस्य च ।

तापत्रयात्तीसन्तप्तश्छायां मोक्षतरोः श्रयेत् ॥ ११८ ॥

बहुनात्र किंमुक्तेन रहस्यं शृणु पार्वति ।

कुलधर्ममृते मुक्तर्नास्ति सत्यं न संशयः ॥ ११९ ॥

तस्माद्वदामि तत्त्वन्ते विज्ञाय श्रीगुरोर्मुखात् ।

सुखेन मुच्यते देवि घोरसंसारबन्धनात् ॥ १२० ॥

इति ते कथिता काचिज्जीवजातिस्थितिः प्रिये ।

समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १२१ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे जीव- स्थितिकथनं नाम प्रथमोल्लासः ॥ १ ॥


अथ द्वितीयोल्लासः

[सम्पाद्यताम्]

श्रीदेव्युवाच कुलेश श्रोतुमिच्छामि सर्वजीवदयानिधे ।

कुलधर्मस्त्वया देव सूचितो न प्रकाशितः ॥ १ ॥

तस्य धर्मस्य माहात्म्यं सर्वधर्मोत्तमस्य च ।

ऊद्र्ध्वाम्नायस्य माहात्म्यं तन्मतं वद मे प्रभो ।

वद मे परमेशान यदि तेऽस्ति कृपा मयि ॥ २ ॥

श्री ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण योगिनीनां प्रियो भवेत् ॥ ३ ॥

ब्रह्माविष्णुगुहादीनां न मया कथितं पुरा ।

कथयामि तव स्नेहात् शृणुष्वैकाग्रमानसा ॥ ४ ॥

पारम्पर्ययक्रमायातं पञ्चवक्त्रेषु संस्थितम् ।

अकथ्यं परमार्थेन तथापि कथयामि ते ॥ ५ ॥

त्वयापि गोपितव्यं हि न देयं यस्य कस्यचित् ।

देयं भक्ताय शिष्याय अन्यथा पतनं भवेत् ॥ ६ ॥

सर्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं परम् ।

वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम् ॥ ७ ॥

दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् ।

सिद्धान्तादुत्तमं कौलं कौलात् परतरं न हि ॥ ८ ॥

गुह्याद् गुह्यतरं देवि सारात् सारं परात् परम् ।

साक्षात् शिवप्रदं देवि कर्णाकणीगतं कुलम् ॥ ९ ॥

मथित्वा ज्ञानदण्डेन वेदागममहार्णवम् ।

सारज्ञेन मया देवि कुलधर्मः समुद्धृतः ॥ १० ॥

एकतः सकला धर्मा यज्ञतीर्थव्रतादयः ।

एकतः कुलधर्मश्च तत्र कौलोऽधिकः प्रिये ॥ ११ ॥

प्रविशन्ति यथा नद्यः समुद्रम् ऋजुवक्रगाः ।

तथैव विविधा धर्माः प्रविष्टाः कुलमेव हि ॥ १२ ॥

यथा हस्तिपदे लीनं सर्वप्राणीपदं भवेत् ।

दर्शनानि च सर्वाणि कुल एव तथा प्रिये ॥ १३ ॥

यदा जाम्बुनदानाञ्च सदृशं लौहमस्ति चेत् ।

तदा च कुलधर्मेण समयोऽन्यः समो भवेत् ॥ १४ ॥

यथामरतरङ्गिण्या न समाः सकलापगाः ।

तथैव समयाः सर्वे कुलधर्मेण नो समाः ॥ १५ ॥

मेरुसर्षपयोर्यद्वत् सूर्यखद्योतयोर्यथा ।

तथान्यसमयस्यापि कुलस्य महदन्तरम् ॥ १६ ॥

अस्ति चेत्त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत् ।

कुलेन समधर्मस्तु तथापि न कदाचन ॥ १७ ॥

कुलधर्मं हि मोहेन योऽन्यधर्मेण दुर्मतिः ।

बद्धः संसारपाशेन सोऽन्त्यजानां प्रियो भवेत् ॥ १८ ॥

यो वा कुलाधिकं धर्ममज्ञानाद्वदति प्रिये ।

ब्रह्महत्याधिकं पापं स प्राप्नोति न संशयः ॥ १९ ॥

कुलधर्मप्रवहणं समारुह्य नरोत्तमः ।

स्वर्गादि द्वीपान्तरं गत्वा मोक्षरत्नं समश्नुते ॥ २० ॥

दर्शनेषु च सर्वेषु चिराभ्यासेन मानवाः ।

मोक्षं लभन्ते कौले तु सद्य एव न संशयः ॥ २१ ॥

बहुनात्र किमुक्तेन शृणु मत्प्राणवल्लभे ।

न कौलसमधर्मोऽस्ति त्वां शपे कुलनायिके ॥ २२ ॥

योगी चेन्नैव भोगी स्याद्भोगी चेन्नैव योगवित् ।

भोगयोगात्मकं कौलं तस्मात् सर्वाधिकं प्रिये ॥ २३ ॥

भोगो योगायते साक्षात् पातकं सुकृतायते ।

मोक्षायते च संसारः कुलधर्मे कुलेश्वरि ॥ २४ ॥

ब्रह्मेन्द्राच्युतरुद्रादिदेवतामुनिपुङ्गवाः ।

कुलधर्मपरा देवि मानुषेषु च का कथा ॥ २५ ॥

विहाय सर्वधर्मांश्च नानागुरुमतानि च ।

कुलमेव विजानीयाद्यदीच्छेत् सिद्धिमात्मनः ॥ २६ ॥

पूर्वजन्मकृताभ्यासात् कुलज्ञानं प्रकाशते ।

स्वप्नोत्थित प्रत्ययवदुपदेशादिकं विना ॥ २७ ॥

जन्मान्तरसहस्रेषु या बुद्धिवीहिता नृणाम् ।

तामेव लभते जन्तुरुपदेशो निरर्थकः ॥ २८ ॥

शैववैष्णवदौर्गार्कगाणपत्येन्दुसम्भवैः ।

मन्त्रैवीशुद्धचित्तस्य कुलज्ञानं प्रकाशते ॥ २९ ॥

सर्वधर्माश्च देवेशि पुनरावर्त्तकाः स्मृताः ।

कुलधर्मस्थिता ये च ते सर्वेऽप्यनिवर्त्तकाः ॥ ३० ॥

पुराकृततपोदानयज्ञतीर्थजपव्रतैः ।

क्षीणांहसां नृणां देवि कुलज्ञानं प्रकाशते ॥ ३१ ॥

त्वमहं देवि कल्याणि यस्य तुष्टावुभावपि ।

देवतागुरुभक्त्या च कुलज्ञानं प्रकाशते ॥ ३२ ॥

शुद्धचित्तस्य शान्तस्य कमीणो गुरुसेविनः ।

अतिभक्तस्य गुह्यस्य कुलज्ञानं प्रकाशते ॥ ३३ ॥

श्रीगुरौ कुलशास्त्रेषु कौलिकेषु कुलाश्रये ।

यस्य भक्तिर्दृढा तस्य कुलज्ञानं प्रकाशते ॥ ३४ ॥

श्रद्धा विनयहर्षाद्यैः सदाचारदृढव्रतैः ।

गुर्वाज्ञापालकैर्धर्मैः कुलज्ञानमवाप्यते ॥ ३५ ॥

अनर्हे कुलविज्ञानं न तिष्ठति कदाचन ।

तस्मात् परीक्ष्य वक्तव्यं कुलज्ञानं मयोदितम् ॥ ३६ ॥

न ब्रूयात् कुलधर्मं तमयोग्ये कुलशासनम् ।

आज्ञाभङ्गञ्च यः कुर्याद्देवताशापमाप्नुयात् ॥ ३७ ॥

आराध्य समयाचारं कुलज्ञानं वदेद्यदि ।

स गुरुश्चापि शिष्यश्च योगिनीनां भवेत् पशुः ॥ ३८ ॥

बोधयित्वा गुरुः शिष्यं कुलज्ञानं प्रकाशयेत् ।

लभेते तावुभौ साक्षाद्योगिनीवीरमेलनम् ॥ ३९ ॥

अनायासेन संसारसागरं यस्तितीर्षति ।

कुलधर्ममिमं ज्ञात्वा मुच्यते नात्र संशयः ॥ ४० ॥

कुलधर्ममहामार्गगन्ता मुक्तिपुरीं व्रजेत् ।

अचिरान्नात्र सन्देहस्तस्मात् कौलं समाश्रयेत् ॥ ४१ ॥

कुलशास्त्रमनादृत्य पशुशास्त्राणि योऽभ्यसेत् ।

स्वगृहे पायसं त्यक्त्वा भिक्षामटति पार्वति ॥ ४२ ॥

विहाय कुलधर्म यः परधर्मपरो भवेत् ।

करस्थं रत्नमुत्सृज्य दूरस्थं काचमीहते ॥ ४३ ॥

संत्यज्य कुलमन्त्राणि पशुमन्त्राणि यो जपेत् ।

स धान्यराशिमुत्सृज्य पांसुराशिं जिघृक्षति ॥ ४४ ॥

कुलान्वयं समुत्सृज्य योऽन्यमन्वयमीक्षते ।

तडागादिव तृष्णार्त्तो मृगतृष्णां प्रधावति ॥ ४५ ॥

यथेन्द्राजालजा मायाः क्षणमेव सुखावहाः ।

श्रीकौलादन्यसमयास्तादृशाः कुलनायिके ॥ ४६ ॥

कुलधर्ममजानन् यः संसारान्मोक्षमिच्छति ।

पारावारमपारं स पाणिभ्यां तर्त्तुमिच्छति ॥ ४७ ॥

यो वान्यदर्शनेभ्यश्च भुक्तिं मुक्तिञ्च काङ्क्षति ।

स्वप्नलब्धधनेनैव धनवान् स भवेत्तदा ॥ ४८ ॥

शुक्तौ रजतविभ्रान्तिर्यथा जायेत पार्वति ।

तथान्यसमयेभ्यश्च भुक्तिर्मुक्तिः प्रकाशते ॥ ४९ ॥

सर्वकर्मविहीनोऽपि वर्णाश्रमविवजीतः ।

कुलनिष्ठः कुलेशानि भुक्तिमुक्त्योः स भाजनम् ॥ ५०॥

कुलज्ञानविहीनोऽपि कुलभक्त्याश्रयो भवेत् ।

सोऽपि सद्गतिमाप्नोति किमुतास्य परायणः ॥ ५१ ॥

कुलधर्मो हतो हन्ति रक्षितो रक्षति प्रिये ।

पूजितः पूजयत्याशु तस्मात्तं न परित्यजेत् ॥ ५२ ॥

निन्दन्तु बान्धवाः सर्वे त्यजन्तु स्त्रीसुतादायः ।

जना हसन्तु मां दृष्ट्वा राजानो दण्डयन्तु वा ॥ ५३ ॥

सेवे सेवे पुनःसेवे त्वामेव परदेवते ।

त्वद्धर्म नैव मुञ्चामि मनोवाक्कायकर्मभिः ॥ ५४ ॥

एवमापद्गतस्यापि यस्य भक्तिः सुनिश्चला ।

स तु सम्पूज्यते देवैरमुत्र स शिवो भवेत् ॥ ५५ ॥

रोगदारिद्र्यदुःखाद्यैः पीडितोऽप्यनिशं शिवे ।

यस्त्वामुपास्ते भक्त्या स नरः सद्गतिमाप्नुयात् ॥ ५६ ॥

जनाः स्तुवन्तु निन्दन्तु लक्ष्मीर्गच्छतु तिष्ठतु ।

मृतिरद्य युगान्ते वा कुलं नैव परित्यजेत् ॥ ५७ ॥

नापि लोभान्न च क्रोधान्न द्वेषान्न च मत्सरात् ।

न कामन्न भयाद्वापि कुलधर्मं परित्यजेत् ॥ ५८ ॥

यो जन्तुर्नार्चयेत्त्वान्तु कुलधर्मसमाश्रितः ।

क्लिश्यते जातमात्रेण भूतारिणात्मशत्रुणा ॥ ५९ ॥

पुलाका इव धान्येषु पतंगा इव जन्तुषु ।

बुद्बुदा इव तोयेषु ये कौलविमुखा हि ते ॥ ६० ॥

तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।

स जीवति मनो यस्य कुलधर्मे व्यवस्थितम् ॥ ६१ ॥

कुलधर्मविहीनस्य दिनान्यायान्ति यान्ति च ।

स लोहकारभस्रेवश्वसन्नपि न जीवति ॥ ६२ ॥

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।

कुलेश्वरि कुलाज्ञस्य तत् पशोरिव जीवितम् ॥ ६३ ॥

विद्वानपि च मूर्खोऽसौ धामीको वाप्यधामीकः ।

व्रतस्थोऽप्यव्रतस्थो वा यः कौलविमुखो जनः ॥ ६४ ॥

जातास्त एव जगति जन्तवः साधु जीविनः ।

कुलधर्मपरा देवि शेषाश्च द्वारगर्दभाः ॥ ६५ ॥

स पुमानुच्यते सद्भिः कुलधर्मपरायणः ।

अपरस्तु परं सत्यमस्थिकूटत्वचावृतः ॥ ६६ ॥

चतुर्वेदी कुलाज्ञानी श्वपचादधमः प्रिये ।

श्वपचोऽपि कुलज्ञानी ब्राह्मणादतिरिच्यते ॥ ६७ ॥

गुरुकारुण्ययुक्तस्तु दीक्षानिर्धूतपातकः ।

कुलपूजारतो देवि सोऽयं कौलो न चेतरेः ॥ ६८ ॥

यः कौलिकः कुलज्ञानं न पश्यति न विन्दति ।

न पूजयति धिक् तस्य तत् काकस्येव जीवितम् ॥ ६९ ॥

ते धन्याः पुण्यकर्माणस्ते सन्तस्ते च योगिनः ।

येषां भाग्यवशाद्देवि कुलज्ञानं प्रकाशते ॥ ७० ॥

ते वन्द्यास्ते महात्मानः कृतार्थस्ते नरोत्तमाः ।

येषामुत्पद्यते चित्ते कुलज्ञानं मयोदितम् ॥ ७१ ॥

सर्वप्रकाशगमनं सर्वतीर्थावगाहनम् ।

यत् सर्वयज्ञाचरणं कुलधर्मप्रवेशनम् ॥ ७२ ॥

प्रविशन्ति कुलं धर्म ये वै सुकृतिनो नराः ।

ते पुनर्जननीगर्भ न विशन्ति कदाचन ॥ ७३ ॥

प्रसङ्गेनापि यः कश्चित् कुलं कुलमितीरयेत् ।

कुल तत् पावनं देवि भवति त्वदनुग्रहात् ।

कुलज्ञानस्य कुलेशानि नान्यधर्मैः प्रयोजनम् ॥ ७४ ॥

कुलेशि कुलनिष्ठानां कौलिकानां महात्मनाम् ।

ददामि परमं ज्ञानं चान्तकाले न संशयः ॥ ७५ ॥

चिरायासाल्पफलदं काङ्क्षते समयं जनाः ।

सुखेन सर्वफलदं कुलं कोऽपि त्यजत्यहो ॥ ७६ ॥

कुलज्ञो हि च सर्वज्ञो वेदशास्त्रोज्झितोऽपि वा ।

वेदशास्त्रागमज्ञोऽपि कुलाज्ञस्त्वज्ञ एव हि ॥ ७७ ॥

जानन्ति कुलमाहात्म्यं त्वद्भक्ता एव नापरे ।

चकोरा एव जानन्ति नान्ये चन्द्रगतां रुचिम् ॥ ७८ ॥

कुलज्ञा एव तुष्यन्ति श्रुत्वा कुलकथां प्रिये ।

स्वल्पा नद्यो विवर्द्धन्ते ज्योत्स्नया किं समुद्रवत् ॥ ७९ ॥

नान्यधर्ममवेक्षन्ते कौलिकाः सारवेदिनः ।

भृङ्गाः पुष्पान्तरं लुब्धा मन्दारामोदसेविनः ॥ ८० ॥

मानयन्ते हि सारज्ञाः कुलधर्म न चेतरे ।

शिवः शिरसि धत्तेऽब्जं सैंहिकेया गिलत्यहो ॥ ८१ ॥

अभिज्ञा एव जानन्ति नाभिज्ञाः कुलर्दशनम् ।

जलमिश्रपयःपानं बकः किं वेत्ति हंसवत् ॥ ८२ ॥

शिवशक्तिमयो लोको लोके कौलं प्रतिष्ठितम् ।

तस्मात् सर्वाधिकं कौलं सर्वसाधारणं कथम् ॥ ८३ ॥

षड्दर्शनानि मेऽङ्गानि पादो कुक्षिः करौ शिरः ।

तेषु भेदन्तु यः कुर्यान्ममाङ्गं च्छेदयेत्तु सः ॥ ८४ ॥

एतान्येव कुलस्यापि षडङ्गानि भवन्ति हि ।

तस्माद्वेदात्मकं शास्त्रं विद्धि कौलात्मकं प्रिये ॥ ८५ ॥

दर्शनेष्वखिलेष्वेव फलदं चैकदैवतम् ।

भुक्तिमुक्तिप्रदं नृणां कुलेऽस्मिन् दैवतं प्रिये ॥ ८६ ॥

लोकधर्मविरुद्धञ्च सिद्धयोगीश्वरि प्रिये ।

कुलं प्रमाणतां याति प्रत्यक्षफलदं यतः ॥ ८७ ॥

प्रत्यक्षञ्च प्रमाणाय सर्वेषां प्राणिनां प्रिये ।

उपलब्धिबलात्तस्य हताः सर्वे कुताकीकाः ॥ ८८ ॥

परोक्षं को नु जानीते कस्य किं वा भविष्यति ।

यद्वा प्रत्यक्षफलदं तदेवोत्तमदर्शनम् ॥ ८९ ॥

कुलधर्ममिमं ज्ञात्वा मुच्यन्ते सर्वमानवाः ।

इति मत्वा महेशानि मया कौलं विगहीतम् ॥ ९० ॥

त्वत्कारुण्यविहीनानां कुलज्ञानविरोधिनाम् । पशुनामनभिज्ञानां कुलधर्मो विगहीतः ॥ ९१ ॥

यस्य जन्मान्तरे पापकर्मबन्धोऽधिको भवेत् ।

न तस्य गुरुकारुण्यं कुलज्ञानञ्च जायते ॥ ९२ ॥

यथान्धो नैव पश्यन्ति सूर्य सर्वप्रकाशकम् ।

तथा कुलं न जानन्ति तव मयाविमोहिताः ॥ ९३ ॥

शैववैष्णवसौरादि दर्शनान्यपि भक्तितः ।

भजन्ते मानवा नित्यं वृथायासफलानि च ॥ ९४ ॥

वेदशास्त्रागमैः प्रोक्तं भोगमोक्षैकसाधनम् ।

मूढा निन्दन्ति हा हन्त मत्प्रियं तव दर्शनम् ॥ ९५ ॥

भ्रामिता हि मया देवि पशवः शास्त्रकोटिषु ।

कुलधर्म न जानन्ति वृथा ज्ञानाभिमानिनः ॥ ९६ ॥

पशुशास्त्राणि सर्वाणि मयैव कथितानि हि ।

मूर्त्त्यन्तरन्तु गत्वैव मोहनाय दुरात्मनाम् ॥ ९७ ॥

महापापवशान्नृणां तेषु वाञ्छाभिजायते ।

तेषाञ्च सदागतिर्नास्ति कल्पकोटिशतैरपि ॥ ९८ ॥

प्रेर्यमाणोऽपि पापात्मा कुले नैव प्रवर्त्तते ।

वार्यमाणोऽपि पुण्यात्मा कुलमेवाभिलम्वते ॥ ९९ ॥

कुलधर्मेण देवत्वं देवाः सम्प्रतिपेदिरे ।

मुनियोगीश्वराद्याश्च सुसिद्धिं परमां गताः ॥ १०० ॥

पशुव्रतादिनिरताः सुलभा दाम्भिका भुवि ।

ये कौलमेव सेवन्ते ते महान्तोऽति दुर्लभाः ॥ १०१ ॥

मानवा बहवः सन्ति मिथ्यातत्त्वार्थवेदिनः ।

दुर्लभोऽयं महेशानि कुलतत्त्वविशारदः ॥ १०२ ॥

यथा रोगातुराः केचिन्मानवाः कुलनायिके ।

दिव्यौषधं न सेवन्ते महाव्याधिविनाशनम् ॥ १०३ ॥

तद्व्याधिवर्द्धनापथ्यं कुर्वन्ति हि कुभेषजम् ।

तथैव जन्ममरणकृतं सांसारिकीं क्रियाम् ॥ १०४ ॥

समाचरन्ति सततं त्वत्कारुण्यविवजीताः ।

न भजन्ते कुलं धर्म भववन्धविमोचनम् ॥ १०५ ॥

यथा चारण्यजातांस्तु मरीचादीन् वणिग्जनान् । मोहतो मानवाः प्रीत्या याचन्ते कुलनायिके ॥ १०६ ॥

अनर्घ्याणि च रत्नानि न याचन्ते हि केचन ।

तथैव पशुशास्त्राणि कर्मपाशफलानि च ॥ १०७ ॥

इति पृच्छन्ति मूर्खास्ते तव मायाविमोहिता ।

कुलधर्म न पृच्छन्ति भुक्तिमुक्तिफलप्रदम् ॥ १०८ ॥

कस्तूरीं कर्दमधिया कर्पूरं लवणेच्छया ।

शार्करं शकराभ्रान्त्या मणिं काचमनीषया ॥ १०९॥

यथादृष्टं न मन्यन्ते करस्थमपि पामराः ।

तथा कौलं न जानन्ति त्वत्प्रसादविवजीताः ॥ ११० ॥

अहो मोहस्य माहात्म्यं त्वन्मायाजनितस्य च ।

किमज्ञानपि देवेशि मोहयेदमरानपि ॥ १११ ॥

पेयं मद्यं पलं खाद्यं समालोक्य प्रियामुखम् ।

इत्येवाचरणं जाप्यं परिप्राप्यं परम्रपदम् ॥ ११२ ॥

गुरुकारुण्यसंलभ्यमीदृशं कुलदर्शनम् ।

त्वद्भक्ता एव जानन्ति नेतरे भुक्तिमुक्तिदम् ॥ ११३ ॥

गुरूपदेशरहिता महान्त इति केचन ।

मोहयन्ति जनान् सर्वान् स्वयं पूर्वविमोहिताः ॥ ११४ ॥

दुराचारपराः केचिद्वाचयन्ति च पामराः ।

कथंभूतो भवेत् स्वामी सेवकाः स्युस्तथाविधाः ॥ ११५ ॥

बहवः कौलिकं धर्म मिथ्याज्ञानविडम्बकाः ।

स्वबुध्द्या कल्पयन्तीत्थं पारम्पर्यविवजीताः ॥ ११६ ॥

मद्यपानेन मनुजो यदि सिद्धं लभेत वै ।

मद्यपानरताः सर्वे सिद्धिं गच्छन्तु पामराः ॥ ११७ ॥

मांसभक्षणमात्रेण यदि पुण्या गतिर्भवेत् ।

लोके मासाशिनः सर्वे पुण्यभाजो भवन्ति हि ॥ ११८ ॥

शक्तिसम्भोगमात्रेण यदि मोक्षो भवेत वै ।

सर्वेऽपि जन्तवो लोके मुक्ताः स्युः स्त्रीनिषेवनात् ॥११९ ॥

कुलमार्गो महादेवि न मया निन्दितः क्वचित् ।

आचाररहिता येऽत्र निन्दितास्ते न चेतरे ॥ १२० ॥

अन्यथा कौलिके धर्मे आचारः कथितो मया ।

विचरन्त्यन्था देवि मूढाः पण्डितमानिनः ॥ १२१ ॥

कृपाणधारागमनात् व्याघ्रकण्ठावलम्बनात् ।

भुजङ्गधारणान्नूनमशक्यं कुलवर्त्तनम् ॥ १२२ ॥

वृथा पानन्तु देवेशि सुरापानं तदुच्यते ।

तत्महापातकं ज्ञेयं वेदादिषु निरूपितम् ॥ १२३ ॥

अनाघ्रेयमनालोक्यमस्पृश्यञ्चाप्यपेयकम् ।

मद्यं मंसं पशूनान्तु कौलिकानां महाफलम् ॥ १२४ ॥

अमेध्यानि द्विजातीनां मद्यान्येकादशैव तु ।

द्वादशन्तु महामद्यं सर्वेषामुत्तमोत्तमम् ॥ १२५ ॥

सुरा वै मलमन्नानां पाप्मा तु मलमुच्यते ।

तस्माद्ब्राह्मणराजन्यौ वैश्य न सुरां पिबेत् ॥ १२६॥

सुरादर्शनमात्रेण कुर्यात् सूर्यावलोकनम् ।

तत्समाघ्राणमात्रेण प्राणायामत्रयं चरेत् ॥ १२७ ॥

आजानुभ्यां भवेन्मग्नो जले चोपवसेदहः ।

ऊद्र्ध्व नाभेस्त्रिरात्रन्तु मद्यस्य स्पर्शने विधिः॥ १२८ ॥

सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत् ।

मुखे तया विनिर्दग्धे ततः शुद्धिमवाप्नुयात् ॥ १२९ ॥

मद्यस्पर्शादिदोषस्य प्रायश्चित्तविधिः स्मृतः ।

अविधानेन यो हन्यादात्मार्थं प्राणिनः प्रिये ॥ १३०॥

निवसेन्नरके घोरे दिनानि पशुरोमभिः ।

स मृतोऽपि दुराचारस्तिर्र्यग्योनिषु जायते ॥ १३१ ॥

अनुमन्ता विश्वसिता निहन्ता क्रयविक्रयी ।

संस्कर्ता चोपहर्त्ता च खादिताऽष्टौ च घातकाः ॥ १३२ ॥

धनैवीक्रयिको हन्ति खादिता चोपभोगतः ।

घातको वध बन्धाभ्यां इत्येष त्रिविधो वधः ॥ १३३ ॥

मांससन्दर्शनं कृत्वा सुरादर्शनवच्चरेत् ।

तस्मादविधिना मांसं मद्यं न सेवते क्वचित् ॥ १३४ ॥

विधिना सेव्यते देवि तरसा त्वं प्रसीदसि ।

नाशयत्यपरिज्ञानात् सत्यमेव वरानने ॥ १३५ ॥

तृणं वाप्यविधानेन छेदयेन्न कदाचन ।

विधिना गां द्विजं वापि हत्या पापैर्न लिप्यते ॥ १३६ ॥

बहुनात्र किमुक्तेन सारमेकं शृणु प्रिये ।

जीवन्मुक्तिसुखोपायं कुलशास्त्रेषु गोपितम् ॥ १३७ ॥

यन्मुमुक्षोः फलं देवि कनकस्येव सौरभम् ।

कुलज्ञेऽप्यूर्ध्वविख्याते ज्ञानं तत्तदनुत्तमम् ॥ १३८ ॥

कुलशास्त्राणि सर्वाणि मयैवोक्तानि पार्वति ।

प्रमाणानि न सन्देहो न हन्तव्यानि हेतुभिः ॥ १३९ ॥

देवताभ्यः पितृभ्यश्च मधु वाता ऋतायते ।

स्वादिष्ठया मदिष्ठया क्षीरं सपीर्मधूदकम् ॥ १४० ॥

हिरण्यपावाः खादिश्च अबध्नन् पुरुषं पशुम् ।

दीक्षामुपेयादित्याद्याः प्रमाणं श्रुतयः प्रिये ॥ १४१ ॥

इत्येतत् कथितं किञ्चित् कुलमाहात्म्यमम्बिके ।

समासेन कुलशानि किं भूयः श्रोतुमिच्छसि ॥ १४२ ॥


॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे कुलमाहात्म्यकथनं नाम द्वितीयोल्लासः ॥ २ ॥


अथ तृतीयोल्लासः

[सम्पाद्यताम्]

श्रीदेव्युवाच

कुलेश श्रोतुमिच्छामि सर्वधर्मोत्तमोत्तमम् ।

ऊर्ध्वाम्नायञ्च तन्मन्त्रं माहात्म्यं वद मे प्रभो ॥ १ ॥

श्रीईश्वर उवाच

शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण देवता सुप्रसीदति ॥ २ ॥

न कदाचिन्मया प्रोक्तमितः पूर्व कुलेश्वरि ।

कथयामि तव स्नेहादूर्ध्वाम्नायं शृणु प्रिये ॥ ३ ॥

वेदशास्त्रपुराणानि प्रकाश्यानि कुलेश्वरि ।

शैवशाक्तागमाः सर्वे रहस्याः परिकीत्तीताः ॥ ४ ॥

रहस्यातिरहस्यानि कुलशास्त्राणि पार्वति ।

रहस्यातिरहस्यानां रहस्यमिदमम्बिके ॥ ५ ॥

ऊद्र्ध्वाम्नायस्य तत्त्वं हि पूर्णब्रह्मात्मकं परम् ।

सुगोपितं मया यत्नादिदानीन्तु प्रकाश्यते ॥ ६ ॥

मम पञ्चमुखेभ्यश्च पञ्चाम्नायाः समुद्गताः ।

पूर्वश्च पश्चिमश्चैव दक्षिणश्चोत्तरस्तथा ।

ऊर्ध्वाम्नायश्च पञ्चैते मोक्षमार्गाः प्रकीत्तीताः ॥ ७ ॥

आम्नाया बहवः सन्ति नोर्ध्वाम्नायेन ते समाः ।

सत्यमेतद्वरारोहे नात्र कार्या विचारणा ॥ ८ ॥

आम्नाया बहवो गुप्तश्चतुराम्नायभेदजाः ।

अस्मिंस्तन्त्रे समाख्याताः पूर्वं ते कुलनायिके ॥ ९ ॥

चतुराम्नाय वेत्तारो बहवः सन्ति कामिनि ।

ऊर्ध्वाम्नायस्य तत्त्वज्ञा विरला वीरवन्दिते ॥ १० ॥

यावन्तः पांसवो भूमेस्तावन्तः समुदीरिताः ।

एकैकाम्नायजा मन्त्रा भुक्तिमुक्तिफलप्रदाः ॥ ११ ॥

उपमन्त्राश्च तावन्तः सारदाः समुदीरिताः ।

मयैव कथितास्ते तु लोकानुग्रहकाङ्क्षया ॥ १२ ॥

सर्वेषामपि मन्त्राणां देवतास्तत्फलप्रदाः ।

आवयोरंशसम्भूताः समुद्दिष्टाः शुचिस्मिते ॥ १३ ॥

सर्वमन्त्रानहं वेद्मि नान्यो जानाति कश्चन ।

मत्प्रसादेन यः कश्चिद्वेत्ति मानवकोटिषु ॥ १४ ॥

एकाम्नायञ्च यो वेत्ति स मुक्तो नात्र संशयः ।

किं पुनश्चतुराम्नायवेत्ता साक्षाच्छिवो भवेत् ॥ १५ ॥

चतुराम्नायविज्ञानादूर्ध्वाम्नायः परः प्रिये ।

तस्मात्तदेव जानीयाद् यदीच्छेत् सिद्धिमात्मनः ॥ १६ ॥

ऊर्ध्वत्वात् सर्वधर्माणामूर्ध्वाम्नायः प्रशस्यते ।

ऊर्ध्वं नयत्यधःस्थञ्च ऊर्ध्वाम्नाय इतीरितः ॥ १७ ॥

ऊर्ध्वतत्त्वात् कुलेशानि ध्वस्तसंसारसागरात् ।

ऊर्ध्वलोकैकसेव्यत्वादूर्ध्वाम्नाय इति स्मृतः ॥ १८ ॥

तस्माद्देवेशि जानीहि साक्षान्मोक्षैकसाधनम् ।

सर्वाम्नायाधिकफलमूर्ध्वाम्नायं परात् परम् ॥ १९ ॥

सर्वलोकेषु सर्वेभ्यो ह्यहं पूज्यो यथा प्रिये ।

अम्नायेषु च सर्वेषु ऊर्ध्वाम्नायस्तथा शिवे ॥ २० ॥

देवतानां यथा विष्णुर्ज्योतिषां भास्करो यथा ।

तीर्थानान्तु यथा काशी स्वर्नदी सरितां यथा ॥ २१ ॥

पर्वतानां यथा मेरुस्तरूणां चन्दनं यथा ।

अश्वमेधः क्रतूनाञ्च पाषाणानां यथा मणिः ॥ २२ ॥

यथा रसानां माधुर्यं धातूनां काञ्चनं यथा ।

चतुष्पदां यथा धेनुर्यथा हंसस्तु पक्षिणाम् ॥ २३ ॥

आश्रमाणां यथा भिक्षुर्वर्णानां ब्राह्मणो यथा ।

मनुष्याणां यथा राजाऽवयवानां यथा शिरः ॥ २४ ॥

आमोदानाञ्च कस्तूरी यथा काञ्चीपुरी पुराम् ।

तथैव सर्वधर्माणामूर्ध्वाम्नायोऽधिकः प्रिये ॥ २५ ॥

नानाजन्माजीतापारपुण्यकर्मफलोदयात् ।

ऊर्ध्वाम्नायं विजानीयान्नान्यथा वीरवन्दिते ॥ २६ ॥

धन्यो मनुष्यलक्षेषु जानाति कुलदर्शनम् ।

तेषां लक्षेषु यः कश्चिदूर्ध्वाम्नायं प्रवेत्ति च ॥ २७ ॥

न वेदैर्नागमैः शास्त्रैर्न पुराणैः सुविस्तरैः ।

न यज्ञैर्न तपोभिर्वा न तीर्थव्रतकोटिभिः ॥ २८ ॥

नान्यैरुपायैर्द्देवेशि मन्त्रौषधिपुरःसरैः ।

आम्नायो ज्ञायते चोद्र्ध्वः श्रीमद्गुरुमुखं विना ॥ २९ ॥

तमेवान्वेषयेत्तत्र सर्वज्ञं करुणानिधिम् ।

सर्वलक्षणसम्पन्नं ऊर्ध्वाम्नायार्थकोविदम् ।

तस्माद्देवेशि जानीयादूर्ध्वाम्नायं कुलेश्वरि ॥ ३०॥

आम्नायं यो नरो देवि विजानाति च तत्त्वतः ।

लभते काङ्क्षतां सिद्धिं सत्यं सत्यं वरानने ॥ ३१ ॥

ऊर्ध्वाम्नायं विजानाति यः सम्यक् श्रीगुरोर्मुखात् ।

शास्त्रमार्गेण स नरो जीवन्मुक्तो न संशयः ॥ ३२ ॥

आम्नायमीदृशं देवि विजानाति च तत्त्वतः ।

स वन्द्यः सद्गुरुः सोऽर्च्यः स दैवज्ञः स मान्त्रिकः ।

स सेव्यः स च संस्तुत्यः स द्रष्टव्यः स सात्त्विकः ॥ ३३ ॥

स व्रती स तपस्वी च सोऽनुष्ठाता स पूजकः ।

स वेदागमशास्त्रादिसर्वविद्याविशारदः ॥ ३४ ॥

स आचार्यः स मतिमान् स यतिः स च कौलिकः ।

स यज्वा स च पूतात्मा स जापी स च साधकः ॥ ३५ ॥

स योगी स कृतार्थस्तु स वीरः स च उत्तमः ।

स पुण्यात्मा स सर्वज्ञः स मुक्तः स शिवः प्रिये ॥ ३६ ॥

तत्कुलं पावनं देवि धन्या तज्जननी स्मृता ।

तत्पिता च कृतार्थः स्यान्मुक्तास्तत्पितरः प्रिये ।

पुण्यास्तद्वंशजाः सर्वे पूतास्तन्मित्रबान्धवाः ॥ ३७ ॥

बहुनेह किमुक्तेन चोर्ध्वाम्नायपरस्य च ।

स्मरणं कीर्त्तनं वापि दर्शनं वन्दनं तथा ।

सम्भाषणञ्च कुरुते राजसूयाधिकं फलम् ॥ ३८ ॥

स यत्र वसते देवि तत्र श्रीवीजयो भवेत् ।

अनामयं सुभिक्षञ्च सुवृष्टिनीरुपद्रवम् ॥ ३९ ॥

तस्माद् गुरुप्रसादेन ऊर्ध्वाम्नायं नरोत्तमः ।

यो वेत्ति तत्त्वतो देवि स मे प्रियतमो भवेत् ॥ ४० ॥

पूर्वाम्नायः सृष्टिरूपः स्थितिरूपश्च दक्षिणः ।

संहारः पश्चिमो देवि उत्तरोऽनुग्रहो भवेत् ॥ ४१ ॥

मन्त्रयोगं विदुः पूर्वं भक्तियोगञ्च दक्षिणम् ।

पश्चिमं कर्मयोगञ्च ज्ञानयोगं तथोत्तरम् ॥ ४२ ॥

पूर्वाम्नायस्य सङ्केताश्चतुवींशतिरीरिताः ।

दक्षिणाम्नायसङ्केताः पञ्चवींशतिरीरिताः ॥ ४३ ॥

पश्चिमाम्नायसङ्केताः द्वात्रिंशत् समुदाहृताः ।

विदुः षट्त्रिंशदाम्नाये सङ्केताः श्रीमदुत्तरे ॥ ४४ ॥

ऊद्र्ध्वाम्नायस्य चैतानि न सन्ति कुलनायिके ।

साक्षाच्छिवस्वरूपत्वान्न किञ्चित् कर्म विद्यते ॥ ४५ ॥

ऊर्ध्वाम्नायस्य माहात्म्यमहं वेद्मि न चापरः ।

मत्स्नेहात्त्वञ्च जानासि सत्यमेतद्वरानने ॥ ४६ ॥

ऊर्ध्वाम्नायस्य माहात्म्यमिति ते कथितं मया ।

समासेन कुलेशानि मन्त्रमाहात्म्यमुच्यते ॥ ४७ ॥

इतः पूर्वं मया नोक्तं यस्य कस्यापि पार्वति ।

तद्वदामि तव स्नेहाच्छृणु मत्प्राणवल्लभे ॥ ४८ ॥

श्रीप्रासादपरामन्त्रमूर्ध्वाम्नायमधिष्ठितम् ।

आवयोः परमाकारं यो वेत्ति स स्वयं शिवः ॥ ४९ ॥

शिवादिक्रिमिपर्यन्तं प्राणिनां प्राणवर्त्मना ।

निश्वासोच्छ्वासरूपेण मन्त्रोऽयं वर्त्तते प्रिये ॥ ५० ॥

अनिलेन विना मेघो यथाकाशे न वेष्टते ।

पराप्रसादमन्त्रेण विना लोकस्तथा प्रिये ॥ ५१ ॥

पराप्रासादमन्त्रेण स्यूतमेतच्चराचरम् ।

अभिन्नं तत्त्वतो देवि तालवृन्ते यथानिलः ॥ ५२ ॥

बीजेऽङ्कुरस्तिले तैलमग्नावुष्णं रवौ प्रभा ।

चन्द्रे ज्योत्स्नाऽनलः काष्ठे पुष्पे गन्धे जले द्रवः ॥ ५३ ॥

शब्दे चार्थः शिवे शक्तिः क्षीरे सपीः फले रुचिः ।

शर्करायाञ्च माधुर्यं घनसारे च शीतलम् ॥ ५४ ॥

निग्रहानुग्रहो मन्त्रे प्रतिमायाञ्च देवता ।

दर्पणे प्रतिबिम्बञ्च समीरे चलनं यथा ।

पराप्रसादमन्त्रेऽपि प्रपञ्चोऽयं तथा स्थितः ॥ ५५ ॥

वटबीजे यथा वृक्षः सूक्ष्मरूपेण तिष्ठति ।

पराप्रासादमन्त्रेऽस्मिन् ब्रह्माण्डोऽपि तथा स्थितः ॥ ५६ ॥

सुपक्वेषु पदार्थेषु सुरसेषु कुलेश्वरि ।

लवणेन विना स्वादु यथा भोक्तुर्न जायते ॥ ५७ ॥

पराप्रासादमन्त्रेण ये वा मन्त्रा न सङ्गताः ।

ते फलं न प्रयच्छन्ति मन्त्रं शक्तिविवजीताः ॥ ५८ ॥

श्रीप्रासादपरामन्त्रो गोपनीयः प्रयत्नतः ॥ ५९ ॥

विचार्याहं पुराणार्थान् दर्शनाम्नायभेदजान् ।

ग्रसमान् वेद्म्यहं मन्त्रान् शास्त्राणि विविधानि च ॥ ६० ॥

सहस्राक्षादयो देवाः शास्त्रेषु विविधेषु च ।

भ्रमन्ति तेषु मूढास्ते तव मायाविमोहिताः ॥ ६१ ॥

जायन्ते च मिरयन्ते च संसारक्लेशभागिनः ।

श्रीप्रासादपरामन्त्रं न गायन्तः कुलेश्वरि ।

न लभन्ते हि मोक्षं ते तव मायाविमोहिताः ॥ ६२ ॥

मद्रूपे श्रीगुरौ यस्य दृढा भक्तिः प्रजायते ।

श्रीप्रासादपरामन्त्रं स ज्ञात्वा परिमुच्यते ॥ ६३ ॥

पूर्वजन्मसहस्रेषु शैवादिसमयोद्यतान् ।

चतुराम्नायजान् मन्त्रान् गुर्वाज्ञां यो भजिष्यति ॥ ६४ ॥

स पापकञ्चुकान्मुक्तः शुद्धात्मा गुरुवत्सलः ।

श्रीप्रासादपरामन्त्रं विजानाति न चान्यथा ॥ ६५ ॥

सब्रह्माविष्णुरुद्राश्च शक्रादिसुरपुङ्गवाः ।

वसुरुद्रार्कदिक्पाला मनुचन्द्रादयः प्रिये ॥ ६६ ॥

मार्कण्डेयादिमुनयो वसिष्ठादिमुनीश्वराः ।

सनकाद्याश्च योगीशा जीवन्मुक्ताः शुकादयः ॥ ६७ ॥

यक्षकिन्नरगन्धर्वाः सिद्धविद्याधरादयः ।

श्रीप्रासादपरामन्त्रप्रभवञ्चामितं फलम् ।

प्राप्य मन्त्रमिमं पुण्यं जपन्त्यद्यापि पार्वति ॥ ६८ ॥

सामर्थ्यं पूज्यता विद्या तेजः सौख्यमरोगिता ।

राज्यं स्वर्गञ्च मोक्षञ्च पराप्रासादजापिनः ॥ ६९ ॥

ब्रह्मेन्द्ररुद्रविष्णूनामपि दूरायते पदम् ।

सर्वकर्मविहीनोऽपि पराप्रासादमन्त्रवित् ।

सुखेन यां गतिं याति न तां सर्वेऽपि धामीकाः ॥ ७० ॥

तस्य चिन्तामणिः कामधेनुः कल्पतरुर्गृहे ।

कुबेरः किङ्करः साक्षात् पराप्रासादजापिनः ॥ ७१ ॥

यथा दिव्यमणि स्पर्शाल्लौहो भवति काञ्चनम् ।

पराप्रासादजापाच्च पशुः पशुपतिर्भवेत् ॥ ७२ ॥

श्रीप्रासादपरामन्त्रं यो विजानाति तत्त्वतः ।

स मां त्वाञ्च विजानाति चावयोरप्यतिप्रियः ॥ ७३ ॥

पराप्रासादमन्त्रज्ञः श्वपचोऽपि हि पार्वति ।

देवतास्थापने शक्तः प्रतिमादौ न संशयः ॥ ७४ ॥

मन्त्रमात्रन्तु यो वेत्ति पराप्रासादसंज्ञकम् ।

श्वपचोऽपि हि मुच्येत किं पुनस्तद्विधानवित् ॥ ७५ ॥

पराप्रासादमन्त्रज्ञो यत् करोति यदिच्छति ।

यद्ब्रूते तन्महेशानि तपो ध्यानं जपो भवेत् ॥ ७६ ॥

दीक्षापूर्वं महेशानि पारम्पर्यसमन्वितम् ।

पराप्रासादमन्त्रं यो वेत्ति सोऽहं न संशयः ॥ ७७ ॥

चराचरसमेतानि भुवनानि चतुर्दश ।

पराप्रासादमन्त्रज्ञदेहे तिष्ठन्ति नित्यशः ॥ ७८ ॥

पराप्रासादमन्त्रज्ञो यत्र तिष्ठति भामिनि ।

दिव्यक्षेत्रं समुद्दिष्टं समन्ताद्दशयोजनम् ॥ ७९ ॥

पराप्रासादमन्त्रार्थतत्त्वज्ञं कुलनायिके ।

सुरासुराश्च वन्दन्ते किं पुनर्मानवादयः ॥ ८० ॥

पराप्रासादमन्त्रज्ञो यत्र तिष्ठति पार्वति ।

सिद्धक्षेत्रं मदीयं वा मुनिदेवगणैः सह ॥ ८१ ॥

शैव वैष्णवदौर्गार्कगाणपत्येन्दुसम्भवान् ।

सर्वमन्त्रान् स जानाति पराप्रासादमन्त्रवित् ॥ ८२ ॥

श्रीप्रासादपरामन्त्रो जिह्वाग्रे यस्य वर्त्तते ।

तस्य दर्शनमात्रेण श्वपचोऽपि विमुच्यते ॥ ८३ ॥

ब्राह्मणो वाऽन्त्यजो वापि शुचिर्वाप्यशुचिः प्रिये ।

पराप्रासादजापी यः स मुक्तो नात्र संशयः ॥ ८४ ॥

गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।

पराप्रासादमन्त्रोऽयं देवेशि न च निष्फलः ॥ ८५ ॥

चिरेणैकैकफलदा मन्त्राः सन्ति सहस्रशः ।

कुलेशि मन्त्रराजोऽयं शीघ्रं सर्वफलप्रदः ॥ ८६ ॥

पराप्रासादमन्त्रोऽयं सर्वमन्त्रोत्तमोत्तमः ।

ज्ञानतोऽज्ञानतो वापि भजतां कामदो मनुः ॥ ८७ ॥

शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी ।

लक्ष्मीनारायणौ वाणीधातारौ रात्रिवासरौ ॥ ८८ ॥

अग्नीषोमौ बिन्दुनादौ देवि प्रकृतिपूरुषौ ।

आधाराधेयनामानौ भोगमोक्षौ कुलेश्वरि ॥ ८९ ॥

प्राणापानौ च वागर्थौ प्रिये विधिनिषेधकौ ।

सुखदुःखादि यद् द्वन्द्वं दृश्यते श्रूयते मया ।

सर्वलोकेषु तत् सर्वमावामेव न संशयः ॥ ९० ॥

पुंस्त्रीरूपाणि सर्वाणि चावयोरंशकानि हि ।

पराप्रासादमन्त्रोऽयं तस्मात् सर्वात्मको भवेत् ॥ ९१ ॥

अरूपं भावनागम्यं परं ब्रह्म कुलेश्वरि ।

निष्कलं निर्मलं नित्यं निर्गुणं व्योमसन्निभम् ॥ ९२ ॥

अनन्तमव्ययं तत्त्वं मनोवाचामगोचरम् ।

पराप्रासादमन्त्रार्थसन्धानात् सम्प्रकाशते ॥ ९३ ॥

तस्मान्मन्त्रमिदं देवि पराप्रासादसंज्ञकम् ।

परतत्त्वस्वरूपत्वात् सच्चिदानन्दलक्षणात् ॥ ९४ ॥

शिवशक्तिमयत्वाच्च भुक्तिमुक्तिप्रदानतः ।

सकर्मापि च निष्कर्म सगुणञ्चापि निर्गुणम् ॥ ९५ ॥

श्रीप्रासादपरामन्त्रं सर्वमन्त्रशिरोमणि ।

जपन् भुक्तिञ्च मुक्तिञ्च लभते नात्र संशयः ॥ ९६ ॥

बहुनात्र किमुक्तेन सर्वसारं शृणु प्रिये ।

श्रीप्रासादपरामन्त्रसमं मन्त्रं न विद्यते ॥ ९७ ॥

इदमेव परं ज्ञानमिदमेव परं तपः ।

इदमेव परं ध्यानमिदमेव परार्चनम् ॥ ९८ ॥

इदमेव परा दीक्षा इदमेव परो जपः ।

इदमेव परं तत्त्वमिदमेव परं व्रतम् ॥ ९९ ॥

इदमेव परो यज्ञ इदमेव परात् परम् ।

इदमेव परं श्रेय इदमेव परं फलम् ॥ १०० ॥

इदमेव परं ब्रह्म इदमेव परा गतिः ।

इदमेव परं गुह्यं सत्यं सत्यं न संशयः ।

इति मत्वा मनुवरं तन्निष्ठः स्यात् सदा प्रिये ॥ १०१ ॥

आगमोक्तेन विधिना क्रमपूजापुरःसरम् ।

श्रीप्रसादपरामन्त्रं शतमष्टोत्तरं जपेत् ।

मुच्यते ब्रह्महत्यादिमहापापैश्च पञ्चभिः ॥ १०२ ॥

द्विशतं यो जपेद्देवि श्रीप्रासादपरामनुम् ।

चतुरशीतिलक्षांशधारणाचरितैरपि ॥ १०३ ॥

स्वयोनिजाङ्गवरितैरसंख्यजननाजीतैः ।

वार्द्धके यौवने बाल्ये जाग्रत्स्वप्नसुषुप्तिषु ॥ १०४ ॥

कर्मणा मनसा वाचा ज्ञानाज्ञानकृतैरपि ।

महापातकसंघैश्च ह्युपपातककोटिभिः ।

मुच्यते नात्र सन्देहः सत्यमेतद्वरानने ॥ १०५ ॥

त्रिशतं यो जपेद्देवि श्रीप्रासादपरामनुम् ।

सर्वक्रतुषु यत् पुण्यं सर्वदानेषु यत् फलम् ॥ १०६ ॥

सर्वव्रतेषु यत् पुण्यं सर्वतीर्थेषु यत् फलम् ।

तत् फलं लभते देवि नात्र कार्या विचारणा ॥ १०७ ॥

चतुःशतं जपेद् यस्तु श्रीप्रासादपरामनुम् ।

सदा तस्य गृहद्वारे ह्यणिमाद्यष्टसिद्धयः ।

सेवन्ते नात्र सन्देहः सर्वसिद्धिसमन्विताः ॥ १०८ ॥

यद् यन्मनोऽभिलषितं तत्तत् प्राप्नोत्यसंशयः ।

धर्मार्थकाममोक्षाश्च साक्षात्तस्य करे स्थिताः ॥ १०९ ॥

सालोक्यप्रमुखां देवि लभेन्मुक्तिं चतुवीधाम् ।

सत्यमेतन्न सन्देहः साधकः कुलनायिके ॥ ११० ॥

जपेत् पञ्चशतं यस्तु श्रीप्रासादपरामनुम् ।

तत्फलं नैव शक्नोमि कथितुं कुलनायिके ॥ १११ ॥

तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।

श्रीप्रासादपरामन्त्रं जपेद् भुक्तिविमुक्तये ॥ ११२ ॥

नास्ति गुर्वधिकं तत्त्वं न शिवाधिकदैवतम् ।

न हि वेदाधिका विद्या न कौलसमदर्शनम् ॥ ११३ ॥

न कुलादधिकं ज्ञानं न ज्ञानादधिकं सुखम् ।

नाष्टाङ्गादधिका पूजा न हि मोक्षाधिकं फलम् ।

इदं सत्यमिदं सत्यं सत्यं सत्यं न संशयः ॥ ११४ ॥

श्रीप्रासादपरामन्त्रमाहात्म्यमिह वणीतुम् ।

न शक्नोमि वरारोहे कल्पकोटिशतैरपि ॥ ११५ ॥

गिरौ सर्षपमात्रन्तु सागरे वालुका यथा ।

तथा च मन्त्रमाहात्म्यं किञ्चित्ते कथितं मया ॥ ११६ ॥

ऊर्ध्वाम्नायस्य माहात्म्यं श्रीप्रासादपरामनोः ।

इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ ११७ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे श्रीप्रासादपरामन्त्रकथनं नाम तृतीयोल्लासः ॥ ३ ॥


अथ चतुर्थोल्लासः

[सम्पाद्यताम्]

श्रीदेव्युवाच

कुलेश श्रोतुमिच्छामि श्रीप्रासादपरामनुम् ।

मन्त्रराजं वदेशान न्यासध्यानादिभिः सह ॥ १ ॥

श्रीईश्वर उवाच

शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण शिवाकारः प्रजायते ॥ २ ॥

इतः पूर्व मया नोक्तो मन्त्रोऽयं यस्य कस्यचित् ।

तव स्नेहाद्वदाम्यद्य शृणु मत्प्राणवल्लभे ॥ ३ ॥

अनन्तचन्द्रभुवनमिन्दुबिन्दुयुगान्वितः ।

श्रीप्रासादपरामन्त्रो भुक्तिमुक्तिफलप्रदः ॥ ४ ॥

पराप्रासादमन्त्रस्तु सादिरुक्तः कुलेश्वरि ।

प्रकाशानन्दरूपत्वात् प्रत्यक्षफलदानतः ॥ ५ ॥

प्रसन्नचित्तवश्यत्वात् प्रसिद्धार्थनिरूपणात् ।

प्राक्तनाघप्रशमनात् प्रपन्नात्तीविनाशनात् ।

प्रसादकरणाच्छीघ्रं प्रासादमनुरीरितः ॥ ६ ॥

परतत्त्वस्वरूपत्वात् परमात्मप्रकाशनात् ।

परमानन्दजननात् परधर्मनिदर्शनात् ॥ ७ ॥

परोक्षफलदानाच्च परमैश्वर्यकारणात् ।

परत्वात् सर्वमन्त्राणां परामन्त्र इतीरितः ॥ ८ ॥

कुलमन्त्रमिदं देवि न्यासं शृणु वदामि ते ।

आदौ प्रातः समुत्थाय गुरुदेवानुचिन्तनम् ॥ ९ ॥

कन्दमूले मनः कृत्वा कुर्याद्विण्मूत्रमोचनम् ।

शौचास्यशोधनं स्नानं सन्ध्यातर्पणमाचरेत् ॥ १० ॥

एकान्ते द्वारयजनं विघ्नत्रयनिवारणम् ।

पूजास्थानप्रवेशश्च तथासनोपवेशनम् ॥ ११ ॥

देवीपूजागृहध्यानं शिवादिगुरुवन्दनम् ।

आसनं गणपक्षेत्रपालवन्दनमीश्वरि ॥ १२ ॥

पादुकास्मरणञ्चैव दिननाथार्चनं प्रिये ।

कराङ्गशोधनं प्राणायामः स्वब्रह्मरन्ध्रके ॥ १३ ॥

दिग्बन्धनञ्चाङ्गयुग्म विधियुक्ताञ्च मातृकाम् ।

दशप्रकारभूताख्यां लिपिं कमठसंज्ञकाम् ॥ १४ ॥

ऋषिरस्य परः शम्भुश्छन्दश्चाव्यक्तपूवीका ।

गायत्री देवता चात्र सर्वमन्त्रेश्वरी परा ॥ १५ ॥

दीर्घत्रययुतं मूलं बीजं शक्तिश्च कीलकम् ।

षड्दीर्घयुक्तमूलबीजेन षडङ्गानि च पार्वति ॥ १६ ॥

ईशतत्पुरुषाघोरसद्योजातात्मनस्तथा ।

पञ्चाङ्गुलिषु विन्यस्य मूत्तीं वक्त्रेषु विन्यसेत् ॥ १७ ॥

पञ्चसु ब्रह्मणि तथैवाङ्गविन्यासमाचरेत् ।

आधारशक्तिमारभ्य पीठमन्त्रान्तमम्बिके ॥ १८ ॥

अल्पषोढां कुलेशानि कुर्यात् पूर्वोक्तवर्त्मना ।

महाषोढाह्वयं न्यासं ततः कुर्यात् समाहितः ।

वक्ष्यमाणेन विधिना देवताभावसिद्धये ॥ १९ ॥

यस्य कस्यापि नैवोक्तं तव स्नेहाद्वदाम्यहम् ।

प्रपञ्चो भुवनं मूतीर्मन्त्रदेवतमातरः ।

महाषोढाह्वयो न्यासः सर्वन्यासोत्तमोत्तमः ॥ २० ॥

तत्रादौ परमेशानि प्रपञ्चन्यास उच्यते ।

प्रपञ्चद्वीपजलधिगिरिपत्तनपीठकाः ॥ २१ ॥

क्षेत्रं वनाश्रमगुहानदीचत्वरकोद्भिदः ।

स्वेदाण्डजजरायुजा इत्युक्तास्ते हि षोडश ॥ २२ ॥

श्रीर्माया कमला विष्णुवल्लभा पद्मधारिणी ।

समुद्रतनया लोकमाता कमलवासिनी ॥ २३ ॥

इन्दिरा मा रमा पद्मा तथा नारायणप्रिया ।

सिद्धलक्ष्मी राजलक्ष्मीर्महालक्ष्मीरितीरिताः ।

शक्तयस्तु प्रपञ्चानां स्वराणामधिदेवताः ॥ २४ ॥

लवस्त्रुटिः कला काष्ठा निमेषः श्वास एव हि ।

घटिका च मुहूर्त्तश्च प्रहरो दिवसस्तथा ॥ २५ ॥

सन्ध्या रात्रिस्तिथिश्चैव वारो नक्षत्रमेव च ।

योगश्च करणं पक्षौ मासो राशिरृतुस्तथा ॥ २६ ॥

अयनं वत्सरयुगप्रलयाः पञ्चविंशतिः ।

एतेषां स्थाननियमो हृदयान्तः समीरितः ॥ २७ ॥

आर्योमा चण्डिका दुर्गा शिवाऽपर्णाऽम्बिका सती ।

ईश्वरी शाम्भवीशानी पार्वती सर्वमङ्गला ॥ २८ ॥

दाक्षायणी हैमवती महामाया महेश्वरी ।

मृडानी चैव रुद्राणी सर्वाणी परमेश्वरी ॥ २९ ॥

काली कात्यायनी गौरी भवानीति समीरिता ।

शक्तयः स्युर्लवादीनां स्पर्शानामधिदेवताः ।

एतासां स्थाननियमो हृदयान्तः समीरितः ॥ ३० ॥

पञ्चभूतानि तन्मात्रं ज्ञानकर्मेन्द्रियाणि च ।

गुणान्तःकरणावस्था ध्यायेद्दोषान् दशानिलान् ॥ ३१ ॥

ब्राह्मी वागीश्वरी वाणी सावित्री च सरस्वती ।

गायत्री वाक्प्रदा पश्चात् शारदा भारती प्रिये ।

विद्यात्मिका पञ्चभूतव्यापकानामधीश्वराः ॥ ३२ ॥

वाग्भवं भुवनेशीञ्च लक्ष्मीबीजं त्रितारकम् ।

त्रितारमूलीविद्यान्त मातृकाक्षरतः परम् ॥ ३३ ॥

वदेत् प्रपञ्चरूपायै श्रियै नम इति क्रमात् ।

प्रपञ्चादिभिरायोज्य वर्णान शक्तीनीयोजयेत् ।

मातृकान्याससंप्रोक्तस्थानेष्वेवं न्यसेत् प्रिये ॥ ३४ ॥

त्रितारमूलसकलप्रपञ्चादि स्वरूपतः ।

आयै पराम्बादेव्यैनम उक्त्वा व्यापकं न्यसेत् ॥ ३५ ॥

प्रपञ्चन्यास एव स्याद् भुवनन्यास उच्यते ।

त्रितारमूलमन्त्रान्ते अ आं इं अतलं वदेत् ॥ ३६ ॥

लोकञ्च निलयञ्चैव शतकोटिपदं ततः ।

गुह्याद्या योगिनी मूलङेयुतन्तु वदेत् प्रिये ॥ ३७ ॥

वदेदाधारशक्त्यम्बादेव्यै च पादयोर्न्यसेत् ।

ई उं ऊं वितलं गुह्यतरं चानन्तसंज्ञकम् ।

शेषञ्च पूर्ववत् प्रोच्य गुल्फयोर्देवि विन्यसेत् ॥ ३८ ॥

ऋं ऋं ऌं सुतलञ्चातिगुह्यं चाविन्त्यसंज्ञकम् ।

शेषच्च पूर्ववत् प्रोच्य जङ्घयोवीन्यसेत् प्रिये ॥ ३९ ॥

ऌं एं एं महातलञ्च महागुह्यं पदं ततः ।

शेषञ्च पूर्ववत् प्रोच्य देवि जान्वोः प्रविन्यसेत् ॥ ४० ॥

ओं औं तलातलं देवि परं गुह्याभिधानकम् ।

शेषञ्च पूर्ववत् प्रोच्य ऊर्वोर्देवेशि विन्यसेत् ॥ ४१ ॥

अं अः रसातलञ्चैव रहस्यं ज्ञानसंज्ञकम् ।

शेषञ्च पूर्ववत् प्रोच्य गुह्यदेशे प्रविन्यसेत् ॥ ४२ ॥

कवर्गणापि पातालं लोकेति निलयेति च ।

शेषञ्च पूर्ववत् प्रोच्य मूलाधारे तु विन्यसेत् ॥ ४३ ॥

चवर्गं भूतलञ्चेति रहस्यं डाकिनीमपि ।

शेषञ्च पूर्ववत् प्रोच्य स्वाधिष्ठाने न्यसेत् प्रिये ॥ ४४ ॥

टवर्गेण भुवो लोकं रहस्यं राकिणीमपि ।

शेषञ्च पूर्ववत् प्रोच्य नाभौ च विन्यसेत् प्रिये ॥ ४५ ॥

तवर्गं स्वश्च परमरहस्य लाकिनीमपि ।

शेषञ्च पूर्ववत् प्रोच्य हृदये विन्यसेत् प्रिये ॥ ४६ ॥

पवर्गञ्च महर्लोकं रहस्यं काकिनीमपि ।

शेषञ्च पूर्ववत् प्रोच्य तालुमूले न्यसेत् प्रिये ॥ ४७ ॥

यवर्गञ्च जनो गुप्ततरञ्च शाकिनीमपि ।

शेषञ्च पूर्ववत् प्रोच्य आज्ञायाञ्च न्यसेत् प्रिये ॥ ४८ ॥

शवर्गञ्च तपश्चातिगुह्यञ्च हाकिनीमपि ।

शेषञ्च पूर्ववत् प्रोच्य ललाटे विन्यसेत् प्रिये ॥ ४९ ॥

लं क्षं सत्यं महागुह्यं यक्षिणीमपि च प्रिये ।

शेषञ्च पूर्ववत् प्रोच्य ब्रह्मरन्ध्रे च विन्यसेत् ॥ ५० ॥

त्रितारमूलमन्त्रान्ते चतुर्दशभुवं वदेत् ।

नाधिपायै श्रीपरायै देव्यै च व्यापकं न्यसेत् ॥ ५१ ॥

कृत्वैवं भुवनन्यासं मूत्तीन्यासमथाचरेत् ।

केशवनारायणमाधवगोविन्दविष्णवः ॥ ५२ ॥

मधुसूदनसंज्ञश्च स्यात्त्रिविक्रमवामनौ ।

श्रीधरश्च हृषीकेशः पद्मनाभो दामोदरः ।

वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ ५३ ॥

अक्षोरोष्टदा चेशानी चोग्रोद्ध्र्वनयना तथा ।

ऋद्धिश्च रूपिणी लुप्ता लूनदोषैकनायिका ॥ ५४ ॥

एङ्कारिणी चौघवती सर्वकामाञ्जनप्रभा ।

अस्थि मालाधरा चेति सम्प्रोक्ताः स्वरदेवताः॥ ५५ ॥

भवः शर्वांऽथ रुद्रश्च पशुपतिश्चोग्र एव च ।

महादेवस्तथा भीम ईशस्तत्पुरुषाह्वयः ॥

अघोरसद्योजातौ च वामदेव इतीरिताः ॥ ५६ ॥

करभद्रा खगबला गरिमादिफलप्रदा ।

घण्टाधरोग्रनयना चन्द्रधर्त्री ततः परम् ।

छन्दोमयी जगत्स्थाना ज्वलत्तारा ततः परम् ॥ ५७ ॥

ज्ञानदा च टङ्कधरा धृतिर्द्वादश ईरिताः ।

कभादीनां ठडान्तानां वर्णानां देवतास्त्विमाः ॥ ५८ ॥

ब्रह्मा प्रजापतिर्वेधाः परमेष्ठी पितामहः ।

विधाता च विरिञ्चिश्च स्रष्टा च चतुराननः ॥

हिरण्यगर्भ इत्युक्ताः क्रमाद् ब्रह्मादयो दश ॥ ५९ ॥

यक्षिणी रञ्जिनी लक्ष्मीवज्रिणी शशिधारिणी ।

षडाधारलया सर्वनायिका हसितानना ।

ललिता च क्षमा चेति प्रोक्ता याद्यर्णदेवताः ॥ ६० ॥

त्रितारमूलमन्त्रान्ते स्वरान् विष्णून् सशक्तिकान् ।

चतुर्थ्या नमसा युक्तान् मस्तके चानने न्यसेत् ॥ ६१ ॥

सस्कन्धपार्श्वकट्यूरु जानुजङ्घापदेषु च ।

दक्षादिवामपर्यन्तं विन्यसेत् परमेश्वरि ॥ ६२ ॥

कभाद्यर्णयुतान् मन्त्री भवादीन शक्तिसंयुतान् ।

पादपार्श्वबाहुकण्ठपञ्चवक्त्रेषु विन्यसेत् ।

दशाधारेषु ब्रह्मादीन् यादि शक्तियुतान्न्यसेत् ॥ ६३ ॥

त्रितारमूलमन्त्रान्ते श्रीत्रिमूर्त्त्यम्बिकां वदेत् ।

आयै पराम्बादेव्यै च नमसा व्यापकं न्यसेत् ।

मूतीन्यासं विधायेत्थं मन्त्रन्यासं समाचरेत् ॥ ६४ ॥

त्रितारमूलं अं आं इं एकलक्षञ्च कोटि च ।

भेदश्च प्रणवाद्येकाक्षरात्माखिलमन्त्रतः ॥ ६५ ॥

ततोऽधिदेवतायै स्यात् सकलञ्च फलप्रदाम् ।

आयै तथैककूटेश्वर्यम्बादेव्यै नमो वदेत् ॥ ६६ ॥

ई उं ऊं आदि हंसादे द्विकूटं पूर्ववत् परम् ।

ऋं ऋं ऌं आदि वह्न्यादि त्रिकूटं पूर्ववत् परम् ॥ ६७ ॥

ॡं एं एं चतुर्लक्षं चन्द्रादि पूर्ववत् परम् ।

ओं औं अं अः पञ्चलक्षं सूर्यादि पूर्ववत् परम् ॥ ६८ ॥

कं खं गं चैव षड्लक्षं स्कन्दादि पूर्ववत् परम् ।

घं ङं चं सप्तलक्षं गणेशादि पूर्ववत् परम् ॥ ६९ ॥

छं जं झं अष्टलक्षं वटुकादि पूर्ववत् परम् ।

ञं टं ठं नवलक्षञ्च ब्रह्मादि पूर्ववत् परम् ॥ ७० ॥

डं ढं णं दशलक्षञ्च विष्ण्वादि पूर्ववत् परम् ।

तं थं दं एकादशलक्षं रुद्रादि पूर्ववत् परम् ॥ ७१ ॥

धं नं पं द्वादशलक्षं वाण्यादि पूर्ववत् परम् ।

फं बं भं त्रयोदशलक्षं लक्ष्म्यादि पूर्ववत् परम् ॥ ७२ ॥

मं यं रं चतुर्दशलक्षं गौर्ययादि पूर्ववत् परम् ।

लं वं शं पञ्चदशलक्षं दुर्गादि पूर्ववत् परम् ।

षं सं हं लं क्षं षोडशलक्षं त्रिपुरादि च षोडशा ॥ ७३ ॥

अक्षरात्मा खिलमन्त्राधिदेवतायै सकलं ततः ।

तथा फलप्रदायै च षोडश कूटेश्वरी पुनः ॥ ७४ ॥

अम्बादेव्यै नमः प्रोक्तो मन्त्रन्यासो महेश्वरि ।

आधारलिङ्गयोर्नाभिहृत्कण्ठे नेत्रयोरपि ॥ ७५ ॥

निबोधिकायामर्द्धेन्दौ बिन्दौ चैव कलापदे ।

उन्मन्यां विष्णुक्त्रे च नादे नादान्त एव च ।

ध्रुवमण्डलदेशे च विन्यसेत् कुलनायिके ॥ ७६ ॥

त्रितारमूलमन्त्रान्ते सर्वमन्त्रात्मिकापदम् ।

आयै पराम्बादेव्यै च हृदये व्यापकं न्यसेत् ॥ ७७ ॥

मन्त्रन्यासं विधायेत्थं दैवतन्यासमाचरेत् ।

त्रितारमूलमन्त्रान्ते अं आं सहस्रकोटि च ॥ ७८ ॥

योगिनीकुलशब्दान्ते सेवितायै पदं वदेत् ।

निवृत्त्यम्बापदं देव्यै नम इत्युच्चरेत् प्रिये ॥ ७९ ॥

इं ई योगिनीप्रतिष्ठां शेषं पूर्ववदुच्चरेत् ।

उं ऊं तपस्वि विद्याञ्च शेषं पूर्ववदुच्चरेत् ॥ ८० ॥

ऋं ॠं शान्तं तथा शान्तिं शेषं पूर्ववदुच्चरेत् ।

ऌं ॡं मुनिं शान्त्यतीतां शेषं पूर्ववदुच्चरेत् ॥ ८१ ॥

एं ए देवञ्च हृल्लेखां शेषं पूर्ववदुच्चरेत् ।

ओं औं राक्षसशब्दान्ते गगनां पूर्ववत् परम् ।

अं अः विद्याधरं रक्तां शेषं पूर्ववदुच्चरेत् ॥ ८२ ॥

कं खं सिद्धिमहोच्छ्रुष्मां शेषं पूर्ववदुच्चरेत् ।

गं घं साध्यकरालाञ्च शेषं पूर्ववदुच्चरेत् ॥ ८३ ॥

डं चं साप्सरसं जयां शेषं पूर्ववदुच्चरेत् ।

छं जं गन्धर्वविजयां शेषं पूर्ववदुच्चरेत् ॥ ८४ ॥

झं ञं गुह्यकशब्दान्ते अजितां शेषं पूर्ववत् परम् ।

टं ठं यक्षापराजितां शेषं पूर्ववदुच्चरेत् ॥ ८५ ॥

डं ढं किन्नरवामाञ्च शेषं पूर्ववदुच्चरेत् ।

णं तं पन्नगज्येष्ठाञ्च शेषं पूर्ववदुच्चरेत् ॥ ८६ ॥

थं दं चं पितृरौद्राम्बां शेषं पूर्ववदुच्चरेत् ।

धं नं गणेशमायाञ्च शेषं पूर्ववदुच्चरेत् ॥ ८७ ॥

पं फं भैरवशब्दान्ते कुण्डलीं पूर्ववत् परम् ।

बं भं वटुक कालीञ्च शेषं पूर्ववदुच्चरेत् ॥ ८८ ॥

मं यं क्षेत्रेशशब्दान्ते कालरात्रिञ्च पूर्ववत् ।

रं लं प्रमथभगवतीं शेषं पूर्ववदुच्चरेत् ॥ ८९ ॥

वं शं ब्रह्मसर्वेश्वरीं शेषं पूर्ववदुच्चरेत् ।

षं सं विष्णुञ्च सर्वज्ञां शेषं पूर्ववदुच्चरेत् ॥ ९० ॥

हं लं रुद्रसर्वकर्त्री शेषं पूर्ववदुच्चरेत् ।

क्षं चराचरशक्तिञ्च शेषं पूर्ववदुच्चरेत् ॥ ९१ ॥

अङ्गुष्ठगुल्फजंघासु जानूरुकटिपार्श्वके ।

स्तनकक्ष करस्कन्धकर्णमूर्द्धस्वपि क्रमात् ॥ ९२ ॥

दक्षभागदिवामान्तं विन्यसेत् कुलनायिके ।

त्रितारमूलमन्त्रान्ते सर्वदेवात्मिकां पदम् ॥ ९३ ॥

आयै पराम्बादेव्यै च हृदये व्यापकं न्यसेत् ।

देवन्यासं विधायेत्थं मातृकान्यासमाचरेत् ॥ ९४ ॥

त्रितारमूलमन्त्रान्ते कवर्गानन्तकोटिभू ।

चरीकुलसेवितायै आं क्षां हि मङ्गलापदम् ॥ ९५ ॥

अम्बादेव्यै नमो ब्रूयादां क्षां ब्रह्माण्यतः परम् ।

अम्बादेव्यै ततोऽनन्तकोटिभूतं कुलं वदेत् ॥ ९६ ॥

सहितायै ततो मङ्गलनाथाय अं क्षं वदेत् ।

अं क्षं असिताङ्गभैरवनाथाय नम उच्चरेत् ॥ ९७ ॥

चवर्गं खेचरीं ई लां चचीकाञ्च महेश्वरीम् ।

वेतालं इं लं चचीकं रुरुं शेषञ्च पूर्ववत् ॥ ९८ ॥

टवंर्ग पातालचरीं ऊं हां योगेश्वरीं वदेत् ।

कौमारीञ्च पिशाचञ्च उं हं योगेशचण्डकौ ॥ ९९ ॥

तवर्गं दिक्चरीं ऋं सां हरसिद्धाञ्च वैष्णवीम् ।

अपस्मारं ऋं सं हरसिद्धक्रोधादिपूर्ववत् ॥ १०० ॥

पवर्गं सहचरीं ऌं षां भट्टि वाराह्यतः परम् ।

ब्रह्मराक्षसकं ऌं षां भट्टोन्मत्तादि पूर्ववत् ॥ १०१ ॥

यवर्ग स्याद्गिरिचरीं एं शां किलकिलेति च ।

इद्राणीं चेटकं एं शं किलिः कापालिकस्तथा ॥ १०२ ॥

शवर्गं स्यात् वनचरीं औं वां कालादिरात्रि च ।

चामुण्डां प्रेतं ओं वं च कालरात्रिश्च भीषणः ॥ १०३ ॥

लं क्षं जलचरीं अः लां वदेत् वश्चञ्च भीषणाम् ।

महालक्ष्मीं शाकिनीश्च अं लं पश्चाच्च भीषणम् ॥ १०४ ॥

संहारभैरवञ्चैव शेषं पूर्ववदुच्चरेत् ।

मूलाधारलिङ्गनाभिष्वनाहतविशुद्धयोः ॥ १०५ ॥

आज्ञाभाल तलब्रह्मरन्ध्रेष्वेवं प्रविन्यसेत् ।

त्रितारमूलमन्त्रान्ते मातृभैरवशब्दतः ॥ १०६ ॥

अधिपायै पराम्बा देव्यै नमो व्यापकं न्यसेत् ।

मातृन्यास महेशानि कुर्यादेवं समाहितः ॥ १०७ ॥

एवं न्यस्ततनुर्दैवि ध्यायेद्देवमनन्यधीः ।

अमृतार्णवमध्योद्यन्मणिद्वीपे सुशोभिते ॥ १०८ ॥

कल्पवृक्षवनान्तःस्थमणि माणिक्यमण्डपे ।

नवरत्नमय श्रीमत्सिंहासनगतेम्बुजे ॥ १०९ ॥

त्रिकोणान्तःसमासीनं चन्द्रसूर्यायुतप्रभम् ।

अर्द्धाम्बिकासमायुक्तं प्रविभक्तविभूषणम् ॥ ११० ॥

कोटिकन्दर्पलावण्यं सदा षोडशवाषीकम् ।

मन्दस्मितमुखाम्भोजं त्रिनेत्रं चन्द्रशेखरम् ॥ १११ ॥

दिव्याम्बरस्रगालेपं दिव्याभरणभूषितम् ।

पानपात्रञ्च चिन्मुदां त्रिशूलं पुस्तकं करैः ॥ ११२ ॥

विद्यासंसिद्धिं बिभ्राणां सदानन्दमुखेक्षणम् ।

महाषोढोदिताशेषदेवतागणसेवितम् ॥ ११३ ॥

एवं चित्ताम्बुजे ध्यायेदर्द्धनारीश्वरं शिवम् ।

पुंरूपं वा स्मरेद्देवि स्त्रीरूपं वा विचिन्तयेत् ॥ ११४ ॥

अथवा निष्कलं ध्यायेत् सच्चिदानन्दलक्षणम् ।

सवतेजोमयं देवि सचराचरविग्रहम् ॥ ११५ ॥

ततः सन्दर्शयेन्मुद्रादशकं परमेश्वरि ।

योनि लिङ्गञ्च सुरभि हेतिमुद्राचतुष्टयम् ॥ ११६ ॥

वनमालां महामुद्रां नभोमुद्रामिति क्रमात् ।

यथाशक्ति मन्त्रमूलं जपेत् श्रीपादुकामपि ।

मूध्नी सञ्चिन्तयेद्देवि श्रीगुरुं शिवरूपिणम् ॥ ११७ ॥

सहस्रदलपङ्कजे सकलशीतरश्मिप्रभम् वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् ।

प्रसन्नवदनेक्षणं सकलदेवतारूपिणम् स्मरेत् शिरसि हंसगं तदभिधानपूर्वं गुरुम् ॥ ११८ ॥

एवं न्यासे कृते देवि साक्षात् परशिवो भवेत् ।

मन्त्री नैवात्र सन्देहो निग्रहानुग्रहक्षमः ॥ ११९ ॥

महाषोढाह्वयं न्यासं यः करोति दिने दिने ।

देवाः सर्वे नमस्यन्ति तं नमामि न संशयः ॥ १२० ॥

महाषोढाह्वयं न्यासं करोति यत्र पार्वति ।

दिव्यक्षेत्रं समुद्दिष्टं समन्ताद्दशयोजनम् ॥ १२१ ॥

कृत्वा न्यासमिमं देवि यत्र गच्छति मानवः ।

तत्र स्याद्विजयो लाभः सम्मानः पौरुषं प्रिये ॥ १२२ ॥

महाषोढाकृतन्यासस्तेन यो वन्द्यते शिवे ।

षण्मासान्मृत्युमाप्नोति यदि त्राता शिवः स्वयम् ॥ १२३ ॥

वज्रपञ्जरनामानमेतं न्यासं करोति यः ।

दिव्यन्तरीक्षभूशैलजलारण्यनिवासिनः ॥ १२४ ॥

प्रचण्डभूतवेतालदेवरक्षोग्रहादयः ।

भयग्रस्तेन मनसा नेक्षन्ते तं कुलेश्वरि ॥ १२५ ॥

महाषोढाकृतन्यासं ब्रह्माविष्णुशिवादयः ।

देवाः सर्वे नमस्यन्ति ऋषयोऽपि मुनीश्वराः ॥ १२६ ॥

बहुनोक्तेन किं देवि न्यासमेतं मम प्रियम् ।

नापुत्राय वदेद्देवि नाशिष्याय प्रकाशयेत् ॥ १२७ ॥

आज्ञासिद्धिमवाप्नोति तस्मान्न्यासं समाचरेत् ।

अस्मात् परतरा रक्षा देवताभावसिद्धिदा ।

लोके नास्ति न सन्देहः सत्यं सत्यं वरानने ॥ १२८ ॥

ऊर्ध्वाम्नायप्रवेशश्च पराप्रासादचिन्तनम् ।

महाषोढापरिज्ञानं नाल्पस्य तपसः फलम् ॥ १२९ ॥

इति ते कथितं देवि मन्त्रोद्धारादिकं प्रिये ।

समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १३० ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे माहाषोढाकथनं नाम चतुर्थोल्लासः ॥ ४ ॥


अथ पञ्चमोल्लासः

[सम्पाद्यताम्]

श्रीदेव्युवाच

कुलेशाधारपात्राणां पिशितानाञ्च लक्षणम् ।

कुलद्रव्यस्य निर्माणं भेदं माहात्म्यमेव च ॥ १ ॥

अविधानेन यत् पापं सविधानेन यत् फलम् ।

तत् सर्वं श्रोतुमिच्छामि वद मे करुणानिधे ॥ २ ॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण त्रिदशैः समतां व्रजेत् ॥ ३ ॥

आधारेण विना भ्रंशो न च तृप्यन्ति मातरः ।

तस्माद्विधिवदाधारं कल्पयेत् कुलनायिके ॥ ४ ॥

आधारं त्रिपदं प्राहुः षट्पदं वा चतुष्पदम् ।

अथवा वर्तुलाकारं कुर्याद्देवि मनोहरम् ॥ ५ ॥

स्वर्णरौप्यशिलाकूर्मकपालालाबुमृण्मयम् ।

नारिकेलशङ्खताम्रमुक्ताशुक्तिसमुद्भवम् ॥ ६ ॥

पुण्यवृक्ष समुद्भूतं पात्रं कुर्याद्विचक्षणः ।

अतिसूक्ष्ममतिस्थूलं छिन्नं भिन्नञ्च वर्जयेत् ॥ ७ ॥

सुवर्णरौप्यताम्राणि सर्वसिद्धकराणि च ।

शान्तिके च शिलापात्रं स्तम्भने चैव मृण्मयम् ॥ ८ ॥

नारिकेलञ्च वश्ये स्यादभिचारे च कूर्मजम् ।

शङ्गं ज्ञानप्रदं शुक्तिर्देवीप्रीतिप्रदायिनी ॥ ९ ॥

कपालालाबुपात्राणि योगसिद्धिकराणि च ।

पुण्यवृक्षज पात्राणि सर्वपापहराणि च ।

उक्तेष्वेतेषु देवेशि पात्रमेकं प्रकल्पयेत् ॥ १० ॥

कुलद्रव्यं प्रवक्ष्यामि शृणु देवि समाहिता ।

अम्भसां द्वादशप्रस्थं प्रस्थार्द्धं तक्रमेव च ॥ ११ ॥

तण्डुलानां चतुःप्रस्थं द्विप्रस्थञ्च तथान्धसाम् ।

मुष्टिमात्राङ्कुरैः सार्द्धम् एकस्मिन् योजयेद् घटे ॥ १२ ॥

शीतादिरहिते स्थाने स्थापयेद्दिवसद्वयम् ।

तस्मादग्निं समारोप्य जम्बालसदृशं पचेत् ॥ १३ ॥

अवरोप्य पुनः शीतामवस्थां प्रापयेत्ततः ।

पादोनप्रस्थकैः पिष्ट्वा हस्ताभ्यां मेलयेत् सुधीः ॥ १४ ॥

प्रस्थार्द्धान् तण्डुलान् वाप्यपरेद्युस्तत् समुद्धरेत् ।

सम्यक् संमद्ये तक्रेण पाकमालोड्य मेलयेत् ।

एषा पैष्टीति विख्याता पूजिता देवदानवैः ॥ १५ ॥

गौडी च श्वेतबर्बुरजम्बुत्वक्सधिताम्भसाम् ।

दशप्रस्थं कुलेशानि धातकीकुसुमं शुभम् ॥ १६ ॥

नारिकेलप्रसूनं वा चैकप्रस्थं विनिक्षिपेत् ।

हरीतकी चाक्षफलं वसुनिष्कप्रमाणतः ॥ १७ ॥

वह्निं त्रिकटुकञ्चापि निष्कमार्धं क्षिपेत् पृथक् ।

अशीतिगुडसम्मिश्रमेकस्मिन् योजयेद् घटे ॥ १८ ॥

करेण भ्रामयेत् सम्यगनुलोमविलोमतः ।

अष्टोत्तरशतावृत्त्या त्रिसन्ध्यं प्रतिवासरम् ॥ १९ ॥

द्वादशाहेन पाकः स्यात् पालयेत्तत्त्रयोदशे ।

एषा गौडीति कथिता शिवसायुज्यहेतुकी ॥ २० ॥

द्विगुणं मकरन्दस्य वारि संयोजयेद् घटे ।

द्वादशाहेन पाकः स्याच्छेषमन्यत् पुरोक्तवत् ।

एषा माध्वी समुद्दिष्टा देवताप्रीतिकारिणी ॥ २१ ॥

एका शुण्ठी द्विवह्निश्च मरीचत्रितयं तथा ।

धातकी च चतुष्कं स्यात् पञ्च पुष्पाणि षण्मधु ॥ २२ ॥

अशीतिगुडसम्मिश्रं शेषमन्यत् पुरोक्तवत् ।

इदं मनोहरं द्रव्यं योगिनीपानमुत्तमम् ॥ २३ ॥

सार्द्धेन्दुपलकं दघ्नो माहिषं प्रस्थमात्रकम् ।

मोचापक्वशतञ्चापि योगोऽयं मदिरा शुभा ॥ २४ ॥

तं मेलयित्वा संयोज्य सान्द्गे वंशपुटे पचेत् ।

चत्वारिंशद्दिनान्यष्टौ पङ्के पङ्कजसम्भवे ॥ २५ ॥

निधायोद्धृत्य किरणैः सौरैः सम्यग् विशोषयेत् ।

यदा च कठिनीभावस्तदा संगृह्य मानवः ॥ २६ ॥

गुञ्जाफलप्रमाणन्तु जलैः सम्मिलितं शुभम् ।

आत्मेच्छं पूरयेत् पात्रं परमानन्ददं परम् ॥ २७ ॥

एतादप्युत्तमं द्रव्यं सर्वदेवप्रियं प्रिये ।

एतानि मदहेतूनि मद्यान्यन्यानि कारयेत् ॥ २८ ॥

पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् ।

मधूत्थं शीधु माध्वीकं मैरेयं नारिकेलजम् ॥ २९ ॥

मद्यान्येकादशैतानि भुक्तिमुक्तिकराणि च ।

द्वादशन्तु सुरा मद्य सर्वेषामुत्तमं प्रिये ॥ ३० ॥

पैष्टी गौडी च माध्वी च विज्ञेया त्रिविधा सुरा ।

सर्वसिद्धिकरी पैष्टी गौडी भोगप्रदायिनी ॥ ३१ ॥

माध्वी मुक्तिकरी ज्ञेया सुरा स्याद्देवताप्रिया ।

विद्याप्रदैक्षवी ज्ञेया द्राक्षी राज्यप्रदा भवेत् ॥ ३२ ॥

तालजा स्तम्भने शस्ता खार्जूरी रिपुनाशिना ।

नारिकेलभवा श्रीदा पानसी च शुभप्रदा ॥ ३३ ॥

मधूकजा ज्ञानकरी माध्वीकी रोगनाशिनी ।

मैरेयाख्या कुलेशानि सर्वदा पापहारिणी ॥ ३४ ॥

क्षीरवृक्षसमुद्भूतं मद्यं वल्कलसम्भवम् ।

मधुपुष्पसमुद्भूतम् आसवं तण्डुलोद्रवम् ॥ ३५ ॥

यस्यानन्दो निवीकार आमोदश्च मनोहरः ।

मद्यं तदुत्तमं देवि देवानां प्रीतिदायकम् ॥ ३६ ॥

आत्मेच्छं पूरयेत् पात्रं परमानन्दवर्द्धनम् ।

एतदामोदकं द्रव्यं सर्वदेवप्रियं प्रिये ॥ ३७ ॥

सुरादर्शनमात्रेण सर्वपापैः प्रमुच्यते ।

तद्गन्धाघ्राणमात्रेण शतक्रतुफलं लभेत् ॥ ३८ ॥

मद्यस्पर्शनमात्रेण तीर्थकोटिफलं लभेत् ।

देवि तत्पानतः साक्षाल्लभेन्मुक्तिं चतुवीधाम् ॥ ३९ ॥

इच्छाशक्तिः सुरामोदे ज्ञानशक्तिश्च तद्रसे ।

तत्स्वादे च क्रियाशक्तिस्तदुल्लासे परा स्थिता ॥ ४० ॥

मदिरा ब्रह्मगाः प्रोक्ताः चित्तशोधनसाधनाः ।

तासामेकां समाहृत्य पूजाकर्म समाचरेत् ॥ ४१ ॥

मत्स्य मांसादिविजयां चाष्टगन्धैः सुमिश्रिताम् ।

संमर्द्य वटिकां कृत्वा संगृह्याथ विचक्षणः ।

मद्याभावे तु वटिकां जले संयुज्य तर्पयेत् ॥ ४२ ॥

गुडमिश्रेण तक्रेण तर्पयेत् मधुभाजिना ।

सौवीरेणाथवा कुर्यादेतत् कर्म न लोपयेत् ।

प्रमादाद् यदि लुप्येत देवताशापमाप्नुयात् ॥ ४३ ॥

मांसन्तु त्रिविधं प्रोक्तं खभूजलचरं प्रिये ।

यथासम्भवमप्येकं तर्पणार्थं प्रकल्पयेत् ।

मांसदर्शनमात्रेण सुरादर्शनवत् फलम् ॥ ४४ ॥

पितृदैवतयज्ञेषु वैधहिंसा विधीयते ।

आत्मार्थं प्राणिनां हिंसा कदाचिन्नोदिता प्रिये ॥ ४५ ॥

अनिमित्तं तृणं वापि छेदयेन्न कदाचन ।

देवतार्थं द्विजार्थ वा हत्वा पापैर्न लिप्यते ॥ ४६ ॥

मामनादृत्य यत् पुण्यं पापं स्यात् प्रतिभाषतः ।

मन्निमित्तं चरेत् पापं पुण्यं भवति शाम्भवि ॥ ४७ ॥

यैरेव पतनं द्रव्यैः सिद्धिस्तैरेव चोदिता ।

श्रीकौलदर्शने चापि भैरवेण महात्मना ॥ ४८ ॥

मत्कर्म कुर्वतां पुंसां कर्मलोपो भवेन्नहि (यदि) ।

तत्कर्म ते प्रकुर्वन्ति सप्तकोटिमुनीश्वराः ॥ ४९ ॥

हन्यान्मन्त्रेण चानेन त्वभिमन्त्र्य पशुं प्रिये ।

गन्धपुष्पाक्षतैः पूज्य चान्यथा नरकं व्रजेत् ॥ ५० ॥

शिवोत्कृत्तमिदं पिण्डमतस्त्वं शिवतां गतः ।

तद् बुध्यस्य पशो त्वं हि मा शिवस्त्वं शिवोऽसि हि ॥५१॥

ब्रह्मा स्यात् पलले विष्णुर्गन्धे रुद्रश्च तद्रसे ।

परमात्मा तदानन्दे तस्मात् सेव्यमिदं प्रिये ॥ ५२ ॥

मांसाभावे तु लशुनं सार्द्रकं नागरन्तु वा ।

आदाय पूजयेद्देवि चान्यथा निष्फलं भवेत् ॥ ५३ ॥

मत्स्यमांसविहीनेन मद्येनापि न तर्पयेत् ।

न कुर्यान्मत्स्यमांसाभ्यां विना द्रव्येण पूजनम् ॥ ५४ ॥

पिशितं तिलमात्रन्तु तिलार्द्धमपि बिन्दुना ।

सकृत्तर्पणमात्रेण कोटियज्ञफलं लभेत् ॥ ५५ ॥

कुलपूजासमं नास्ति पुण्यमन्यज्जगत्त्रये ।

तस्माद् यः पूजयेद्भक्त्या भुक्तिमुक्त्योः स भाजनम् ॥५६॥

अनधीतोऽप्यशास्त्रज्ञो गुरुभक्तो दृढव्रतः ।

कुलपूजारतो यस्तु स मे प्रियतमो भवेत् ॥ ५७ ॥

चतुर्णामपि वर्णानामाश्रमाणामपीश्वरि ।

पुंस्त्रीनपुंसकानान्तु पूजितेष्टफलप्रदा ॥ ५८ ॥

इहामुत्र फलं दद्याः पूजिता सुवधूरिव ।

अपूजिता त्वं देवेशि दुःखदा कुवधूरिव ॥ ५९ ॥

कुलपूजां विना यस्तु करोत्येवं सुदुर्मतिः ।

स याति नरकं घोरमेकविंशतिभिः कुलैः ॥ ६० ॥

तस्मात् सर्वप्रयत्नेन कुलपूजारतो भवेत् ।

लभते सर्वसिद्धींश्च नात्र कार्या विचारणा ॥ ६१ ॥

आराधनासमर्थश्चेद्दद्यादर्चनसाधनम् ।

यो दातुं नैव शक्नोति कुर्यादर्चनदर्शनम् ॥ ६२ ॥

सम्यक् शतक्रतून् कृत्वा यत् फलं समवाप्नुयात् ।

तत् फलं समवाप्नोति सकृत् कृत्वा क्रमार्चनम् ॥ ६३ ॥

महाषोडशदानानि कृत्वा यच्च फलं लभेत् ।

तत् फलं समवाप्नोति कृत्वा श्रीचक्रदर्शनम् ॥ ६४ ॥

सार्द्धत्रिकोटितीर्थेषु स्नात्वा यत् फलमाप्नुयात् ।

तत् फलं लभते देवि सकृत् कृत्वा क्रमार्चनम् ॥ ६५ ॥

बहुनोक्तेन किं देवि यथाभक्त्या ददाति यः ।

कुलाचार्याय पूजार्थं कुलद्रव्यं स धर्मवित् ॥ ६६ ॥

शैवे वा वैष्णवे शाक्ते सौरे सुगतदर्शने ।

बौद्धे पाशुपते सांख्ये व्रते कुलमुखे तथा ॥ ६७ ॥

सदक्षवामसिद्धान्ते वैदिकादिषु पार्वति ।

विनाऽलिपिशिताभ्यान्तु पूजनं निष्फलं भवेत् ॥ ६८ ॥

कुलद्रव्यैवीना कुर्याज्जपयज्ञ तपोव्रतम् ।

निष्फलं तद्भवेद्देवि भस्मनीव यथा हुतम् ॥ ६९ ॥

यथैवान्तश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ।

तथान्तर्यागनिष्ठा ये ते प्रिया देवि नापरे ॥ ७० ॥

समर्पयन्ति ये भक्त्या आवाभ्यां पिशितासवम् ।

उत्पादयन्ति चानन्दं मत्प्रियाः कौलिकाश्च ते ॥ ७१ ॥

आवयोः परमाकारं सच्चिदानन्दलक्षणम् ।

कुलद्रव्योपभोगेन परिस्फुरति नान्यथा ॥ ७२ ॥

अन्तःस्थानुभवोल्लासो मनोवाचामगोचरः ।

कुलद्रव्योपभोगेन जायते नान्यथा प्रिये ॥ ७३ ॥

सेविते च कुलद्रव्ये कुलतत्त्वार्थदर्शनः ।

जायते भैरवावेशः सर्वत्र समदर्शनः ॥ ७४ ॥

तमःपरिवृतं वेश्म यथा दीपेन दृश्यते ।

तथा मायावृतो ह्यात्मा द्रव्यपानेन दृश्यते ॥ ७५ ॥

मन्त्रपूतं कुलद्रव्यं गुरुदेवापीतं प्रिये ।

ये पिबन्ति जनास्तेषां स्तन्यपानं न विद्यते ॥ ७६ ॥

मद्यन्तु भैरवो देवो मद्यं शक्तिः समीरिता ।

अहो भोक्ता च मद्यस्य मोहयेदमरानपि ॥ ७७ ॥

तन्मैरेयं नरः पीत्वा यो न विकुरुते प्रिये ।

मद्ध्यानैकपरो भूत्वा स मुक्तः स च कौलिकः ॥ ७८ ॥

सुरा शक्तिः शिवो मांसं तद्भोक्ता भैरवः स्वयम् ।

तयोरैक्यसमुत्पन्न आनन्दो मोक्ष उच्यते ॥ ७९ ॥

आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितम् ।

तस्याभिव्यञ्जकं मद्यं योगिभिस्तेन पीयते ॥ ८० ॥

कुण्डी कम्बुकपालानि मधुपूर्णानि बिभ्रतः ।

किं न पश्यति लोकोऽयं ब्रह्मविष्णुमहेश्वरान् ॥ ८१ ॥

निःशङ्को निर्भयो वीरो निर्लज्जो निष्कुतूहलः ।

निर्णीतवेदशास्त्रार्थो वरदां वारुणीं पिबेत् ॥ ८२ ॥

मन्त्रसंस्कारसंशुद्धामृतपानेन पार्वति ।

जायते देवताभावो भवबन्धविमोचकः ॥ ८३ ॥

ब्राह्मणस्य सदा पेयं क्षत्रियस्य रणागमे ।

गोलम्भने तु वैश्यस्य शूद्रस्यान्त्येष्टिकर्मणि ॥ ८४ ॥

देवान् पितृन् समभ्यर्च्य देवि शास्त्रोक्तवर्त्मना ।

गुरुं स्मरन् पिबन्मद्यं खादन् मांसंन दोषभाक् ॥ ८५ ॥

तृप्त्यर्थं पितृदेवानां ब्रह्मध्यानस्थिराय च ।

सेवेत मधुमांसानि तृष्णया चेत् स पातकी ॥ ८६ ॥

मन्त्रार्थं स्फुरणार्थाय मनसः स्थैर्यहेतवे ।

भवपाशनिवृत्त्यर्थं मधुपानं समाचरेत् ॥ ८७ ॥

सेवेत स्वसुखार्थं यो मद्यादीनि स पातकी ।

प्राशयेद्देवताप्रीत्यै स्वाभिलाषविवजीतः ॥ ८८ ॥

मत्स्यमांससुरादीनां मादकानां निषेवणम् ।

यागकालं बिनान्यत्र दूषणं कथितं प्रिये ॥ ८९ ॥

यथा क्रतुषु विप्राणां सोमपानं विधीयते ।

मद्यपानं तथा कार्यं समये भोगमोक्षदम् ॥ ९० ॥

श्रीगुरोः कुलशास्त्रेभ्यः सम्यग्विज्ञाय वासनाम् ।

पञ्चमुद्रा निषेवेत चान्यथा पतितो भवेद् ॥ ९१ ॥

आवृत्तिं गुरुपंक्तिश्च वटुकादीन्न पूज्य यः ।

वीरोऽप्यत्र वृथापानी देवताशापमाप्नुयात् ॥ ९२ ॥

अयष्ट्वा भैरवं देवमकृत्वा मन्त्रतर्पणम् ।

पशुपानविधौ पीत्वा वीरोऽपि नरकं व्रजेत् ॥ ९३ ॥

अज्ञात्वा कौलिकाचारमयष्ट्वा गुरुपादुकाम् ।

योऽस्मिन् शास्त्रे प्रवर्त्तेत तं त्वं पीडयसि ध्रुवम् ॥ ९४ ॥

कौलज्ञाने ह्यसिद्धो यस्तद्द्रव्यं भोक्तुमिच्छति ।

स महापातकी ज्ञेयः सर्वधर्मबहिष्कृतः ॥ ९५ ॥

समयाचारहीनस्य स्वैरवृत्तेर्दुरात्मनः ।

न सिद्धयः कुलभ्रंशस्तत्संसर्गं न कारयेत् ॥ ९६ ॥

यः शास्त्रविधिमुत्सृज्य वर्त्तते कामकारतः ।

स सिद्धिमिह नाप्नोति परत्र न परां गतिम् ॥ ९७ ॥

स्वेच्छया रममाणो यो दीक्षासंस्कारवजीतः ।

न तस्य सद्गतिः क्वापि तपस्तीर्थव्रतादिभिः ॥ ९८ ॥

असंस्कृतं पिबेद्द्रव्यं बलात्कारेण मैथुनम् ।

स्वप्रियेण हतं मांसं रौरवं नरकं व्रजेत् ॥ ९९ ॥

कौलाः पशुव्रतस्याश्चेत् पक्षद्वयविडम्बकाः ।

केशसंख्या स्मृता यावत्तावत्तिष्ठन्ति रौरवे ॥ १०० ॥

कुलद्रव्याणि सेवेत योऽन्यदर्शनमाश्रितः ।

तदङ्गरोमसंख्यातं भूतयोनिषु जायते ॥ १०१ ॥

मदप्रच्छादितात्मा च न किञ्चिदपि वेत्ति च ।

न ध्यानं न तपो नार्चा न धर्मो न च सत्क्रिया ॥१०२ ॥

न दैवं न गुरुर्नात्मविचारो न स कौलिकः ।

केवलं विषयासक्तः पतत्येव न संशयः ॥१०३ ॥

मद्यासक्तो न पूजार्थी मांसाशी स्त्रीनिषेवकः ।

कौलोपदेशहीनो यः सोऽक्षयं नरकं व्रजेत् ॥१०४ ॥

असंस्कारी तु यो नौ स्यात् पञ्च मुद्रा निषेवते ।

कुलेशि ब्रह्यनिष्ठोऽपि निन्द्यतामधिगच्छति ॥१०५ ॥

लिङ्गत्रयविशेषज्ञः षडाधारविभेदकः ।

पीठस्थानानि चागत्य महापद्मवनं व्रजेत् ॥ १०६ ॥

आमूलाधारमाब्रह्मरन्ध्रं गत्वा पुनः पुनः ।

चिच्चन्द्रकुण्डलीशक्तिसामरस्य सुखोदयः ॥ १०७ ॥

व्योमपङ्कजनिस्यन्दसुधापानरतो नरः ।

सुधापानमिदं प्रोक्तमितरे मद्यपायिनः ॥ १०८ ॥

पुण्यापुण्यपशुं हत्वा ज्ञानखड्गेन योगवित् ।

परे लयं नयेच्चितं पलाशी स निगद्यते ॥ १०९ ॥

मनसा चेन्द्रियगणं संयम्यात्मनि योजयेत् ।

मत्त्स्याशी स भवेद्देवि शेषाः स्युः प्राणिहिंसकाः ॥ ११०॥

अप्रबुद्धा पशोः शक्तिः प्रबुद्धा कौलिकस्य च ।

शक्तिं तां सेवयेत् यस्तु स भवेत् शक्तिसेवकः ॥ १११ ॥

पराशक्त्यात्ममिथुनसंयोगानन्दनिर्भरः ।

य आस्ते मैथुनं तत् स्यादपरे स्त्रीनिषेवकाः ॥ ११२ ॥

इत्यादि पञ्चमुद्राणां वासनां कुलनायिके ।

ज्ञात्वा गुरुमुखाद्देवि यः सेवेत स मुच्यते ॥ ११३ ॥

इति ते कथितं देवि कुलद्रव्यादिलक्षणम् ।

समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ ११४ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे कुलमाहात्म्यकथनं नाम पञ्चमोल्लासः ॥ ५ ॥


अथ षष्ठोल्लासः

[सम्पाद्यताम्]

श्रीदेव्युवाच

कुलेश श्रोतुमिच्छामि पूजकस्य च लक्षणम् ।

कुलद्रव्यादिसंस्कारमर्चनं वद मे प्रभो ॥ १ ॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण स्तूयते देवदानवैः ॥ २ ॥

निरस्तपातका यत्र मानवाः पुण्यकमीणः ।

कुलज्ञानसुसम्पन्ना भजन्ते ये दृढव्रताः ॥ ३ ॥

पूर्णाभिषेकसहितो वेदशास्त्रार्थतत्त्ववित्।

देवतागुरुभक्तस्तु नियतात्मार्चयेत् प्रिये ॥ ४ ॥

कुलागमरहस्यज्ञो देवताराधनोत्सुकः ।

गुरूपदेशसंयुक्तः पूजयेत् कुलनायिके ॥ ५ ॥

शुद्धात्मा चातिसंहृष्टः क्रोधलौल्यविवजीतः ।

पशुव्रतादिविमुखः सुमुखस्तु यजेत् प्रिये ॥ ६ ॥

यदा पुंसः कृतार्थस्य कालेन बहुना प्रिये ।

मत्प्रसादेन भूयाच्च दृढभक्तिसमागमः ॥ ७ ॥

तदर्थं तर्पणं कुर्याद् द्रव्यैः श्रीभैरवोदितेः ।

गुरूपदेशविधिना चान्यथा पतनं भवेत् ॥ ८ ॥

मन्त्रयोगेन देवेशि कुर्यात् श्रीचक्रपूजनम् ।

तदहन्तु त्वया सार्धं गृह्णामि स्वयमादरात् ॥ ९ ॥

भैरवोऽहमिति ज्ञानात् सर्वज्ञादिगुणान्वितः ।

इति संचिन्त्य योगीन्द्रः कुलपूजारतो भवेत् ॥ १० ॥

इत्यादिलक्षणोपेतः कौलिको नियतव्रतः ।

यस्त्वां समर्चयेद्देवि भुक्तिमुक्त्योः स भाजनम् ॥ ११ ॥

एकान्ते विजनेऽरण्ये देशे बाधाविवजीते ।

सुखासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः ॥ १२ ॥

अमृताब्धौ मणिद्वीपे कल्पवृक्षतरोस्तले ।

रत्नप्राकारसन्दीप्तं स्मरेन्माणिक्यमण्डपम् ॥ १३ ॥

पुष्पमालावितानाढ्यं प्रच्छन्नपटसंवृतम् ।

कर्पूरदीपभास्वन्तं धूपामोदसुगन्धिकम् ॥ १४ ॥

तन्मण्डपस्थमात्मानं ध्यात्वाऽनाकुलचेतसा ।

श्रीगुरोराज्ञया देवि कुलपूजां समाचरेत् ॥ १५ ॥

आत्मस्थानमनुद्रव्यदेवशुद्धिस्तु पञ्चमी ।

यावन्न कुरुते मन्त्री तावद्देवार्चनं कुतः ॥ १६ ॥

सुस्नानभूतसंशुद्धिप्राणायामादिभिः प्रिये ।

षडङ्गाद्यखिलन्यासेरात्मशुद्धिः समीरिता ॥ १७ ॥

सम्मार्जनानुलेपाद्यैर्दर्पणोदरवत्कृतम् ।

वितानधूपदीपादिपुष्पमालोपशोभितम् ।

पञ्चवर्णरजश्चित्रं स्थानशुद्धिरितीरिता ॥ १८ ॥

ग्रथित्वा मातृकावर्णैर्मूलमन्त्राक्षराणि च ।

क्रमोत्क्रमाद् द्विरावृत्त्या मन्त्रशुद्धिरितीरिता ॥ १९ ॥

पूजाद्रव्याणि संप्रोक्ष्य मूलास्त्राद्भिवीधानवित् ।

दर्शयेद्धेनुमुद्राञ्च द्रव्यशुद्धिरितारिता ॥ २० ॥

पीठे देवं प्रतिष्ठाप्य सकलीकृत्य मन्त्रवित् ।

मूलमन्त्रेण दीप्तात्मा न्यासद्रव्योदकेन च ।

त्रिवारं प्रोक्षयेद्विद्वान् देवशुद्धिरितीरिता ॥ २१ ॥

पञ्चशुद्धिं विधायेत्थं पश्चाद् यजनमाचरेत् ।

सा पूजा सफला प्रोक्ता चान्यथा निष्फला भवेत् ॥ २२ ॥

मण्डलेन विना पूजा निष्फला कथिता प्रिये ।

तस्मान्मण्डलमालिख्य विधिवत्तत्र पूजयेत् ॥ २३ ॥

अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् ।

त्रैलोक्यं मण्डितं येन मण्डलं तत् सदा शिवम् ॥ २४ ॥

उड्डीयानां चतुरस्रं कामरूपञ्च वर्त्तुलम् ।

जालन्धरञ्च चन्द्रार्धं त्र्यस्रः पूर्णगिरिर्भवेत् ॥ २५ ॥

अभ्यर्च्य मण्डलं पश्चादाधारान् स्थापयेत् क्रमात् ।

समान्यश्रीगुरुभोगबलिपात्राणि पञ्चधा ॥ २६ ॥

द्विपात्रं वा त्रिपात्रं वा एकपात्रं न कारयेत् ।

स्वदक्षिणादिवामान्तं स्थाप्याभ्यर्च्यासवेन तु ॥ २७ ॥

संपूर्य मूलमन्त्रेण कुलेश्वरि विनिधानवित् ।

तत्र माषप्रमाणन्तु मत्स्यं मांसं विनिक्षेपेत् ॥ २८ ॥

नष्टैः पर्युषितोच्छिष्टैर्दुर्गन्धैर्गन्धवजीतैः ।

हेतुभिः परपात्रस्थैस्तपीतं निष्फलं भवेत् ॥ २९ ॥

न पूरयेत्तु पात्राणि अप्रियैस्तैः कुलेश्वरि ।

स्वादिष्ठैश्च मदिरौष्ठैश्च द्रव्यैरमृतसन्निभैः ।

मनोहरैर्महेशानि तर्पणं सफलं भवेत् ॥ ३० ॥

असंस्कृता सुरा पापकलहव्याधिदुःखदा ।

आयुःश्रीकीत्तीसौभाग्यधनधान्यविनाशिनी ॥ ३१ ॥

तस्मात् संस्कृत्य विधिवत् कुलद्रव्यं ततोऽर्चयेत् ।

अन्यथा नरकं याति दाता भोक्ता न संशयः ॥ ३२ ॥

विना द्रव्यादिवासेन न जपेन्न स्मरेत् प्रिये ।

ये स्मरन्ति नरा मूढास्तेषां दुःखं पदे पदे ॥ ३३ ॥

नासवेन विना मन्त्रो न मन्त्रेण विनासवः ।

परस्परविरोधित्वात् कथं पूजा विधीयते ॥ ३४ ॥

तत्संशयनिवृत्तिञ्च ज्ञात्वा गुरुमुखात् प्रिये ।

वीक्षणं प्रोक्षणं ध्यानं मन्त्रमुद्राविशोधनम् ।

द्रव्यं तर्पणयोग्यं स्याद्देवताप्रीतिकारकम् ॥ ३५ ॥

अग्निसूर्येन्दुब्रह्मेन्द्रविष्णुरुद्रसदाशिवैः ।

चतुवींशतिमन्त्रैः स्यान्मद्यञ्चैव परामृतम् ॥ ३६ ॥

अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ।

शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ ३७ ॥

पूर्णा पूर्णामृता चेति कथिताः कुलनायिके ।

सौम्याः कामप्रदायिन्यः षोडश स्वरजाः कलाः ॥ ३८ ॥

तपनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।

सुषुम्ना भोगदा विश्वा रोधिनी धारिणी क्षमा ।

कभाद्या वसुदाः सौराष्ठडान्ता द्वादशेरिताः ॥ ३९ ॥

धूम्राचीरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।

सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ।

आग्नेया यादिवर्णाद्या दश धर्मप्रदाः कलाः ॥ ४० ॥

सृष्टिर्मेधा स्मृतिरृद्धिः कान्तिर्लक्ष्मीर्द्युतिः स्थिरा ।

स्थितिः सिद्धिरिति प्रोक्ताः कचवर्गकला दश ।

अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः ॥ ४१ ॥

जरा च पालिनी शान्तिरीश्वरी रतिकामिके ।

वरदाह्लादिनीप्रीतिदीर्घाः स्युष्टतवर्गजाः ।

उकारप्रभवा विष्णुजाताः स्युः स्थितये कलाः ॥ ४२ ॥

तीक्ष्ण रौद्री भया निद्रा तन्द्रा क्षुत् क्रोधिनी क्रिया ।

उत्कारी मृत्युरित्युक्ता पयवर्गकला दश ।

मकारप्रभवा रुद्रजाताः संहृतये कलाः ॥ ४३ ॥

षवर्गगाश्चतस्रः स्युः पीता श्वेतारुणासिताः ।

कलाश्चेश्वरसञ्जातास्तिरोधानाय बिन्दुजाः ॥ ४४ ॥

निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।

इन्धिका दीपिका चापि रेचिका मोचिका परा ॥ ४५ ॥

सूक्ष्मा सूक्ष्मामृता ज्ञानाऽमृता चाप्यायिनी तथा ।

व्यापिनी व्योमरूपा च षोडश स्वरजाः कलाः ।

सदाशिवभवा नादादनुग्रहकलाः क्रमात् ॥ ४६ ॥

प्रथमं प्रकृतेर्हंसःप्रतद्विष्णुरनन्तरम् ।

त्र्यम्बकन्तु तृतीयं स्याच्चतुर्थस्तत्पदादिकः ॥ ४७ ॥

विष्णुर्योनिं कल्पयतु पञ्चमः कल्पनामनुः ।

चतुर्नवतिमन्त्रात्मदेवताभावसिद्धिदाः ॥ ४८ ॥

मन्त्रजापश्च संप्रोक्त आत्मस्तवश्च पञ्चभिः ।

अत्र ये (ते) पञ्च संप्रोक्ता मन्त्रास्ते कुलनायिके ॥ ४९ ॥

अखण्डैकरसानन्दाकरे परसुधात्मनि ।

स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि ॥ ५० ॥

अकुलस्थामृताकारे सिद्धिज्ञानकरे परे ।

अमृतत्वं विधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥ ५१ ॥

तद्रूपेणैकरस्यञ्च कृत्वार्घ्यं तत्स्वरूपिणि ।

भूत्वा परामृताकारं मयि चित्स्फुरणं कुरु ॥ ५२ ॥

वाग्भवं पार्श्वगं भूमिः पुष्टिरिन्दुसमन्विता ।

स्थितिश्च पावकानुग्रहार्थेन्दुसमलङ्कृता ॥ ५३ ॥

स्थिरेन्धिकेन्दुसंयुक्ता श्वेता बिन्दुयुगान्विता ।

तथामृते पदं ब्रूयात्तत्पश्चादमृतोद्भवे ॥ ५४ ॥

तथामृतेश्वरीत्युक्त्वा पश्चादमृतवषीणि ।

अमृतं स्रावयद् द्वन्द्वं द्विठान्तो द्रव्यशुद्धिकृत् ।

अमृतेशीमनुः प्रोक्तः पञ्चत्रिंशद्भिरक्षरैः ॥ ५५ ॥

वाग्भवं वदयुग्मञ्च वाग्वादिनीति वाग्भवम् ।

कामराजं ततः क्लिन्ने क्लेदिनि क्लेदयेति च ॥ ५६ ॥

महामोक्षं कुरुयुग्मं कामराजमतः परम् ।

तार्त्तीयं मोक्षशब्दान्ते कुरुयुग्मं वदेत्ततः ॥ ५७ ॥

स्यात् प्रासादपरा चान्तेसप्तत्रिंशद्भिरक्षरैः ।

दीपनीमनुरित्युक्तः सर्वसिद्धिकरः प्रिये ॥ ५८ ॥

एताः कला मातृकाञ्चाप्यख(ण्डेन्द्वा)ण्डैकादिकान् मनून् ।

अमृतेशीं दीपनीञ्च मूलामन्त्रमपि क्रमात् ॥ ५९ ॥

एकद्वित्रिचतुःपञ्च द्विचतुर्वारमम्बिके ।

संस्मृत्याभ्यर्च्य पात्रन्तु पूजयेद्धेनुमुद्रया ॥ ६० ॥

ब्रह्माण्डखण्डसम्भूतमशेषरससम्भृतम् ।

आपूरितं महापात्रं पीयूषरसमावह ॥ ६१ ॥

शुद्धद्रव्येण तेनापि गन्धपुष्पाक्षतैरपि ।

न्यासोक्तसर्वमन्त्रैश्चाप्यात्मानं पूजयेत् प्रिये ॥ ६२ ॥

मूध्नी श्रीगुरुपङ्क्तीश्च मूलाधारे च पादुकाम् ।

दिव्यौघे चादिनाथश्च तच्छक्तिश्च सदाशिवः ॥ ६३ ॥

तत्पत्नी चेश्वरस्तस्य भार्या रुद्रश्च तद्वधूः ।

विष्णुश्च तत्प्रिया ब्रह्मा तत्कान्ता द्वादशेरिताः ॥ ६४ ॥

सिद्धौघे सनकश्चैव सनन्दश्च सनातनः ।

सनत्कुमारश्च सनत्सुजातश्च ऋभुक्षजः ॥ ६५ ॥

दत्तात्रेयो रैवतको वामदेवस्ततः परम् ।

ततो व्यासः शुकश्चैव एकादश समीरिताः ॥ ६६ ॥

मानवौघे नृसिंहश्च महेशो भास्करस्तथा ।

महेन्द्रो माधवो विष्णुः षडेते च प्रकीत्तीताः ॥ ६७ ॥

नमोऽन्ते योजयेद्देवि दिव्यौघे परमं शिवम् ।

महाशिवञ्च सिद्धौघे मानवौघे सदाशिवम् ॥ ६८ ॥

ततः पीठं समभ्यर्च्य देवीमावाहयेत् प्रिये ।

महापद्मवनान्तःस्थे कारणानन्दविग्रहे ।

सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ ६९ ॥

देवेशि भक्तिसुलभे सर्वावरणसंयुते ।

यावत्त्वां पूजयामीह तावत्त्वं सुस्थिरा भव ॥ ७० ॥

मन्त्रेणानेन चावाह्य यजेद्देवीमनन्यधीः ।

ध्यात्वा मुद्रां प्रदर्श्यार्चेत् गन्धपुष्पाक्षतादिभिः ॥ ७१ ॥

चिन्मयस्याप्रमेयस्य निर्गुणस्याशरीरिणः ।

साधकानां हितार्थाय ब्रह्मणो रूपकल्पना ॥ ७२ ॥

लिङ्गस्थण्डिलवह्न्यम्बुसूपकुड्यपटेषु च ।

मण्डले फलके मूध्नी हृदि वा दश कीत्तीताः ॥ ७३ ॥

एषु स्थानेषु देवेशि यजन्ति परमां शिवाम् ।

अरूपां रूपिणीं कृत्वा कर्मकाण्डरता नराः ॥ ७४ ॥

गवां सर्वाङ्गजं क्षीरं स्रवेत् स्तनमुखाद् यथा ।

तथा सर्वगतो देवः प्रतिमादिषु राजते ॥ ७५ ॥

आभिरूप्याच्च बिम्बस्य पूजायाश्च विशेषतः ।

साधकस्य च विश्वासात् सन्निधौ देवता भवेत् ॥ ७६ ॥

गवां सपीः शरीरस्थं न करोत्यङ्गपोषणम् ।

स्वकर्मरचितं दत्तं पुनस्तामेव पोषयेत् ॥ ७७ ॥

एवं सर्वशरीरस्था सपीर्वत् परमेश्वरी ।

विना चोपासनां देवि न ददाति फलं नृणाम् ॥ ७८ ॥

सकलीकृत्य तत्प्राणान् समुद्दीप्येन्द्रियाणि च ।

प्रतिष्ठाप्यार्चयेद्देवि चान्यथा निष्फलं भवेत् ॥ ७९ ॥

मन्त्रहीनं क्रियाहीनं विधिहीनञ्च यद् भवेत् ।

क्षमया साधयेत् सर्वं हीनमङ्गं पदं तथा ॥ ८० ॥

नियमादतिरेकेण यद् यत् कर्म करोति यः ।

न किञ्चिदप्यस्य फलं सिध्यति क्रमदोषतः ॥ ८१ ॥

न्यूनातिरिक्तकर्माणि न फलन्ति कदाचन ।

यथाविधि कृतानीह सत्कर्माणि फलन्ति हि ॥ ८२ ॥

तद्विधानकृतं कर्म जपहोमार्चनादिषु ।

देवताप्रीतिदं भूयाद् भुक्तिमुक्तिफलप्रदम् ॥ ८३ ॥

देवस्य मन्त्ररूपस्य मन्त्रव्याप्तिमजानताम् ।

कृतार्चनादिकां सर्वं व्यर्थं भवति शाम्भवि ॥ ८४ ॥

यन्त्रं मन्त्रमयं प्रोक्तं देवता मन्त्ररूपिणी ।

यन्त्रे सा पूजिता देवि सहसैव प्रसीदति ॥ ८५ ॥

कामक्रोधादिदोषोत्थसर्वदुःखनियन्त्रणात् ।

यन्त्रमित्याहुरेतस्मिन् देवः प्रीणाति पूजितः ॥ ८६ ॥

शरीरमिव जीवस्य दीपस्य स्नेहवत् प्रिये ।

सर्वेषामपि देवानां तथा यन्त्रं प्रतिष्ठितम् ॥ ८७ ॥

तस्माद् यन्त्रं लिखित्वा वा ध्यात्वा सावृतिकं शिवम् ।

ज्ञात्वा गुरुमुखात् सर्वं पूजयेद्विधिना प्रिये ॥ ८८ ॥

एकपीठे पृथक्पूजां विना यन्त्रं करोति यः ।

अङ्गाङ्गित्वं परित्यज्य देवताशापमाप्नुयात् ॥ ८९ ॥

एकपीठे कुलेशानि स्वे स्वे यन्त्रे पृथक्पृथक् ।

यजेदावरणोपेता देवतास्तद्विधानतः ॥ ९० ॥

आवाह्य देवतामेकां पूजयेदन्यदेवताम् ।

उभाभ्यां लभते पापं मन्त्री चञ्चलमानसः ॥ ९१ ॥

इत्यादिलक्षणं ज्ञात्वा गुरुतः शास्त्रतः प्रिये ।

विधिनाभ्यर्चयेत् सम्यग्देवता सुप्रसीदति ॥ ९२ ॥

षोडशैरुपचारैस्तु साङ्गं सावरणं शिवम् ।

पूजयेन्मूलमन्त्रेण गन्धपुष्पाक्षतादिभिः ॥ ९३ ॥

महाषोढोदिताशेषपरिवारांश्च शाम्भवि ।

प्रणवादिनमोऽन्तेन तत्तन्नाम्ना समर्चयेत् ॥ ९४ ॥

आगमोक्तेन मार्गेण तर्पयेदलिबिन्दुभिः ।

अङ्गुष्ठानामिकाभ्याञ्च नखे निःसृतमूर्ध्वतः ।

स्वपात्रस्पन्दनिस्यन्दं विधिवत् कुलनायिके ॥ ९५ ॥

सकृत्तर्पणमुत्सृज्य जप्त्वा मूलञ्च पादुकाम् ।

अन्तःशक्तिं समुत्थाप्य तर्पयेद्देहदेवताः ॥ ९६ ॥

अङ्गुष्ठो भैरवो देवो अनामा चण्डिका प्रिये ।

अनामाङ्गुष्ठयोगेन तर्पयेत् कुलसन्ततिम् ॥ ९७ ॥

अङ्गुष्ठानामिकाभ्याञ्च वश्यकर्मणि तर्पयेत् ।

तर्जन्यङ्गुष्ठयोगेन तर्पयेदभिचारके ।

कनिष्ठाङ्गुष्ठयोगेन स्तम्भने तर्पयेत् प्रिये ॥ ९८ ॥

एवं सन्तर्प्य देवेशि कुलद्रव्यैर्यथाविधि ।

देवतापुरतो देवि गुरुपङ्क्तीश्च पूजयेत् ।

पङ्क्तित्रयक्रमेणाथ ज्ञात्वा सम्यगनन्यधीः ॥ ९९ ॥

कराभ्यां चिन्मुद्रां समधुनृकपालञ्च दधतीं द्रुतस्वर्णप्रख्यामरुणकुसुमालेपवसनाम् ।

कृपापूर्णापाङ्गीमरुणनयनामम्बरजटा- मुपेतां सिद्धौघैर्यजतु गुरुपंक्तिं क्रमगतिम् ॥ १०० ॥

एवं संपूज्य धूपञ्च दीपं नैवेद्यमेव च ।

आसवं पिशितोपेतं भक्ष्याणि विविधानि च ।

कदल्यादिफलान्येव ताम्बूलञ्च समर्पयेत् ॥ १०१ ॥

इति ते कथितं देवि कुलाचारस्य लक्षणम् ।

द्गव्यसंस्कारशुद्ध्यादि किमन्यत् श्रोतुमिच्छसि ॥ १०२ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे द्रव्यसंस्कारविधानकथनं नाम षष्ठोल्लासः ॥ ६ ॥


अथ सप्तमोल्लासः

[सम्पाद्यताम्]

श्रीदेव्युवाच

कुलेश बटुकादीनां बलिञ्च शक्तिलक्षणम् ।

तदद्रव्यस्यैव स्वीकारं वद मे करुणानिधे ॥ १ ॥

ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण तत्त्वज्ञानं प्रकाशते ॥ २ ॥

यावन्नो वटुके दद्यात्तावन्नैव कुलेश्वरि ।

तृप्यन्ति देवताः सर्वाः स्मरणाद् यजनादपि ॥ ३ ॥

वटुकादीन् यजेत्तस्माद् गन्धपुष्पासवामिषैः ।

तत्तन्मन्त्रविधानेन देवता प्रीतिमाप्नुयात् ॥ ४ ॥

यत्किञ्चिद्धव्यसंघातं पूजार्थं भोगहेतुना ।

आनीतं दीयते भक्त्या क्षेत्रपेभ्यः कुलेश्वरि ॥ ५ ॥

वटुकमन्त्रान् वक्ष्यामि शृणुष्व कुलनायिके ।

यैः समचीतमात्रेण सर्वे नश्यन्त्युपद्रवाः ॥ ६ ॥

तारत्रयं ततो देवीपुत्रेति बटुकेति वा ।

नाथेति कपिलजटाभारभास्वरपिङ्गल ॥ ७ ॥

त्रिनेत्रेति पदं पश्चाज्ज्वालामुखपदं ततः ।

इमां पूजां बलिं गृह्णद्वयं पावकवल्लभा ।

उक्तो वटुकमन्त्रोऽयं चतुश्चत्वारिंशदक्षरैः ॥ ८ ॥

बलिदानेन सन्तुष्टो बटुकः सर्वसिद्धिदः ।

शान्तिं करोतु मे नित्यं भूतवेतालसेवितः ॥ ९ ॥

तारत्रयं ततः सर्वयोगिनीभ्यः पदं वदेत् ।

तत्पश्चात् सवर्भूतेभ्यः सर्वभूताधिवत्ती च ॥१०॥

पदं ताभ्यो डाकिनीभ्यः शाकिनीभ्यः पदं वदेत् ।

त्रैलोक्येति पदं चैव वासिनीभ्य इमां वदेत् ॥ ११ ॥

पूजां बलिं गृह्णयुग्मं स्वाहान्तो योगिनीमनुः ।

कथितोऽयं महेशानि मन्त्रः पञ्चादशाक्षरः ॥ १२ ॥

या काचिद् योगिनी रौद्रा सौम्या घोरतरा परा ।

खेचरी भूचरी व्योमचरी प्रीतास्तु मे सदा ॥ १३ ॥

तारत्रयं वदेत् सर्वभूतेभ्यः सर्व एव हि ।

पश्चाद् भूतपतिभ्यो हृद्युक्तः सप्तदशाक्षरः ॥ १४ ॥

भूता ये विविधाकारा दिव्या भौमान्तरिक्षगाः ।

पातालसंस्था मे केविच्छिवयोगेन भाविताः ॥ १५ ॥

ध्रुवाद्याः सत्यसन्धाश्च इन्द्राद्याः स्वर्व्यवस्थिताः।

तृप्यन्तु प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ॥ १६ ॥

तारत्रयं वदेद्देहियुग्मं देवीपदं वदेत् ।

पुत्राय बटुकनाथाय पश्चादुच्छिष्टहारिणे ।

सर्वविघ्नान् पदं पश्चात् नाशयद्वितयं तथा ॥ १७ ॥

गृह्णयुग्मं रुरुपदं क्षेत्रपालपदं ततः ।

सर्वोपचारसहितामिमां पूजां बलिं वदेत् ।

गृह्ण गृह्ण द्विठान्तोऽयं क्षेत्रपालमनुः प्रिये ॥ १८ ॥

चतुःषष्ट्यक्षरैः प्रोक्तः सर्वसिद्धिप्रदायकः ।

योऽस्मिन् क्षेत्रे निवासी च क्षेत्रपालस्य किङ्करः ।

प्रीतोऽयं बलिदानेन सर्वरक्षां करोतु मे ॥ १९ ॥

तारत्रयं वदेत्तारं श्रीप्रासादपरामनुः ।

ह्रां ह्रीं ह्रूञ्च युगञ्चादौ भैरवाधिष्ठिताय च ॥ २० ॥

अक्षोभ्यानन्दतः पश्चाद्धृदयाभीष्टदः परम् ।

सिद्धार्थपदमाभाष्य पश्चादवतरद्वयम् ॥ २१ ॥

क्षेत्रपालपदं पश्चात् महाशान्त पदं ततः ।

मातृपुत्रपदं पश्चात् कुलपुत्रपदं तथा ॥ २२ ॥

सिद्धिपुत्रपदं चास्मिन् स्थानाधिपपदं ततः ।

ग्रामाधिपतयेऽस्मिन् स्याद्देशाधिपतये ततः ॥ २३ ॥

वदेद् बटुकनाथेति देवीपुत्रपदं ततः ।

मेघनादपदं पश्चात् प्रचण्डोग्रपदं वदेत् ॥ २४ ॥

कपालीति पदं पश्चाद्भीषणेति पदं वदेत् ।

स्यात् सर्वविघ्नाधिपतये इमां पूजां बलिं वदेत् ॥ २५ ॥

गृह्ण गृह्ण कुरुद्वन्द्वं मम दूरययुग्मकम् ।

ज्वलयुक्प्रज्वलयुगं सर्वविघ्नानीतीरयेत् ॥ २६ ॥

नाशयद्वितयं क्षां क्षं पश्चाद् बुद्धिमितीरयेत् ।

क्षेत्रपालाय वौषट् ह्रूं षष्ट्युत्तरशताक्षरः ॥ २७ ॥

तारत्रयं वदेत् पश्चादमुक क्षेत्रपाल च ।

राजराजेश्वर इमां पूजां बलिमतः परम् ।

गृह्णयुग्मं द्विठान्तोऽयमष्टाविंशाक्षरो मनुः ॥ २८ ॥

अनेन बलिदानेन वटुवंशसमन्वितः ।

राजराजेश्वरो देवो मे प्रसीदतु सर्वदा ॥ २९ ॥

पश्चिमे वटुकं देवमुत्तरे योगिनीबलिम् ।

पूर्वे भूतबलिं दद्यात् क्षेत्रपालञ्च दक्षिणे ।

राजराजेश्वरं मध्ये पूजयेत् कुलनायिके ॥ ३० ॥

अङ्गुष्ठानामिकाभ्याञ्च बटुकस्य बलिः स्मृतः ।

तर्जनीमध्यमानामिकाङ्गुष्ठैर्योगिनीबलिः ॥ ३१ ॥

अङ्गुलीभिश्च सर्वाभिरुक्तो भूतबलिः प्रिये ।

अङ्गुष्ठतर्जनीभ्याञ्च क्षेत्रपालबलिर्भवेत् ।

अङ्गुष्ठमध्यमाभ्याञ्च राजराजेश्वरस्य च ॥ ३२ ॥

बटुकादीन् समर्च्यैवं कुलदीपान् प्रदर्शयेत् ।

ईषद्रक्तसुपिष्टेन चतुरङ्गुलिमानतः ॥ ३३ ॥

दीपान् डमरुकाकारान् त्रिकोणानतिशोभनान् ।

कर्षाज्यग्राहिणः कुर्ययान्नव सप्ताथ पञ्च वा ॥ ३४ ॥

अन्तस्तेजो बहिस्तेज एकीकृत्यामितप्रभान् ।

त्रिधा देव्युपरि भ्राम्य कुलदीपान् निवेदयेत् ॥ ३५ ॥

समस्तचक्रचक्रेशि देवेशि सकलात्मिके ।

आरात्रीकमिदं देवि गृहाण मम सिद्धये ।

कुलदीपान् प्रदर्श्याथ शक्तिपूजां समाचरेत् ॥ ३६ ॥

स्वशक्तिं वीरशक्तिं वा दीक्षितां गुरुमार्गतः ।

पाययित्वा चरेत् पानमिति शास्त्रस्य निश्चयः ॥ ३७ ॥

अदीक्षितां स्त्रियं कुर्यात् सद्यः संस्कारमम्बिके ।

मन्त्रदीक्षाविधानेन् शुद्धा भवति नान्यथा ॥ ३८ ॥

तस्मात् सुलक्षणां शक्तिं गन्धपुष्पाक्षतादिभिः ।

अभ्यर्च्य देवताबुद्ध्या भोगपात्रं निवेदयेत् ॥ ३९ ॥

तदन्ते कन्यकाश्चापि प्रमदाश्च मनोहराः ।

सम्पूज्य देवताबुद्ध्या दद्यात् पात्रं पृथक् पृथक् ॥ ४० ॥

अनिवेद्य तु यः शक्त्यै कुलद्रव्यं निषेवते ।

पूजितं निष्फलं तस्य देवता न प्रसीदति ॥ ४१ ॥

चण्डाली चर्मकारी च मातङ्गी पुक्कसी तथा ।

श्वपची खट्टकी चैव कैवर्त्ती विश्वयोषितः ॥ ४२ ॥

कुलाष्टकमिदं प्रोक्तमकुलाष्टकमुच्यते ।

कन्दुकी शौण्डिकी चैव शस्त्रजीवी च रञ्जकी ॥ ४३ ॥

गायकी रजकी शिल्पी कौलिकी च तथाष्टमी ।

तन्त्रमन्त्रसमायुक्ता समयाचारपालिका ॥ ४४ ॥

कुमारी च व्रतस्था च योगमुद्राधरापि वा ।

पूजाकाले स्वतः प्राप्ता सा ज्ञेया सहजा बुधैः ॥ ४५ ॥

उक्तजात्यङ्गनाभावे चातुर्वर्ण्याङ्गनां यजेत् ।

सुरूपा तरुणी शान्ता कुलाचारयुता शुचिः ॥ ४६ ॥

शङ्काहीना भक्तियुक्ता गूढा शास्त्रोपजीविनी ।

अलोलुपा सुशीला च स्मितास्या प्रियवादिनी ॥ ४७ ॥

गुरुदैवतसम्भक्ता सुचिता कौलिकप्रिया ।

विमत्सरा विशेषज्ञा देवताराधनोत्सुका ।

मनोहरा सदाचारा शक्तिरेषा सुलक्षणा ॥ ४८ ॥

दुष्टोग्रा कर्कशा क्रूरा दुःखिता कुलदूषणी ।

दुराचारा पराधीना भीता लुब्धातुराऽलसा ॥ ४९ ॥

निद्रासक्तातिदुर्म्मेधा हीनाङ्गी व्याधिपीडिता ।

दुर्गन्धा कुत्सिता मूढा वृद्धोन्मत्ता रहस्यभित् ॥ ५० ॥

कुतर्का कुत्सितालापा निर्लज्जा कलहप्रिया ।

विरूपोन्मार्गगा स्तब्धा पङ्ग्वन्धविकृतानना ।

ईदृशीं मन्त्रयुक्ताञ्च शक्तिं यागे विवर्जयेत् ॥ ५१ ॥

ततोऽर्चनादिकं सर्वं मन्त्रोदकपुरःसरम् ।

इतः पूर्वादिमनुना मन्त्री देव्यै समर्पयेत् ॥ ५२ ॥

तारत्रयमितः पूर्वं प्राणबुद्धी ततः परम् ।

देहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्तिषु ॥ ५३ ॥

मनसा चेतसा वाचा कर्मणा तत्परं वदेत् ।

हस्ताभ्याञ्च ततः पद्भयामुदरेण ततः परम् ॥ ५४ ॥

शिश्ना च यत् स्मृतं पश्चाद् यदुक्तं यत् कृतं वदेत् ।

तत् सर्वं गुरवे चान्ते मत्समपीतमस्त्विति ।

स्वाहान्तो मनुरित्युक्तस्त्रिसप्तत्यक्षरः प्रिये ॥ ५५ ॥

ज्ञानतोऽज्ञानतो वापि यन्मया क्रियते शिवे ।

तव कृत्यमिदं सर्वमिति ज्ञात्वा क्षमस्व मे ॥ ५६ ॥

एवं सम्प्रार्थ्य देवेशि स्तुत्वा नत्वा च भक्तितः ।

प्रधानदेवतामूर्त्तौ परिवारान् समर्चयेत् ।

एवं सावरणां देवीं चिन्तयेत् स्वहृदम्बुजे ॥ ५७ ॥

शेषिकाये समर्प्यात्ममूलमन्त्रेण शोधयेत् ।

स्याद्वाग्भवं हृदुच्छिष्टचाण्डालि तदनन्तरम् ॥ ५८ ॥

वदेन्मातङ्गि सर्वन्ते वश्यंकुरुयुगन्ततः ।

एकविंशतिवर्णैश्च शेषिकामनुरीरितः ॥ ५९ ॥

मन्त्रेणानेन निर्माल्यं शेषिकायै समर्पयेत् ।

देवीमुच्छिष्टमातङ्गीं ध्यायेत् त्रैलोक्यमोहिनीम् ॥ ६० ॥

वीणावाद्यविनोदगीतनिरतां नीलांशुकोल्लासिनीं बिम्बोष्ठीं नवयावकार्द्रचरणामाकीर्णकेशालकाम् ।

मृद्वङ्गीं सिंतशङ्खकुण्डलधरां माणिक्यभूषोज्ज्वलां मातङ्गीं प्रणतोऽस्मि सुस्मितमुखीं देवीं शुकश्यामलाम् ॥६१।

ततः श्रीगुरुरूपाय साक्षात् परशिवाय च ।

कराभ्यां पात्रमुद्धृत्य सद्वितीयं समर्पयेत् ॥ ६२ ॥

स्वसम्प्रदायसंयुक्तैर्वीरैश्च सह पूजयेत् ।

अन्योन्यवन्दनं कृत्वा पिबेत्तत्तदनुज्ञया ॥ ६३ ॥

सव्येनोद्धृत्य पात्रन्तु मुद्रां कृत्वाऽपसव्यतः ।

यथाविधि द्वितीयेन गृह्णीयान्मन्त्रमुच्चरन् ॥ ६४ ॥

पिशितं माषमात्रन्तु द्रव्यं चुल्लुकसम्मितम् ।

आत्मदेहत्रयं तत्त्वं त्रयेणाथ विशोधयेत् ॥ ६५ ॥

तरुणोल्लाससहितः प्रसन्नवदनेक्षणः ।

गुरुः शिष्यान् समाहूय दद्यात्तत्त्वत्रयं प्रिये ॥ ६६ ॥

शिष्योपायनमादाय शुद्धात्मा कुसुमादिकम् ।

यथाशक्ति निवेद्याथ वित्तशाठ्यविवजीतः ॥ ६७ ॥

प्रणम्य बहिरष्टाङ्गं प्रविश्यान्तः शनैः प्रिये ।

समर्प्योपायनं भक्त्या शिवाय गुरुरूपिणे ॥ ६८ ॥

ग्रथिताङ्गुष्ठकौ कृत्वा करौ सक्ताग्रतर्जनी ।

जानुभ्यामवनिं गत्वा पञ्चाङ्गं प्रणमेद् गुरुम् ॥ ६९ ॥

वामाऽङ्गुष्ठानामिकाभ्यां दक्षहस्तप्रसारितम् ।

स्पृष्ट्वा विशुद्धहृदय ईषदानतमस्तकः ॥ ७० ॥

वामाङ्गुष्ठानामिकाभ्यां शिष्याय श्रीगुरुः प्रिये ।

प्रकृत्याद्यैः पृथिव्यन्तैश्चतुवींशतिभिः प्रिये ॥ ७१ ॥

स्वरैरशुद्धतत्त्वैश्च वाग्भवेन कुलेश्वरि ।

संयुक्तेनात्मतत्त्वेन स्थूलदेहं विशोधयेत् ॥ ७२ ॥

मायादिपुरुषान्तैश्च शुद्धाशुद्धैश्च सप्तभिः ।

तत्त्वैः स्पर्शाह्वयैर्वर्णैः कामराजेन मन्त्रवित् ।

युक्तेन विद्यातत्त्वेन सूक्ष्मदेहं विशोधयेत् ॥ ७३ ॥

शुद्धैः शिवादिविद्यान्तैः पञ्चतत्त्वैश्च व्यापकैः ।

परया शिवतत्त्वेन परं देहं विशोधयेत् ॥ ७४ ॥

षट्त्रिंशत्तत्त्वसहितमालिन्या बालया प्रिये ।

सर्वतत्त्वाश्रयं बीजं सर्वतत्त्वैवीशोधयेत् ॥ ७५ ॥

शोधयेति पदं दद्यात् सद्वितीयमलिं गुरुः ।

चुल्लुकं गुरुणा दत्तं शोधयामीति चोच्चरन् ।

भक्त्या चावनतः शिष्यो निःशब्दं त्रिः पिबेदलिम् ॥ ७६ ॥

पाणिभ्यां संस्पृशेद्देहं सर्वतत्त्वं समुच्चरन् ।

शिरःप्रभृतिपादान्तं शुद्धं देहं विचिन्तयेत् ॥ ७७ ॥

स्थूलान्तमात्मतत्त्वं स्यात् सूक्ष्मं विद्यान्तगोचरम् ।

परान्तं शिवतत्त्वं स्यादिति तत्त्वत्रयं जगत् ॥ ७८ ॥

एवं तत्त्वत्रयज्ञानं गुरोर्ज्ञात्वा य आचरेत् ।

स जीवन्नेव मुक्तः स्यादिति शङ्करभाषितम् ॥ ७९ ॥

ततः स्वीकृत्य च गुरुः शिष्येभ्यः शेषदो भवेत् ।

आदाय गुरुणा दत्तं सद्वितीयासवं पिबेत् ॥ ८० ॥

श्रीगुरुज्येष्ठपूज्यानां पुरतः कुलनायिके ।

नोपविश्य पिबेन्मद्यं इति शास्त्रस्य निर्णयः ॥ ८१ ॥

प्राणभेदफलोल्लासप्रणामस्थितिलक्षणम् ।

अविज्ञायाचरेद् यस्तु स भवेदापदाम्पदम् ॥ ८२ ॥

निर्मन्त्रं न पिबेन्मद्यं प्रायश्चित्तं विधीयते ।

तस्मान्मन्त्रविधानेन कर्तव्यं कुलनायिके ॥ ८३ ॥

इदं पवित्रममृतं पिबामि भवभेषजम् ।

पशुपाशसमुच्छेदकारणं भैरवोदितम् ॥ ८४ ॥

चित्ते स्वातन्त्र्यसारत्वात्तदानन्दमयात्मनः ।

तन्मयत्वाच्च भावानां भावाश्चान्तहीता रसे ॥ ८५ ॥

सुषुम्नान्तं विकाशाय सुरसस्तेन पीयते ।

तस्मादिमां सुरां देवीं पूर्णोऽहं त्वां पिबाम्यहम् ॥ ८६ ॥

मन्त्रेणानेन देवेशि मूलमन्त्रेण मन्त्रवित् ।

अनाकुलमनाः कुर्यादलिपानं शनैः शनैः ॥ ८७ ॥

स्वात्ममूलत्रिकोणस्थे कोटिसूर्यसमप्रभे ।

कुण्डल्याकृतिचिद्रूपे हुनेद् द्रव्यं समन्त्रकम् ॥ ८८ ॥

महन्तापात्रभरितमिदन्तापरमामृतम् ।

पराहन्तामये वह्नौ होमस्वीकारलक्षणम् ॥ ८९ ॥

गुरुदैवतमन्त्राणामैक्यं सञ्चिन्तयेद्धिया ।

यावदुल्लासपर्यन्तमुपदेशे पिबेन्मधु ॥ ९० ॥

चुल्लनं सिद्धिदं प्रोक्तं दीपो ज्ञानप्रदायकः ।

पानात् परपदप्राप्तिः कौले त्रयमितीरितम् ॥ ९१ ॥

भोजनान्ते बिषं मद्यं मद्यान्ते भोजनं विषम् ।

अमृतं तद्विजानीयाद् यदन्नं सुरया सह ॥ ९२ ॥

चर्वणेन युतं पानममृतं कथितं प्रिये ।

चर्वणेन बिना पानं केवलं विषवर्द्धनं ॥ ९३ ॥

पानञ्च त्रिविधं प्रोक्तं दिव्यवीरपशुक्रमात् ।

दिव्यं देव्यग्रतः पानं वीरं मुद्रासने कृतम् ॥ ९४ ॥

स्वेच्छया पशुवत्पीतं पशुपानमितीरितम् ॥ ९५ ॥

भुक्तिमुक्तिप्रदं दिव्यं वीरं भुक्तिप्रदं भवेत् ।

पशुपानं नरकदं प्रोक्तं पानफलं प्रिये ॥ ९६ ॥

दृष्टिमानसवाक्काये यावन्नो भवति भ्रमः ।

तावत् पानं प्रकुर्वीत पशुपानमतः परम् ॥ ९७ ॥

यावन्नेन्द्रियवैकल्यं यावन्नो मुखवैकृतम् ।

तावदेव पिबेन्मद्यमन्यथा पतनं भवेत् ॥ ९८ ॥

पूर्णाभिषेकयुक्तानां पानं देवि निगद्यते ।

कराभ्यां पात्रमुद्धृत्य स्मरेन्मूलञ्च पादुकाम् ।

आगलान्तं पिबेद्द्रव्यं स मुक्तो नात्र संशयः ॥ ९९ ॥

पीत्वा पीत्वा पुनः पीत्वा यावत् पतति भूतले ।

उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते ॥ १०० ॥

आनन्दात्तृप्यते देवी मूर्च्छया भैरवः स्वयम् ।

वमनात् सर्वदेवाश्च तस्मात्रिविधमाचरेत् ॥ १०१ ॥

दिव्यपानरतानां वै यत् सुखं कुलयोगिनाम् ।

तत् सुखं सार्वभौमस्य नृपस्यापि न विद्यते ॥ १०२ ॥

यत् सुखं कुलनिष्ठानां कुलद्रव्यनिषेवनात् ।

तत् सौख्यमेव मोक्षः स्यात् सत्यमेव वरानने ॥ १०३ ॥

इति ते कथितं किञ्चित् वटुशक्त्यादिपूजनम् ।

समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १०४ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे बटुकशक्त्यादिपूजनं नाम सप्तमोल्लासः ॥ ७ ॥


अथाष्टमोल्लासः

[सम्पाद्यताम्]

श्रीदेव्युवाच

कुलेश श्रोतुमिच्छामि करुणामृतवारिधे ।

उल्लासभेदं देवेश द्रव्यपात्रादिसङ्गमम् ॥ १ ॥

रत्युद्वासनकालञ्च श्रीचक्रस्थितिमेव च ।

चेष्टां कौलिकशक्तीनां वद मे परमेश्वर ॥ २ ॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण जायते दिव्यभावना ॥ ३ ॥

आरम्भस्तरुणश्चैव यौवनं प्रौढमेव च ।

तदन्तश्चोन्मनाश्चैव ततोल्लासश्च सप्तमः ॥ ४ ॥

तत्त्वत्रयं स्यादारम्भः कथितः कुलनायिके ।

कथितस्तरुणोल्लासस्तरुणं सुखमम्बिके ॥ ५ ॥

यौवनं मनसः सम्यगुल्लासः सुस्थितिः प्रिये ।

स्खलनं दृङ्मनोवाचां प्रौढमित्यभिधीयते ॥ ६ ॥

समुल्लासपरे चक्रे य इच्छेत् पात्रमेलनम् ।

अर्वाक् प्रौढसमुल्लासं नैव कुर्यात् कदाचन ।

यथाधिकारं तत्रापि कर्त्तव्यं पात्रमेलनम् ॥ ७ ॥

अदीक्षितैरनाचारैरतन्त्रज्ञदैवतैः ।

दूषकैः समयभ्रष्टैर्न कुर्याद् द्रव्यसङ्गतिम् ॥ ८ ॥

अभिज्ञं मन्यमानैश्च प्रपञ्चव्रतधारिभिः ।

पशुभिः क्षुद्रकर्मस्थैर्न कुर्याद् द्रव्यसङ्गतिम् ॥ ९ ॥

स्त्रीद्विष्टैर्गुरुभिः शप्तैर्भक्तिहीनैर्दुरात्मभिः ।

कुलोपदेशहीनैश्च न कुर्याद् द्रव्यसङ्गतिम् ॥ १० ॥

पदवाक्यप्रमाणज्ञाः श्रुतिस्मृत्यर्थवेदिनः ।

कुलधर्मानभिज्ञाश्चेत्तत्सङ्गं परिवर्जयेत् ॥ ११ ॥

सत्कुले च प्रसूता वा वृद्धाश्चाचारवत्तीनः ।

त्वत्पूजाविमुखाः स्युश्चेत्तत्संसर्गं परित्यजेत् ॥ १२ ॥

स्त्रीपुत्रमित्रबन्धूनां स्निग्धानामपि पार्वति ।

कुलाचारानभिज्ञानां सङ्गतिं वर्जयेत्प्रिये ॥ १३ ॥

अदृष्टपौरुषाणाञ्च देशान्तरनिवासिनाम् ।

विना सङ्केतयोगेन न कुर्याद् द्रव्यसङ्गतिम् ॥ १४ ॥

एकपात्रं न कुर्वीत यदि साक्षात् कुलेश्वरः ।

मन्त्राः पराङ्मुखा यान्ति विघ्नश्चैव पदे पदे ॥ १५ ॥

स्वपात्रस्थितहेतुञ्च न दद्याद्भैरवाय च ।

यदि दद्यात्कुलेशानि देवताशापमाप्नुयात् ॥ १६ ॥

आसनं भोजनं पात्रमम्बरं शयनादिकम् ।

अनभिज्ञैरनर्हैश्च सङ्गमं नैव कारयेत् ॥ १७ ॥

स्रोतोभेदेन वा कुर्यात्कौलिकः पात्रमेलनम् ।

पूर्वदक्षिणयोरैक्यमुदक्पश्चिमयोस्तथा ॥ १८ ॥

तस्मिन् क्रमार्चनपरैर्वीरैः स्वसदृशैरपि ।

कामिनीभिश्च तत्कुर्यात् स्रोतसाञ्च चतुष्टये ॥ १९ ॥

योगिभिर्योगिनीभिश्च प्रदत्तं पूर्णपात्रकम् ।

स्वमातृपादुकामूलमन्त्रजप्तं पिबेत्प्रिये ॥ २० ॥

क्वचित् यदृच्छया प्राप्तमलिपात्रन्तु भक्तितः ।

आदाय पूर्ववज्जप्त्वा पिबेद्देवि गुरुं स्मरन् ॥ २१ ॥

गुरुशक्तिसुतानाञ्च गुरुज्येष्ठकनिष्ठयोः ।

स्वज्येष्ठस्यापि चोच्छिष्टं खादेन्नान्यस्य पार्वति ॥ २२ ॥

शक्त्युच्छिष्टं पिबेद् द्रव्यं वीरोच्छिष्टञ्च चर्वणम् ।

आत्मोच्छिष्टं न दातव्यं परकीयं न भक्षयेत् ॥ २३ ॥

उच्छिष्टं भक्षयेत् स्त्रीणां ताभ्यो नोच्छिष्टमर्पयेत् ।

चक्रमध्येऽपि देवेशि अन्यथा पतनं भवेत् ॥ २४ ॥

कनिष्ठानां स्वशिष्याणां दद्यादुच्छिष्टमम्बिके ।

दद्यात् स्नेहेन योऽन्येभ्यः स भवेदापदाम्पदम् ॥ २५ ॥

आसवोच्छिष्टपात्रन्तु यो वा गृह्णति मोहतः ।

स्नेहाल्लोभात् भयाद्वापि देवताशापमाप्नुयात् ॥ २६ ॥

प्रौढोल्लासे कुलेशानि कुर्याद्बलिविसर्जनम् ।

पूजागृहाद्बहिः कुर्यात्त्रिकोणे तु गृहान्तरे ॥ २७ ॥

गन्धपुष्पाक्षतैः पूज्य ध्यायेदुच्छिष्टभैरवम् ।

गदात्रिशूलडमरुपात्रहस्तं त्रिलोचनम् ।

कृष्णाभं भैरवं ध्यायेत् सर्वविघ्ननिवारणम् ॥ २८ ॥

तारत्रयं समुच्चार्यं पश्चादुच्छिष्टभैरवम् ।

एहियुग्मं बलिं गृह्णयुग्मं फट् च द्विठान्तकः ॥ २९ ॥

बल्युद्वासनमन्त्रोऽयं द्वाविंशतिभिरक्षरैः ।

शान्तिस्तवं पठेत्पश्चात्तर्पयेदलिबिन्दुभिः ॥ ३० ॥

यजन्ति देव्यो हरपादपङ्कजम् प्रसन्नधामामृतमोक्षदायकम् ।

अनन्तसिद्धान्तमयप्रबोधकं नमामि चाष्टाष्टकयोगिनीगणम् ॥ ३१ ॥

योगिनीचक्रमध्यस्थं मातृमण्डलवेष्टितम् ।

नमामि शिरसा नाथं भैरवं भैरवीप्रियम् ॥ ३२ ॥

अनादिघोरसंसारध्वान्तैकध्वंसकारिणे ।

नमः श्रीनाथवैद्याय कुलौषधिविधायिने ॥ ३३ ॥

आपदो दुरितं रोगाः समयाचारलंघनात् ।

ये ते सर्वे व्यपोहन्तु दिव्यचक्रस्य मेलनात् ॥ ३४ ॥

आयुरारोग्यमैश्वर्यं कीत्तीर्लाभः सुखं जयः ।

कान्तिर्मनोहरा चास्तु पान्तु सर्वाश्च देवताः ॥ ३५ ॥

सम्पूजकानां प्रतिपालकानां यतीन्द्रयोगीन्द्रतपोधनानाम् ।

देशस्य राष्ट्रस्य कुलस्य राज्ञः करोतु शान्ति भगवान् कुलेशः ॥ ३६ ॥

नन्दन्तु साधककुलाद्वयदर्शका ये सिंहासनाद्युषितशाक्तमहान्वया ये ।

नन्दन्तु सर्वकुलकौलरताः परे ये चान्ये विशेषपदभेदकशाम्भवा ये ॥ ३७ ॥

नन्दन्तु सिद्धगुरवस्तदनुक्रमज्ञा ज्येष्ठान्वया समयिनो वटुकाः कुमार्यः ।

ये योगिनीप्रवरवीरकुले प्रसूता नन्दन्तु भूमिपतिगोद्विजसाधुलोकाः ॥ ३८ ॥

नन्दन्तु नीतिनिपुणा निरवद्यनिष्टा निर्मत्सरा निरुपमा निरुपद्रवाश्च ।

नित्यं निरञ्जनरता गुरवो निरीहाः शान्ताश्च शान्तमनसो हृतशोकशङ्काः ॥ ३९ ॥

नन्दन्तु योगनिरताः कुलयोगयुक्ता ह्याचार्यसामयिकसाधकपुत्रकाश्च ।

गावो द्विजा युवतयो यतयः कुमार्यो धर्मे चरन्तु निरता गुरुभक्तलोकाः ॥ ४० ॥

नन्दन्तु साधककुला ह्यलमात्मनिष्ठाः शापाः पतन्तु समयद्विषि योगिनीनाम् ।

सा शाम्भवी स्फुरतु कापिं समाप्यवस्था यस्यां गुरोश्चरणपङ्कजमेव सत्यम् ॥ ४१ ॥

याश्चक्रक्रमभूमिकावसतयो नाडीषु याः संस्थिता याः कायोद्गतरोमकूपनिलया याः संस्थिता धातुषु ।

उच्छ्वासोमीमरुत्तरङ्गनिलया निश्वासवासाश्च यास्ता देव्यो रिपुपक्षभक्षणरता नन्दन्तु कौलाचीताः ॥ ४२ ॥

या देव्यः कुलसम्भवाः क्षितिगता या देवतास्तोयगा या नित्यं प्रथितप्रभाः शिखिगता या मातरिश्वालयाः ।

या व्योमाहितमण्डलामृतमया याः सर्वगाः सर्वदास्ताः सर्वाः कुलमार्गपालनपराः शान्ति प्रयच्छन्तु मे ॥४३ ॥

ऊर्ध्वे ब्रह्माण्डतो वा दिवि गगनतले भूतले वा तले वा पाताले वानले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा ।

क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन प्रीता देव्यः सदा नः शुभबलिविधिना पान्तु वीरेन्द्रवन्द्याः ॥४४॥

ब्रह्मा श्रीः शेषदुर्गागुहवटुकगणा भैरवाः क्षेत्रपाद्या वेतालादित्यरुद्रग्रहवसुमनुसिद्धाप्सरोगुह्यकाद्याः ।

भूता गन्धर्वविद्याधरऋषिपितृयक्षासुराः किन्नराद्या योगीशाश्चारणाः किम्पुरुषमुनिवराश्चक्रगाः पान्तु सर्वे ॥४५॥

देहस्थाखिलदेवता गजमुखाः क्षेत्राधिपा भैरवा योगिन्यो वटुकाश्च यक्षपितरो भूताः पिशाचा ग्रहाः ।

अन्ये भूचरखेचरा दिशिचरा वेतालकाश्चेटका- स्तृप्यन्तां कुलपुत्रकस्य पिबतः पानं सदीपञ्चरुम् ॥ ४६ ॥

सत्यञ्चेद् गुरुवाक्यमेव पितरो देवाश्च चेद् योगिनी प्रीता चेत् परदेवता यदि भवेद्वेदाः प्रमाणं हि चेत् ।

शाक्तेयं यदि दर्शनं भवति चेदाज्ञाप्यमोघापि चेत् सत्यञ्चापि च कौलधर्मपरमं स्यान्मे जयः सर्वदा ॥ ४७ ॥

नन्दन्तु साधकाः सर्वे नश्यन्तु कुलदूषकाः ।

अन्तःस्था शाम्भवी मेऽस्तु प्रसन्नोऽस्तु गुरुः सदा ॥ ४८ ॥

यद्येषा भैरवी देवी यदि भैरवशासनम् ।

यद्येष कुलधर्मः स्यात्तदा नश्यन्तु दूषकाः ॥ ४९ ॥

यासामाज्ञाप्रभावेण स्थापितं भुवनत्रयम् ।

नमस्ताभ्यः समस्ताभ्यो योगिनीभ्यो निरन्तरम् ॥ ५० ॥

पिबन्तु मातरः सर्वाः पिबन्तु कुलसत्तमाः ।

पिबन्तु भैरवाः सर्वे मम देहे व्यवस्थिताः ॥ ५१ ॥

तृप्यन्तु मातरः सर्वाः समुद्राः सगणाधिपाः ।

योगिन्यः क्षेत्रपालाश्च मम देहे व्यवस्थिताः ॥ ५२ ॥

शिवाद्यवनिपर्यन्तं ब्रह्मादिस्तम्बसंयुतम् ।

कालाग्न्यादिशिवान्तञ्च जगद् यज्ञेन तृप्यतु ॥ ५३ ॥

द्वारस्था मणिमण्डपस्य परितः श्रीनन्दने कानने शून्यागारविहारकन्दरमठे व्योम्नि श्मशाने स्थिताः ।

कूपस्थानगताश्चतुष्पथगताः सन्देशसंस्थाश्च ये पङ्कार्थावहकेतुमानकुसुमात् गृह्णन्तु ते पान्तु च ॥ ५४ ॥

पठित्वाभ्यर्चनापात्रं समुद्धृत्य गुरुः प्रिये ।

ततो दद्यात् स्वशिष्याय प्रसादं कुलनायिके ॥ ५५ ॥

स्वाभीष्टचेष्टाचरणं प्रौढान्तः परिकीत्तीतः ।

प्रौढान्तोल्लासिताद्देवि मुदिते योगिमण्डले ।

योगिनीमण्डले चैव क्रमादानन्दमुच्यते ॥ ५६ ॥

तदारूढेषु वीरेषु कार्याकार्यं न विद्यते ।

इच्छैव शास्त्रसम्पत्तिरित्याज्ञा परमेश्वरि ॥ ५७ ॥

तत्र यद् यत् कृतं कर्म शुभं वा यदि वाऽशुभम् ।

तत्सर्वं देवताप्रीत्यै जायते सुरसुन्दरि ॥ ५८ ॥

जल्पो जपफलं तन्द्रा समाधिरभिजायते ।

विक्रिया पूजनं देवि उदितं भैरवीबलिः ॥ ५९ ॥

मुक्तिः स्याच्छक्तिसंयोगः स्तोत्रं तत्कालभाषितम् ।

न्यासोऽवयवसंस्पर्शो भोजनं हवनक्रिया ॥ ६० ॥

वीक्षणं ध्यानमीशानि शयनं वन्दनं भवेत् ।

तदुल्लासे कृता नाना या चेष्टा सा च सत्क्रिया ।

कार्याकार्यविचारन्तु यः करोति स पातकी ॥ ६१ ॥

एतच्चक्रगता वीरा विज्ञेयाः परयोगिनः ।

येनाप्नुवन्ति मनुजाः साक्षाद्भैरवरूपताम् ॥ ६२ ॥

सम्मोदः परमानन्दः पतनं ज्ञानवर्द्धनम् ।

वेणुवीणादिवाद्यञ्च कवितारचनादिकम् ॥ ६३ ॥

रोदनं भाषणं पातः समुत्थानं विजृम्भनम् ।

गमनं विक्रिया देवि योग इत्यभिधीयते ॥ ६४ ॥

चक्रेऽस्मिन् योगिनो वीरा योगिन्यो मदमन्थराः ।

समाचरन्ति देवेशि यथोल्लासं मनोगतम् ॥ ६५ ॥

शनैः पृच्छन्ति पार्श्वस्थान् विस्मृत्यात्मविवक्षितम् ।

निधाय वदने पात्रं निवीण्णा निवसन्ति च ॥ ६६ ॥

मत्ता स्वपुरुषं मत्वा कान्तान्यमवलम्बते ।

तथैव पुरुषश्चापि प्रौढान्तोल्लाससंयुतः ॥ ६७ ॥

पुरुषः पुरुषं मोहादालिङ्गत्यनाङ्गनाम् ।

पृच्छति स्वपतिं मुग्धा कस्त्वं काहम् इमे च के ॥ ६८ ॥

किं कार्यं वयमायातः किमर्थमिह संस्थिताः ।

उद्यानं किमिदं हन्त गृहं किं प्राङ्गणं किमु ॥ ६९ ॥

मुखे आपूर्य मदिरां पाययन्ति स्त्रियः प्रियान् ।

उपदंशं मुखे क्षिप्त्वा निक्षिपन्ति प्रियानने ॥ ७० ॥

गृह्णन्त्यन्योन्यपात्राणि व्यञ्जनानि च शाम्भवि ।

धृत्वा शिरसि नृत्यन्ति मद्यभाण्डानि योगिनः ॥ ७१ ॥

अज्ञानकरतालान्तमस्पष्टाक्षरगीतकम् ।

प्रस्खलत्पदविन्यासं नृत्यन्ति कुलशक्तयः ॥ ७२ ॥

योगिनो मदमत्ताश्च पतन्ति प्रमदोरसि ।

मदाकुलाश्च योगिन्यः पतन्ति पुरुषोपरि ॥ ७३ ॥

मनोरथसुखं पूर्णं कुर्वन्ति च परस्परम् ।

इत्यादिविविधां चेष्टां कुर्वन्ति कुलनायिके ॥ ७४ ॥

विकृतिं मनसो हित्वा यदोल्लासः प्रवर्त्तते ।

तदा तु देवताभावं भजन्ते योगिपुङ्गवाः ॥ ७५ ॥

कौलिकान् भैरवावेशान् यो वा निन्दति मूढधीः ।

तं नाशयन्त्यसन्देहं योगिन्यः कुलनायिके ॥ ७६ ॥

न निन्देन्न हसेत् क्वापि चक्रे मधुमदालसान् ।

एतच्चक्रगतां वार्त्तां बहिर्नैव प्रकाशयेत् ॥ ७७ ॥

तेभ्यो द्रोहं न कुर्वीत नाहितञ्च समाचरेत् ।

भक्त्या सत्कारयेदेतान् गोपयेच्च प्रयत्नतः ॥ ७८ ॥

चक्रे मदाकुलान् दृष्ट्वा चिन्तयेद्देवताधिया ।

मोदते वन्दते भक्त्या स गच्छेत् योगिनीपदम् ॥ ७९ ॥

पश्यतेदेवम्विधं चक्रं यो भक्त्या कौलिकः प्रिये ।

व्रततीर्थतपोदानयज्ञकोटिफलं लभेत् ॥ ८० ॥

उन्मनाः पतनोत्थाने मूर्च्छना च मुहुर्मुहुः ।

उन्मनाख्यतदुल्लासे चक्रे वीरसमचीते ॥ ८१ ॥

चिरं संविदधाते तौ यौ हि कर्मपराक्षरौ ।

परं ब्रह्मानुसन्धानाकाङ्क्षिणौ कुलनायिके ॥ ८२ ॥

देहेन्द्रियाणामवशः समवस्था निगद्यते ।

समवस्थामिधे तस्मिन् ततोल्लासे समं भवेत् ॥ ८३ ॥

परामन्त्रस्वरूपोऽसौ जायते मूर्च्छना परा ।

मूर्च्छनासन्निकर्षो हि मूलमुक्तेः परं विदुः ॥ ८४ ॥

अन्तर्लक्ष्यो बहिर्दृष्टिनीमेषोन्मेषवजीतः ।

एषा तु शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता ॥ ८५ ॥

सर्वोत्तीर्णा सदाऽहन्ता सामरस्यसमाकृतिः ।

अनयोल्लासिनो वीराः शिवा एव न संशयः ॥ ८६ ॥

नराः किमपि जानन्ति स्वात्मध्यानपरायणाः ।

तदा यत्परमं सौख्यमिति वक्तुं न शक्यते ॥ ८७ ॥

स्वयमेवानुभूयन्ते शर्कराः क्षीरपानवत् ।

ईदृशं तादृशं सौख्यमिति वक्तुं न शक्यते ।

दृश्यते पुलकाद्येर्यत् तद्ब्रह्मध्यानमुच्यते ॥ ८८ ॥

यत्सुखं विद्यते ध्याने देवावेशकरं परम् ।

कथितुं नैव शक्नोमि प्रबुद्धस्तत्समाहितः ॥ ८९ ॥

ब्रह्मध्यानपरानन्दपराः सुकृतिनो नराः ।

क्षणेऽप्यन्तहीते तस्मिन् शोचयन्ति हतप्रभाः ॥ ९० ॥

सप्तमोल्लासयुक्तानां त्वद्भक्तानां महाफलम् ।

अष्टौ त्रिकालज्ञानोत्थाः प्रत्ययाश्च कुलेश्वरि ।

अष्टावस्थाश्च कम्पाद्या जायन्ते नात्र संशयः ॥ ९१ ॥

बहुनात्र किमुक्तेन अणिमाद्यष्टसिद्धयः ।

प्रतीहारि पदं प्राप्ताः सेवन्ते मन्दिरं चिरम् ॥ ९२ ॥

ये गुणाः परमेशस्य पञ्चवक्त्रतनोः शुभाः ।

ते गुणाः कुलतत्त्वज्ञे तत्त्वज्ञानसमाहृताः ॥ ९३ ॥

आरम्भस्तरुणश्चैव यौवनं प्रौढमेव च ।

तदन्तो जाग्रदित्युक्तश्चोन्मनाः स्वप्न उच्यते ॥ ९४ ॥

समवस्था सुषुप्तिः स्यादवस्थात्रयसंयुता ।

सप्तोल्लासञ्च यो वेत्ति स मुक्तः स च कौलिकः ॥ ९५ ॥

प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजातयः ।

निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् ॥ ९६ ॥

स्त्री वाथ पुरुषः षण्डश्चण्डालो वा द्विजोत्तमः ।

चक्रेऽस्मिन्नैव भेदोऽस्ति सर्वे शिवसमाः स्मृताः ॥ ९७ ॥

नागरि निर्झ्रराद्यम्बु गङ्गां प्राप्य यथैकताम् ।

याति श्रीचक्रमध्येऽपि चैकत्वं सर्वमानवाः ॥ ९८ ॥

क्षीरेण सहितं तोयं क्षीरमेव यथा भवेत् ।

तथा श्रीचक्रमध्ये तु जातिभेदो न विद्यते ॥ ९९ ॥

स्वर्गादिपुण्यलोकेषु देवादन्यद् यथा नहि ।

तथैव चक्रमध्येऽपि देवताः सर्वमानवाः ॥ १०० ॥

जातिभेदो न चक्रेऽस्मिन् सर्वे शिवसमाः स्मृताः ।

वेदेऽपि स्थितमेवं हि सर्वे हि ब्रह्म चाब्रवीत् ॥ १०१ ॥

बहुनात्र किमुक्तेन चक्रमध्ये कुलेश्वरि ।

मद्रूपा पुरुषाः सर्वे त्वद्रूपाः प्रमदाः प्रिये ॥ १०२ ॥

चक्रमध्ये तु मूढात्मा जातिभेदं करोति यः ।

तं भक्षयन्ति योगिन्यस्त्वां शपे कुलनायिके ॥ १०३ ॥

स्त्रीणामन्यतमं स्थानं पुंसामन्यतमं पृथक् ।

अथवा मिथुनं कृत्वा क्रमात्समुपवेशयेत् ॥ १०४ ॥

पङ्क्त्याकारेण वा सम्यक् चक्राकारेण वा प्रिये ।

शिवशक्तिधिया सर्वे चक्रमध्ये समर्चयेत् ॥ १०५ ॥

अविभक्तौ यथा आवां लक्ष्मीनारायणौ यथा ।

यथा वाणीविधातारौ तथा वीरः सशक्तिकः ॥ १०६ ॥

मधुकुम्भसहस्रैस्तु मांसभारशतैरपि ।

न तुष्यामि वरारोहे भगलिङ्गामृतं विना ॥ १०७ ॥

न चक्राङ्कं न पद्माङ्कं न व्रजाङ्कमिदं जगत् ।

लिङ्गाङ्कञ्च भगाङ्कञ्च तस्माच्छक्तिशिवात्मकम् ॥ १०८ ॥

शिवशक्तिसमायोगो यस्मिन् काले प्रजायते ।

सा सन्ध्या कुलनिष्ठानां समाधिः स विधीयते ॥ १०९ ॥

कामुको न स्त्रियं गच्छेद् यदीच्छन्तीमदीक्षिताम् ।

सद्यः संस्कारसंशुद्धां विहितत्वात् स्त्रियं व्रजेत् ॥ ११० ॥

इति तत्त्वत्रयोल्लासपानभेदादि चोदितम् ।

समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १११ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे तत्त्वत्रितयपानादिभेदकथनं नाम अष्टमोल्लासः ॥ ८ ॥


अथ नवमोल्लासः

[सम्पाद्यताम्]

श्री देव्युवाच

कुलेश श्रोतुमिच्छामि योगं योगीशलक्षणम् ।

कुलभक्त्यार्चनफलं वद मे करुणानिधे ॥ १ ॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण योगः साक्षात् प्रकाशते ॥ २ ॥

ध्यानन्तु द्विविधं प्रोक्तं स्थूलसूक्ष्मप्रभेदतः ।

साकारं स्थूलमित्याहुनिराकारन्तु सूक्ष्मकम् ॥ ३ ॥

स्थिरार्थमनसः केचित् स्थूलध्यानं प्रचक्षते ।

स्थूलेऽपि निश्चलं चेतो भवेत् सूक्ष्मेऽपि निश्चलम् ॥ ४ ॥

करपादोदरास्यादिरहितं परमेश्वरम् ।

सर्वतेजोमयं ध्यायेत् सच्चिदानन्दनिष्कलम् ॥ ५ ॥

नोदेति नास्तमभ्येति न वृद्धिं याति न क्षयम् ।

स्वयं विभात्यथान्यानि भासयन् साधनं विना ॥ ६ ॥

अनन्तं गतभारूपं सत्तामात्रमगोचरम् ।

मनसा मात्रसम्वेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ ७ ॥

प्रणष्टवायुसञ्चारः पाषाण इव निश्चलः ।

परजीवैकधामज्ञो योगी योगविदुच्यते ॥ ८ ॥

यदत्र नात्र निर्भासः स्तिमितोदधिवत् स्थितम् ।

स्वरूपशून्यं तद्ध्यानं समाधिरभिधीयते ॥ ९ ॥

न किञ्चिच्चिन्तनादेव स्वयं तत्त्वं प्रकाशते ।

स्वयं प्रकाशिते तत्त्वे तत्क्षणात्तन्मयो भवेत् ॥ १० ॥

स्वप्नजाग्रदवस्थायां सुप्तवत् योऽवतिष्ठते ।

निश्वासोच्छ्वासहीनश्च निश्चितं मुक्त एव सः ॥ ११ ॥

निष्पन्दकरणग्रामः स्वात्मलीनमनोऽनिलः ।

य आस्ते मृतवत्साक्षात् जीवन्मुक्तः स उच्यते ॥ १२ ॥

न शृणोति न चाघ्राति न स्पृशति न पश्यति ।

न जानाति सुखं दुःखं न सङ्कल्पयते मनः ॥ १३ ॥

न चापि किञ्चिज्जानाति न च बुध्यति काष्ठवत् ।

एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ १४ ॥

यथा जले जलं क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।

अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः ॥ १५ ॥

यथा ध्यानस्य सामर्थ्यात् कीटोऽपि भ्रमरायते ।

तथा समाधिसामर्थ्याद् ब्रह्मभूतो भवेन्नरः ॥ १६ ॥

क्षीरोद्धृतं घृतं यद्वत्तत्र क्षिप्तं न पूर्ववत् ।

पृथक्कृतो गुणेभ्यः स्यादात्मा तद्वदिहोच्यते ॥ १७ ॥

यथा गाढान्धकारस्थो न किञ्चिदिह पश्यति ।

अलक्ष्यञ्च तथा योगी प्रपञ्चं नैव पश्यति ॥ १८ ॥

यथा निमीलने काले प्रपञ्चं नैव पश्यति ।

तथैवोन्मीलनेऽपि स्यादेतद्ध्यानस्य लक्षणम् ॥ १९ ॥

जनः स्वदेहकण्डूतिं विजानाति यथा तथा ।

परं ब्रह्मस्वरूपी च वेत्ति विश्वविचेष्टितम् ॥ २० ॥

विदिते परमे तत्त्वे वर्णातीते ह्यविक्रिये ।

किङ्करत्वं हि गच्छन्ति मन्त्रा मन्त्राधिपैः सह ॥ २१ ॥

आत्मैकभावनिष्ठस्य या या चेष्टा तदर्चनम् ।

यो यो जल्पः स सन्मन्त्रस्तद्ध्यानं यन्निरीक्षणम् ॥ २२ ॥

देहाभिमाने गलिते विज्ञाते परमात्मनि ।

यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ २३ ॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।

क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परात्मनि ॥ २४ ॥

योगीन्द्रेण यदा प्राप्तं निर्मलं परमं पदम् ।

देवासुरपदं यत्तत्प्राप्तञ्चापि न गृह्यते ॥ २५ ॥

यः पश्येत् सर्वगं शान्तमानन्दात्मकमव्ययम् ।

तस्य किञ्चिदनालभ्यं ज्ञातव्यं नावशिष्यते ॥ २६ ॥

सम्प्राप्ते ज्ञानविज्ञाने ज्ञेये च हृदि संस्थिते ।

लब्धे शान्तिपदे देवि न योगो नैव धारणा ॥ २७ ॥

परे ब्रह्मणि विज्ञाते समस्तैनीयमैरलम् ।

तालवृन्तेन किं कार्यं लब्धे मलयमारुते ॥ २८ ॥

आसिकाबन्धनं नास्ति नासिकाबन्धनं न हि ।

न यमो नियमो नास्ति स्वयमोमिति पश्यताम् ॥ २९ ॥

न पद्मासनतो योगो न नासाग्रनिरीक्षणम् ।

एक्यं जीवात्मनोराहुर्योगं योगविशारदाः ॥ ३० ॥

ध्यायतां क्षणमात्रं हि श्रद्धया परमन्त्विह ।

यद्भवेत् सुमहत् पुण्यं तस्यान्तो नैव गण्यते ॥ ३१ ॥

क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् ।

स सर्वं पातकं हन्यात्तमः सूर्योदयो यथा ॥ ३२ ॥

व्रतक्रतुतपस्तीर्थदानदेवार्चनादिषु ।

यत् फलं कोटिगुणितं तदवाप्नोति तत्त्ववित् ॥ ३३ ॥

उत्तमा सहजावस्था मध्यमा ध्यानधारणा ।

जपस्तुतिः स्यादधमा होमपूजाऽधमाधमा ॥ ३४ ॥

उत्तमा तत्त्वचिन्ता स्याज्जपचिन्ता तु मध्यमा ।

शास्त्रचिन्ताऽधमा ज्ञेया लोकचिन्ताऽधमाधमा ॥ ३५ ॥

पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः ।

जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥ ३६ ॥

न हि ध्यानात् परो मन्त्रो न देवस्त्वात्मनः परः ।

नानुसन्धात् परा पूजा न हि तृप्तेः परं फलम् ॥ ३७ ॥

अक्रियैव परा पूजा मौनमेव परो जपः ।

अचिन्तेव परं ध्यानमनिच्छैव परं फलम् ॥ ३८ ॥

मन्त्रोदकैवीना सन्ध्यां पूजाहोमैवीना तपः ।

उपचारैवीना पूजां योगी नित्यं समाचरेत् ॥ ३९ ॥

निःसङ्गश्च विसङ्गश्च निस्तीर्णोपाधिवासनः ।

निजस्वरूपनिर्मग्नः स योगी परतत्त्ववित् ॥ ४० ॥

देहो देवालयो देवि जीवो देवः सदाशिवः ।

त्यजेदज्ञाननिर्माल्यं सोऽहम्भावेन पूजयेत् ॥ ४१ ॥

जीवः शिवः शिवो जीवः स जीवः केवलः शिवः ।

पाशबद्धः स्मृतो जीवः पाशमुक्तः सदाशिवः ॥ ४२ ॥

तुषेण बद्धो व्रीहिः स्यात्तुषाभावे हि तण्डुलः ।

कर्मबद्धः स्मृतो जीवः कर्ममुक्तः सदाशिवः ॥ ४३ ॥

अग्नी तिष्ठति विप्राणां हृदि देवो मनीषिणाम् ।

प्रतिमास्वप्रबुद्धानां सर्वत्र विदितात्मनाम् ॥ ४४ ॥

यो निन्दास्तुतिशीतोष्णसुखदुःखारिबन्धुषु ।

सम आस्ते स योगीन्द्रो हर्षाहर्षविवजीतः ॥ ४५ ॥

निस्पृहो नित्यसन्तुष्टः समदर्शी जितेन्द्रियः ।

आस्ते देहे प्रवासीव योगी परमतत्त्ववित् ॥ ४६ ॥

निःसङ्कल्पो निवीकल्पो निलीप्तोपाधिवासनः ।

निजस्वरूपनिर्मग्नः स योगी परतत्त्ववित् ॥ ४७ ॥

यथा पङ्ग्वन्धबधिरक्लीबोन्मत्तजडादयः ।

निवसन्ति कुलेशानि तथा योगी च तत्त्ववित् ॥ ४८ ॥

पञ्चमुद्रासमुत्पन्नपरमानन्दनिर्भरः ।

य आस्ते स तु योगीन्द्रः पश्यत्यात्मानमात्मनि ॥ ४९ ॥

अलिमांसाङ्गनासङ्गे यत् सुखं जायते प्रिये ।

तदेव मोक्षो विदुषामबुधानान्तु पातकम् ॥ ५० ॥

सदा मांसासवोल्लासी सदा चरणचिन्तकः ।

सदासंशयहीनो यः कुलयोगी स उच्यते ॥ ५१ ॥

पिबन्मद्यं पलं खादन् स्वेच्छाचारपरायणः ।

अहं तदनयोरैक्यं भावयन्निवसेत् सुखी ॥ ५२ ॥

आमिषासवसौरभ्यहीनं यस्य मुखं भवेत् ।

प्रायश्चित्ती स वर्ज्यश्च पशुरेव न संशयः ॥ ५३ ॥

यावदासवगन्धः स्यात् पशुः पशुपतिः स्वयम् ।

विनालिमांसगन्धेन साक्षात् पशुपतिः पशुः ॥ ५४ ॥

लोके निकृष्टमुत्कृष्टं लोकोत्कृष्टं निकृष्टकम् ।

कुलमार्ग समुद्दिष्टं भैरवेण महात्मना ॥ ५५ ॥

अनाचारः सदाचारस्त्वकार्य कार्यमुत्तमम् ।

असत्यमपि सत्यं स्यात् कौलिकानां कुलेश्वरि ॥ ५६ ॥

अपेयमपि पेयं स्यादभक्ष्यं भक्ष्यमेव च ।

अगम्यमपि गम्यं स्यात् कौलिकानां कुलेश्वरि ॥ ५७ ॥

न विधिर्न निषेधः स्यान्न पुण्यं न च पातकम् ।

न स्वर्गो नैव नरकं कौलिकानां कुलेश्वरि ॥ ५८ ॥

अनभिज्ञा अभिज्ञन्ति दरिद्रा धनयन्ति च ।

विनष्टा अपि वर्द्धन्ते कौलिकाः कुलनायिके ॥ ५९ ॥

रिपवश्चापि मित्रन्ति साक्षाद्दासन्ति भूमिपाः ।

बान्धवन्ति जनाः सर्वे कौलिकानां कुलेश्वरि ॥ ६० ॥

विमुखाः सुमुखाः सर्वे गवीताः प्रणयन्ति च ।

बाधकाः साधकायन्ते कौलिकानां कुलेश्वरि ॥ ६१ ॥

निर्गुणाः सगुणायन्ते अकुलं सुकुलायते ।

अधर्माश्चापि धर्मन्ति कौलिकानां कुलेश्वरि ॥ ६२ ॥

मृत्युर्वैद्यायते देवि साक्षात् स्वर्गायते गृहम् ।

पुण्यायन्तेऽङ्गनासङ्गाः कौलिकानां कुलेश्वरि ॥ ६३ ॥

बहुनात्र किमुक्तेन कुलयोगीश्वराः प्रिये ।

सदा सङ्कल्पसिद्धाः स्युर्नात्र कार्या विचारणा ॥ ६४ ॥

येन केनापि वेशेन येन केनाप्यलक्षितः ।

यत्र कुत्राश्रमे तिष्ठेत् कुलयोगी कुलेश्वरि ॥ ६५ ॥

योगिनो विविधैर्वेशैर्नराणां हितकारिणः ।

भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणः ॥ ६६ ॥

सकृन्नैवात्मविज्ञानं क्षपयन्ति कुलेश्वरि ।

उन्मत्तमूकजडवन्निवसेल्लोकमध्यतः ॥ ६७ ॥

अलक्ष्यो हि यथा लोके व्योम्नि चन्द्रार्कयोगतः ।

नक्षत्राणां ग्रहाणाञ्च तथा वृत्तन्तु योगिनाम् ॥ ६८ ॥

आकाशे पक्षिणां देवि जलेऽपि जलचारिणाम् ।

यथा गतिर्न दृश्येत तथा वृत्तं हि योगिनाम् ॥ ६९ ॥

असन्त इव भाषन्ते चरन्त्यज्ञा इव प्रिये ।

पामरा इव दृश्यन्ते कुलयोग विशारदाः ॥ ७० ॥

जना यथावमन्यन्ते गच्छेयुर्नैव सङ्गतिम् ।

न किञ्चिदपि भाषन्ते तथा योगी प्रवर्त्तते ॥ ७१ ॥

मुक्तोऽपि बालवत् क्रीडेत् कुलेशो जडवच्चरेत् ।

वदेदुन्मत्तवद्विद्वान् कुलयोगी महेश्वरि ॥ ७२ ॥

यथा हसति लोकोऽयं जुगुप्सति च कुत्सति ।

विलोक्य दूरतो याति तथा योगी प्रवर्त्तते ॥ ७३ ॥

क्वचिच्छिष्टः क्वचिद्भ्रष्टः क्वचिद् भूतपिशाचवत् ।

नानावेशधरो योगी विचरेज्जगतीतले ॥ ७४ ॥

योगी लोकोपकाराय भोगान् भुङ्क्ते न कांङ्क्षया ।

अनुगृह्णन् जनान् सर्वान् क्रीडेच्च पृथिवीतले ॥ ७५ ॥

सर्वशोषी यथा सूर्यः सवभोगी यथाऽनलः ।

योगी भुक्त्वाखिलान् भोगान् तथा पापैर्न लिप्यते ॥ ७६ ॥

सर्वस्पर्शी यथा वायुर्यथाकाशश्च सर्वगः ।

सर्वे यथा नदीस्नातास्तथा योगी सदा शुचिः ॥ ७७ ॥

यथा ग्रामगतं तोयं नदीयुक्तं भवेच्छुचि ।

तथा म्लेच्छगृहान्नादि योगिहस्तापीतं शुचि ॥ ७८ ॥

यथाऽऽचरन्ति देवेशि कुलज्ञानविशारदाः ।

तदेव विदुषां मान्यमात्मनो हितकाङ्क्षिणाम् ॥ ७९ ॥

यस्मिंश्चरन्ति योगीशाः सा मार्गः परमो मतः ।

यस्यामुदेति सूर्यो हि पूर्वाशा सा निगद्यते ॥ ८० ॥

यत्र यत्र गजो याति तत्र मार्गो यथा भवेत् ।

कुलयोगी वरेद् यत्र स स मार्गः कुलेश्वरि ॥ ८१ ॥

नदीं वक्रामृजुं कर्त्तुं निरोद्धुं तत्प्रवाहकम् ।

स्वेच्छाविहारिणं शान्तं को वा वारयितुं क्षमः ॥ ८२ ॥

यद्वन्मन्त्रबलोपेतः क्रीडनीयैर्न दृश्यते ।

तद्वन्न दृश्यते ज्ञानी क्रीडन्निन्द्रियपन्नगैः ॥ ८३ ॥

निवृत्तदुःखसन्तुष्टा निर्द्वन्द्वा गतमत्सराः ।

कुलज्ञानरताः शान्तास्त्वद्भक्तास्ते च कौलिकाः ॥ ८४ ॥

अमदक्रोधदम्भाशाहङ्काराः सत्यवादिनः ।

कौलिकेन्द्रा ह्यचपला ये नेन्द्रियवशानुगाः ॥ ८५ ॥

कीर्त्त्यमाने कुले येषां रोमाञ्चो गद्गदस्वरः ।

आनन्दाश्रु पतेद्देवि कथिताः कौलिकोत्तमाः ॥ ८६ ॥

सर्वधर्माधिको लोके कुलधर्मः शिवोदितः ।

इति ते निश्चितधियः प्रोक्तास्ते कौलिकोत्तमाः ॥ ८७ ॥

यो भवेत् कुलतत्त्वज्ञः कुलशास्त्रविशारदः ।

कुलार्चनरतः स स्यात् कौलिको नापरः प्रिये ॥ ८८ ॥

कुलभक्तान् कुलज्ञानान् कुलाचारकुलव्रतान् ।

प्रीतो भवति यो दृष्ट्वा कौलिकः स च मे प्रियः ॥ ८९ ॥

तत्त्वत्रयश्रीचरणमूलमन्त्रार्थतत्त्ववित् ।

देवतागुरुभक्ताश्च कौलिकः स्याच्च दीक्षया ॥ ९० ॥

दुर्लभं सर्वलोकेषु कुलाचार्यस्य दर्शनम् ।

सुपाकेनैव पुण्यानां लभ्यते नान्यथा प्रिये ॥ ९१ ॥

संस्मृतः कीत्तीतो दृष्टो वन्दिनो भाषितोऽपि वा ।

पुनाति कुलधमीष्ठश्चाण्डालोऽपि यदृच्छया ॥ ९२ ॥

सर्वज्ञो वापि मूर्खो वाप्युत्तमो वाऽधमोऽपि वा ।

यत्र देवि कुलज्ञानी तत्राहञ्च त्वया सह ॥ ९३ ॥

नाहं वसामि कैलासे न मेरौ न च मन्दिरे ।

कुलज्ञा यत्र तिष्ठन्ति तत्र तिष्ठामि भामिनि ॥ ९४ ॥

सुदूरमपि गन्तव्यं यत्र माहेश्वरो जनः ।

द्रष्टव्यञ्च प्रयत्नेन तत्र सन्निहितो ह्यहम् ॥ ९५ ॥

अतिदूरस्थितो वापि द्रष्टव्यः कुलदेशिकः ।

समीपे वर्त्तमानोऽपि न द्रष्टव्यः पशुः प्रिये ॥ ९६ ॥

कुलज्ञानी वसेद् यत्र स देशः पुण्यभाक् ततः ।

दर्शनादर्चनात्तस्य त्रिसप्तकुलमुद्धरेत् ॥ ९७ ॥

कुलज्ञानिनमालोक्य स्वसन्तानगृहे स्थितम् ।

शंसन्ति पितरस्तस्य यास्यामः परमां गतिम् ॥ ९८ ॥

समाश्वसन्ति पितरः सुवृष्टिमिव कर्षकाः ।

योऽस्मत्कुलेषु पुत्रो वा पौत्रो वा कौलिको भवेत् ॥ ९९ ॥

स धन्यः खलु लोकेऽस्मिन् पुरुषः क्षीणकल्मषः ।

यत्समीपं समायान्ति कुलाचार्या मुदा प्रिये ॥ १०० ॥

कौलिकेन्द्रे समायाते कौलिकावसथं प्रति ।

समायान्ति मुदा देवि योगिन्यो योगिभिः सह ॥ १०१ ॥

प्रविश्य कुलयोगीन्द्रं भणन्ते पितृदेवताः ।

तस्मात् सम्पूजयेद्भक्त्या कुलज्ञानपरायणान् ॥ १०२ ॥

अभ्यर्चयित्वा त्वां देवि त्वद्भक्तान्नार्चयन्ति ये ।

पापिष्ठास्त्वत्प्रसादस्य भाजनं न भवन्ति ते ॥ १०३ ॥

नैवेद्यं पुरतो न्यस्तं दर्शनात् स्वीकृतं त्वया ।

रसान् भक्तस्य जिह्वाग्रादश्नामि कमलेक्षणे ॥ १०४ ॥

त्वद्भक्तपूजनाद्देवि पूजितोऽहं न संशयः ।

तस्मान्मम प्रियाकाङ्क्षी त्वद्भक्तानेव पूजयेत् ॥ १०५ ॥

यत् कृतं कुलनिष्ठानां तद्देवानां कृतं भवेत् ।

सुराः कुलप्रियाः सर्वे तस्मात् कौलिकमर्चयेत् ॥ १०६ ॥

न तुष्याम्यहमन्यत्र तथा भक्त्या सुपूजितः ।

कौलिकेन्द्रेऽचीते सम्यक् यथा तुष्यामि पार्वति ॥ १०७ ॥

यत् फलं कौलिकेन्द्राणां पूजया लभते प्रिये ।

तत् फलं नाप्नुयात्तीर्थतपोदानमखव्रतैः ॥ १०८ ॥

दत्तमिष्टं हुतं तप्तं पूजितं जप्तमम्बिके ।

कौलिकस्य भवेद्वयर्थं कुलज्ञं योऽवमानयेत् ॥ १०९ ॥

श्मशानं तद् गृहं देवि स पापी श्वपचाधमः ।

यः प्रविश्य कुलं धर्म कुलाचारं न वेत्ति चेत् ॥ ११० ॥

कुलनिष्ठान् परित्यज्य यच्चान्यस्मै प्रदीयते ।

तद्दानं निष्फलं देवि दाता च नरकं व्रजेत् ॥ १११ ॥

भिन्नभाण्डे जलं यद्वत् शिलायामुप्तबीजवत् ।

भस्मनीव हुतं हव्यं तद्वद्दानमकौलिके ॥ ११२ ॥

यथाशक्त्या तु यत् किञ्चिद् यो दद्यात् कुलयोगिने ।

विशेषतिथिषु प्रीत्या तत्फलं नैव वर्ण्यते ॥ ११३ ॥

यो देवि स्वयमाहूय कुलज्ञानान् शुभे दिने ।

अभ्यर्च्य देवताबुद्ध्या गन्धपुष्पाक्षतादिभिः ॥ ११४ ॥

मादिभिः पञ्चमुद्राभिः सद्भक्त्या परितोषयेत् ।

तेषु तुष्टेष्वहं तुष्टस्तुष्टाः स्युः सर्वदेवताः ॥ ११५ ॥

भगिनीं वा सुतां भार्यां यो दद्यात् कुलयोगिने ।

मधुमत्ताय देवेशि तस्य पुण्यं न गण्यते ॥ ११६ ॥

अनिखातविनिक्षिप्तमप्रयत्नेन वद्धीतम् ।

परलोकस्य पाथेयं वीरचक्रेऽपीतं मधु ॥ ११७ ॥

पापाचारसमायुक्तं सर्वलोकबहिष्कृतम् ।

जायते हि कुलद्रव्यं कुलयोगीश्वरापीतम् ॥ ११८ ॥

यस्मिन् देशे वसेत् वीरः कुलपूजारतः प्रिये ।

सोऽपि देशो भवेत् पूतः किं पुनस्तत्पुरस्थिताः ॥ ११९ ॥

कौलिकेन्द्रे सकृद्भुक्ते पुण्यं कोटिगुणं भवेत् ।

किं पुनर्बहुभिर्भुक्तैस्तत् पुण्यं नैव गण्यते ॥ १२० ॥

तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।

कुलधर्मरतो भूयात् कुलज्ञानिनमर्चयेत् ॥ १२१ ॥

ज्ञानिनोऽज्ञानिनो वापि यावत् देहस्य धारणा ।

तावद्वर्णाश्रमाचारः कर्त्तव्यः कर्ममुक्तये ॥ १२२ ॥

कर्मणोन्मूलितेऽज्ञाने ज्ञानेन शिवतां व्रजेत् ।

शिवे तेनैव मुक्तिः स्यादतः कर्म समाचरेत् ॥ १२३ ॥

कुर्यादनिन्द्यकर्माणि नित्यकर्माणि वा चरेत् ।

कर्ममुक्तः सुखाकाङ्क्षी कर्मनिष्ठः सुखं व्रजेत् ॥ १२४ ॥

सर्वकर्माणि संत्यक्तुं न शक्यं देहधारिणा ।

त्यजेत् कर्मफलं यो वा स त्यागीत्यभिधीयते ॥ १२५ ॥

स्वकार्येषु प्रवर्त्तन्ते करणानीति चिन्तयेत् ।

अहम्भावमपास्यैव यः कुर्यात् स न लिप्यते ॥ १२६ ॥

क्रियमाणानि कर्माणि ज्ञानप्राप्तेरनन्तरम् ।

न च स्पृशन्ति तत्त्वज्ञं जलं पद्मदलं यथा ॥ १२७ ॥

तन्निष्ठस्य च कर्माणि पुण्यापुण्यानि संक्षयम् ।

प्रयान्ति नैव लिप्यन्ते क्रियमाणानि वा पुनः ॥ १२८ ॥

उत्पन्नसहजानन्दतत्त्वज्ञानरतः प्रिये ।

संत्यक्तसर्वसङ्कल्पः स विद्वान् कर्म सन्त्यजेत् ॥ १२९ ॥

वृथैव यैः परित्यक्तं कर्मकाण्डमपण्डितैः ।

पाषण्डाः पण्डितम्मन्यास्ते यान्ति नरकं प्रिये ॥ १३० ॥

फलं प्राप्य यथा वृक्षः पुष्पं त्यजति निस्पृहः ।

तत्त्वं प्राप्य तथा योगी त्यजेत् कर्मपरिग्रहम् ॥ १३१ ॥

अश्वमेधायुतेनापि ब्रह्महत्यायुतेन च ।

पुण्यपापैर्न लिप्यन्ते येषां ब्रह्म हृदि स्थितम् ॥ १३२ ॥

पृथिव्यां यानि कर्माणि जिह्वोपस्थनिमित्ततः ।

जिह्वोपस्थपरित्यागी कर्मणा किं करिष्यति ॥ १३३ ॥

इति ते कथितं किञ्चित् योगं योगीशलक्षणम् ।

समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १३४ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे योगसंस्थापनकथनं नाम नवमोल्लासः ॥ ९ ॥

अथ दशमोल्लासः

[सम्पाद्यताम्]

श्री देव्युवाच

कुलेश श्रोतुमिच्छामि विशेषदिवसार्चनम् ।

तत्सपर्याफलं देव वद मे परमेश्वर ॥ १ ॥

ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ २ ॥

उत्तमा नित्यपूजा स्यात् मध्यमं पर्वपूजनम् ।

मासपूजाऽधमा देवि मासादूर्ध्व पशुर्भवेत् ॥ ३ ॥

विहितैर्मादिभिर्द्रव्यैर्मासादूर्ध्वं समर्चनम् ।

पशोर्भूयः प्रवेशेच्छा यदि स्याद्दीक्षयेत् पुनः ॥ ४ ॥

मद्यं मांसञ्च मत्स्यश्च मुद्रा मैथुनमेव च ।

मकारपञ्चकं देवि देवताप्रीतिकारकम् ॥ ५ ॥

मादिपञ्चकमीशानि देवताप्रीतये सुधीः ।

यथाविधि निषेवेत तृष्णया चेत् स पातकी ॥ ६ ॥

कृष्णाष्टमीचतुर्द्दश्यावमावास्याथ पूणीमा ।

संक्रान्तिः पञ्च पर्वाणि तेषु पुण्यदिनेषु च ॥ ७ ॥

गुरुजन्मदिने प्राप्ते तद्गुरोस्तद्गुरोरपि ।

मानवौघादिपुंसाञ्च स्वजन्मदिवसे तथा ॥ ८ ॥

सम्पत्तौ च यजेल्लाभे तपोदीक्षाव्रतोत्सवे ।

पीठोपगमने वीरपीठे स्वजनदर्शने ॥ ९ ॥

देशिकागमने पुण्यतीर्थदैवतदर्शने ।

एवमादिषु देवेशि विशेषदिवसेषु च ॥ १० ॥

यथाधनं यथाश्रद्धं यथाद्रव्यं यथोचितम् ।

यथाकालं यथादेशं तथा पूजां समाचरेत् ॥ ११ ॥

आचार्येण विधानेन कारयेच्चक्रपूजनम् ।

स्वयं वा पूजयेद्देवि बिन्दुपूजापुरःसरम् ॥ १२ ॥

स ते लोकमवाप्नोति पुनरावृत्तिवजीतम् ।

अकुर्वन् कौलिको मोहाद्देवताशापमाप्नुयात् ॥ १३ ॥

मासे वापि त्रिमासे वा षण्मासे वत्सरेऽपि वा ।

श्रीगुरुं पूजयेद्भक्त्याऽप्राप्ते तत्स्त्रीसुतादिकान् ॥ १४ ॥

तदभावे कुलज्ञञ्च तच्छिष्यं वान्ययोगिनम् ।

सन्तोषयेत् कुलद्रव्यैः कुलपूजापुरःसरम् ॥ १५ ॥

रोगेष्वापत्सु दोषेषु दुःसङ्गे दुनीमित्तके ।

पूजयेद् योगिनीवृन्दं देवि तद्दोषशान्तये ॥ १६ ॥

यत्रैकाम्नायतत्त्वज्ञः कुलाचार्यः कुलेश्वरि ।

कौलिकास्त्रिचतुःपञ्च शक्तयश्च तथा प्रिये ॥ १७ ॥

पृथग्वा पूजयेद्देवि मिथुनाकारतोऽपि वा ।

गन्धपुष्पाक्षताद्यैस्तु देवेशि समलङ्कृताः ।

भक्ष्यभोज्यादिपिशितैः पदार्थैः षड्रसान्वितैः ॥ १८ ॥

प्रौढोल्लासेन सहिता यदि ता निवसन्ति च ।

तच्छ्रीचक्रमिति प्रोक्तं वृन्दञ्चापि तदुच्यते ॥ १९ ॥

कुर्यान्नवकुमारीणां पूजामाश्विनमासके ।

प्रातनीमन्त्रयेद्भक्त्या साधकः शुद्धमानसः ॥ २० ॥

मनोहरामेकवर्षी बालाञ्च शुभलक्षणाम् ।

मन्त्री स्नात्वाथ शुद्धात्मा कुर्याद्देवि क्रमार्चनम् ॥ २१ ॥

अभ्यङ्गस्नानशुद्धान्तां पूजासदनमानयेत् ।

देवतासन्निधौ बालामुपवेश्य समर्चयेत् ॥ २२ ॥

गन्धपुष्पादिभिर्धूपैर्दीपैश्च कुलदीपकैः ।

भोग्यभोज्यान्नपानाद्यैः क्षीराज्यमधुमांसकैः ।

कदलीनारिकेलादिफलैस्तां परितोषयेत् ॥ २३ ॥

सशक्तिकः स्वयं देवि प्रौढान्तोल्लाससंयुतः ।

यथाशक्ति जपेदेकोत्तरवृद्ध्याऽथवा मनुम् ॥ २४ ॥

बालामलङ्कृतां पश्यन् चिन्तयेत् स्वेष्टदेवताम् ।

ततस्तां देवताबुद्ध्या नमस्कृत्य विसर्जयेत् ॥ २५ ॥

द्वितीयायां द्विवर्षान्तामेकवर्षाञ्च पूजयेत् ।

एवं तिथौ कुमारीञ्च यजेत् पूर्वदिनाचीताम् ॥ २६ ॥

नवम्यामेकवर्षादि-नववर्षान्तकन्यकाः ।

बाला शुद्धा च ललिता मालिनी च वसुन्धरा ।

सरस्वती रमा गौरी दुर्गा च नव कीत्तीताः ॥ २७ ॥

त्रिताराद्यैर्नमोऽन्तैश्च देवतापदपश्चिमैः ।

नामभिश्च चतुर्थ्यन्तैः पूजयेत्ताः पृथक् पृथक् ॥ २८ ॥

बटुकं पञ्चवर्षञ्च नववर्षं गणेश्वरम् ।

गन्धपुष्पाम्बराकल्पैर्यथाविभवविस्तरैः ॥ २९ ॥

अभ्यर्च्य देवताबुद्ध्या पदार्थैः परितोषयेत् ।

स्वकार्यफलसिद्ध्यर्थं वित्तशाठ्यविवजीतः ॥ ३० ॥

नवरात्रं जपेदेकोत्तरवृद्ध्या क्रमेण च ।

नवरात्रकृतां पूजां देवि देव्यै समर्पयेत् ॥ ३१ ॥

ताम्बूलं दक्षिणां दत्त्वा कुमारीस्ता विसर्जयेत् ।

एवं नवकुमारीणामर्चनं प्रातवत्सरम् ॥ ३२ ॥

यः करोति स पुण्यात्मा देवताप्रीतिमाप्नुयात् ।

मनोऽभिलाषं सम्प्राप्य निवसेत्तव सन्निधौ ॥ ३३ ॥

अथवा यौवनारूढाः प्रमदा नव पार्वति ।

मनोज्ञाः पूजयेद्भक्त्या नवरात्रिषु मन्त्रवित् ॥ ३४ ॥

हृल्लेखां गगनां रक्तां महोच्छुष्मां करालिकाम् ।

इच्छां ज्ञानां क्रियां दुर्गां बटुकञ्च गणेश्वरम् ।

पूर्ववत् पूर्वमद्याद्यैः पदार्थैः परितोषयेत् ॥ ३५ ॥

प्रौढान्तोल्लाससंयुक्ताः सन्तुष्टा यदि ताः प्रिये ।

साधकस्तुष्टिमासाद्य निवसेत्तव सन्निधौ ॥ ३६ ॥

एवं यः पूजयेद्देवि प्रतिवर्षं यतव्रतः ।

षण्मासे वा त्रिमासे वा मासे मासेऽथवा प्रिये ॥ ३७ ॥

तिस्रो वा पञ्च वा सप्त पूजयेद्देवताधिया ।

सर्वैश्वर्यसमृद्धात्मा स भवेदावयोः प्रियः ॥ ३८ ॥

भृगुवारे कुलेशानि कान्तामारूढयौवनाम् ।

सर्वलक्षणसम्पन्नामनुकूलां मनोरमाम् ॥ ३९ ॥

कुलाकुलाष्टकां देवि निमन्त्र्याहूय पुष्पिणीम् ।

अभ्यङ्गस्नानशुद्धाङ्गीमासने चोपवेशयेत् ॥ ४० ॥

गन्धपुष्पाम्बराकल्पैरलङ्कृत्य विधानवित् ।

आत्मानं गन्धपुष्पाद्यैरलङ्कुर्यात् कुलेश्वरि ॥ ४१ ॥

आवाह्य देवतां तस्यां यजेन्न्यासक्रमेण च ।

कृत्वा क्रमार्चनं धूपदीपाञ्च कुलदीपकान् ॥ ४२ ॥

प्रदर्श्य देवताबुद्ध्या पदार्थैः षड्रसान्वितैः ।

मांसादिभक्ष्यभोज्याद्यैस्तोषयेद्देवि भक्तितः ॥ ४३ ॥

प्रौढान्तोल्लाससहितां तां प्रपश्यन् जपेन्मनुम् ।

यौवनोल्लाससहितः स्वयं तद्ध्यानतत्परः ॥ ४४ ॥

निवीकारेण चित्तेन ह्यष्टोत्तरसहस्रकम् ।

जपादिकं समर्प्याथ तया सह निशां नयेत् ॥ ४५ ॥

त्रिपञ्चसप्तनवसु भृगुवारेषु यः प्रिये ।

पूजयेद्विधिनाऽनेन तस्य पुण्यं न गण्यते ॥ ४६ ॥

चतुः पीठार्चनफलं स प्राप्नोति कुलेश्वरि ।

यद् यत् स्वमनसोऽभीष्टं तत्तदाप्नोत्यसंशयम् ॥ ४७ ॥

नवम्यां वार्चयेदेवं विधानेन विधानवित् ।

स्तोत्रैः संपूजयेत् सर्वैर्महदैश्वर्यमाप्नुयात् ॥ ४८ ॥

कुर्यात् कर्कटके वापि मकरे मिथुनार्चनम् ।

तुलायां सिंहमेषे वा सर्वसंक्रान्तिषु प्रिये ॥ ४९ ॥

गौरीशिवौ रमाविष्णू वाणीसरसिजासनौ ।

शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी ॥ ५० ॥

भद्रकालीवीरभद्रौ भैरवीभैरवावपि ।

मिथुनानि नवाभ्यर्च्य पूर्वोक्तेनैव वर्त्मना ॥ ५१ ॥

त्रितारादिनमोऽन्तेन तत्तन्नाम्ना विधानवित् ।

गन्धपुष्पादिभिः पूज्य मद्याद्यैः परितोषयेत् ॥ ५२ ॥

प्रौढान्तोल्लासयुक्तानि कुर्वीत मिथुनानि च ।

एवं कृते न सन्देहस्तुष्टा मिथुनदेवताः ।

अनुगृह्णन्ति तं देवि प्रयच्छन्ति मनोरथम् ॥ ५३ ॥

प्रतिवर्षन्तु यः कुर्यात् सभक्त्या मिथुनार्चनम् ।

तव लोके स निवसेत् सर्वैश्वर्यसमन्वितः ॥ ५४ ॥

अथ वैशाखमासस्य शुक्लप्रतिपदीश्वरि ।

ब्राह्मे मुहूर्त्ते उत्थाय स्नानं सन्ध्यामुपास्य च ॥ ५५ ॥

मनोज्ञे रहसि स्थाने पूर्वाशाभिमुखस्थितः ।

आत्मानं गन्धपुष्पाद्यैरलङ्कृत्य विधानवित् ॥ ५६ ॥

कृत्वा पुरोदितन्यासान् देवताभावमास्थितः ।

किञ्चिदभ्युदिते सूर्ये मण्डले स्वेष्टदेवताम् ॥ ५७ ॥

ध्यात्वा सावरणां सम्यक् पूजयेद्विधिना प्रिये ।

षोडशैरुपचारैस्तु चक्रपूजापुरःसरम् ॥ ५८ ॥

कुलदीपान् प्रदर्श्याथ शिवाय गुरुरूपिणे ।

मत्स्यमांसादि विधिवद्भक्ष्य भोज्यसमन्वितम् ॥ ५९ ॥

अर्घ्यं निवेद्य तच्छेषं स्वयं भक्त्या पिबेत् प्रिये ।

यौवनोल्लाससहितो निवीकारेण चेतसा ॥ ६० ॥

ध्यायंस्तन्मण्डलं देवीमष्टोत्तरसहस्रकम् ।

जप्त्वा समर्प्य तत्पूजां देवताञ्च समुद्धरेत् ॥ ६१ ॥

एवं शुक्लप्रतिपदं समारभ्य दिने दिने ।

कुर्याज्जपार्चनं कृष्णचतुर्द्दश्यन्तमम्बिके ॥ ६२ ॥

अमावस्यादिने देवि पूजयेच्छक्तिकौलिकान् ।

त्रिपञ्चसप्त नव वा वित्तलोभविवजीतः ॥ ६३ ॥

एवं यो मासमात्रन्तु कुर्यात् सूर्योदयार्चनम् ।

देवता तस्य सन्तुष्टा ददाति फलमीप्सितम् ॥ ६४ ॥

माध्याह्ने चार्चयेद्देवं सायाह्ने चार्चयेत् प्रिये ।

स तु तत्फलमाप्नोति योगिनीनां प्रियो भवेत् ॥ ६५ ॥

त्रिसन्धां योऽर्चयेदेवं मासमात्रं विधानवित् ।

काङ्क्षितां लभते सिद्धिं देववद् विचरेद् भुवि ॥ ६६ ॥

माघशुक्लप्रतिपदि दिवाहारविवजीतः ।

स्नात्वा शुक्लाम्बरधरः सायं सन्ध्यामुपास्य च ॥ ६७ ॥

सूर्यार्चनोक्तमार्गेण सर्वद्रव्यसमन्वितः ।

यौवनोल्लाससहितश्चन्द्रस्थां देवतां स्मरन् ॥ ६८ ॥

चन्द्रास्तमयपर्यन्तं जपेन्मन्त्रनन्यधीः ।

एवं प्रतिदिनं शुक्लचतुर्द्दश्यन्तमर्चयेत् ॥ ६९ ॥

पौर्णमास्यां यथाशक्त्या पूजयेच्छक्तिकौलिकान् ।

एवं यः कुरुते भक्त्या शुक्लपक्षार्चनं प्रिये ॥ ७० ॥

सर्व पापविशुद्धात्मा सर्वैश्वर्यसमन्वितः ।

सर्वलोकैकसंपूज्यः शिववन्निवसेद् भुवि ॥ ७१ ॥

शुक्लपक्षेऽर्चनं यद्वत्तद्वत् पक्षे सितेतरे ।

यः करोति विधानेन सर्वान् कामान् समश्नुते ॥ ७२ ॥

इह भुक्त्वाऽखिलान् भोगान् देववत् प्रियदर्शनः ।

योगिनीवीरमेलनं लभते नात्र संशयः ॥ ७३ ॥

अथ कात्तीकमासस्य शुक्लप्रतिपदीश्वरि ।

स्नात्वाचम्य विशुद्धात्मा न्यासान् कृत्वा पुरोदितान् ॥ ७४ ॥

प्रसुप्ते जीवलोके तु मुदितात्मा महानिशि ।

पूर्वार्चनोक्त विधिना सर्वद्रव्यसमन्वितः ॥ ७५ ॥

आज्येनानामिकास्थूलवत्तीं प्रज्वाल्य पार्वति ।

पञ्चवर्णरजश्चित्रवसुपत्रसरोरुहे ॥ ७६ ॥

मधुपूर्णे च कलसे कांस्यपात्रे मनोहरे ।

दीपं संस्थाप्य पुरत उत्तराभिमुखस्थितः ॥ ७७ ॥

दीपे सावरणां देवीं ध्यात्वा विधिवदर्चयेत् ।

यौवनोल्लाससहितो दीपस्थां देवतां स्मरन् ॥ ७८ ॥

अष्टोत्तरसहस्रन्तु जपेन्मन्त्रमनन्यधीः ।

एवं समर्चयेत् कृष्णचतुर्द्दश्यन्तमम्बिके ॥ ७९ ॥

अमावास्यादिने भक्त्या पूजयेच्छक्तिकौलिकान् ।

एवं कृते कुलेशानि देवता प्रीतिमाप्नुयात् ॥ ८० ॥

सर्वकामसमृद्धात्मा सर्वैश्वर्यसमन्वितः ।

सर्वलोकैकसम्मान्यः सञ्चरेत् स यथासुखम् ॥ ८१ ॥

अष्टाष्टकार्चनं कुर्यात् शक्तश्चेदेकवासरे ।

अथवाष्टाष्टदिवसेष्वथ द्व्यष्टदिनेषु च ।

द्वात्रिंशद्दिवसेष्वेवं चतुःषष्टिदिनेषु च ॥ ८२ ॥

गुरुणा कारयेद्देवि क्रमज्ञेनापरेण वा ।

क्रमज्ञश्चेत् स्वयं कुर्याद्वित्तशाठ्यविवजीतः ॥ ८३ ॥

मूलाष्टकन्तु ब्रह्माद्याश्चासिताङ्गादिभैरवाः ।

मङ्गलाद्यैश्च मिथुनैरष्टभिः शब्दिताः प्रिये ॥ ८४ ॥

मूलाष्टकोद्भवानीति प्रसिद्धानि कुलागमे ।

अक्षोभ्यादिचतुःषष्टिमिथुनानि समर्चयेत् ॥ ८५ ॥

पूर्वोक्तेन विधानेन यथाविभवविस्तरम् ।

क्रमलोपं न कुर्वीत स्वेष्टकार्यार्थसिद्धये ॥ ८६ ॥

गन्धपुष्पाक्षताद्यैश्च मत्स्यमांसासवादिभिः ।

भक्ष्यभोज्यादिभिर्नानापदार्थैः षड्रसान्वितैः ।

सम्यक् सन्तोषयेद्देवि मिथुनान्यतिभक्तितः ॥ ८७ ॥

प्रौढान्तोल्लासपर्यन्तं कुर्यात् श्रीचक्रमम्बिके ।

एवं यः कुरुते देवि सकृदष्टाष्टकार्चनम् ॥ ८८ ॥

ब्रह्मविष्णुमहेशादिदेवताभिः स पूज्यते ।

किं पुनर्मानवाद्यैश्च साक्षात् शिव इवापरः ॥ ८९ ॥

यदर्चनाच्चतुःषष्टियोगिनीगणसंस्तुतः ।

पुनरावृत्तिरहितो निवसेत्तव सन्निधौ ॥ ९० ॥

समस्तदेवताप्रीतिकारणं परमेश्वरि ।

अस्मात् परतरा पूजा नास्ति सत्यं न संशयः ॥ ९१ ॥

पश्यदेवंविधं चक्रं यो भक्त्याष्टाष्टकं प्रिये ।

यज्ञदानतपस्तीर्थव्रतकोटिफलं लभेत् ॥ ९२ ॥

राजा यः कारयेद्देवि भक्त्याष्टाष्टकपूजनम् ।

चतुःसागरपर्यन्तां महीं शास्ति न संशयः ॥ ९३ ॥

श्रीकण्ठादीनि पञ्चाशन्मिथुनानि समर्चयेत् ।

पूर्वोक्तेन विधानेन कुलेश्वरि विधानवित् ॥ ९४ ॥

स्वकार्यफलसिद्ध्यर्थं वित्तशाठ्यविवजीतः ।

प्रौढान्तोल्लासयुक्तानि मिथुनानि समर्चयेत् ॥ ९५ ॥

सन्तुष्टानि प्रयच्छन्ति साधकायेप्सितं फलम् ।

अव्याहताज्ञः सर्वत्र पूज्यते देववत् प्रिये ।

तव लोके वसेद्देवि ब्रह्मादिसुरसंस्तुतः ॥ ९६ ॥

केशवादि गणेशादि कामादि मिथुनानि च ।

श्रीकण्ठादि समभ्यर्च्य तत्फलं लभते ध्रुवम् ॥ ९७ ॥

अनुग्रहन्तु यः कुर्यात् डाकिन्यादिसमर्चने ।

मासे मासेऽथवा वर्षे स्वजन्मदिवसे प्रिये ॥ ९८ ॥

पूर्वोक्तेन विधानेन यथाविभवविस्तरम् ।

प्रौढान्तोल्लासपर्यन्तं तोषयेत्तद्विधानवित् ॥ ९९ ॥

कुर्वन्त्यनुग्रहं देवि सन्तुष्टाः सर्वदेवताः ।

सर्वोपद्रव रहितः सर्वैश्वर्यसमन्वितः ॥ १०० ॥

लोकेऽस्मिन् संस्तुतः सर्वैः स जीवेच्छरदां शतम् ।

देहान्ते समवाप्नोति तव लोकं न संशयः ॥ १०१ ॥

दूतीयागन्तु यः कुर्यात् पूर्वोक्तविधिना प्रिये ।

निवीकल्पेन चित्तेन नवशक्तिसमन्वितः ॥ १०२ ॥

वर्षे वर्षे चतुःषष्टिपीठार्चनफलं लभेत् ।

आज्ञासिद्धिर्भवेत्तस्य देवताप्रीतिमाप्नुयात् ॥ १०३ ॥

त्रिकपूजान्तु यः कुर्यादिच्छाज्ञानक्रियात्मिकाम् ।

आगमोक्तेत विधिना पूर्ववेत्तद्विधानवित् ॥ १०४ ॥

पदार्थैस्तोषयेत् सम्यक् यथाविभवविस्तरम् ।

सन्तुष्टा देवतास्तिस्रः सर्वकर्मफलप्रदाः ।

देवेशि साधकाभीष्टं प्रयच्छन्ति न संशयः ॥ १०५ ॥

इत्यादिदेवतापूजां विशेषदिवसेषु यः ।

करोति शस्त्रविधिना स भवेदावयोः प्रियः ॥ १०६ ॥

श्रीचक्रं कौलिको मोहाद्विशेषदिवसेषु यः ।

न करोति समर्थः सन् स भवेद् योगिनीपशुः ॥ १०७ ॥

कुलपूजां विना चक्रे नाधिकारः कथञ्चन ।

कुलपूजां सुनियतं यः करोति स कौलिकः ॥ १०८ ॥

विना मन्त्रेण पूजा चेद्देवता न प्रसीदति ।

कुलपूजां सुनियतं यः करोति हि कौलिकः ।

कुलेशि सर्वदाप्नोति योगिनीवीरमेलनम् ॥ १०९ ॥

नीचोऽपि वा सकृद्भक्त्या कारयेद् यः कुलार्चनम् ।

स सद्गतिमवाप्नोति किमुतान्ये द्विजातयः ॥ ११० ॥

तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।

कुलपूजारतो भूयादभीष्टफलसिद्धये ॥ १११ ॥

कुलपूजाधिको यज्ञः कुलपूजाधिकं व्रतम् ।

कुलपूजाधिकं तीर्थं कुलपूजाधिकं तपः ॥ ११२ ॥

कुलपूजाधिकं दानं कुलपूजाधिका क्रिया ।

कुलपूजाधिकं ज्ञानं कुलपूजाधिकं सुखम् ॥ ११३ ॥

कुलपूजाधिको धर्मः कुलपूजाधिकं फलम् ।

कुलपूजाधिकं ध्यानं कुलपूजाधिकं महः ॥ ११४ ॥

कुलपूजाधिको योगः कुलपूजाधिका गतिः ।

कुलपूजाधिकं भाग्यं कुलपूजाधिकाऽर्चना ॥ ११५ ॥

नास्ति नास्ति पुनर्नास्ति त्वां शपे कुलनायिके ।

बहुनात्र किमुक्तेन रहस्यं शृणु पार्वति ॥ ११६ ॥

वेदशास्त्रोक्तमार्गेण कुलपूजां करोति यः ।

तत्समीपे स्थितं मां त्वां विद्धि नान्यत्र भामिनी ।

इदं सत्यमिदं सत्यं सत्यं सत्यं न संशयः ॥ ११७ ॥

खभूमिदिग्जलगिरिवनसर्वचराः प्रिये ।

सहस्रकोटियोगिन्यस्तावन्तो भैरवा अपि ।

नियुक्ता हि मया देवि कुलसंरक्षणाय च ॥ ११८ ॥

दिवसे दिवसे सर्वे पार्वति मुदिताननाः ।

साधकानेव वीक्षन्ते स्वस्वपूजनलिप्सया ॥ ११९ ॥

अपूजितास्तु विघ्नन्ति पालयन्ति सुपूजिताः ।

गुरुभक्तान् सदाचारान् गुह्यधर्मान् सदाशिवान् ॥ १२० ॥

भक्तिहीनान् दुराचारान् नाशयन्ति प्रकाशकान् ।

श्रीचक्रे संस्मरेत्तस्माद् योगिनीभैरवान् प्रिये ॥ १२१ ॥

न स्मरेद् यदि मूढात्मा योगिनीनां भवेत् पशुः ।

तस्मात् श्रीचक्रमध्ये तु संस्मरेत् सर्वदेवताः ॥ १२२ ॥

अनुगृह्णन्ति देवेशि साधकान् नात्र संशयः ।

अनुग्रहन्तु वक्ष्यामि शृणु देवि यथाक्रमम् ॥ १२३ ॥

आत्मनोऽनुग्रहार्थं वा परार्थं श्रेष्ठमुत्तमम् ।

शुचिद्रव्यसमायुक्तं चक्रपूजासमन्वितम् ॥ १२४ ॥

सर्वेषां दक्षिणां दत्त्वा होमपात्रं पृथक पृथक् ।

प्रपूजयेच्च वर्णस्थाः सर्वाभरणभूषिताः ॥ १२५ ॥

हर्षानन्दस्वयंयुक्ताः प्रसन्नाश्च पृथक् पृथक् ।

पायसाज्यौदनैर्युक्तैर्नैवेद्यैर्भक्तिसंयुतैः ॥ १२६ ॥

गन्धपुष्पादिभिः सम्यगर्चयित्वा गणेश्वरम् ।

हसख फ्रें हेसौं(ह्सौं) डां डीं डमलवरयूं ततः ॥ १२७ ॥

श्रीपादुकां हेसौ(ह्सौ)मिति च हसखफ्रें पुटन्ततः ।

सङ्कल्प्य मनसोऽभीष्टं मधुरत्रितयः प्रिये ॥ १२८ ॥

गन्धपुष्पादिभिः सम्यगर्चयित्वा पृथक् पृथक् ।

पूजयित्वेप्सितान् कामान् प्रार्थयेत् कमलानने ॥ १२९ ॥

ईप्सितानि च सर्वाणि साधको लभते वरम् ।

आत्मनश्च परस्यापि रक्षार्थं पूजयेत् प्रिये ॥ १३० ॥

रोगाणां नाशनार्थञ्च यथात्र पुत्रसिद्धये ।

वश्यार्थं मङ्गलार्थञ्च धर्मकर्मार्थसिद्धये ॥ १३१ ॥

सप्ताहं पूजयेद्देवि चतुर्द्दशदिनानि च ।

एकविंशदिनान्यत्र लभते चेप्सितं फलम् ॥ १३२ ॥

दक्षिणाञ्च पृथग् दद्याद्वस्त्रभूषाङ्गुरीयकम् ।

कुलाष्टकसमायुक्तं चतुःषष्टिसमन्वितम् ॥ १३३ ॥

अचीतञ्च प्रयत्नेन सिद्धिर्भवत्यनेकशः ।

वित्तशाठ्यं न कुर्वीत यदीच्छेत् सिद्धिमात्मनः ॥ १३४ ॥

एवं षट्कं समाख्यातमनुग्रहं वरानने ।

अचीतव्यं प्रयत्नेन साधकैः स्वेष्टसिद्धये ॥ १३५ ॥

ध्यात्वैव पूजयेदेता डाकिन्याद्या वरानने ।

संपूज्य सप्तमीं देवीं पूजयेत् सर्वसिद्धये ॥ १३६ ॥

शक्तिदेहसमुत्पन्नं शक्तिनिर्माल्यभोजने ।

स्ववर्गेण समायुक्ता दत्तनिर्माल्यमित्यपि ।

प्रतिगृह्णयुगं स्वाहा इति निर्माल्यसर्जनम् ॥ १३७ ॥

डाकिनी सर्पवदना वित्तजा ज्वलनप्रभा ।

कमण्डलुं कर्त्तृकाञ्च धारयन्ती वरप्रदा ॥ १३८ ॥

उलूकवदना देवी राकिणी नीलसन्निभा ।

खड्गखेटकसंयुक्ता सर्वालङ्कारभूषिता ॥ १३९ ॥

लाकिनी श्रीकपालाढ्या पाशांकुशधरा सती ।

पाटलीपुष्पसङ्काशा सर्वाभरणभूषिता ॥ १४० ॥

काकिनी हयवक्त्रा च माणिक्यसदृशप्रभा ।

त्रिमुखीं मुण्डसंयुक्ता सिद्धिदा सर्वशोभना ॥ १४१ ॥

शाकिनी त्वञ्जनप्रख्या मार्जारास्या सुशोभना ।

कुलिशञ्च तथा दण्डं धारयन्ति शुचिस्मिता ॥ १४२ ॥

हाकिनी ऋक्षवदना नीलनीरदसन्निभा ।

कपालशूलहस्ता च खेटकैरुपशोभिता ।

एकद्वित्रिचतुःपञ्चषण्मुखा सरभाभया ॥ १४३ ॥

इति ते कथितं किञ्चिद्विशेषदिवसार्चनम् ।

समासेन कुलेशानि किम्भूयः श्रोतुमिच्छसि ॥ १४४ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे विशेषदिवसार्चनं नाम दशमोल्लासः ॥ १० ॥


अथैकादशोल्लासः

[सम्पाद्यताम्]

श्री देव्युवाच

कुलेश श्रोतुमिच्छामि सर्वलोकैकपूजित ।

कुलाचारक्रमं देव वद मे करुणानिधे ॥ १ ॥

ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण पशुपाशैः प्रमुच्यते ॥ २ ॥

यदि चेद्दीक्षितो ज्येष्ठः कुलपूजादिवजीतः ।

तत्कनिष्ठः क्रमज्ञश्चेत् कुलपूजां समाचरेत् ॥ ३ ॥

तत्समीपं ततो गत्वा नमस्कृत्य गुरुं यथा ।

तस्मै निवेद्य तत्सर्वं शेष भुञ्जीत पार्वती ॥ ४ ॥

पूजामध्ये गुरौ ज्येष्ठे पूज्ये वापि समागते ।

नत्वा ब्रूयात् स्थितं शिष्टमाचरेत्तदनुज्ञया ॥ ५ ॥

ज्येष्ठस्य च कनिष्ठस्य शिष्यावेकत्र संस्थितौ ।

तत्र पूर्ववदाचारः कथितः कुलनायिके ॥ ६ ॥

अज्ञातकौलिके प्राप्ते पौर्वापर्यन्तु चिन्तयेत् ।

स्मृत्वा स्वस्य गुरुं देवि स्वस्य मार्गेण तर्पयेत् ॥ ७ ॥

नित्यार्चनं दिने कुर्याद्रात्रौ नैमित्तिकार्चनम् ।

उभयोः काम्यकर्माणि चेति शास्त्रस्य निर्णयः ॥ ८ ॥

अस्नात्वाऽनासनस्थो वा भुक्त्वा वा प्रलपन्नपि ।

गन्धपुष्पाक्षता कल्पवस्त्राद्यैरनलंकृतः ।

अविन्यस्तशरीरो वा कुलपूजां न चाचरेत् ॥ ९ ॥

विना मन्त्रेण या पूजा विना मांसेन तर्पणम् ।

विना शक्त्या तु यत्पानं निष्फलं कथितं प्रिये ॥ १० ॥

श्रीचक्रमेको वा कुर्यादेकपात्रन्तु नार्चयेत् ।

नार्चयेदेकहस्तेन न पिबेदेकपाणिना ॥ ११ ॥

मत्स्यमांसासवैर्द्देवि नार्चयेत् पशुसन्निधौ ।

प्रणम्य प्रविशेच्चक्रं विनिर्गच्छेत्प्रणम्य च ॥ १२ ॥

श्रीचक्रे नासने तिष्ठेन्न च वीरासने प्रिये ।

श्रीचक्रदर्शने देवि नेत्रयोः पापनाशनम् ।

तन्नास्ति चेद् व्रणद्वन्द्वं कौलिकस्याक्षियुग्मकम् ॥ १३ ॥

अनाचारान् सदाचारान् चक्रस्थान् शक्तिकौलिकान् ।

शिवगौरीधिया देवि भावयेन्नावमानयेत् ॥ १४ ॥

कुलाचार्यगृहं गत्वा भक्त्या पापविशुद्धये ।

याचेदमृतञ्चान्नञ्च तदभावे जलं पिबेत् ॥ १५ ॥

कुलाचार्येण तच्छक्त्या दत्तं पात्रञ्च भक्तितः ।

नमस्कृत्य तु गृह्णीयादन्यथा नरकं व्रजेत् ॥ १६ ॥

अस्नात्वा वाप्यभक्त्या वा लोभाद्वापि कुलेश्वरि ।

यः सेवेत कुलद्रव्यं दारिद्र्यं समवाप्नुयात् ॥ १७ ॥

उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गणावृतः ।

व्यग्रो रुष्टो विवादी च न सेवेत कुलामृतम् ॥ १८ ॥

योगामृतेन निष्ठीवान्मद्यभाण्डपरिभ्रमात् ।

ऊर्ध्व नालेन पानाच्च देवताशापमाप्नुयात् ॥ १९ ॥

एकासने निविष्टस्तु भुञ्जानस्त्वेकभाजने ।

एकपात्रे पिबेद्द्रव्यं ते यान्ति नरकं प्रिये ॥ २० ॥

यः सेवेत कुलद्रव्यमेकग्रामे स्थिते गुरौ ।

तत्कुलज्ञे च तत्पुत्रे स्वजेष्ठे कुलदेशिके ।

विनानुज्ञां महेशानि सोऽक्षयं नरकं व्रजेत् ॥ २१ ॥

उच्छिष्टो न स्पृशेच्चक्रे कुलद्रव्याणि पार्वति ।

बहिःप्रक्षाल्य च करौ कुलद्रव्याणि दापयेत् ॥ २२ ॥

मद्यभाण्डं समुधृत्च न पात्रं पूरयेत् प्रिये ।

भोगपात्रं सुराकुण्डे निक्षिपेन्न कदाचन ॥ २३ ॥

चक्रमध्ये शुचिधिया करप्रक्षालनादिकम् ।

यः करोति हि मूढात्मा स भवेदापदाम्पदम् ॥ २४ ॥

निष्ठीवनं मलं मूत्रमधोवायुविसर्जनम् ।

श्रीचक्रमध्ये यः कुर्यात् स भवेद् योगिनीपशुः ॥ २५ ॥

चक्रमध्ये घटे भग्ने पात्रे च पतिते भुवि ।

दीपनाशे च शान्त्यर्थं श्रीचक्रं कारयेत् प्रिये ॥ २६ ॥

मत्ता जपन्ति ध्यायन्ति स्तुवन्ति प्रणमन्ति च ।

बोधयन्ति च पृच्छन्ति नन्दन्ति ज्ञानिनः प्रिये ॥ २७ ॥

मत्ता भ्रमन्ति गर्जन्ति हसन्ति विवदन्ति च ।

रुदन्ति स्त्रियमिच्छन्ति निन्दन्त्यज्ञानिनः प्रिये ॥ २८ ॥

परिहासं प्रलापञ्च वितण्डां बहुभाषितम् ।

औदासीन्यं भयं क्रोधं चक्रमध्ये विवर्जयेत् ॥ २९ ॥

पात्रहस्तो महादेवि न भ्रमेच्चक्रमध्यतः ।

पूर्णपात्रं करे कृत्वा न तिष्ठेत्तु चिरं प्रिये ॥ ३० ॥

नालपेत् पात्रहस्तः सन् न भिन्द्यात् पात्रमम्बिके ।

पादाभ्यां न स्पृशेत् पात्रं न बिन्दुं पातयेदधः ॥ ३१ ॥

नैकहस्तेन दातव्यं न मुद्रावजीतं प्रिये ।

पात्रं न चालयेत स्थानान्न कुर्यात् पात्रसङ्करम् ॥ ३२ ॥

सशब्दं न पिबेन्मद्यं तथैव न च पूरयेत् ।

नान्योन्यं ताडयेत्पात्रं तथा न पातयेदधः ॥ ३३ ॥

साधारं नोद्धरेत् पात्रमनाधारे न निक्षिपेत् ।

रिक्तपात्रं न कुर्वीत न पात्रं भ्रामयेत् प्रिये ॥ ३४ ॥

न पात्रं लंघयेद्धीमान् पात्रं नोत्पातयेत् प्रिये ।

प्रक्षाल्य गोपयेत् पात्रमित्याज्ञा परमेश्वरि ॥ ३५ ॥

यदा सन्दीपितोल्लासः कौलिकः पशुमीक्षते ।

पठेद्वा पशुशास्त्राणि सङ्गच्छेद्वा पशुस्त्रियम् ॥ ३६ ॥

कुर्यात् पशुप्रसङ्गं वा पशुकार्याणि वा चरेत् ।

धर्मार्थायुर्यशःपुण्यमर्थसौख्यादि नश्यति ॥ ३७ ॥

श्रीचक्रस्थं कुलद्रव्यं यः पशुभ्यः प्रयच्छति ।

स्नेहाल्लोभाद्भयाद्वापि स भवेद् योगिनीपशुः ॥ ३८ ॥

रिपुणापि न कर्त्तव्यो वाग्वादश्चक्रमध्यतः ।

पितृमातृसमं पश्येत्तेनोक्तं परुषं सहेत् ॥ ३९ ॥

यथास्त्रीपुत्रमित्रादि दृष्ट्वा चेतः प्रहृष्यति ।

तथा चेत् कौलिकान् दृष्ट्वा स भवेद् योगिनीप्रियः ॥ ४० ॥

ब्रह्मादिस्तम्बपर्यन्तं यस्य मे गुरुसन्ततिः ।

यस्य मे सर्वशिष्यस्य को न पूज्यो महीतले ।

द्दति निश्चितबुद्धिर्यः स भवेदावयोः प्रियः ॥ ४१ ॥

अहं गुरुरहं ज्येष्ठस्त्वहं वेद्मीति गवीतः ।

अहमेव गतिर्येषां कौलिका न भवन्ति ते ॥ ४२ ॥

श्रीगुरुं कुलशास्त्राणि पूजास्थानानि यानि च ।

भक्त्या श्रीपूर्वकं देवि प्रणम्य परिकीर्त्तयेत् ॥ ४३ ॥

गुरुं नाम्ना न भावेत जपकालादृते प्रिये ।

श्रीनाथ देव स्वामीति विवादे साधने वदेत् ॥ ४४ ॥

श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं स्वपादुकाम् ।

शिष्यादन्यस्य देवेशि न वदेद् यस्य कस्यचित् ॥ ४५ ॥

पारम्पर्यागमाम्नायं मन्त्राचारादिकं प्रिये ।

सर्व गुरुमुखाल्लब्धं सफलं स्यान्न चान्यथा ॥ ४६ ॥

श्रीशास्त्राश्रयमूलञ्च पुस्तकं न वदेत् प्रिये ।

नित्यं समर्चयेद्भक्त्या पशुहस्ते न निक्षिपेत् ॥ ४७ ॥

स्वदारवन्निषेवेत कुलशास्त्राणि पार्वति ।

पशुशास्त्राणि सर्वाणि वर्जयेत् परदारवत् ॥ ४८ ॥

स्वचर्मस्थं यथा क्षीरमपेयं स्याद् द्विजोत्तमैः ।

तथा पशुमुखाद्धर्मो न श्रोतव्यो हि कौलिकैः ॥ ४९ ॥

यः शृणोति कुलाचारं यथाशास्त्रञ्च यो वदेत् ।

तावुभौ गच्छतः साक्षाद् योगिनीवीरमेलनम् ॥ ५० ॥

अश्रद्धधाना ये चात्र कुलधर्मे कुलेश्वरि ।

नरकान्नो निवर्त्तन्ते यावदाहूत संप्लवम् ॥ ५१ ॥

ऊढा धृता तथा क्रीता मूल्येन च समाहृता ।

सकृत् कामरता वापि पञ्चधा गुरुयोषितः ।

अलंघ्याः पूजनीयाः स्युर्गुरुवद्गुरुयोषितः ॥ ५२ ॥

गुरुशक्तिं वीरभार्यां कुमारीं व्रतधारिणीम् ।

व्यङ्गाङ्गी विकृताङ्गीञ्च कुब्जामपि न कामयेत् ॥ ५३ ॥

सुताञ्च भगिनीं पौत्रीं स्नुषां वापि प्रियामपि ।

न कामयेद् गुरोरग्रे कुर्यान्नान्योन्यसंग्रहम् ॥ ५४ ॥

कृष्णांशुकां कृष्णवणार्ं कुमारीञ्च कृशोदरीम् ।

मनोहरां यौवनस्थामर्चयेद्देवताधिया ॥ ५५ ॥

एकदापि न सेवेत बलेन कुलयोगिनीम् ।

चक्रमध्ये स्वयं क्षुब्धां कामयेत् कुलसुन्दरि ॥ ५६ ॥

आममांसं सुराकुम्भं मत्तेभं सिद्धिलिङ्गिनम् ।

सहकारमशोकञ्च क्रीडालोलाः कुमारिकाः ॥ ५७ ॥

एक्रवृक्षं श्मशानञ्च समूहं योषतामपि ।

नारीञ्च रक्तवसनां दृष्ट्वा वन्देत भक्तितः ॥ ५८ ॥

गुरुशक्तिसुतज्येष्ठकनिष्ठान् कुलदेशिकान् ।

कुलदर्शनशास्त्राणि कुलद्रव्याणि कौलिकान् ॥ ५९ ॥

प्रेरकान् सूचकांश्चापि वाचकान् दर्शकांस्तथा ।

शिक्षकान् बोधकान् योगी योगिनीसिद्धिरूपकान् ॥ ६० ॥

कन्यां कुमारिकां नग्नामुन्मत्तां वापि योषितम् ।

न निन्देन्न जुगुप्सेत न हसेन्नावमानयेत् ॥ ६१ ॥

नाप्रियं नानृतं ब्रूयात् कस्यापि कुलयोगिनः ।

कुरूपा चेति कृष्णेति न वदेत् कुलयोषितम् ॥ ६२ ॥

परीक्षयेन्न भक्तानां वीराणाञ्च कृताकृतम् ।

न पश्येद्वनितां नग्नामुन्मत्तां प्रकटस्तनीम् ॥ ६३ ॥

दिवसे न रमेन्नारीं तद्योनिं नैव वीक्षयेत् ।

या काचिदङ्गना लोके सा मातृ कुलसम्भवा ॥ ६४ ॥

कुप्यन्ति कुलयोगिन्यो वनितानां व्यतिक्रमात् ।

स्त्रियं शतापराधाञ्चेत् पुष्पेणापि न ताडयेत् ।

दोषान्न गणयेत् स्त्रीणां गुणानेव प्रकाशयेत् ॥ ६५ ॥

तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा ।

तत्पत्रेषु न भोक्तव्यमर्चयेत्तु विशेषतः ॥ ६६ ॥

न स्वपेत् कुलवृक्षाधो न चोपद्रवमाचरेत् ।

दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्न कदाचन ॥ ६७ ॥

श्लेष्मातकं करञ्जाख्यं निम्बाश्वत्थकदम्बकाः ।

बिल्ववटोडुम्बराश्च तिन्तिडी नवमी स्मृता ॥ ६८ ॥

प्रायश्चित्तं भृगोः पातं संन्यासं व्रतधारणम् ।

तीर्थयात्राभिगमनं कौलः पञ्च विवर्जयेत् ॥ ६९ ॥

वीरहत्या वृथापानं वीरपत्नीनिषेवणम् ।

वीरद्रव्यापहरणम् तत्संयोगश्च पञ्चमः ।

महापातकमित्युक्तं कौलिकानां कुलान्वये ॥ ७० ॥

शैवे तत्त्वपरिज्ञानं गारुडे विषभक्षणम् ।

ज्योतिषे ग्रहणं सारं कौलेऽनुग्रहनिग्रहौ ॥ ७१ ॥

देवतागुरुशास्त्राणां सिद्धाचारविडम्बकाः ।

विद्याचौरो गुरुद्रोही ब्रह्मराक्षसतां व्रजेत् ॥ ७२ ॥

गुरुवाक्यं हतं कृत्वा वीरान् निर्भर्त्स्य च प्रिये ।

गुरुं हुङ्कृत्य तुङ्कृत्य वीरं निजीत्य वादतः ।

विकल्प्य कुलशास्त्राणि भवन्ति ब्रह्मराक्षसाः ॥ ७३ ॥

एकाक्षरप्रदातारं यो गुरुञ्चावमानयेत् ।

श्वानं योनिशतं गत्वा चण्डालत्वमवाप्नुयात् ॥ ७४ ॥

मातरं पितरं भार्यां भ्रातरं बान्धवं सुतम् ।

कुलनिन्दाकरं देवि हन्यादेवाविचारयन् ॥ ७५ ॥

गुर्वर्थं देवतार्थं वा कौलिकार्थं कुलेश्वरि ।

कुलागमार्थमथवा कुलधर्मार्थमेव वा ॥ ७६ ॥

देवि निन्दाकरं हत्वा बाधितः स्वयमेव वा ।

यस्त्यजेद्दुस्त्यजप्राणान् स परे लीयते शिवे ॥ ७७ ॥

एकस्मिन्निधनं यत्र प्रापिते दुष्टचारिणि ।

बहूनां भवति क्षेमं पुण्यं तस्य वधे भवेत् ॥ ७८ ॥

श्रीचक्रकृतवृत्तान्तं शुभं वा यदि वाऽशुभम् ।

कदाचिन्नैव वक्तव्यमित्याज्ञा परमेश्वरि ॥ ७९ ॥

कुलधर्मप्रसङ्गञ्च पशूनां पुरतः प्रिये ।

कदाचिन्नैव कुर्वीत शूद्राग्रे देवपाठवत् ॥ ८० ॥

पीठक्षेत्रागमाम्नायं तद्विद्याचारकौलिकान् ।

कुलद्रव्यादिकं देवि न वदेत् पशुसन्निधौ ॥ ८१ ॥

यथा रक्षति चौरेभ्यो धनधान्यादिकं प्रिये ।

कुलधर्मं तथा देवि पशुभ्यः परिरक्षयेत् ॥ ८२ ॥

अन्तः कौलो बहिः शैवो जनमध्ये तु वैष्णवः ।

कौलं सुगोपयेद्देवि नारिकेलफलाम्बुवत् ॥ ८३ ॥

कुलधर्मादिकं सर्वं सर्वावस्थासु सर्वदा ।

गोपयेच्च प्रयत्नेन जननीजारगर्भवत् ॥ ८४ ॥

वेदशास्त्रपुराणानि स्पष्टानि गणिका इव ।

इयन्तु शाम्भवी विद्या गुप्ता कुलवधूरिव ॥ ८५ ॥

सुगुप्तकौलिकाचारमनुगृह्णन्ति देवताः ।

वाञ्छासिद्धिं प्रयच्छन्ति नाशयन्ति प्रकाशकान् ॥ ८६ ॥

कुलेशि कुलशास्त्रज्ञाः कुलपूजापरायणाः ।

ये त्वां रहसि सेवन्ते ते तिष्ठन्ति तवान्तिके ॥ ८७ ॥

गुरुं प्रकाशयेद्धीमान् मन्त्रं यत्नेन गोपयेत् ।

अप्रकाशप्रकाशाभ्यां नश्यतः सम्पदायुषी ॥ ८८ ॥

सर्वाचारपरिभ्रष्टः कुलाचारं समाश्रयेत् ।

कुलाचारपरिभ्रष्टौ रौरवं नरकं व्रजेत् ॥ ८९ ॥

शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि ।

कुलभ्रष्टस्य देवेशि न दृष्टा निष्कृतिः क्वचित् ॥ ९० ॥

कुलधर्म समाश्रित्य आचारं यो न पालयेत् ।

यथेच्छचारिणस्तस्य महापातकिनः प्रिये ॥ ९१ ॥

आपदो दुरितं रोगा दारिद्र्यं कलहो भयम् ।

योगिनीनां प्रकोपश्च स्खलितानि पदे पदे ॥ ९२ ॥

भ्रंशमानः प्रनष्टश्च तेजोहीनोऽतिदुर्मतिः ।

निन्दितः सर्वविद्विष्टो विह्वलः सङ्गवजीतः ।

देशाद्देशान्तरं याति कार्यहानिश्च सर्वदा ॥ ९३ ॥

तत्रापि कुलमार्गस्थाः शाकिन्यः कुलपालिकाः ।

भक्षयन्ति पुरा तासां वरो दत्तो मयेव तु ॥ ९४ ॥

तस्मादाचारवान् देवि योगिनीनां प्रियो भवेत् ।

नाशयन्ति चतुर्वेदाननाचाराः कुलेश्वरि ॥ ९५ ॥

पादुकामात्रसारज्ञः सदाचारेषु यन्त्रितः ।

सदाचारेण देवत्वं योगिनीवीरमेलनम् ।

सम्प्राप्नुवन्ति तिर्यक्त्वं कौलिकास्तद्विपर्ययात् ॥ ९६ ॥

आज्ञासिद्धमिदं कौलमनाचाराद्विनश्यति ।

आचारपालनात् सत्यमाज्ञासिद्धिर्भविष्यति ॥ ९७ ॥

नाभिषेको न मन्त्रो वा न शास्त्रपठनादिकम् ।

कारणं कुलधर्मस्य सदाचारः कुलेश्वरि ॥ ९८ ॥

परा श्रीपादुकातत्त्वत्रयाचारादिवासनाः ।

यो वेत्ति समयी स स्यात् कौलिकश्चापि शाम्भवि ॥ ९९ ॥

तावन्न कौलिको देवि यावन्न समयीकृतः ।

देहपाते विमोक्षः स्यात् समयाचारपालनात् ॥ १०० ॥

संस्कारेण विहीनत्वाद् गुरुवाक्यस्य लङ्घनात् ।

आचारवर्जनाद्देवि कौलिकः पतितो भवेत् ॥ १०१ ॥

नित्यं नैमित्तिकं द्रव्यं मन्त्रयन्त्रादिलोपनम् ।

अनर्हपशुदुःसङ्गमन्त्रसाङ्कर्यसम्भवम् ॥ १०२ ॥

गुप्तप्रकटसम्भूतं ज्ञानाज्ञानकृतं प्रिये ।

एवमादिषु दोषेषु पापस्य गुरुलाघवम् ॥ १०३ ॥

देशं कालं वयो वित्तं सम्यग् ज्ञात्वा यथाविधि ।

प्रायश्चित्तं गुरुर्द्दद्यात् सर्वपापविशुद्धये ॥ १०४ ॥

शिष्योऽपि गुरुणाऽऽज्ञप्तं प्रायश्चित्तं समाचरेत् ।

अथवा सर्वपापानां गुरुनामजपः स्मृतः ॥ १०५ ॥

जाम्बूनदस्य कलुषं परिशुद्धं यथाग्निना ।

अनाचारस्य मालिन्यं प्रायञ्चित्ताग्निना दहेत् ॥ १०६ ॥

बहुनात्र किमुक्तेन रहस्यं शृणु पार्वती ।

वर्णाश्रमाणां सर्वेषामाचारः सद्गतिप्रदः ॥ १०७ ॥

गुरुस्त्रिवारमाचारं कथयेच्च कुलेश्वरि ।

न गृह्णाति हि शिष्यश्चेत्तदा पापं गुरोर्न हि ॥ १०८ ॥

मन्त्रिदोषश्च राजानं जायादोषः पतिं यथा ।

तथा प्राप्नोत्यसन्देहं शिष्यपापं गुरुं प्रिये ॥ १०९ ॥

इति ते कथितं किञ्चित् समासेन कुलेश्वरि ।

कुलाचारविधिं देवि किम्भूयः श्रोतुमिच्छसि ॥ ११० ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे कुलाचारकथनं नाम एकादशोल्लासः ॥ ११ ॥


अथ द्वादशोल्लासः

[सम्पाद्यताम्]

श्री देव्युवाच

कुलेश श्रोतुमिच्छामि पादुका भक्तिलक्षणम् ।

आचारमपि देवेश वद मे करुणानिधे ॥ १ ॥

ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण भक्तिराशु प्रजापते ॥ २ ॥

वाग्भवा मूलवलये सूत्राद्याः कवलीकृताः ।

एवं कुलार्णवे ज्ञानं पादुकायां प्रतिष्ठितम् ॥ ३ ॥

कोटिकोटिमहादानात् कोटिकोटिमहाव्रतात् ।

कोटिकोटिमहायज्ञात् परा श्रीपादुकास्मृतिः ॥ ४ ॥

कोटिकोटिमन्त्रजापात् कोटितीर्थावगाहनात् ।

कोटिदेवार्चनाद्देवि परा श्रीपादुकास्मृतिः ॥ ५ ॥

महारोगे महोत्पाते महादोषे महाभये ।

महापदि महापापे स्मृता रक्षति पादुका ॥ ६ ॥

दुराचारे दुरालापे दुःसङ्गे दुष्प्रतिग्रहे ।

दुराचारे च दुर्बुद्धौ स्मृता रक्षति पादुका ॥ ७ ॥

तेनाधीतं स्मृतं ज्ञातम् इष्टं दत्तञ्च पूजितम् ।

जिह्वाग्रे वर्त्तते यस्य सदा श्रीपादुकास्मृतिः ॥ ८ ॥

सकृत् श्रीपादुकां देवि यो वा जपति भक्तितः ।

स सर्वपापरहितः प्राप्नोति परमां गतिम् ॥ ९ ॥

शुचिर्वाप्यशुचिर्वापि भक्त्या स्मरति पादुकाम् ।

अनायासेन धर्मार्थकाममोक्षान् लभते सः ॥ १० ॥

श्रीनाथचरणाम्भोजं यस्यां दिशि विराजते ।

तस्यां दिशि नमस्कुर्यात् भक्त्या प्रतिदिनं प्रिये ॥ ११ ॥

न पादुकापरो मन्त्रो न देवः श्रीगुरोः परः ।

न हि शाक्तात् परा दीक्षा न पुण्यं कुलपूजनात् ॥ १२ ॥

ध्यानमूलं गुरोर्मूत्तीः पूजामूलं गुरोः पदम् ।

मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ १३ ॥

गुरुमूलाः क्रियाः सर्वा लोकेऽस्मिन् कुलनायिके ।

तस्मात् सेव्यो गुरुनीत्यं सिद्ध्यर्थं भक्तिसंयुतैः ॥ १४ ॥

तावदात्तीर्भयं शोको लोभमोहभ्रमादयः ।

यावन्नायाति शरणं श्रीगुरुं भक्तवत्सलम् ॥ १५ ॥

तावद् भ्रमन्ति संसारे सर्वदुःखमलीमसाः ।

न भवेत् सद्गुरौ भक्तिर्यावद्देवेशि देहिनाम् ॥ १६ ॥

सर्वसिद्धिफलोपेतो मन्त्रः शुध्यति शोभनः ।

गुरुप्रसादमूलोऽयं परतत्त्वमहाक्रमः ॥ १७ ॥

यथा ददाति सन्तुष्टः प्रसन्नो वरदो मनुम् ।

तथा भक्त्या धनैः प्राणैर्गुरुं यत्नेन तोषयेत् ॥ १८ ॥

यदा दद्यात् स्वशिष्याय स्वात्मानं देशिकोत्तमः ।

तदा मुक्तो भवेच्छिष्यस्ततो नास्ति पुनर्भवः ॥ १९ ॥

तावदाराधयेच्छिष्यः प्रसन्नोऽसौ यदा भवेत् ।

गुरौ प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥ २० ॥

मनसापि न काङ्क्षन्ते यान् कामाननुजीविनः ।

सम्पादयन्ति तान् सर्वान् स्वामिनो भक्तवत्सलाः ॥ २१ ॥

ब्रह्मविष्णुमहेशादिदेवतामुनियोगिनः ।

कुर्वन्त्यनुग्रहं तुष्टा गुरौ तुष्टे न संशयः ॥ २२ ॥

भक्त्या तुष्टेन गुरुणा यः प्रदिष्टः कृपालुना ।

कर्ममुक्तो भवेच्छिष्योः भुक्तिमुक्त्योः स भाजनम् ॥ २३ ॥

शिष्येणापि तथा कार्यं तथा सन्तोषितो गुरुः ।

प्रियं कुर्याच्च देवेशि मनोवाक्कायकर्मभिः ॥ २४ ॥

यदि तुष्टेन गुरुणात्मशिष्यो यत्र कुत्रचित् ।

मुक्तोऽसीति समादिष्टः सोऽपि मुक्तिं व्रजेत् प्रिये ॥ २५ ॥

अथवा निष्प्रपञ्चेन धाम्ना केनचिदीश्वरः ।

करोति गुरुरूपेण पशुपाशविमोचनम् ॥ २६ ॥

न मे प्रियश्चतुर्वेदी मद्भक्तः श्वपचोऽपि वा ।

तस्मै देयं ततो ग्राह्यं स तु पूज्यो ह्यहं तथा ॥ २७ ॥

विप्रः षड्गुणयुक्तश्चेदभक्तो न प्रशस्यते ।

म्लेच्छोऽपि गुणहीनोऽपि भक्तिमान् शिष्य उच्यते ॥ २८ ॥

गुरुभक्तिविहीनस्य तपो विद्या कुलं व्रतम् ।

सर्वं नश्यति तत्रैव भूषणं लोकरञ्जनम् ॥ २९ ॥

गुरुभक्त्यग्निना सम्यग्दग्धदुर्मतिकल्मषः ।

श्वपचोऽपि परैः पूज्यो विद्वानपि न नास्तिकः ॥ ३० ॥

धर्मार्थकामैः किन्तस्य मोक्ष एव करे स्थितः ।

सर्वार्थैः श्रीगुरौ देवि यस्य भक्तिः सदा स्थिरा ॥ ३१ ॥

स शिवो गुरुरूपेण भुक्तिमुक्तिप्रदो मम ।

इति भक्त्या स्मरेद् यस्तु तस्य सिद्विरदूरतः ॥ ३२ ॥

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।

तस्य ते कथिता ह्यर्थाः प्रकाशन्ते कुलेश्वरि ॥ ३३ ॥

नारायणे महादेवे मातापित्रोश्च राजनि ।

भक्तिर्यथा महादेवि तथा कार्या निजे गुरौ ॥ ३४ ॥

लक्ष्मीनारायणौ वाणीधातारौ गिरिजाशिवौ ।

श्रीगुरुं गुरुपत्नीञ्च पितराविति चिन्तयेत् ॥ ३५ ॥

गुरुभक्त्या यथा देवि प्राप्यन्ते सर्वसिद्धयः ।

यज्ञः दानतपस्तीर्थव्रताद्यैर्न तथा प्रिये ॥ ३६ ॥

श्रीगुरौ निश्चला भक्तिर्वर्द्धते हि यथा यथा ।

तथा तथास्य विज्ञानं वर्द्धते कुलनायिके ॥ ३७ ॥

कि तीर्थाद्यैर्महायासैः किं व्रतैः कायशोषणैः ।

निर्व्याजसेवा देवेशि भक्तिरेषा हि सद्गुरोः ॥ ३८ ॥

कायाक्लेशेन महता तपसा वापि यत् फलम् ।

तत् फलं लभते देवि सुखेन गुरुसेवया ॥ ३९ ॥

भोगमोक्षाथीनां ब्रह्मविष्ण्वीशपदकाङ्क्षिणाम् ।

भक्तिरेव गुरौ देवि नान्यः पन्था इति श्रुतिः ॥ ४० ॥

अशुभानि च कर्माणि महापातकजानि च ।

भक्तिः क्षणेन दहति तूलराशिमिवानलः ॥ ४१ ॥

विश्वासाय नमस्तस्मै सर्वसिद्धिप्रदायिने ।

येन मृद्दारुद्दषदः फलन्त्यविफलं फलम् ॥ ४२ ॥

न योगो न तपो नार्चाक्रमः कोऽपि प्रलीयते ।

अमाये कुलमार्गेऽस्मिन् भक्तिरेव विशिष्यते ॥ ४३ ॥

साक्षाद् गुरुमये देवि सर्वस्मिन् भुवनान्तरे ।

किन्नु भक्तिमतां क्षेत्रे मन्त्रः केषां न सिध्यति ॥ ४४ ॥

गुरौ मनुष्यबुद्धिञ्च मन्त्रे चाक्षरबुद्धिकम् ।

प्रतिमासु शिलाबुद्धि कुर्वाणो नरकं व्रजेत् ॥ ४५ ॥

गुरुं न मर्त्त्यं बुध्येत यदि बुध्येत तस्य हि ।

न कदाचिद्भवेत् सिद्धिर्मन्त्रैर्वा देवतार्चनैः ॥ ४६ ॥

श्रीगुरुं प्राकृतैः सार्द्धं ये स्मरन्ति वदन्ति च ।

तेषां हि सुकृतं सर्वं पातकं भवति प्रिये ॥ ४७ ॥

जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः ।

गुरुवीशेषतः पूज्यो धर्माधर्मप्रदर्शकः ॥ ४८ ॥

गुरुः पिता गुरुर्माता गुरुर्द्देवो महेश्वरः ।

शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ ४९ ॥

गुरोहीतं हि कर्त्तव्यं मनोवाक्कायकर्मभिः ।

अहिताचरणाद्देवि विष्ठायां जायते क्रिमिः ॥ ५० ॥

शरीरवित्तप्राणैश्च श्रीगुरुं वञ्चयन्ति ये ।

क्रिमिकीटपतङ्गत्वं प्रात्नुवन्ति न संशयः ॥ ५१ ॥

मन्त्र त्यागाद्भवेन्मृत्युर्गुरुत्यागाद्दरिद्रता ।

गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत् ॥ ५२ ॥

गुर्वर्थं धारयेद्देहं तदर्थं धनमर्जयेत् ।

निजप्राणान् परित्यज्य गुरुकार्यं समाचरेत् ॥ ५३ ॥

गुरूक्तं परुषं वाक्यमाशिषं परिचिन्तयेत् ।

तेन सन्ताडितो वापि प्रसादमिति संस्मरेत् ॥ ५४ ॥

भोग्य भोज्यानि वस्तूनि गुरुवे च समर्पयेत् ।

तच्छेषमिति सञ्चिन्त्य चानुभूयात् कुलेश्वरि ॥ ५५ ॥

गुर्वग्रे न तपः कुर्यान्नोपवासव्रतादिकम् ।

तीर्थयात्रां न कुर्याच्च न स्नायादात्मशुद्धये ॥ ५६ ॥

न वियोगं गुरोः कुर्यात् युष्मदो नैव भाषयेत् ।

ऋणदानं तथाऽऽदानं वस्तूनां क्रयविक्रयम् ।

न कुर्याद् गुरुभिः सार्द्धं शिष्यो भूत्वा कथञ्चन ॥ ५७ ॥

न कुर्यान्नास्तिकैर्वादं सम्भाषणमपीश्वरि ।

विलोक्य दूरतो गच्छेन्नासीत सह तैः क्वचित् ॥ ५८ ॥

गुरौ सन्निहिते यस्तु पूजयेदन्यमम्बिके ।

स याति नरकं घोरं सा पूजा निष्फला भवेत् ॥ ५९ ॥

शिरसा न वहेद्भारं गुरुपादाब्जधारिणा ।

तदाज्ञया तु कर्त्तव्यमाज्ञारूपो गुरुः स्मृतः ॥ ६० ॥

मन्त्रागमाद्यमन्यत्र श्रुतं यस्मै निवेदयेत् ।

गुर्वाज्ञया तु गृह्णीयात्तन्निषिद्धं विवर्जयेत् ॥ ६१ ॥

स्वशास्त्रोक्तं रहस्यार्थं न वदेद् यस्य कस्यचित् ।

यदि ब्रूयात् स समयाच्च्युत एव न संशयः ॥ ६२ ॥

अद्वैतं भावयेन्नित्यं न द्वैतं गुरुणा सह ।

आत्मवत् सर्वभूतेभ्यो हितं कुर्यात् कुलेश्वरि ॥ ६३ ॥

आत्मार्थमानसद्भावैः शुश्रूषा स्याच्चतुवीधा ।

शुश्रूषया धिया देवि शिष्यः सन्तोषयेद् गुरुम् ॥ ६४ ॥

पदे पदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयः ।

शुश्रूषणपरो यस्तु गुरुदेवमहात्मनाम् ॥ ६५ ॥

केवलं गुरुशुश्रूषा त्वत्कृपाकारिणी प्रिये ।

सद्भक्तिसहिता चेत् सा सर्वकामफलप्रदा ॥ ६६ ॥

क्षीयन्ते सर्वपापानि वर्द्धन्ते पुण्यराशयः ।

सिध्यन्ति सर्वकार्याणि गुरुशुश्रूषया प्रिये ॥ ६७ ॥

यद् यदात्महितं वस्तु तत्तद्धितमुपाचरेत् ।

गुरुदेवार्चको यस्तु तस्य पुण्यं न गण्यते ॥ ६८ ॥

भक्त्या वित्तानुसारेण गुरुमुद्दिश्य यत् कृतम् ।

अल्पे महति वा तुल्यं पुण्यमाढ्यदरिद्रयोः ॥ ६९ ॥

सर्वस्वमपि यो दद्याद् गुरौ भक्तिविवजीतः ।

शिष्यो न फलमाप्नोति भक्तिरेव हि कारणम् ॥ ७० ॥

यस्मिन् द्रव्ये गुरोरस्ति स्पृहा नानुभवेत्तु तत् ।

अवश्यं यदि वाञ्छा स्यादनुभूयात्तदाज्ञया ॥ ७१ ॥

यस्तिलार्द्धं तदर्द्धं वा गुरुस्वमुपजीवति ।

लोभान्मोहात् स पच्येत नरके च त्रिसप्तके ॥ ७२ ॥

अत्यल्पं हि गुरोर्द्रव्यमदत्तं स्वीकरोति यः ।

स तिर्यग् योनिमापन्नः क्रव्यादैर्भक्ष्यते प्रिये ॥ ७३ ॥

गुरुद्रव्याभिलाषी च गुरुस्त्रीगमनोत्सुकः ।

पतितस्य क्षुल्लकस्य प्रायश्चित्तं न विद्यते ॥ ७४ ॥

आज्ञाभङ्गोऽर्थहरणं गुरोरप्रियवर्त्तनम् ।

गुरुद्रोहमिदं प्राहुर्यः करोति स पातकी ॥ ७५ ॥

स्वद्रव्यविनियोगञ्च नानिवेद्य गुरौ चरेत् ।

अनिवेद्य तु यः कुर्यात् स भवेद् ब्रह्मघातकः ॥ ७६ ॥

गुरोः स्थानं सम्प्रदायं तद्धर्मं यो विनाशयेत् ।

गुरुभिः स बहिष्कार्यो दण्ड्यो वध्यः स घातकैः ॥ ७७ ॥

गुरुकोपाद्विनाशः स्याद् गुरुद्रोहात्तु पातकम् ।

विमृत्युगुरुनिन्दायां गुर्वनिष्टान्महापदः ॥ ७८ ॥

जीवेदग्निप्रविष्टो वा नरः पीतविषोऽपि वा ।

मृत्युहस्तगतो वापि नापराधकरो गुरोः ॥ ७९ ॥

यत्र श्रीगुरुनिन्दा स्यात् पिधाय श्रवणेऽम्बिके ।

सद्यस्तस्माद्विनिष्क्रामेत् पुनर्न श्रवणं यथा ।

गुरोर्नाम स्मरेत् पश्चात् श्रवणे सा प्रतिक्रिया ॥ ८० ॥

गुरुमित्रसुहृद्दासीदासाद्यान् नावमानयेत् ।

न निन्देदस्य समयान् वेदशास्त्रागमादिकान् ॥ ८१ ॥

गुरोः श्रीपादुकाभूषा गुरुनामस्मृतिर्जपः ।

गुर्वाज्ञाकरणं कृत्यं शुश्रूषा भजनं गुरोः ॥ ८२ ॥

विविक्षुर्द्देशिकावासं शान्तचित्तोऽतिभक्तिमान् ।

वाहनं पादुकां छत्रं चामरं व्यजनादिकम् ।

ताम्बूलं कज्जलं वेशमुत्सृज्य प्रविशेच्छनैः ॥ ८३ ॥

पादुकामासनं वस्त्रं वाहनं छत्रचामरे ।

दृष्ट्वा गुरोर्नमस्कुर्यान्नात्मभोगाय कामयेत् ॥ ८४ ॥

पादप्रक्षालनं स्नानमभ्यङ्गं दन्तधावनम् ।

मूत्रं निष्ठीवनं क्षौरं शयनं स्त्रीनिषेवनम् ॥ ८५ ॥

वीरासनं सुदुर्वाक्यं शासनं हास्यरोदनम् ।

केशमोचनमुष्णीषं कञ्चुकं नग्नतां तथा ॥ ८६ ॥

पादप्रसारणं वादं कलहं दूषणं प्रिये ।

अङ्गभङ्गाङ्गवाद्यादिकरास्फालनधूननम् ॥ ८७ ॥

द्यूतकौतुकमल्लादियुद्धनृत्यादि चाम्बिके ।

गुरुयोगिमहासिद्धिपीठक्षेत्राश्रमेषु च ।

ना चरेदाचरेन्मोहाद्देवताशापमाप्नुयात् ॥ ८८ ॥

उपचारेण सन्तिष्ठेद् गुर्वग्रे नेच्छया विशेत् ।

मुखावलोकी सेवेत तदुक्तञ्च समाचरेत् ॥ ८९ ॥

गुरूक्तानुक्त कार्येषु नोपेक्षां कारयेत् प्रिये ।

शिरसा यद्गुरुर्ब्रूयात्तत् कार्यमविशङ्कया ॥ ९० ॥

निग्रहेऽनुग्रहे वापि गुरुः सर्वस्य कारणम् ।

निर्गतं यद्गुरोर्वक्त्रात् सर्वं शास्त्रं तदुच्यते ॥ ९१ ॥

गुरुकार्ये स्वयं शक्तो नापरं प्रेषयेत् प्रिये ।

बहुभृत्यपरैर्भृत्यैः सहितोऽप्यतिभक्तिमान् ॥ ९२ ॥

गच्छंस्तिष्ठन् स्वपन् जाग्रज्जपन् जुह्वात् प्रपूजयेत् ।

गुर्वाज्ञामेव कुर्वीत तदगतेनान्तरात्मना ॥ ९३ ॥

अभिमानो न कर्त्तव्यो जातिविद्याधनादिभिः ।

सर्वदा सेवयेत् नित्यं शिष्यः भ्रीगुरुसन्निधौ ॥ ९४ ॥

कामक्रोधपरित्यागी विनीतः स्तुतिभक्तिमान् ।

देवि भूम्यासने तिष्ठेद् गुरुकार्यं समाचरेत् ॥ ९५ ॥

स्वकार्यमन्यकार्यं वा शिष्यः स्वगुरुचित्तवित् ।

गुरुपार्श्वगतो नम्रः प्रसन्नवदनो भवेत् ॥ ९६ ॥

सामान्यतो निषिद्धञ्च तद्गुरोर्यदि सन्निधौ ।

आचरेत्तस्य सर्वस्य दोषः कोटिगुणो भवेत् ॥ ९७ ॥

अनादृत्य गुरोर्वाक्यं शृणुयाद् यः पराङ्मुखः ।

अहितं वा हितं वापि रौरवं नरकं व्रजेत् ॥ ९८ ॥

गोब्राह्मणवधं कृत्वा यत् पापं समवाप्नुयात् ।

तत् पापं समवाप्नोति गुर्वग्रेऽनृतभाषणात् ॥ ९९ ॥

स्थानान्तरगताचार्ये व्यसने विषमे स्थिते ।

श्रीगुरुं न त्यजेत् क्वापि तदादिष्टो व्रजेत् प्रिये ॥ १०० ॥

अधः स्थिते गुरावूर्ध्वे न तिष्ठेत कदाचन ।

न गच्छेदग्रतस्तस्य न तिष्ठेदुत्थिते गुरौ ॥ १०१ ॥

शक्तिच्छायां सुरच्छायां गुरुच्छायां न लङ्घयेत् ।

न तेषु कुर्यात् स्वच्छायां न स्वपेद् गुरुसन्निधौ ॥ १०२ ॥

भाषणं पाठनं गानं भोजनं शयनादिकम् ।

अनादिष्टो न कुर्वीत न चावन्दनपूर्वकम् ॥ १०३ ॥

ब्रह्महत्याशतं कुर्यात् गुर्वाज्ञापरिपालनात् ।

विना गुर्वाज्ञया शिष्यौ विश्वसेन्नान्यशासनात् ॥ १०४ ॥

सर्वं गुर्वाज्ञया कुर्यान्न निन्देत्तत्स्त्रियं प्रिये ।

भक्त्या प्रणम्य चोत्तिष्ठेत् कृताञ्जलिपुटः प्रिये ॥ १०५ ॥

पश्चात्पदेन निर्गच्छेन्नमस्कृत्य गुरोर्गृहात् ।

एकासने नोपविशेद् गुरुणा तत्समैः सह ॥ १०६ ॥

न विशेदासने देवि देवतागुरुसन्निधौ ।

गुरोः सिंहासनं देयं ज्येष्ठानामुत्तमासनम् ।

देश्यासनं कनिष्ठानामितरेषां समासनम् ॥ १०७ ॥

जाति विद्याधनाढ्यो वा दूरे दृष्ट्वा गुरुं मुदा ।

दण्डप्रणामं कृत्वैकं त्रिः प्रदक्षिणमाचरेत् ॥ १०८ ॥

ततस्त्रिः षड् द्वादश वा ज्येष्ठादिष्वेकमेव वा ।

गुरुप्रगुरुयोगेन वन्देत प्रगुरु प्रिये ॥ १०९ ॥

ततो नमेद् गुरुं वापि गुर्वाज्ञां न विचारयेत् ।

प्रगुरोः सन्निधौ शिष्यः स्वगुरुं मनसा नमेत् ॥ ११० ॥

गुरुबुद्ध्या नमेत् सर्व दैवतं तृण्मेव वा ।

न नमेद्देवबुद्ध्या तु प्रतिमां लौहमृण्मयीम् ॥ १११ ॥

गुरोः प्रणामत्रितयं ज्येष्ठानामेक एव च ।

पूज्यानामञ्जलिस्तद्वदन्येषां वाक्यवन्दनम् ॥ ११२ ॥

देवान् गुरून् कुलाचार्यान् ज्ञानवृद्धान् तपोधनान् ।

विद्याधिकान् स्वधर्मस्थान् प्रणमेत् कुलनायिके ॥ ११३ ॥

स्त्रीद्विष्टं गुरुभिः शप्तं पाषण्डं पण्डितं शठम् ।

विकर्माणं कृतघ्नञ्चानाश्रमिणञ्च नो नमेत् ॥ ११४ ॥

अनिवेद्य गुरोर्भुङ्क्ते यस्त्वेकग्रामसंस्थितः ।

अमेध्यं तद्भवेदन्नं शूकरो जायते मृतः ॥ ११५ ॥

एकग्रामस्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद् गुरुम् ।

क्रोशामात्रस्थितः शिष्यो गुरुं प्रतिदिनं नमेत् ॥ ११६ ॥

अर्द्धयोजनगः शिष्यः प्रणमेत् पञ्चपर्वसु ।

एकयोजनमारम्य योजनद्वादशावधि ॥ ११७ ॥

तत्संख्यादिवसैर्मासैः श्रीगुरुं प्रणमेत् प्रिये ।

दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः ॥ ११८ ॥

तत्र योजनसंख्योक्तमासेन प्रणमेद् गुरुम् ।

अतिदूरगतः शिष्यो यदिच्छा स्यात्तदा व्रजेत् ॥ ११९ ॥

रिक्तहस्तश्च नोपेयाद्राजानं देवतां गुरुम् ।

फलपुष्पाम्बरादीनि यथाशक्त्या समर्पयेत् ॥ १२० ॥

एवं यो न चरेद्देवि ब्रह्मराक्षसतां व्रजेत् ।

गुरुशक्तिश्च तत्पुत्रो ज्येष्ठभ्राता गुरुः स्मृतः ॥ १२१ ॥

आत्मविच्च कनीयांसं पुत्रवत् परिपालयेत् ।

कुलाचार्यस्य देवेशि गुरुज्येष्ठकनिष्ठयोः ।

गुरुकल्पस्य कुर्वीत प्रणामं स्वरगुरोर्यथा ॥ १२२ ॥

यागज्येष्ठः क्रमज्येष्ठः कुलज्येष्ठस्तृतीयकः ।

गुरुज्येष्ठसुतो देवि इति ज्येष्ठचतुष्टयम् ॥ १२३ ॥

यागज्येष्ठाभिवादेन क्रमिकाष्टाङ्गयोगतः ।

गुरुश्च कुलवृक्षश्च वन्दनीयौ विधानतः ॥ १२४ ॥

पितृमात्रादिसर्वेषु पूज्यकोटिषु बन्धुषु ।

अभ्युत्थानप्रणामाद्यैरव्यक्तो दोषभाग्बहिः ॥ १२५ ॥

यदा त्वाचार्यरूपेण चात्मानं सम्प्रकाशयेत् ।

अभ्युत्थानप्रणामाद्यैर्द्दोषभाक् स भवेत्तदा ॥ १२६ ॥

पतिर्भूत्वा पशुभ्यश्च प्रणामं यः करिष्यति ।

स महापशुरित्युक्तो देवताशापमाप्नुयात् ॥ १२७ ॥

यो गुरुस्थानकं प्राप्तः पादुकापरिसंख्यया ।

गुरुवत् स तु मन्तव्यो ज्येष्ठैर्वन्द्यो न च प्रिये ॥ १२८ ॥

इति ते कथितं किञ्चित् पादुकाभक्तिलक्षणम् ।

समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १२९ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे पादुकाकथनं नाम द्वादशोल्लासः ॥ १२ ॥


अथ त्रयोदशोल्लासः

[सम्पाद्यताम्]

श्री देव्युवाच

कुलेश श्रोतुमिच्छामि करुणामृतवारिधे ।

वक्तुमर्हसि देवेश लक्षणं गुरुशिष्ययोः ॥ १ ॥

ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण गुरुभावः प्रजायते ॥ २ ॥

दुष्टवंशोद्भवं दुष्टं गुणहीनं विरूपिणम् ।

परशिष्यञ्च पाषण्डं षण्डं पण्डितमानिनम् ॥ ३ ॥

हीनाधिकविकाराङ्गं विकलावयवान्वितम् ।

पङ्गुमन्धञ्च बधिरं मलिनं व्याधिपीडितम् ॥ ४ ॥

उत्सृष्टं दुर्मुखञ्चापि स्वेच्छावेशधरं प्रिये ।

दुवीकाराङ्गचेष्टादिगतिभाषणवीक्षणम् ॥ ५ ॥

निद्रातन्द्राजडालस्यद्यूतादिव्यसनान्वितम् ।

कपाटकुड्यस्तम्भादौ तिरोहिततनुं सदा ।

अन्तर्भक्तिकरं क्षुद्रं बाह्यभक्तिविवजीतम् ॥ ६ ॥

व्यलीकवादिनं स्तब्धं प्रोषितं प्रेषकं शठम् ।

धनस्त्रीशुद्धिरहितं निषेधविधिवजीतम् ॥ ७ ॥

रहस्यभेदकं वापि देवि कार्यविनाशकम् ।

मार्जारबकवृत्तिञ्च रन्ध्रान्वेषणतत्परम् ॥ ८ ॥

मायाविनं कृतघ्नञ्च प्रच्छन्नान्तरदायकम् ।

विश्वासघातकं स्वामिद्रोहिणं पापकारिणम् ॥ ९ ॥

अविश्वासकरं संशयात्मकं सिद्ध्यकाङ्क्षिणम् ।

आततायिनमादित्सु कोपितं कूटसाक्षिणम् ॥ १० ॥

सर्वप्रतारकं देवि सर्वोत्कृष्टाभिमानिनम् ।

असत्यं निष्ठुरासक्तं ग्राम्यादिबहुभाषिणम् ॥ ११ ॥

दुवीचारकुतर्कादिकारकं कलहप्रियम् ।

वृथाक्षेपकरं मूर्खं चपलं वाग्विडम्बकम् ॥ १२ ॥

परोक्षे दूषणकरं प्रत्यक्षे प्रियवादिनम् ।

वाग्ब्रह्मवादिनं विद्या चौरमात्मप्रशंसकम् ॥ १३ ॥

गुणासहिष्णुमहितमार्त्तक्रोधनमम्बिके ।

वाचालं दुर्जनसखं सर्वलोकविगहीतम् ॥ १४ ॥

पिशुनं परसन्ताप्यं सम्विदप्रणयं प्रिये ।

स्वक्लेशवादिनं स्वामिद्रोहिणं स्वात्मवञ्चकम् ॥ १५ ॥

जिह्वोपस्थपरं देवि तस्करं पशुचेष्टितम् ।

अकारणद्वेषहासक्लेशक्रोधादिकारिणम् ॥ १६ ॥

अतिहासमकर्माणं मर्मान्तपरिहासकम् ।

कामुकञ्चातिनिर्लज्जं मिथ्यादुश्चेष्टसूचकम् ॥ १७ ॥

असूयामदमात्सर्यदम्भाहङ्कारसंयुतम् ।

ईर्ष्यापारुष्यपैशुन्यकार्पण्यक्रोधमानसम् ॥ १८ ॥

अधीरं दुःखिनं भीरुमशक्तस्तवमातुरम् ।

अप्रबुद्धमतिं मन्दं मूढं चिन्ताकुलं विटम् ॥ १९ ॥

तृष्णालोभयुतं दीनमतुष्टं सर्वयाचकम् ।

बह्वाशिनं कपटिनं भ्रामकं कुटिलं प्रिये ॥ २० ॥

भक्तिश्रद्धादयाशान्तिधर्माचारविवजीतम् ।

मातापितृगुरुप्राज्ञसद्वचोहास्यकारकम् ॥ २१ ॥

कुलद्रव्यादिबीभत्सं गुरुसेवाभिमानिनम् ।

स्त्रीद्विष्टं समयभ्रष्टं गुरुशप्तं कुलेश्वरि ।

इत्यादिदुर्गुणोपेतं गुरुः शिष्यं विवर्जयेत् ॥ २२ ॥

सच्छिष्यन्तु कुलेशानि शुभलक्षणसंयुतम् ।

समाधि साधनोपेतं गुणशीलसमन्वितम् ॥ २३ ॥

स्वच्छदेहाम्बरं प्राज्ञं धामीकं शुद्धमानसम् ।

दृढव्रतं सदाचारं श्रद्धाभक्तिसमन्वितम् ॥ २४ ॥

दक्षमल्पाशिनं गूढचित्तं निर्व्याजसेवकम् ।

विमृश्यकारिणं वीरं मनोदारिद्र्यवजीतम् ॥ २५ ॥

सर्वकार्यातिकुशलं स्वच्छं सर्वोपकारिणम् ।

कृतज्ञं पापभीतञ्च साधुसज्जनसम्मतम् ॥ २६ ॥

आस्तिकं दानशीलञ्च सर्वभूतहिते रतम् ।

विश्वासविनयोपेतं धनदेहाद्यवञ्चकम् ॥ २७ ॥

असाध्यसाधकं शूरमुत्साहबलसंयुतम् ।

अनुकूलं क्रियायुक्तमप्रमत्तं विचक्षणम् ॥ २८ ॥

हितसत्यमितस्मेरभाषणं मुक्तदूषणम् ।

सकृदुक्तगृहातार्थं चतुरं बुद्धिविस्तरम् ॥ २९ ॥

स्वस्तुतौ परनिन्दायां विमुखं सुमुखं प्रिये ।

जितेन्द्रियं सुसन्तुष्टं धीमन्तं ब्रह्मचारिणम् ॥ ३० ॥

त्यक्ताधिव्याधिचापल्यदुःखभ्रान्तिमसंशयम् ।

गुरुध्यानस्तुतिकथादेवार्चावन्दनोत्सुकम् ॥ ३१ ॥

गुरुदैवतसम्भक्तं कामिनीपूजकं परम् ।

नित्यं गुरुसमीपस्थं गुरुसन्तोषकारकम् ॥ ३२ ॥

मनोवाक्तनुभिनीत्यं परिचर्या समुद्यतम् ।

गुर्वाज्ञापालकं देवि गुरुकीत्तीप्रकाशकम् ॥ ३३ ॥

गुरुवाक्यप्रमाणज्ञं गुरुशुश्रूषणे रतम् ।

चित्तानुवत्तीनं प्रेष्यकारिणं कुलनायिके ॥ ३४ ॥

जातिमानधने गर्ववजीतं गुरुसन्निधौ ।

निरपेक्षं गुरुद्रव्ये तत्प्रसादाभिकाङ्क्षिणम् ॥ ३५ ॥

कुलधर्मकथायोगियोगिनीकौलिकप्रियम् ।

कुलार्चनादिनिरतं कुलद्रव्याजुगुप्सकम् ॥ ३६ ॥

जपध्यानादिनिरतं मोक्षमार्गाभिकाङ्क्षिणम् ।

कुलशास्त्रप्रियं देवि पशुशास्त्रपराङ्मुखम् ।

इत्यादिलक्षणोपेतं गुरुः शिष्यं परिग्रहेत् ॥ ३७ ॥

श्रीगुरुः परमेशानि शुद्धवेशो मनोहरः ।

सर्वलक्षणसम्पन्नः सर्वावयवशोभितः ॥ ३८ ॥

सर्वागमार्थतत्त्वज्ञः सर्वमन्त विधानवित् ।

लोकसम्मोहनकरो देववत् प्रियदर्शनः ॥ ३९ ॥

सुमुखः सुलभः स्वच्छो भ्रमसंशयनाशकः ।

इङ्गिताकारवित् प्राज्ञ ऊहापोहविदुज्ज्वलः ॥ ४० ॥

अन्तर्लक्ष्यो बहिर्दृष्टिः सर्वज्ञो देशकालवित् ।

आज्ञासिद्धिस्त्रिकालज्ञो निग्रहानुग्रहक्षमः ॥ ४१ ॥

वेधको बोधकः शान्तः सर्वजीवदयापरः ।

स्वाधीनेन्द्रियसञ्चारषड्वर्गविजयक्षमाः ॥ ४२ ॥

अग्रगण्योऽतिगम्भीरः पात्रापात्रविशेषवित् ।

शिवविष्णुसमः साधुर्मन्ददर्शनदूषकः ॥ ४३ ॥

निर्मलो नित्यसन्तुष्टः स्वतन्त्रो मन्त्रशक्तिमान् ।

सद्भक्तवत्सलो धीरः कृपालुः स्मितपूर्णवाक् ॥ ४४ ॥

भक्तप्रियः सदोदारो गम्भीरः शिष्टसाधकः ।

स्वेष्टदेवगुरुज्येष्ठ वनितापूजनोत्सुकः ॥ ४५ ॥

नित्ये नैमित्तिके काम्ये रतः कर्मण्यनिन्दिते ।

रागद्वेषभयक्लेशदम्भाहङ्कारवजीतः ॥ ४६ ॥

स्वविद्यानुष्ठानरतो धर्मादीनामुपार्जकः ।

यदृच्छालाभसन्तुष्टो गुणदोषविभेदकः ॥ ४७ ॥

स्त्रीधनादिष्वनासक्तो दुःसङ्गव्यसनादिषु ।

सर्वाहम्भावसंयुक्तो निर्द्वन्द्वो नियतव्रतः ॥ ४८ ॥

अलोलुपो ह्यसङ्कल्पपक्षपाती विचक्षणः ।

वित्तविद्यादिभिर्मन्त्रयन्त्रतन्त्राद्यविक्रयी ॥ ४९ ॥

निःसङ्गो निवीकल्पश्च निर्णीतार्थोऽतिधामीकः ।

तुल्यनिन्दास्तुतिर्मौनो निरपेक्षो निरामयः ।

इत्यादिलक्षणोपेतः श्रीगुरुः कथितः प्रिये ॥ ५० ॥

यः शिवः सर्वगः सूक्ष्मश्चोन्मना निष्कलोऽव्ययः ।

व्योमाकारो ह्यजोऽनन्तः स कथं पूज्यते प्रिये ॥ ५१ ॥

अत एव शिवः साक्षाद्गुरुरूपं समाश्रितः ।

भक्त्या सम्पूजितो देवि भुक्तिं मुक्तिं प्रयच्छति ॥ ५२ ॥

शिवोऽहं नाकृतिर्द्देवि नरदृग्गोचरो नहि ।

तस्मात् श्रीगुरुरूपेण शिष्यान् रक्षति धामीकान् ॥ ५३ ॥

मनुष्यचर्मणा बद्धः साक्षात् परशिवः स्वयम् ।

सच्छिष्यानुग्रहार्थाय गूढं पर्यटति क्षितौ ॥ ५४ ॥

सद्भक्तरक्षणायैव निराकारोऽपि साकृतिः ।

शिवः कृपानिधिर्लोके संसारीव हि चेष्टते ॥ ५५ ॥

ललाटलोचनं चान्दीं कलामपि च दोर्द्दयम् ।

अन्तर्धाय च वर्त्तेयं गुरुरूपो महीतले ॥ ५६ ॥

अत्रिनेत्रः शिवः साक्षादचतुर्बाहुरच्युतः ।

अचतुर्वदनो ब्रह्मा श्रीगुरुः कथितं प्रिये ॥ ५७ ॥

नरवद्दृश्यते लोके श्रीगुरुः पापकर्मणा ।

शिववद् दृश्यते लोके भवानि पुण्यकर्मणा ॥ ५८ ॥

श्रीगुरुं परमं तत्त्वं तिष्ठन्तं चक्षुरग्रतः ।

मन्दभाग्या न पश्यन्ति ह्यन्धाः सूर्यमिवोदितम् ॥ ५९ ॥

गुरुः सदाशिवः साक्षात् सत्यमेव न संशयः ।

शिव एव गुरुर्नो चेद्भुक्ति मुक्ति ददाति कः ॥ ६० ॥

सदाशिवस्य देवस्य श्रीगुरोरपि पार्वती ।

उभयोरन्तरं नास्ति यः करोति स पातकी ॥ ६१ ॥

देशिकाकृतिमास्थाय पशोः पाशानशेषतः ।

छित्त्वा परं पदं देवि नयत्येनमतो गुरुः ॥ ६२ ॥

सर्वानुग्रहकर्त्तृत्वादीश्वरः करुणानधिः ।

आचार्यरूपमास्थाय दीक्षया मोक्षयेत् पशून् ॥ ६३ ॥

यथा घटश्च कलसः कुम्भश्चैकार्थवाचकः ।

तथा देवश्च मन्त्रश्च गुरुश्चैकार्थ उच्यते ॥ ६४ ॥

यथा देवस्तथा मन्त्रो यथा मन्त्रस्तथा गुरुः ।

देवमन्त्रगुरूणाञ्च पूजया सदृशं फलम् ॥ ६५ ॥

शिवरूपं समास्थाय पूजां गृह्णामि पार्वती ।

गुरुरूपं समादाय भवपाशान्निकृन्तये ॥ ६६ ॥

सिद्धान्तशारवेत्ताहं बीजोऽहमिति बोधकृत् ।

अविच्छिन्नः सदा हृष्टहृदयो गुरुरुच्यते ॥ ६७ ॥

यो विलंघ्याश्रमान् वर्णानात्मन्येव स्थितः सदा ।

ज्योतिवर्णाश्रमी योगी स गुरुः कथितः प्रिये ॥ ६८ ॥

षडध्वानं षडाधारं षोडशाधारनिर्णयम् ।

यो जानाति विधानेन स गुरुः कथितः प्रिये ॥ ६९ ॥

दृश्यं विना स्थिरा दृष्टिर्मनश्चालम्बनं विना ।

विनायासं स्थिरो वायुर्यस्य स्यात् स गुरुः प्रिये ॥ ७० ॥

यत्तु संवित्तिजननं परानन्दसमुद्भवम् ।

तत्तत्त्वं विदितं येन स गुरुः कुलनायिके ॥ ७१ ॥

भूतभव्यौ तन्त्रमन्त्रौ वेत्ति यः शाक्तशाम्भवम् ।

वेधञ्च षड्विधं देवि स हि वेधकरो गुरुः ॥ ७२ ॥

पदमन्त्रकलायन्त्रसतत्त्वतभुवनाश्रयम् ।

शोधयेद् यः षडध्वानं स गुरुः कथितः प्रिये ॥ ७३ ॥

वेधं पदं विरोधञ्च ग्रहणं मोक्षणं तथा ।

यो वा सम्यग्विजानाति स गुरुः कथितः प्रिये ॥ ७४ ॥

जाग्रत् स्वप्नः सुषुप्तिश्च तुरीयं तदतीतकम् ।

यो वेत्ति पञ्चकं देवि स गुरुः कथितः प्रिये ॥ ७५ ॥

पिण्डं पदं तथा रूपं रूपातीतं चतुष्टयम् ।

यो वा सम्यग्विजानाति स गुरुः कथितः प्रिये ॥ ७६ ॥

यो वा पराञ्च पश्यन्तीं मध्यमां वैखरीमपि ।

चतुष्टयं विजानाति स गुरुः कथितः प्रिये ॥ ७७ ॥

आत्मविद्याशिवसर्वमिति तत्त्वचतुष्टयम् ।

यो वेत्ति परमेशानि स गुरुर्नापरः प्रिये ॥ ७८ ॥

पाशच्छेदं वेधदीक्षां पशुग्रहणमेव च ।

त्रिविधं यो विजानाति स गुरुः परमो मतः ॥ ७९ ॥

पदं पाशं पशुनाञ्च रहस्यार्थं विधानतः ।

यो जानाति वरारोहे स गुरुः कथितः प्रिये ॥ ८० ॥

चक्रसङ्केतकं मन्त्रं पूजासङ्केतकं तथा ।

त्रितयं यो विजानाति स गुरुः कथितः प्रिये ॥ ८१ ॥

वाणेतरस्वयम्भ्वाख्यलिङ्गत्रितयसंस्थितिम् ।

तत्त्वतो यो विजानाति स गुरुः कथितः प्रिये ॥ ८२ ॥

आणवं कार्मणञ्चैव मायीयञ्च मलत्रयम् ।

यो विशोधयितुं शक्तः स गुरुः परमो मतः ॥ ८३ ॥

आरक्तशुक्लमिश्रा(कृष्णा)ख्यचरणत्रयवासनाम् ।

यो जानाति महादेवि स गुरुः परमो मतः ॥ ८४ ॥

महामुद्रां नभोमुद्राम् उङ्डीयानं जलन्धरम् ।

मूलबन्धञ्च यो वेत्ति स गुरुः परमो मतः ॥ ८५ ॥

शिवादिक्षितिपर्यन्तं षट्त्रिंशत्तत्त्वनिर्णयम् ।

यो विजानाति तत्त्वेन स गुरुः परमो मतः ॥ ८६ ॥

अन्तर्यागं बहिर्यागं कलाज्ञानस्थितिं प्रिये ।

चारुयन्त्रविधानञ्च यो वेत्ति स गुरुः प्रिये ॥ ८७ ॥

पिण्डब्रह्माण्डयोरैक्यं स्थितिं यो वेत्ति तत्त्वतः ।

शिरास्थिरोमसंख्यादि स गुरुर्नापरः प्रिये ॥ ८८ ॥

पद्मादिचतुरशीतिनानासनविचक्षणः ।

यमाद्यष्टाङ्गयोगज्ञः स गुरुः परमो मतः ॥ ८९ ॥

घृणा सङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी ।

कुलं शीलं तथा जातिरष्टौ पाशाः प्रकीत्तीताः ॥ ९० ॥

पाशबद्धः पाशुर्ज्ञेयः पाशमुक्तो महेश्वरः ।

तस्मात् पाशहरो यस्तु स गुरुः परमो मतः ॥ ९१ ॥

बन्धनं योनिमुद्राया मन्त्रचैतन्यदर्शनम् ।

यन्त्रमन्त्रस्वरूपञ्च यो वेत्ति स गुरुः प्रिये ॥ ९२ ॥

विनिक्षिप्तां गतायातां संक्लिष्टां संविनीतकाम् ।

चतुवीधां मनोऽवस्थां यो वेत्ति स गुरुः प्रिये ॥ ९३ ॥

मूलादिब्रह्मरन्ध्रान्तसप्ताम्भोजदलेषु यः ।

जीवाचारफलं वेत्ति स गुरुर्नापरः प्रिये ॥ ९४ ॥

शिवादिगुरुपर्यन्तं पारम्पर्यक्रमेण यः ।

अवाप्ततत्त्वसम्भारः स गुरुर्नापरः प्रिये ॥ ९५ ॥

येन वा दशीते तत्त्वे तत्क्षणात्तन्मयो भवेत् ।

मन्यते मुक्तमात्मानं स गुरुर्नापरः प्रिये ॥ ९६ ॥

ये दत्त्वा सहजानन्दं दरन्तीन्द्रियजं सुखम् ।

सेव्यास्ते गुरवः शिष्यैरन्ये त्याज्याः प्रतारकाः ॥ ९७ ॥

संसारभयभीतस्य शिष्यस्य गुरुरादरात् ।

व्रतोपवासनियमैनीयन्ता स गुरुर्मतः ॥ ९८ ॥

यः प्रसन्नः क्षणार्द्धेन मोक्षलक्ष्मीं प्रयच्छति ।

दुर्लभं तं विजानीयाद् गुरुं संसारतारकम् ॥ ९९ ॥

यः क्षणेनात्मसामर्थ्यं स्वशिष्याय ददाति हि ।

क्रियायासादिरहितं स गुरुर्द्देवदुर्लभः ॥ १०० ॥

य सद्यः प्रत्ययकरं सुलभञ्चात्मसौख्यदम् ।

ज्ञानोपदेशं कुरुते स गुरुर्द्देवदुर्लभः ॥ १०१ ॥

द्वीपाद् द्वीपान्तरं देवि सञ्चरेद्यथा तथा ।

यो दद्यात् स गुरुर्ज्ञानमभ्यासादिविवजीतम् ॥ १०२ ॥

क्षुधितस्य यथा तृप्तिराहारादाशु जायते ।

तथोपदेशमात्रेण ज्ञानदो दुर्लभो गुरुः ॥ १०३ ॥

गुरवो बहवः सन्ति दीपवच्च गृहे गृहे ।

दुर्लभोऽयं गुरुर्देवि सूर्यवत् सर्वदीपकः ॥ १०४ ॥

गुरवो बहवः सन्ति वेदशास्त्रादिपारगाः ।

दुर्लभोऽयं गुरुर्द्देवि परतत्त्वार्थपारगः ॥ १०५ ॥

गुरवो बहवः सन्ति आत्मनोऽन्यप्रदा भुवि ।

दुर्लभोऽयं गुरुर्द्देवि लोकेष्वात्मप्रकाशकः ॥ १०६ ॥

गुरवो बहवः सन्ति कुमन्त्रौषधिवेदिनः ।

निगमागमशास्त्रोक्तमन्त्रज्ञो दुर्लभो भुवि ॥ १०७ ॥

गुरवो बहवः सन्ति शिष्यवित्तापहारकाः ।

दुर्लभोऽयं गुरुर्द्देवि शिष्यदुःखापहारकः ॥ १०८ ॥

वर्णाश्रमकुलाचारनिरता बहवो भुवि ।

सर्वसङ्कल्पहीनो यः स गुरुर्द्देवि दुर्लभः ॥ १०९ ॥

गुरोर्यस्यैव सम्पर्कात् परानन्दोऽभिजायते ।

गुरुं तमेव वृणुयान्नापरं मतिमान्नरः ॥ ११० ॥

यस्यानुभवपर्यन्तं बुद्धिस्तत्र प्रवर्त्तते ।

यस्यालोकनमात्रेण मुच्यते नात्र संशयः ॥ १११ ॥

शङ्कया भक्षितं सर्वं त्रैलोक्यं सचराचरम् ।

सा शङ्का भक्षिता येन स गुरुर्द्देविदुर्लभः ॥ ११२ ॥

यथा वह्निसमीपस्थं नवनीतं विलीयते ।

तथा पापं विलीयते सदाचार्य समीपतः ॥ ११३ ॥

यथा दीप्तानलः काष्ठं शुष्कमार्द्रञ्च निर्दहेत् ।

तथा गुरुकटाक्षस्तु शिष्यपापं दहेत् क्षणात् ॥ ११४ ॥

यथा महानिलोद्धूतं तूलं दशदिशो व्रजेत् ।

तथैव गुरुकारुण्यात् पापराशिः पलायते ॥ ११५ ॥

दीपदर्शनमात्रेण प्रणश्यति तमो यथा ।

सद्गुरोर्द्दर्शनाद्देवि तथाऽज्ञानं विनश्यति ॥ ११६ ॥

सर्वलक्षणसम्पन्नो वेदशास्त्रविधानवित् ।

सर्वोपायविधानज्ञस्तत्त्वज्ञानी गुरुः स हि ॥ ११७ ॥

पूजाहोमाश्रमाचारतपस्तीर्थव्रतादिकम् ।

मन्त्रागमादिविज्ञानं तत्त्वहीनस्य निष्फलम् ॥ ११८ ॥

स्वयं वेद्ये परे तत्त्वे स्वात्मानं वेत्ति निश्चलः ।

आत्मनोऽनुग्रहो नास्ति परस्यानुग्रहः कथम् ॥ ११९ ॥

ब्रह्माकारं मनोरूपं प्रप्यक्षं स्वतनुस्थितम् ।

यो न जानाति चान्यस्य कथं मोक्षं ददात्यसौ ॥ १२० ॥

सर्वलक्षणहीनोऽपि तत्त्वज्ञानी गुरुः स्मृतः ।

तस्मात्तत्त्वविदेवेह मुक्तो मोचक एव च ॥ १२१ ॥

यस्तत्त्वविन्महेशानि स पशुं बोधयत्यपि ।

तत्त्वहीनात् कुतोऽध्यात्मतत्त्वज्ञानपरिग्रहः ॥ १२२ ॥

तत्त्वज्ञैरुपदिष्टा ये तत्त्वाज्ञस्ते न संशयः ।

पशुभिश्चोपदिष्टा ये देवि ते पशवः स्मृताः ॥ १२३ ॥

विद्धस्तु वेधयेद्देवि नाविद्धो वेधको भवेत् ।

मुक्तस्तु मोचयेद् बद्धं न मुक्तो मोचकः कथम् ॥ १२४ ॥

अभिज्ञश्चोद्धरेन्मूर्ख न मूर्खो मूर्खमुद्धरेत् ।

शिलां सन्तारयेन्नौही किं शिला तारयेच्छिलाम् ॥ १२५ ॥

तत्त्वहीनं गुरुं लब्ध्वा केवलं भव तत्परः ।

इहामुत्र फलं किञ्चित् स नरो नाप्नुयात् प्रिये ॥ १२६ ॥

शैवे गुरुत्रयं प्रोक्तं वैष्णवे गुरुपञ्चकम् ।

वेदशास्त्रेषु शतशो गुरुरेकः कुलान्वये ॥ १२७ ॥

प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा ।

शिक्षको बोधकश्चैव षडेते गुरुवः स्मृताः ॥ १२८ ॥

पञ्चैते कार्यभूताः स्युः कारणं बोधको भवेत् ।

पूर्णाभिषेककर्त्ता यो गुरुस्तस्यैव पादुका ।

पूजनीया महेशानि बहुत्वेऽपि न संशयः ॥ १२९ ॥

श्रीगुरु लक्षणोपेतं संशयच्छेदकारकम् ।

लब्ध्वा ज्ञानप्रदं देवि न गुर्वन्तरमाश्रयेत् ॥ १३० ॥

अनभिज्ञं गुरुं प्राप्य सदा संशयकारकम् ।

गुर्वन्तरन्तु गत्वा स नैतद्दोषेण लिप्यते ॥ १३१ ॥

मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् ।

ज्ञानलुब्धस्तथा शिष्यः गुरोगुर्वन्तरं व्रजेत् ॥ १३२ ॥

इति ते कथितं किञ्चिल्लक्षणं गुरुशिष्ययोः ।

समासेन कुलेशानि किम्भूयः श्रोतुमिच्छसि ॥ १३३ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे गुरुशिष्यलक्षणं नाम त्रयोदशोल्लासः ॥ १३ ॥


अथ चतुर्दशोल्लासः

[सम्पाद्यताम्]

श्री देव्युवाच

कुलेश श्रोतुमिच्छामि परीक्षां गुरुशिष्ययोः ।

उपदेशक्रमं दीक्षाभेदांश्च वद मे प्रभो ॥ १ ॥

ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण चित्तशुद्धिः प्रजायते ॥ २ ॥

विना दीक्षां न मोक्षः स्यात्तदुक्तं शिवशासने ।

सा च न स्याद्विनाचार्यमित्याचार्यपरम्परा ॥ ३ ॥

तस्मात् सिद्धान्तं सम्प्राप्य सम्प्रदायादिहेतुभिः ।

अन्तरेणोपदेष्टारं मन्त्राः स्युनीष्फला यतः ॥ ४ ॥

देवास्तमेव शंसन्ति पारम्पर्यप्रवर्त्तकम् ।

गुरुं मन्त्रागमाभिज्ञं समयाचारपालकम् ॥ ५ ॥

गुरुः शिष्याधिकारार्थं विरक्तोऽपि शिवाज्ञया ।

किञ्चित्कालं विधायेत्थं स्वशिष्याय समर्पयेत् ॥ ६ ॥

तस्यापीताधिकारस्य योगः साक्षात् परे शिवे ।

देहान्ते शाश्वती मुक्तिरिति शङ्करभाषितम् ॥ ७ ॥

तस्मात् सर्वप्रयत्नेन साक्षात्परशिवोदितम् ।

सम्प्रदायमविच्छिन्नं सदा कुर्यात् गुरुः प्रिये ॥ ८ ॥

शक्तिसिद्धिसुसिद्ध्यर्थं परीक्ष्य विधिवद् गुरुः ।

पश्चादुपदिशेन्मन्त्रमन्यथा निष्फलं भवेत् ॥ ९ ॥

अन्यायेन तु यो दद्याद् गृह्णात्यन्यायतश्च यः ।

ददता गृह्णता देवि कुलशापो भविष्यति ॥ १० ॥

गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परम् ।

उपदेशं ददद् गृह्णन् प्राप्नुयातां पिशाचताम् ॥ ११ ॥

अशास्त्रीयोपदेशञ्च यो गृह्णाति ददाति हि ।

भुञ्जाते तावुभौ घोरान्नरकानेकविंशतिम् ॥ १२ ॥

असंस्कृतोपदेशञ्च यः करोति स पातकी ।

विनश्यति च तन्मन्त्रं सैकते शालिबीजवत् ॥ १३ ॥

अनर्हे मन्त्रविज्ञानं न तिष्ठति कदाचन ।

तस्मात् परीक्ष्य कर्त्तव्यमन्यथा निष्फलं भवेत् ॥ १४ ॥

कृत्वा समयदीक्षाञ्च दत्त्वा समयपादुकाम् ।

सन्निधायात्मनः शिष्यं वदेन्मन्त्रं न चान्यथा ॥ १५ ॥

सच्छिष्यायातिभक्ताय यज्ज्ञानमुपदिश्यते ।

तज्ज्ञानं तत्तुशास्त्रार्थं तद्विदध्यादखण्डितम् ॥ १६ ॥

असच्छिष्येष्वभक्तेषु यज्ज्ञानमुपदिश्यते ।

तत् प्रयात्यपवित्रत्वं गोक्षीरं श्वघृतादिव ॥ १७ ॥

धनेच्छाभयलोभाद्यैरयोग्यं यदि दीक्षयेत् ।

देवताशापमाप्नोति कृतञ्च निष्फलं भवेत् ॥ १८ ॥

ज्ञानेन क्रियया वापि गुरु शिष्यं परीक्षयेत् ।

संवत्सरं तदर्द्धं वा तदर्द्धं वा प्रयत्नतः ॥ १९ ॥

उत्तमांश्चाधमे कुर्यान्नीचानुत्तमकर्मणि ।

प्राणद्रव्यप्रणामाद्यैरादेशैश्च स्वयं समैः ॥ २० ॥

तत्कर्मसूचकैर्वाक्यैर्मायाभिः क्रूरचेष्टितैः ।

पक्षपातैरुदासीनैरनेकैश्च मुहुर्मुहुः ॥ २१ ॥

आकृष्टस्ताडितो वापि यो विषादं न याति च ।

गुरुः कृपां करोतीति मुदा सञ्चिन्तयेत् सदा ॥ २२ ॥

श्रीगुरोः स्मरणे चापि कीर्त्तनं दर्शनेऽपि च ।

वन्दने परिचर्यायामाह्वाने प्रेषणे प्रिये ॥ २३ ॥

आनन्दकम्परोमाञ्चस्वरनेत्रादिविक्रियाः ।

येषां स्युस्तेऽत्र योग्याश्च दीक्षासंस्कारकर्मणि ॥ २४ ॥

शिष्योऽपि लक्षणैरेतैः कुर्याद् गुरुपरीक्षणम् ।

आनन्दाद्यैर्जपस्तोत्रध्यानहोमार्चनादिषु ॥ २५ ॥

ज्ञानोपदेशसामर्थ्यं मन्त्रसिद्धिमपीश्वरि ।

वेधकत्वं परिज्ञाय शिष्यो भूयान्न चान्यथा ॥ २६ ॥

आदिमध्यावसानेषु योग्याः शक्तिनिपातिताः ।

अधमा मध्यमाः श्रेष्ठाः शिष्या देवि प्रकीत्तीताः ॥ २७ ॥

आदौ भक्तिर्भवेद्देवि दीक्षार्थं समुदन्ति ये ।

पुनवीपुलहृष्टास्ते आदियोग्या इतीरिताः ॥ २८ ॥

दीक्षासमयसम्प्राप्ता ज्ञानविज्ञानवजीताः ।

भक्त्या प्रध्वस्तपर्याया मध्ययोग्याश्च ते स्मृताः ॥ २९ ॥

आदौ भक्तिविहीना ये मध्यभक्तास्तु ये नराः ।

अन्तप्रवृद्धभक्ताश्च अन्तयोग्या भवन्ति ते ।

उत्तमज्ञानसंज्ञाश्चेत्युपदेशस्त्रिधा प्रिये ॥ ३० ॥

यथा पिपीलिका मन्दमन्दं वृक्षाग्रगं फलम् ।

चिरेणाप्नोति कर्मोपदेशश्चापि तथा स्मृतः ॥ ३१ ॥

यथा कपिश्च शाखायां शाखामुल्लंघ्य यत्नतः ।

फलं प्राप्नोति धर्मस्य चोपदेशस्तथा प्रिये ॥ ३२ ॥

यथा वियद्गमः शीघ्रं फल एव निषीदति ।

तथा ज्ञानोपदेशश्च कथितः कुलनायिके ॥ ३३ ॥

स्पर्शाख्या देवि दृक्संज्ञा मानसाख्या महेश्वरि ।

क्रियायासादिरहिता देवा दीक्षा त्रिधा स्मृता ॥ ३४ ॥

यथा पक्षी स्वपक्षाभ्यां शिशून् संवर्द्धयेच्छनैः ।

स्पर्शदीक्षोपदेशच्च तादृशः कथितः प्रिये ॥ ३५ ॥

स्वापत्यानि यथा मत्स्यो वीक्षणेनैव पोषयेत् ।

दृग्भ्यां दीक्षोपदेशश्च तादृशः परमेश्वरि ॥ ३६ ॥

यथा कूर्मः स्वतनयान् ध्यानमात्रेण पोषयेत् ।

वेधदीक्षोपदेशश्च मानसः स्यात् तथाविधः ॥ ३७ ॥

शक्तिपातानुसारेण शिष्योऽनुग्रहमर्हति ।

यत्र शक्तिर्न पतति तत्र सिद्धिर्न जायते ॥ ३८ ॥

क्रियावर्णकलास्पर्शवाग्दृङ्मानससंज्ञया ।

दीक्षा मोक्षप्रदा देवि सप्तधा परिकीत्तीता ॥ ३९ ॥

समयाख्या विशेषा च साधिका पुत्रिकाह्वया ।

वेधका पूर्णसंज्ञा चाचार्या निर्वाणसंज्ञिका ॥ ४० ॥

क्रियादीक्षाष्टधा प्रोक्ता कुण्डमण्डपपूवीका ।

कलसादिसमायुक्ता कर्त्तव्या गुरुणा बहिः ।

देवेशि देहशुद्ध्यर्थं पूर्वोक्तविधिनाचरेत् ॥ ४१ ॥

वर्णदीक्षा त्रिधा प्रोक्ता द्विचत्वारिंशदक्षरैः ।

पञ्चाशद्वर्णैर्वा देवि द्विषष्टिलिपिभिस्तु ता ॥ ४२ ॥

वर्णान् शिष्यतनौ न्यस्य प्रतिलोमेन संहरेत् ।

परमात्मनि संयोज्य तच्चैतन्यं गुरुः प्रिये ॥ ४३ ॥

तस्मादुत्पाद्य तान् वर्णान् न्यसेच्छिष्यतनौ पुनः ।

सृष्टिक्रमेण विधिना चैतन्यञ्च प्रयोजयेत् ॥ ४४ ॥

जायते देवताभावः परानन्दमयः शिशोः ।

एषा वर्णमयी प्रोक्ता दीक्षा पाशहरा प्रिये ॥ ४५ ॥

कलादीक्षा त्रिधा ज्ञेया कर्त्तव्या विधिवत् प्रिये ।

निवृत्तिर्जानुपर्यन्तं तलादारभ्य संस्थिता ॥ ४६ ॥

जानुनोर्नाभिपर्यन्तं प्रतिष्ठा तिष्ठति प्रिये ।

नाभेः कण्ठावधि व्याप्ता विद्या शान्तिस्ततः परम् ॥ ४७ ॥

कण्ठाल्ललाटपर्यन्तं व्याप्ता तस्माच्छिरोऽवधि ।

शान्त्यतीता कला चैषा कलाव्याप्तिरितीरिता ॥ ४८ ॥

संहारक्रमयोगेन स्थानात् स्थानान्तरं प्रिये ।

संयोज्य विधिवत् सम्यग्विधिवेत्ता शिरोऽवधि ॥ ४९ ॥

इयं प्रोक्ता कुलेशानि दिव्यभावप्रदायिनी ।

अष्टत्रिंशत्कलाभिर्वा पञ्चाशद्भिरथापि वा ॥ ५० ॥

तत्त्वन्यासक्रमेणैव सृष्टिसंहारमार्गतः ।

ज्ञात्वा गुरुमुखाद्देविं शिष्ये संयोज्य वेधयेत् ॥ ५१ ॥

जायते देवताभावो योगिनीवीरमेलनम् ।

कलादीक्षा समुद्दिष्टा पशुपाशापहारिणी ॥ ५२ ॥

द्दस्ते शिवं गुरुं ध्यात्वा जपेन्मूलाङ्गमालिनीम् ।

गुरुः स्पृशेच्छिष्यतनुं स्पर्शदीक्षा भवेदियम् ॥ ५३ ॥

चित्तं तत्त्वे समाधाय परतत्त्वोपबृंहितान् ।

उच्चरेत् संहतान्मन्त्रान् वाग्दीक्षेति निगद्यते ॥ ५४ ॥

निमील्य नयने ध्यात्वा परतत्त्वप्रसन्नधीः ।

सम्यक् पश्येद्गुरुः शिष्यं दृग्दीक्षा च भवेत् प्रिये ॥ ५५ ॥

गुरोरालोकमात्रेण भाषणात् स्पर्शनादपि ।

सद्यः सञ्जायते ज्ञानं सा दीक्षा शाम्भवी मता ॥ ५६ ॥

मनोदीक्षा द्विधा प्रोक्ता तीव्रा तीव्रतरापि च ।

अध्वानं षड्विधं ज्ञात्वा शिष्यदेहे स्मरन् प्रिये ॥ ५७ ॥

कल्पयेद्भुवनं तत्त्वं कलां वर्णं पदं मनुम् ।

आजानुनाभिहृत्कण्ठतालुमूर्द्धान्तमम्बिके ॥ ५८ ॥

गुरूपदिष्टमार्गेण वेधं कुर्याद्विचक्षणः ।

पाशयुक्तः क्षणाच्छिष्यश्छिन्नपाशस्तदा भवेत् ।

एषा मुक्तिप्रदा प्रोक्ता तीव्रदीक्षा कुलेश्वरि ॥ ५९ ॥

देवि तीव्रतरा चापि गुरुणा स्मृतमात्रतः ।

सम्यक् संवेधिनः शिष्यश्छिन्नपापस्तदा भवेत् ॥ ६० ॥

वाह्यव्यापारनिर्मुक्तो भूमौ पतति तत्क्षणात् ।

सञ्जातदिव्यभावोऽसौ सर्वं जानाति शाम्भवि ॥ ६१ ॥

यदस्ति वेधकाले तत् स्वयमेवानुभूयते ।

प्रबुद्धः सन् न शक्नोति तत् सुखं वक्तुमीश्वरि ॥ ६२ ॥

वेधविद्धः शिवः साक्षान्न पुनर्जन्मभाग् भवेत् ।

एषा तीव्रतरा दीक्षा भवबन्धविमोचनी ।

शिवभावप्रदा साक्षात् त्वां शपे कुलनायिके ॥ ६३ ॥

आनन्दश्चैव कम्पश्चेद्भवो घूर्णा कुलेश्वरि ।

निद्रा मूर्च्छा च वेधस्य षडवस्थाः प्रकीत्तीताः ॥ ६४ ॥

दृश्यन्ते षड्गुणा ह्येते वेधकाले कुलेश्वरि ।

वेधितो यत्र कुत्रापि तिष्ठेन्मुक्ता न संशयः ॥ ६५ ॥

वेधदीक्षाकरो लोके श्रीगुरुर्दुर्लभः प्रिये ।

शिष्योऽपि दुर्लभस्ताद्दृक् पुण्ययोगेन लभ्यते ।

न दद्याद् यस्य कस्यापि इत्याज्ञा परमेश्वरि ॥ ६६ ॥

कुलद्रव्यैः समभ्यर्च्य कुलचक्रं विधानतः ।

शिष्याय दर्शयेद्देवि दीक्षैषा कौलिकी स्मृता ॥ ६७ ॥

कुलद्रव्यं मुखे पूर्व पञ्चगव्यामृतान्वितम् ।

अभिषिञ्चेद् गुरुः शिष्यं गण्डूषाख्या समीरिता ॥ ६८ ॥

सजीवमीनयुक्तेन सुरया पूरितेन च ।

पञ्चामृतैः सुसम्पूर्णशङ्खेन कलसेन वा ।

अभिषेकं ततः कुर्याद्बाह्ये तत् कथितं प्रिये ॥ ६९ ॥

मीनस्तु लम्बिका देवि वक्त्रं कलस उच्यते ।

पञ्चगवयामृतापूर्णं शिष्यं तेनाभिषेचयेत् ॥ ७० ॥

अयं सिद्धाभिषेकः स्यादाचार्यस्यापि पार्वति ।

त्रिकालं दन्तकाष्ठञ्च पुष्पाञ्जलिरपि प्रिये ॥ ७१ ॥

शङ्खे वेदकलान्यासस्तज्ज्ञानञ्चाष्टधा भवेत् ।

समयो दन्तकाष्ठेन साधकः कुसुमाञ्जलिः ॥ ७२ ॥

पुत्रं शङ्खाभिषेकेण बोधको वेधसंज्ञया ।

पूर्णाभिषेकेणाचार्यः पञ्चावस्थाः प्रकीत्तीताः ॥ ७३ ॥

कुलाचारैकनिरता गुरुभक्ता दृढव्रताः ।

पूर्णाभिषेकपूता ये ते मुक्ताश्चेह जन्मनि ॥ ७४ ॥

पूर्णाभिषेकपूता ये मृताश्च कुलनायिके ।

पुनर्लब्ध्वोत्तमं जन्म गुरुणा शिवरूपिणा ॥ ७५ ॥

शुद्धाः पूर्णाभिषेकेण शिवसायुज्यदायिना ।

तेन मुक्तिं व्रजेयुस्ते शाम्भवी वाचमव्रवीत् ॥ ७६ ॥

पूर्णा(दीक्षा)भिषेकहीनो यः कौलिको मिरयते यदि ।

पिशाचत्वमवाप्नोति यावदाहूतसंप्लवम् ॥ ७७ ॥

दीक्षा च द्विविधा प्रोक्ता बाह्याभ्यन्तरभेदतः ।

क्रियादीक्षा भवेद्बाह्या वेधाख्याभ्यन्तरी मता ॥ ७८ ॥

अन्तः शुद्धिर्बहिः शुद्धिद्वीविधा परिकीत्तीता ।

अन्तरा च क्रियाशुद्धिर्बहिः शुद्धिश्च दीक्षया ॥ ७९ ॥

दीक्षया मोक्षदीपेन चण्डालोऽपि विमुच्यते ।

आभ्यां विना कुलेशानि कौलिको नैव मुच्यते ॥ ८० ॥

शरीरस्य न संस्कारो जायते न च कर्मणः ।

आत्मनः कारयेद्दीक्षामनादिकुलकुण्डलीम् ॥ ८१ ॥

दीक्षा ह्येताः कर्मसाम्ये भिन्नार्थप्रतिपादिकाः ।

अभिसन्धानतो देवि देशिकोत्तमशिष्ययोः ॥ ८२ ॥

मन्त्रौषधेर्यथा हन्याद्विषशक्तिं कुलेश्वरि ।

पशुपाशं तथा छिन्द्याद्दीक्षया मन्त्रवित् क्षणात् ॥ ८३ ॥

अस्मात् प्रवितताद्वन्धात् परसंस्थानबोधकात् ।

दीक्षैव मोक्षयेत् पूर्वं दिव्यं धाम नयत्यपि ॥ ८४ ॥

उपपातकलक्षाणि महापातककोटिशः ।

क्षणाद्दहति देवेशि दीक्षा हि विधिना कृता ॥ ८५ ॥

यया चोन्मीलितात्मानो भवन्ति पशवः शिवाः ।

सा दीक्षा ह्युदिता देवि पशुपाशविमोचिका ॥ ८६ ॥

यया दीक्षितमात्रेण जायन्ते प्रत्ययाः प्रिये ।

सा दीक्षा मोक्षदा ज्ञेया शेषास्तु जनसेविकाः ॥ ८७ ॥

उपासनाशतेनापि यां विना नैव सिध्यति ।

तां दीक्षामाश्रयेद् यत्नात् श्रीगुरोर्मन्त्रसिद्धये ॥ ८८ ॥

रसेन्द्रेण यथा विद्धमयः सुवर्णतां व्रजेत् ।

दीक्षाविद्धस्तथा ह्यात्मा शिवत्वं लभते प्रिये ॥ ८९ ॥

दीक्षाग्निदग्धकर्मासौ मायाविच्छिन्नबन्धनः ।

गतः परां ज्ञानकाष्ठां निर्बीजस्तु शिवो भवेत् ॥ ९० ॥

गतं शूद्रस्य शूद्रत्वं विप्रस्यापि च विप्रता ।

दीक्षासंस्कारसम्पन्ने जातिभेदो न विद्यते ॥ ९१ ॥

शिवलिङ्गे शिला बुद्धिं कुर्वन् यत् पापमश्नुते ।

दीक्षितश्चापि पूर्वत्वस्मृत्या तत् पापमाप्नुयात् ॥ ९२ ॥

दार्वश्मलौहमृद्रत्नजातिलिङ्गप्रतिष्ठितम् ।

यथोच्यते तथा शुद्धाः सर्ववर्णास्तु दीक्षिताः ॥ ९३ ॥

येन पूजितमात्रेण चाब्रह्मभुवनान्तिकम् ।

पूजितं तेन सर्वं स्याद्दीक्षितेन न संशयः ॥ ९४ ॥

दीक्षितस्य न कार्यं स्यात्तपोभिनीयमव्रतैः ।

न तीर्थक्षेत्रगमनैर्न च शरीरयन्त्रणैः ॥ ९५ ॥

अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः ।

न फलन्ति प्रिये तेषां शिलायामुप्तबीजवत् ॥ ९६ ॥

देवि दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः ।

तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् ॥ ९७ ॥

द्विजो यो दीक्षितः पश्चादन्त्यजः पूर्वदीक्षितः ।

द्विजः कनिष्ठः स ज्येष्ठ इति शास्त्रार्थनिर्णयः ॥ ९८ ॥

गुरुशक्तिसुतानाञ्च यो वा स्यात् पूर्वदीक्षितः ।

गुरुवत्तेन ते पूज्या नावमान्याः कथञ्चन ॥ ९९ ॥

शिष्यो दीक्षितमात्रश्चेद् यदि स्वर्गं गतो गुरुः ।

एकसन्तानकेनैव पूर्णसंस्कारमाचरेत् ॥ १०० ॥

दर्शनेषु च सर्वेषु गुरुणा ज्ञानशालिना ।

दीक्षितो यस्तु विधिना स युक्तो नापरः प्रिये ॥ १०१ ॥

अधिवासनपूर्वन्तु चक्रपूजापुरःसरम् ।

दीक्षया शोधयेच्छिष्यमन्यथा निष्फलं भवेत् ॥ १०२ ॥

शूद्रसङ्करजातीनामादिशुद्धिवीधीयते ।

पादोदकप्रदानाद्यैः कुर्यात् पापविमोचनम् ॥ १०३ ॥

एकाब्देन द्विजो योग्यः क्षत्रियो वत्सरद्वयात् ।

वैश्यो योग्यस्त्रिभिर्वर्षैश्चतुभिः शूद्र एव च ॥ १०४ ॥

विधवायाः सुतादेशात् कन्यायाः पितुराज्ञया ।

नाधिकारः स्वतो नार्या भार्याया भर्त्तुराज्ञया ॥ १०५ ॥

स्याद्वेदाध्ययने शूद्रो नाधिकारी यथा प्रिये ।

तथैवादीक्षितश्चापि नाधिकारी कुलेश्वरि ॥ १०६ ॥

श्रीगुरुं गुरुपत्नीञ्च तत्पुत्रं शक्ति कौलिकान् ।

दीक्षितस्तोषयेद्देवि यथाविभवविस्तरम् ॥ १०७ ॥

इति ते कथितं किञ्चित् परीक्षा गुरुशिष्ययोः ।

दीक्षाभेदादिकं देवि किम्भूयः श्रोतुमिच्छसि ॥ १०८ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे गुरुशिष्यपरीक्षाकथनं नाम चतुर्दशोल्लासः ॥ १४ ॥


अथ पञ्चदशोल्लासः

[सम्पाद्यताम्]

श्री देव्युवाच कुलेश श्रोतुमिच्छामि पुरश्चरणलक्षणम् ।

स्थानाहारादिभेदञ्च वद मे परमेश्वर ॥ १ ॥

ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण मन्त्रतत्त्वं प्रकाशते ॥ २ ॥

जपयज्ञात् परो यज्ञो नापरोऽस्तीह कश्चन ।

तस्माज्जपेन धर्मार्थकाममोक्षांश्च साधयेत् ॥ ३ ॥

सर्वपादान् परित्यज्य मन्त्रपादं समभ्यसेत् ।

अप्रमादाद् भवेत् सिद्धिः प्रमादादशुभं फलम् ॥ ४ ॥

भोगापवर्गसङ्कल्पकल्पव्रतशुभो जपः ।

जपध्यानमयं योगं तस्माद्देवि समाचरेत् ॥ ५ ॥

आब्रह्मबीजदोषाश्च नियमातिक्रमोद्भवाः ।

ज्ञानाज्ञानकृताः सर्वं प्रणश्यन्ति जपात् प्रिये ॥ ६ ॥

संसारे दुःखभूयिष्ठे यदीच्छेत् सिद्धिमात्मनः ।

पञ्चाङ्गोपासनेनैव मन्त्रजापी व्रजेत् सुखम् ॥ ७ ॥

पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च ।

होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ ८ ॥

यद् यदङ्गं विहीयेत तत्संख्याद्विगुणो जपः ।

कुर्याद् द्वित्रिचतुःपञ्च-संख्यां वा साधकः प्रिये ॥ ९ ॥

कुर्वीत चाङ्गसिद्ध्यर्थं तदशक्तौ स भक्तितः ।

तच्चेदङ्गं विहीयेत मन्त्री नेष्टमवाप्नुयात् ॥ १० ॥

अन्नैश्चतुवीधैर्देवि पदार्थैः षड्रसान्वितैः ।

सुभोजितेषु विप्रेषु सर्वं हि सफलं भवेत् ॥ ११ ॥

सम्यक्सिद्धैकमन्त्रस्य पञ्चाङ्गोपासनेन च ।

सर्वमन्त्राश्च सिध्यन्ति त्वत्प्रसादात् कुलेश्वरि ॥ १२ ॥

उपदेशस्य सामर्थ्यात् श्रीगुरोश्च प्रसादतः ।

मन्त्रप्रभावाद्भक्त्या च मन्त्रसिद्धिः प्रजायते ॥ १३ ॥

सिद्धमन्त्राद् गुरोर्लब्धो मन्त्रो यः सिद्धिभाग्भवेत् ।

पूर्वजन्मकृताभ्यासान्मन्त्रो वा शीघ्रसिद्धिदः ॥ १४ ॥

दीक्षापूर्वं कुलेशानि पारम्पर्यक्रमागतम् ।

न्यायलब्धश्च यो मन्त्रः स च सिद्धो न संशयः ॥ १५ ॥

सहस्रं प्रजपेन्मन्त्रं मातृकाक्षरसंपुटम् ।

अनुलोमविलोमेन मन्त्रसिद्धिः प्रजायते ॥ १६ ॥

त्रिषष्ट्यक्षरसंयुक्तमातृकाक्षरसंपुटम् ।

क्रमोत्क्रमात्सहस्रन्तु तस्य सिद्धो भवेन्मनुः ॥ १७ ॥

मातृकाजपमात्रेण मन्त्राणां कोटिकोटयः ।

जषिताः स्युर्न सन्देहो यतः सर्वं तदुद्भवम् ॥ १८ ॥

अनेककोटिमन्त्राणि चित्ताकुलकराणि च ।

मन्त्रं गुरुकृपाप्राप्तमेकं स्यात् सर्वसिद्धिदम् ॥ १९ ॥

यदृच्छया श्रुतं मन्त्रं दृष्टेनापि छलेन च ।

पत्रे स्थितं वा चाध्याप्य तज्जपः स्यादनर्थकृत् ॥ २० ॥

पुस्तके लिखितान्मन्त्रान् विलोक्य प्रजपन्ति ये ।

ब्रह्महत्यासमं तेषां पातकं व्याधिदुःखदम् ॥ २१ ॥

पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम् ।

तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं वनम् ॥ २२ ॥

उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः ।

देवतायतनं कूलं समुद्रस्य निजं गृहम् ॥ २३ ॥

साधनेषु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् ।

अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति ॥ २४ ॥

सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य च जलस्य च ।

गोविप्रकुलवृक्षाणां सन्निधौ शस्यते जपः ॥ २५ ॥

गृहे शतगुणं विद्याद् गोष्ठे लक्षगुणं भवेत् ।

कोटिर्देवालये पुण्यमनन्तं शिवसन्निधौ ॥ २६ ॥

म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवजीतः ।

एकान्तपावने निन्दारहिते भक्तिसंयुते ॥ २७ ॥

स्वदेशे धामीके देशे सुभिक्षे निरुपद्रवे ।

राजभक्तजनस्थाने निवसेत्तापसाश्रये ॥ २८ ॥

राजानः सचिवा राज्ञां पुरुषाः प्रभवो जनाः ।

चरन्ति येन मार्गेण न वसेत्तत्र मन्त्रवित् ॥ २९ ॥

जीर्णदेवालयोद्यानगृहवृक्षतलेषु च ।

नदीतडागकूपेषु भूच्छिद्रादिषु नो वसेत् ॥ ३० ॥

दीपनाथमयष्ट्वा यो जपपूजादिकं चरेत् ।

तत्फलं गृह्यते तेन तस्यायासः फलं भवेत् ॥ ३१ ॥

वंशाश्मधरणीदारुतृणपल्लवनिमीतम् ।

वर्जयेदासनं धीमान् दारिद्र्यव्याधिदुःखदम् ॥ ३२ ॥

तूलकम्बलवस्त्राणां सिंहव्याघ्रमृगाजिनम् ।

कल्पयेदासनं धीमान् सौभाग्यज्ञानवृद्धिदम् ॥ ३३ ॥

पद्मस्वस्तिकवीरादिष्वासनेषूपविश्य च ।

जपार्च्चनादिकं कुर्यादन्यथा निष्फलं भवेत् ॥ ३४ ॥

द्वादशावर्त्तयन् बुद्ध्या प्रणवन्तु त्रिमात्रकम् ।

मुञ्चेत् पिङ्गलया वायुमन्तःस्थं रेचको भवेत् ॥ ३५ ॥

षोडशावर्त्तयन् तारं पूरयेद् बाह्यमारुतम् ।

शनकैरिडया बद्ध्वा पूरकं परिकीत्तीतम् ॥ ३६ ॥

द्वादशावर्त्तयन् तारं वायुं मध्ये च कुम्भयेत् ।

शोषयेद्वायुबीजेन देहशोषणमीरितम् ॥ ३७ ॥

पुनश्च पूर्ववद्वायुं विरेच्यापूर्य कुम्भयेत् ।

दहेत् दहनबीजेन देहदाहनमीरितम् ॥ ३८ ॥

पुनश्च पूर्ववद्वायुं विरेच्यापूर्य कुम्भयेत् ।

शिवकुण्डलिनीयोगस्यन्दनामृतधारया ।

आपादमस्तकं देवि प्लावयेत् प्लावनं भवेत् ॥ ३९ ॥

जपध्यानं विनाऽगर्भः सगर्भस्तद्विपर्ययात् ।

अगर्भाद् गर्भसंयुक्तः प्राणायामः शताधिकः ॥ ४० ॥

तपांसि तीर्थयात्राद्या मखदानव्रतादयः ।

प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥ ४१ ॥

मानसं वाचिकं पापं कायिकं वापि यत् कृतम् ।

तत् सर्वं निर्द्दहेच्छीघ्रं प्राणायामत्रयं शिवे ॥ ४२ ॥

दह्यते ध्मार्यमानानां धातूनाञ्च यथा मलम् ।

तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य संयमात् ॥ ४३ ॥

प्राणायामैवीशुद्धात्मा यद् यत् कर्म करोति हि ।

तत्तत् फलत्यसन्देहस्त्वप्रयत्नेन वा कृतम् ॥ ४४ ॥

आगमोक्तेन मार्गेणाभ्यासं नित्यं करोति यः ।

देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते ॥ ४५ ॥

यो न्यासकवचच्छन्दो मन्त्रं जपति तं प्रिये ।

विघ्ना दृष्ट्वा पलायन्ते सिंहं दृष्टवा यथा गजाः ॥ ४६ ॥

अकृत्वा न्यासजालं यो मूढात्मा प्रजपेन्मनुम् ।

वाध्यते सर्वविघ्नैश्च व्याघ्रैर्मृगशिशुर्यथा ॥ ४७ ॥

अक्षमाला द्विधा प्रोक्ता कल्पिताऽकल्पितेति च ।

कल्पिता मणिभिः कॢप्ता मातृका स्यादकल्पिता ॥ ४८ ॥

आदिक्षान्ताक्षवर्णत्वादक्षमालेति कीत्तीता ।

अनुलोमविलोमाभ्यां गणयेन्मन्त्रवित्तमः ॥ ४९ ॥

एकैकमङ्गुलीभिः स्याद्रेखाभिर्द्दशधा फलम् ।

मणिभिः शतसाहस्रं माणिक्याऽनन्तमुच्यते ॥ ५० ॥

त्रिंशद्भिः स्याद्धनं पुष्टिः सप्तविंशतिभिर्भवेत् ।

पञ्चविंशतिभिर्मोक्षं पञ्चदश्याभिचारके ।

पञ्चाशद्भिः कुलेशानि सर्वसिद्धिरुदीरिता ॥ ५१ ॥

अङ्गुष्ठेन च मोक्षः स्यात्तर्जनी शत्रुनाशिनी ।

मध्यमां धनदां विद्यात् शान्तिकर्मण्यनामिका ।

कनिष्ठा स्तम्भन्याकर्षण्यङ्गुली सुप्रकीत्तीता ॥ ५२ ॥

एतज्जपिष्यामीत्यादौ सङ्कल्प्य मन्त्रवित्तमः ।

स्थिरासनो जपित्वाऽथ देव्यै सोदकमर्पयेत् ॥ ५३ ॥

उच्चैर्जपोऽधमः प्रोक्त उपांशुमध्यमः स्मृतः ।

उत्तमो मानसो देवि त्रिविधः कथितो जपः ॥ ५४ ॥

अतिह्रस्वो व्याधिहेतुरतिदीर्घस्तपःक्षयः ।

अक्षराक्षरसंयुक्तो यो मन्त्रः स न सिध्यति ॥ ५५ ॥

मनसा यः स्मरेत् स्तोत्रं वचसा वा मनुं जपेत् ।

उभयं निष्फलं देवि भिन्नभाण्डोदकं यथा ॥ ५६ ॥

जातसूतकमादौ स्यात्तदन्ते मृतसूतकम् ।

सूतकद्वयसंयुक्तो यो मन्त्रः स न सिध्यति ॥ ५७ ॥

आद्यन्तरहितं कृत्वा मन्त्रमावर्त्तयेद्धिया ।

सूतकद्वयनिर्मुक्तो यो मन्त्रः सर्वसिद्धिदः ॥ ५८ ॥

मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः ।

शतकोटिजपेनापि तस्य सिद्धिर्न जायते ॥ ५९ ॥

सुप्तबीजाश्च ये मन्त्रा न दास्यन्ति फलं प्रिये ।

मन्त्रा चैतन्यसहिताः सर्वसिद्धिकराः स्मृताः ॥ ६० ॥

चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् ।

फलं नैव प्रयच्छन्ति लक्षकोटिजपादपि ॥ ६१ ॥

मन्त्रोच्चारे कृते यादृक् स्वरूपं प्रथमं भवेत् ।

शतैः सहस्रैर्लक्षैर्वा कोटिजापेन् तत् फलम् ॥ ६२ ॥

हृत्कण्ठग्रन्थिभेदश्च सर्वावयववर्द्धनम् ।

आनन्दाश्रु च पुलको देहावेशः कुलेश्वरि ।

गद्गदोक्तिश्च सहसा जायते नात्र संशयः ॥ ६३ ॥

सकृदुच्चरितेऽप्येवं मन्त्रे चैतन्यसंयुते ।

दृश्यन्ते प्रत्यया यत्र पारम्पर्य तदुच्यते ॥ ६४ ॥

रुद्धः कूटाक्षरो मुग्धो बद्धः क्रुद्धश्च भेदितः ।

बालः कुमारो युवकः प्रौढो वृद्धश्च गवीतः ॥ ६५ ॥

स्तम्भितो र्मूच्छितो मत्तः कीलितः खण्डितः शठः ।

मन्दः पराङ्मुखश्छिन्नो बधिरोऽन्धस्त्वचेतनः ॥ ६६ ॥

किङ्करः क्षुधितः स्तब्धः स्थानभ्रष्टञ्च पीडितः ।

निःस्नेहो विकलो ध्वस्तो निर्जीवः खण्डितारिकः ॥ ६७ ॥

सुप्तस्तिरस्कृतो नीचो मलिनश्च दुरासदः ।

निःसत्त्वो निजीतो दग्धचपलश्च भयङ्करः ॥ ६८ ॥

निस्त्रिंशो निन्दितः क्रूरः फलहीनो निकृन्तनः ।

निर्वीर्यो भ्रमितो शप्त रुग्णः कष्टोऽङ्गहीनकः ।

जडो रिपुरुदासीनो लज्जितो मोहितोऽलसः ॥ ६९ ॥

षष्ट्येतान् मन्त्रदोषांश्च योऽज्ञात्वा प्रजपेन्मनुम् ।

सिद्धिर्न जायते तस्य लक्षकोटिजपादपि ॥ ७० ॥

कथ्यन्ते दश संस्कारा मन्त्रदोषहराः प्रिये ।

जननं जीवनं पश्चात्ताडनं बोधनं ततः ॥ ७१ ॥

अभिषेकोऽथ विमलीकरणाप्यायने तथा ।

तर्पणं दीपनं गुप्तिः संस्काराः कुलनायिके ॥ ७२ ॥

शाणोल्लोढानि शस्त्राणि यथा स्युनीशितानि वै ।

मन्त्राश्च स्फूत्तीमायान्ति संस्कारैर्द्दशभिस्तथा ॥ ७३ ॥

भक्ष्यं हविष्यं शाकादि विहितानि फलान्यपि ।

मूलं शक्तु यवानाञ्च शस्तान्येतानि मन्त्रिणाम् ॥ ७४ ॥

यस्यान्नपानपुष्टाङ्गः कुरुते धर्मसञ्चयम् ।

अन्नदातुः फलं चार्द्धं कर्त्तुश्चार्द्धं न संशयः ॥ ७५ ॥

तस्मात् सर्वप्रयत्नेन परान्नं वर्जयेत् सुधीः ।

पुरश्चरणकाले च काम्यकर्मस्वपीश्वरि ॥ ७६ ॥

जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् ।

मनो दग्धं परस्त्रीभिः कार्यसिद्धिः कथं भवेत् ॥ ७७ ॥

इन्द्राग्निरुद्रग्रहदृग्वेदार्कदिक्षडष्टसु ।

षोडशमनुबाणाब्धितिथित्रयोदशस्वपि ॥ ७८ ॥

लिखेत् षोडशकोष्ठेषु मातृकार्णान् विचक्षणः ।

स्वनामाद्यक्षराद् यावन्मन्त्राद्यक्षरदर्शनम् ॥ ७९ ॥

सिद्धादीन् कल्पयेन्मन्त्री कुर्यात् साध्यादिभिः पुनः ।

चतुश्चतुवीभागेन सिद्धादीन् गणयेत् पुनः ॥ ८० ॥

सिद्धसिद्धो जपात् सिद्धो द्विगुणात् सिद्धसाध्यकः ।

सिद्धसुसिद्धोऽर्द्धजपात् सिद्धारिर्हन्ति बान्धवान् ॥ ८१ ॥

साध्यसिद्धोऽतिसंक्लेशात् साध्यसाध्यो निरर्थकः ।

साध्यसुसिद्धो भजनात् साध्यारिहन्ति गोत्रजान् ॥ ८२ ॥

सुसिद्धसिद्धोऽर्द्धजपात्तत्साध्यस्तु यथोक्ततः ।

तत्सुसिद्धो ग्रहादेव सुसिद्धारिः स्वगोत्रहा ॥ ८३ ॥

अरिसिद्धः सुतं हन्यादरिसाध्यस्तु योषितम् ।

तत्सुसिद्धः कुलं हन्ति स्वात्मानं हन्ति तद्रिपुः ॥ ८४ ॥

सिद्धार्णा बान्धवाः प्रोक्ताः साध्यास्ते सेवकाः स्मृताः ।

सुसिद्धाः पोषका ज्ञेयाः शत्रवो घातकाः स्मृताः ॥ ८५ ॥

बान्धवा नवबार्णकाः स्युद्विषड्दश सेवकाः ।

वह्निरुद्रमुनयस्तु(पोषका) द्वादशाष्टकचतुरस्तु(घातकाः) ।८६ प्राप लोभा पटु प्राह्यं रुद्रस्याद्रिरुरुः करम् ।

लोक लोप पटुः प्रायः खलोघोभेदिताः प्रिये ।

वर्णाः क्रमात् स्वरान्तौ तु रेवत्यंशगतौ तदा ॥ ८७ ॥

जन्म सम्पद् विपत् क्षेम प्रत्यरिः साधको वधः ।

मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः ॥ ८८ ॥

वालं गौरं खुरं शोणं शमीशोभेति राशिषु ।

क्रमेण भेदिता वर्णाः कन्यायां शादयः स्मृता ॥ ८९ ॥

लग्नो धनं भ्रातृबन्धुपुत्रशत्रुकलत्रकाः ।

मरणं धर्मकर्माय व्यया द्वादश राशयः ॥ ९० ॥

स्वराशेर्मन्त्रशश्यन्तं गणनीयं विचक्षणैः ।

अज्ञाते राशिनक्षत्रे नामाद्यक्षरराशितः ॥ ९१ ॥

नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् ।

त्रिधा कृत्वा स्वरैभिन्द्यात्तदन्यद्विपरीतकम् ॥ ९२ ॥

कृत्वाधिकमृणं ज्ञेयं ऋणी चेन्मन्त्रवित्तमः ।

स्वयमृणी चेत्तन्मन्त्रं जपेत्पूर्वमृणी यतः ॥ ९३ ॥

वायवग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् ।

पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः सन्धिसम्भवाः ।

कादयः पञ्चशः षक्षसहान्ताश्च प्रकीत्तीताः ॥ ९४ ॥

महीसलिलयोमीत्रमनिलानलयोरपि ।

शात्रवं वैपरीत्येन मैत्रं सर्वत्र चापरम् ॥ ९५ ॥

परस्परविरुद्धानां वर्णानां यत्र सङ्गतिः ।

वर्जयेत्तादृशं मन्त्रं नाशकृत्तत् कुलेश्वरि ॥ ९६ ॥

एकाक्षरे तथा कूटे त्रैपुरे मन्त्रनायिके ।

स्त्रीदत्ते स्वप्नलब्धे च सिद्धादीन्नैव शोधयेत् ॥ ९७ ॥

मन्त्रसिद्धोपदिष्टेषु चतुराम्नायजेषु च ।

मालामन्त्रेषु देवेशि सिद्धादीन्नैव शोधयेत् ॥ ९८ ॥

नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ।

सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत् ॥ ९९ ॥

मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः ।

न सिध्यति वरारोहे लक्षकोटिजपादपि ॥ १०० ॥

वादार्थं पठ्यते विद्या परार्थं क्रियते जपः ।

ख्यात्यर्थं दीयते दानं कथं सिद्धिर्वरानने ॥ १०१ ॥

धनार्थं गम्यते तीर्थं दम्भार्थं क्रियते तपः ।

कार्यार्थे देवतापूजा कथं सिद्धिर्नु जायते ॥ १०२ ॥

अमेध्येन तु देहेन न्यासं देवार्चनं जपम् ।

होमं कुवन्ति चेन्मूढास्तत् सर्वं निष्फलं भवेत् ॥ १०३ ॥

विण्मूत्रत्यागशेषादियुक्तः कर्म करोति यः ।

जपार्चनादिकं सर्वमपवित्रं भवेत् प्रिये ॥ १०४ ॥

मलिनाम्बरकेशादिमुखदौर्गन्धसंयुतः ।

यो जपेत्तं दहत्याशु देवता सुजुगुप्सिता ॥ १०५ ॥

आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम् ।

नीचाङ्गस्पर्शनं कोपं जपकाले विवर्जयेत् ॥ १०६ ॥

अत्याहारः प्रलापश्च प्रजल्पो नियमाग्रहः ।

अन्यासङ्गश्च लौल्यञ्च षड्भिर्मन्त्रो न सिध्यति ॥ १०७ ॥

उष्णीशी कञ्चुकी नग्नो मुक्तकेशो गणावृतः ।

अपवित्रोत्तरीयश्चाशुचिर्गच्छंश्च नो जपेत् ॥ १०८ ॥

जाड्यं दुःखं तृणच्छेदं विवादं वा मनोरथम् ।

बहिस्तु देहवायुञ्च जपकाले विवर्जयेत् ॥ १०९ ॥

शान्तः शुचिमिताहारो भूशायी भक्तिमान् वशी ।

निर्द्वन्द्वः स्थिरधीमौनी संयतात्मा जपेत् प्रिये ॥ ११० ॥

विश्वासास्तिक्यकरुणाश्रद्धानियमनिश्चयैः ।

सन्तोषौत्सुक्यधर्मादिगुणैर्युक्तो जपेन्नरः ॥ १११ ॥

सुगन्धिपुष्पाभरणवस्त्रादिभिरलङ्कृतः ।

तस्य हस्तगता सिद्धिर्नान्यस्य जपकोटितः ॥ ११२ ॥

तन्निष्ठस्तद्गतप्राणस्तच्चित्तस्तत्परायणः ।

तत्पदार्थानुसन्धानं कुर्वन् मन्त्रं जपेत् प्रिये ॥ ११३ ॥

जपात् श्रान्तः पुनर्ध्यायेद्ध्यानात् श्रान्तः पुनर्जपेत् ।

जपध्यानादियुक्तस्य क्षिप्रं मन्त्रः प्रसिध्यति ॥ ११४ ॥

इति ते कथितं किञ्चित् पुरश्चरणलक्षणम् ।

समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ ११५ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे पुरश्चरणादिकथनं नाम पञ्चदशोल्लासः ॥ १५ ॥


अथ षोडशोल्लासः

[सम्पाद्यताम्]

श्रीदेव्युवाच

कुलेश श्रोतुमिच्छामि करुणामृतवारिधे ।

काम्यकर्मविधानञ्च वद मे परमेश्वर ॥ १ ॥

ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणामात्रेण प्रयोगनिपुणो भवेत् ॥ २ ॥

मन्त्री विशुद्धहृदयः पूर्वोक्तनियमान्वितः ।

श्रीप्रासादपरामन्त्रं तत्त्वलक्षं जपेत् प्रिये ॥ ३ ॥

दशांशं जुहुयाद्देवि संस्कृते हव्यवाहने ।

दशांशं तर्पयेद्दुग्धैः सलिलैः शालितण्डुलैः ॥ ४ ॥

गन्धपुष्पाक्षताकल्पधनवस्त्रादिभिः प्रिये ।

भक्ष्याथोन्यान्नपानाद्यैर्हव्यद्रव्यैर्मनोहरैः ॥ ५ ॥

तोषयेद् योगिनीचक्रं यथाविभवविस्तरम् ।

एवं न्यासजपध्यानसहोमार्च्चनतर्पणः ॥ ६ ॥

मन्त्री सिद्धिमनुर्द्देवि साक्षात् परशिवो भवेत् ।

ततः स्वमनसोऽभीष्टान् प्रयोगान् कुलनायिके ॥ ७ ॥

मन्त्रेणानेन मतिमान् साधयेद् भुक्तिमुक्तये ।

सिद्धमन्त्रस्य सिध्यन्ति षट् कर्माणि न संशयः ।

नैव सिध्यन्त्यसिद्धस्य देवताशापमाप्नुयात् ॥ ८ ॥

काम्यप्रयोगकर्त्तॄणां परलोको न विद्यते ।

प्रयोगसिद्धिरेवैषां फलमन्यन्न तु प्रिये ॥ ९ ॥

एकस्यापि विधानस्य न कुत्रापि फलद्वयम् ।

देवेशि दृश्यते तस्मान्निष्कामो देवतां यजेत् ॥ १० ॥

होमतर्पणमन्त्राद्यैर्न्यासध्यानविशेषकैः ।

आत्मनश्च परस्यापि षट् कर्माणि समाचरेत् ॥ ११ ॥

प्रयोगान्ते चक्रपूजां विधिनैव समाचरेत् ।

लक्षमेकं जपेन्मन्त्रं न्यासध्यानसमन्वितः ॥ १२ ॥

प्रयोगदोषशान्त्यर्थमात्मरक्षार्थमेव च ।

न चेत् फलं न चाप्नोति देवताशापमाप्नुयात् ॥ १३ ॥

तिथिवारञ्च नक्षत्रं योगमासर्त्तु पक्षकम् ।

दीपेशं कुलचक्राणि ज्ञात्वा कर्माणि साधयेत् ॥ १४ ॥

ऋषिष्छन्दोदेवताङ्गन्यासध्यानार्च्चनादिकम् ।

बीजं शक्तिं कीलकञ्च ज्ञात्वा मन्त्राणि साधयेत् ॥ १५ ॥

पुत्रबान्धवदाराश्च राशिवर्णानुकूलता ।

भूतमैत्रीं तथोद्यन्तं ज्ञात्वा मन्त्राणि साधयेत् ॥ १६ ॥

मन्त्रविद्याऽभेदरूपं निद्राञ्च बोधरूपकम् ।

स्त्रीपुंनपुंसकादींश्च ज्ञात्वा कर्माणि साधयेत् ॥ १७ ॥

स्वरवर्णपदद्वित्वं विदुश्चैतन्यसूतकम् ।

हृस्वदीर्घप्लुतादींश्च ज्ञात्वा मन्त्राणि साधयेत् ॥ १८ ॥

पञ्चशुद्ध्यासनप्राणायामन्यासाक्षमालिकाः ।

दोषसंस्कारमुद्रादीन् ज्ञात्वा कर्माणि साधयेत् ॥ १९ ॥

तथैवासनदिग्बन्धनाडीबन्धादिसङ्गतिम् ।

देवताकालमुद्रादि ज्ञात्वा कर्माणि साधयेत् ॥ २० ॥

साध्यसाधककर्माणि लेखनीद्रव्यपञ्चकम् ।

स्थानं यन्त्रं प्रमाणञ्च ज्ञात्वा कर्माणि साधयेत् ॥ २१ ॥

उत्पत्तिवासनावर्णमूत्तीसंस्कारसंस्थितम् ।

कुण्डद्रव्यप्रमाणादीन् ज्ञात्वा होमं समाचरेत् ॥ २२ ॥

अग्निप्रभां धूम्रवर्णध्वनिगन्धशिखाकृतीः ।

शुभचेष्टादिकं ज्ञात्वा कल्पयेत्तु शुभाशुभम् ॥ २३ ॥

मन्त्रतत्त्वानुसन्धानदेहावेशादिलक्षणम् ।

मन्त्रोच्चारणभेदञ्च ज्ञात्वा कर्माणि साधयेत् ॥ २४ ॥

मण्डलं कलसद्रव्यशुद्धि गन्धाष्टकादिकम् ।

दीक्षानामप्रदानादि ज्ञात्वा दीक्षां समाचरेत् ॥ २५ ॥

नित्यं नैमित्तिकं काम्यं नियमं नाम वासनाम् ।

पूजाधारणयन्त्रादि ज्ञात्वा कर्माणि साधयेत् ॥ २६ ॥

पूजागृहप्रवेशादिकुलपूजकलक्षणम् ।

कुलद्रव्यादिशुद्धिञ्च ज्ञात्वा पूजां समाचरेत् ॥ २७ ॥

अन्तर्यागं बहिर्यागं घटार्घ्यस्थापनादिकम् ।

पञ्चपुष्पाञ्जलिं देवि ज्ञात्वा कर्माणि साधयेत् ॥ २८ ॥

पात्राधारालिपिशितं कलामुद्राध्वमेलनम् ।

बटुकादिबलिं देवि ज्ञात्वा कर्माणि साधयेत् ॥ २९ ॥

कुलाकुलाख्यसहजशक्तिभेदञ्च लक्षणम् ।

शुभलक्षणसंयुक्तं स्त्रीसंस्कारार्चनादिकम् ।

देवि सम्भोगकालञ्च ज्ञात्वा शक्तिं परिग्रहेत् ॥ ३० ॥

पानभेदं फलोल्लासप्रमाणं स्थितिलक्षणम् ।

तत्त्वत्रयस्य स्वीकारं ज्ञात्वा कुलसुधां पिबेत् ॥ ३१ ॥

चक्रप्रवेशं प्रणति स्थिति निर्गमनं प्रिये ।

योगिनीभोगचेष्टादि ज्ञात्वा भवति कौलिकः ॥ ३२ ॥

रत्युल्लासनकालञ्च कुलदीपनिवेदनम् ।

शान्तस्तवादिपठनं ज्ञात्वा स्यात् कुलदेशिकाः ॥ ३३ ॥

मिथुनानुग्रहाष्टाष्टपुष्पिणीकन्यकार्च्चनाम् ।

विशेषतिथिपूजाञ्च ज्ञात्वा कर्माणि साधयेत् ॥ ३४ ॥

आम्नायभेदं सङ्केतं पुष्पसङ्कोचमेव च ।

गुरुत्रयं सम्प्रदाय ज्ञात्वा कर्माणि साधयेत् ॥ ३५ ॥

श्रौतविद्याकुलाचारं मनुभेदञ्च पादुकाम् ।

चरणत्रितयं देवि ज्ञात्वा कर्माणि साधयेत् ॥ ३६ ॥

स्वाधिकस्य समन्यूनकौलिकाराधनक्रमम् ।

सिद्धमुद्राधरार्चादि ज्ञात्वा कर्माणि साधयेत् ॥ ३७ ॥

गुर्वग्निप्रेतसंस्कारमन्त्येष्टिं दिग्बलिक्रमम् ।

मोक्षदीपविधानादि ज्ञात्वा कर्माणि साधयेत् ॥ ३८ ॥

इत्याद्याः कथिताः किञ्चिद्विशेषाः कुलनायिके ।

सर्वेषामेव मन्त्राणां विधिः साधारणक्रमः ॥ ३९ ॥

मन्त्राः पुरुषदेवाः स्युवीद्याः स्त्रीदेवताः प्रिये ।

मन्त्राः पुंसो हुंफडन्ताः प्राणे चरति दक्षिणे ।

प्रबुध्यन्तेऽग्निजायान्ता विद्याः स्त्रीदेवताः प्रिये ॥ ४० ॥

वामे प्राणे प्रबुध्यन्ते नमोऽन्ताः स्युर्नपुंसकाः ।

नाडीद्वयगते प्राणे सर्वे बोधं प्रयान्ति च ॥ ४१ ॥

शान्तिके मनवः सौम्या भूयिष्ठेन्द्वमृताक्षराः ।

स्वाहान्ताः स्युवीयत्प्रायाश्चाग्नेयाः क्रूरकर्मसु ॥ ४२ ॥

फट् च पुष्टौ वषट् वश्ये हुंफट् चैव तु मारणे ।

स्तम्भने च नमः प्रोक्तं स्वाहा शान्तिकपौष्टिके ॥ ४३ ॥

होमतर्पणयोः स्वाहा न्यासपूजनयोर्नमः ।

मन्त्रान्ते योजयेन्मन्त्री जपकाले यथास्थितम् ॥ ४४ ॥

शान्तिके राजतं ताम्रं भूर्जपत्रन्तु वश्यके ।

सर्वकार्येषु सौवर्णे क्रूरे स्यात् प्रेतकर्पटम् ॥ ४५ ॥

त्रिगन्धं शान्तिके प्रोक्तं पञ्चगन्धञ्च वश्यके ।

सर्वकार्यंष्वष्टगन्धं क्रूरे चाष्टविषाणि च ॥ ४६ ॥

शान्तके लेखनी दूर्वा वश्यादौ शिखिपुच्छिका ।

हेम्ना तु सर्वकार्याणि क्रूरे स्यात् काकपुच्छिका ॥ ४७ ॥

स्वगृहे शान्तिकर्मं स्याद्वश्याद्यं चण्डिकालये ।

सर्वकार्यं देवगृहे श्मशाने क्रूरकर्म च ॥ ४८ ॥

लक्षणान्येवमादीनि ज्ञात्वा गुरुमुखात् प्रिये ।

सर्वकर्माणि कुर्वीत मन्त्री तत्तत्फलाप्तये ॥ ४९ ॥

मूले प्रासादबीजञ्च तरुणादित्यसन्निभम् ।

उत्तमाङ्गे पराबीजं चन्द्रायुतसमप्रभम् ॥ ५० ॥

परस्परजनस्पर्शजनितानन्दनिर्भरः ।

मूलादिब्रह्मरन्ध्रान्तं अनवच्छिन्नरूपिभिः ॥ ५१ ॥

परामृतरसासेकैः सिक्तमापादमस्तकम् ।

आत्मानं भावयेन्नित्यं स भवेदजरामरः ॥ ५२ ॥

एवं ध्यात्वा कुलेशानि सर्वकर्माणि साधयेत् ।

सिध्यन्ति तरसा देवि नात्र कार्या विचारणा ॥ ५३ ॥

ध्यानभेदं प्रवक्ष्यामि सर्वसिद्धिकरं प्रिये ।

ईप्सितं लभते येन पूजाहोमादिकं विना ॥ ५४ ॥

स्थाने मनोहरे देवि साधकः स्थिरमानसः ।

स्थितो मृद्वासने ध्यायेद् गुरुवन्दनपूर्वकम् ॥ ५५ ॥

मस्तकस्थितसम्पूर्णचन्द्रमण्डलमध्यगम् ।

श्रीप्रासादपराबीजं षोडशस्वरसंयुतम् ॥ ५६ ॥

शुद्धस्फटिककर्पूरकुन्देन्दुधवलं प्रिये ।

सच्चन्द्रबिम्बसञ्जातसुधाप्लावितविग्रहम् ॥ ५७ ॥

आत्मानं भावयेन्नित्यं निश्चलेनान्तरात्मना ।

सर्वारिष्टं विलीयेत शुभश्रीपुष्टिकारकम् ॥ ५८ ॥

श्रीप्रासादपरामन्त्रमष्टोत्तरसहस्रकम् ।

तरुणोल्लाससहितो मण्डलं पूजयेत् प्रिये ॥ ५९ ॥

अपमृत्युमहारोगजरामरणजं भयम् ।

ग्रहापस्मारवेतालभूतोन्मादादिजं भयम् ॥ ६० ॥

जित्वाधिव्याधिरहितः पुत्रपौत्रसमन्वितः ।

जीवेद्वर्षशतं साग्रं पूजितः सर्वमानवः ॥ ६१ ॥

अश्रुतं बुध्यते शास्त्रं कविता निर्मला भवेत् ।

चिन्मयो जायते साक्षान्नात्र कार्या विचारणा ॥ ६२ ॥

ज्वरोन्मादादिरोगेषु जपेच्छिरसि चिन्तयन् ।

शूलवातव्रणग्रन्थिमूत्रकृच्छ्रादिसम्भवे ।

तत्तत्स्थानेषु देवेशि पूर्ववच्चिन्तयन् जपेत् ॥ ६३ ॥

महारोगेषु जातेषु सर्वाङ्गेषु विचिन्तयेत् ।

तत्क्षणाच्छान्तिमायान्ति रोगाः सर्वे न संशयः ॥ ६४ ॥

दशेन्द्रियेषु यो ध्यायेल्लभेदिन्द्रियसौष्ठवम् ।

यत्र बीजं स्मरेत्तत्र तत्फलं भवति ध्रुवम् ॥ ६५ ॥

सदा यश्चिन्तयेन्मूध्नी स भवेदजरामरः ।

सर्वरोगप्रहरणं विद्यारोग्यप्रदं प्रिये ॥ ६६ ॥

अस्मात् परतरध्यानं नास्ति सत्यं न संशयः ।

सात्त्विकध्यानजं देवि फलमेतदुदीरितम् ॥ ६७ ॥

शान्तिकर्माणि सर्वाणि विधिनानेन कारयेत् ।

विधिनानेन देवेशि सौभाग्यमतुलं भवेत् ॥ ६८ ॥

द्वादशाधारपद्मेषु द्वादशस्वरसंयुतम् ।

बीजं सञ्चिन्तयेद् यस्तु स भवेदजरामरः ॥ ६९ ॥

षडाधारेषु षड्दीर्घयुक्तं बीजं विचिन्तयेत् ।

षडाधारस्थदेवीभिः पूज्यते कुलनायिके ॥ ७० ॥

हृत्पद्मकणीकामध्ये सूर्यमण्डलसंस्थितम् ।

पराप्रासादबीजन्तु तरुणारुणसन्निभम् ॥ ७१ ॥

जवाबन्धूकसिन्दूरपद्मरागप्रभोज्ज्वलम् ।

पञ्चविशतिभिः स्पर्शाक्षरैः संवीतमम्बिके ॥ ७२ ॥

तत्प्रभापटलच्छायाव्यक्तीकृतजगत्त्रयम् ।

आत्मानञ्च स्मरेद्देवि निश्चलेनान्तरात्मना ॥ ७३ ॥

पराप्रासादबीजन्तु तरुणोल्लाससंयुतः ।

अष्टोत्तरसहस्रन्तु मण्डलं प्रजपेत् सुधीः ॥ ७४ ॥

देवदानवगन्धर्वसिद्धकिन्नरगुह्यकान् ।

विद्याधरान्मुनीन् यक्षान् नागानप्सरसः स्त्रियः ॥ ७५ ॥

सिंहव्याघ्रोरगेन्द्रादीनन्यान् दुष्टमृगानपि ।

वश्यान् करोत्यसन्देहं किं पुनर्मानवादिकान् ॥ ७६ ॥

महदैश्वर्यमाप्नोति स्वर्गभोगादिकं प्रिये ।

यस्य मूध्नी स्मरन् जप्यात् स वश्यो जायते हठात् ॥ ७७ ॥

राजसध्यानजं देवि फलमेतदुदीरितम् ।

वश्यकर्माणि सर्वाणि विधिनानेन कारयेत् ॥ ७८ ॥

सर्ववश्यकरं देवि सर्वैश्वर्यफलप्रदम् ।

अस्मात् परतरं ध्यानं नास्ति सत्यं न संशयः ॥ ७९ ॥

लिखेत्त्रिकोणं षट्कोणं अष्टारञ्च महीपुरम् ।

मूलमन्त्रं लिखेन्मध्ये साध्यनामसमन्वितम् ॥ ८० ॥

षट्कोणेषु षडङ्गानि विलिखेत् परमेश्वरि ।

केशरेषु स्वरानष्टौ वर्गान् पत्रेषु पार्वति ॥ ८१ ॥

भूगृहस्य चतुष्कोणे विलिखेन्मूलमम्बिके ।

पञ्चवर्णरजोभिश्च शुभं दृष्टिमनोहरम् ॥ ८२ ॥

एवं यन्त्रं समालिख्य विधिवन्मन्त्रवित्तमः ।

एकत्रिषड्वसुचतुःकलसान् स्थापयेत् प्रिये ॥ ८३ ॥

मध्यादिचतुरस्रान्तं द्वात्रिंशत् कलसान् प्रिये ।

अथवाष्टादशेशानि सप्त वा दश वा प्रिये ॥ ८४ ॥

चतुरो वाप्यथैकं वा कुर्यात् साधकसत्तमः ।

अस्थिरक्तशिरातन्तुमृण्मांसं रुधिरं जलम् ॥ ८५ ॥

चर्मवस्त्रशिलाकूर्मनारिकेलफलं शिरः ।

मन्त्रप्राणसमायुक्तां यजेत् कलसदेवताम् ॥ ८६ ॥

सावित्रीनापराङ्गानि मातरोज् भैरवान्विताः ।

विदिक्षु गुरुविघ्नेशदुर्गाक्षेत्रपतीन् प्रिये ॥ ८७ ॥

कलसेषु समभ्यर्च्य विधिवन्मन्त्रवित्तमः ।

अभिषिञ्चेत् प्रियं शिष्यं सर्वपापप्रशान्तये ॥ ८८ ॥

आयुः श्रीकान्तिसौभाग्यविद्यारोग्यादिकं भवेत् ।

राजाभिषिक्तो लभते चतुःसागरगां महीम् ॥ ८९ ॥

अकिञ्चनोऽभिषिक्तश्च महदैश्वर्यमाप्नुयात् ।

वन्ध्याभिषिक्ता लभते पुत्रं सर्वगुणान्वितम् ॥ ९० ॥

भूतापमृत्युरोगाद्या विनश्यन्ति न संशयः ।

त्रिलौहे वापि भूर्जे वा लिखित्वा यन्त्रमुत्तमम् ॥ ९१ ॥

विधृतं बाहुना देवि सर्वरक्षाकरं भवेत् ।

आयुरारोग्यमैश्वर्यं विद्यालाभं यशो जयम् ॥ ९२ ॥

यद् यत् स्वमनसोऽभीष्टं तत्तदाप्नोत्यसंशयः ।

खड्गवश्यं वयःस्तम्भं यक्षिण्यञ्जनपादुकाम् ॥ ९३ ॥

अणिमाद्यष्टसिद्ध्यादि महारसरसायनम् ।

सञ्जीवयोगगुटिकाप्रमुखाखिलसिद्धयः ॥ ९४ ॥

पराप्रासादमन्त्रज्ञैर्दृश्यन्ते नात्र संशयः ।

षट् कर्माणि प्रयुञ्जीत नान्यथा भवति प्रिये ॥ ९५ ॥

पीतद्रव्यैर्हरिद्राद्यैः समित्पत्रफलादिभिः ।

जुहुयात् पूर्ववन्मन्त्री देवताध्यानतत्परः ॥ ९६ ॥

वाक्श्रोत्रगतिदृक्सेनानदीग्रहरिपून् प्रिये ।

नानादुष्टमृगान् देवि स्तम्भयेन्नात्र संशयः ॥ ९७ ॥

ग्रहवेगादिदुष्टानां विनाशनकरं प्रिये ।

अस्मात् परतरं ध्यानं नास्ति सत्यं न संशयः ॥ ९८ ॥

तामसध्यानजं देवि फलमेतदुदीरितम् ।

दुष्टमारणकर्माणि विधिनानेन साधयेत् ॥ ९९ ॥

इत्यादि ध्यानभेदेन ज्ञात्वा गुरुमुखात् प्रिये ।

षट् कर्माणि प्रयुञ्जीत नान्यथा वीरवन्दिते ॥ १०० ॥

खदिरश्वेतमन्दारसितभानुसमिद्वरैः ।

पलाशोदुम्बराश्वत्थप्लक्षापामार्गसत्वचैः ॥ १०१ ॥

नन्द्यावर्त्तसिताम्भोजहयारिकुसुमादिभिः ।

सितैरन्यैः शुभैर्द्र्रव्यैः समित्पत्रफलान्तरः ॥ १०२ ॥

भक्ष्यैश्च पायसैर्दूर्वासहितैस्तिलतण्डुलैः ।

मधुरत्रयसंयुक्तैर्मन्त्रवित् कुलनायिके ॥ १०३ ॥

एकेन वाथ सर्वैर्वा तत्कार्यगुरुलाघवम् ।

ज्ञात्वा देवि सहस्रन्तु जुहुयादथ पञ्च वा ॥ १०४ ॥

अयुतं नियुतं वापि प्रयुतं वा कुलेश्वरि ।

तत्तत्कर्मोदिते कुण्डे संस्कृते हव्यवाहने ॥ १०५ ॥

आवाह्य देवतामस्मिन् ध्यात्वा सावरणां प्रिये ।

विधिवज्जुहुयाद्देवि तद्गतेनान्तरात्मना ॥ १०६ ॥

सर्वरोगव्रणोन्मादापस्मारोत्पातयक्ष्मजम् ।

सर्वदुःखप्रशमनं तत्क्षणान्नात्र संशयः ॥ १०७ ॥

अनेन सर्वशान्तिञ्च ज्ञानं विद्यां लभेत् प्रिये ।

कदम्बाशोकवकुलपुन्नागाम्रमधूकजैः ॥ १०८ ॥

चम्पकद्वयपालाशपाटलश्रीकपित्थकैः ।

मालतीमल्लिकाजातिबन्धूकारुणपङ्कजैः ॥ १०९ ॥

कल्हारारुणमन्दारयूथिकुन्दजवादिभिः ।

सनारिकेलकदलीद्राक्षेक्षुपृथुकैरपि ॥ ११० ॥

चन्दनागुरुकर्पूररोचनाकुंकुमादिभिः ।

रक्तैरन्यैः शुभद्रव्यैः समिधृतफलोद्भवैः ॥ १११ ॥

पूर्ववज्जुहुयाद्देवि विधिवन्मन्त्रवित्तमः ।

महीपतींश्च पुरुषान् कान्ता यौवनगवीताः ॥ ११२ ॥

सिंहान् मत्तान् तथा व्याघ्रान् मृगान् दुष्टान् गजानपि ।

सिद्धदेवाप्सरोयक्षगन्धर्ववनितास्तथा ।

देवानपि कुलेशानि वशयेन्नात्र संशयः ॥ ११३ ॥

वाजीलवणहोमेन स्त्रियमाकर्षयेद् ध्रुवम् ।

विधिनानेन देवेशि सौभाग्यमुत्तमं लभेत् ॥ ११४ ॥

बहुनात्र किमुक्तेन त्रिषु लोकेषु मन्त्रिणाम् ।

अनेन मन्त्रराजेन नासाध्यं विद्यते क्वचित् ॥ ११५ ॥

ऊर्ध्वाम्नायैकनिष्णातः पराप्रासादमन्त्रवित् ।

कुलार्णवार्थतत्त्वज्ञो जीवन्मुक्तः कुलेश्वरि ॥ ११६ ॥

सुतीर्थे वाप्यतीर्थे वा जलमध्येऽपि वा वसन् ।

पराप्रासादमन्त्रज्ञो मुक्त एव न संशयः ॥ ११७ ॥

दिक्पीठक्षेत्रमुद्रादिवृक्षवल्लीमठादिकाः ।

ज्ञेया भैरवदेव्यश्च ऊर्ध्वाम्नायस्य पार्वति ॥ ११८ ॥

निम्बकारस्करोन्मत्तकण्टकीविप्रदन्तिभिः ।

अस्थिकण्टकवृक्षाद्यैर्द्रव्यैरशुभसाधनैः ॥ ११९ ॥

वटुकैः कृष्णवर्णैश्च समित्पत्रफलान्तरैः ।

गृहधूमचिताङ्गारत्रिकट्वम्लचिताञ्जनैः ॥ १२० ॥

उन्मत्तरससंसिक्तै पिष्ट्वा सम्यक् प्रसेचितैः ।

साध्यपादरजोभिश्च चिताभस्मसमन्वितैः ॥ १२१ ॥

साध्यप्रतिकृतिं कुर्यादेकनक्षत्रवृक्षजाम् ।

सम्यक्प्रतिष्ठितप्राणां कुण्डस्योपरि लम्बयेत् ॥ १२२ ॥

खनेत्तत्प्रतिमां मन्त्री कुण्डस्याधो यथाविधि ।

मलीमसेन मनसा चोग्रदृष्टिरमर्षणः ॥ १२३ ॥

चितानले विषतरु सप्तकाष्ठसमेधिते ।

तद्द्रव्यैर्जुहुयाद्देवि विधिवन्मन्त्रवित्तमः ॥ १२४ ॥

कुर्याद्विद्वेषणोच्चाटमारणानि न संशयः ।

शान्तिके सात्त्विकं देवि श्वेतवर्णं विचिन्तयेत् ॥ १२५ ॥

वश्ये तु राजसं देवि रक्तवर्णं विचिन्तयेत् ।

तामसं क्रूरकार्येषु कृष्णवर्णं विचिन्तयेत् ॥ १२६ ॥

आत्मरक्षां पुरा कृत्वा पश्चात् कर्माणि साधयेत् ।

योऽन्यथा कुरुते मोहात् स भवेद्देवतापशुः ॥ १२७ ॥

तस्माद्देवि महाषोढान्यासं पूजां बलिं सुधीः ।

कृत्वा कर्माणि कुर्वीत नान्यथा वीरवन्दिते ॥ १२८ ॥

मूलाधारसरोजान्तर्वह्निमध्यगतं प्रिये ।

पराप्रासादबीजं तत् कल्पान्ताग्निसमप्रभम् ॥ १२९ ॥

प्रतिलोमसु संवीतं दशभिर्व्यापकाक्षरैः ।

स्वयं कालानलसमः सर्वभूतभयङ्करः ॥ १३० ॥

दक्षिणाशामुखो भूत्वात्युग्रदृष्टिमलीमसः ।

यौवनोल्लाससहितः पराप्रासादसंज्ञकम् ॥ १३१ ॥

मन्त्रं मण्डलकं जप्यादष्टोत्तरसहस्रकम् ।

अनिष्टकारिणः सत्त्वान् कलहायासकारिणः ॥ १३२ ॥

वृथा द्वेषकरान् क्रूरान् सपर्याविघ्नकारिणः ।

भूतोपग्रहवेतालान् पिशाचान् यक्षराक्षसान् ॥ १३३ ॥

इत्यादिदुष्टजन्तूंश्च सदा क्लेशकरान् परान् ।

तद्वह्निमध्यपतितान्निर्दग्धांश्च चिन्तयेत् ।

क्षणेन नाशमायान्ति शलभा इव पावके ॥ १३४ ॥

यस्यमूध्नी स्मरेद्बीजं स मृत्युमधिगच्छति ।

ध्यानेनानेन देवेशि कालादीनपि नाशयेत् ॥ १३५ ॥

इति ते कथितः किञ्चित् काम्यकर्मविधिः प्रिये ।

समासेन कुलेशानि कि भूयः श्रोतुमिच्छसि ॥ १३६ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे काम्यकर्मकथनं नाम षोडशोल्लासः ॥ १६ ॥


अथ सप्तदशोल्लासः

[सम्पाद्यताम्]

श्री देव्युवाच

कुलेश श्रोतुमिच्छामि गुरुनामादिवासनाम् ।

तत्त्वं कुलपदार्थानां वद मे परमेश्वर ॥ १ ॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।

तस्य श्रवणमात्रेण कुलज्ञानं प्रकाशते ॥ २ ॥

नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।

विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ॥ ३ ॥

नारायणस्वरूपाय परमात्मस्वरूपिणे ।

सर्वाज्ञानतमोभेदभानवे चैतन्याय च ॥ ४ ॥

सर्वज्ञाय दयाकॢप्तविग्रहाय शिवात्मने ।

परत्रेह च भक्तानां भव्यानां भावदायिने ॥ ५ ॥

पुरस्तात् पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः ।

सदा सच्चित्तरूपेण विधेहि तव दासताम् ॥ ६ ॥

गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः ।

अन्धकारनिरोधत्वात् गुरुरित्यभिधीयते ॥ ७ ॥

गकारः सिद्धदः प्रोक्तो रेफः पापस्य दाहकः ।

उकारो विष्णुरित्युक्तस्त्रितयात्मा गुरुः परः ॥ ८ ॥

गकारो ज्ञानसम्पत्ती रेफस्तत्र प्रकाशकः ।

उकारः शिवतादात्म्यं गुरुरित्यभिधीयते ॥ ९ ॥

गुह्यागमात्मतत्त्वान्धनद्धानां बोधनादपि ।

रुद्रादिदेवरूपत्वाद् गुरुरित्यभिधीयते ॥ १० ॥

स्वयमाचरते शिष्यानाचारे स्थापयत्यपि ।

आचिनोतीह शास्त्रार्थानाचार्यस्तेन कथ्यते ॥ ११ ॥

चराचरसमासन्नमध्यापयति यः स्वयम् ।

यमादियोगसिद्धत्वादाचार्य इति कथ्यते ॥ १२ ॥

आत्मभावप्रदानात्तु रागद्वेषादिवर्ज्जनात् ।

ध्यानैकनिष्ठाचित्तत्वादाराध्य इति कथ्यते ॥ १३ ॥

देवतारूपधारित्वाच्छिष्यानुग्रहकारणात् ।

करुणामयमूत्तीत्वाद्देशिकः कथितः प्रिये ॥ १४ ॥

स्वान्तःशान्तिसमुन्मीलत्परतत्त्वार्थचिन्तनात् ।

मिथ्याज्ञानविहीनत्वात् स्वामीति कथितः प्रिये ॥ १५ ॥

मनोदोषादिदूरत्वाद्धेतुवादादिवर्ज्जनात् ।

श्वादिप्राणिषु सादृश्याद् रम्यत्वाच्च महेश्वरः ॥ १६ ॥

श्रीमोक्षज्ञानदातृत्वान्नादब्रह्मात्मबोधनात् ।

स्थगिताज्ञानचिह्नत्वात् श्रीनाथः कथितः प्रिये ॥ १७ ॥

देशकालाविरोधेन वर्त्तमानात् कुलागमे ।

वशीकृतजगज्जीवाद्देव इत्यभिधीयते ॥ १८ ॥

भवपाशप्रशमनात् टङ्कारेन्दुकशेखरात् ।

रक्षणात् कमनीयत्वात् भट्टारक इतीरितः ॥ १९ ॥

प्रगुप्तागमवेदान्तरहस्यार्थविभावनात् ।

भुक्तिमुक्तिप्रदानाच्च प्रभुरित्यभिधीयते ॥ २० ॥

योनिमुद्रानुसन्धानात् प्रस्फुरन्मन्त्रवैभवात् ।

गीर्वाणगणपूज्यत्वाद् योगीति कथितः प्रिये ॥ २१ ॥

सङ्गदुःखपरित्यागात् यत्र कुत्राश्रमाश्रयात् ।

मिथ आत्मनिबन्धत्वात् संयमीत्यभिधीयते ॥ २२ ॥

तत्त्वस्वरूपमननात् परिवादादिवजीतात् ।

स्वीकारात् शुभकार्याणां तपस्वीत्यभिधीयते ॥ २३ ॥

अक्षरत्वाद्वरेण्यत्वाद्धूतसंसारबन्धनात् ।

तत्त्वमस्यर्थसिद्धत्वात् अवधूतोऽभिधीयते ॥ २४ ॥

वीतरागमदक्लेशकोपमात्सर्यमोहतः ।

रजस्तमोविदूरत्वाद्वीर इत्यभिधीयते ॥ २५ ॥

कुलं गोत्रं समाख्यातं तच्च शक्तिशिवोद्भवम् ।

येन मोक्ष इति ज्ञानं कौलिकः सोऽभिधीयते ॥ २६ ॥

अकुलं शिव इत्युक्तं कुलं शक्तिः प्रकीत्तीता ।

कुलाकुलानुसन्धानान्निपुणाः कौलिकाः प्रिये ॥ २७ ॥

सारसंग्रहणाच्चैव धर्ममार्गप्रवर्त्तनात् ।

करणग्रामनियमात् साधकः सोऽभिधीयते ॥ २८ ॥

भजनात् परया भक्त्या मनोवाक्कायकर्मभिः ।

तरत्यखिलदुःखानि तस्माद्भक्त इतीरितः ॥ २९ ॥

शरीरमर्थं प्राणांश्च सद्गुरुभ्यो निवेद्य यः ।

गुरुभ्यः शिक्षते योगं शिष्य इत्यभिधीयते ॥ ३० ॥

योनिमुद्रानुसन्धानात् गिरिजापादसेवनात् ।

निर्लीनोपाधिविभवाद् योगिनीत्यभिधीयते ॥ ३१ ॥

शतकोटिमहादिव्ययोगिनीप्रीतिकारणात् ।

तीव्रमुक्तिप्रदानाच्च शक्तिरित्यभिधीयते ॥ ३२ ॥

पालनाद्दुरितच्छेदात् कामितार्थस्य वर्द्धनात् ।

पादुकेति समाख्याता मम तत्त्वं तव प्रिये ॥ ३३ ॥

जन्मान्तरसहस्रेषु कृतपापप्रणाशनात् ।

परदेवप्रकाशाच्च जप इत्यभिधीयते ॥ ३४ ॥

स्तोकस्तोकेन मनसः परमप्रीतिकारणात् ।

स्तोतृसन्तारणाद्देवि स्तोत्रमित्यभिधीयते ॥ ३५ ॥

यावदिन्द्रियसन्तापं मनसा संनियम्य च ।

स्वान्तेनाभीष्टदेवस्य चिन्तनं ध्यानमुच्यते ॥ ३६ ॥

चरितार्थविकाशाच्च रक्षणादपि पार्वति ।

नरनारीस्वरूपाच्च चरणं कथितं प्रिये ॥ ३७ ॥

वेदिताऽखिलशास्त्रार्थसद्धर्मार्थनिरूपणात् ।

दर्शनानां प्रमाणत्वाद्वेद इत्यभिधीयते ॥ ३८ ॥

पुण्यपापादिकथनाद्राक्षसादिनिवारणात् ।

नवभक्त्यादिजननात् पुराण इति कथ्यते ॥ ३९ ॥

शासनादनिशं देवि वर्णाश्रमनिवासिनाम् ।

तारणात् सर्वपापेभ्यः शास्त्रमित्यभिधीयते ॥ ४० ॥

स्मरणोत्सुकनिष्ठानां धर्माधर्मनिरूपणात् ।

तिमिरोत्पाटनाद्देवि स्मृतिरित्यभिधीयते ॥ ४१ ॥

इष्टधर्मादिकथनात्तिमिराज्ञानभञ्जनात् ।

हरणात् सर्वदुःखानां इतिहास इति स्मृतः ॥ ४२ ॥

आचारकथनाद्दिव्यगतिप्राप्तिनिदानतः ।

महात्मतत्त्वकथनादागमः कथितः प्रिये ॥ ४३ ॥

शाकिनीगणपूज्यत्वात्तारणाद्भववारिधे ।

परादिशक्तिसान्निध्याच्छाक्त इत्यभिधीयते ॥ ४४ ॥

कौमारादिनिरोधत्वात् लयजन्मादिभञ्जनात् ।

अशेषकुलसम्बन्धात् कौल इत्यभिधीयते ॥ ४५ ॥

पाशच्छेदकराद्देवि रञ्जनात् परतेजसः ।

यतिभिश्चिन्त्यमानत्वात् परम्पर्यमितीरितम् ॥ ४६ ॥

संसारसारभूतत्वात् प्रकाशानन्ददानतः ।

यशः सौभाग्यकरणात् सम्प्रदाय इतीरितः ॥ ४७ ॥

आदित्वात् सर्वमार्गाणां मनोल्लासप्रवर्द्धनात् ।

यज्ञादिधर्महेतुत्वादाम्नाय इति कीतीतः ॥ ४८ ॥

श्रुतानेकमहामन्त्रयन्त्रतन्त्रादिदैवतात् ।

श्रुतौ यदनविच्छिन्नाच्छ्रौत इत्यभिधीयते ॥ ४९ ॥

आम्नायतत्त्वरूपत्वाच्चातुर्यार्थनिरूपणात् ।

रागद्वेषादिशमनादाचार इति कीर्त्त्यते ॥ ५० ॥

दिव्यभावप्रदानाच्च क्षालनात् कल्मषस्य च ।

दीक्षेति कथिता सद्भिर्भवबन्धविमोचनात् ॥ ५१ ॥

अहम्भावहराद्भीतिमथनात् सेचनादपि ।

कम्पानन्दादिजननादभिषेक इति स्मृतः ॥ ५२ ॥

उल्बणत्वात् परत्वाच्च देवताप्रीतिदानतः ।

शक्तिपातनिमित्तादप्युपदेश इति स्मृतः ॥ ५३ ॥

मननात्तत्त्वरूपस्य देवस्यामिततेजसः ।

त्रायते सर्वभयतस्तस्मान्मन्त्र इतीरितः ॥ ५४ ॥

देहमास्थाय भक्तानां वरदानाच्च पार्वति ।

तापत्रयादिशमनाद्देवता परिकीत्तीता ॥ ५५ ॥

न्यायोपाजीतवित्तानामङ्गेषु विनिवेशनात् ।

सर्वरक्षाकराद्देवि न्यास इत्यभिधीयते ॥ ५६ ॥

मुदं कुर्वन्ति देवानां मनांसि द्रावयन्ति च ।

तस्मान्मुद्रा इति ख्याता दशीतव्याः कुलेश्वरि ॥ ५७ ॥

अनन्तफलदानाच्च क्षपिताशेषकल्मषात् ।

मातृकात्मतया लाभकरणादक्षमालिका ॥ ५८ ॥

मङ्गलत्वाच्च डाकिन्या योगिनीगणसंश्रयात् ।

ललितत्वाच्च देवेशि मण्डलं परिकीत्तीतम् ॥ ५९ ॥

कमलासनरूपत्वाल्लघुतत्त्वादिनाशनात् ।

शमितापारपापाच्च कलशः परिकीत्तीतः ॥ ६० ॥

यमभूतादिसर्वेभ्यो भयेभ्योऽपि कुलेश्वरि ।

त्रायते सततञ्चैव तस्माद् यन्त्रमितीरितम् ॥ ६१ ॥

आत्मसिद्धिप्रदानाच्च सर्वरोगनिवारणात् ।

नवसिद्धिप्रदानाच्च आसनं कथितं प्रिये ॥ ६२ ॥

मायाजालादिशमनान्मोक्षमार्गनिरूपणात् ।

अष्टदुःखादिविरहान् मद्यमित्यभिधीयते ॥ ६३ ॥

महादानार्थरूपत्वाद् यागभूम्येककारणात् ।

मद्भावजननाद्देवि मद्यमित्यभिधीयते ॥ ६४ ॥

सुमनसः सेवितत्वाद् राज्यदत्वात् सदा प्रिये ।

सुराकारप्रदानत्वात् सुरेति परिकीत्तीता ॥ ६५ ॥

अमृतांशुस्वरूपत्वान्मृत्युभीतिनिवारणात् ।

तत्त्वप्रकाशहेतुत्वादमृतं कथितं प्रिये ॥ ६६ ॥

पानाङ्गविश्वरूपत्वात्त्रिचतुष्ककलाश्रयात् ।

पतितत्राणनाद्देवि पात्रमित्यभिधीयते ॥ ६७ ॥

आशुशुक्षणिरूपत्वाद्धातृदेवप्रियादपि ।

रक्षणादपि चाधेयस्याधारं तु विदुर्बुधाः ॥ ६८ ॥

माङ्गल्यजननाद्देवि संविवदानन्ददानतः ।

सर्वदेवप्रियत्वाच्च मांस इत्यभिधीयते ॥ ६९ ॥

पूर्वजन्मानुशमनाज्जन्ममृत्युनिवारणात् ।

सम्पूर्णफलदानाच्च पूजेति कथिता प्रिये ॥ ७० ॥

अभीष्टफलदानाच्च चतुर्वर्गफलाश्रयात् ।

नन्दनात् सर्वदेवानामर्चनं समुदाहृतम् ॥ ७१ ॥

तत्त्वात्मकस्य देवस्य परिवारवृतस्य च ।

नवानन्दप्रजननात्तर्पणं समुदाहृतम् ॥ ७२ ॥

गम्भीरापारदौर्भाग्यक्लेशनाशनकारणात् ।

धर्मज्ञानप्रदानाच्च गन्ध इत्यभिधीयते ॥ ७३ ॥

आघ्राणनप्रजननान् मोक्षमार्गप्रदर्शनात् ।

दग्धदुःखादिदमनादामोद इति कथ्यते ॥ ७४ ॥

अन्नदानात् कुलेशानि क्षपिताशेषकल्मषात् ।

तादात्म्यकरणाद्देवि अक्षताः परिकीत्तीताः ॥ ७५ ॥

पुण्यसंवर्द्धनाच्चापि पापौघपरिहारतः ।

पुष्कलार्थप्रदानाच्च पुष्पमित्यभिधीयते ॥ ७६ ॥

धूताशेषमहादोषपूतिगन्धप्रभावतः ।

परमानन्दजननाद्धूप इत्यभिधीयते ॥ ७७ ॥

दीर्घाज्ञानमहाध्वान्ताहङ्कारपरिवर्जनात् ।

परतत्त्वप्रकाशाच्च दीप इत्यभिधीयते ॥ ७८ ॥

मोहध्वान्तप्रशमनात् क्षयातीविनिवारणात् ।

दिव्यरूपप्रदानाच्च परतत्त्वप्रकाशनात् ।

ख्यातो मोक्षो दीप इति मोक्षमार्गैकसाधनः ॥ ७९ ॥

चतुवीधं कुलेशानि द्रव्यञ्च षड्रसान्वितम् ।

निवेदनाद्भवेत्तृप्तिर्नैवेद्यं समुदाहृतम् ॥ ८० ॥

बहुप्रकारविचरद् भूतौघप्रीतिकारणात् ।

लिप्तपापप्रशमनाद् बलिरित्यभिधीयते ॥ ८१ ॥

तत्त्वत्रयविशुद्धिः स्यात्त्वत्सेवामात्रतः प्रिये ।

तत्त्वप्रकाशहेतुत्वात्तत्त्वत्रयमितीरितम् ॥ ८२ ॥

चतुर्वर्गफलावापात् लुण्ठिताज्ञानबन्धनात् ।

कल्याणधर्ममूलत्वाच्चलुकं कथितं प्रिये ॥ ८३ ॥

प्रकाशानन्दजननात् सामरस्यप्रदानतः ।

दर्शनात् परतत्त्वस्य प्रसाद इति कथ्यते ॥ ८४ ॥

पाशसञ्छेदनाद्देवि नरकस्य निवारणात् ।

पाबनात् परमेशानि पानमित्यभिधीयते ॥ ८५ ॥

कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।

समीपसेवा विधिवत् उपास्तिरिति कथ्यते ॥ ८६ ॥

पञ्चाङ्गोपासनेनेष्टदेवता प्रीतिदानतः ।

पुरश्चरति भक्तस्य तत् पुरश्चरणं प्रिये ॥ ८७ ॥

आवाहनादिकर्माणि षोडश द्वादशावधि ।

विधिनाचरणं प्रोक्तं उपहारमिति स्मृतम् ॥ ८८ ॥

सम्पूज्य सावृतिं देवं षोडशैरुपचारकैः ।

स्वस्थानप्रेषणं प्रोक्तं मृद्वासनमिति प्रिये ॥ ८९ ॥

देवं पूजार्थमाह्वानमावाहनमिति स्मृतम् ।

आसने सन्निवेशः स्यात् स्थापनं कुलनायिके ॥ ९० ॥

अन्योन्यसम्मुखाकारः सन्निधापनमीरितम् ।

यत्र कुत्राप्यचलनं सन्निरोधनमीरितम् ॥ ९१ ॥

देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः ।

आच्छादनं समुद्दिष्टमवगुण्ठनमीरितम् ॥ ९२ ॥

दर्शनं धेनुमुद्राया अमृतीकरणं प्रिये ।

क्षमस्वेत्यञ्जलिर्द्देवि परमीकरणं प्रिये ।

स्वागतं कुशलप्रश्नं निगदेद्देवताग्रतः ॥ ९३ ॥

पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते ।

जातालवङ्गकक्कोलैरुक्तमाचमनीयकम् ॥ ९४ ॥

अखिलाघप्रशमनार्द्धनपुत्रविवर्द्धनात् ।

अनर्घफलदानाच्च अर्घ्यमित्यभिधीयते ॥ ९५ ॥

सिद्धार्थमक्षतञ्चैव कुशाग्रं तिलमेव च ।

यवं गन्धः फलं पुष्पमष्टाङ्गार्घ्यं प्रकीत्तीतम् ॥ ९६ ॥

मध्वाज्यदधिभिः प्रोक्तो मधुपर्कः कुलेश्वरि ।

देहप्रक्षालनं स्नानं सुगन्धिसलिलैः सह ॥ ९७ ॥

चन्द्राचन्दनकस्तूरीकालागुरुभिरुच्यते ।

अष्टाङ्गप्रणिपातन्तु कथितं वन्दनं प्रिये ॥ ९८ ॥

एतच्चराचरं सर्वं क्षेत्रमित्यभिधीयते ।

तत् क्षेत्रं पालितं येन क्षेत्रपालः स उच्यते ॥ ९९ ॥

इति ते कथिता किञ्चिद् गुरुनामादिवासना ।

समासेन महेशानि यो जानाति स पूजकः ॥ १०० ॥

रहस्यातिरहस्यानां रहस्योऽयं महेश्वरि ।

ऊर्ध्वाम्नायोऽयमाख्यातः समासेन सविस्तरात् ॥ १०१ ॥

कुलार्णवमिदं शास्त्रं योगिनीनां हृदि स्थितम् ।

प्रकाशितं मया चाद्य गोपनीयं प्रयत्नतः ॥ १०२ ॥

पुस्तकञ्च महेशानि पशुगेहे न निक्षिपेत् ।

न दद्यात् पशुहस्ते च न पठेत् पशुसन्निधौ ।

न पठेदासवोल्लासं ग्रन्थं भूमौ न निक्षिपेत् ॥ १०३ ॥

नित्यं सम्पूजयेद्भक्त्या जानीयाद् गुरुवक्त्रतः ।

नापुत्राय प्रवक्तव्यं नाशिष्याय कदाचन ॥ १०४ ॥

स्नेहाल्लोभाद्भयादुक्त्वा सोऽचिरान्नश्यति ध्रुवम् ।

देवि यद्विद्यते प्राज्ञे तत्तत् किञ्चिन्मयोदितम् ॥ १०५ ॥

साधकानां हितार्थाय भुक्तिमुक्तिफलेषिणाम् ।

यश्चोर्ध्वाम्नायमाहात्म्यं पठेत् श्रीचक्रसन्निधौ ॥ १०६ ॥

भक्त्या परमया देवि यः शृणोति स कौलिकः ।

व्रतं स्नानं तपस्तीर्थं यज्ञदेवार्चनादिषु ॥ १०७ ॥

तत् फलं कोटिगुणितं लभते नात्र संशयः ।

त्वत्सन्निधौ सन्निवसेन्नात्र कार्या विचारणा ॥ १०८ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे काम्यकर्मकथनं नाम सप्तदशोल्लासः ॥ १७ ॥

"https://sa.wikisource.org/w/index.php?title=कुलार्णवतन्त्रम्&oldid=407635" इत्यस्माद् प्रतिप्राप्तम्