कुलार्णवतन्त्रम्
- ॥ श्रीः ॥
- कुलार्णवतन्त्रम्
अथ प्रथमोल्लासः
[सम्पाद्यताम्]कैलासशिखरासीनं देवदेवं जगद्गुरुम् ।
पप्रच्छेशं परानन्दं पार्वती परमेश्वरम् ॥ १ ॥
श्रीदेव्युवाच
भगवन् देवदेवेश पञ्चक्रतुविधायक ।
सर्वज्ञ भक्तिसुलभ शरणागतवत्सल ॥ २ ॥
कुलेश परमेशान करुणामृतवारिधे ।
असारे घोरसंसारे सर्वदुःखमलीमसाः ॥ ३ ॥
नानाविधशरीरस्था अनन्ता जीवराशयः ।
जायन्ते च मिरयन्ते च तेषां मोक्षो न विद्यते ॥ ४ ॥
सदा दुःखातुरा देव न सुखी विद्यते क्वचित् ।
केनोपायेन देवेश मुच्यते वद मे प्रभो ॥ ५ ॥
श्रीईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण संसाराद् मुच्यते नरः ॥ ६ ॥
अस्ति देविं परब्रह्मस्वरूपो निष्कलः शिवः ।
सर्वज्ञः सर्वकर्त्ता च सर्वेशो निर्मलोऽद्वयः ॥ ७ ॥
स्वयं ज्योतिरनाद्यन्तो निवीकारः परात् परः ।
निर्गुणः सच्चिदानन्दस्तदंशा जीवसंज्ञकाः ॥ ८ ॥
अनाद्यविद्योपहिता यथाग्नौ विस्फुलिङ्गकाः ।
गर्भाद्युपाधिसंभिन्नाः कर्मभिः करणादिभिः ॥ ९ ॥
सर्वदुःखप्रदैः स्वीयपुण्यपापैनीयन्त्रिताः ।
तत्तज्जातियुतं देहम् आयुर्भोगञ्च कर्मजम् ॥ १० ॥
प्रतिजन्म प्रपद्यन्ते मानुषा मूढचेतसः ।
सूक्ष्मलिङ्गशरीरन्तदामोक्षादक्षयं प्रिये ॥ ११ ॥
स्थावराः क्रिमयश्चाब्जाः पक्षिणः पशवो नराः।
धामीकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम् ॥ १२ ॥
चतुवीधशरीराणि धृत्वा धृत्वा सहस्रशः ।
सुकृतान्मानवो भूत्वा ज्ञानी चेन्मोक्षमाप्नुयात् ॥ १३ ॥
चतुरशीतिलक्षेषु शरीरेषु शरीरिणाम् ।
न मानुष्यं विना यत्र तत्त्वज्ञानं तु लभ्यते ॥ १४ ॥
अत्र जन्मसहस्रेषु सहस्रैरपि पार्वति ।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसञ्चयात् ॥ १५ ॥
सोपानभूतं मोक्षस्य मानुष्यं प्राप्य दुर्लभम् ।
यस्तारयति नात्मानं तस्मात् पापतरोऽत्र कः ॥ १६ ॥
ततश्चाप्युत्तमं जन्म लब्ध्वा चेन्द्रियसौष्ठवम् ।
न वेत्त्यात्महितं यस्तु स भवेत् आत्मघातकः ॥ १७ ॥
विना देहेन कस्यापि पुरुषार्थो न विद्यते ।
तस्माद्देहधनं प्राप्य पुण्यकर्माणि साधयेत् ॥ १८ ॥
रक्षेत् सर्वात्मनात्मानम् आत्मा सर्वस्य भाजनम् ।
रक्षणे यत्नमातिष्ठेत् यावत्तत्त्वं न पश्यति ॥ १९ ॥
पुनर्ग्रामाः पुनः क्षेत्रं पुनवीत्तं पुनर्गृहम् ।
पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः ॥ २० ॥
शरीररक्षणायासः क्रियते सर्वदा जनैः ।
नहीच्छन्ति तनुत्यागमपि कुष्ठादिरोगतः ॥ २१ ॥
तद्गोपितं स्याद् यत्नेन धर्मो ज्ञानार्थमेव च ।
ज्ञानञ्च ध्यानयोगार्थं सोऽचिरात् परिमुच्यते ॥ २२ ॥
आत्मैव यदि नात्मानमहितेभ्यो निवारयेत् ।
कोऽन्यो हितकरस्तस्मादात्मानं तारयिष्यति ॥ २३ ॥
इहैव नरकव्याधेश्चिकित्सां न करोति यः ।
गत्वा निरौषधं स्थानं व्याधिस्थः किं करिष्यति ॥ २४ ॥
सुदीप्त भवने को वा कूपं खनति दुर्मतिः ।
यावत्तिष्ठति देहोऽयं तावत्तत्त्वं समभ्यसेत् ॥ २५ ॥
व्याघ्रीवास्ते जरा चायुर्याति भिन्नघटाम्बुवत् ।
निघ्नन्ति रिपुवद्रोगास्तस्माच्छ्रेयः समाचरेत् ॥ २६ ॥
यावन्नाश्रयते दुःखं यावन्नायान्ति चापदः ।
यावन्नेन्द्रियवैकल्यं तावच्छ्रेयः समाचरेत् ॥ २७ ॥
कालो न ज्ञायते नानाकार्यैः संसारसम्भवैः ।
सुखदुःखरतो जन्तुर्न वेत्ति हितमात्मनः ॥ २८ ॥
जडानार्त्तान्मृतानापद्गतान् दृष्ट्वाऽतिदुःखितान् ।
लोको मोहसुरां पीत्वा न विभेति कदाचन ॥ २९ ॥
सम्पदः स्वप्नसङ्काशा यौवनं कुसुमोपमम् ।
तडिच्चञ्चलमायुश्च कस्य स्याज्जगतो धृतिः ॥ ३० ॥
शतं जीवितमत्यल्पं निद्रा स्यादर्द्धहारिणी ।
बाल्यरोगजरादुःखैरर्द्धं तदपि निष्फलम् ॥ ३१ ॥
प्रारब्धव्ये निरुद्योगो जागर्त्तव्ये सुषुप्तकः ।
विश्वस्तव्यो भयस्थाने घातकैः किं न हन्यते ॥ ३२ ॥
तोयफेनसमे देहे जीवे शकुनिवत् स्थिते ।
अनित्येऽप्रियसंसारे कथं तिष्ठन्ति निर्भयाः ॥ ३३ ॥
अहिते हितबुद्धिः स्यादध्रुवे ध्रुवचिन्तकः ।
अनर्थं चार्थविज्ञानी स्वमृत्युं यो न वेत्ति च ॥ ३४ ॥
पश्यन्नपि न पश्येत् स शृण्वन्नपि न बुध्यति ।
पठन्नपि न जानाति तव मायाविमोहितः ॥ ३५ ॥
सन्निमज्जज्जगदिदं गम्भीरे कालसागरे ।
मृत्युरोगजराग्राहे न किञ्चिदपि बुध्यति ॥ ३६ ॥
प्रतिक्षणमयं कायो जीर्यमाणो न लक्ष्यते ।
आमकुम्भ इवाम्भःस्थो विशीर्णो नैव भाव्यते ॥ ३७ ॥
युज्यते वेष्टनं वायोराकाशस्य च खण्डनम् ।
ग्रथनञ्च तरङ्गाणामास्था नायुषि युज्यते ॥ ३८ ॥
पृथिवी दह्यते येन मेरुश्चापि विशीर्यते ।
शुष्यते सागरजलं शरीरे देवि का कथा ॥ ३९ ॥
अपत्यं मे कलत्रं मे धनं मे बान्धवश्च मे ।
लपन्तमिति मर्त्त्यं हि हन्ति कालवृको बलात् ॥ ४० ॥
इदं कृतमिदं कार्यमिदमन्यत् कृताकृतम् ।
एवमीहासमायुक्तं मृत्युरत्ति जनं प्रिये ॥ ४१ ॥
श्वःकार्यमद्य कर्त्तव्यं पूर्वाह्णे चापराह्निकम् ।
न हि प्रतीक्षते मृत्युः कृतं वाऽस्य न वा कृतम् ॥ ४२ ॥
जरादशीतपन्थानं प्रचण्डव्याधिसैनिकम् ।
मृत्युशत्रुमभिज्ञोऽसि आयान्तं किं न पश्यसि ॥ ४३ ॥
आशा सूचीविनिभीन्नं सिक्तं विषयसपीषा ।
रागद्वेषानले पक्वं मृत्युरश्नाति मानवम् ॥ ४४ ॥
बालांश्च यौवनस्थांश्च वृद्धान् गर्भगतानपि ।
सर्वांश्च हिंसते मृत्युरेवम्भूतमिदं जगत् ॥ ४५ ॥
ब्रह्माविष्णुमहेशादिदेवता भूतजातयः ।
नाशमेवानुधावन्ति तस्माच्छ्रेयः समाचरेत् ॥ ४६ ॥
स्वस्ववर्णाश्रमाचारलङ्घनाद् दुष्प्रतिग्रहात् ।
परस्त्रीधनलोभाच्च नॄणामायुःक्षयो भवेत् ॥ ४७ ॥
वेदशास्त्राद्यनभ्यासात्तथैव गुर्वनर्चनात् ।
नॄणामायुःक्षयो भूयादिन्द्रियाणामनिग्रहात् ॥ ४८ ॥
व्याधिराधिवीषं शस्त्रं ना सर्पः पशवो मृगाः ।
मरणं येन निद्र्दष्टं तेन गच्छन्ति जन्तवः ॥ ४९ ॥
जीवस्तृणजलौकेव देहाद्देहान्तरं व्रजेत् ।
सम्प्राप्य परमंशेन देहं त्यजति पूर्वजम् ॥ ५० ॥
बाल्ययौवनवृद्धत्वं यथा देहान्तरादिकम् ।
तथा देहान्तरप्राप्तिर्गृहाद्गृहमिवागतः ॥ ५१ ॥
जनाः कृत्वेह कर्माणि सुखदुःखानि भुञ्जते ।
परत्राज्ञानिनो देवि यान्त्यायान्ति पुनः पुनः ॥ ५२ ॥
इह यत् क्रियते कर्म तत् परत्रोपभुज्यते ।
सिक्तमूलस्य वृक्षस्य फलं शाखासु दृश्यते ॥ ५३ ॥
दारिद्र्यदुःखरोगाश्च बन्धनव्यसनानि च ।
आत्मापराधवृक्षस्य फलान्येतानि देहिनाम् ॥ ५४ ॥
निःसङ्ग एव मोक्षः स्याद्दोषाः सर्वे च सङ्गजाः ।
तस्मात् सङ्गं परित्यज्य तत्त्वनिष्ठः सुखी भवेत् ।
सङ्गाच्च चलते ज्ञानी चावश्यं किमुताल्पवित् ॥ ५५ ॥
सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते ।
सद्भः सह स कर्त्तव्यः सतां सङ्गो हि भेषजम् ॥ ५६ ॥
सत्सङ्गश्च विवेकश्च निर्मलं नयनद्वयम् ।
यस्य नास्ति नरः सोऽन्धः कथं न स्यादमार्गगः ॥ ५७ ॥
यावतः कुरुते जन्तुः सम्बन्धान्मनसः प्रियान् ।
तावन्तोऽस्य विशन्त्येते हृदये शोकशङ्कवः ॥ ५८ ॥
स्वदेहमपि जीवोऽयं त्यक्त्वा याति कुलेश्वरि ।
स्त्रीमातृपितृपुत्रादिसम्बन्धः केन हेतुना ॥ ५९ ॥
दुःखमूलो हि संसारः स यस्यास्ति स दुःखितः।
तस्य त्यागः कृतो येन स सुखी नापरः प्रिये ॥ ६० ॥
प्रभवं सर्वदुःखानामाश्रयं सकलापदाम् ।
आलयं सर्वपापानां संसारं वर्जयेत् प्रिये ॥ ६१ ॥
अबन्धबन्धनं घोरं मिश्रीकृतमहाविषम् ।
अशस्त्रखण्डनं देवि संसारासक्तचेतसाम् ॥ ६२ ॥
आदिमध्यावसानेषु सर्वं दुःखमिदं यतः ।
तस्मात् सन्त्यज्य संसारं तत्त्वनिष्ठः सुखी भवेत् ॥ ६३ ॥
लौहदारुमयैः पाशैर्दृढबन्धोऽपि मुच्यते ।
स्त्रीधनादिषु संसक्तो मुच्यते न कदाचन ॥ ६४ ॥
कुटुम्बचिन्तायुक्तस्य श्रुतशीलादयो गुणाः ।
अपक्वकुम्भजलवत् नश्यन्त्यङ्गेन केवलम् ॥ ६५ ॥
वञ्चिताशेषचित्तैस्तैनीत्यं लोको विनाशितः ।
हा हन्त विषयाहारैर्देहस्थेन्द्रियतस्करैः ॥ ६६ ॥
मांसलुब्धो यथा मत्स्यो लौहशंकुं न पश्यति ।
सुखलुब्धस्तथा देही यमबाधां न पश्यति ॥ ६७ ॥
हिताहितं ना जानन्तो नित्यमुन्मार्गगामिनः ।
कुक्षिपूरणनिष्ठा ये तेऽबुधा नारकाः प्रिये ॥ ६८ ॥
निद्रादिमैथुनाहाराः सर्वेषां प्राणिनां समाः ।
ज्ञानवान् मानवः प्रोक्तो ज्ञानहीनः पशुः प्रिये ॥ ६९ ॥
प्रभाते मलमूत्राभ्यां क्षुत्तृड्भ्यां मध्यगे रवौ ।
रात्रौ मदननिद्राभ्यां बाध्यन्ते मानवाः प्रिये ॥ ७० ॥
स्वदेहधर्मदारादिनिरताः सर्वजन्तवः ।
जायन्ते च मिरयन्ते च हा हन्ताज्ञानमोहिताः ॥ ७१ ॥
स्वस्ववर्णाश्रमाचारनिरताः सर्वमानवाः ।
न जानन्ति परं तत्त्वं मूढा नश्यन्ति पार्वति ॥ ७२ ॥
क्रियायासपराः केचित् क्रतुचर्यादि संयुताः ।
अज्ञानसंयुतात्मानः सञ्चरन्ति प्रतारकाः ॥ ७३ ॥
नाममात्रेण सन्तुष्टाः कर्मकाण्डरता नराः ।
मन्त्रोच्चारणहोमाद्यैर्भ्रामिताः क्रतुविस्तरैः ॥ ७४ ॥
एकभक्तोपवासाद्यैनीयमैः कायशोषणैः ।
मूढः परोक्षमिच्छन्ति तव मायाविमोहिताः ॥ ७५ ॥
देहदण्डनमात्रेण का मुक्तिरविवेकिनाम् ।
वल्मीकताडनाद्देवि मृतः किन्नु महोरगः ॥ ७६ ॥
धनाहारार्जने युक्ता दाम्भिका वेषधारिणः ।
भ्रमन्ति ज्ञानिवल्लोके भ्रामयन्ति जनानपि ॥ ७७ ॥
सांसारिकसुखासक्तं ब्रह्मज्ञोऽस्मीति वादिनम् ।
कर्मब्रह्मोभयभ्रष्टं तं त्यजेदन्त्यजं यथा ॥ ७८ ॥
गृहारण्यसमा लोके गतव्रीडा दिगम्बराः ।
चरन्ति गर्दभाद्याश्च योगिनस्ते भवन्ति किम् ॥ ७९ ॥
मृद्भस्मम्रक्षणाद् देवि मुक्ताः स्युर्यदि मानवाः ।
मृद्भस्मवासिनो ग्राम्याः किं ते मुक्ता भवन्ति हि ॥ ८०॥
तृणपर्णोदकाहाराः सततं वनवासिनः ।
हिरणादिमृगा देवि योगिनस्ते भवन्ति किम् ॥ ८१ ॥
आजन्ममरणान्तञ्च गङ्गादितटिनीस्थिताः ।
मण्डूकमत्स्यप्रमुखा व्रतिनस्ते भवन्ति किम् ॥ ८२ ॥
वदन्ति हृदयानन्दं पठन्ति शुकसारिकाः ।
जनानां पुरतो देवि विबुधाः किं भवन्ति हि ॥ ८३ ॥
पारावताः शिलाहाराः परमेश्वरि चातकाः ।
न पिबन्ति महीतोयं योगिनस्ते भवन्ति किम् ॥ ८४ ॥
शीतवातातपसहा भक्ष्याभक्ष्यसमाः प्रिये ।
तिष्ठन्ति शूकराद्याश्च योगिनस्ते भवन्ति किम् ॥ ८५ ॥
तस्मादित्यादिकं कर्म लोकवञ्चनकारकम् ।
मोक्षस्य कारणं साक्षात्तत्त्वज्ञानं कुलेश्वरि ॥ ८६ ॥
षड्दर्शनमहाकूपे पतिताः पशवः प्रिये ।
परमार्थं न जानन्ति पशुपाशानियन्त्रिताः ॥ ८७ ॥
वेदशास्त्रार्णवे घोरे ताड्यमाना इतस्ततः ।
कालोमीग्राहग्रस्ताश्च तिष्ठन्ति हि कुताकीकाः ॥ ८८ ॥
वेदागमपुराणज्ञः परमार्थं न वेत्ति यः ।
विडम्बकस्य तस्यापि तत् सर्वं काकभाषितम् ॥ ८९ ॥
इदं ज्ञानमिदं ज्ञेयमिति चिन्तासमाकुलाः ।
पठन्त्यहनीशं देवि परतत्त्वपराङ्मुखः ॥ ९० ॥
वाक्यच्छन्दोनिबन्धेन काव्यालङ्कारशोभिना ।
चिन्तया दुःखिता मूढास्तिष्ठन्ति व्याकुलेन्द्रियाः ॥ ९१॥
अन्यथा परमं तत्त्वं जनाः क्लिश्यन्ति चान्यथा ।
अन्यथा शास्त्रसद्भावो व्याख्यां कुर्वन्ति चान्यथा ॥ ९२ ॥
कथयन्त्युन्मनीभावं स्वयं नानुभवन्ति हि ।
अहङ्कारहताः केचिदुपदेशविवजीताः ॥ ९३ ॥
पठन्ति वेदशास्त्राणि विवदन्ति परस्परम् ।
न जानन्ति परं तत्त्वं दर्वी पाकरसं यथा ॥ ९४ ॥
शिरो वहति पुष्पाणि गन्धं जानाति नासिका ।
पठन्ति वेदशास्त्राणि दुर्लभो भाववेदकः ॥ ९५ ॥
तत्त्वमात्मस्थमज्ञात्त्वा मूढः शास्त्रेषु मुह्यति ।
गोपः कक्षगतं छागं कूपे पश्यति दुर्मतिः ॥ ९६ ॥
संसार मोहनाशाय शाब्दबोधो न हि क्षमः ।
न निवर्त्तेत तिमिरं कदाचिद्दीपवार्त्तया ॥ ९७ ॥
प्रज्ञाहीनस्य पठनम् अन्धस्यादर्शदर्शनम् ।
देवि प्रज्ञावतः शास्त्रं तत्त्वज्ञानस्य कारणम् ॥ ९८ ॥
अग्रतः पृष्ठतः केचित् पार्श्वयोरपि केचन ।
तत्त्वमीदृक् तादृगिति विवदन्ति परस्परम् ।
सद्विद्यादानशूराद्यैर्गुणैवीख्यातमानवाः ॥ ९९ ॥
प्रत्यक्षग्रहणं नास्ति वार्त्तया ग्रहणं कुतः ।
एवं ये शास्त्रसम्मूढास्ते दूरस्था न संशयः ॥ १०० ॥
इदं ज्ञानमिदं ज्ञेयं सर्वतः श्रोतुमिच्छति ।
देवि वर्षसहस्रायुः शास्त्रान्तं नैव गच्छति ॥ १०१ ॥
वेदाद्यनेकशास्त्राणि स्वल्पायुवीघ्नकोटयः ।
तस्मात् सारं विजानीयात् क्षीरं हंस इवाम्भसः ॥ १०२ ॥
अभ्यस्य सर्वशास्त्राणि तत्त्वं ज्ञात्वा हि बुद्धिमान् ।
पलालमिव धान्यार्थी सर्वशास्त्रं परित्यजेत् ॥ १०३ ॥
यथामृतेन तृप्तस्य नाहारेण प्रयोजनम् ।
तत्त्वज्ञस्य तथा देवि न शास्त्रेण प्रयोजनम् ॥ १०४ ॥
न वेदाध्ययनान्मुक्तिर्न शास्त्रपठनादपि ।
ज्ञानादेव हि मुक्तिः स्यान्नान्यथा वीरवन्दिते ॥ १०५ ॥
नाश्रमाः कारणं मुक्तेर्दर्शनानि न कारणम् ।
तथैव सर्वशास्त्राणि ज्ञानमेव हि कारणम् ॥ १०६ ॥
मुक्तिदा गुरुवागेका विद्याः सर्वा विडम्बकाः ।
काष्ठभारश्रमादस्मादेकं सञ्जीवनं परम् ॥ १०७ ॥
अद्वैतन्तु शिवेनोक्तं क्रियायासविवजीतम् ।
गुरुवक्त्रेण लभ्येत नान्यथागमकोटिभिः ॥ १०८ ॥
आगमोत्थं विवेकोत्थं द्विधा ज्ञानं प्रचक्षते ।
शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥ १०९ ॥
अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे ।
मम तत्त्वं च जानन्ति द्वैताद्वैतविवजीतम् ॥ ११० ॥
द्वे पदे बन्धमोक्षाय ममेति निर्ममेति च ।
ममेति बाध्यते जन्तुर्न ममेति विमुच्यते ॥ १११ ॥
तत् कर्म यन्न बन्धाय विद्या सा या विमुक्तये ।
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ ११२ ॥
यावत् कामादि दीप्येत यावत् संसारवासना ।
यावदिन्द्रियचापल्यं तावत्तत्त्वकथा कुतः ॥ ११३ ॥
यावत् प्रयत्नवेगोऽस्ति यावत् सङ्कल्पकल्पना ।
यावन्न मनसः स्थैर्यं तावत्तत्त्वकथा कुतः ॥ ११४ ॥
यावद्देहाभिमानश्च ममता यावदस्ति हि ।
यावन्न गुरुकारुण्यं तावत्तत्त्वकथा कुतः ॥ ११५ ॥
तावत्तपो व्रतं तीथर्ं जपहोमार्च्चनादिकम् ।
वेदशास्त्रागमकथा यावत्तत्त्वं न विन्दते ॥ ११६ ॥
तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।
तत्त्वनिष्ठो भवेद्देवि यदीच्छेन्मोक्षमात्मनः ॥ ११७ ॥
धर्मज्ञानसुपुष्पस्य स्वर्गलोक फलस्य च ।
तापत्रयात्तीसन्तप्तश्छायां मोक्षतरोः श्रयेत् ॥ ११८ ॥
बहुनात्र किंमुक्तेन रहस्यं शृणु पार्वति ।
कुलधर्ममृते मुक्तर्नास्ति सत्यं न संशयः ॥ ११९ ॥
तस्माद्वदामि तत्त्वन्ते विज्ञाय श्रीगुरोर्मुखात् ।
सुखेन मुच्यते देवि घोरसंसारबन्धनात् ॥ १२० ॥
इति ते कथिता काचिज्जीवजातिस्थितिः प्रिये ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १२१ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे जीव- स्थितिकथनं नाम प्रथमोल्लासः ॥ १ ॥
अथ द्वितीयोल्लासः
[सम्पाद्यताम्]श्रीदेव्युवाच कुलेश श्रोतुमिच्छामि सर्वजीवदयानिधे ।
कुलधर्मस्त्वया देव सूचितो न प्रकाशितः ॥ १ ॥
तस्य धर्मस्य माहात्म्यं सर्वधर्मोत्तमस्य च ।
ऊद्र्ध्वाम्नायस्य माहात्म्यं तन्मतं वद मे प्रभो ।
वद मे परमेशान यदि तेऽस्ति कृपा मयि ॥ २ ॥
श्री ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण योगिनीनां प्रियो भवेत् ॥ ३ ॥
ब्रह्माविष्णुगुहादीनां न मया कथितं पुरा ।
कथयामि तव स्नेहात् शृणुष्वैकाग्रमानसा ॥ ४ ॥
पारम्पर्ययक्रमायातं पञ्चवक्त्रेषु संस्थितम् ।
अकथ्यं परमार्थेन तथापि कथयामि ते ॥ ५ ॥
त्वयापि गोपितव्यं हि न देयं यस्य कस्यचित् ।
देयं भक्ताय शिष्याय अन्यथा पतनं भवेत् ॥ ६ ॥
सर्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं परम् ।
वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम् ॥ ७ ॥
दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् ।
सिद्धान्तादुत्तमं कौलं कौलात् परतरं न हि ॥ ८ ॥
गुह्याद् गुह्यतरं देवि सारात् सारं परात् परम् ।
साक्षात् शिवप्रदं देवि कर्णाकणीगतं कुलम् ॥ ९ ॥
मथित्वा ज्ञानदण्डेन वेदागममहार्णवम् ।
सारज्ञेन मया देवि कुलधर्मः समुद्धृतः ॥ १० ॥
एकतः सकला धर्मा यज्ञतीर्थव्रतादयः ।
एकतः कुलधर्मश्च तत्र कौलोऽधिकः प्रिये ॥ ११ ॥
प्रविशन्ति यथा नद्यः समुद्रम् ऋजुवक्रगाः ।
तथैव विविधा धर्माः प्रविष्टाः कुलमेव हि ॥ १२ ॥
यथा हस्तिपदे लीनं सर्वप्राणीपदं भवेत् ।
दर्शनानि च सर्वाणि कुल एव तथा प्रिये ॥ १३ ॥
यदा जाम्बुनदानाञ्च सदृशं लौहमस्ति चेत् ।
तदा च कुलधर्मेण समयोऽन्यः समो भवेत् ॥ १४ ॥
यथामरतरङ्गिण्या न समाः सकलापगाः ।
तथैव समयाः सर्वे कुलधर्मेण नो समाः ॥ १५ ॥
मेरुसर्षपयोर्यद्वत् सूर्यखद्योतयोर्यथा ।
तथान्यसमयस्यापि कुलस्य महदन्तरम् ॥ १६ ॥
अस्ति चेत्त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत् ।
कुलेन समधर्मस्तु तथापि न कदाचन ॥ १७ ॥
कुलधर्मं हि मोहेन योऽन्यधर्मेण दुर्मतिः ।
बद्धः संसारपाशेन सोऽन्त्यजानां प्रियो भवेत् ॥ १८ ॥
यो वा कुलाधिकं धर्ममज्ञानाद्वदति प्रिये ।
ब्रह्महत्याधिकं पापं स प्राप्नोति न संशयः ॥ १९ ॥
कुलधर्मप्रवहणं समारुह्य नरोत्तमः ।
स्वर्गादि द्वीपान्तरं गत्वा मोक्षरत्नं समश्नुते ॥ २० ॥
दर्शनेषु च सर्वेषु चिराभ्यासेन मानवाः ।
मोक्षं लभन्ते कौले तु सद्य एव न संशयः ॥ २१ ॥
बहुनात्र किमुक्तेन शृणु मत्प्राणवल्लभे ।
न कौलसमधर्मोऽस्ति त्वां शपे कुलनायिके ॥ २२ ॥
योगी चेन्नैव भोगी स्याद्भोगी चेन्नैव योगवित् ।
भोगयोगात्मकं कौलं तस्मात् सर्वाधिकं प्रिये ॥ २३ ॥
भोगो योगायते साक्षात् पातकं सुकृतायते ।
मोक्षायते च संसारः कुलधर्मे कुलेश्वरि ॥ २४ ॥
ब्रह्मेन्द्राच्युतरुद्रादिदेवतामुनिपुङ्गवाः ।
कुलधर्मपरा देवि मानुषेषु च का कथा ॥ २५ ॥
विहाय सर्वधर्मांश्च नानागुरुमतानि च ।
कुलमेव विजानीयाद्यदीच्छेत् सिद्धिमात्मनः ॥ २६ ॥
पूर्वजन्मकृताभ्यासात् कुलज्ञानं प्रकाशते ।
स्वप्नोत्थित प्रत्ययवदुपदेशादिकं विना ॥ २७ ॥
जन्मान्तरसहस्रेषु या बुद्धिवीहिता नृणाम् ।
तामेव लभते जन्तुरुपदेशो निरर्थकः ॥ २८ ॥
शैववैष्णवदौर्गार्कगाणपत्येन्दुसम्भवैः ।
मन्त्रैवीशुद्धचित्तस्य कुलज्ञानं प्रकाशते ॥ २९ ॥
सर्वधर्माश्च देवेशि पुनरावर्त्तकाः स्मृताः ।
कुलधर्मस्थिता ये च ते सर्वेऽप्यनिवर्त्तकाः ॥ ३० ॥
पुराकृततपोदानयज्ञतीर्थजपव्रतैः ।
क्षीणांहसां नृणां देवि कुलज्ञानं प्रकाशते ॥ ३१ ॥
त्वमहं देवि कल्याणि यस्य तुष्टावुभावपि ।
देवतागुरुभक्त्या च कुलज्ञानं प्रकाशते ॥ ३२ ॥
शुद्धचित्तस्य शान्तस्य कमीणो गुरुसेविनः ।
अतिभक्तस्य गुह्यस्य कुलज्ञानं प्रकाशते ॥ ३३ ॥
श्रीगुरौ कुलशास्त्रेषु कौलिकेषु कुलाश्रये ।
यस्य भक्तिर्दृढा तस्य कुलज्ञानं प्रकाशते ॥ ३४ ॥
श्रद्धा विनयहर्षाद्यैः सदाचारदृढव्रतैः ।
गुर्वाज्ञापालकैर्धर्मैः कुलज्ञानमवाप्यते ॥ ३५ ॥
अनर्हे कुलविज्ञानं न तिष्ठति कदाचन ।
तस्मात् परीक्ष्य वक्तव्यं कुलज्ञानं मयोदितम् ॥ ३६ ॥
न ब्रूयात् कुलधर्मं तमयोग्ये कुलशासनम् ।
आज्ञाभङ्गञ्च यः कुर्याद्देवताशापमाप्नुयात् ॥ ३७ ॥
आराध्य समयाचारं कुलज्ञानं वदेद्यदि ।
स गुरुश्चापि शिष्यश्च योगिनीनां भवेत् पशुः ॥ ३८ ॥
बोधयित्वा गुरुः शिष्यं कुलज्ञानं प्रकाशयेत् ।
लभेते तावुभौ साक्षाद्योगिनीवीरमेलनम् ॥ ३९ ॥
अनायासेन संसारसागरं यस्तितीर्षति ।
कुलधर्ममिमं ज्ञात्वा मुच्यते नात्र संशयः ॥ ४० ॥
कुलधर्ममहामार्गगन्ता मुक्तिपुरीं व्रजेत् ।
अचिरान्नात्र सन्देहस्तस्मात् कौलं समाश्रयेत् ॥ ४१ ॥
कुलशास्त्रमनादृत्य पशुशास्त्राणि योऽभ्यसेत् ।
स्वगृहे पायसं त्यक्त्वा भिक्षामटति पार्वति ॥ ४२ ॥
विहाय कुलधर्म यः परधर्मपरो भवेत् ।
करस्थं रत्नमुत्सृज्य दूरस्थं काचमीहते ॥ ४३ ॥
संत्यज्य कुलमन्त्राणि पशुमन्त्राणि यो जपेत् ।
स धान्यराशिमुत्सृज्य पांसुराशिं जिघृक्षति ॥ ४४ ॥
कुलान्वयं समुत्सृज्य योऽन्यमन्वयमीक्षते ।
तडागादिव तृष्णार्त्तो मृगतृष्णां प्रधावति ॥ ४५ ॥
यथेन्द्राजालजा मायाः क्षणमेव सुखावहाः ।
श्रीकौलादन्यसमयास्तादृशाः कुलनायिके ॥ ४६ ॥
कुलधर्ममजानन् यः संसारान्मोक्षमिच्छति ।
पारावारमपारं स पाणिभ्यां तर्त्तुमिच्छति ॥ ४७ ॥
यो वान्यदर्शनेभ्यश्च भुक्तिं मुक्तिञ्च काङ्क्षति ।
स्वप्नलब्धधनेनैव धनवान् स भवेत्तदा ॥ ४८ ॥
शुक्तौ रजतविभ्रान्तिर्यथा जायेत पार्वति ।
तथान्यसमयेभ्यश्च भुक्तिर्मुक्तिः प्रकाशते ॥ ४९ ॥
सर्वकर्मविहीनोऽपि वर्णाश्रमविवजीतः ।
कुलनिष्ठः कुलेशानि भुक्तिमुक्त्योः स भाजनम् ॥ ५०॥
कुलज्ञानविहीनोऽपि कुलभक्त्याश्रयो भवेत् ।
सोऽपि सद्गतिमाप्नोति किमुतास्य परायणः ॥ ५१ ॥
कुलधर्मो हतो हन्ति रक्षितो रक्षति प्रिये ।
पूजितः पूजयत्याशु तस्मात्तं न परित्यजेत् ॥ ५२ ॥
निन्दन्तु बान्धवाः सर्वे त्यजन्तु स्त्रीसुतादायः ।
जना हसन्तु मां दृष्ट्वा राजानो दण्डयन्तु वा ॥ ५३ ॥
सेवे सेवे पुनःसेवे त्वामेव परदेवते ।
त्वद्धर्म नैव मुञ्चामि मनोवाक्कायकर्मभिः ॥ ५४ ॥
एवमापद्गतस्यापि यस्य भक्तिः सुनिश्चला ।
स तु सम्पूज्यते देवैरमुत्र स शिवो भवेत् ॥ ५५ ॥
रोगदारिद्र्यदुःखाद्यैः पीडितोऽप्यनिशं शिवे ।
यस्त्वामुपास्ते भक्त्या स नरः सद्गतिमाप्नुयात् ॥ ५६ ॥
जनाः स्तुवन्तु निन्दन्तु लक्ष्मीर्गच्छतु तिष्ठतु ।
मृतिरद्य युगान्ते वा कुलं नैव परित्यजेत् ॥ ५७ ॥
नापि लोभान्न च क्रोधान्न द्वेषान्न च मत्सरात् ।
न कामन्न भयाद्वापि कुलधर्मं परित्यजेत् ॥ ५८ ॥
यो जन्तुर्नार्चयेत्त्वान्तु कुलधर्मसमाश्रितः ।
क्लिश्यते जातमात्रेण भूतारिणात्मशत्रुणा ॥ ५९ ॥
पुलाका इव धान्येषु पतंगा इव जन्तुषु ।
बुद्बुदा इव तोयेषु ये कौलविमुखा हि ते ॥ ६० ॥
तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।
स जीवति मनो यस्य कुलधर्मे व्यवस्थितम् ॥ ६१ ॥
कुलधर्मविहीनस्य दिनान्यायान्ति यान्ति च ।
स लोहकारभस्रेवश्वसन्नपि न जीवति ॥ ६२ ॥
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
कुलेश्वरि कुलाज्ञस्य तत् पशोरिव जीवितम् ॥ ६३ ॥
विद्वानपि च मूर्खोऽसौ धामीको वाप्यधामीकः ।
व्रतस्थोऽप्यव्रतस्थो वा यः कौलविमुखो जनः ॥ ६४ ॥
जातास्त एव जगति जन्तवः साधु जीविनः ।
कुलधर्मपरा देवि शेषाश्च द्वारगर्दभाः ॥ ६५ ॥
स पुमानुच्यते सद्भिः कुलधर्मपरायणः ।
अपरस्तु परं सत्यमस्थिकूटत्वचावृतः ॥ ६६ ॥
चतुर्वेदी कुलाज्ञानी श्वपचादधमः प्रिये ।
श्वपचोऽपि कुलज्ञानी ब्राह्मणादतिरिच्यते ॥ ६७ ॥
गुरुकारुण्ययुक्तस्तु दीक्षानिर्धूतपातकः ।
कुलपूजारतो देवि सोऽयं कौलो न चेतरेः ॥ ६८ ॥
यः कौलिकः कुलज्ञानं न पश्यति न विन्दति ।
न पूजयति धिक् तस्य तत् काकस्येव जीवितम् ॥ ६९ ॥
ते धन्याः पुण्यकर्माणस्ते सन्तस्ते च योगिनः ।
येषां भाग्यवशाद्देवि कुलज्ञानं प्रकाशते ॥ ७० ॥
ते वन्द्यास्ते महात्मानः कृतार्थस्ते नरोत्तमाः ।
येषामुत्पद्यते चित्ते कुलज्ञानं मयोदितम् ॥ ७१ ॥
सर्वप्रकाशगमनं सर्वतीर्थावगाहनम् ।
यत् सर्वयज्ञाचरणं कुलधर्मप्रवेशनम् ॥ ७२ ॥
प्रविशन्ति कुलं धर्म ये वै सुकृतिनो नराः ।
ते पुनर्जननीगर्भ न विशन्ति कदाचन ॥ ७३ ॥
प्रसङ्गेनापि यः कश्चित् कुलं कुलमितीरयेत् ।
कुल तत् पावनं देवि भवति त्वदनुग्रहात् ।
कुलज्ञानस्य कुलेशानि नान्यधर्मैः प्रयोजनम् ॥ ७४ ॥
कुलेशि कुलनिष्ठानां कौलिकानां महात्मनाम् ।
ददामि परमं ज्ञानं चान्तकाले न संशयः ॥ ७५ ॥
चिरायासाल्पफलदं काङ्क्षते समयं जनाः ।
सुखेन सर्वफलदं कुलं कोऽपि त्यजत्यहो ॥ ७६ ॥
कुलज्ञो हि च सर्वज्ञो वेदशास्त्रोज्झितोऽपि वा ।
वेदशास्त्रागमज्ञोऽपि कुलाज्ञस्त्वज्ञ एव हि ॥ ७७ ॥
जानन्ति कुलमाहात्म्यं त्वद्भक्ता एव नापरे ।
चकोरा एव जानन्ति नान्ये चन्द्रगतां रुचिम् ॥ ७८ ॥
कुलज्ञा एव तुष्यन्ति श्रुत्वा कुलकथां प्रिये ।
स्वल्पा नद्यो विवर्द्धन्ते ज्योत्स्नया किं समुद्रवत् ॥ ७९ ॥
नान्यधर्ममवेक्षन्ते कौलिकाः सारवेदिनः ।
भृङ्गाः पुष्पान्तरं लुब्धा मन्दारामोदसेविनः ॥ ८० ॥
मानयन्ते हि सारज्ञाः कुलधर्म न चेतरे ।
शिवः शिरसि धत्तेऽब्जं सैंहिकेया गिलत्यहो ॥ ८१ ॥
अभिज्ञा एव जानन्ति नाभिज्ञाः कुलर्दशनम् ।
जलमिश्रपयःपानं बकः किं वेत्ति हंसवत् ॥ ८२ ॥
शिवशक्तिमयो लोको लोके कौलं प्रतिष्ठितम् ।
तस्मात् सर्वाधिकं कौलं सर्वसाधारणं कथम् ॥ ८३ ॥
षड्दर्शनानि मेऽङ्गानि पादो कुक्षिः करौ शिरः ।
तेषु भेदन्तु यः कुर्यान्ममाङ्गं च्छेदयेत्तु सः ॥ ८४ ॥
एतान्येव कुलस्यापि षडङ्गानि भवन्ति हि ।
तस्माद्वेदात्मकं शास्त्रं विद्धि कौलात्मकं प्रिये ॥ ८५ ॥
दर्शनेष्वखिलेष्वेव फलदं चैकदैवतम् ।
भुक्तिमुक्तिप्रदं नृणां कुलेऽस्मिन् दैवतं प्रिये ॥ ८६ ॥
लोकधर्मविरुद्धञ्च सिद्धयोगीश्वरि प्रिये ।
कुलं प्रमाणतां याति प्रत्यक्षफलदं यतः ॥ ८७ ॥
प्रत्यक्षञ्च प्रमाणाय सर्वेषां प्राणिनां प्रिये ।
उपलब्धिबलात्तस्य हताः सर्वे कुताकीकाः ॥ ८८ ॥
परोक्षं को नु जानीते कस्य किं वा भविष्यति ।
यद्वा प्रत्यक्षफलदं तदेवोत्तमदर्शनम् ॥ ८९ ॥
कुलधर्ममिमं ज्ञात्वा मुच्यन्ते सर्वमानवाः ।
इति मत्वा महेशानि मया कौलं विगहीतम् ॥ ९० ॥
त्वत्कारुण्यविहीनानां कुलज्ञानविरोधिनाम् । पशुनामनभिज्ञानां कुलधर्मो विगहीतः ॥ ९१ ॥
यस्य जन्मान्तरे पापकर्मबन्धोऽधिको भवेत् ।
न तस्य गुरुकारुण्यं कुलज्ञानञ्च जायते ॥ ९२ ॥
यथान्धो नैव पश्यन्ति सूर्य सर्वप्रकाशकम् ।
तथा कुलं न जानन्ति तव मयाविमोहिताः ॥ ९३ ॥
शैववैष्णवसौरादि दर्शनान्यपि भक्तितः ।
भजन्ते मानवा नित्यं वृथायासफलानि च ॥ ९४ ॥
वेदशास्त्रागमैः प्रोक्तं भोगमोक्षैकसाधनम् ।
मूढा निन्दन्ति हा हन्त मत्प्रियं तव दर्शनम् ॥ ९५ ॥
भ्रामिता हि मया देवि पशवः शास्त्रकोटिषु ।
कुलधर्म न जानन्ति वृथा ज्ञानाभिमानिनः ॥ ९६ ॥
पशुशास्त्राणि सर्वाणि मयैव कथितानि हि ।
मूर्त्त्यन्तरन्तु गत्वैव मोहनाय दुरात्मनाम् ॥ ९७ ॥
महापापवशान्नृणां तेषु वाञ्छाभिजायते ।
तेषाञ्च सदागतिर्नास्ति कल्पकोटिशतैरपि ॥ ९८ ॥
प्रेर्यमाणोऽपि पापात्मा कुले नैव प्रवर्त्तते ।
वार्यमाणोऽपि पुण्यात्मा कुलमेवाभिलम्वते ॥ ९९ ॥
कुलधर्मेण देवत्वं देवाः सम्प्रतिपेदिरे ।
मुनियोगीश्वराद्याश्च सुसिद्धिं परमां गताः ॥ १०० ॥
पशुव्रतादिनिरताः सुलभा दाम्भिका भुवि ।
ये कौलमेव सेवन्ते ते महान्तोऽति दुर्लभाः ॥ १०१ ॥
मानवा बहवः सन्ति मिथ्यातत्त्वार्थवेदिनः ।
दुर्लभोऽयं महेशानि कुलतत्त्वविशारदः ॥ १०२ ॥
यथा रोगातुराः केचिन्मानवाः कुलनायिके ।
दिव्यौषधं न सेवन्ते महाव्याधिविनाशनम् ॥ १०३ ॥
तद्व्याधिवर्द्धनापथ्यं कुर्वन्ति हि कुभेषजम् ।
तथैव जन्ममरणकृतं सांसारिकीं क्रियाम् ॥ १०४ ॥
समाचरन्ति सततं त्वत्कारुण्यविवजीताः ।
न भजन्ते कुलं धर्म भववन्धविमोचनम् ॥ १०५ ॥
यथा चारण्यजातांस्तु मरीचादीन् वणिग्जनान् । मोहतो मानवाः प्रीत्या याचन्ते कुलनायिके ॥ १०६ ॥
अनर्घ्याणि च रत्नानि न याचन्ते हि केचन ।
तथैव पशुशास्त्राणि कर्मपाशफलानि च ॥ १०७ ॥
इति पृच्छन्ति मूर्खास्ते तव मायाविमोहिता ।
कुलधर्म न पृच्छन्ति भुक्तिमुक्तिफलप्रदम् ॥ १०८ ॥
कस्तूरीं कर्दमधिया कर्पूरं लवणेच्छया ।
शार्करं शकराभ्रान्त्या मणिं काचमनीषया ॥ १०९॥
यथादृष्टं न मन्यन्ते करस्थमपि पामराः ।
तथा कौलं न जानन्ति त्वत्प्रसादविवजीताः ॥ ११० ॥
अहो मोहस्य माहात्म्यं त्वन्मायाजनितस्य च ।
किमज्ञानपि देवेशि मोहयेदमरानपि ॥ १११ ॥
पेयं मद्यं पलं खाद्यं समालोक्य प्रियामुखम् ।
इत्येवाचरणं जाप्यं परिप्राप्यं परम्रपदम् ॥ ११२ ॥
गुरुकारुण्यसंलभ्यमीदृशं कुलदर्शनम् ।
त्वद्भक्ता एव जानन्ति नेतरे भुक्तिमुक्तिदम् ॥ ११३ ॥
गुरूपदेशरहिता महान्त इति केचन ।
मोहयन्ति जनान् सर्वान् स्वयं पूर्वविमोहिताः ॥ ११४ ॥
दुराचारपराः केचिद्वाचयन्ति च पामराः ।
कथंभूतो भवेत् स्वामी सेवकाः स्युस्तथाविधाः ॥ ११५ ॥
बहवः कौलिकं धर्म मिथ्याज्ञानविडम्बकाः ।
स्वबुध्द्या कल्पयन्तीत्थं पारम्पर्यविवजीताः ॥ ११६ ॥
मद्यपानेन मनुजो यदि सिद्धं लभेत वै ।
मद्यपानरताः सर्वे सिद्धिं गच्छन्तु पामराः ॥ ११७ ॥
मांसभक्षणमात्रेण यदि पुण्या गतिर्भवेत् ।
लोके मासाशिनः सर्वे पुण्यभाजो भवन्ति हि ॥ ११८ ॥
शक्तिसम्भोगमात्रेण यदि मोक्षो भवेत वै ।
सर्वेऽपि जन्तवो लोके मुक्ताः स्युः स्त्रीनिषेवनात् ॥११९ ॥
कुलमार्गो महादेवि न मया निन्दितः क्वचित् ।
आचाररहिता येऽत्र निन्दितास्ते न चेतरे ॥ १२० ॥
अन्यथा कौलिके धर्मे आचारः कथितो मया ।
विचरन्त्यन्था देवि मूढाः पण्डितमानिनः ॥ १२१ ॥
कृपाणधारागमनात् व्याघ्रकण्ठावलम्बनात् ।
भुजङ्गधारणान्नूनमशक्यं कुलवर्त्तनम् ॥ १२२ ॥
वृथा पानन्तु देवेशि सुरापानं तदुच्यते ।
तत्महापातकं ज्ञेयं वेदादिषु निरूपितम् ॥ १२३ ॥
अनाघ्रेयमनालोक्यमस्पृश्यञ्चाप्यपेयकम् ।
मद्यं मंसं पशूनान्तु कौलिकानां महाफलम् ॥ १२४ ॥
अमेध्यानि द्विजातीनां मद्यान्येकादशैव तु ।
द्वादशन्तु महामद्यं सर्वेषामुत्तमोत्तमम् ॥ १२५ ॥
सुरा वै मलमन्नानां पाप्मा तु मलमुच्यते ।
तस्माद्ब्राह्मणराजन्यौ वैश्य न सुरां पिबेत् ॥ १२६॥
सुरादर्शनमात्रेण कुर्यात् सूर्यावलोकनम् ।
तत्समाघ्राणमात्रेण प्राणायामत्रयं चरेत् ॥ १२७ ॥
आजानुभ्यां भवेन्मग्नो जले चोपवसेदहः ।
ऊद्र्ध्व नाभेस्त्रिरात्रन्तु मद्यस्य स्पर्शने विधिः॥ १२८ ॥
सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत् ।
मुखे तया विनिर्दग्धे ततः शुद्धिमवाप्नुयात् ॥ १२९ ॥
मद्यस्पर्शादिदोषस्य प्रायश्चित्तविधिः स्मृतः ।
अविधानेन यो हन्यादात्मार्थं प्राणिनः प्रिये ॥ १३०॥
निवसेन्नरके घोरे दिनानि पशुरोमभिः ।
स मृतोऽपि दुराचारस्तिर्र्यग्योनिषु जायते ॥ १३१ ॥
अनुमन्ता विश्वसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्त्ता च खादिताऽष्टौ च घातकाः ॥ १३२ ॥
धनैवीक्रयिको हन्ति खादिता चोपभोगतः ।
घातको वध बन्धाभ्यां इत्येष त्रिविधो वधः ॥ १३३ ॥
मांससन्दर्शनं कृत्वा सुरादर्शनवच्चरेत् ।
तस्मादविधिना मांसं मद्यं न सेवते क्वचित् ॥ १३४ ॥
विधिना सेव्यते देवि तरसा त्वं प्रसीदसि ।
नाशयत्यपरिज्ञानात् सत्यमेव वरानने ॥ १३५ ॥
तृणं वाप्यविधानेन छेदयेन्न कदाचन ।
विधिना गां द्विजं वापि हत्या पापैर्न लिप्यते ॥ १३६ ॥
बहुनात्र किमुक्तेन सारमेकं शृणु प्रिये ।
जीवन्मुक्तिसुखोपायं कुलशास्त्रेषु गोपितम् ॥ १३७ ॥
यन्मुमुक्षोः फलं देवि कनकस्येव सौरभम् ।
कुलज्ञेऽप्यूर्ध्वविख्याते ज्ञानं तत्तदनुत्तमम् ॥ १३८ ॥
कुलशास्त्राणि सर्वाणि मयैवोक्तानि पार्वति ।
प्रमाणानि न सन्देहो न हन्तव्यानि हेतुभिः ॥ १३९ ॥
देवताभ्यः पितृभ्यश्च मधु वाता ऋतायते ।
स्वादिष्ठया मदिष्ठया क्षीरं सपीर्मधूदकम् ॥ १४० ॥
हिरण्यपावाः खादिश्च अबध्नन् पुरुषं पशुम् ।
दीक्षामुपेयादित्याद्याः प्रमाणं श्रुतयः प्रिये ॥ १४१ ॥
इत्येतत् कथितं किञ्चित् कुलमाहात्म्यमम्बिके ।
समासेन कुलशानि किं भूयः श्रोतुमिच्छसि ॥ १४२ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
कुलमाहात्म्यकथनं नाम द्वितीयोल्लासः ॥ २ ॥
अथ तृतीयोल्लासः
[सम्पाद्यताम्]श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि सर्वधर्मोत्तमोत्तमम् ।
ऊर्ध्वाम्नायञ्च तन्मन्त्रं माहात्म्यं वद मे प्रभो ॥ १ ॥
श्रीईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण देवता सुप्रसीदति ॥ २ ॥
न कदाचिन्मया प्रोक्तमितः पूर्व कुलेश्वरि ।
कथयामि तव स्नेहादूर्ध्वाम्नायं शृणु प्रिये ॥ ३ ॥
वेदशास्त्रपुराणानि प्रकाश्यानि कुलेश्वरि ।
शैवशाक्तागमाः सर्वे रहस्याः परिकीत्तीताः ॥ ४ ॥
रहस्यातिरहस्यानि कुलशास्त्राणि पार्वति ।
रहस्यातिरहस्यानां रहस्यमिदमम्बिके ॥ ५ ॥
ऊद्र्ध्वाम्नायस्य तत्त्वं हि पूर्णब्रह्मात्मकं परम् ।
सुगोपितं मया यत्नादिदानीन्तु प्रकाश्यते ॥ ६ ॥
मम पञ्चमुखेभ्यश्च पञ्चाम्नायाः समुद्गताः ।
पूर्वश्च पश्चिमश्चैव दक्षिणश्चोत्तरस्तथा ।
ऊर्ध्वाम्नायश्च पञ्चैते मोक्षमार्गाः प्रकीत्तीताः ॥ ७ ॥
आम्नाया बहवः सन्ति नोर्ध्वाम्नायेन ते समाः ।
सत्यमेतद्वरारोहे नात्र कार्या विचारणा ॥ ८ ॥
आम्नाया बहवो गुप्तश्चतुराम्नायभेदजाः ।
अस्मिंस्तन्त्रे समाख्याताः पूर्वं ते कुलनायिके ॥ ९ ॥
चतुराम्नाय वेत्तारो बहवः सन्ति कामिनि ।
ऊर्ध्वाम्नायस्य तत्त्वज्ञा विरला वीरवन्दिते ॥ १० ॥
यावन्तः पांसवो भूमेस्तावन्तः समुदीरिताः ।
एकैकाम्नायजा मन्त्रा भुक्तिमुक्तिफलप्रदाः ॥ ११ ॥
उपमन्त्राश्च तावन्तः सारदाः समुदीरिताः ।
मयैव कथितास्ते तु लोकानुग्रहकाङ्क्षया ॥ १२ ॥
सर्वेषामपि मन्त्राणां देवतास्तत्फलप्रदाः ।
आवयोरंशसम्भूताः समुद्दिष्टाः शुचिस्मिते ॥ १३ ॥
सर्वमन्त्रानहं वेद्मि नान्यो जानाति कश्चन ।
मत्प्रसादेन यः कश्चिद्वेत्ति मानवकोटिषु ॥ १४ ॥
एकाम्नायञ्च यो वेत्ति स मुक्तो नात्र संशयः ।
किं पुनश्चतुराम्नायवेत्ता साक्षाच्छिवो भवेत् ॥ १५ ॥
चतुराम्नायविज्ञानादूर्ध्वाम्नायः परः प्रिये ।
तस्मात्तदेव जानीयाद् यदीच्छेत् सिद्धिमात्मनः ॥ १६ ॥
ऊर्ध्वत्वात् सर्वधर्माणामूर्ध्वाम्नायः प्रशस्यते ।
ऊर्ध्वं नयत्यधःस्थञ्च ऊर्ध्वाम्नाय इतीरितः ॥ १७ ॥
ऊर्ध्वतत्त्वात् कुलेशानि ध्वस्तसंसारसागरात् ।
ऊर्ध्वलोकैकसेव्यत्वादूर्ध्वाम्नाय इति स्मृतः ॥ १८ ॥
तस्माद्देवेशि जानीहि साक्षान्मोक्षैकसाधनम् ।
सर्वाम्नायाधिकफलमूर्ध्वाम्नायं परात् परम् ॥ १९ ॥
सर्वलोकेषु सर्वेभ्यो ह्यहं पूज्यो यथा प्रिये ।
अम्नायेषु च सर्वेषु ऊर्ध्वाम्नायस्तथा शिवे ॥ २० ॥
देवतानां यथा विष्णुर्ज्योतिषां भास्करो यथा ।
तीर्थानान्तु यथा काशी स्वर्नदी सरितां यथा ॥ २१ ॥
पर्वतानां यथा मेरुस्तरूणां चन्दनं यथा ।
अश्वमेधः क्रतूनाञ्च पाषाणानां यथा मणिः ॥ २२ ॥
यथा रसानां माधुर्यं धातूनां काञ्चनं यथा ।
चतुष्पदां यथा धेनुर्यथा हंसस्तु पक्षिणाम् ॥ २३ ॥
आश्रमाणां यथा भिक्षुर्वर्णानां ब्राह्मणो यथा ।
मनुष्याणां यथा राजाऽवयवानां यथा शिरः ॥ २४ ॥
आमोदानाञ्च कस्तूरी यथा काञ्चीपुरी पुराम् ।
तथैव सर्वधर्माणामूर्ध्वाम्नायोऽधिकः प्रिये ॥ २५ ॥
नानाजन्माजीतापारपुण्यकर्मफलोदयात् ।
ऊर्ध्वाम्नायं विजानीयान्नान्यथा वीरवन्दिते ॥ २६ ॥
धन्यो मनुष्यलक्षेषु जानाति कुलदर्शनम् ।
तेषां लक्षेषु यः कश्चिदूर्ध्वाम्नायं प्रवेत्ति च ॥ २७ ॥
न वेदैर्नागमैः शास्त्रैर्न पुराणैः सुविस्तरैः ।
न यज्ञैर्न तपोभिर्वा न तीर्थव्रतकोटिभिः ॥ २८ ॥
नान्यैरुपायैर्द्देवेशि मन्त्रौषधिपुरःसरैः ।
आम्नायो ज्ञायते चोद्र्ध्वः श्रीमद्गुरुमुखं विना ॥ २९ ॥
तमेवान्वेषयेत्तत्र सर्वज्ञं करुणानिधिम् ।
सर्वलक्षणसम्पन्नं ऊर्ध्वाम्नायार्थकोविदम् ।
तस्माद्देवेशि जानीयादूर्ध्वाम्नायं कुलेश्वरि ॥ ३०॥
आम्नायं यो नरो देवि विजानाति च तत्त्वतः ।
लभते काङ्क्षतां सिद्धिं सत्यं सत्यं वरानने ॥ ३१ ॥
ऊर्ध्वाम्नायं विजानाति यः सम्यक् श्रीगुरोर्मुखात् ।
शास्त्रमार्गेण स नरो जीवन्मुक्तो न संशयः ॥ ३२ ॥
आम्नायमीदृशं देवि विजानाति च तत्त्वतः ।
स वन्द्यः सद्गुरुः सोऽर्च्यः स दैवज्ञः स मान्त्रिकः ।
स सेव्यः स च संस्तुत्यः स द्रष्टव्यः स सात्त्विकः ॥ ३३ ॥
स व्रती स तपस्वी च सोऽनुष्ठाता स पूजकः ।
स वेदागमशास्त्रादिसर्वविद्याविशारदः ॥ ३४ ॥
स आचार्यः स मतिमान् स यतिः स च कौलिकः ।
स यज्वा स च पूतात्मा स जापी स च साधकः ॥ ३५ ॥
स योगी स कृतार्थस्तु स वीरः स च उत्तमः ।
स पुण्यात्मा स सर्वज्ञः स मुक्तः स शिवः प्रिये ॥ ३६ ॥
तत्कुलं पावनं देवि धन्या तज्जननी स्मृता ।
तत्पिता च कृतार्थः स्यान्मुक्तास्तत्पितरः प्रिये ।
पुण्यास्तद्वंशजाः सर्वे पूतास्तन्मित्रबान्धवाः ॥ ३७ ॥
बहुनेह किमुक्तेन चोर्ध्वाम्नायपरस्य च ।
स्मरणं कीर्त्तनं वापि दर्शनं वन्दनं तथा ।
सम्भाषणञ्च कुरुते राजसूयाधिकं फलम् ॥ ३८ ॥
स यत्र वसते देवि तत्र श्रीवीजयो भवेत् ।
अनामयं सुभिक्षञ्च सुवृष्टिनीरुपद्रवम् ॥ ३९ ॥
तस्माद् गुरुप्रसादेन ऊर्ध्वाम्नायं नरोत्तमः ।
यो वेत्ति तत्त्वतो देवि स मे प्रियतमो भवेत् ॥ ४० ॥
पूर्वाम्नायः सृष्टिरूपः स्थितिरूपश्च दक्षिणः ।
संहारः पश्चिमो देवि उत्तरोऽनुग्रहो भवेत् ॥ ४१ ॥
मन्त्रयोगं विदुः पूर्वं भक्तियोगञ्च दक्षिणम् ।
पश्चिमं कर्मयोगञ्च ज्ञानयोगं तथोत्तरम् ॥ ४२ ॥
पूर्वाम्नायस्य सङ्केताश्चतुवींशतिरीरिताः ।
दक्षिणाम्नायसङ्केताः पञ्चवींशतिरीरिताः ॥ ४३ ॥
पश्चिमाम्नायसङ्केताः द्वात्रिंशत् समुदाहृताः ।
विदुः षट्त्रिंशदाम्नाये सङ्केताः श्रीमदुत्तरे ॥ ४४ ॥
ऊद्र्ध्वाम्नायस्य चैतानि न सन्ति कुलनायिके ।
साक्षाच्छिवस्वरूपत्वान्न किञ्चित् कर्म विद्यते ॥ ४५ ॥
ऊर्ध्वाम्नायस्य माहात्म्यमहं वेद्मि न चापरः ।
मत्स्नेहात्त्वञ्च जानासि सत्यमेतद्वरानने ॥ ४६ ॥
ऊर्ध्वाम्नायस्य माहात्म्यमिति ते कथितं मया ।
समासेन कुलेशानि मन्त्रमाहात्म्यमुच्यते ॥ ४७ ॥
इतः पूर्वं मया नोक्तं यस्य कस्यापि पार्वति ।
तद्वदामि तव स्नेहाच्छृणु मत्प्राणवल्लभे ॥ ४८ ॥
श्रीप्रासादपरामन्त्रमूर्ध्वाम्नायमधिष्ठितम् ।
आवयोः परमाकारं यो वेत्ति स स्वयं शिवः ॥ ४९ ॥
शिवादिक्रिमिपर्यन्तं प्राणिनां प्राणवर्त्मना ।
निश्वासोच्छ्वासरूपेण मन्त्रोऽयं वर्त्तते प्रिये ॥ ५० ॥
अनिलेन विना मेघो यथाकाशे न वेष्टते ।
पराप्रसादमन्त्रेण विना लोकस्तथा प्रिये ॥ ५१ ॥
पराप्रासादमन्त्रेण स्यूतमेतच्चराचरम् ।
अभिन्नं तत्त्वतो देवि तालवृन्ते यथानिलः ॥ ५२ ॥
बीजेऽङ्कुरस्तिले तैलमग्नावुष्णं रवौ प्रभा ।
चन्द्रे ज्योत्स्नाऽनलः काष्ठे पुष्पे गन्धे जले द्रवः ॥ ५३ ॥
शब्दे चार्थः शिवे शक्तिः क्षीरे सपीः फले रुचिः ।
शर्करायाञ्च माधुर्यं घनसारे च शीतलम् ॥ ५४ ॥
निग्रहानुग्रहो मन्त्रे प्रतिमायाञ्च देवता ।
दर्पणे प्रतिबिम्बञ्च समीरे चलनं यथा ।
पराप्रसादमन्त्रेऽपि प्रपञ्चोऽयं तथा स्थितः ॥ ५५ ॥
वटबीजे यथा वृक्षः सूक्ष्मरूपेण तिष्ठति ।
पराप्रासादमन्त्रेऽस्मिन् ब्रह्माण्डोऽपि तथा स्थितः ॥ ५६ ॥
सुपक्वेषु पदार्थेषु सुरसेषु कुलेश्वरि ।
लवणेन विना स्वादु यथा भोक्तुर्न जायते ॥ ५७ ॥
पराप्रासादमन्त्रेण ये वा मन्त्रा न सङ्गताः ।
ते फलं न प्रयच्छन्ति मन्त्रं शक्तिविवजीताः ॥ ५८ ॥
श्रीप्रासादपरामन्त्रो गोपनीयः प्रयत्नतः ॥ ५९ ॥
विचार्याहं पुराणार्थान् दर्शनाम्नायभेदजान् ।
ग्रसमान् वेद्म्यहं मन्त्रान् शास्त्राणि विविधानि च ॥ ६० ॥
सहस्राक्षादयो देवाः शास्त्रेषु विविधेषु च ।
भ्रमन्ति तेषु मूढास्ते तव मायाविमोहिताः ॥ ६१ ॥
जायन्ते च मिरयन्ते च संसारक्लेशभागिनः ।
श्रीप्रासादपरामन्त्रं न गायन्तः कुलेश्वरि ।
न लभन्ते हि मोक्षं ते तव मायाविमोहिताः ॥ ६२ ॥
मद्रूपे श्रीगुरौ यस्य दृढा भक्तिः प्रजायते ।
श्रीप्रासादपरामन्त्रं स ज्ञात्वा परिमुच्यते ॥ ६३ ॥
पूर्वजन्मसहस्रेषु शैवादिसमयोद्यतान् ।
चतुराम्नायजान् मन्त्रान् गुर्वाज्ञां यो भजिष्यति ॥ ६४ ॥
स पापकञ्चुकान्मुक्तः शुद्धात्मा गुरुवत्सलः ।
श्रीप्रासादपरामन्त्रं विजानाति न चान्यथा ॥ ६५ ॥
सब्रह्माविष्णुरुद्राश्च शक्रादिसुरपुङ्गवाः ।
वसुरुद्रार्कदिक्पाला मनुचन्द्रादयः प्रिये ॥ ६६ ॥
मार्कण्डेयादिमुनयो वसिष्ठादिमुनीश्वराः ।
सनकाद्याश्च योगीशा जीवन्मुक्ताः शुकादयः ॥ ६७ ॥
यक्षकिन्नरगन्धर्वाः सिद्धविद्याधरादयः ।
श्रीप्रासादपरामन्त्रप्रभवञ्चामितं फलम् ।
प्राप्य मन्त्रमिमं पुण्यं जपन्त्यद्यापि पार्वति ॥ ६८ ॥
सामर्थ्यं पूज्यता विद्या तेजः सौख्यमरोगिता ।
राज्यं स्वर्गञ्च मोक्षञ्च पराप्रासादजापिनः ॥ ६९ ॥
ब्रह्मेन्द्ररुद्रविष्णूनामपि दूरायते पदम् ।
सर्वकर्मविहीनोऽपि पराप्रासादमन्त्रवित् ।
सुखेन यां गतिं याति न तां सर्वेऽपि धामीकाः ॥ ७० ॥
तस्य चिन्तामणिः कामधेनुः कल्पतरुर्गृहे ।
कुबेरः किङ्करः साक्षात् पराप्रासादजापिनः ॥ ७१ ॥
यथा दिव्यमणि स्पर्शाल्लौहो भवति काञ्चनम् ।
पराप्रासादजापाच्च पशुः पशुपतिर्भवेत् ॥ ७२ ॥
श्रीप्रासादपरामन्त्रं यो विजानाति तत्त्वतः ।
स मां त्वाञ्च विजानाति चावयोरप्यतिप्रियः ॥ ७३ ॥
पराप्रासादमन्त्रज्ञः श्वपचोऽपि हि पार्वति ।
देवतास्थापने शक्तः प्रतिमादौ न संशयः ॥ ७४ ॥
मन्त्रमात्रन्तु यो वेत्ति पराप्रासादसंज्ञकम् ।
श्वपचोऽपि हि मुच्येत किं पुनस्तद्विधानवित् ॥ ७५ ॥
पराप्रासादमन्त्रज्ञो यत् करोति यदिच्छति ।
यद्ब्रूते तन्महेशानि तपो ध्यानं जपो भवेत् ॥ ७६ ॥
दीक्षापूर्वं महेशानि पारम्पर्यसमन्वितम् ।
पराप्रासादमन्त्रं यो वेत्ति सोऽहं न संशयः ॥ ७७ ॥
चराचरसमेतानि भुवनानि चतुर्दश ।
पराप्रासादमन्त्रज्ञदेहे तिष्ठन्ति नित्यशः ॥ ७८ ॥
पराप्रासादमन्त्रज्ञो यत्र तिष्ठति भामिनि ।
दिव्यक्षेत्रं समुद्दिष्टं समन्ताद्दशयोजनम् ॥ ७९ ॥
पराप्रासादमन्त्रार्थतत्त्वज्ञं कुलनायिके ।
सुरासुराश्च वन्दन्ते किं पुनर्मानवादयः ॥ ८० ॥
पराप्रासादमन्त्रज्ञो यत्र तिष्ठति पार्वति ।
सिद्धक्षेत्रं मदीयं वा मुनिदेवगणैः सह ॥ ८१ ॥
शैव वैष्णवदौर्गार्कगाणपत्येन्दुसम्भवान् ।
सर्वमन्त्रान् स जानाति पराप्रासादमन्त्रवित् ॥ ८२ ॥
श्रीप्रासादपरामन्त्रो जिह्वाग्रे यस्य वर्त्तते ।
तस्य दर्शनमात्रेण श्वपचोऽपि विमुच्यते ॥ ८३ ॥
ब्राह्मणो वाऽन्त्यजो वापि शुचिर्वाप्यशुचिः प्रिये ।
पराप्रासादजापी यः स मुक्तो नात्र संशयः ॥ ८४ ॥
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
पराप्रासादमन्त्रोऽयं देवेशि न च निष्फलः ॥ ८५ ॥
चिरेणैकैकफलदा मन्त्राः सन्ति सहस्रशः ।
कुलेशि मन्त्रराजोऽयं शीघ्रं सर्वफलप्रदः ॥ ८६ ॥
पराप्रासादमन्त्रोऽयं सर्वमन्त्रोत्तमोत्तमः ।
ज्ञानतोऽज्ञानतो वापि भजतां कामदो मनुः ॥ ८७ ॥
शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी ।
लक्ष्मीनारायणौ वाणीधातारौ रात्रिवासरौ ॥ ८८ ॥
अग्नीषोमौ बिन्दुनादौ देवि प्रकृतिपूरुषौ ।
आधाराधेयनामानौ भोगमोक्षौ कुलेश्वरि ॥ ८९ ॥
प्राणापानौ च वागर्थौ प्रिये विधिनिषेधकौ ।
सुखदुःखादि यद् द्वन्द्वं दृश्यते श्रूयते मया ।
सर्वलोकेषु तत् सर्वमावामेव न संशयः ॥ ९० ॥
पुंस्त्रीरूपाणि सर्वाणि चावयोरंशकानि हि ।
पराप्रासादमन्त्रोऽयं तस्मात् सर्वात्मको भवेत् ॥ ९१ ॥
अरूपं भावनागम्यं परं ब्रह्म कुलेश्वरि ।
निष्कलं निर्मलं नित्यं निर्गुणं व्योमसन्निभम् ॥ ९२ ॥
अनन्तमव्ययं तत्त्वं मनोवाचामगोचरम् ।
पराप्रासादमन्त्रार्थसन्धानात् सम्प्रकाशते ॥ ९३ ॥
तस्मान्मन्त्रमिदं देवि पराप्रासादसंज्ञकम् ।
परतत्त्वस्वरूपत्वात् सच्चिदानन्दलक्षणात् ॥ ९४ ॥
शिवशक्तिमयत्वाच्च भुक्तिमुक्तिप्रदानतः ।
सकर्मापि च निष्कर्म सगुणञ्चापि निर्गुणम् ॥ ९५ ॥
श्रीप्रासादपरामन्त्रं सर्वमन्त्रशिरोमणि ।
जपन् भुक्तिञ्च मुक्तिञ्च लभते नात्र संशयः ॥ ९६ ॥
बहुनात्र किमुक्तेन सर्वसारं शृणु प्रिये ।
श्रीप्रासादपरामन्त्रसमं मन्त्रं न विद्यते ॥ ९७ ॥
इदमेव परं ज्ञानमिदमेव परं तपः ।
इदमेव परं ध्यानमिदमेव परार्चनम् ॥ ९८ ॥
इदमेव परा दीक्षा इदमेव परो जपः ।
इदमेव परं तत्त्वमिदमेव परं व्रतम् ॥ ९९ ॥
इदमेव परो यज्ञ इदमेव परात् परम् ।
इदमेव परं श्रेय इदमेव परं फलम् ॥ १०० ॥
इदमेव परं ब्रह्म इदमेव परा गतिः ।
इदमेव परं गुह्यं सत्यं सत्यं न संशयः ।
इति मत्वा मनुवरं तन्निष्ठः स्यात् सदा प्रिये ॥ १०१ ॥
आगमोक्तेन विधिना क्रमपूजापुरःसरम् ।
श्रीप्रसादपरामन्त्रं शतमष्टोत्तरं जपेत् ।
मुच्यते ब्रह्महत्यादिमहापापैश्च पञ्चभिः ॥ १०२ ॥
द्विशतं यो जपेद्देवि श्रीप्रासादपरामनुम् ।
चतुरशीतिलक्षांशधारणाचरितैरपि ॥ १०३ ॥
स्वयोनिजाङ्गवरितैरसंख्यजननाजीतैः ।
वार्द्धके यौवने बाल्ये जाग्रत्स्वप्नसुषुप्तिषु ॥ १०४ ॥
कर्मणा मनसा वाचा ज्ञानाज्ञानकृतैरपि ।
महापातकसंघैश्च ह्युपपातककोटिभिः ।
मुच्यते नात्र सन्देहः सत्यमेतद्वरानने ॥ १०५ ॥
त्रिशतं यो जपेद्देवि श्रीप्रासादपरामनुम् ।
सर्वक्रतुषु यत् पुण्यं सर्वदानेषु यत् फलम् ॥ १०६ ॥
सर्वव्रतेषु यत् पुण्यं सर्वतीर्थेषु यत् फलम् ।
तत् फलं लभते देवि नात्र कार्या विचारणा ॥ १०७ ॥
चतुःशतं जपेद् यस्तु श्रीप्रासादपरामनुम् ।
सदा तस्य गृहद्वारे ह्यणिमाद्यष्टसिद्धयः ।
सेवन्ते नात्र सन्देहः सर्वसिद्धिसमन्विताः ॥ १०८ ॥
यद् यन्मनोऽभिलषितं तत्तत् प्राप्नोत्यसंशयः ।
धर्मार्थकाममोक्षाश्च साक्षात्तस्य करे स्थिताः ॥ १०९ ॥
सालोक्यप्रमुखां देवि लभेन्मुक्तिं चतुवीधाम् ।
सत्यमेतन्न सन्देहः साधकः कुलनायिके ॥ ११० ॥
जपेत् पञ्चशतं यस्तु श्रीप्रासादपरामनुम् ।
तत्फलं नैव शक्नोमि कथितुं कुलनायिके ॥ १११ ॥
तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।
श्रीप्रासादपरामन्त्रं जपेद् भुक्तिविमुक्तये ॥ ११२ ॥
नास्ति गुर्वधिकं तत्त्वं न शिवाधिकदैवतम् ।
न हि वेदाधिका विद्या न कौलसमदर्शनम् ॥ ११३ ॥
न कुलादधिकं ज्ञानं न ज्ञानादधिकं सुखम् ।
नाष्टाङ्गादधिका पूजा न हि मोक्षाधिकं फलम् ।
इदं सत्यमिदं सत्यं सत्यं सत्यं न संशयः ॥ ११४ ॥
श्रीप्रासादपरामन्त्रमाहात्म्यमिह वणीतुम् ।
न शक्नोमि वरारोहे कल्पकोटिशतैरपि ॥ ११५ ॥
गिरौ सर्षपमात्रन्तु सागरे वालुका यथा ।
तथा च मन्त्रमाहात्म्यं किञ्चित्ते कथितं मया ॥ ११६ ॥
ऊर्ध्वाम्नायस्य माहात्म्यं श्रीप्रासादपरामनोः ।
इति ते कथितं देवि किं भूयः श्रोतुमिच्छसि ॥ ११७ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे श्रीप्रासादपरामन्त्रकथनं नाम तृतीयोल्लासः ॥ ३ ॥
अथ चतुर्थोल्लासः
[सम्पाद्यताम्]श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि श्रीप्रासादपरामनुम् ।
मन्त्रराजं वदेशान न्यासध्यानादिभिः सह ॥ १ ॥
श्रीईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण शिवाकारः प्रजायते ॥ २ ॥
इतः पूर्व मया नोक्तो मन्त्रोऽयं यस्य कस्यचित् ।
तव स्नेहाद्वदाम्यद्य शृणु मत्प्राणवल्लभे ॥ ३ ॥
अनन्तचन्द्रभुवनमिन्दुबिन्दुयुगान्वितः ।
श्रीप्रासादपरामन्त्रो भुक्तिमुक्तिफलप्रदः ॥ ४ ॥
पराप्रासादमन्त्रस्तु सादिरुक्तः कुलेश्वरि ।
प्रकाशानन्दरूपत्वात् प्रत्यक्षफलदानतः ॥ ५ ॥
प्रसन्नचित्तवश्यत्वात् प्रसिद्धार्थनिरूपणात् ।
प्राक्तनाघप्रशमनात् प्रपन्नात्तीविनाशनात् ।
प्रसादकरणाच्छीघ्रं प्रासादमनुरीरितः ॥ ६ ॥
परतत्त्वस्वरूपत्वात् परमात्मप्रकाशनात् ।
परमानन्दजननात् परधर्मनिदर्शनात् ॥ ७ ॥
परोक्षफलदानाच्च परमैश्वर्यकारणात् ।
परत्वात् सर्वमन्त्राणां परामन्त्र इतीरितः ॥ ८ ॥
कुलमन्त्रमिदं देवि न्यासं शृणु वदामि ते ।
आदौ प्रातः समुत्थाय गुरुदेवानुचिन्तनम् ॥ ९ ॥
कन्दमूले मनः कृत्वा कुर्याद्विण्मूत्रमोचनम् ।
शौचास्यशोधनं स्नानं सन्ध्यातर्पणमाचरेत् ॥ १० ॥
एकान्ते द्वारयजनं विघ्नत्रयनिवारणम् ।
पूजास्थानप्रवेशश्च तथासनोपवेशनम् ॥ ११ ॥
देवीपूजागृहध्यानं शिवादिगुरुवन्दनम् ।
आसनं गणपक्षेत्रपालवन्दनमीश्वरि ॥ १२ ॥
पादुकास्मरणञ्चैव दिननाथार्चनं प्रिये ।
कराङ्गशोधनं प्राणायामः स्वब्रह्मरन्ध्रके ॥ १३ ॥
दिग्बन्धनञ्चाङ्गयुग्म विधियुक्ताञ्च मातृकाम् ।
दशप्रकारभूताख्यां लिपिं कमठसंज्ञकाम् ॥ १४ ॥
ऋषिरस्य परः शम्भुश्छन्दश्चाव्यक्तपूवीका ।
गायत्री देवता चात्र सर्वमन्त्रेश्वरी परा ॥ १५ ॥
दीर्घत्रययुतं मूलं बीजं शक्तिश्च कीलकम् ।
षड्दीर्घयुक्तमूलबीजेन षडङ्गानि च पार्वति ॥ १६ ॥
ईशतत्पुरुषाघोरसद्योजातात्मनस्तथा ।
पञ्चाङ्गुलिषु विन्यस्य मूत्तीं वक्त्रेषु विन्यसेत् ॥ १७ ॥
पञ्चसु ब्रह्मणि तथैवाङ्गविन्यासमाचरेत् ।
आधारशक्तिमारभ्य पीठमन्त्रान्तमम्बिके ॥ १८ ॥
अल्पषोढां कुलेशानि कुर्यात् पूर्वोक्तवर्त्मना ।
महाषोढाह्वयं न्यासं ततः कुर्यात् समाहितः ।
वक्ष्यमाणेन विधिना देवताभावसिद्धये ॥ १९ ॥
यस्य कस्यापि नैवोक्तं तव स्नेहाद्वदाम्यहम् ।
प्रपञ्चो भुवनं मूतीर्मन्त्रदेवतमातरः ।
महाषोढाह्वयो न्यासः सर्वन्यासोत्तमोत्तमः ॥ २० ॥
तत्रादौ परमेशानि प्रपञ्चन्यास उच्यते ।
प्रपञ्चद्वीपजलधिगिरिपत्तनपीठकाः ॥ २१ ॥
क्षेत्रं वनाश्रमगुहानदीचत्वरकोद्भिदः ।
स्वेदाण्डजजरायुजा इत्युक्तास्ते हि षोडश ॥ २२ ॥
श्रीर्माया कमला विष्णुवल्लभा पद्मधारिणी ।
समुद्रतनया लोकमाता कमलवासिनी ॥ २३ ॥
इन्दिरा मा रमा पद्मा तथा नारायणप्रिया ।
सिद्धलक्ष्मी राजलक्ष्मीर्महालक्ष्मीरितीरिताः ।
शक्तयस्तु प्रपञ्चानां स्वराणामधिदेवताः ॥ २४ ॥
लवस्त्रुटिः कला काष्ठा निमेषः श्वास एव हि ।
घटिका च मुहूर्त्तश्च प्रहरो दिवसस्तथा ॥ २५ ॥
सन्ध्या रात्रिस्तिथिश्चैव वारो नक्षत्रमेव च ।
योगश्च करणं पक्षौ मासो राशिरृतुस्तथा ॥ २६ ॥
अयनं वत्सरयुगप्रलयाः पञ्चविंशतिः ।
एतेषां स्थाननियमो हृदयान्तः समीरितः ॥ २७ ॥
आर्योमा चण्डिका दुर्गा शिवाऽपर्णाऽम्बिका सती ।
ईश्वरी शाम्भवीशानी पार्वती सर्वमङ्गला ॥ २८ ॥
दाक्षायणी हैमवती महामाया महेश्वरी ।
मृडानी चैव रुद्राणी सर्वाणी परमेश्वरी ॥ २९ ॥
काली कात्यायनी गौरी भवानीति समीरिता ।
शक्तयः स्युर्लवादीनां स्पर्शानामधिदेवताः ।
एतासां स्थाननियमो हृदयान्तः समीरितः ॥ ३० ॥
पञ्चभूतानि तन्मात्रं ज्ञानकर्मेन्द्रियाणि च ।
गुणान्तःकरणावस्था ध्यायेद्दोषान् दशानिलान् ॥ ३१ ॥
ब्राह्मी वागीश्वरी वाणी सावित्री च सरस्वती ।
गायत्री वाक्प्रदा पश्चात् शारदा भारती प्रिये ।
विद्यात्मिका पञ्चभूतव्यापकानामधीश्वराः ॥ ३२ ॥
वाग्भवं भुवनेशीञ्च लक्ष्मीबीजं त्रितारकम् ।
त्रितारमूलीविद्यान्त मातृकाक्षरतः परम् ॥ ३३ ॥
वदेत् प्रपञ्चरूपायै श्रियै नम इति क्रमात् ।
प्रपञ्चादिभिरायोज्य वर्णान शक्तीनीयोजयेत् ।
मातृकान्याससंप्रोक्तस्थानेष्वेवं न्यसेत् प्रिये ॥ ३४ ॥
त्रितारमूलसकलप्रपञ्चादि स्वरूपतः ।
आयै पराम्बादेव्यैनम उक्त्वा व्यापकं न्यसेत् ॥ ३५ ॥
प्रपञ्चन्यास एव स्याद् भुवनन्यास उच्यते ।
त्रितारमूलमन्त्रान्ते अ आं इं अतलं वदेत् ॥ ३६ ॥
लोकञ्च निलयञ्चैव शतकोटिपदं ततः ।
गुह्याद्या योगिनी मूलङेयुतन्तु वदेत् प्रिये ॥ ३७ ॥
वदेदाधारशक्त्यम्बादेव्यै च पादयोर्न्यसेत् ।
ई उं ऊं वितलं गुह्यतरं चानन्तसंज्ञकम् ।
शेषञ्च पूर्ववत् प्रोच्य गुल्फयोर्देवि विन्यसेत् ॥ ३८ ॥
ऋं ऋं ऌं सुतलञ्चातिगुह्यं चाविन्त्यसंज्ञकम् ।
शेषच्च पूर्ववत् प्रोच्य जङ्घयोवीन्यसेत् प्रिये ॥ ३९ ॥
ऌं एं एं महातलञ्च महागुह्यं पदं ततः ।
शेषञ्च पूर्ववत् प्रोच्य देवि जान्वोः प्रविन्यसेत् ॥ ४० ॥
ओं औं तलातलं देवि परं गुह्याभिधानकम् ।
शेषञ्च पूर्ववत् प्रोच्य ऊर्वोर्देवेशि विन्यसेत् ॥ ४१ ॥
अं अः रसातलञ्चैव रहस्यं ज्ञानसंज्ञकम् ।
शेषञ्च पूर्ववत् प्रोच्य गुह्यदेशे प्रविन्यसेत् ॥ ४२ ॥
कवर्गणापि पातालं लोकेति निलयेति च ।
शेषञ्च पूर्ववत् प्रोच्य मूलाधारे तु विन्यसेत् ॥ ४३ ॥
चवर्गं भूतलञ्चेति रहस्यं डाकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य स्वाधिष्ठाने न्यसेत् प्रिये ॥ ४४ ॥
टवर्गेण भुवो लोकं रहस्यं राकिणीमपि ।
शेषञ्च पूर्ववत् प्रोच्य नाभौ च विन्यसेत् प्रिये ॥ ४५ ॥
तवर्गं स्वश्च परमरहस्य लाकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य हृदये विन्यसेत् प्रिये ॥ ४६ ॥
पवर्गञ्च महर्लोकं रहस्यं काकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य तालुमूले न्यसेत् प्रिये ॥ ४७ ॥
यवर्गञ्च जनो गुप्ततरञ्च शाकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य आज्ञायाञ्च न्यसेत् प्रिये ॥ ४८ ॥
शवर्गञ्च तपश्चातिगुह्यञ्च हाकिनीमपि ।
शेषञ्च पूर्ववत् प्रोच्य ललाटे विन्यसेत् प्रिये ॥ ४९ ॥
लं क्षं सत्यं महागुह्यं यक्षिणीमपि च प्रिये ।
शेषञ्च पूर्ववत् प्रोच्य ब्रह्मरन्ध्रे च विन्यसेत् ॥ ५० ॥
त्रितारमूलमन्त्रान्ते चतुर्दशभुवं वदेत् ।
नाधिपायै श्रीपरायै देव्यै च व्यापकं न्यसेत् ॥ ५१ ॥
कृत्वैवं भुवनन्यासं मूत्तीन्यासमथाचरेत् ।
केशवनारायणमाधवगोविन्दविष्णवः ॥ ५२ ॥
मधुसूदनसंज्ञश्च स्यात्त्रिविक्रमवामनौ ।
श्रीधरश्च हृषीकेशः पद्मनाभो दामोदरः ।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ॥ ५३ ॥
अक्षोरोष्टदा चेशानी चोग्रोद्ध्र्वनयना तथा ।
ऋद्धिश्च रूपिणी लुप्ता लूनदोषैकनायिका ॥ ५४ ॥
एङ्कारिणी चौघवती सर्वकामाञ्जनप्रभा ।
अस्थि मालाधरा चेति सम्प्रोक्ताः स्वरदेवताः॥ ५५ ॥
भवः शर्वांऽथ रुद्रश्च पशुपतिश्चोग्र एव च ।
महादेवस्तथा भीम ईशस्तत्पुरुषाह्वयः ॥
अघोरसद्योजातौ च वामदेव इतीरिताः ॥ ५६ ॥
करभद्रा खगबला गरिमादिफलप्रदा ।
घण्टाधरोग्रनयना चन्द्रधर्त्री ततः परम् ।
छन्दोमयी जगत्स्थाना ज्वलत्तारा ततः परम् ॥ ५७ ॥
ज्ञानदा च टङ्कधरा धृतिर्द्वादश ईरिताः ।
कभादीनां ठडान्तानां वर्णानां देवतास्त्विमाः ॥ ५८ ॥
ब्रह्मा प्रजापतिर्वेधाः परमेष्ठी पितामहः ।
विधाता च विरिञ्चिश्च स्रष्टा च चतुराननः ॥
हिरण्यगर्भ इत्युक्ताः क्रमाद् ब्रह्मादयो दश ॥ ५९ ॥
यक्षिणी रञ्जिनी लक्ष्मीवज्रिणी शशिधारिणी ।
षडाधारलया सर्वनायिका हसितानना ।
ललिता च क्षमा चेति प्रोक्ता याद्यर्णदेवताः ॥ ६० ॥
त्रितारमूलमन्त्रान्ते स्वरान् विष्णून् सशक्तिकान् ।
चतुर्थ्या नमसा युक्तान् मस्तके चानने न्यसेत् ॥ ६१ ॥
सस्कन्धपार्श्वकट्यूरु जानुजङ्घापदेषु च ।
दक्षादिवामपर्यन्तं विन्यसेत् परमेश्वरि ॥ ६२ ॥
कभाद्यर्णयुतान् मन्त्री भवादीन शक्तिसंयुतान् ।
पादपार्श्वबाहुकण्ठपञ्चवक्त्रेषु विन्यसेत् ।
दशाधारेषु ब्रह्मादीन् यादि शक्तियुतान्न्यसेत् ॥ ६३ ॥
त्रितारमूलमन्त्रान्ते श्रीत्रिमूर्त्त्यम्बिकां वदेत् ।
आयै पराम्बादेव्यै च नमसा व्यापकं न्यसेत् ।
मूतीन्यासं विधायेत्थं मन्त्रन्यासं समाचरेत् ॥ ६४ ॥
त्रितारमूलं अं आं इं एकलक्षञ्च कोटि च ।
भेदश्च प्रणवाद्येकाक्षरात्माखिलमन्त्रतः ॥ ६५ ॥
ततोऽधिदेवतायै स्यात् सकलञ्च फलप्रदाम् ।
आयै तथैककूटेश्वर्यम्बादेव्यै नमो वदेत् ॥ ६६ ॥
ई उं ऊं आदि हंसादे द्विकूटं पूर्ववत् परम् ।
ऋं ऋं ऌं आदि वह्न्यादि त्रिकूटं पूर्ववत् परम् ॥ ६७ ॥
ॡं एं एं चतुर्लक्षं चन्द्रादि पूर्ववत् परम् ।
ओं औं अं अः पञ्चलक्षं सूर्यादि पूर्ववत् परम् ॥ ६८ ॥
कं खं गं चैव षड्लक्षं स्कन्दादि पूर्ववत् परम् ।
घं ङं चं सप्तलक्षं गणेशादि पूर्ववत् परम् ॥ ६९ ॥
छं जं झं अष्टलक्षं वटुकादि पूर्ववत् परम् ।
ञं टं ठं नवलक्षञ्च ब्रह्मादि पूर्ववत् परम् ॥ ७० ॥
डं ढं णं दशलक्षञ्च विष्ण्वादि पूर्ववत् परम् ।
तं थं दं एकादशलक्षं रुद्रादि पूर्ववत् परम् ॥ ७१ ॥
धं नं पं द्वादशलक्षं वाण्यादि पूर्ववत् परम् ।
फं बं भं त्रयोदशलक्षं लक्ष्म्यादि पूर्ववत् परम् ॥ ७२ ॥
मं यं रं चतुर्दशलक्षं गौर्ययादि पूर्ववत् परम् ।
लं वं शं पञ्चदशलक्षं दुर्गादि पूर्ववत् परम् ।
षं सं हं लं क्षं षोडशलक्षं त्रिपुरादि च षोडशा ॥ ७३ ॥
अक्षरात्मा खिलमन्त्राधिदेवतायै सकलं ततः ।
तथा फलप्रदायै च षोडश कूटेश्वरी पुनः ॥ ७४ ॥
अम्बादेव्यै नमः प्रोक्तो मन्त्रन्यासो महेश्वरि ।
आधारलिङ्गयोर्नाभिहृत्कण्ठे नेत्रयोरपि ॥ ७५ ॥
निबोधिकायामर्द्धेन्दौ बिन्दौ चैव कलापदे ।
उन्मन्यां विष्णुक्त्रे च नादे नादान्त एव च ।
ध्रुवमण्डलदेशे च विन्यसेत् कुलनायिके ॥ ७६ ॥
त्रितारमूलमन्त्रान्ते सर्वमन्त्रात्मिकापदम् ।
आयै पराम्बादेव्यै च हृदये व्यापकं न्यसेत् ॥ ७७ ॥
मन्त्रन्यासं विधायेत्थं दैवतन्यासमाचरेत् ।
त्रितारमूलमन्त्रान्ते अं आं सहस्रकोटि च ॥ ७८ ॥
योगिनीकुलशब्दान्ते सेवितायै पदं वदेत् ।
निवृत्त्यम्बापदं देव्यै नम इत्युच्चरेत् प्रिये ॥ ७९ ॥
इं ई योगिनीप्रतिष्ठां शेषं पूर्ववदुच्चरेत् ।
उं ऊं तपस्वि विद्याञ्च शेषं पूर्ववदुच्चरेत् ॥ ८० ॥
ऋं ॠं शान्तं तथा शान्तिं शेषं पूर्ववदुच्चरेत् ।
ऌं ॡं मुनिं शान्त्यतीतां शेषं पूर्ववदुच्चरेत् ॥ ८१ ॥
एं ए देवञ्च हृल्लेखां शेषं पूर्ववदुच्चरेत् ।
ओं औं राक्षसशब्दान्ते गगनां पूर्ववत् परम् ।
अं अः विद्याधरं रक्तां शेषं पूर्ववदुच्चरेत् ॥ ८२ ॥
कं खं सिद्धिमहोच्छ्रुष्मां शेषं पूर्ववदुच्चरेत् ।
गं घं साध्यकरालाञ्च शेषं पूर्ववदुच्चरेत् ॥ ८३ ॥
डं चं साप्सरसं जयां शेषं पूर्ववदुच्चरेत् ।
छं जं गन्धर्वविजयां शेषं पूर्ववदुच्चरेत् ॥ ८४ ॥
झं ञं गुह्यकशब्दान्ते अजितां शेषं पूर्ववत् परम् ।
टं ठं यक्षापराजितां शेषं पूर्ववदुच्चरेत् ॥ ८५ ॥
डं ढं किन्नरवामाञ्च शेषं पूर्ववदुच्चरेत् ।
णं तं पन्नगज्येष्ठाञ्च शेषं पूर्ववदुच्चरेत् ॥ ८६ ॥
थं दं चं पितृरौद्राम्बां शेषं पूर्ववदुच्चरेत् ।
धं नं गणेशमायाञ्च शेषं पूर्ववदुच्चरेत् ॥ ८७ ॥
पं फं भैरवशब्दान्ते कुण्डलीं पूर्ववत् परम् ।
बं भं वटुक कालीञ्च शेषं पूर्ववदुच्चरेत् ॥ ८८ ॥
मं यं क्षेत्रेशशब्दान्ते कालरात्रिञ्च पूर्ववत् ।
रं लं प्रमथभगवतीं शेषं पूर्ववदुच्चरेत् ॥ ८९ ॥
वं शं ब्रह्मसर्वेश्वरीं शेषं पूर्ववदुच्चरेत् ।
षं सं विष्णुञ्च सर्वज्ञां शेषं पूर्ववदुच्चरेत् ॥ ९० ॥
हं लं रुद्रसर्वकर्त्री शेषं पूर्ववदुच्चरेत् ।
क्षं चराचरशक्तिञ्च शेषं पूर्ववदुच्चरेत् ॥ ९१ ॥
अङ्गुष्ठगुल्फजंघासु जानूरुकटिपार्श्वके ।
स्तनकक्ष करस्कन्धकर्णमूर्द्धस्वपि क्रमात् ॥ ९२ ॥
दक्षभागदिवामान्तं विन्यसेत् कुलनायिके ।
त्रितारमूलमन्त्रान्ते सर्वदेवात्मिकां पदम् ॥ ९३ ॥
आयै पराम्बादेव्यै च हृदये व्यापकं न्यसेत् ।
देवन्यासं विधायेत्थं मातृकान्यासमाचरेत् ॥ ९४ ॥
त्रितारमूलमन्त्रान्ते कवर्गानन्तकोटिभू ।
चरीकुलसेवितायै आं क्षां हि मङ्गलापदम् ॥ ९५ ॥
अम्बादेव्यै नमो ब्रूयादां क्षां ब्रह्माण्यतः परम् ।
अम्बादेव्यै ततोऽनन्तकोटिभूतं कुलं वदेत् ॥ ९६ ॥
सहितायै ततो मङ्गलनाथाय अं क्षं वदेत् ।
अं क्षं असिताङ्गभैरवनाथाय नम उच्चरेत् ॥ ९७ ॥
चवर्गं खेचरीं ई लां चचीकाञ्च महेश्वरीम् ।
वेतालं इं लं चचीकं रुरुं शेषञ्च पूर्ववत् ॥ ९८ ॥
टवंर्ग पातालचरीं ऊं हां योगेश्वरीं वदेत् ।
कौमारीञ्च पिशाचञ्च उं हं योगेशचण्डकौ ॥ ९९ ॥
तवर्गं दिक्चरीं ऋं सां हरसिद्धाञ्च वैष्णवीम् ।
अपस्मारं ऋं सं हरसिद्धक्रोधादिपूर्ववत् ॥ १०० ॥
पवर्गं सहचरीं ऌं षां भट्टि वाराह्यतः परम् ।
ब्रह्मराक्षसकं ऌं षां भट्टोन्मत्तादि पूर्ववत् ॥ १०१ ॥
यवर्ग स्याद्गिरिचरीं एं शां किलकिलेति च ।
इद्राणीं चेटकं एं शं किलिः कापालिकस्तथा ॥ १०२ ॥
शवर्गं स्यात् वनचरीं औं वां कालादिरात्रि च ।
चामुण्डां प्रेतं ओं वं च कालरात्रिश्च भीषणः ॥ १०३ ॥
लं क्षं जलचरीं अः लां वदेत् वश्चञ्च भीषणाम् ।
महालक्ष्मीं शाकिनीश्च अं लं पश्चाच्च भीषणम् ॥ १०४ ॥
संहारभैरवञ्चैव शेषं पूर्ववदुच्चरेत् ।
मूलाधारलिङ्गनाभिष्वनाहतविशुद्धयोः ॥ १०५ ॥
आज्ञाभाल तलब्रह्मरन्ध्रेष्वेवं प्रविन्यसेत् ।
त्रितारमूलमन्त्रान्ते मातृभैरवशब्दतः ॥ १०६ ॥
अधिपायै पराम्बा देव्यै नमो व्यापकं न्यसेत् ।
मातृन्यास महेशानि कुर्यादेवं समाहितः ॥ १०७ ॥
एवं न्यस्ततनुर्दैवि ध्यायेद्देवमनन्यधीः ।
अमृतार्णवमध्योद्यन्मणिद्वीपे सुशोभिते ॥ १०८ ॥
कल्पवृक्षवनान्तःस्थमणि माणिक्यमण्डपे ।
नवरत्नमय श्रीमत्सिंहासनगतेम्बुजे ॥ १०९ ॥
त्रिकोणान्तःसमासीनं चन्द्रसूर्यायुतप्रभम् ।
अर्द्धाम्बिकासमायुक्तं प्रविभक्तविभूषणम् ॥ ११० ॥
कोटिकन्दर्पलावण्यं सदा षोडशवाषीकम् ।
मन्दस्मितमुखाम्भोजं त्रिनेत्रं चन्द्रशेखरम् ॥ १११ ॥
दिव्याम्बरस्रगालेपं दिव्याभरणभूषितम् ।
पानपात्रञ्च चिन्मुदां त्रिशूलं पुस्तकं करैः ॥ ११२ ॥
विद्यासंसिद्धिं बिभ्राणां सदानन्दमुखेक्षणम् ।
महाषोढोदिताशेषदेवतागणसेवितम् ॥ ११३ ॥
एवं चित्ताम्बुजे ध्यायेदर्द्धनारीश्वरं शिवम् ।
पुंरूपं वा स्मरेद्देवि स्त्रीरूपं वा विचिन्तयेत् ॥ ११४ ॥
अथवा निष्कलं ध्यायेत् सच्चिदानन्दलक्षणम् ।
सवतेजोमयं देवि सचराचरविग्रहम् ॥ ११५ ॥
ततः सन्दर्शयेन्मुद्रादशकं परमेश्वरि ।
योनि लिङ्गञ्च सुरभि हेतिमुद्राचतुष्टयम् ॥ ११६ ॥
वनमालां महामुद्रां नभोमुद्रामिति क्रमात् ।
यथाशक्ति मन्त्रमूलं जपेत् श्रीपादुकामपि ।
मूध्नी सञ्चिन्तयेद्देवि श्रीगुरुं शिवरूपिणम् ॥ ११७ ॥
सहस्रदलपङ्कजे सकलशीतरश्मिप्रभम् वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् ।
प्रसन्नवदनेक्षणं सकलदेवतारूपिणम् स्मरेत् शिरसि हंसगं तदभिधानपूर्वं गुरुम् ॥ ११८ ॥
एवं न्यासे कृते देवि साक्षात् परशिवो भवेत् ।
मन्त्री नैवात्र सन्देहो निग्रहानुग्रहक्षमः ॥ ११९ ॥
महाषोढाह्वयं न्यासं यः करोति दिने दिने ।
देवाः सर्वे नमस्यन्ति तं नमामि न संशयः ॥ १२० ॥
महाषोढाह्वयं न्यासं करोति यत्र पार्वति ।
दिव्यक्षेत्रं समुद्दिष्टं समन्ताद्दशयोजनम् ॥ १२१ ॥
कृत्वा न्यासमिमं देवि यत्र गच्छति मानवः ।
तत्र स्याद्विजयो लाभः सम्मानः पौरुषं प्रिये ॥ १२२ ॥
महाषोढाकृतन्यासस्तेन यो वन्द्यते शिवे ।
षण्मासान्मृत्युमाप्नोति यदि त्राता शिवः स्वयम् ॥ १२३ ॥
वज्रपञ्जरनामानमेतं न्यासं करोति यः ।
दिव्यन्तरीक्षभूशैलजलारण्यनिवासिनः ॥ १२४ ॥
प्रचण्डभूतवेतालदेवरक्षोग्रहादयः ।
भयग्रस्तेन मनसा नेक्षन्ते तं कुलेश्वरि ॥ १२५ ॥
महाषोढाकृतन्यासं ब्रह्माविष्णुशिवादयः ।
देवाः सर्वे नमस्यन्ति ऋषयोऽपि मुनीश्वराः ॥ १२६ ॥
बहुनोक्तेन किं देवि न्यासमेतं मम प्रियम् ।
नापुत्राय वदेद्देवि नाशिष्याय प्रकाशयेत् ॥ १२७ ॥
आज्ञासिद्धिमवाप्नोति तस्मान्न्यासं समाचरेत् ।
अस्मात् परतरा रक्षा देवताभावसिद्धिदा ।
लोके नास्ति न सन्देहः सत्यं सत्यं वरानने ॥ १२८ ॥
ऊर्ध्वाम्नायप्रवेशश्च पराप्रासादचिन्तनम् ।
महाषोढापरिज्ञानं नाल्पस्य तपसः फलम् ॥ १२९ ॥
इति ते कथितं देवि मन्त्रोद्धारादिकं प्रिये ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १३० ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे माहाषोढाकथनं नाम चतुर्थोल्लासः ॥ ४ ॥
अथ पञ्चमोल्लासः
[सम्पाद्यताम्]श्रीदेव्युवाच
कुलेशाधारपात्राणां पिशितानाञ्च लक्षणम् ।
कुलद्रव्यस्य निर्माणं भेदं माहात्म्यमेव च ॥ १ ॥
अविधानेन यत् पापं सविधानेन यत् फलम् ।
तत् सर्वं श्रोतुमिच्छामि वद मे करुणानिधे ॥ २ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण त्रिदशैः समतां व्रजेत् ॥ ३ ॥
आधारेण विना भ्रंशो न च तृप्यन्ति मातरः ।
तस्माद्विधिवदाधारं कल्पयेत् कुलनायिके ॥ ४ ॥
आधारं त्रिपदं प्राहुः षट्पदं वा चतुष्पदम् ।
अथवा वर्तुलाकारं कुर्याद्देवि मनोहरम् ॥ ५ ॥
स्वर्णरौप्यशिलाकूर्मकपालालाबुमृण्मयम् ।
नारिकेलशङ्खताम्रमुक्ताशुक्तिसमुद्भवम् ॥ ६ ॥
पुण्यवृक्ष समुद्भूतं पात्रं कुर्याद्विचक्षणः ।
अतिसूक्ष्ममतिस्थूलं छिन्नं भिन्नञ्च वर्जयेत् ॥ ७ ॥
सुवर्णरौप्यताम्राणि सर्वसिद्धकराणि च ।
शान्तिके च शिलापात्रं स्तम्भने चैव मृण्मयम् ॥ ८ ॥
नारिकेलञ्च वश्ये स्यादभिचारे च कूर्मजम् ।
शङ्गं ज्ञानप्रदं शुक्तिर्देवीप्रीतिप्रदायिनी ॥ ९ ॥
कपालालाबुपात्राणि योगसिद्धिकराणि च ।
पुण्यवृक्षज पात्राणि सर्वपापहराणि च ।
उक्तेष्वेतेषु देवेशि पात्रमेकं प्रकल्पयेत् ॥ १० ॥
कुलद्रव्यं प्रवक्ष्यामि शृणु देवि समाहिता ।
अम्भसां द्वादशप्रस्थं प्रस्थार्द्धं तक्रमेव च ॥ ११ ॥
तण्डुलानां चतुःप्रस्थं द्विप्रस्थञ्च तथान्धसाम् ।
मुष्टिमात्राङ्कुरैः सार्द्धम् एकस्मिन् योजयेद् घटे ॥ १२ ॥
शीतादिरहिते स्थाने स्थापयेद्दिवसद्वयम् ।
तस्मादग्निं समारोप्य जम्बालसदृशं पचेत् ॥ १३ ॥
अवरोप्य पुनः शीतामवस्थां प्रापयेत्ततः ।
पादोनप्रस्थकैः पिष्ट्वा हस्ताभ्यां मेलयेत् सुधीः ॥ १४ ॥
प्रस्थार्द्धान् तण्डुलान् वाप्यपरेद्युस्तत् समुद्धरेत् ।
सम्यक् संमद्ये तक्रेण पाकमालोड्य मेलयेत् ।
एषा पैष्टीति विख्याता पूजिता देवदानवैः ॥ १५ ॥
गौडी च श्वेतबर्बुरजम्बुत्वक्सधिताम्भसाम् ।
दशप्रस्थं कुलेशानि धातकीकुसुमं शुभम् ॥ १६ ॥
नारिकेलप्रसूनं वा चैकप्रस्थं विनिक्षिपेत् ।
हरीतकी चाक्षफलं वसुनिष्कप्रमाणतः ॥ १७ ॥
वह्निं त्रिकटुकञ्चापि निष्कमार्धं क्षिपेत् पृथक् ।
अशीतिगुडसम्मिश्रमेकस्मिन् योजयेद् घटे ॥ १८ ॥
करेण भ्रामयेत् सम्यगनुलोमविलोमतः ।
अष्टोत्तरशतावृत्त्या त्रिसन्ध्यं प्रतिवासरम् ॥ १९ ॥
द्वादशाहेन पाकः स्यात् पालयेत्तत्त्रयोदशे ।
एषा गौडीति कथिता शिवसायुज्यहेतुकी ॥ २० ॥
द्विगुणं मकरन्दस्य वारि संयोजयेद् घटे ।
द्वादशाहेन पाकः स्याच्छेषमन्यत् पुरोक्तवत् ।
एषा माध्वी समुद्दिष्टा देवताप्रीतिकारिणी ॥ २१ ॥
एका शुण्ठी द्विवह्निश्च मरीचत्रितयं तथा ।
धातकी च चतुष्कं स्यात् पञ्च पुष्पाणि षण्मधु ॥ २२ ॥
अशीतिगुडसम्मिश्रं शेषमन्यत् पुरोक्तवत् ।
इदं मनोहरं द्रव्यं योगिनीपानमुत्तमम् ॥ २३ ॥
सार्द्धेन्दुपलकं दघ्नो माहिषं प्रस्थमात्रकम् ।
मोचापक्वशतञ्चापि योगोऽयं मदिरा शुभा ॥ २४ ॥
तं मेलयित्वा संयोज्य सान्द्गे वंशपुटे पचेत् ।
चत्वारिंशद्दिनान्यष्टौ पङ्के पङ्कजसम्भवे ॥ २५ ॥
निधायोद्धृत्य किरणैः सौरैः सम्यग् विशोषयेत् ।
यदा च कठिनीभावस्तदा संगृह्य मानवः ॥ २६ ॥
गुञ्जाफलप्रमाणन्तु जलैः सम्मिलितं शुभम् ।
आत्मेच्छं पूरयेत् पात्रं परमानन्ददं परम् ॥ २७ ॥
एतादप्युत्तमं द्रव्यं सर्वदेवप्रियं प्रिये ।
एतानि मदहेतूनि मद्यान्यन्यानि कारयेत् ॥ २८ ॥
पानसं द्राक्षमाधूकं खार्जूरं तालमैक्षवम् ।
मधूत्थं शीधु माध्वीकं मैरेयं नारिकेलजम् ॥ २९ ॥
मद्यान्येकादशैतानि भुक्तिमुक्तिकराणि च ।
द्वादशन्तु सुरा मद्य सर्वेषामुत्तमं प्रिये ॥ ३० ॥
पैष्टी गौडी च माध्वी च विज्ञेया त्रिविधा सुरा ।
सर्वसिद्धिकरी पैष्टी गौडी भोगप्रदायिनी ॥ ३१ ॥
माध्वी मुक्तिकरी ज्ञेया सुरा स्याद्देवताप्रिया ।
विद्याप्रदैक्षवी ज्ञेया द्राक्षी राज्यप्रदा भवेत् ॥ ३२ ॥
तालजा स्तम्भने शस्ता खार्जूरी रिपुनाशिना ।
नारिकेलभवा श्रीदा पानसी च शुभप्रदा ॥ ३३ ॥
मधूकजा ज्ञानकरी माध्वीकी रोगनाशिनी ।
मैरेयाख्या कुलेशानि सर्वदा पापहारिणी ॥ ३४ ॥
क्षीरवृक्षसमुद्भूतं मद्यं वल्कलसम्भवम् ।
मधुपुष्पसमुद्भूतम् आसवं तण्डुलोद्रवम् ॥ ३५ ॥
यस्यानन्दो निवीकार आमोदश्च मनोहरः ।
मद्यं तदुत्तमं देवि देवानां प्रीतिदायकम् ॥ ३६ ॥
आत्मेच्छं पूरयेत् पात्रं परमानन्दवर्द्धनम् ।
एतदामोदकं द्रव्यं सर्वदेवप्रियं प्रिये ॥ ३७ ॥
सुरादर्शनमात्रेण सर्वपापैः प्रमुच्यते ।
तद्गन्धाघ्राणमात्रेण शतक्रतुफलं लभेत् ॥ ३८ ॥
मद्यस्पर्शनमात्रेण तीर्थकोटिफलं लभेत् ।
देवि तत्पानतः साक्षाल्लभेन्मुक्तिं चतुवीधाम् ॥ ३९ ॥
इच्छाशक्तिः सुरामोदे ज्ञानशक्तिश्च तद्रसे ।
तत्स्वादे च क्रियाशक्तिस्तदुल्लासे परा स्थिता ॥ ४० ॥
मदिरा ब्रह्मगाः प्रोक्ताः चित्तशोधनसाधनाः ।
तासामेकां समाहृत्य पूजाकर्म समाचरेत् ॥ ४१ ॥
मत्स्य मांसादिविजयां चाष्टगन्धैः सुमिश्रिताम् ।
संमर्द्य वटिकां कृत्वा संगृह्याथ विचक्षणः ।
मद्याभावे तु वटिकां जले संयुज्य तर्पयेत् ॥ ४२ ॥
गुडमिश्रेण तक्रेण तर्पयेत् मधुभाजिना ।
सौवीरेणाथवा कुर्यादेतत् कर्म न लोपयेत् ।
प्रमादाद् यदि लुप्येत देवताशापमाप्नुयात् ॥ ४३ ॥
मांसन्तु त्रिविधं प्रोक्तं खभूजलचरं प्रिये ।
यथासम्भवमप्येकं तर्पणार्थं प्रकल्पयेत् ।
मांसदर्शनमात्रेण सुरादर्शनवत् फलम् ॥ ४४ ॥
पितृदैवतयज्ञेषु वैधहिंसा विधीयते ।
आत्मार्थं प्राणिनां हिंसा कदाचिन्नोदिता प्रिये ॥ ४५ ॥
अनिमित्तं तृणं वापि छेदयेन्न कदाचन ।
देवतार्थं द्विजार्थ वा हत्वा पापैर्न लिप्यते ॥ ४६ ॥
मामनादृत्य यत् पुण्यं पापं स्यात् प्रतिभाषतः ।
मन्निमित्तं चरेत् पापं पुण्यं भवति शाम्भवि ॥ ४७ ॥
यैरेव पतनं द्रव्यैः सिद्धिस्तैरेव चोदिता ।
श्रीकौलदर्शने चापि भैरवेण महात्मना ॥ ४८ ॥
मत्कर्म कुर्वतां पुंसां कर्मलोपो भवेन्नहि (यदि) ।
तत्कर्म ते प्रकुर्वन्ति सप्तकोटिमुनीश्वराः ॥ ४९ ॥
हन्यान्मन्त्रेण चानेन त्वभिमन्त्र्य पशुं प्रिये ।
गन्धपुष्पाक्षतैः पूज्य चान्यथा नरकं व्रजेत् ॥ ५० ॥
शिवोत्कृत्तमिदं पिण्डमतस्त्वं शिवतां गतः ।
तद् बुध्यस्य पशो त्वं हि मा शिवस्त्वं शिवोऽसि हि ॥५१॥
ब्रह्मा स्यात् पलले विष्णुर्गन्धे रुद्रश्च तद्रसे ।
परमात्मा तदानन्दे तस्मात् सेव्यमिदं प्रिये ॥ ५२ ॥
मांसाभावे तु लशुनं सार्द्रकं नागरन्तु वा ।
आदाय पूजयेद्देवि चान्यथा निष्फलं भवेत् ॥ ५३ ॥
मत्स्यमांसविहीनेन मद्येनापि न तर्पयेत् ।
न कुर्यान्मत्स्यमांसाभ्यां विना द्रव्येण पूजनम् ॥ ५४ ॥
पिशितं तिलमात्रन्तु तिलार्द्धमपि बिन्दुना ।
सकृत्तर्पणमात्रेण कोटियज्ञफलं लभेत् ॥ ५५ ॥
कुलपूजासमं नास्ति पुण्यमन्यज्जगत्त्रये ।
तस्माद् यः पूजयेद्भक्त्या भुक्तिमुक्त्योः स भाजनम् ॥५६॥
अनधीतोऽप्यशास्त्रज्ञो गुरुभक्तो दृढव्रतः ।
कुलपूजारतो यस्तु स मे प्रियतमो भवेत् ॥ ५७ ॥
चतुर्णामपि वर्णानामाश्रमाणामपीश्वरि ।
पुंस्त्रीनपुंसकानान्तु पूजितेष्टफलप्रदा ॥ ५८ ॥
इहामुत्र फलं दद्याः पूजिता सुवधूरिव ।
अपूजिता त्वं देवेशि दुःखदा कुवधूरिव ॥ ५९ ॥
कुलपूजां विना यस्तु करोत्येवं सुदुर्मतिः ।
स याति नरकं घोरमेकविंशतिभिः कुलैः ॥ ६० ॥
तस्मात् सर्वप्रयत्नेन कुलपूजारतो भवेत् ।
लभते सर्वसिद्धींश्च नात्र कार्या विचारणा ॥ ६१ ॥
आराधनासमर्थश्चेद्दद्यादर्चनसाधनम् ।
यो दातुं नैव शक्नोति कुर्यादर्चनदर्शनम् ॥ ६२ ॥
सम्यक् शतक्रतून् कृत्वा यत् फलं समवाप्नुयात् ।
तत् फलं समवाप्नोति सकृत् कृत्वा क्रमार्चनम् ॥ ६३ ॥
महाषोडशदानानि कृत्वा यच्च फलं लभेत् ।
तत् फलं समवाप्नोति कृत्वा श्रीचक्रदर्शनम् ॥ ६४ ॥
सार्द्धत्रिकोटितीर्थेषु स्नात्वा यत् फलमाप्नुयात् ।
तत् फलं लभते देवि सकृत् कृत्वा क्रमार्चनम् ॥ ६५ ॥
बहुनोक्तेन किं देवि यथाभक्त्या ददाति यः ।
कुलाचार्याय पूजार्थं कुलद्रव्यं स धर्मवित् ॥ ६६ ॥
शैवे वा वैष्णवे शाक्ते सौरे सुगतदर्शने ।
बौद्धे पाशुपते सांख्ये व्रते कुलमुखे तथा ॥ ६७ ॥
सदक्षवामसिद्धान्ते वैदिकादिषु पार्वति ।
विनाऽलिपिशिताभ्यान्तु पूजनं निष्फलं भवेत् ॥ ६८ ॥
कुलद्रव्यैवीना कुर्याज्जपयज्ञ तपोव्रतम् ।
निष्फलं तद्भवेद्देवि भस्मनीव यथा हुतम् ॥ ६९ ॥
यथैवान्तश्चरा राज्ञः प्रियाः स्युर्न बहिश्चराः ।
तथान्तर्यागनिष्ठा ये ते प्रिया देवि नापरे ॥ ७० ॥
समर्पयन्ति ये भक्त्या आवाभ्यां पिशितासवम् ।
उत्पादयन्ति चानन्दं मत्प्रियाः कौलिकाश्च ते ॥ ७१ ॥
आवयोः परमाकारं सच्चिदानन्दलक्षणम् ।
कुलद्रव्योपभोगेन परिस्फुरति नान्यथा ॥ ७२ ॥
अन्तःस्थानुभवोल्लासो मनोवाचामगोचरः ।
कुलद्रव्योपभोगेन जायते नान्यथा प्रिये ॥ ७३ ॥
सेविते च कुलद्रव्ये कुलतत्त्वार्थदर्शनः ।
जायते भैरवावेशः सर्वत्र समदर्शनः ॥ ७४ ॥
तमःपरिवृतं वेश्म यथा दीपेन दृश्यते ।
तथा मायावृतो ह्यात्मा द्रव्यपानेन दृश्यते ॥ ७५ ॥
मन्त्रपूतं कुलद्रव्यं गुरुदेवापीतं प्रिये ।
ये पिबन्ति जनास्तेषां स्तन्यपानं न विद्यते ॥ ७६ ॥
मद्यन्तु भैरवो देवो मद्यं शक्तिः समीरिता ।
अहो भोक्ता च मद्यस्य मोहयेदमरानपि ॥ ७७ ॥
तन्मैरेयं नरः पीत्वा यो न विकुरुते प्रिये ।
मद्ध्यानैकपरो भूत्वा स मुक्तः स च कौलिकः ॥ ७८ ॥
सुरा शक्तिः शिवो मांसं तद्भोक्ता भैरवः स्वयम् ।
तयोरैक्यसमुत्पन्न आनन्दो मोक्ष उच्यते ॥ ७९ ॥
आनन्दं ब्रह्मणो रूपं तच्च देहे व्यवस्थितम् ।
तस्याभिव्यञ्जकं मद्यं योगिभिस्तेन पीयते ॥ ८० ॥
कुण्डी कम्बुकपालानि मधुपूर्णानि बिभ्रतः ।
किं न पश्यति लोकोऽयं ब्रह्मविष्णुमहेश्वरान् ॥ ८१ ॥
निःशङ्को निर्भयो वीरो निर्लज्जो निष्कुतूहलः ।
निर्णीतवेदशास्त्रार्थो वरदां वारुणीं पिबेत् ॥ ८२ ॥
मन्त्रसंस्कारसंशुद्धामृतपानेन पार्वति ।
जायते देवताभावो भवबन्धविमोचकः ॥ ८३ ॥
ब्राह्मणस्य सदा पेयं क्षत्रियस्य रणागमे ।
गोलम्भने तु वैश्यस्य शूद्रस्यान्त्येष्टिकर्मणि ॥ ८४ ॥
देवान् पितृन् समभ्यर्च्य देवि शास्त्रोक्तवर्त्मना ।
गुरुं स्मरन् पिबन्मद्यं खादन् मांसंन दोषभाक् ॥ ८५ ॥
तृप्त्यर्थं पितृदेवानां ब्रह्मध्यानस्थिराय च ।
सेवेत मधुमांसानि तृष्णया चेत् स पातकी ॥ ८६ ॥
मन्त्रार्थं स्फुरणार्थाय मनसः स्थैर्यहेतवे ।
भवपाशनिवृत्त्यर्थं मधुपानं समाचरेत् ॥ ८७ ॥
सेवेत स्वसुखार्थं यो मद्यादीनि स पातकी ।
प्राशयेद्देवताप्रीत्यै स्वाभिलाषविवजीतः ॥ ८८ ॥
मत्स्यमांससुरादीनां मादकानां निषेवणम् ।
यागकालं बिनान्यत्र दूषणं कथितं प्रिये ॥ ८९ ॥
यथा क्रतुषु विप्राणां सोमपानं विधीयते ।
मद्यपानं तथा कार्यं समये भोगमोक्षदम् ॥ ९० ॥
श्रीगुरोः कुलशास्त्रेभ्यः सम्यग्विज्ञाय वासनाम् ।
पञ्चमुद्रा निषेवेत चान्यथा पतितो भवेद् ॥ ९१ ॥
आवृत्तिं गुरुपंक्तिश्च वटुकादीन्न पूज्य यः ।
वीरोऽप्यत्र वृथापानी देवताशापमाप्नुयात् ॥ ९२ ॥
अयष्ट्वा भैरवं देवमकृत्वा मन्त्रतर्पणम् ।
पशुपानविधौ पीत्वा वीरोऽपि नरकं व्रजेत् ॥ ९३ ॥
अज्ञात्वा कौलिकाचारमयष्ट्वा गुरुपादुकाम् ।
योऽस्मिन् शास्त्रे प्रवर्त्तेत तं त्वं पीडयसि ध्रुवम् ॥ ९४ ॥
कौलज्ञाने ह्यसिद्धो यस्तद्द्रव्यं भोक्तुमिच्छति ।
स महापातकी ज्ञेयः सर्वधर्मबहिष्कृतः ॥ ९५ ॥
समयाचारहीनस्य स्वैरवृत्तेर्दुरात्मनः ।
न सिद्धयः कुलभ्रंशस्तत्संसर्गं न कारयेत् ॥ ९६ ॥
यः शास्त्रविधिमुत्सृज्य वर्त्तते कामकारतः ।
स सिद्धिमिह नाप्नोति परत्र न परां गतिम् ॥ ९७ ॥
स्वेच्छया रममाणो यो दीक्षासंस्कारवजीतः ।
न तस्य सद्गतिः क्वापि तपस्तीर्थव्रतादिभिः ॥ ९८ ॥
असंस्कृतं पिबेद्द्रव्यं बलात्कारेण मैथुनम् ।
स्वप्रियेण हतं मांसं रौरवं नरकं व्रजेत् ॥ ९९ ॥
कौलाः पशुव्रतस्याश्चेत् पक्षद्वयविडम्बकाः ।
केशसंख्या स्मृता यावत्तावत्तिष्ठन्ति रौरवे ॥ १०० ॥
कुलद्रव्याणि सेवेत योऽन्यदर्शनमाश्रितः ।
तदङ्गरोमसंख्यातं भूतयोनिषु जायते ॥ १०१ ॥
मदप्रच्छादितात्मा च न किञ्चिदपि वेत्ति च ।
न ध्यानं न तपो नार्चा न धर्मो न च सत्क्रिया ॥१०२ ॥
न दैवं न गुरुर्नात्मविचारो न स कौलिकः ।
केवलं विषयासक्तः पतत्येव न संशयः ॥१०३ ॥
मद्यासक्तो न पूजार्थी मांसाशी स्त्रीनिषेवकः ।
कौलोपदेशहीनो यः सोऽक्षयं नरकं व्रजेत् ॥१०४ ॥
असंस्कारी तु यो नौ स्यात् पञ्च मुद्रा निषेवते ।
कुलेशि ब्रह्यनिष्ठोऽपि निन्द्यतामधिगच्छति ॥१०५ ॥
लिङ्गत्रयविशेषज्ञः षडाधारविभेदकः ।
पीठस्थानानि चागत्य महापद्मवनं व्रजेत् ॥ १०६ ॥
आमूलाधारमाब्रह्मरन्ध्रं गत्वा पुनः पुनः ।
चिच्चन्द्रकुण्डलीशक्तिसामरस्य सुखोदयः ॥ १०७ ॥
व्योमपङ्कजनिस्यन्दसुधापानरतो नरः ।
सुधापानमिदं प्रोक्तमितरे मद्यपायिनः ॥ १०८ ॥
पुण्यापुण्यपशुं हत्वा ज्ञानखड्गेन योगवित् ।
परे लयं नयेच्चितं पलाशी स निगद्यते ॥ १०९ ॥
मनसा चेन्द्रियगणं संयम्यात्मनि योजयेत् ।
मत्त्स्याशी स भवेद्देवि शेषाः स्युः प्राणिहिंसकाः ॥ ११०॥
अप्रबुद्धा पशोः शक्तिः प्रबुद्धा कौलिकस्य च ।
शक्तिं तां सेवयेत् यस्तु स भवेत् शक्तिसेवकः ॥ १११ ॥
पराशक्त्यात्ममिथुनसंयोगानन्दनिर्भरः ।
य आस्ते मैथुनं तत् स्यादपरे स्त्रीनिषेवकाः ॥ ११२ ॥
इत्यादि पञ्चमुद्राणां वासनां कुलनायिके ।
ज्ञात्वा गुरुमुखाद्देवि यः सेवेत स मुच्यते ॥ ११३ ॥
इति ते कथितं देवि कुलद्रव्यादिलक्षणम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ ११४ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे कुलमाहात्म्यकथनं नाम पञ्चमोल्लासः ॥ ५ ॥
अथ षष्ठोल्लासः
[सम्पाद्यताम्]श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि पूजकस्य च लक्षणम् ।
कुलद्रव्यादिसंस्कारमर्चनं वद मे प्रभो ॥ १ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण स्तूयते देवदानवैः ॥ २ ॥
निरस्तपातका यत्र मानवाः पुण्यकमीणः ।
कुलज्ञानसुसम्पन्ना भजन्ते ये दृढव्रताः ॥ ३ ॥
पूर्णाभिषेकसहितो वेदशास्त्रार्थतत्त्ववित्।
देवतागुरुभक्तस्तु नियतात्मार्चयेत् प्रिये ॥ ४ ॥
कुलागमरहस्यज्ञो देवताराधनोत्सुकः ।
गुरूपदेशसंयुक्तः पूजयेत् कुलनायिके ॥ ५ ॥
शुद्धात्मा चातिसंहृष्टः क्रोधलौल्यविवजीतः ।
पशुव्रतादिविमुखः सुमुखस्तु यजेत् प्रिये ॥ ६ ॥
यदा पुंसः कृतार्थस्य कालेन बहुना प्रिये ।
मत्प्रसादेन भूयाच्च दृढभक्तिसमागमः ॥ ७ ॥
तदर्थं तर्पणं कुर्याद् द्रव्यैः श्रीभैरवोदितेः ।
गुरूपदेशविधिना चान्यथा पतनं भवेत् ॥ ८ ॥
मन्त्रयोगेन देवेशि कुर्यात् श्रीचक्रपूजनम् ।
तदहन्तु त्वया सार्धं गृह्णामि स्वयमादरात् ॥ ९ ॥
भैरवोऽहमिति ज्ञानात् सर्वज्ञादिगुणान्वितः ।
इति संचिन्त्य योगीन्द्रः कुलपूजारतो भवेत् ॥ १० ॥
इत्यादिलक्षणोपेतः कौलिको नियतव्रतः ।
यस्त्वां समर्चयेद्देवि भुक्तिमुक्त्योः स भाजनम् ॥ ११ ॥
एकान्ते विजनेऽरण्ये देशे बाधाविवजीते ।
सुखासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः ॥ १२ ॥
अमृताब्धौ मणिद्वीपे कल्पवृक्षतरोस्तले ।
रत्नप्राकारसन्दीप्तं स्मरेन्माणिक्यमण्डपम् ॥ १३ ॥
पुष्पमालावितानाढ्यं प्रच्छन्नपटसंवृतम् ।
कर्पूरदीपभास्वन्तं धूपामोदसुगन्धिकम् ॥ १४ ॥
तन्मण्डपस्थमात्मानं ध्यात्वाऽनाकुलचेतसा ।
श्रीगुरोराज्ञया देवि कुलपूजां समाचरेत् ॥ १५ ॥
आत्मस्थानमनुद्रव्यदेवशुद्धिस्तु पञ्चमी ।
यावन्न कुरुते मन्त्री तावद्देवार्चनं कुतः ॥ १६ ॥
सुस्नानभूतसंशुद्धिप्राणायामादिभिः प्रिये ।
षडङ्गाद्यखिलन्यासेरात्मशुद्धिः समीरिता ॥ १७ ॥
सम्मार्जनानुलेपाद्यैर्दर्पणोदरवत्कृतम् ।
वितानधूपदीपादिपुष्पमालोपशोभितम् ।
पञ्चवर्णरजश्चित्रं स्थानशुद्धिरितीरिता ॥ १८ ॥
ग्रथित्वा मातृकावर्णैर्मूलमन्त्राक्षराणि च ।
क्रमोत्क्रमाद् द्विरावृत्त्या मन्त्रशुद्धिरितीरिता ॥ १९ ॥
पूजाद्रव्याणि संप्रोक्ष्य मूलास्त्राद्भिवीधानवित् ।
दर्शयेद्धेनुमुद्राञ्च द्रव्यशुद्धिरितारिता ॥ २० ॥
पीठे देवं प्रतिष्ठाप्य सकलीकृत्य मन्त्रवित् ।
मूलमन्त्रेण दीप्तात्मा न्यासद्रव्योदकेन च ।
त्रिवारं प्रोक्षयेद्विद्वान् देवशुद्धिरितीरिता ॥ २१ ॥
पञ्चशुद्धिं विधायेत्थं पश्चाद् यजनमाचरेत् ।
सा पूजा सफला प्रोक्ता चान्यथा निष्फला भवेत् ॥ २२ ॥
मण्डलेन विना पूजा निष्फला कथिता प्रिये ।
तस्मान्मण्डलमालिख्य विधिवत्तत्र पूजयेत् ॥ २३ ॥
अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् ।
त्रैलोक्यं मण्डितं येन मण्डलं तत् सदा शिवम् ॥ २४ ॥
उड्डीयानां चतुरस्रं कामरूपञ्च वर्त्तुलम् ।
जालन्धरञ्च चन्द्रार्धं त्र्यस्रः पूर्णगिरिर्भवेत् ॥ २५ ॥
अभ्यर्च्य मण्डलं पश्चादाधारान् स्थापयेत् क्रमात् ।
समान्यश्रीगुरुभोगबलिपात्राणि पञ्चधा ॥ २६ ॥
द्विपात्रं वा त्रिपात्रं वा एकपात्रं न कारयेत् ।
स्वदक्षिणादिवामान्तं स्थाप्याभ्यर्च्यासवेन तु ॥ २७ ॥
संपूर्य मूलमन्त्रेण कुलेश्वरि विनिधानवित् ।
तत्र माषप्रमाणन्तु मत्स्यं मांसं विनिक्षेपेत् ॥ २८ ॥
नष्टैः पर्युषितोच्छिष्टैर्दुर्गन्धैर्गन्धवजीतैः ।
हेतुभिः परपात्रस्थैस्तपीतं निष्फलं भवेत् ॥ २९ ॥
न पूरयेत्तु पात्राणि अप्रियैस्तैः कुलेश्वरि ।
स्वादिष्ठैश्च मदिरौष्ठैश्च द्रव्यैरमृतसन्निभैः ।
मनोहरैर्महेशानि तर्पणं सफलं भवेत् ॥ ३० ॥
असंस्कृता सुरा पापकलहव्याधिदुःखदा ।
आयुःश्रीकीत्तीसौभाग्यधनधान्यविनाशिनी ॥ ३१ ॥
तस्मात् संस्कृत्य विधिवत् कुलद्रव्यं ततोऽर्चयेत् ।
अन्यथा नरकं याति दाता भोक्ता न संशयः ॥ ३२ ॥
विना द्रव्यादिवासेन न जपेन्न स्मरेत् प्रिये ।
ये स्मरन्ति नरा मूढास्तेषां दुःखं पदे पदे ॥ ३३ ॥
नासवेन विना मन्त्रो न मन्त्रेण विनासवः ।
परस्परविरोधित्वात् कथं पूजा विधीयते ॥ ३४ ॥
तत्संशयनिवृत्तिञ्च ज्ञात्वा गुरुमुखात् प्रिये ।
वीक्षणं प्रोक्षणं ध्यानं मन्त्रमुद्राविशोधनम् ।
द्रव्यं तर्पणयोग्यं स्याद्देवताप्रीतिकारकम् ॥ ३५ ॥
अग्निसूर्येन्दुब्रह्मेन्द्रविष्णुरुद्रसदाशिवैः ।
चतुवींशतिमन्त्रैः स्यान्मद्यञ्चैव परामृतम् ॥ ३६ ॥
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ।
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ ३७ ॥
पूर्णा पूर्णामृता चेति कथिताः कुलनायिके ।
सौम्याः कामप्रदायिन्यः षोडश स्वरजाः कलाः ॥ ३८ ॥
तपनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुषुम्ना भोगदा विश्वा रोधिनी धारिणी क्षमा ।
कभाद्या वसुदाः सौराष्ठडान्ता द्वादशेरिताः ॥ ३९ ॥
धूम्राचीरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ।
आग्नेया यादिवर्णाद्या दश धर्मप्रदाः कलाः ॥ ४० ॥
सृष्टिर्मेधा स्मृतिरृद्धिः कान्तिर्लक्ष्मीर्द्युतिः स्थिरा ।
स्थितिः सिद्धिरिति प्रोक्ताः कचवर्गकला दश ।
अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः ॥ ४१ ॥
जरा च पालिनी शान्तिरीश्वरी रतिकामिके ।
वरदाह्लादिनीप्रीतिदीर्घाः स्युष्टतवर्गजाः ।
उकारप्रभवा विष्णुजाताः स्युः स्थितये कलाः ॥ ४२ ॥
तीक्ष्ण रौद्री भया निद्रा तन्द्रा क्षुत् क्रोधिनी क्रिया ।
उत्कारी मृत्युरित्युक्ता पयवर्गकला दश ।
मकारप्रभवा रुद्रजाताः संहृतये कलाः ॥ ४३ ॥
षवर्गगाश्चतस्रः स्युः पीता श्वेतारुणासिताः ।
कलाश्चेश्वरसञ्जातास्तिरोधानाय बिन्दुजाः ॥ ४४ ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
इन्धिका दीपिका चापि रेचिका मोचिका परा ॥ ४५ ॥
सूक्ष्मा सूक्ष्मामृता ज्ञानाऽमृता चाप्यायिनी तथा ।
व्यापिनी व्योमरूपा च षोडश स्वरजाः कलाः ।
सदाशिवभवा नादादनुग्रहकलाः क्रमात् ॥ ४६ ॥
प्रथमं प्रकृतेर्हंसःप्रतद्विष्णुरनन्तरम् ।
त्र्यम्बकन्तु तृतीयं स्याच्चतुर्थस्तत्पदादिकः ॥ ४७ ॥
विष्णुर्योनिं कल्पयतु पञ्चमः कल्पनामनुः ।
चतुर्नवतिमन्त्रात्मदेवताभावसिद्धिदाः ॥ ४८ ॥
मन्त्रजापश्च संप्रोक्त आत्मस्तवश्च पञ्चभिः ।
अत्र ये (ते) पञ्च संप्रोक्ता मन्त्रास्ते कुलनायिके ॥ ४९ ॥
अखण्डैकरसानन्दाकरे परसुधात्मनि ।
स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि ॥ ५० ॥
अकुलस्थामृताकारे सिद्धिज्ञानकरे परे ।
अमृतत्वं विधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥ ५१ ॥
तद्रूपेणैकरस्यञ्च कृत्वार्घ्यं तत्स्वरूपिणि ।
भूत्वा परामृताकारं मयि चित्स्फुरणं कुरु ॥ ५२ ॥
वाग्भवं पार्श्वगं भूमिः पुष्टिरिन्दुसमन्विता ।
स्थितिश्च पावकानुग्रहार्थेन्दुसमलङ्कृता ॥ ५३ ॥
स्थिरेन्धिकेन्दुसंयुक्ता श्वेता बिन्दुयुगान्विता ।
तथामृते पदं ब्रूयात्तत्पश्चादमृतोद्भवे ॥ ५४ ॥
तथामृतेश्वरीत्युक्त्वा पश्चादमृतवषीणि ।
अमृतं स्रावयद् द्वन्द्वं द्विठान्तो द्रव्यशुद्धिकृत् ।
अमृतेशीमनुः प्रोक्तः पञ्चत्रिंशद्भिरक्षरैः ॥ ५५ ॥
वाग्भवं वदयुग्मञ्च वाग्वादिनीति वाग्भवम् ।
कामराजं ततः क्लिन्ने क्लेदिनि क्लेदयेति च ॥ ५६ ॥
महामोक्षं कुरुयुग्मं कामराजमतः परम् ।
तार्त्तीयं मोक्षशब्दान्ते कुरुयुग्मं वदेत्ततः ॥ ५७ ॥
स्यात् प्रासादपरा चान्तेसप्तत्रिंशद्भिरक्षरैः ।
दीपनीमनुरित्युक्तः सर्वसिद्धिकरः प्रिये ॥ ५८ ॥
एताः कला मातृकाञ्चाप्यख(ण्डेन्द्वा)ण्डैकादिकान् मनून् ।
अमृतेशीं दीपनीञ्च मूलामन्त्रमपि क्रमात् ॥ ५९ ॥
एकद्वित्रिचतुःपञ्च द्विचतुर्वारमम्बिके ।
संस्मृत्याभ्यर्च्य पात्रन्तु पूजयेद्धेनुमुद्रया ॥ ६० ॥
ब्रह्माण्डखण्डसम्भूतमशेषरससम्भृतम् ।
आपूरितं महापात्रं पीयूषरसमावह ॥ ६१ ॥
शुद्धद्रव्येण तेनापि गन्धपुष्पाक्षतैरपि ।
न्यासोक्तसर्वमन्त्रैश्चाप्यात्मानं पूजयेत् प्रिये ॥ ६२ ॥
मूध्नी श्रीगुरुपङ्क्तीश्च मूलाधारे च पादुकाम् ।
दिव्यौघे चादिनाथश्च तच्छक्तिश्च सदाशिवः ॥ ६३ ॥
तत्पत्नी चेश्वरस्तस्य भार्या रुद्रश्च तद्वधूः ।
विष्णुश्च तत्प्रिया ब्रह्मा तत्कान्ता द्वादशेरिताः ॥ ६४ ॥
सिद्धौघे सनकश्चैव सनन्दश्च सनातनः ।
सनत्कुमारश्च सनत्सुजातश्च ऋभुक्षजः ॥ ६५ ॥
दत्तात्रेयो रैवतको वामदेवस्ततः परम् ।
ततो व्यासः शुकश्चैव एकादश समीरिताः ॥ ६६ ॥
मानवौघे नृसिंहश्च महेशो भास्करस्तथा ।
महेन्द्रो माधवो विष्णुः षडेते च प्रकीत्तीताः ॥ ६७ ॥
नमोऽन्ते योजयेद्देवि दिव्यौघे परमं शिवम् ।
महाशिवञ्च सिद्धौघे मानवौघे सदाशिवम् ॥ ६८ ॥
ततः पीठं समभ्यर्च्य देवीमावाहयेत् प्रिये ।
महापद्मवनान्तःस्थे कारणानन्दविग्रहे ।
सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ ६९ ॥
देवेशि भक्तिसुलभे सर्वावरणसंयुते ।
यावत्त्वां पूजयामीह तावत्त्वं सुस्थिरा भव ॥ ७० ॥
मन्त्रेणानेन चावाह्य यजेद्देवीमनन्यधीः ।
ध्यात्वा मुद्रां प्रदर्श्यार्चेत् गन्धपुष्पाक्षतादिभिः ॥ ७१ ॥
चिन्मयस्याप्रमेयस्य निर्गुणस्याशरीरिणः ।
साधकानां हितार्थाय ब्रह्मणो रूपकल्पना ॥ ७२ ॥
लिङ्गस्थण्डिलवह्न्यम्बुसूपकुड्यपटेषु च ।
मण्डले फलके मूध्नी हृदि वा दश कीत्तीताः ॥ ७३ ॥
एषु स्थानेषु देवेशि यजन्ति परमां शिवाम् ।
अरूपां रूपिणीं कृत्वा कर्मकाण्डरता नराः ॥ ७४ ॥
गवां सर्वाङ्गजं क्षीरं स्रवेत् स्तनमुखाद् यथा ।
तथा सर्वगतो देवः प्रतिमादिषु राजते ॥ ७५ ॥
आभिरूप्याच्च बिम्बस्य पूजायाश्च विशेषतः ।
साधकस्य च विश्वासात् सन्निधौ देवता भवेत् ॥ ७६ ॥
गवां सपीः शरीरस्थं न करोत्यङ्गपोषणम् ।
स्वकर्मरचितं दत्तं पुनस्तामेव पोषयेत् ॥ ७७ ॥
एवं सर्वशरीरस्था सपीर्वत् परमेश्वरी ।
विना चोपासनां देवि न ददाति फलं नृणाम् ॥ ७८ ॥
सकलीकृत्य तत्प्राणान् समुद्दीप्येन्द्रियाणि च ।
प्रतिष्ठाप्यार्चयेद्देवि चान्यथा निष्फलं भवेत् ॥ ७९ ॥
मन्त्रहीनं क्रियाहीनं विधिहीनञ्च यद् भवेत् ।
क्षमया साधयेत् सर्वं हीनमङ्गं पदं तथा ॥ ८० ॥
नियमादतिरेकेण यद् यत् कर्म करोति यः ।
न किञ्चिदप्यस्य फलं सिध्यति क्रमदोषतः ॥ ८१ ॥
न्यूनातिरिक्तकर्माणि न फलन्ति कदाचन ।
यथाविधि कृतानीह सत्कर्माणि फलन्ति हि ॥ ८२ ॥
तद्विधानकृतं कर्म जपहोमार्चनादिषु ।
देवताप्रीतिदं भूयाद् भुक्तिमुक्तिफलप्रदम् ॥ ८३ ॥
देवस्य मन्त्ररूपस्य मन्त्रव्याप्तिमजानताम् ।
कृतार्चनादिकां सर्वं व्यर्थं भवति शाम्भवि ॥ ८४ ॥
यन्त्रं मन्त्रमयं प्रोक्तं देवता मन्त्ररूपिणी ।
यन्त्रे सा पूजिता देवि सहसैव प्रसीदति ॥ ८५ ॥
कामक्रोधादिदोषोत्थसर्वदुःखनियन्त्रणात् ।
यन्त्रमित्याहुरेतस्मिन् देवः प्रीणाति पूजितः ॥ ८६ ॥
शरीरमिव जीवस्य दीपस्य स्नेहवत् प्रिये ।
सर्वेषामपि देवानां तथा यन्त्रं प्रतिष्ठितम् ॥ ८७ ॥
तस्माद् यन्त्रं लिखित्वा वा ध्यात्वा सावृतिकं शिवम् ।
ज्ञात्वा गुरुमुखात् सर्वं पूजयेद्विधिना प्रिये ॥ ८८ ॥
एकपीठे पृथक्पूजां विना यन्त्रं करोति यः ।
अङ्गाङ्गित्वं परित्यज्य देवताशापमाप्नुयात् ॥ ८९ ॥
एकपीठे कुलेशानि स्वे स्वे यन्त्रे पृथक्पृथक् ।
यजेदावरणोपेता देवतास्तद्विधानतः ॥ ९० ॥
आवाह्य देवतामेकां पूजयेदन्यदेवताम् ।
उभाभ्यां लभते पापं मन्त्री चञ्चलमानसः ॥ ९१ ॥
इत्यादिलक्षणं ज्ञात्वा गुरुतः शास्त्रतः प्रिये ।
विधिनाभ्यर्चयेत् सम्यग्देवता सुप्रसीदति ॥ ९२ ॥
षोडशैरुपचारैस्तु साङ्गं सावरणं शिवम् ।
पूजयेन्मूलमन्त्रेण गन्धपुष्पाक्षतादिभिः ॥ ९३ ॥
महाषोढोदिताशेषपरिवारांश्च शाम्भवि ।
प्रणवादिनमोऽन्तेन तत्तन्नाम्ना समर्चयेत् ॥ ९४ ॥
आगमोक्तेन मार्गेण तर्पयेदलिबिन्दुभिः ।
अङ्गुष्ठानामिकाभ्याञ्च नखे निःसृतमूर्ध्वतः ।
स्वपात्रस्पन्दनिस्यन्दं विधिवत् कुलनायिके ॥ ९५ ॥
सकृत्तर्पणमुत्सृज्य जप्त्वा मूलञ्च पादुकाम् ।
अन्तःशक्तिं समुत्थाप्य तर्पयेद्देहदेवताः ॥ ९६ ॥
अङ्गुष्ठो भैरवो देवो अनामा चण्डिका प्रिये ।
अनामाङ्गुष्ठयोगेन तर्पयेत् कुलसन्ततिम् ॥ ९७ ॥
अङ्गुष्ठानामिकाभ्याञ्च वश्यकर्मणि तर्पयेत् ।
तर्जन्यङ्गुष्ठयोगेन तर्पयेदभिचारके ।
कनिष्ठाङ्गुष्ठयोगेन स्तम्भने तर्पयेत् प्रिये ॥ ९८ ॥
एवं सन्तर्प्य देवेशि कुलद्रव्यैर्यथाविधि ।
देवतापुरतो देवि गुरुपङ्क्तीश्च पूजयेत् ।
पङ्क्तित्रयक्रमेणाथ ज्ञात्वा सम्यगनन्यधीः ॥ ९९ ॥
कराभ्यां चिन्मुद्रां समधुनृकपालञ्च दधतीं द्रुतस्वर्णप्रख्यामरुणकुसुमालेपवसनाम् ।
कृपापूर्णापाङ्गीमरुणनयनामम्बरजटा- मुपेतां सिद्धौघैर्यजतु गुरुपंक्तिं क्रमगतिम् ॥ १०० ॥
एवं संपूज्य धूपञ्च दीपं नैवेद्यमेव च ।
आसवं पिशितोपेतं भक्ष्याणि विविधानि च ।
कदल्यादिफलान्येव ताम्बूलञ्च समर्पयेत् ॥ १०१ ॥
इति ते कथितं देवि कुलाचारस्य लक्षणम् ।
द्गव्यसंस्कारशुद्ध्यादि किमन्यत् श्रोतुमिच्छसि ॥ १०२ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे द्रव्यसंस्कारविधानकथनं नाम षष्ठोल्लासः ॥ ६ ॥
अथ सप्तमोल्लासः
[सम्पाद्यताम्]श्रीदेव्युवाच
कुलेश बटुकादीनां बलिञ्च शक्तिलक्षणम् ।
तदद्रव्यस्यैव स्वीकारं वद मे करुणानिधे ॥ १ ॥
ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण तत्त्वज्ञानं प्रकाशते ॥ २ ॥
यावन्नो वटुके दद्यात्तावन्नैव कुलेश्वरि ।
तृप्यन्ति देवताः सर्वाः स्मरणाद् यजनादपि ॥ ३ ॥
वटुकादीन् यजेत्तस्माद् गन्धपुष्पासवामिषैः ।
तत्तन्मन्त्रविधानेन देवता प्रीतिमाप्नुयात् ॥ ४ ॥
यत्किञ्चिद्धव्यसंघातं पूजार्थं भोगहेतुना ।
आनीतं दीयते भक्त्या क्षेत्रपेभ्यः कुलेश्वरि ॥ ५ ॥
वटुकमन्त्रान् वक्ष्यामि शृणुष्व कुलनायिके ।
यैः समचीतमात्रेण सर्वे नश्यन्त्युपद्रवाः ॥ ६ ॥
तारत्रयं ततो देवीपुत्रेति बटुकेति वा ।
नाथेति कपिलजटाभारभास्वरपिङ्गल ॥ ७ ॥
त्रिनेत्रेति पदं पश्चाज्ज्वालामुखपदं ततः ।
इमां पूजां बलिं गृह्णद्वयं पावकवल्लभा ।
उक्तो वटुकमन्त्रोऽयं चतुश्चत्वारिंशदक्षरैः ॥ ८ ॥
बलिदानेन सन्तुष्टो बटुकः सर्वसिद्धिदः ।
शान्तिं करोतु मे नित्यं भूतवेतालसेवितः ॥ ९ ॥
तारत्रयं ततः सर्वयोगिनीभ्यः पदं वदेत् ।
तत्पश्चात् सवर्भूतेभ्यः सर्वभूताधिवत्ती च ॥१०॥
पदं ताभ्यो डाकिनीभ्यः शाकिनीभ्यः पदं वदेत् ।
त्रैलोक्येति पदं चैव वासिनीभ्य इमां वदेत् ॥ ११ ॥
पूजां बलिं गृह्णयुग्मं स्वाहान्तो योगिनीमनुः ।
कथितोऽयं महेशानि मन्त्रः पञ्चादशाक्षरः ॥ १२ ॥
या काचिद् योगिनी रौद्रा सौम्या घोरतरा परा ।
खेचरी भूचरी व्योमचरी प्रीतास्तु मे सदा ॥ १३ ॥
तारत्रयं वदेत् सर्वभूतेभ्यः सर्व एव हि ।
पश्चाद् भूतपतिभ्यो हृद्युक्तः सप्तदशाक्षरः ॥ १४ ॥
भूता ये विविधाकारा दिव्या भौमान्तरिक्षगाः ।
पातालसंस्था मे केविच्छिवयोगेन भाविताः ॥ १५ ॥
ध्रुवाद्याः सत्यसन्धाश्च इन्द्राद्याः स्वर्व्यवस्थिताः।
तृप्यन्तु प्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् ॥ १६ ॥
तारत्रयं वदेद्देहियुग्मं देवीपदं वदेत् ।
पुत्राय बटुकनाथाय पश्चादुच्छिष्टहारिणे ।
सर्वविघ्नान् पदं पश्चात् नाशयद्वितयं तथा ॥ १७ ॥
गृह्णयुग्मं रुरुपदं क्षेत्रपालपदं ततः ।
सर्वोपचारसहितामिमां पूजां बलिं वदेत् ।
गृह्ण गृह्ण द्विठान्तोऽयं क्षेत्रपालमनुः प्रिये ॥ १८ ॥
चतुःषष्ट्यक्षरैः प्रोक्तः सर्वसिद्धिप्रदायकः ।
योऽस्मिन् क्षेत्रे निवासी च क्षेत्रपालस्य किङ्करः ।
प्रीतोऽयं बलिदानेन सर्वरक्षां करोतु मे ॥ १९ ॥
तारत्रयं वदेत्तारं श्रीप्रासादपरामनुः ।
ह्रां ह्रीं ह्रूञ्च युगञ्चादौ भैरवाधिष्ठिताय च ॥ २० ॥
अक्षोभ्यानन्दतः पश्चाद्धृदयाभीष्टदः परम् ।
सिद्धार्थपदमाभाष्य पश्चादवतरद्वयम् ॥ २१ ॥
क्षेत्रपालपदं पश्चात् महाशान्त पदं ततः ।
मातृपुत्रपदं पश्चात् कुलपुत्रपदं तथा ॥ २२ ॥
सिद्धिपुत्रपदं चास्मिन् स्थानाधिपपदं ततः ।
ग्रामाधिपतयेऽस्मिन् स्याद्देशाधिपतये ततः ॥ २३ ॥
वदेद् बटुकनाथेति देवीपुत्रपदं ततः ।
मेघनादपदं पश्चात् प्रचण्डोग्रपदं वदेत् ॥ २४ ॥
कपालीति पदं पश्चाद्भीषणेति पदं वदेत् ।
स्यात् सर्वविघ्नाधिपतये इमां पूजां बलिं वदेत् ॥ २५ ॥
गृह्ण गृह्ण कुरुद्वन्द्वं मम दूरययुग्मकम् ।
ज्वलयुक्प्रज्वलयुगं सर्वविघ्नानीतीरयेत् ॥ २६ ॥
नाशयद्वितयं क्षां क्षं पश्चाद् बुद्धिमितीरयेत् ।
क्षेत्रपालाय वौषट् ह्रूं षष्ट्युत्तरशताक्षरः ॥ २७ ॥
तारत्रयं वदेत् पश्चादमुक क्षेत्रपाल च ।
राजराजेश्वर इमां पूजां बलिमतः परम् ।
गृह्णयुग्मं द्विठान्तोऽयमष्टाविंशाक्षरो मनुः ॥ २८ ॥
अनेन बलिदानेन वटुवंशसमन्वितः ।
राजराजेश्वरो देवो मे प्रसीदतु सर्वदा ॥ २९ ॥
पश्चिमे वटुकं देवमुत्तरे योगिनीबलिम् ।
पूर्वे भूतबलिं दद्यात् क्षेत्रपालञ्च दक्षिणे ।
राजराजेश्वरं मध्ये पूजयेत् कुलनायिके ॥ ३० ॥
अङ्गुष्ठानामिकाभ्याञ्च बटुकस्य बलिः स्मृतः ।
तर्जनीमध्यमानामिकाङ्गुष्ठैर्योगिनीबलिः ॥ ३१ ॥
अङ्गुलीभिश्च सर्वाभिरुक्तो भूतबलिः प्रिये ।
अङ्गुष्ठतर्जनीभ्याञ्च क्षेत्रपालबलिर्भवेत् ।
अङ्गुष्ठमध्यमाभ्याञ्च राजराजेश्वरस्य च ॥ ३२ ॥
बटुकादीन् समर्च्यैवं कुलदीपान् प्रदर्शयेत् ।
ईषद्रक्तसुपिष्टेन चतुरङ्गुलिमानतः ॥ ३३ ॥
दीपान् डमरुकाकारान् त्रिकोणानतिशोभनान् ।
कर्षाज्यग्राहिणः कुर्ययान्नव सप्ताथ पञ्च वा ॥ ३४ ॥
अन्तस्तेजो बहिस्तेज एकीकृत्यामितप्रभान् ।
त्रिधा देव्युपरि भ्राम्य कुलदीपान् निवेदयेत् ॥ ३५ ॥
समस्तचक्रचक्रेशि देवेशि सकलात्मिके ।
आरात्रीकमिदं देवि गृहाण मम सिद्धये ।
कुलदीपान् प्रदर्श्याथ शक्तिपूजां समाचरेत् ॥ ३६ ॥
स्वशक्तिं वीरशक्तिं वा दीक्षितां गुरुमार्गतः ।
पाययित्वा चरेत् पानमिति शास्त्रस्य निश्चयः ॥ ३७ ॥
अदीक्षितां स्त्रियं कुर्यात् सद्यः संस्कारमम्बिके ।
मन्त्रदीक्षाविधानेन् शुद्धा भवति नान्यथा ॥ ३८ ॥
तस्मात् सुलक्षणां शक्तिं गन्धपुष्पाक्षतादिभिः ।
अभ्यर्च्य देवताबुद्ध्या भोगपात्रं निवेदयेत् ॥ ३९ ॥
तदन्ते कन्यकाश्चापि प्रमदाश्च मनोहराः ।
सम्पूज्य देवताबुद्ध्या दद्यात् पात्रं पृथक् पृथक् ॥ ४० ॥
अनिवेद्य तु यः शक्त्यै कुलद्रव्यं निषेवते ।
पूजितं निष्फलं तस्य देवता न प्रसीदति ॥ ४१ ॥
चण्डाली चर्मकारी च मातङ्गी पुक्कसी तथा ।
श्वपची खट्टकी चैव कैवर्त्ती विश्वयोषितः ॥ ४२ ॥
कुलाष्टकमिदं प्रोक्तमकुलाष्टकमुच्यते ।
कन्दुकी शौण्डिकी चैव शस्त्रजीवी च रञ्जकी ॥ ४३ ॥
गायकी रजकी शिल्पी कौलिकी च तथाष्टमी ।
तन्त्रमन्त्रसमायुक्ता समयाचारपालिका ॥ ४४ ॥
कुमारी च व्रतस्था च योगमुद्राधरापि वा ।
पूजाकाले स्वतः प्राप्ता सा ज्ञेया सहजा बुधैः ॥ ४५ ॥
उक्तजात्यङ्गनाभावे चातुर्वर्ण्याङ्गनां यजेत् ।
सुरूपा तरुणी शान्ता कुलाचारयुता शुचिः ॥ ४६ ॥
शङ्काहीना भक्तियुक्ता गूढा शास्त्रोपजीविनी ।
अलोलुपा सुशीला च स्मितास्या प्रियवादिनी ॥ ४७ ॥
गुरुदैवतसम्भक्ता सुचिता कौलिकप्रिया ।
विमत्सरा विशेषज्ञा देवताराधनोत्सुका ।
मनोहरा सदाचारा शक्तिरेषा सुलक्षणा ॥ ४८ ॥
दुष्टोग्रा कर्कशा क्रूरा दुःखिता कुलदूषणी ।
दुराचारा पराधीना भीता लुब्धातुराऽलसा ॥ ४९ ॥
निद्रासक्तातिदुर्म्मेधा हीनाङ्गी व्याधिपीडिता ।
दुर्गन्धा कुत्सिता मूढा वृद्धोन्मत्ता रहस्यभित् ॥ ५० ॥
कुतर्का कुत्सितालापा निर्लज्जा कलहप्रिया ।
विरूपोन्मार्गगा स्तब्धा पङ्ग्वन्धविकृतानना ।
ईदृशीं मन्त्रयुक्ताञ्च शक्तिं यागे विवर्जयेत् ॥ ५१ ॥
ततोऽर्चनादिकं सर्वं मन्त्रोदकपुरःसरम् ।
इतः पूर्वादिमनुना मन्त्री देव्यै समर्पयेत् ॥ ५२ ॥
तारत्रयमितः पूर्वं प्राणबुद्धी ततः परम् ।
देहधर्माधिकारतो जाग्रत्स्वप्नसुषुप्तिषु ॥ ५३ ॥
मनसा चेतसा वाचा कर्मणा तत्परं वदेत् ।
हस्ताभ्याञ्च ततः पद्भयामुदरेण ततः परम् ॥ ५४ ॥
शिश्ना च यत् स्मृतं पश्चाद् यदुक्तं यत् कृतं वदेत् ।
तत् सर्वं गुरवे चान्ते मत्समपीतमस्त्विति ।
स्वाहान्तो मनुरित्युक्तस्त्रिसप्तत्यक्षरः प्रिये ॥ ५५ ॥
ज्ञानतोऽज्ञानतो वापि यन्मया क्रियते शिवे ।
तव कृत्यमिदं सर्वमिति ज्ञात्वा क्षमस्व मे ॥ ५६ ॥
एवं सम्प्रार्थ्य देवेशि स्तुत्वा नत्वा च भक्तितः ।
प्रधानदेवतामूर्त्तौ परिवारान् समर्चयेत् ।
एवं सावरणां देवीं चिन्तयेत् स्वहृदम्बुजे ॥ ५७ ॥
शेषिकाये समर्प्यात्ममूलमन्त्रेण शोधयेत् ।
स्याद्वाग्भवं हृदुच्छिष्टचाण्डालि तदनन्तरम् ॥ ५८ ॥
वदेन्मातङ्गि सर्वन्ते वश्यंकुरुयुगन्ततः ।
एकविंशतिवर्णैश्च शेषिकामनुरीरितः ॥ ५९ ॥
मन्त्रेणानेन निर्माल्यं शेषिकायै समर्पयेत् ।
देवीमुच्छिष्टमातङ्गीं ध्यायेत् त्रैलोक्यमोहिनीम् ॥ ६० ॥
वीणावाद्यविनोदगीतनिरतां नीलांशुकोल्लासिनीं बिम्बोष्ठीं नवयावकार्द्रचरणामाकीर्णकेशालकाम् ।
मृद्वङ्गीं सिंतशङ्खकुण्डलधरां माणिक्यभूषोज्ज्वलां मातङ्गीं प्रणतोऽस्मि सुस्मितमुखीं देवीं शुकश्यामलाम् ॥६१।
ततः श्रीगुरुरूपाय साक्षात् परशिवाय च ।
कराभ्यां पात्रमुद्धृत्य सद्वितीयं समर्पयेत् ॥ ६२ ॥
स्वसम्प्रदायसंयुक्तैर्वीरैश्च सह पूजयेत् ।
अन्योन्यवन्दनं कृत्वा पिबेत्तत्तदनुज्ञया ॥ ६३ ॥
सव्येनोद्धृत्य पात्रन्तु मुद्रां कृत्वाऽपसव्यतः ।
यथाविधि द्वितीयेन गृह्णीयान्मन्त्रमुच्चरन् ॥ ६४ ॥
पिशितं माषमात्रन्तु द्रव्यं चुल्लुकसम्मितम् ।
आत्मदेहत्रयं तत्त्वं त्रयेणाथ विशोधयेत् ॥ ६५ ॥
तरुणोल्लाससहितः प्रसन्नवदनेक्षणः ।
गुरुः शिष्यान् समाहूय दद्यात्तत्त्वत्रयं प्रिये ॥ ६६ ॥
शिष्योपायनमादाय शुद्धात्मा कुसुमादिकम् ।
यथाशक्ति निवेद्याथ वित्तशाठ्यविवजीतः ॥ ६७ ॥
प्रणम्य बहिरष्टाङ्गं प्रविश्यान्तः शनैः प्रिये ।
समर्प्योपायनं भक्त्या शिवाय गुरुरूपिणे ॥ ६८ ॥
ग्रथिताङ्गुष्ठकौ कृत्वा करौ सक्ताग्रतर्जनी ।
जानुभ्यामवनिं गत्वा पञ्चाङ्गं प्रणमेद् गुरुम् ॥ ६९ ॥
वामाऽङ्गुष्ठानामिकाभ्यां दक्षहस्तप्रसारितम् ।
स्पृष्ट्वा विशुद्धहृदय ईषदानतमस्तकः ॥ ७० ॥
वामाङ्गुष्ठानामिकाभ्यां शिष्याय श्रीगुरुः प्रिये ।
प्रकृत्याद्यैः पृथिव्यन्तैश्चतुवींशतिभिः प्रिये ॥ ७१ ॥
स्वरैरशुद्धतत्त्वैश्च वाग्भवेन कुलेश्वरि ।
संयुक्तेनात्मतत्त्वेन स्थूलदेहं विशोधयेत् ॥ ७२ ॥
मायादिपुरुषान्तैश्च शुद्धाशुद्धैश्च सप्तभिः ।
तत्त्वैः स्पर्शाह्वयैर्वर्णैः कामराजेन मन्त्रवित् ।
युक्तेन विद्यातत्त्वेन सूक्ष्मदेहं विशोधयेत् ॥ ७३ ॥
शुद्धैः शिवादिविद्यान्तैः पञ्चतत्त्वैश्च व्यापकैः ।
परया शिवतत्त्वेन परं देहं विशोधयेत् ॥ ७४ ॥
षट्त्रिंशत्तत्त्वसहितमालिन्या बालया प्रिये ।
सर्वतत्त्वाश्रयं बीजं सर्वतत्त्वैवीशोधयेत् ॥ ७५ ॥
शोधयेति पदं दद्यात् सद्वितीयमलिं गुरुः ।
चुल्लुकं गुरुणा दत्तं शोधयामीति चोच्चरन् ।
भक्त्या चावनतः शिष्यो निःशब्दं त्रिः पिबेदलिम् ॥ ७६ ॥
पाणिभ्यां संस्पृशेद्देहं सर्वतत्त्वं समुच्चरन् ।
शिरःप्रभृतिपादान्तं शुद्धं देहं विचिन्तयेत् ॥ ७७ ॥
स्थूलान्तमात्मतत्त्वं स्यात् सूक्ष्मं विद्यान्तगोचरम् ।
परान्तं शिवतत्त्वं स्यादिति तत्त्वत्रयं जगत् ॥ ७८ ॥
एवं तत्त्वत्रयज्ञानं गुरोर्ज्ञात्वा य आचरेत् ।
स जीवन्नेव मुक्तः स्यादिति शङ्करभाषितम् ॥ ७९ ॥
ततः स्वीकृत्य च गुरुः शिष्येभ्यः शेषदो भवेत् ।
आदाय गुरुणा दत्तं सद्वितीयासवं पिबेत् ॥ ८० ॥
श्रीगुरुज्येष्ठपूज्यानां पुरतः कुलनायिके ।
नोपविश्य पिबेन्मद्यं इति शास्त्रस्य निर्णयः ॥ ८१ ॥
प्राणभेदफलोल्लासप्रणामस्थितिलक्षणम् ।
अविज्ञायाचरेद् यस्तु स भवेदापदाम्पदम् ॥ ८२ ॥
निर्मन्त्रं न पिबेन्मद्यं प्रायश्चित्तं विधीयते ।
तस्मान्मन्त्रविधानेन कर्तव्यं कुलनायिके ॥ ८३ ॥
इदं पवित्रममृतं पिबामि भवभेषजम् ।
पशुपाशसमुच्छेदकारणं भैरवोदितम् ॥ ८४ ॥
चित्ते स्वातन्त्र्यसारत्वात्तदानन्दमयात्मनः ।
तन्मयत्वाच्च भावानां भावाश्चान्तहीता रसे ॥ ८५ ॥
सुषुम्नान्तं विकाशाय सुरसस्तेन पीयते ।
तस्मादिमां सुरां देवीं पूर्णोऽहं त्वां पिबाम्यहम् ॥ ८६ ॥
मन्त्रेणानेन देवेशि मूलमन्त्रेण मन्त्रवित् ।
अनाकुलमनाः कुर्यादलिपानं शनैः शनैः ॥ ८७ ॥
स्वात्ममूलत्रिकोणस्थे कोटिसूर्यसमप्रभे ।
कुण्डल्याकृतिचिद्रूपे हुनेद् द्रव्यं समन्त्रकम् ॥ ८८ ॥
महन्तापात्रभरितमिदन्तापरमामृतम् ।
पराहन्तामये वह्नौ होमस्वीकारलक्षणम् ॥ ८९ ॥
गुरुदैवतमन्त्राणामैक्यं सञ्चिन्तयेद्धिया ।
यावदुल्लासपर्यन्तमुपदेशे पिबेन्मधु ॥ ९० ॥
चुल्लनं सिद्धिदं प्रोक्तं दीपो ज्ञानप्रदायकः ।
पानात् परपदप्राप्तिः कौले त्रयमितीरितम् ॥ ९१ ॥
भोजनान्ते बिषं मद्यं मद्यान्ते भोजनं विषम् ।
अमृतं तद्विजानीयाद् यदन्नं सुरया सह ॥ ९२ ॥
चर्वणेन युतं पानममृतं कथितं प्रिये ।
चर्वणेन बिना पानं केवलं विषवर्द्धनं ॥ ९३ ॥
पानञ्च त्रिविधं प्रोक्तं दिव्यवीरपशुक्रमात् ।
दिव्यं देव्यग्रतः पानं वीरं मुद्रासने कृतम् ॥ ९४ ॥
स्वेच्छया पशुवत्पीतं पशुपानमितीरितम् ॥ ९५ ॥
भुक्तिमुक्तिप्रदं दिव्यं वीरं भुक्तिप्रदं भवेत् ।
पशुपानं नरकदं प्रोक्तं पानफलं प्रिये ॥ ९६ ॥
दृष्टिमानसवाक्काये यावन्नो भवति भ्रमः ।
तावत् पानं प्रकुर्वीत पशुपानमतः परम् ॥ ९७ ॥
यावन्नेन्द्रियवैकल्यं यावन्नो मुखवैकृतम् ।
तावदेव पिबेन्मद्यमन्यथा पतनं भवेत् ॥ ९८ ॥
पूर्णाभिषेकयुक्तानां पानं देवि निगद्यते ।
कराभ्यां पात्रमुद्धृत्य स्मरेन्मूलञ्च पादुकाम् ।
आगलान्तं पिबेद्द्रव्यं स मुक्तो नात्र संशयः ॥ ९९ ॥
पीत्वा पीत्वा पुनः पीत्वा यावत् पतति भूतले ।
उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते ॥ १०० ॥
आनन्दात्तृप्यते देवी मूर्च्छया भैरवः स्वयम् ।
वमनात् सर्वदेवाश्च तस्मात्रिविधमाचरेत् ॥ १०१ ॥
दिव्यपानरतानां वै यत् सुखं कुलयोगिनाम् ।
तत् सुखं सार्वभौमस्य नृपस्यापि न विद्यते ॥ १०२ ॥
यत् सुखं कुलनिष्ठानां कुलद्रव्यनिषेवनात् ।
तत् सौख्यमेव मोक्षः स्यात् सत्यमेव वरानने ॥ १०३ ॥
इति ते कथितं किञ्चित् वटुशक्त्यादिपूजनम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १०४ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे बटुकशक्त्यादिपूजनं नाम सप्तमोल्लासः ॥ ७ ॥
अथाष्टमोल्लासः
[सम्पाद्यताम्]श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि करुणामृतवारिधे ।
उल्लासभेदं देवेश द्रव्यपात्रादिसङ्गमम् ॥ १ ॥
रत्युद्वासनकालञ्च श्रीचक्रस्थितिमेव च ।
चेष्टां कौलिकशक्तीनां वद मे परमेश्वर ॥ २ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण जायते दिव्यभावना ॥ ३ ॥
आरम्भस्तरुणश्चैव यौवनं प्रौढमेव च ।
तदन्तश्चोन्मनाश्चैव ततोल्लासश्च सप्तमः ॥ ४ ॥
तत्त्वत्रयं स्यादारम्भः कथितः कुलनायिके ।
कथितस्तरुणोल्लासस्तरुणं सुखमम्बिके ॥ ५ ॥
यौवनं मनसः सम्यगुल्लासः सुस्थितिः प्रिये ।
स्खलनं दृङ्मनोवाचां प्रौढमित्यभिधीयते ॥ ६ ॥
समुल्लासपरे चक्रे य इच्छेत् पात्रमेलनम् ।
अर्वाक् प्रौढसमुल्लासं नैव कुर्यात् कदाचन ।
यथाधिकारं तत्रापि कर्त्तव्यं पात्रमेलनम् ॥ ७ ॥
अदीक्षितैरनाचारैरतन्त्रज्ञदैवतैः ।
दूषकैः समयभ्रष्टैर्न कुर्याद् द्रव्यसङ्गतिम् ॥ ८ ॥
अभिज्ञं मन्यमानैश्च प्रपञ्चव्रतधारिभिः ।
पशुभिः क्षुद्रकर्मस्थैर्न कुर्याद् द्रव्यसङ्गतिम् ॥ ९ ॥
स्त्रीद्विष्टैर्गुरुभिः शप्तैर्भक्तिहीनैर्दुरात्मभिः ।
कुलोपदेशहीनैश्च न कुर्याद् द्रव्यसङ्गतिम् ॥ १० ॥
पदवाक्यप्रमाणज्ञाः श्रुतिस्मृत्यर्थवेदिनः ।
कुलधर्मानभिज्ञाश्चेत्तत्सङ्गं परिवर्जयेत् ॥ ११ ॥
सत्कुले च प्रसूता वा वृद्धाश्चाचारवत्तीनः ।
त्वत्पूजाविमुखाः स्युश्चेत्तत्संसर्गं परित्यजेत् ॥ १२ ॥
स्त्रीपुत्रमित्रबन्धूनां स्निग्धानामपि पार्वति ।
कुलाचारानभिज्ञानां सङ्गतिं वर्जयेत्प्रिये ॥ १३ ॥
अदृष्टपौरुषाणाञ्च देशान्तरनिवासिनाम् ।
विना सङ्केतयोगेन न कुर्याद् द्रव्यसङ्गतिम् ॥ १४ ॥
एकपात्रं न कुर्वीत यदि साक्षात् कुलेश्वरः ।
मन्त्राः पराङ्मुखा यान्ति विघ्नश्चैव पदे पदे ॥ १५ ॥
स्वपात्रस्थितहेतुञ्च न दद्याद्भैरवाय च ।
यदि दद्यात्कुलेशानि देवताशापमाप्नुयात् ॥ १६ ॥
आसनं भोजनं पात्रमम्बरं शयनादिकम् ।
अनभिज्ञैरनर्हैश्च सङ्गमं नैव कारयेत् ॥ १७ ॥
स्रोतोभेदेन वा कुर्यात्कौलिकः पात्रमेलनम् ।
पूर्वदक्षिणयोरैक्यमुदक्पश्चिमयोस्तथा ॥ १८ ॥
तस्मिन् क्रमार्चनपरैर्वीरैः स्वसदृशैरपि ।
कामिनीभिश्च तत्कुर्यात् स्रोतसाञ्च चतुष्टये ॥ १९ ॥
योगिभिर्योगिनीभिश्च प्रदत्तं पूर्णपात्रकम् ।
स्वमातृपादुकामूलमन्त्रजप्तं पिबेत्प्रिये ॥ २० ॥
क्वचित् यदृच्छया प्राप्तमलिपात्रन्तु भक्तितः ।
आदाय पूर्ववज्जप्त्वा पिबेद्देवि गुरुं स्मरन् ॥ २१ ॥
गुरुशक्तिसुतानाञ्च गुरुज्येष्ठकनिष्ठयोः ।
स्वज्येष्ठस्यापि चोच्छिष्टं खादेन्नान्यस्य पार्वति ॥ २२ ॥
शक्त्युच्छिष्टं पिबेद् द्रव्यं वीरोच्छिष्टञ्च चर्वणम् ।
आत्मोच्छिष्टं न दातव्यं परकीयं न भक्षयेत् ॥ २३ ॥
उच्छिष्टं भक्षयेत् स्त्रीणां ताभ्यो नोच्छिष्टमर्पयेत् ।
चक्रमध्येऽपि देवेशि अन्यथा पतनं भवेत् ॥ २४ ॥
कनिष्ठानां स्वशिष्याणां दद्यादुच्छिष्टमम्बिके ।
दद्यात् स्नेहेन योऽन्येभ्यः स भवेदापदाम्पदम् ॥ २५ ॥
आसवोच्छिष्टपात्रन्तु यो वा गृह्णति मोहतः ।
स्नेहाल्लोभात् भयाद्वापि देवताशापमाप्नुयात् ॥ २६ ॥
प्रौढोल्लासे कुलेशानि कुर्याद्बलिविसर्जनम् ।
पूजागृहाद्बहिः कुर्यात्त्रिकोणे तु गृहान्तरे ॥ २७ ॥
गन्धपुष्पाक्षतैः पूज्य ध्यायेदुच्छिष्टभैरवम् ।
गदात्रिशूलडमरुपात्रहस्तं त्रिलोचनम् ।
कृष्णाभं भैरवं ध्यायेत् सर्वविघ्ननिवारणम् ॥ २८ ॥
तारत्रयं समुच्चार्यं पश्चादुच्छिष्टभैरवम् ।
एहियुग्मं बलिं गृह्णयुग्मं फट् च द्विठान्तकः ॥ २९ ॥
बल्युद्वासनमन्त्रोऽयं द्वाविंशतिभिरक्षरैः ।
शान्तिस्तवं पठेत्पश्चात्तर्पयेदलिबिन्दुभिः ॥ ३० ॥
यजन्ति देव्यो हरपादपङ्कजम् प्रसन्नधामामृतमोक्षदायकम् ।
अनन्तसिद्धान्तमयप्रबोधकं नमामि चाष्टाष्टकयोगिनीगणम् ॥ ३१ ॥
योगिनीचक्रमध्यस्थं मातृमण्डलवेष्टितम् ।
नमामि शिरसा नाथं भैरवं भैरवीप्रियम् ॥ ३२ ॥
अनादिघोरसंसारध्वान्तैकध्वंसकारिणे ।
नमः श्रीनाथवैद्याय कुलौषधिविधायिने ॥ ३३ ॥
आपदो दुरितं रोगाः समयाचारलंघनात् ।
ये ते सर्वे व्यपोहन्तु दिव्यचक्रस्य मेलनात् ॥ ३४ ॥
आयुरारोग्यमैश्वर्यं कीत्तीर्लाभः सुखं जयः ।
कान्तिर्मनोहरा चास्तु पान्तु सर्वाश्च देवताः ॥ ३५ ॥
सम्पूजकानां प्रतिपालकानां यतीन्द्रयोगीन्द्रतपोधनानाम् ।
देशस्य राष्ट्रस्य कुलस्य राज्ञः करोतु शान्ति भगवान् कुलेशः ॥ ३६ ॥
नन्दन्तु साधककुलाद्वयदर्शका ये सिंहासनाद्युषितशाक्तमहान्वया ये ।
नन्दन्तु सर्वकुलकौलरताः परे ये चान्ये विशेषपदभेदकशाम्भवा ये ॥ ३७ ॥
नन्दन्तु सिद्धगुरवस्तदनुक्रमज्ञा ज्येष्ठान्वया समयिनो वटुकाः कुमार्यः ।
ये योगिनीप्रवरवीरकुले प्रसूता नन्दन्तु भूमिपतिगोद्विजसाधुलोकाः ॥ ३८ ॥
नन्दन्तु नीतिनिपुणा निरवद्यनिष्टा निर्मत्सरा निरुपमा निरुपद्रवाश्च ।
नित्यं निरञ्जनरता गुरवो निरीहाः शान्ताश्च शान्तमनसो हृतशोकशङ्काः ॥ ३९ ॥
नन्दन्तु योगनिरताः कुलयोगयुक्ता ह्याचार्यसामयिकसाधकपुत्रकाश्च ।
गावो द्विजा युवतयो यतयः कुमार्यो धर्मे चरन्तु निरता गुरुभक्तलोकाः ॥ ४० ॥
नन्दन्तु साधककुला ह्यलमात्मनिष्ठाः शापाः पतन्तु समयद्विषि योगिनीनाम् ।
सा शाम्भवी स्फुरतु कापिं समाप्यवस्था यस्यां गुरोश्चरणपङ्कजमेव सत्यम् ॥ ४१ ॥
याश्चक्रक्रमभूमिकावसतयो नाडीषु याः संस्थिता याः कायोद्गतरोमकूपनिलया याः संस्थिता धातुषु ।
उच्छ्वासोमीमरुत्तरङ्गनिलया निश्वासवासाश्च यास्ता देव्यो रिपुपक्षभक्षणरता नन्दन्तु कौलाचीताः ॥ ४२ ॥
या देव्यः कुलसम्भवाः क्षितिगता या देवतास्तोयगा या नित्यं प्रथितप्रभाः शिखिगता या मातरिश्वालयाः ।
या व्योमाहितमण्डलामृतमया याः सर्वगाः सर्वदास्ताः सर्वाः कुलमार्गपालनपराः शान्ति प्रयच्छन्तु मे ॥४३ ॥
ऊर्ध्वे ब्रह्माण्डतो वा दिवि गगनतले भूतले वा तले वा पाताले वानले वा सलिलपवनयोर्यत्र कुत्र स्थिता वा ।
क्षेत्रे पीठोपपीठादिषु च कृतपदा धूपदीपादिकेन प्रीता देव्यः सदा नः शुभबलिविधिना पान्तु वीरेन्द्रवन्द्याः ॥४४॥
ब्रह्मा श्रीः शेषदुर्गागुहवटुकगणा भैरवाः क्षेत्रपाद्या वेतालादित्यरुद्रग्रहवसुमनुसिद्धाप्सरोगुह्यकाद्याः ।
भूता गन्धर्वविद्याधरऋषिपितृयक्षासुराः किन्नराद्या योगीशाश्चारणाः किम्पुरुषमुनिवराश्चक्रगाः पान्तु सर्वे ॥४५॥
देहस्थाखिलदेवता गजमुखाः क्षेत्राधिपा भैरवा योगिन्यो वटुकाश्च यक्षपितरो भूताः पिशाचा ग्रहाः ।
अन्ये भूचरखेचरा दिशिचरा वेतालकाश्चेटका- स्तृप्यन्तां कुलपुत्रकस्य पिबतः पानं सदीपञ्चरुम् ॥ ४६ ॥
सत्यञ्चेद् गुरुवाक्यमेव पितरो देवाश्च चेद् योगिनी प्रीता चेत् परदेवता यदि भवेद्वेदाः प्रमाणं हि चेत् ।
शाक्तेयं यदि दर्शनं भवति चेदाज्ञाप्यमोघापि चेत् सत्यञ्चापि च कौलधर्मपरमं स्यान्मे जयः सर्वदा ॥ ४७ ॥
नन्दन्तु साधकाः सर्वे नश्यन्तु कुलदूषकाः ।
अन्तःस्था शाम्भवी मेऽस्तु प्रसन्नोऽस्तु गुरुः सदा ॥ ४८ ॥
यद्येषा भैरवी देवी यदि भैरवशासनम् ।
यद्येष कुलधर्मः स्यात्तदा नश्यन्तु दूषकाः ॥ ४९ ॥
यासामाज्ञाप्रभावेण स्थापितं भुवनत्रयम् ।
नमस्ताभ्यः समस्ताभ्यो योगिनीभ्यो निरन्तरम् ॥ ५० ॥
पिबन्तु मातरः सर्वाः पिबन्तु कुलसत्तमाः ।
पिबन्तु भैरवाः सर्वे मम देहे व्यवस्थिताः ॥ ५१ ॥
तृप्यन्तु मातरः सर्वाः समुद्राः सगणाधिपाः ।
योगिन्यः क्षेत्रपालाश्च मम देहे व्यवस्थिताः ॥ ५२ ॥
शिवाद्यवनिपर्यन्तं ब्रह्मादिस्तम्बसंयुतम् ।
कालाग्न्यादिशिवान्तञ्च जगद् यज्ञेन तृप्यतु ॥ ५३ ॥
द्वारस्था मणिमण्डपस्य परितः श्रीनन्दने कानने शून्यागारविहारकन्दरमठे व्योम्नि श्मशाने स्थिताः ।
कूपस्थानगताश्चतुष्पथगताः सन्देशसंस्थाश्च ये पङ्कार्थावहकेतुमानकुसुमात् गृह्णन्तु ते पान्तु च ॥ ५४ ॥
पठित्वाभ्यर्चनापात्रं समुद्धृत्य गुरुः प्रिये ।
ततो दद्यात् स्वशिष्याय प्रसादं कुलनायिके ॥ ५५ ॥
स्वाभीष्टचेष्टाचरणं प्रौढान्तः परिकीत्तीतः ।
प्रौढान्तोल्लासिताद्देवि मुदिते योगिमण्डले ।
योगिनीमण्डले चैव क्रमादानन्दमुच्यते ॥ ५६ ॥
तदारूढेषु वीरेषु कार्याकार्यं न विद्यते ।
इच्छैव शास्त्रसम्पत्तिरित्याज्ञा परमेश्वरि ॥ ५७ ॥
तत्र यद् यत् कृतं कर्म शुभं वा यदि वाऽशुभम् ।
तत्सर्वं देवताप्रीत्यै जायते सुरसुन्दरि ॥ ५८ ॥
जल्पो जपफलं तन्द्रा समाधिरभिजायते ।
विक्रिया पूजनं देवि उदितं भैरवीबलिः ॥ ५९ ॥
मुक्तिः स्याच्छक्तिसंयोगः स्तोत्रं तत्कालभाषितम् ।
न्यासोऽवयवसंस्पर्शो भोजनं हवनक्रिया ॥ ६० ॥
वीक्षणं ध्यानमीशानि शयनं वन्दनं भवेत् ।
तदुल्लासे कृता नाना या चेष्टा सा च सत्क्रिया ।
कार्याकार्यविचारन्तु यः करोति स पातकी ॥ ६१ ॥
एतच्चक्रगता वीरा विज्ञेयाः परयोगिनः ।
येनाप्नुवन्ति मनुजाः साक्षाद्भैरवरूपताम् ॥ ६२ ॥
सम्मोदः परमानन्दः पतनं ज्ञानवर्द्धनम् ।
वेणुवीणादिवाद्यञ्च कवितारचनादिकम् ॥ ६३ ॥
रोदनं भाषणं पातः समुत्थानं विजृम्भनम् ।
गमनं विक्रिया देवि योग इत्यभिधीयते ॥ ६४ ॥
चक्रेऽस्मिन् योगिनो वीरा योगिन्यो मदमन्थराः ।
समाचरन्ति देवेशि यथोल्लासं मनोगतम् ॥ ६५ ॥
शनैः पृच्छन्ति पार्श्वस्थान् विस्मृत्यात्मविवक्षितम् ।
निधाय वदने पात्रं निवीण्णा निवसन्ति च ॥ ६६ ॥
मत्ता स्वपुरुषं मत्वा कान्तान्यमवलम्बते ।
तथैव पुरुषश्चापि प्रौढान्तोल्लाससंयुतः ॥ ६७ ॥
पुरुषः पुरुषं मोहादालिङ्गत्यनाङ्गनाम् ।
पृच्छति स्वपतिं मुग्धा कस्त्वं काहम् इमे च के ॥ ६८ ॥
किं कार्यं वयमायातः किमर्थमिह संस्थिताः ।
उद्यानं किमिदं हन्त गृहं किं प्राङ्गणं किमु ॥ ६९ ॥
मुखे आपूर्य मदिरां पाययन्ति स्त्रियः प्रियान् ।
उपदंशं मुखे क्षिप्त्वा निक्षिपन्ति प्रियानने ॥ ७० ॥
गृह्णन्त्यन्योन्यपात्राणि व्यञ्जनानि च शाम्भवि ।
धृत्वा शिरसि नृत्यन्ति मद्यभाण्डानि योगिनः ॥ ७१ ॥
अज्ञानकरतालान्तमस्पष्टाक्षरगीतकम् ।
प्रस्खलत्पदविन्यासं नृत्यन्ति कुलशक्तयः ॥ ७२ ॥
योगिनो मदमत्ताश्च पतन्ति प्रमदोरसि ।
मदाकुलाश्च योगिन्यः पतन्ति पुरुषोपरि ॥ ७३ ॥
मनोरथसुखं पूर्णं कुर्वन्ति च परस्परम् ।
इत्यादिविविधां चेष्टां कुर्वन्ति कुलनायिके ॥ ७४ ॥
विकृतिं मनसो हित्वा यदोल्लासः प्रवर्त्तते ।
तदा तु देवताभावं भजन्ते योगिपुङ्गवाः ॥ ७५ ॥
कौलिकान् भैरवावेशान् यो वा निन्दति मूढधीः ।
तं नाशयन्त्यसन्देहं योगिन्यः कुलनायिके ॥ ७६ ॥
न निन्देन्न हसेत् क्वापि चक्रे मधुमदालसान् ।
एतच्चक्रगतां वार्त्तां बहिर्नैव प्रकाशयेत् ॥ ७७ ॥
तेभ्यो द्रोहं न कुर्वीत नाहितञ्च समाचरेत् ।
भक्त्या सत्कारयेदेतान् गोपयेच्च प्रयत्नतः ॥ ७८ ॥
चक्रे मदाकुलान् दृष्ट्वा चिन्तयेद्देवताधिया ।
मोदते वन्दते भक्त्या स गच्छेत् योगिनीपदम् ॥ ७९ ॥
पश्यतेदेवम्विधं चक्रं यो भक्त्या कौलिकः प्रिये ।
व्रततीर्थतपोदानयज्ञकोटिफलं लभेत् ॥ ८० ॥
उन्मनाः पतनोत्थाने मूर्च्छना च मुहुर्मुहुः ।
उन्मनाख्यतदुल्लासे चक्रे वीरसमचीते ॥ ८१ ॥
चिरं संविदधाते तौ यौ हि कर्मपराक्षरौ ।
परं ब्रह्मानुसन्धानाकाङ्क्षिणौ कुलनायिके ॥ ८२ ॥
देहेन्द्रियाणामवशः समवस्था निगद्यते ।
समवस्थामिधे तस्मिन् ततोल्लासे समं भवेत् ॥ ८३ ॥
परामन्त्रस्वरूपोऽसौ जायते मूर्च्छना परा ।
मूर्च्छनासन्निकर्षो हि मूलमुक्तेः परं विदुः ॥ ८४ ॥
अन्तर्लक्ष्यो बहिर्दृष्टिनीमेषोन्मेषवजीतः ।
एषा तु शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता ॥ ८५ ॥
सर्वोत्तीर्णा सदाऽहन्ता सामरस्यसमाकृतिः ।
अनयोल्लासिनो वीराः शिवा एव न संशयः ॥ ८६ ॥
नराः किमपि जानन्ति स्वात्मध्यानपरायणाः ।
तदा यत्परमं सौख्यमिति वक्तुं न शक्यते ॥ ८७ ॥
स्वयमेवानुभूयन्ते शर्कराः क्षीरपानवत् ।
ईदृशं तादृशं सौख्यमिति वक्तुं न शक्यते ।
दृश्यते पुलकाद्येर्यत् तद्ब्रह्मध्यानमुच्यते ॥ ८८ ॥
यत्सुखं विद्यते ध्याने देवावेशकरं परम् ।
कथितुं नैव शक्नोमि प्रबुद्धस्तत्समाहितः ॥ ८९ ॥
ब्रह्मध्यानपरानन्दपराः सुकृतिनो नराः ।
क्षणेऽप्यन्तहीते तस्मिन् शोचयन्ति हतप्रभाः ॥ ९० ॥
सप्तमोल्लासयुक्तानां त्वद्भक्तानां महाफलम् ।
अष्टौ त्रिकालज्ञानोत्थाः प्रत्ययाश्च कुलेश्वरि ।
अष्टावस्थाश्च कम्पाद्या जायन्ते नात्र संशयः ॥ ९१ ॥
बहुनात्र किमुक्तेन अणिमाद्यष्टसिद्धयः ।
प्रतीहारि पदं प्राप्ताः सेवन्ते मन्दिरं चिरम् ॥ ९२ ॥
ये गुणाः परमेशस्य पञ्चवक्त्रतनोः शुभाः ।
ते गुणाः कुलतत्त्वज्ञे तत्त्वज्ञानसमाहृताः ॥ ९३ ॥
आरम्भस्तरुणश्चैव यौवनं प्रौढमेव च ।
तदन्तो जाग्रदित्युक्तश्चोन्मनाः स्वप्न उच्यते ॥ ९४ ॥
समवस्था सुषुप्तिः स्यादवस्थात्रयसंयुता ।
सप्तोल्लासञ्च यो वेत्ति स मुक्तः स च कौलिकः ॥ ९५ ॥
प्रवृत्ते भैरवीचक्रे सर्वे वर्णा द्विजातयः ।
निवृत्ते भैरवीचक्रे सर्वे वर्णाः पृथक् पृथक् ॥ ९६ ॥
स्त्री वाथ पुरुषः षण्डश्चण्डालो वा द्विजोत्तमः ।
चक्रेऽस्मिन्नैव भेदोऽस्ति सर्वे शिवसमाः स्मृताः ॥ ९७ ॥
नागरि निर्झ्रराद्यम्बु गङ्गां प्राप्य यथैकताम् ।
याति श्रीचक्रमध्येऽपि चैकत्वं सर्वमानवाः ॥ ९८ ॥
क्षीरेण सहितं तोयं क्षीरमेव यथा भवेत् ।
तथा श्रीचक्रमध्ये तु जातिभेदो न विद्यते ॥ ९९ ॥
स्वर्गादिपुण्यलोकेषु देवादन्यद् यथा नहि ।
तथैव चक्रमध्येऽपि देवताः सर्वमानवाः ॥ १०० ॥
जातिभेदो न चक्रेऽस्मिन् सर्वे शिवसमाः स्मृताः ।
वेदेऽपि स्थितमेवं हि सर्वे हि ब्रह्म चाब्रवीत् ॥ १०१ ॥
बहुनात्र किमुक्तेन चक्रमध्ये कुलेश्वरि ।
मद्रूपा पुरुषाः सर्वे त्वद्रूपाः प्रमदाः प्रिये ॥ १०२ ॥
चक्रमध्ये तु मूढात्मा जातिभेदं करोति यः ।
तं भक्षयन्ति योगिन्यस्त्वां शपे कुलनायिके ॥ १०३ ॥
स्त्रीणामन्यतमं स्थानं पुंसामन्यतमं पृथक् ।
अथवा मिथुनं कृत्वा क्रमात्समुपवेशयेत् ॥ १०४ ॥
पङ्क्त्याकारेण वा सम्यक् चक्राकारेण वा प्रिये ।
शिवशक्तिधिया सर्वे चक्रमध्ये समर्चयेत् ॥ १०५ ॥
अविभक्तौ यथा आवां लक्ष्मीनारायणौ यथा ।
यथा वाणीविधातारौ तथा वीरः सशक्तिकः ॥ १०६ ॥
मधुकुम्भसहस्रैस्तु मांसभारशतैरपि ।
न तुष्यामि वरारोहे भगलिङ्गामृतं विना ॥ १०७ ॥
न चक्राङ्कं न पद्माङ्कं न व्रजाङ्कमिदं जगत् ।
लिङ्गाङ्कञ्च भगाङ्कञ्च तस्माच्छक्तिशिवात्मकम् ॥ १०८ ॥
शिवशक्तिसमायोगो यस्मिन् काले प्रजायते ।
सा सन्ध्या कुलनिष्ठानां समाधिः स विधीयते ॥ १०९ ॥
कामुको न स्त्रियं गच्छेद् यदीच्छन्तीमदीक्षिताम् ।
सद्यः संस्कारसंशुद्धां विहितत्वात् स्त्रियं व्रजेत् ॥ ११० ॥
इति तत्त्वत्रयोल्लासपानभेदादि चोदितम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १११ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे तत्त्वत्रितयपानादिभेदकथनं नाम अष्टमोल्लासः ॥ ८ ॥
अथ नवमोल्लासः
[सम्पाद्यताम्]श्री देव्युवाच
कुलेश श्रोतुमिच्छामि योगं योगीशलक्षणम् ।
कुलभक्त्यार्चनफलं वद मे करुणानिधे ॥ १ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण योगः साक्षात् प्रकाशते ॥ २ ॥
ध्यानन्तु द्विविधं प्रोक्तं स्थूलसूक्ष्मप्रभेदतः ।
साकारं स्थूलमित्याहुनिराकारन्तु सूक्ष्मकम् ॥ ३ ॥
स्थिरार्थमनसः केचित् स्थूलध्यानं प्रचक्षते ।
स्थूलेऽपि निश्चलं चेतो भवेत् सूक्ष्मेऽपि निश्चलम् ॥ ४ ॥
करपादोदरास्यादिरहितं परमेश्वरम् ।
सर्वतेजोमयं ध्यायेत् सच्चिदानन्दनिष्कलम् ॥ ५ ॥
नोदेति नास्तमभ्येति न वृद्धिं याति न क्षयम् ।
स्वयं विभात्यथान्यानि भासयन् साधनं विना ॥ ६ ॥
अनन्तं गतभारूपं सत्तामात्रमगोचरम् ।
मनसा मात्रसम्वेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ ७ ॥
प्रणष्टवायुसञ्चारः पाषाण इव निश्चलः ।
परजीवैकधामज्ञो योगी योगविदुच्यते ॥ ८ ॥
यदत्र नात्र निर्भासः स्तिमितोदधिवत् स्थितम् ।
स्वरूपशून्यं तद्ध्यानं समाधिरभिधीयते ॥ ९ ॥
न किञ्चिच्चिन्तनादेव स्वयं तत्त्वं प्रकाशते ।
स्वयं प्रकाशिते तत्त्वे तत्क्षणात्तन्मयो भवेत् ॥ १० ॥
स्वप्नजाग्रदवस्थायां सुप्तवत् योऽवतिष्ठते ।
निश्वासोच्छ्वासहीनश्च निश्चितं मुक्त एव सः ॥ ११ ॥
निष्पन्दकरणग्रामः स्वात्मलीनमनोऽनिलः ।
य आस्ते मृतवत्साक्षात् जीवन्मुक्तः स उच्यते ॥ १२ ॥
न शृणोति न चाघ्राति न स्पृशति न पश्यति ।
न जानाति सुखं दुःखं न सङ्कल्पयते मनः ॥ १३ ॥
न चापि किञ्चिज्जानाति न च बुध्यति काष्ठवत् ।
एवं शिवे विलीनात्मा समाधिस्थ इहोच्यते ॥ १४ ॥
यथा जले जलं क्षिप्तं क्षीरे क्षीरं घृते घृतम् ।
अविशेषो भवेत्तद्वज्जीवात्मपरमात्मनोः ॥ १५ ॥
यथा ध्यानस्य सामर्थ्यात् कीटोऽपि भ्रमरायते ।
तथा समाधिसामर्थ्याद् ब्रह्मभूतो भवेन्नरः ॥ १६ ॥
क्षीरोद्धृतं घृतं यद्वत्तत्र क्षिप्तं न पूर्ववत् ।
पृथक्कृतो गुणेभ्यः स्यादात्मा तद्वदिहोच्यते ॥ १७ ॥
यथा गाढान्धकारस्थो न किञ्चिदिह पश्यति ।
अलक्ष्यञ्च तथा योगी प्रपञ्चं नैव पश्यति ॥ १८ ॥
यथा निमीलने काले प्रपञ्चं नैव पश्यति ।
तथैवोन्मीलनेऽपि स्यादेतद्ध्यानस्य लक्षणम् ॥ १९ ॥
जनः स्वदेहकण्डूतिं विजानाति यथा तथा ।
परं ब्रह्मस्वरूपी च वेत्ति विश्वविचेष्टितम् ॥ २० ॥
विदिते परमे तत्त्वे वर्णातीते ह्यविक्रिये ।
किङ्करत्वं हि गच्छन्ति मन्त्रा मन्त्राधिपैः सह ॥ २१ ॥
आत्मैकभावनिष्ठस्य या या चेष्टा तदर्चनम् ।
यो यो जल्पः स सन्मन्त्रस्तद्ध्यानं यन्निरीक्षणम् ॥ २२ ॥
देहाभिमाने गलिते विज्ञाते परमात्मनि ।
यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ २३ ॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परात्मनि ॥ २४ ॥
योगीन्द्रेण यदा प्राप्तं निर्मलं परमं पदम् ।
देवासुरपदं यत्तत्प्राप्तञ्चापि न गृह्यते ॥ २५ ॥
यः पश्येत् सर्वगं शान्तमानन्दात्मकमव्ययम् ।
तस्य किञ्चिदनालभ्यं ज्ञातव्यं नावशिष्यते ॥ २६ ॥
सम्प्राप्ते ज्ञानविज्ञाने ज्ञेये च हृदि संस्थिते ।
लब्धे शान्तिपदे देवि न योगो नैव धारणा ॥ २७ ॥
परे ब्रह्मणि विज्ञाते समस्तैनीयमैरलम् ।
तालवृन्तेन किं कार्यं लब्धे मलयमारुते ॥ २८ ॥
आसिकाबन्धनं नास्ति नासिकाबन्धनं न हि ।
न यमो नियमो नास्ति स्वयमोमिति पश्यताम् ॥ २९ ॥
न पद्मासनतो योगो न नासाग्रनिरीक्षणम् ।
एक्यं जीवात्मनोराहुर्योगं योगविशारदाः ॥ ३० ॥
ध्यायतां क्षणमात्रं हि श्रद्धया परमन्त्विह ।
यद्भवेत् सुमहत् पुण्यं तस्यान्तो नैव गण्यते ॥ ३१ ॥
क्षणं ब्रह्माहमस्मीति यः कुर्यादात्मचिन्तनम् ।
स सर्वं पातकं हन्यात्तमः सूर्योदयो यथा ॥ ३२ ॥
व्रतक्रतुतपस्तीर्थदानदेवार्चनादिषु ।
यत् फलं कोटिगुणितं तदवाप्नोति तत्त्ववित् ॥ ३३ ॥
उत्तमा सहजावस्था मध्यमा ध्यानधारणा ।
जपस्तुतिः स्यादधमा होमपूजाऽधमाधमा ॥ ३४ ॥
उत्तमा तत्त्वचिन्ता स्याज्जपचिन्ता तु मध्यमा ।
शास्त्रचिन्ताऽधमा ज्ञेया लोकचिन्ताऽधमाधमा ॥ ३५ ॥
पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमो जपः ।
जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥ ३६ ॥
न हि ध्यानात् परो मन्त्रो न देवस्त्वात्मनः परः ।
नानुसन्धात् परा पूजा न हि तृप्तेः परं फलम् ॥ ३७ ॥
अक्रियैव परा पूजा मौनमेव परो जपः ।
अचिन्तेव परं ध्यानमनिच्छैव परं फलम् ॥ ३८ ॥
मन्त्रोदकैवीना सन्ध्यां पूजाहोमैवीना तपः ।
उपचारैवीना पूजां योगी नित्यं समाचरेत् ॥ ३९ ॥
निःसङ्गश्च विसङ्गश्च निस्तीर्णोपाधिवासनः ।
निजस्वरूपनिर्मग्नः स योगी परतत्त्ववित् ॥ ४० ॥
देहो देवालयो देवि जीवो देवः सदाशिवः ।
त्यजेदज्ञाननिर्माल्यं सोऽहम्भावेन पूजयेत् ॥ ४१ ॥
जीवः शिवः शिवो जीवः स जीवः केवलः शिवः ।
पाशबद्धः स्मृतो जीवः पाशमुक्तः सदाशिवः ॥ ४२ ॥
तुषेण बद्धो व्रीहिः स्यात्तुषाभावे हि तण्डुलः ।
कर्मबद्धः स्मृतो जीवः कर्ममुक्तः सदाशिवः ॥ ४३ ॥
अग्नी तिष्ठति विप्राणां हृदि देवो मनीषिणाम् ।
प्रतिमास्वप्रबुद्धानां सर्वत्र विदितात्मनाम् ॥ ४४ ॥
यो निन्दास्तुतिशीतोष्णसुखदुःखारिबन्धुषु ।
सम आस्ते स योगीन्द्रो हर्षाहर्षविवजीतः ॥ ४५ ॥
निस्पृहो नित्यसन्तुष्टः समदर्शी जितेन्द्रियः ।
आस्ते देहे प्रवासीव योगी परमतत्त्ववित् ॥ ४६ ॥
निःसङ्कल्पो निवीकल्पो निलीप्तोपाधिवासनः ।
निजस्वरूपनिर्मग्नः स योगी परतत्त्ववित् ॥ ४७ ॥
यथा पङ्ग्वन्धबधिरक्लीबोन्मत्तजडादयः ।
निवसन्ति कुलेशानि तथा योगी च तत्त्ववित् ॥ ४८ ॥
पञ्चमुद्रासमुत्पन्नपरमानन्दनिर्भरः ।
य आस्ते स तु योगीन्द्रः पश्यत्यात्मानमात्मनि ॥ ४९ ॥
अलिमांसाङ्गनासङ्गे यत् सुखं जायते प्रिये ।
तदेव मोक्षो विदुषामबुधानान्तु पातकम् ॥ ५० ॥
सदा मांसासवोल्लासी सदा चरणचिन्तकः ।
सदासंशयहीनो यः कुलयोगी स उच्यते ॥ ५१ ॥
पिबन्मद्यं पलं खादन् स्वेच्छाचारपरायणः ।
अहं तदनयोरैक्यं भावयन्निवसेत् सुखी ॥ ५२ ॥
आमिषासवसौरभ्यहीनं यस्य मुखं भवेत् ।
प्रायश्चित्ती स वर्ज्यश्च पशुरेव न संशयः ॥ ५३ ॥
यावदासवगन्धः स्यात् पशुः पशुपतिः स्वयम् ।
विनालिमांसगन्धेन साक्षात् पशुपतिः पशुः ॥ ५४ ॥
लोके निकृष्टमुत्कृष्टं लोकोत्कृष्टं निकृष्टकम् ।
कुलमार्ग समुद्दिष्टं भैरवेण महात्मना ॥ ५५ ॥
अनाचारः सदाचारस्त्वकार्य कार्यमुत्तमम् ।
असत्यमपि सत्यं स्यात् कौलिकानां कुलेश्वरि ॥ ५६ ॥
अपेयमपि पेयं स्यादभक्ष्यं भक्ष्यमेव च ।
अगम्यमपि गम्यं स्यात् कौलिकानां कुलेश्वरि ॥ ५७ ॥
न विधिर्न निषेधः स्यान्न पुण्यं न च पातकम् ।
न स्वर्गो नैव नरकं कौलिकानां कुलेश्वरि ॥ ५८ ॥
अनभिज्ञा अभिज्ञन्ति दरिद्रा धनयन्ति च ।
विनष्टा अपि वर्द्धन्ते कौलिकाः कुलनायिके ॥ ५९ ॥
रिपवश्चापि मित्रन्ति साक्षाद्दासन्ति भूमिपाः ।
बान्धवन्ति जनाः सर्वे कौलिकानां कुलेश्वरि ॥ ६० ॥
विमुखाः सुमुखाः सर्वे गवीताः प्रणयन्ति च ।
बाधकाः साधकायन्ते कौलिकानां कुलेश्वरि ॥ ६१ ॥
निर्गुणाः सगुणायन्ते अकुलं सुकुलायते ।
अधर्माश्चापि धर्मन्ति कौलिकानां कुलेश्वरि ॥ ६२ ॥
मृत्युर्वैद्यायते देवि साक्षात् स्वर्गायते गृहम् ।
पुण्यायन्तेऽङ्गनासङ्गाः कौलिकानां कुलेश्वरि ॥ ६३ ॥
बहुनात्र किमुक्तेन कुलयोगीश्वराः प्रिये ।
सदा सङ्कल्पसिद्धाः स्युर्नात्र कार्या विचारणा ॥ ६४ ॥
येन केनापि वेशेन येन केनाप्यलक्षितः ।
यत्र कुत्राश्रमे तिष्ठेत् कुलयोगी कुलेश्वरि ॥ ६५ ॥
योगिनो विविधैर्वेशैर्नराणां हितकारिणः ।
भ्रमन्ति पृथिवीमेतामविज्ञातस्वरूपिणः ॥ ६६ ॥
सकृन्नैवात्मविज्ञानं क्षपयन्ति कुलेश्वरि ।
उन्मत्तमूकजडवन्निवसेल्लोकमध्यतः ॥ ६७ ॥
अलक्ष्यो हि यथा लोके व्योम्नि चन्द्रार्कयोगतः ।
नक्षत्राणां ग्रहाणाञ्च तथा वृत्तन्तु योगिनाम् ॥ ६८ ॥
आकाशे पक्षिणां देवि जलेऽपि जलचारिणाम् ।
यथा गतिर्न दृश्येत तथा वृत्तं हि योगिनाम् ॥ ६९ ॥
असन्त इव भाषन्ते चरन्त्यज्ञा इव प्रिये ।
पामरा इव दृश्यन्ते कुलयोग विशारदाः ॥ ७० ॥
जना यथावमन्यन्ते गच्छेयुर्नैव सङ्गतिम् ।
न किञ्चिदपि भाषन्ते तथा योगी प्रवर्त्तते ॥ ७१ ॥
मुक्तोऽपि बालवत् क्रीडेत् कुलेशो जडवच्चरेत् ।
वदेदुन्मत्तवद्विद्वान् कुलयोगी महेश्वरि ॥ ७२ ॥
यथा हसति लोकोऽयं जुगुप्सति च कुत्सति ।
विलोक्य दूरतो याति तथा योगी प्रवर्त्तते ॥ ७३ ॥
क्वचिच्छिष्टः क्वचिद्भ्रष्टः क्वचिद् भूतपिशाचवत् ।
नानावेशधरो योगी विचरेज्जगतीतले ॥ ७४ ॥
योगी लोकोपकाराय भोगान् भुङ्क्ते न कांङ्क्षया ।
अनुगृह्णन् जनान् सर्वान् क्रीडेच्च पृथिवीतले ॥ ७५ ॥
सर्वशोषी यथा सूर्यः सवभोगी यथाऽनलः ।
योगी भुक्त्वाखिलान् भोगान् तथा पापैर्न लिप्यते ॥ ७६ ॥
सर्वस्पर्शी यथा वायुर्यथाकाशश्च सर्वगः ।
सर्वे यथा नदीस्नातास्तथा योगी सदा शुचिः ॥ ७७ ॥
यथा ग्रामगतं तोयं नदीयुक्तं भवेच्छुचि ।
तथा म्लेच्छगृहान्नादि योगिहस्तापीतं शुचि ॥ ७८ ॥
यथाऽऽचरन्ति देवेशि कुलज्ञानविशारदाः ।
तदेव विदुषां मान्यमात्मनो हितकाङ्क्षिणाम् ॥ ७९ ॥
यस्मिंश्चरन्ति योगीशाः सा मार्गः परमो मतः ।
यस्यामुदेति सूर्यो हि पूर्वाशा सा निगद्यते ॥ ८० ॥
यत्र यत्र गजो याति तत्र मार्गो यथा भवेत् ।
कुलयोगी वरेद् यत्र स स मार्गः कुलेश्वरि ॥ ८१ ॥
नदीं वक्रामृजुं कर्त्तुं निरोद्धुं तत्प्रवाहकम् ।
स्वेच्छाविहारिणं शान्तं को वा वारयितुं क्षमः ॥ ८२ ॥
यद्वन्मन्त्रबलोपेतः क्रीडनीयैर्न दृश्यते ।
तद्वन्न दृश्यते ज्ञानी क्रीडन्निन्द्रियपन्नगैः ॥ ८३ ॥
निवृत्तदुःखसन्तुष्टा निर्द्वन्द्वा गतमत्सराः ।
कुलज्ञानरताः शान्तास्त्वद्भक्तास्ते च कौलिकाः ॥ ८४ ॥
अमदक्रोधदम्भाशाहङ्काराः सत्यवादिनः ।
कौलिकेन्द्रा ह्यचपला ये नेन्द्रियवशानुगाः ॥ ८५ ॥
कीर्त्त्यमाने कुले येषां रोमाञ्चो गद्गदस्वरः ।
आनन्दाश्रु पतेद्देवि कथिताः कौलिकोत्तमाः ॥ ८६ ॥
सर्वधर्माधिको लोके कुलधर्मः शिवोदितः ।
इति ते निश्चितधियः प्रोक्तास्ते कौलिकोत्तमाः ॥ ८७ ॥
यो भवेत् कुलतत्त्वज्ञः कुलशास्त्रविशारदः ।
कुलार्चनरतः स स्यात् कौलिको नापरः प्रिये ॥ ८८ ॥
कुलभक्तान् कुलज्ञानान् कुलाचारकुलव्रतान् ।
प्रीतो भवति यो दृष्ट्वा कौलिकः स च मे प्रियः ॥ ८९ ॥
तत्त्वत्रयश्रीचरणमूलमन्त्रार्थतत्त्ववित् ।
देवतागुरुभक्ताश्च कौलिकः स्याच्च दीक्षया ॥ ९० ॥
दुर्लभं सर्वलोकेषु कुलाचार्यस्य दर्शनम् ।
सुपाकेनैव पुण्यानां लभ्यते नान्यथा प्रिये ॥ ९१ ॥
संस्मृतः कीत्तीतो दृष्टो वन्दिनो भाषितोऽपि वा ।
पुनाति कुलधमीष्ठश्चाण्डालोऽपि यदृच्छया ॥ ९२ ॥
सर्वज्ञो वापि मूर्खो वाप्युत्तमो वाऽधमोऽपि वा ।
यत्र देवि कुलज्ञानी तत्राहञ्च त्वया सह ॥ ९३ ॥
नाहं वसामि कैलासे न मेरौ न च मन्दिरे ।
कुलज्ञा यत्र तिष्ठन्ति तत्र तिष्ठामि भामिनि ॥ ९४ ॥
सुदूरमपि गन्तव्यं यत्र माहेश्वरो जनः ।
द्रष्टव्यञ्च प्रयत्नेन तत्र सन्निहितो ह्यहम् ॥ ९५ ॥
अतिदूरस्थितो वापि द्रष्टव्यः कुलदेशिकः ।
समीपे वर्त्तमानोऽपि न द्रष्टव्यः पशुः प्रिये ॥ ९६ ॥
कुलज्ञानी वसेद् यत्र स देशः पुण्यभाक् ततः ।
दर्शनादर्चनात्तस्य त्रिसप्तकुलमुद्धरेत् ॥ ९७ ॥
कुलज्ञानिनमालोक्य स्वसन्तानगृहे स्थितम् ।
शंसन्ति पितरस्तस्य यास्यामः परमां गतिम् ॥ ९८ ॥
समाश्वसन्ति पितरः सुवृष्टिमिव कर्षकाः ।
योऽस्मत्कुलेषु पुत्रो वा पौत्रो वा कौलिको भवेत् ॥ ९९ ॥
स धन्यः खलु लोकेऽस्मिन् पुरुषः क्षीणकल्मषः ।
यत्समीपं समायान्ति कुलाचार्या मुदा प्रिये ॥ १०० ॥
कौलिकेन्द्रे समायाते कौलिकावसथं प्रति ।
समायान्ति मुदा देवि योगिन्यो योगिभिः सह ॥ १०१ ॥
प्रविश्य कुलयोगीन्द्रं भणन्ते पितृदेवताः ।
तस्मात् सम्पूजयेद्भक्त्या कुलज्ञानपरायणान् ॥ १०२ ॥
अभ्यर्चयित्वा त्वां देवि त्वद्भक्तान्नार्चयन्ति ये ।
पापिष्ठास्त्वत्प्रसादस्य भाजनं न भवन्ति ते ॥ १०३ ॥
नैवेद्यं पुरतो न्यस्तं दर्शनात् स्वीकृतं त्वया ।
रसान् भक्तस्य जिह्वाग्रादश्नामि कमलेक्षणे ॥ १०४ ॥
त्वद्भक्तपूजनाद्देवि पूजितोऽहं न संशयः ।
तस्मान्मम प्रियाकाङ्क्षी त्वद्भक्तानेव पूजयेत् ॥ १०५ ॥
यत् कृतं कुलनिष्ठानां तद्देवानां कृतं भवेत् ।
सुराः कुलप्रियाः सर्वे तस्मात् कौलिकमर्चयेत् ॥ १०६ ॥
न तुष्याम्यहमन्यत्र तथा भक्त्या सुपूजितः ।
कौलिकेन्द्रेऽचीते सम्यक् यथा तुष्यामि पार्वति ॥ १०७ ॥
यत् फलं कौलिकेन्द्राणां पूजया लभते प्रिये ।
तत् फलं नाप्नुयात्तीर्थतपोदानमखव्रतैः ॥ १०८ ॥
दत्तमिष्टं हुतं तप्तं पूजितं जप्तमम्बिके ।
कौलिकस्य भवेद्वयर्थं कुलज्ञं योऽवमानयेत् ॥ १०९ ॥
श्मशानं तद् गृहं देवि स पापी श्वपचाधमः ।
यः प्रविश्य कुलं धर्म कुलाचारं न वेत्ति चेत् ॥ ११० ॥
कुलनिष्ठान् परित्यज्य यच्चान्यस्मै प्रदीयते ।
तद्दानं निष्फलं देवि दाता च नरकं व्रजेत् ॥ १११ ॥
भिन्नभाण्डे जलं यद्वत् शिलायामुप्तबीजवत् ।
भस्मनीव हुतं हव्यं तद्वद्दानमकौलिके ॥ ११२ ॥
यथाशक्त्या तु यत् किञ्चिद् यो दद्यात् कुलयोगिने ।
विशेषतिथिषु प्रीत्या तत्फलं नैव वर्ण्यते ॥ ११३ ॥
यो देवि स्वयमाहूय कुलज्ञानान् शुभे दिने ।
अभ्यर्च्य देवताबुद्ध्या गन्धपुष्पाक्षतादिभिः ॥ ११४ ॥
मादिभिः पञ्चमुद्राभिः सद्भक्त्या परितोषयेत् ।
तेषु तुष्टेष्वहं तुष्टस्तुष्टाः स्युः सर्वदेवताः ॥ ११५ ॥
भगिनीं वा सुतां भार्यां यो दद्यात् कुलयोगिने ।
मधुमत्ताय देवेशि तस्य पुण्यं न गण्यते ॥ ११६ ॥
अनिखातविनिक्षिप्तमप्रयत्नेन वद्धीतम् ।
परलोकस्य पाथेयं वीरचक्रेऽपीतं मधु ॥ ११७ ॥
पापाचारसमायुक्तं सर्वलोकबहिष्कृतम् ।
जायते हि कुलद्रव्यं कुलयोगीश्वरापीतम् ॥ ११८ ॥
यस्मिन् देशे वसेत् वीरः कुलपूजारतः प्रिये ।
सोऽपि देशो भवेत् पूतः किं पुनस्तत्पुरस्थिताः ॥ ११९ ॥
कौलिकेन्द्रे सकृद्भुक्ते पुण्यं कोटिगुणं भवेत् ।
किं पुनर्बहुभिर्भुक्तैस्तत् पुण्यं नैव गण्यते ॥ १२० ॥
तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।
कुलधर्मरतो भूयात् कुलज्ञानिनमर्चयेत् ॥ १२१ ॥
ज्ञानिनोऽज्ञानिनो वापि यावत् देहस्य धारणा ।
तावद्वर्णाश्रमाचारः कर्त्तव्यः कर्ममुक्तये ॥ १२२ ॥
कर्मणोन्मूलितेऽज्ञाने ज्ञानेन शिवतां व्रजेत् ।
शिवे तेनैव मुक्तिः स्यादतः कर्म समाचरेत् ॥ १२३ ॥
कुर्यादनिन्द्यकर्माणि नित्यकर्माणि वा चरेत् ।
कर्ममुक्तः सुखाकाङ्क्षी कर्मनिष्ठः सुखं व्रजेत् ॥ १२४ ॥
सर्वकर्माणि संत्यक्तुं न शक्यं देहधारिणा ।
त्यजेत् कर्मफलं यो वा स त्यागीत्यभिधीयते ॥ १२५ ॥
स्वकार्येषु प्रवर्त्तन्ते करणानीति चिन्तयेत् ।
अहम्भावमपास्यैव यः कुर्यात् स न लिप्यते ॥ १२६ ॥
क्रियमाणानि कर्माणि ज्ञानप्राप्तेरनन्तरम् ।
न च स्पृशन्ति तत्त्वज्ञं जलं पद्मदलं यथा ॥ १२७ ॥
तन्निष्ठस्य च कर्माणि पुण्यापुण्यानि संक्षयम् ।
प्रयान्ति नैव लिप्यन्ते क्रियमाणानि वा पुनः ॥ १२८ ॥
उत्पन्नसहजानन्दतत्त्वज्ञानरतः प्रिये ।
संत्यक्तसर्वसङ्कल्पः स विद्वान् कर्म सन्त्यजेत् ॥ १२९ ॥
वृथैव यैः परित्यक्तं कर्मकाण्डमपण्डितैः ।
पाषण्डाः पण्डितम्मन्यास्ते यान्ति नरकं प्रिये ॥ १३० ॥
फलं प्राप्य यथा वृक्षः पुष्पं त्यजति निस्पृहः ।
तत्त्वं प्राप्य तथा योगी त्यजेत् कर्मपरिग्रहम् ॥ १३१ ॥
अश्वमेधायुतेनापि ब्रह्महत्यायुतेन च ।
पुण्यपापैर्न लिप्यन्ते येषां ब्रह्म हृदि स्थितम् ॥ १३२ ॥
पृथिव्यां यानि कर्माणि जिह्वोपस्थनिमित्ततः ।
जिह्वोपस्थपरित्यागी कर्मणा किं करिष्यति ॥ १३३ ॥
इति ते कथितं किञ्चित् योगं योगीशलक्षणम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १३४ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे योगसंस्थापनकथनं नाम नवमोल्लासः ॥ ९ ॥
अथ दशमोल्लासः
[सम्पाद्यताम्]श्री देव्युवाच
कुलेश श्रोतुमिच्छामि विशेषदिवसार्चनम् ।
तत्सपर्याफलं देव वद मे परमेश्वर ॥ १ ॥
ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ २ ॥
उत्तमा नित्यपूजा स्यात् मध्यमं पर्वपूजनम् ।
मासपूजाऽधमा देवि मासादूर्ध्व पशुर्भवेत् ॥ ३ ॥
विहितैर्मादिभिर्द्रव्यैर्मासादूर्ध्वं समर्चनम् ।
पशोर्भूयः प्रवेशेच्छा यदि स्याद्दीक्षयेत् पुनः ॥ ४ ॥
मद्यं मांसञ्च मत्स्यश्च मुद्रा मैथुनमेव च ।
मकारपञ्चकं देवि देवताप्रीतिकारकम् ॥ ५ ॥
मादिपञ्चकमीशानि देवताप्रीतये सुधीः ।
यथाविधि निषेवेत तृष्णया चेत् स पातकी ॥ ६ ॥
कृष्णाष्टमीचतुर्द्दश्यावमावास्याथ पूणीमा ।
संक्रान्तिः पञ्च पर्वाणि तेषु पुण्यदिनेषु च ॥ ७ ॥
गुरुजन्मदिने प्राप्ते तद्गुरोस्तद्गुरोरपि ।
मानवौघादिपुंसाञ्च स्वजन्मदिवसे तथा ॥ ८ ॥
सम्पत्तौ च यजेल्लाभे तपोदीक्षाव्रतोत्सवे ।
पीठोपगमने वीरपीठे स्वजनदर्शने ॥ ९ ॥
देशिकागमने पुण्यतीर्थदैवतदर्शने ।
एवमादिषु देवेशि विशेषदिवसेषु च ॥ १० ॥
यथाधनं यथाश्रद्धं यथाद्रव्यं यथोचितम् ।
यथाकालं यथादेशं तथा पूजां समाचरेत् ॥ ११ ॥
आचार्येण विधानेन कारयेच्चक्रपूजनम् ।
स्वयं वा पूजयेद्देवि बिन्दुपूजापुरःसरम् ॥ १२ ॥
स ते लोकमवाप्नोति पुनरावृत्तिवजीतम् ।
अकुर्वन् कौलिको मोहाद्देवताशापमाप्नुयात् ॥ १३ ॥
मासे वापि त्रिमासे वा षण्मासे वत्सरेऽपि वा ।
श्रीगुरुं पूजयेद्भक्त्याऽप्राप्ते तत्स्त्रीसुतादिकान् ॥ १४ ॥
तदभावे कुलज्ञञ्च तच्छिष्यं वान्ययोगिनम् ।
सन्तोषयेत् कुलद्रव्यैः कुलपूजापुरःसरम् ॥ १५ ॥
रोगेष्वापत्सु दोषेषु दुःसङ्गे दुनीमित्तके ।
पूजयेद् योगिनीवृन्दं देवि तद्दोषशान्तये ॥ १६ ॥
यत्रैकाम्नायतत्त्वज्ञः कुलाचार्यः कुलेश्वरि ।
कौलिकास्त्रिचतुःपञ्च शक्तयश्च तथा प्रिये ॥ १७ ॥
पृथग्वा पूजयेद्देवि मिथुनाकारतोऽपि वा ।
गन्धपुष्पाक्षताद्यैस्तु देवेशि समलङ्कृताः ।
भक्ष्यभोज्यादिपिशितैः पदार्थैः षड्रसान्वितैः ॥ १८ ॥
प्रौढोल्लासेन सहिता यदि ता निवसन्ति च ।
तच्छ्रीचक्रमिति प्रोक्तं वृन्दञ्चापि तदुच्यते ॥ १९ ॥
कुर्यान्नवकुमारीणां पूजामाश्विनमासके ।
प्रातनीमन्त्रयेद्भक्त्या साधकः शुद्धमानसः ॥ २० ॥
मनोहरामेकवर्षी बालाञ्च शुभलक्षणाम् ।
मन्त्री स्नात्वाथ शुद्धात्मा कुर्याद्देवि क्रमार्चनम् ॥ २१ ॥
अभ्यङ्गस्नानशुद्धान्तां पूजासदनमानयेत् ।
देवतासन्निधौ बालामुपवेश्य समर्चयेत् ॥ २२ ॥
गन्धपुष्पादिभिर्धूपैर्दीपैश्च कुलदीपकैः ।
भोग्यभोज्यान्नपानाद्यैः क्षीराज्यमधुमांसकैः ।
कदलीनारिकेलादिफलैस्तां परितोषयेत् ॥ २३ ॥
सशक्तिकः स्वयं देवि प्रौढान्तोल्लाससंयुतः ।
यथाशक्ति जपेदेकोत्तरवृद्ध्याऽथवा मनुम् ॥ २४ ॥
बालामलङ्कृतां पश्यन् चिन्तयेत् स्वेष्टदेवताम् ।
ततस्तां देवताबुद्ध्या नमस्कृत्य विसर्जयेत् ॥ २५ ॥
द्वितीयायां द्विवर्षान्तामेकवर्षाञ्च पूजयेत् ।
एवं तिथौ कुमारीञ्च यजेत् पूर्वदिनाचीताम् ॥ २६ ॥
नवम्यामेकवर्षादि-नववर्षान्तकन्यकाः ।
बाला शुद्धा च ललिता मालिनी च वसुन्धरा ।
सरस्वती रमा गौरी दुर्गा च नव कीत्तीताः ॥ २७ ॥
त्रिताराद्यैर्नमोऽन्तैश्च देवतापदपश्चिमैः ।
नामभिश्च चतुर्थ्यन्तैः पूजयेत्ताः पृथक् पृथक् ॥ २८ ॥
बटुकं पञ्चवर्षञ्च नववर्षं गणेश्वरम् ।
गन्धपुष्पाम्बराकल्पैर्यथाविभवविस्तरैः ॥ २९ ॥
अभ्यर्च्य देवताबुद्ध्या पदार्थैः परितोषयेत् ।
स्वकार्यफलसिद्ध्यर्थं वित्तशाठ्यविवजीतः ॥ ३० ॥
नवरात्रं जपेदेकोत्तरवृद्ध्या क्रमेण च ।
नवरात्रकृतां पूजां देवि देव्यै समर्पयेत् ॥ ३१ ॥
ताम्बूलं दक्षिणां दत्त्वा कुमारीस्ता विसर्जयेत् ।
एवं नवकुमारीणामर्चनं प्रातवत्सरम् ॥ ३२ ॥
यः करोति स पुण्यात्मा देवताप्रीतिमाप्नुयात् ।
मनोऽभिलाषं सम्प्राप्य निवसेत्तव सन्निधौ ॥ ३३ ॥
अथवा यौवनारूढाः प्रमदा नव पार्वति ।
मनोज्ञाः पूजयेद्भक्त्या नवरात्रिषु मन्त्रवित् ॥ ३४ ॥
हृल्लेखां गगनां रक्तां महोच्छुष्मां करालिकाम् ।
इच्छां ज्ञानां क्रियां दुर्गां बटुकञ्च गणेश्वरम् ।
पूर्ववत् पूर्वमद्याद्यैः पदार्थैः परितोषयेत् ॥ ३५ ॥
प्रौढान्तोल्लाससंयुक्ताः सन्तुष्टा यदि ताः प्रिये ।
साधकस्तुष्टिमासाद्य निवसेत्तव सन्निधौ ॥ ३६ ॥
एवं यः पूजयेद्देवि प्रतिवर्षं यतव्रतः ।
षण्मासे वा त्रिमासे वा मासे मासेऽथवा प्रिये ॥ ३७ ॥
तिस्रो वा पञ्च वा सप्त पूजयेद्देवताधिया ।
सर्वैश्वर्यसमृद्धात्मा स भवेदावयोः प्रियः ॥ ३८ ॥
भृगुवारे कुलेशानि कान्तामारूढयौवनाम् ।
सर्वलक्षणसम्पन्नामनुकूलां मनोरमाम् ॥ ३९ ॥
कुलाकुलाष्टकां देवि निमन्त्र्याहूय पुष्पिणीम् ।
अभ्यङ्गस्नानशुद्धाङ्गीमासने चोपवेशयेत् ॥ ४० ॥
गन्धपुष्पाम्बराकल्पैरलङ्कृत्य विधानवित् ।
आत्मानं गन्धपुष्पाद्यैरलङ्कुर्यात् कुलेश्वरि ॥ ४१ ॥
आवाह्य देवतां तस्यां यजेन्न्यासक्रमेण च ।
कृत्वा क्रमार्चनं धूपदीपाञ्च कुलदीपकान् ॥ ४२ ॥
प्रदर्श्य देवताबुद्ध्या पदार्थैः षड्रसान्वितैः ।
मांसादिभक्ष्यभोज्याद्यैस्तोषयेद्देवि भक्तितः ॥ ४३ ॥
प्रौढान्तोल्लाससहितां तां प्रपश्यन् जपेन्मनुम् ।
यौवनोल्लाससहितः स्वयं तद्ध्यानतत्परः ॥ ४४ ॥
निवीकारेण चित्तेन ह्यष्टोत्तरसहस्रकम् ।
जपादिकं समर्प्याथ तया सह निशां नयेत् ॥ ४५ ॥
त्रिपञ्चसप्तनवसु भृगुवारेषु यः प्रिये ।
पूजयेद्विधिनाऽनेन तस्य पुण्यं न गण्यते ॥ ४६ ॥
चतुः पीठार्चनफलं स प्राप्नोति कुलेश्वरि ।
यद् यत् स्वमनसोऽभीष्टं तत्तदाप्नोत्यसंशयम् ॥ ४७ ॥
नवम्यां वार्चयेदेवं विधानेन विधानवित् ।
स्तोत्रैः संपूजयेत् सर्वैर्महदैश्वर्यमाप्नुयात् ॥ ४८ ॥
कुर्यात् कर्कटके वापि मकरे मिथुनार्चनम् ।
तुलायां सिंहमेषे वा सर्वसंक्रान्तिषु प्रिये ॥ ४९ ॥
गौरीशिवौ रमाविष्णू वाणीसरसिजासनौ ।
शचीन्द्रौ रोहिणीचन्द्रौ स्वाहाग्नी च प्रभारवी ॥ ५० ॥
भद्रकालीवीरभद्रौ भैरवीभैरवावपि ।
मिथुनानि नवाभ्यर्च्य पूर्वोक्तेनैव वर्त्मना ॥ ५१ ॥
त्रितारादिनमोऽन्तेन तत्तन्नाम्ना विधानवित् ।
गन्धपुष्पादिभिः पूज्य मद्याद्यैः परितोषयेत् ॥ ५२ ॥
प्रौढान्तोल्लासयुक्तानि कुर्वीत मिथुनानि च ।
एवं कृते न सन्देहस्तुष्टा मिथुनदेवताः ।
अनुगृह्णन्ति तं देवि प्रयच्छन्ति मनोरथम् ॥ ५३ ॥
प्रतिवर्षन्तु यः कुर्यात् सभक्त्या मिथुनार्चनम् ।
तव लोके स निवसेत् सर्वैश्वर्यसमन्वितः ॥ ५४ ॥
अथ वैशाखमासस्य शुक्लप्रतिपदीश्वरि ।
ब्राह्मे मुहूर्त्ते उत्थाय स्नानं सन्ध्यामुपास्य च ॥ ५५ ॥
मनोज्ञे रहसि स्थाने पूर्वाशाभिमुखस्थितः ।
आत्मानं गन्धपुष्पाद्यैरलङ्कृत्य विधानवित् ॥ ५६ ॥
कृत्वा पुरोदितन्यासान् देवताभावमास्थितः ।
किञ्चिदभ्युदिते सूर्ये मण्डले स्वेष्टदेवताम् ॥ ५७ ॥
ध्यात्वा सावरणां सम्यक् पूजयेद्विधिना प्रिये ।
षोडशैरुपचारैस्तु चक्रपूजापुरःसरम् ॥ ५८ ॥
कुलदीपान् प्रदर्श्याथ शिवाय गुरुरूपिणे ।
मत्स्यमांसादि विधिवद्भक्ष्य भोज्यसमन्वितम् ॥ ५९ ॥
अर्घ्यं निवेद्य तच्छेषं स्वयं भक्त्या पिबेत् प्रिये ।
यौवनोल्लाससहितो निवीकारेण चेतसा ॥ ६० ॥
ध्यायंस्तन्मण्डलं देवीमष्टोत्तरसहस्रकम् ।
जप्त्वा समर्प्य तत्पूजां देवताञ्च समुद्धरेत् ॥ ६१ ॥
एवं शुक्लप्रतिपदं समारभ्य दिने दिने ।
कुर्याज्जपार्चनं कृष्णचतुर्द्दश्यन्तमम्बिके ॥ ६२ ॥
अमावस्यादिने देवि पूजयेच्छक्तिकौलिकान् ।
त्रिपञ्चसप्त नव वा वित्तलोभविवजीतः ॥ ६३ ॥
एवं यो मासमात्रन्तु कुर्यात् सूर्योदयार्चनम् ।
देवता तस्य सन्तुष्टा ददाति फलमीप्सितम् ॥ ६४ ॥
माध्याह्ने चार्चयेद्देवं सायाह्ने चार्चयेत् प्रिये ।
स तु तत्फलमाप्नोति योगिनीनां प्रियो भवेत् ॥ ६५ ॥
त्रिसन्धां योऽर्चयेदेवं मासमात्रं विधानवित् ।
काङ्क्षितां लभते सिद्धिं देववद् विचरेद् भुवि ॥ ६६ ॥
माघशुक्लप्रतिपदि दिवाहारविवजीतः ।
स्नात्वा शुक्लाम्बरधरः सायं सन्ध्यामुपास्य च ॥ ६७ ॥
सूर्यार्चनोक्तमार्गेण सर्वद्रव्यसमन्वितः ।
यौवनोल्लाससहितश्चन्द्रस्थां देवतां स्मरन् ॥ ६८ ॥
चन्द्रास्तमयपर्यन्तं जपेन्मन्त्रनन्यधीः ।
एवं प्रतिदिनं शुक्लचतुर्द्दश्यन्तमर्चयेत् ॥ ६९ ॥
पौर्णमास्यां यथाशक्त्या पूजयेच्छक्तिकौलिकान् ।
एवं यः कुरुते भक्त्या शुक्लपक्षार्चनं प्रिये ॥ ७० ॥
सर्व पापविशुद्धात्मा सर्वैश्वर्यसमन्वितः ।
सर्वलोकैकसंपूज्यः शिववन्निवसेद् भुवि ॥ ७१ ॥
शुक्लपक्षेऽर्चनं यद्वत्तद्वत् पक्षे सितेतरे ।
यः करोति विधानेन सर्वान् कामान् समश्नुते ॥ ७२ ॥
इह भुक्त्वाऽखिलान् भोगान् देववत् प्रियदर्शनः ।
योगिनीवीरमेलनं लभते नात्र संशयः ॥ ७३ ॥
अथ कात्तीकमासस्य शुक्लप्रतिपदीश्वरि ।
स्नात्वाचम्य विशुद्धात्मा न्यासान् कृत्वा पुरोदितान् ॥ ७४ ॥
प्रसुप्ते जीवलोके तु मुदितात्मा महानिशि ।
पूर्वार्चनोक्त विधिना सर्वद्रव्यसमन्वितः ॥ ७५ ॥
आज्येनानामिकास्थूलवत्तीं प्रज्वाल्य पार्वति ।
पञ्चवर्णरजश्चित्रवसुपत्रसरोरुहे ॥ ७६ ॥
मधुपूर्णे च कलसे कांस्यपात्रे मनोहरे ।
दीपं संस्थाप्य पुरत उत्तराभिमुखस्थितः ॥ ७७ ॥
दीपे सावरणां देवीं ध्यात्वा विधिवदर्चयेत् ।
यौवनोल्लाससहितो दीपस्थां देवतां स्मरन् ॥ ७८ ॥
अष्टोत्तरसहस्रन्तु जपेन्मन्त्रमनन्यधीः ।
एवं समर्चयेत् कृष्णचतुर्द्दश्यन्तमम्बिके ॥ ७९ ॥
अमावास्यादिने भक्त्या पूजयेच्छक्तिकौलिकान् ।
एवं कृते कुलेशानि देवता प्रीतिमाप्नुयात् ॥ ८० ॥
सर्वकामसमृद्धात्मा सर्वैश्वर्यसमन्वितः ।
सर्वलोकैकसम्मान्यः सञ्चरेत् स यथासुखम् ॥ ८१ ॥
अष्टाष्टकार्चनं कुर्यात् शक्तश्चेदेकवासरे ।
अथवाष्टाष्टदिवसेष्वथ द्व्यष्टदिनेषु च ।
द्वात्रिंशद्दिवसेष्वेवं चतुःषष्टिदिनेषु च ॥ ८२ ॥
गुरुणा कारयेद्देवि क्रमज्ञेनापरेण वा ।
क्रमज्ञश्चेत् स्वयं कुर्याद्वित्तशाठ्यविवजीतः ॥ ८३ ॥
मूलाष्टकन्तु ब्रह्माद्याश्चासिताङ्गादिभैरवाः ।
मङ्गलाद्यैश्च मिथुनैरष्टभिः शब्दिताः प्रिये ॥ ८४ ॥
मूलाष्टकोद्भवानीति प्रसिद्धानि कुलागमे ।
अक्षोभ्यादिचतुःषष्टिमिथुनानि समर्चयेत् ॥ ८५ ॥
पूर्वोक्तेन विधानेन यथाविभवविस्तरम् ।
क्रमलोपं न कुर्वीत स्वेष्टकार्यार्थसिद्धये ॥ ८६ ॥
गन्धपुष्पाक्षताद्यैश्च मत्स्यमांसासवादिभिः ।
भक्ष्यभोज्यादिभिर्नानापदार्थैः षड्रसान्वितैः ।
सम्यक् सन्तोषयेद्देवि मिथुनान्यतिभक्तितः ॥ ८७ ॥
प्रौढान्तोल्लासपर्यन्तं कुर्यात् श्रीचक्रमम्बिके ।
एवं यः कुरुते देवि सकृदष्टाष्टकार्चनम् ॥ ८८ ॥
ब्रह्मविष्णुमहेशादिदेवताभिः स पूज्यते ।
किं पुनर्मानवाद्यैश्च साक्षात् शिव इवापरः ॥ ८९ ॥
यदर्चनाच्चतुःषष्टियोगिनीगणसंस्तुतः ।
पुनरावृत्तिरहितो निवसेत्तव सन्निधौ ॥ ९० ॥
समस्तदेवताप्रीतिकारणं परमेश्वरि ।
अस्मात् परतरा पूजा नास्ति सत्यं न संशयः ॥ ९१ ॥
पश्यदेवंविधं चक्रं यो भक्त्याष्टाष्टकं प्रिये ।
यज्ञदानतपस्तीर्थव्रतकोटिफलं लभेत् ॥ ९२ ॥
राजा यः कारयेद्देवि भक्त्याष्टाष्टकपूजनम् ।
चतुःसागरपर्यन्तां महीं शास्ति न संशयः ॥ ९३ ॥
श्रीकण्ठादीनि पञ्चाशन्मिथुनानि समर्चयेत् ।
पूर्वोक्तेन विधानेन कुलेश्वरि विधानवित् ॥ ९४ ॥
स्वकार्यफलसिद्ध्यर्थं वित्तशाठ्यविवजीतः ।
प्रौढान्तोल्लासयुक्तानि मिथुनानि समर्चयेत् ॥ ९५ ॥
सन्तुष्टानि प्रयच्छन्ति साधकायेप्सितं फलम् ।
अव्याहताज्ञः सर्वत्र पूज्यते देववत् प्रिये ।
तव लोके वसेद्देवि ब्रह्मादिसुरसंस्तुतः ॥ ९६ ॥
केशवादि गणेशादि कामादि मिथुनानि च ।
श्रीकण्ठादि समभ्यर्च्य तत्फलं लभते ध्रुवम् ॥ ९७ ॥
अनुग्रहन्तु यः कुर्यात् डाकिन्यादिसमर्चने ।
मासे मासेऽथवा वर्षे स्वजन्मदिवसे प्रिये ॥ ९८ ॥
पूर्वोक्तेन विधानेन यथाविभवविस्तरम् ।
प्रौढान्तोल्लासपर्यन्तं तोषयेत्तद्विधानवित् ॥ ९९ ॥
कुर्वन्त्यनुग्रहं देवि सन्तुष्टाः सर्वदेवताः ।
सर्वोपद्रव रहितः सर्वैश्वर्यसमन्वितः ॥ १०० ॥
लोकेऽस्मिन् संस्तुतः सर्वैः स जीवेच्छरदां शतम् ।
देहान्ते समवाप्नोति तव लोकं न संशयः ॥ १०१ ॥
दूतीयागन्तु यः कुर्यात् पूर्वोक्तविधिना प्रिये ।
निवीकल्पेन चित्तेन नवशक्तिसमन्वितः ॥ १०२ ॥
वर्षे वर्षे चतुःषष्टिपीठार्चनफलं लभेत् ।
आज्ञासिद्धिर्भवेत्तस्य देवताप्रीतिमाप्नुयात् ॥ १०३ ॥
त्रिकपूजान्तु यः कुर्यादिच्छाज्ञानक्रियात्मिकाम् ।
आगमोक्तेत विधिना पूर्ववेत्तद्विधानवित् ॥ १०४ ॥
पदार्थैस्तोषयेत् सम्यक् यथाविभवविस्तरम् ।
सन्तुष्टा देवतास्तिस्रः सर्वकर्मफलप्रदाः ।
देवेशि साधकाभीष्टं प्रयच्छन्ति न संशयः ॥ १०५ ॥
इत्यादिदेवतापूजां विशेषदिवसेषु यः ।
करोति शस्त्रविधिना स भवेदावयोः प्रियः ॥ १०६ ॥
श्रीचक्रं कौलिको मोहाद्विशेषदिवसेषु यः ।
न करोति समर्थः सन् स भवेद् योगिनीपशुः ॥ १०७ ॥
कुलपूजां विना चक्रे नाधिकारः कथञ्चन ।
कुलपूजां सुनियतं यः करोति स कौलिकः ॥ १०८ ॥
विना मन्त्रेण पूजा चेद्देवता न प्रसीदति ।
कुलपूजां सुनियतं यः करोति हि कौलिकः ।
कुलेशि सर्वदाप्नोति योगिनीवीरमेलनम् ॥ १०९ ॥
नीचोऽपि वा सकृद्भक्त्या कारयेद् यः कुलार्चनम् ।
स सद्गतिमवाप्नोति किमुतान्ये द्विजातयः ॥ ११० ॥
तस्मात् सर्वप्रयत्नेन सर्वावस्थासु सर्वदा ।
कुलपूजारतो भूयादभीष्टफलसिद्धये ॥ १११ ॥
कुलपूजाधिको यज्ञः कुलपूजाधिकं व्रतम् ।
कुलपूजाधिकं तीर्थं कुलपूजाधिकं तपः ॥ ११२ ॥
कुलपूजाधिकं दानं कुलपूजाधिका क्रिया ।
कुलपूजाधिकं ज्ञानं कुलपूजाधिकं सुखम् ॥ ११३ ॥
कुलपूजाधिको धर्मः कुलपूजाधिकं फलम् ।
कुलपूजाधिकं ध्यानं कुलपूजाधिकं महः ॥ ११४ ॥
कुलपूजाधिको योगः कुलपूजाधिका गतिः ।
कुलपूजाधिकं भाग्यं कुलपूजाधिकाऽर्चना ॥ ११५ ॥
नास्ति नास्ति पुनर्नास्ति त्वां शपे कुलनायिके ।
बहुनात्र किमुक्तेन रहस्यं शृणु पार्वति ॥ ११६ ॥
वेदशास्त्रोक्तमार्गेण कुलपूजां करोति यः ।
तत्समीपे स्थितं मां त्वां विद्धि नान्यत्र भामिनी ।
इदं सत्यमिदं सत्यं सत्यं सत्यं न संशयः ॥ ११७ ॥
खभूमिदिग्जलगिरिवनसर्वचराः प्रिये ।
सहस्रकोटियोगिन्यस्तावन्तो भैरवा अपि ।
नियुक्ता हि मया देवि कुलसंरक्षणाय च ॥ ११८ ॥
दिवसे दिवसे सर्वे पार्वति मुदिताननाः ।
साधकानेव वीक्षन्ते स्वस्वपूजनलिप्सया ॥ ११९ ॥
अपूजितास्तु विघ्नन्ति पालयन्ति सुपूजिताः ।
गुरुभक्तान् सदाचारान् गुह्यधर्मान् सदाशिवान् ॥ १२० ॥
भक्तिहीनान् दुराचारान् नाशयन्ति प्रकाशकान् ।
श्रीचक्रे संस्मरेत्तस्माद् योगिनीभैरवान् प्रिये ॥ १२१ ॥
न स्मरेद् यदि मूढात्मा योगिनीनां भवेत् पशुः ।
तस्मात् श्रीचक्रमध्ये तु संस्मरेत् सर्वदेवताः ॥ १२२ ॥
अनुगृह्णन्ति देवेशि साधकान् नात्र संशयः ।
अनुग्रहन्तु वक्ष्यामि शृणु देवि यथाक्रमम् ॥ १२३ ॥
आत्मनोऽनुग्रहार्थं वा परार्थं श्रेष्ठमुत्तमम् ।
शुचिद्रव्यसमायुक्तं चक्रपूजासमन्वितम् ॥ १२४ ॥
सर्वेषां दक्षिणां दत्त्वा होमपात्रं पृथक पृथक् ।
प्रपूजयेच्च वर्णस्थाः सर्वाभरणभूषिताः ॥ १२५ ॥
हर्षानन्दस्वयंयुक्ताः प्रसन्नाश्च पृथक् पृथक् ।
पायसाज्यौदनैर्युक्तैर्नैवेद्यैर्भक्तिसंयुतैः ॥ १२६ ॥
गन्धपुष्पादिभिः सम्यगर्चयित्वा गणेश्वरम् ।
हसख फ्रें हेसौं(ह्सौं) डां डीं डमलवरयूं ततः ॥ १२७ ॥
श्रीपादुकां हेसौ(ह्सौ)मिति च हसखफ्रें पुटन्ततः ।
सङ्कल्प्य मनसोऽभीष्टं मधुरत्रितयः प्रिये ॥ १२८ ॥
गन्धपुष्पादिभिः सम्यगर्चयित्वा पृथक् पृथक् ।
पूजयित्वेप्सितान् कामान् प्रार्थयेत् कमलानने ॥ १२९ ॥
ईप्सितानि च सर्वाणि साधको लभते वरम् ।
आत्मनश्च परस्यापि रक्षार्थं पूजयेत् प्रिये ॥ १३० ॥
रोगाणां नाशनार्थञ्च यथात्र पुत्रसिद्धये ।
वश्यार्थं मङ्गलार्थञ्च धर्मकर्मार्थसिद्धये ॥ १३१ ॥
सप्ताहं पूजयेद्देवि चतुर्द्दशदिनानि च ।
एकविंशदिनान्यत्र लभते चेप्सितं फलम् ॥ १३२ ॥
दक्षिणाञ्च पृथग् दद्याद्वस्त्रभूषाङ्गुरीयकम् ।
कुलाष्टकसमायुक्तं चतुःषष्टिसमन्वितम् ॥ १३३ ॥
अचीतञ्च प्रयत्नेन सिद्धिर्भवत्यनेकशः ।
वित्तशाठ्यं न कुर्वीत यदीच्छेत् सिद्धिमात्मनः ॥ १३४ ॥
एवं षट्कं समाख्यातमनुग्रहं वरानने ।
अचीतव्यं प्रयत्नेन साधकैः स्वेष्टसिद्धये ॥ १३५ ॥
ध्यात्वैव पूजयेदेता डाकिन्याद्या वरानने ।
संपूज्य सप्तमीं देवीं पूजयेत् सर्वसिद्धये ॥ १३६ ॥
शक्तिदेहसमुत्पन्नं शक्तिनिर्माल्यभोजने ।
स्ववर्गेण समायुक्ता दत्तनिर्माल्यमित्यपि ।
प्रतिगृह्णयुगं स्वाहा इति निर्माल्यसर्जनम् ॥ १३७ ॥
डाकिनी सर्पवदना वित्तजा ज्वलनप्रभा ।
कमण्डलुं कर्त्तृकाञ्च धारयन्ती वरप्रदा ॥ १३८ ॥
उलूकवदना देवी राकिणी नीलसन्निभा ।
खड्गखेटकसंयुक्ता सर्वालङ्कारभूषिता ॥ १३९ ॥
लाकिनी श्रीकपालाढ्या पाशांकुशधरा सती ।
पाटलीपुष्पसङ्काशा सर्वाभरणभूषिता ॥ १४० ॥
काकिनी हयवक्त्रा च माणिक्यसदृशप्रभा ।
त्रिमुखीं मुण्डसंयुक्ता सिद्धिदा सर्वशोभना ॥ १४१ ॥
शाकिनी त्वञ्जनप्रख्या मार्जारास्या सुशोभना ।
कुलिशञ्च तथा दण्डं धारयन्ति शुचिस्मिता ॥ १४२ ॥
हाकिनी ऋक्षवदना नीलनीरदसन्निभा ।
कपालशूलहस्ता च खेटकैरुपशोभिता ।
एकद्वित्रिचतुःपञ्चषण्मुखा सरभाभया ॥ १४३ ॥
इति ते कथितं किञ्चिद्विशेषदिवसार्चनम् ।
समासेन कुलेशानि किम्भूयः श्रोतुमिच्छसि ॥ १४४ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे विशेषदिवसार्चनं नाम दशमोल्लासः ॥ १० ॥
अथैकादशोल्लासः
[सम्पाद्यताम्]श्री देव्युवाच
कुलेश श्रोतुमिच्छामि सर्वलोकैकपूजित ।
कुलाचारक्रमं देव वद मे करुणानिधे ॥ १ ॥
ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण पशुपाशैः प्रमुच्यते ॥ २ ॥
यदि चेद्दीक्षितो ज्येष्ठः कुलपूजादिवजीतः ।
तत्कनिष्ठः क्रमज्ञश्चेत् कुलपूजां समाचरेत् ॥ ३ ॥
तत्समीपं ततो गत्वा नमस्कृत्य गुरुं यथा ।
तस्मै निवेद्य तत्सर्वं शेष भुञ्जीत पार्वती ॥ ४ ॥
पूजामध्ये गुरौ ज्येष्ठे पूज्ये वापि समागते ।
नत्वा ब्रूयात् स्थितं शिष्टमाचरेत्तदनुज्ञया ॥ ५ ॥
ज्येष्ठस्य च कनिष्ठस्य शिष्यावेकत्र संस्थितौ ।
तत्र पूर्ववदाचारः कथितः कुलनायिके ॥ ६ ॥
अज्ञातकौलिके प्राप्ते पौर्वापर्यन्तु चिन्तयेत् ।
स्मृत्वा स्वस्य गुरुं देवि स्वस्य मार्गेण तर्पयेत् ॥ ७ ॥
नित्यार्चनं दिने कुर्याद्रात्रौ नैमित्तिकार्चनम् ।
उभयोः काम्यकर्माणि चेति शास्त्रस्य निर्णयः ॥ ८ ॥
अस्नात्वाऽनासनस्थो वा भुक्त्वा वा प्रलपन्नपि ।
गन्धपुष्पाक्षता कल्पवस्त्राद्यैरनलंकृतः ।
अविन्यस्तशरीरो वा कुलपूजां न चाचरेत् ॥ ९ ॥
विना मन्त्रेण या पूजा विना मांसेन तर्पणम् ।
विना शक्त्या तु यत्पानं निष्फलं कथितं प्रिये ॥ १० ॥
श्रीचक्रमेको वा कुर्यादेकपात्रन्तु नार्चयेत् ।
नार्चयेदेकहस्तेन न पिबेदेकपाणिना ॥ ११ ॥
मत्स्यमांसासवैर्द्देवि नार्चयेत् पशुसन्निधौ ।
प्रणम्य प्रविशेच्चक्रं विनिर्गच्छेत्प्रणम्य च ॥ १२ ॥
श्रीचक्रे नासने तिष्ठेन्न च वीरासने प्रिये ।
श्रीचक्रदर्शने देवि नेत्रयोः पापनाशनम् ।
तन्नास्ति चेद् व्रणद्वन्द्वं कौलिकस्याक्षियुग्मकम् ॥ १३ ॥
अनाचारान् सदाचारान् चक्रस्थान् शक्तिकौलिकान् ।
शिवगौरीधिया देवि भावयेन्नावमानयेत् ॥ १४ ॥
कुलाचार्यगृहं गत्वा भक्त्या पापविशुद्धये ।
याचेदमृतञ्चान्नञ्च तदभावे जलं पिबेत् ॥ १५ ॥
कुलाचार्येण तच्छक्त्या दत्तं पात्रञ्च भक्तितः ।
नमस्कृत्य तु गृह्णीयादन्यथा नरकं व्रजेत् ॥ १६ ॥
अस्नात्वा वाप्यभक्त्या वा लोभाद्वापि कुलेश्वरि ।
यः सेवेत कुलद्रव्यं दारिद्र्यं समवाप्नुयात् ॥ १७ ॥
उष्णीषी कञ्चुकी नग्नो मुक्तकेशो गणावृतः ।
व्यग्रो रुष्टो विवादी च न सेवेत कुलामृतम् ॥ १८ ॥
योगामृतेन निष्ठीवान्मद्यभाण्डपरिभ्रमात् ।
ऊर्ध्व नालेन पानाच्च देवताशापमाप्नुयात् ॥ १९ ॥
एकासने निविष्टस्तु भुञ्जानस्त्वेकभाजने ।
एकपात्रे पिबेद्द्रव्यं ते यान्ति नरकं प्रिये ॥ २० ॥
यः सेवेत कुलद्रव्यमेकग्रामे स्थिते गुरौ ।
तत्कुलज्ञे च तत्पुत्रे स्वजेष्ठे कुलदेशिके ।
विनानुज्ञां महेशानि सोऽक्षयं नरकं व्रजेत् ॥ २१ ॥
उच्छिष्टो न स्पृशेच्चक्रे कुलद्रव्याणि पार्वति ।
बहिःप्रक्षाल्य च करौ कुलद्रव्याणि दापयेत् ॥ २२ ॥
मद्यभाण्डं समुधृत्च न पात्रं पूरयेत् प्रिये ।
भोगपात्रं सुराकुण्डे निक्षिपेन्न कदाचन ॥ २३ ॥
चक्रमध्ये शुचिधिया करप्रक्षालनादिकम् ।
यः करोति हि मूढात्मा स भवेदापदाम्पदम् ॥ २४ ॥
निष्ठीवनं मलं मूत्रमधोवायुविसर्जनम् ।
श्रीचक्रमध्ये यः कुर्यात् स भवेद् योगिनीपशुः ॥ २५ ॥
चक्रमध्ये घटे भग्ने पात्रे च पतिते भुवि ।
दीपनाशे च शान्त्यर्थं श्रीचक्रं कारयेत् प्रिये ॥ २६ ॥
मत्ता जपन्ति ध्यायन्ति स्तुवन्ति प्रणमन्ति च ।
बोधयन्ति च पृच्छन्ति नन्दन्ति ज्ञानिनः प्रिये ॥ २७ ॥
मत्ता भ्रमन्ति गर्जन्ति हसन्ति विवदन्ति च ।
रुदन्ति स्त्रियमिच्छन्ति निन्दन्त्यज्ञानिनः प्रिये ॥ २८ ॥
परिहासं प्रलापञ्च वितण्डां बहुभाषितम् ।
औदासीन्यं भयं क्रोधं चक्रमध्ये विवर्जयेत् ॥ २९ ॥
पात्रहस्तो महादेवि न भ्रमेच्चक्रमध्यतः ।
पूर्णपात्रं करे कृत्वा न तिष्ठेत्तु चिरं प्रिये ॥ ३० ॥
नालपेत् पात्रहस्तः सन् न भिन्द्यात् पात्रमम्बिके ।
पादाभ्यां न स्पृशेत् पात्रं न बिन्दुं पातयेदधः ॥ ३१ ॥
नैकहस्तेन दातव्यं न मुद्रावजीतं प्रिये ।
पात्रं न चालयेत स्थानान्न कुर्यात् पात्रसङ्करम् ॥ ३२ ॥
सशब्दं न पिबेन्मद्यं तथैव न च पूरयेत् ।
नान्योन्यं ताडयेत्पात्रं तथा न पातयेदधः ॥ ३३ ॥
साधारं नोद्धरेत् पात्रमनाधारे न निक्षिपेत् ।
रिक्तपात्रं न कुर्वीत न पात्रं भ्रामयेत् प्रिये ॥ ३४ ॥
न पात्रं लंघयेद्धीमान् पात्रं नोत्पातयेत् प्रिये ।
प्रक्षाल्य गोपयेत् पात्रमित्याज्ञा परमेश्वरि ॥ ३५ ॥
यदा सन्दीपितोल्लासः कौलिकः पशुमीक्षते ।
पठेद्वा पशुशास्त्राणि सङ्गच्छेद्वा पशुस्त्रियम् ॥ ३६ ॥
कुर्यात् पशुप्रसङ्गं वा पशुकार्याणि वा चरेत् ।
धर्मार्थायुर्यशःपुण्यमर्थसौख्यादि नश्यति ॥ ३७ ॥
श्रीचक्रस्थं कुलद्रव्यं यः पशुभ्यः प्रयच्छति ।
स्नेहाल्लोभाद्भयाद्वापि स भवेद् योगिनीपशुः ॥ ३८ ॥
रिपुणापि न कर्त्तव्यो वाग्वादश्चक्रमध्यतः ।
पितृमातृसमं पश्येत्तेनोक्तं परुषं सहेत् ॥ ३९ ॥
यथास्त्रीपुत्रमित्रादि दृष्ट्वा चेतः प्रहृष्यति ।
तथा चेत् कौलिकान् दृष्ट्वा स भवेद् योगिनीप्रियः ॥ ४० ॥
ब्रह्मादिस्तम्बपर्यन्तं यस्य मे गुरुसन्ततिः ।
यस्य मे सर्वशिष्यस्य को न पूज्यो महीतले ।
द्दति निश्चितबुद्धिर्यः स भवेदावयोः प्रियः ॥ ४१ ॥
अहं गुरुरहं ज्येष्ठस्त्वहं वेद्मीति गवीतः ।
अहमेव गतिर्येषां कौलिका न भवन्ति ते ॥ ४२ ॥
श्रीगुरुं कुलशास्त्राणि पूजास्थानानि यानि च ।
भक्त्या श्रीपूर्वकं देवि प्रणम्य परिकीर्त्तयेत् ॥ ४३ ॥
गुरुं नाम्ना न भावेत जपकालादृते प्रिये ।
श्रीनाथ देव स्वामीति विवादे साधने वदेत् ॥ ४४ ॥
श्रीगुरोः पादुकां मुद्रां मूलमन्त्रं स्वपादुकाम् ।
शिष्यादन्यस्य देवेशि न वदेद् यस्य कस्यचित् ॥ ४५ ॥
पारम्पर्यागमाम्नायं मन्त्राचारादिकं प्रिये ।
सर्व गुरुमुखाल्लब्धं सफलं स्यान्न चान्यथा ॥ ४६ ॥
श्रीशास्त्राश्रयमूलञ्च पुस्तकं न वदेत् प्रिये ।
नित्यं समर्चयेद्भक्त्या पशुहस्ते न निक्षिपेत् ॥ ४७ ॥
स्वदारवन्निषेवेत कुलशास्त्राणि पार्वति ।
पशुशास्त्राणि सर्वाणि वर्जयेत् परदारवत् ॥ ४८ ॥
स्वचर्मस्थं यथा क्षीरमपेयं स्याद् द्विजोत्तमैः ।
तथा पशुमुखाद्धर्मो न श्रोतव्यो हि कौलिकैः ॥ ४९ ॥
यः शृणोति कुलाचारं यथाशास्त्रञ्च यो वदेत् ।
तावुभौ गच्छतः साक्षाद् योगिनीवीरमेलनम् ॥ ५० ॥
अश्रद्धधाना ये चात्र कुलधर्मे कुलेश्वरि ।
नरकान्नो निवर्त्तन्ते यावदाहूत संप्लवम् ॥ ५१ ॥
ऊढा धृता तथा क्रीता मूल्येन च समाहृता ।
सकृत् कामरता वापि पञ्चधा गुरुयोषितः ।
अलंघ्याः पूजनीयाः स्युर्गुरुवद्गुरुयोषितः ॥ ५२ ॥
गुरुशक्तिं वीरभार्यां कुमारीं व्रतधारिणीम् ।
व्यङ्गाङ्गी विकृताङ्गीञ्च कुब्जामपि न कामयेत् ॥ ५३ ॥
सुताञ्च भगिनीं पौत्रीं स्नुषां वापि प्रियामपि ।
न कामयेद् गुरोरग्रे कुर्यान्नान्योन्यसंग्रहम् ॥ ५४ ॥
कृष्णांशुकां कृष्णवणार्ं कुमारीञ्च कृशोदरीम् ।
मनोहरां यौवनस्थामर्चयेद्देवताधिया ॥ ५५ ॥
एकदापि न सेवेत बलेन कुलयोगिनीम् ।
चक्रमध्ये स्वयं क्षुब्धां कामयेत् कुलसुन्दरि ॥ ५६ ॥
आममांसं सुराकुम्भं मत्तेभं सिद्धिलिङ्गिनम् ।
सहकारमशोकञ्च क्रीडालोलाः कुमारिकाः ॥ ५७ ॥
एक्रवृक्षं श्मशानञ्च समूहं योषतामपि ।
नारीञ्च रक्तवसनां दृष्ट्वा वन्देत भक्तितः ॥ ५८ ॥
गुरुशक्तिसुतज्येष्ठकनिष्ठान् कुलदेशिकान् ।
कुलदर्शनशास्त्राणि कुलद्रव्याणि कौलिकान् ॥ ५९ ॥
प्रेरकान् सूचकांश्चापि वाचकान् दर्शकांस्तथा ।
शिक्षकान् बोधकान् योगी योगिनीसिद्धिरूपकान् ॥ ६० ॥
कन्यां कुमारिकां नग्नामुन्मत्तां वापि योषितम् ।
न निन्देन्न जुगुप्सेत न हसेन्नावमानयेत् ॥ ६१ ॥
नाप्रियं नानृतं ब्रूयात् कस्यापि कुलयोगिनः ।
कुरूपा चेति कृष्णेति न वदेत् कुलयोषितम् ॥ ६२ ॥
परीक्षयेन्न भक्तानां वीराणाञ्च कृताकृतम् ।
न पश्येद्वनितां नग्नामुन्मत्तां प्रकटस्तनीम् ॥ ६३ ॥
दिवसे न रमेन्नारीं तद्योनिं नैव वीक्षयेत् ।
या काचिदङ्गना लोके सा मातृ कुलसम्भवा ॥ ६४ ॥
कुप्यन्ति कुलयोगिन्यो वनितानां व्यतिक्रमात् ।
स्त्रियं शतापराधाञ्चेत् पुष्पेणापि न ताडयेत् ।
दोषान्न गणयेत् स्त्रीणां गुणानेव प्रकाशयेत् ॥ ६५ ॥
तिष्ठन्ति कुलयोगिन्यः कुलवृक्षेषु सर्वदा ।
तत्पत्रेषु न भोक्तव्यमर्चयेत्तु विशेषतः ॥ ६६ ॥
न स्वपेत् कुलवृक्षाधो न चोपद्रवमाचरेत् ।
दृष्ट्वा भक्त्या नमस्कुर्याच्छेदयेन्न कदाचन ॥ ६७ ॥
श्लेष्मातकं करञ्जाख्यं निम्बाश्वत्थकदम्बकाः ।
बिल्ववटोडुम्बराश्च तिन्तिडी नवमी स्मृता ॥ ६८ ॥
प्रायश्चित्तं भृगोः पातं संन्यासं व्रतधारणम् ।
तीर्थयात्राभिगमनं कौलः पञ्च विवर्जयेत् ॥ ६९ ॥
वीरहत्या वृथापानं वीरपत्नीनिषेवणम् ।
वीरद्रव्यापहरणम् तत्संयोगश्च पञ्चमः ।
महापातकमित्युक्तं कौलिकानां कुलान्वये ॥ ७० ॥
शैवे तत्त्वपरिज्ञानं गारुडे विषभक्षणम् ।
ज्योतिषे ग्रहणं सारं कौलेऽनुग्रहनिग्रहौ ॥ ७१ ॥
देवतागुरुशास्त्राणां सिद्धाचारविडम्बकाः ।
विद्याचौरो गुरुद्रोही ब्रह्मराक्षसतां व्रजेत् ॥ ७२ ॥
गुरुवाक्यं हतं कृत्वा वीरान् निर्भर्त्स्य च प्रिये ।
गुरुं हुङ्कृत्य तुङ्कृत्य वीरं निजीत्य वादतः ।
विकल्प्य कुलशास्त्राणि भवन्ति ब्रह्मराक्षसाः ॥ ७३ ॥
एकाक्षरप्रदातारं यो गुरुञ्चावमानयेत् ।
श्वानं योनिशतं गत्वा चण्डालत्वमवाप्नुयात् ॥ ७४ ॥
मातरं पितरं भार्यां भ्रातरं बान्धवं सुतम् ।
कुलनिन्दाकरं देवि हन्यादेवाविचारयन् ॥ ७५ ॥
गुर्वर्थं देवतार्थं वा कौलिकार्थं कुलेश्वरि ।
कुलागमार्थमथवा कुलधर्मार्थमेव वा ॥ ७६ ॥
देवि निन्दाकरं हत्वा बाधितः स्वयमेव वा ।
यस्त्यजेद्दुस्त्यजप्राणान् स परे लीयते शिवे ॥ ७७ ॥
एकस्मिन्निधनं यत्र प्रापिते दुष्टचारिणि ।
बहूनां भवति क्षेमं पुण्यं तस्य वधे भवेत् ॥ ७८ ॥
श्रीचक्रकृतवृत्तान्तं शुभं वा यदि वाऽशुभम् ।
कदाचिन्नैव वक्तव्यमित्याज्ञा परमेश्वरि ॥ ७९ ॥
कुलधर्मप्रसङ्गञ्च पशूनां पुरतः प्रिये ।
कदाचिन्नैव कुर्वीत शूद्राग्रे देवपाठवत् ॥ ८० ॥
पीठक्षेत्रागमाम्नायं तद्विद्याचारकौलिकान् ।
कुलद्रव्यादिकं देवि न वदेत् पशुसन्निधौ ॥ ८१ ॥
यथा रक्षति चौरेभ्यो धनधान्यादिकं प्रिये ।
कुलधर्मं तथा देवि पशुभ्यः परिरक्षयेत् ॥ ८२ ॥
अन्तः कौलो बहिः शैवो जनमध्ये तु वैष्णवः ।
कौलं सुगोपयेद्देवि नारिकेलफलाम्बुवत् ॥ ८३ ॥
कुलधर्मादिकं सर्वं सर्वावस्थासु सर्वदा ।
गोपयेच्च प्रयत्नेन जननीजारगर्भवत् ॥ ८४ ॥
वेदशास्त्रपुराणानि स्पष्टानि गणिका इव ।
इयन्तु शाम्भवी विद्या गुप्ता कुलवधूरिव ॥ ८५ ॥
सुगुप्तकौलिकाचारमनुगृह्णन्ति देवताः ।
वाञ्छासिद्धिं प्रयच्छन्ति नाशयन्ति प्रकाशकान् ॥ ८६ ॥
कुलेशि कुलशास्त्रज्ञाः कुलपूजापरायणाः ।
ये त्वां रहसि सेवन्ते ते तिष्ठन्ति तवान्तिके ॥ ८७ ॥
गुरुं प्रकाशयेद्धीमान् मन्त्रं यत्नेन गोपयेत् ।
अप्रकाशप्रकाशाभ्यां नश्यतः सम्पदायुषी ॥ ८८ ॥
सर्वाचारपरिभ्रष्टः कुलाचारं समाश्रयेत् ।
कुलाचारपरिभ्रष्टौ रौरवं नरकं व्रजेत् ॥ ८९ ॥
शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि ।
कुलभ्रष्टस्य देवेशि न दृष्टा निष्कृतिः क्वचित् ॥ ९० ॥
कुलधर्म समाश्रित्य आचारं यो न पालयेत् ।
यथेच्छचारिणस्तस्य महापातकिनः प्रिये ॥ ९१ ॥
आपदो दुरितं रोगा दारिद्र्यं कलहो भयम् ।
योगिनीनां प्रकोपश्च स्खलितानि पदे पदे ॥ ९२ ॥
भ्रंशमानः प्रनष्टश्च तेजोहीनोऽतिदुर्मतिः ।
निन्दितः सर्वविद्विष्टो विह्वलः सङ्गवजीतः ।
देशाद्देशान्तरं याति कार्यहानिश्च सर्वदा ॥ ९३ ॥
तत्रापि कुलमार्गस्थाः शाकिन्यः कुलपालिकाः ।
भक्षयन्ति पुरा तासां वरो दत्तो मयेव तु ॥ ९४ ॥
तस्मादाचारवान् देवि योगिनीनां प्रियो भवेत् ।
नाशयन्ति चतुर्वेदाननाचाराः कुलेश्वरि ॥ ९५ ॥
पादुकामात्रसारज्ञः सदाचारेषु यन्त्रितः ।
सदाचारेण देवत्वं योगिनीवीरमेलनम् ।
सम्प्राप्नुवन्ति तिर्यक्त्वं कौलिकास्तद्विपर्ययात् ॥ ९६ ॥
आज्ञासिद्धमिदं कौलमनाचाराद्विनश्यति ।
आचारपालनात् सत्यमाज्ञासिद्धिर्भविष्यति ॥ ९७ ॥
नाभिषेको न मन्त्रो वा न शास्त्रपठनादिकम् ।
कारणं कुलधर्मस्य सदाचारः कुलेश्वरि ॥ ९८ ॥
परा श्रीपादुकातत्त्वत्रयाचारादिवासनाः ।
यो वेत्ति समयी स स्यात् कौलिकश्चापि शाम्भवि ॥ ९९ ॥
तावन्न कौलिको देवि यावन्न समयीकृतः ।
देहपाते विमोक्षः स्यात् समयाचारपालनात् ॥ १०० ॥
संस्कारेण विहीनत्वाद् गुरुवाक्यस्य लङ्घनात् ।
आचारवर्जनाद्देवि कौलिकः पतितो भवेत् ॥ १०१ ॥
नित्यं नैमित्तिकं द्रव्यं मन्त्रयन्त्रादिलोपनम् ।
अनर्हपशुदुःसङ्गमन्त्रसाङ्कर्यसम्भवम् ॥ १०२ ॥
गुप्तप्रकटसम्भूतं ज्ञानाज्ञानकृतं प्रिये ।
एवमादिषु दोषेषु पापस्य गुरुलाघवम् ॥ १०३ ॥
देशं कालं वयो वित्तं सम्यग् ज्ञात्वा यथाविधि ।
प्रायश्चित्तं गुरुर्द्दद्यात् सर्वपापविशुद्धये ॥ १०४ ॥
शिष्योऽपि गुरुणाऽऽज्ञप्तं प्रायश्चित्तं समाचरेत् ।
अथवा सर्वपापानां गुरुनामजपः स्मृतः ॥ १०५ ॥
जाम्बूनदस्य कलुषं परिशुद्धं यथाग्निना ।
अनाचारस्य मालिन्यं प्रायञ्चित्ताग्निना दहेत् ॥ १०६ ॥
बहुनात्र किमुक्तेन रहस्यं शृणु पार्वती ।
वर्णाश्रमाणां सर्वेषामाचारः सद्गतिप्रदः ॥ १०७ ॥
गुरुस्त्रिवारमाचारं कथयेच्च कुलेश्वरि ।
न गृह्णाति हि शिष्यश्चेत्तदा पापं गुरोर्न हि ॥ १०८ ॥
मन्त्रिदोषश्च राजानं जायादोषः पतिं यथा ।
तथा प्राप्नोत्यसन्देहं शिष्यपापं गुरुं प्रिये ॥ १०९ ॥
इति ते कथितं किञ्चित् समासेन कुलेश्वरि ।
कुलाचारविधिं देवि किम्भूयः श्रोतुमिच्छसि ॥ ११० ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे कुलाचारकथनं नाम एकादशोल्लासः ॥ ११ ॥
अथ द्वादशोल्लासः
[सम्पाद्यताम्]श्री देव्युवाच
कुलेश श्रोतुमिच्छामि पादुका भक्तिलक्षणम् ।
आचारमपि देवेश वद मे करुणानिधे ॥ १ ॥
ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण भक्तिराशु प्रजापते ॥ २ ॥
वाग्भवा मूलवलये सूत्राद्याः कवलीकृताः ।
एवं कुलार्णवे ज्ञानं पादुकायां प्रतिष्ठितम् ॥ ३ ॥
कोटिकोटिमहादानात् कोटिकोटिमहाव्रतात् ।
कोटिकोटिमहायज्ञात् परा श्रीपादुकास्मृतिः ॥ ४ ॥
कोटिकोटिमन्त्रजापात् कोटितीर्थावगाहनात् ।
कोटिदेवार्चनाद्देवि परा श्रीपादुकास्मृतिः ॥ ५ ॥
महारोगे महोत्पाते महादोषे महाभये ।
महापदि महापापे स्मृता रक्षति पादुका ॥ ६ ॥
दुराचारे दुरालापे दुःसङ्गे दुष्प्रतिग्रहे ।
दुराचारे च दुर्बुद्धौ स्मृता रक्षति पादुका ॥ ७ ॥
तेनाधीतं स्मृतं ज्ञातम् इष्टं दत्तञ्च पूजितम् ।
जिह्वाग्रे वर्त्तते यस्य सदा श्रीपादुकास्मृतिः ॥ ८ ॥
सकृत् श्रीपादुकां देवि यो वा जपति भक्तितः ।
स सर्वपापरहितः प्राप्नोति परमां गतिम् ॥ ९ ॥
शुचिर्वाप्यशुचिर्वापि भक्त्या स्मरति पादुकाम् ।
अनायासेन धर्मार्थकाममोक्षान् लभते सः ॥ १० ॥
श्रीनाथचरणाम्भोजं यस्यां दिशि विराजते ।
तस्यां दिशि नमस्कुर्यात् भक्त्या प्रतिदिनं प्रिये ॥ ११ ॥
न पादुकापरो मन्त्रो न देवः श्रीगुरोः परः ।
न हि शाक्तात् परा दीक्षा न पुण्यं कुलपूजनात् ॥ १२ ॥
ध्यानमूलं गुरोर्मूत्तीः पूजामूलं गुरोः पदम् ।
मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ १३ ॥
गुरुमूलाः क्रियाः सर्वा लोकेऽस्मिन् कुलनायिके ।
तस्मात् सेव्यो गुरुनीत्यं सिद्ध्यर्थं भक्तिसंयुतैः ॥ १४ ॥
तावदात्तीर्भयं शोको लोभमोहभ्रमादयः ।
यावन्नायाति शरणं श्रीगुरुं भक्तवत्सलम् ॥ १५ ॥
तावद् भ्रमन्ति संसारे सर्वदुःखमलीमसाः ।
न भवेत् सद्गुरौ भक्तिर्यावद्देवेशि देहिनाम् ॥ १६ ॥
सर्वसिद्धिफलोपेतो मन्त्रः शुध्यति शोभनः ।
गुरुप्रसादमूलोऽयं परतत्त्वमहाक्रमः ॥ १७ ॥
यथा ददाति सन्तुष्टः प्रसन्नो वरदो मनुम् ।
तथा भक्त्या धनैः प्राणैर्गुरुं यत्नेन तोषयेत् ॥ १८ ॥
यदा दद्यात् स्वशिष्याय स्वात्मानं देशिकोत्तमः ।
तदा मुक्तो भवेच्छिष्यस्ततो नास्ति पुनर्भवः ॥ १९ ॥
तावदाराधयेच्छिष्यः प्रसन्नोऽसौ यदा भवेत् ।
गुरौ प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ॥ २० ॥
मनसापि न काङ्क्षन्ते यान् कामाननुजीविनः ।
सम्पादयन्ति तान् सर्वान् स्वामिनो भक्तवत्सलाः ॥ २१ ॥
ब्रह्मविष्णुमहेशादिदेवतामुनियोगिनः ।
कुर्वन्त्यनुग्रहं तुष्टा गुरौ तुष्टे न संशयः ॥ २२ ॥
भक्त्या तुष्टेन गुरुणा यः प्रदिष्टः कृपालुना ।
कर्ममुक्तो भवेच्छिष्योः भुक्तिमुक्त्योः स भाजनम् ॥ २३ ॥
शिष्येणापि तथा कार्यं तथा सन्तोषितो गुरुः ।
प्रियं कुर्याच्च देवेशि मनोवाक्कायकर्मभिः ॥ २४ ॥
यदि तुष्टेन गुरुणात्मशिष्यो यत्र कुत्रचित् ।
मुक्तोऽसीति समादिष्टः सोऽपि मुक्तिं व्रजेत् प्रिये ॥ २५ ॥
अथवा निष्प्रपञ्चेन धाम्ना केनचिदीश्वरः ।
करोति गुरुरूपेण पशुपाशविमोचनम् ॥ २६ ॥
न मे प्रियश्चतुर्वेदी मद्भक्तः श्वपचोऽपि वा ।
तस्मै देयं ततो ग्राह्यं स तु पूज्यो ह्यहं तथा ॥ २७ ॥
विप्रः षड्गुणयुक्तश्चेदभक्तो न प्रशस्यते ।
म्लेच्छोऽपि गुणहीनोऽपि भक्तिमान् शिष्य उच्यते ॥ २८ ॥
गुरुभक्तिविहीनस्य तपो विद्या कुलं व्रतम् ।
सर्वं नश्यति तत्रैव भूषणं लोकरञ्जनम् ॥ २९ ॥
गुरुभक्त्यग्निना सम्यग्दग्धदुर्मतिकल्मषः ।
श्वपचोऽपि परैः पूज्यो विद्वानपि न नास्तिकः ॥ ३० ॥
धर्मार्थकामैः किन्तस्य मोक्ष एव करे स्थितः ।
सर्वार्थैः श्रीगुरौ देवि यस्य भक्तिः सदा स्थिरा ॥ ३१ ॥
स शिवो गुरुरूपेण भुक्तिमुक्तिप्रदो मम ।
इति भक्त्या स्मरेद् यस्तु तस्य सिद्विरदूरतः ॥ ३२ ॥
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।
तस्य ते कथिता ह्यर्थाः प्रकाशन्ते कुलेश्वरि ॥ ३३ ॥
नारायणे महादेवे मातापित्रोश्च राजनि ।
भक्तिर्यथा महादेवि तथा कार्या निजे गुरौ ॥ ३४ ॥
लक्ष्मीनारायणौ वाणीधातारौ गिरिजाशिवौ ।
श्रीगुरुं गुरुपत्नीञ्च पितराविति चिन्तयेत् ॥ ३५ ॥
गुरुभक्त्या यथा देवि प्राप्यन्ते सर्वसिद्धयः ।
यज्ञः दानतपस्तीर्थव्रताद्यैर्न तथा प्रिये ॥ ३६ ॥
श्रीगुरौ निश्चला भक्तिर्वर्द्धते हि यथा यथा ।
तथा तथास्य विज्ञानं वर्द्धते कुलनायिके ॥ ३७ ॥
कि तीर्थाद्यैर्महायासैः किं व्रतैः कायशोषणैः ।
निर्व्याजसेवा देवेशि भक्तिरेषा हि सद्गुरोः ॥ ३८ ॥
कायाक्लेशेन महता तपसा वापि यत् फलम् ।
तत् फलं लभते देवि सुखेन गुरुसेवया ॥ ३९ ॥
भोगमोक्षाथीनां ब्रह्मविष्ण्वीशपदकाङ्क्षिणाम् ।
भक्तिरेव गुरौ देवि नान्यः पन्था इति श्रुतिः ॥ ४० ॥
अशुभानि च कर्माणि महापातकजानि च ।
भक्तिः क्षणेन दहति तूलराशिमिवानलः ॥ ४१ ॥
विश्वासाय नमस्तस्मै सर्वसिद्धिप्रदायिने ।
येन मृद्दारुद्दषदः फलन्त्यविफलं फलम् ॥ ४२ ॥
न योगो न तपो नार्चाक्रमः कोऽपि प्रलीयते ।
अमाये कुलमार्गेऽस्मिन् भक्तिरेव विशिष्यते ॥ ४३ ॥
साक्षाद् गुरुमये देवि सर्वस्मिन् भुवनान्तरे ।
किन्नु भक्तिमतां क्षेत्रे मन्त्रः केषां न सिध्यति ॥ ४४ ॥
गुरौ मनुष्यबुद्धिञ्च मन्त्रे चाक्षरबुद्धिकम् ।
प्रतिमासु शिलाबुद्धि कुर्वाणो नरकं व्रजेत् ॥ ४५ ॥
गुरुं न मर्त्त्यं बुध्येत यदि बुध्येत तस्य हि ।
न कदाचिद्भवेत् सिद्धिर्मन्त्रैर्वा देवतार्चनैः ॥ ४६ ॥
श्रीगुरुं प्राकृतैः सार्द्धं ये स्मरन्ति वदन्ति च ।
तेषां हि सुकृतं सर्वं पातकं भवति प्रिये ॥ ४७ ॥
जन्महेतू हि पितरौ पूजनीयौ प्रयत्नतः ।
गुरुवीशेषतः पूज्यो धर्माधर्मप्रदर्शकः ॥ ४८ ॥
गुरुः पिता गुरुर्माता गुरुर्द्देवो महेश्वरः ।
शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन ॥ ४९ ॥
गुरोहीतं हि कर्त्तव्यं मनोवाक्कायकर्मभिः ।
अहिताचरणाद्देवि विष्ठायां जायते क्रिमिः ॥ ५० ॥
शरीरवित्तप्राणैश्च श्रीगुरुं वञ्चयन्ति ये ।
क्रिमिकीटपतङ्गत्वं प्रात्नुवन्ति न संशयः ॥ ५१ ॥
मन्त्र त्यागाद्भवेन्मृत्युर्गुरुत्यागाद्दरिद्रता ।
गुरुमन्त्रपरित्यागाद्रौरवं नरकं व्रजेत् ॥ ५२ ॥
गुर्वर्थं धारयेद्देहं तदर्थं धनमर्जयेत् ।
निजप्राणान् परित्यज्य गुरुकार्यं समाचरेत् ॥ ५३ ॥
गुरूक्तं परुषं वाक्यमाशिषं परिचिन्तयेत् ।
तेन सन्ताडितो वापि प्रसादमिति संस्मरेत् ॥ ५४ ॥
भोग्य भोज्यानि वस्तूनि गुरुवे च समर्पयेत् ।
तच्छेषमिति सञ्चिन्त्य चानुभूयात् कुलेश्वरि ॥ ५५ ॥
गुर्वग्रे न तपः कुर्यान्नोपवासव्रतादिकम् ।
तीर्थयात्रां न कुर्याच्च न स्नायादात्मशुद्धये ॥ ५६ ॥
न वियोगं गुरोः कुर्यात् युष्मदो नैव भाषयेत् ।
ऋणदानं तथाऽऽदानं वस्तूनां क्रयविक्रयम् ।
न कुर्याद् गुरुभिः सार्द्धं शिष्यो भूत्वा कथञ्चन ॥ ५७ ॥
न कुर्यान्नास्तिकैर्वादं सम्भाषणमपीश्वरि ।
विलोक्य दूरतो गच्छेन्नासीत सह तैः क्वचित् ॥ ५८ ॥
गुरौ सन्निहिते यस्तु पूजयेदन्यमम्बिके ।
स याति नरकं घोरं सा पूजा निष्फला भवेत् ॥ ५९ ॥
शिरसा न वहेद्भारं गुरुपादाब्जधारिणा ।
तदाज्ञया तु कर्त्तव्यमाज्ञारूपो गुरुः स्मृतः ॥ ६० ॥
मन्त्रागमाद्यमन्यत्र श्रुतं यस्मै निवेदयेत् ।
गुर्वाज्ञया तु गृह्णीयात्तन्निषिद्धं विवर्जयेत् ॥ ६१ ॥
स्वशास्त्रोक्तं रहस्यार्थं न वदेद् यस्य कस्यचित् ।
यदि ब्रूयात् स समयाच्च्युत एव न संशयः ॥ ६२ ॥
अद्वैतं भावयेन्नित्यं न द्वैतं गुरुणा सह ।
आत्मवत् सर्वभूतेभ्यो हितं कुर्यात् कुलेश्वरि ॥ ६३ ॥
आत्मार्थमानसद्भावैः शुश्रूषा स्याच्चतुवीधा ।
शुश्रूषया धिया देवि शिष्यः सन्तोषयेद् गुरुम् ॥ ६४ ॥
पदे पदेऽश्वमेधस्य फलं प्राप्नोत्यसंशयः ।
शुश्रूषणपरो यस्तु गुरुदेवमहात्मनाम् ॥ ६५ ॥
केवलं गुरुशुश्रूषा त्वत्कृपाकारिणी प्रिये ।
सद्भक्तिसहिता चेत् सा सर्वकामफलप्रदा ॥ ६६ ॥
क्षीयन्ते सर्वपापानि वर्द्धन्ते पुण्यराशयः ।
सिध्यन्ति सर्वकार्याणि गुरुशुश्रूषया प्रिये ॥ ६७ ॥
यद् यदात्महितं वस्तु तत्तद्धितमुपाचरेत् ।
गुरुदेवार्चको यस्तु तस्य पुण्यं न गण्यते ॥ ६८ ॥
भक्त्या वित्तानुसारेण गुरुमुद्दिश्य यत् कृतम् ।
अल्पे महति वा तुल्यं पुण्यमाढ्यदरिद्रयोः ॥ ६९ ॥
सर्वस्वमपि यो दद्याद् गुरौ भक्तिविवजीतः ।
शिष्यो न फलमाप्नोति भक्तिरेव हि कारणम् ॥ ७० ॥
यस्मिन् द्रव्ये गुरोरस्ति स्पृहा नानुभवेत्तु तत् ।
अवश्यं यदि वाञ्छा स्यादनुभूयात्तदाज्ञया ॥ ७१ ॥
यस्तिलार्द्धं तदर्द्धं वा गुरुस्वमुपजीवति ।
लोभान्मोहात् स पच्येत नरके च त्रिसप्तके ॥ ७२ ॥
अत्यल्पं हि गुरोर्द्रव्यमदत्तं स्वीकरोति यः ।
स तिर्यग् योनिमापन्नः क्रव्यादैर्भक्ष्यते प्रिये ॥ ७३ ॥
गुरुद्रव्याभिलाषी च गुरुस्त्रीगमनोत्सुकः ।
पतितस्य क्षुल्लकस्य प्रायश्चित्तं न विद्यते ॥ ७४ ॥
आज्ञाभङ्गोऽर्थहरणं गुरोरप्रियवर्त्तनम् ।
गुरुद्रोहमिदं प्राहुर्यः करोति स पातकी ॥ ७५ ॥
स्वद्रव्यविनियोगञ्च नानिवेद्य गुरौ चरेत् ।
अनिवेद्य तु यः कुर्यात् स भवेद् ब्रह्मघातकः ॥ ७६ ॥
गुरोः स्थानं सम्प्रदायं तद्धर्मं यो विनाशयेत् ।
गुरुभिः स बहिष्कार्यो दण्ड्यो वध्यः स घातकैः ॥ ७७ ॥
गुरुकोपाद्विनाशः स्याद् गुरुद्रोहात्तु पातकम् ।
विमृत्युगुरुनिन्दायां गुर्वनिष्टान्महापदः ॥ ७८ ॥
जीवेदग्निप्रविष्टो वा नरः पीतविषोऽपि वा ।
मृत्युहस्तगतो वापि नापराधकरो गुरोः ॥ ७९ ॥
यत्र श्रीगुरुनिन्दा स्यात् पिधाय श्रवणेऽम्बिके ।
सद्यस्तस्माद्विनिष्क्रामेत् पुनर्न श्रवणं यथा ।
गुरोर्नाम स्मरेत् पश्चात् श्रवणे सा प्रतिक्रिया ॥ ८० ॥
गुरुमित्रसुहृद्दासीदासाद्यान् नावमानयेत् ।
न निन्देदस्य समयान् वेदशास्त्रागमादिकान् ॥ ८१ ॥
गुरोः श्रीपादुकाभूषा गुरुनामस्मृतिर्जपः ।
गुर्वाज्ञाकरणं कृत्यं शुश्रूषा भजनं गुरोः ॥ ८२ ॥
विविक्षुर्द्देशिकावासं शान्तचित्तोऽतिभक्तिमान् ।
वाहनं पादुकां छत्रं चामरं व्यजनादिकम् ।
ताम्बूलं कज्जलं वेशमुत्सृज्य प्रविशेच्छनैः ॥ ८३ ॥
पादुकामासनं वस्त्रं वाहनं छत्रचामरे ।
दृष्ट्वा गुरोर्नमस्कुर्यान्नात्मभोगाय कामयेत् ॥ ८४ ॥
पादप्रक्षालनं स्नानमभ्यङ्गं दन्तधावनम् ।
मूत्रं निष्ठीवनं क्षौरं शयनं स्त्रीनिषेवनम् ॥ ८५ ॥
वीरासनं सुदुर्वाक्यं शासनं हास्यरोदनम् ।
केशमोचनमुष्णीषं कञ्चुकं नग्नतां तथा ॥ ८६ ॥
पादप्रसारणं वादं कलहं दूषणं प्रिये ।
अङ्गभङ्गाङ्गवाद्यादिकरास्फालनधूननम् ॥ ८७ ॥
द्यूतकौतुकमल्लादियुद्धनृत्यादि चाम्बिके ।
गुरुयोगिमहासिद्धिपीठक्षेत्राश्रमेषु च ।
ना चरेदाचरेन्मोहाद्देवताशापमाप्नुयात् ॥ ८८ ॥
उपचारेण सन्तिष्ठेद् गुर्वग्रे नेच्छया विशेत् ।
मुखावलोकी सेवेत तदुक्तञ्च समाचरेत् ॥ ८९ ॥
गुरूक्तानुक्त कार्येषु नोपेक्षां कारयेत् प्रिये ।
शिरसा यद्गुरुर्ब्रूयात्तत् कार्यमविशङ्कया ॥ ९० ॥
निग्रहेऽनुग्रहे वापि गुरुः सर्वस्य कारणम् ।
निर्गतं यद्गुरोर्वक्त्रात् सर्वं शास्त्रं तदुच्यते ॥ ९१ ॥
गुरुकार्ये स्वयं शक्तो नापरं प्रेषयेत् प्रिये ।
बहुभृत्यपरैर्भृत्यैः सहितोऽप्यतिभक्तिमान् ॥ ९२ ॥
गच्छंस्तिष्ठन् स्वपन् जाग्रज्जपन् जुह्वात् प्रपूजयेत् ।
गुर्वाज्ञामेव कुर्वीत तदगतेनान्तरात्मना ॥ ९३ ॥
अभिमानो न कर्त्तव्यो जातिविद्याधनादिभिः ।
सर्वदा सेवयेत् नित्यं शिष्यः भ्रीगुरुसन्निधौ ॥ ९४ ॥
कामक्रोधपरित्यागी विनीतः स्तुतिभक्तिमान् ।
देवि भूम्यासने तिष्ठेद् गुरुकार्यं समाचरेत् ॥ ९५ ॥
स्वकार्यमन्यकार्यं वा शिष्यः स्वगुरुचित्तवित् ।
गुरुपार्श्वगतो नम्रः प्रसन्नवदनो भवेत् ॥ ९६ ॥
सामान्यतो निषिद्धञ्च तद्गुरोर्यदि सन्निधौ ।
आचरेत्तस्य सर्वस्य दोषः कोटिगुणो भवेत् ॥ ९७ ॥
अनादृत्य गुरोर्वाक्यं शृणुयाद् यः पराङ्मुखः ।
अहितं वा हितं वापि रौरवं नरकं व्रजेत् ॥ ९८ ॥
गोब्राह्मणवधं कृत्वा यत् पापं समवाप्नुयात् ।
तत् पापं समवाप्नोति गुर्वग्रेऽनृतभाषणात् ॥ ९९ ॥
स्थानान्तरगताचार्ये व्यसने विषमे स्थिते ।
श्रीगुरुं न त्यजेत् क्वापि तदादिष्टो व्रजेत् प्रिये ॥ १०० ॥
अधः स्थिते गुरावूर्ध्वे न तिष्ठेत कदाचन ।
न गच्छेदग्रतस्तस्य न तिष्ठेदुत्थिते गुरौ ॥ १०१ ॥
शक्तिच्छायां सुरच्छायां गुरुच्छायां न लङ्घयेत् ।
न तेषु कुर्यात् स्वच्छायां न स्वपेद् गुरुसन्निधौ ॥ १०२ ॥
भाषणं पाठनं गानं भोजनं शयनादिकम् ।
अनादिष्टो न कुर्वीत न चावन्दनपूर्वकम् ॥ १०३ ॥
ब्रह्महत्याशतं कुर्यात् गुर्वाज्ञापरिपालनात् ।
विना गुर्वाज्ञया शिष्यौ विश्वसेन्नान्यशासनात् ॥ १०४ ॥
सर्वं गुर्वाज्ञया कुर्यान्न निन्देत्तत्स्त्रियं प्रिये ।
भक्त्या प्रणम्य चोत्तिष्ठेत् कृताञ्जलिपुटः प्रिये ॥ १०५ ॥
पश्चात्पदेन निर्गच्छेन्नमस्कृत्य गुरोर्गृहात् ।
एकासने नोपविशेद् गुरुणा तत्समैः सह ॥ १०६ ॥
न विशेदासने देवि देवतागुरुसन्निधौ ।
गुरोः सिंहासनं देयं ज्येष्ठानामुत्तमासनम् ।
देश्यासनं कनिष्ठानामितरेषां समासनम् ॥ १०७ ॥
जाति विद्याधनाढ्यो वा दूरे दृष्ट्वा गुरुं मुदा ।
दण्डप्रणामं कृत्वैकं त्रिः प्रदक्षिणमाचरेत् ॥ १०८ ॥
ततस्त्रिः षड् द्वादश वा ज्येष्ठादिष्वेकमेव वा ।
गुरुप्रगुरुयोगेन वन्देत प्रगुरु प्रिये ॥ १०९ ॥
ततो नमेद् गुरुं वापि गुर्वाज्ञां न विचारयेत् ।
प्रगुरोः सन्निधौ शिष्यः स्वगुरुं मनसा नमेत् ॥ ११० ॥
गुरुबुद्ध्या नमेत् सर्व दैवतं तृण्मेव वा ।
न नमेद्देवबुद्ध्या तु प्रतिमां लौहमृण्मयीम् ॥ १११ ॥
गुरोः प्रणामत्रितयं ज्येष्ठानामेक एव च ।
पूज्यानामञ्जलिस्तद्वदन्येषां वाक्यवन्दनम् ॥ ११२ ॥
देवान् गुरून् कुलाचार्यान् ज्ञानवृद्धान् तपोधनान् ।
विद्याधिकान् स्वधर्मस्थान् प्रणमेत् कुलनायिके ॥ ११३ ॥
स्त्रीद्विष्टं गुरुभिः शप्तं पाषण्डं पण्डितं शठम् ।
विकर्माणं कृतघ्नञ्चानाश्रमिणञ्च नो नमेत् ॥ ११४ ॥
अनिवेद्य गुरोर्भुङ्क्ते यस्त्वेकग्रामसंस्थितः ।
अमेध्यं तद्भवेदन्नं शूकरो जायते मृतः ॥ ११५ ॥
एकग्रामस्थितः शिष्यस्त्रिसन्ध्यं प्रणमेद् गुरुम् ।
क्रोशामात्रस्थितः शिष्यो गुरुं प्रतिदिनं नमेत् ॥ ११६ ॥
अर्द्धयोजनगः शिष्यः प्रणमेत् पञ्चपर्वसु ।
एकयोजनमारम्य योजनद्वादशावधि ॥ ११७ ॥
तत्संख्यादिवसैर्मासैः श्रीगुरुं प्रणमेत् प्रिये ।
दूरदेशस्थितः शिष्यो भक्त्या तत्सन्निधिं गतः ॥ ११८ ॥
तत्र योजनसंख्योक्तमासेन प्रणमेद् गुरुम् ।
अतिदूरगतः शिष्यो यदिच्छा स्यात्तदा व्रजेत् ॥ ११९ ॥
रिक्तहस्तश्च नोपेयाद्राजानं देवतां गुरुम् ।
फलपुष्पाम्बरादीनि यथाशक्त्या समर्पयेत् ॥ १२० ॥
एवं यो न चरेद्देवि ब्रह्मराक्षसतां व्रजेत् ।
गुरुशक्तिश्च तत्पुत्रो ज्येष्ठभ्राता गुरुः स्मृतः ॥ १२१ ॥
आत्मविच्च कनीयांसं पुत्रवत् परिपालयेत् ।
कुलाचार्यस्य देवेशि गुरुज्येष्ठकनिष्ठयोः ।
गुरुकल्पस्य कुर्वीत प्रणामं स्वरगुरोर्यथा ॥ १२२ ॥
यागज्येष्ठः क्रमज्येष्ठः कुलज्येष्ठस्तृतीयकः ।
गुरुज्येष्ठसुतो देवि इति ज्येष्ठचतुष्टयम् ॥ १२३ ॥
यागज्येष्ठाभिवादेन क्रमिकाष्टाङ्गयोगतः ।
गुरुश्च कुलवृक्षश्च वन्दनीयौ विधानतः ॥ १२४ ॥
पितृमात्रादिसर्वेषु पूज्यकोटिषु बन्धुषु ।
अभ्युत्थानप्रणामाद्यैरव्यक्तो दोषभाग्बहिः ॥ १२५ ॥
यदा त्वाचार्यरूपेण चात्मानं सम्प्रकाशयेत् ।
अभ्युत्थानप्रणामाद्यैर्द्दोषभाक् स भवेत्तदा ॥ १२६ ॥
पतिर्भूत्वा पशुभ्यश्च प्रणामं यः करिष्यति ।
स महापशुरित्युक्तो देवताशापमाप्नुयात् ॥ १२७ ॥
यो गुरुस्थानकं प्राप्तः पादुकापरिसंख्यया ।
गुरुवत् स तु मन्तव्यो ज्येष्ठैर्वन्द्यो न च प्रिये ॥ १२८ ॥
इति ते कथितं किञ्चित् पादुकाभक्तिलक्षणम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ १२९ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे पादुकाकथनं नाम द्वादशोल्लासः ॥ १२ ॥
अथ त्रयोदशोल्लासः
[सम्पाद्यताम्]श्री देव्युवाच
कुलेश श्रोतुमिच्छामि करुणामृतवारिधे ।
वक्तुमर्हसि देवेश लक्षणं गुरुशिष्ययोः ॥ १ ॥
ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण गुरुभावः प्रजायते ॥ २ ॥
दुष्टवंशोद्भवं दुष्टं गुणहीनं विरूपिणम् ।
परशिष्यञ्च पाषण्डं षण्डं पण्डितमानिनम् ॥ ३ ॥
हीनाधिकविकाराङ्गं विकलावयवान्वितम् ।
पङ्गुमन्धञ्च बधिरं मलिनं व्याधिपीडितम् ॥ ४ ॥
उत्सृष्टं दुर्मुखञ्चापि स्वेच्छावेशधरं प्रिये ।
दुवीकाराङ्गचेष्टादिगतिभाषणवीक्षणम् ॥ ५ ॥
निद्रातन्द्राजडालस्यद्यूतादिव्यसनान्वितम् ।
कपाटकुड्यस्तम्भादौ तिरोहिततनुं सदा ।
अन्तर्भक्तिकरं क्षुद्रं बाह्यभक्तिविवजीतम् ॥ ६ ॥
व्यलीकवादिनं स्तब्धं प्रोषितं प्रेषकं शठम् ।
धनस्त्रीशुद्धिरहितं निषेधविधिवजीतम् ॥ ७ ॥
रहस्यभेदकं वापि देवि कार्यविनाशकम् ।
मार्जारबकवृत्तिञ्च रन्ध्रान्वेषणतत्परम् ॥ ८ ॥
मायाविनं कृतघ्नञ्च प्रच्छन्नान्तरदायकम् ।
विश्वासघातकं स्वामिद्रोहिणं पापकारिणम् ॥ ९ ॥
अविश्वासकरं संशयात्मकं सिद्ध्यकाङ्क्षिणम् ।
आततायिनमादित्सु कोपितं कूटसाक्षिणम् ॥ १० ॥
सर्वप्रतारकं देवि सर्वोत्कृष्टाभिमानिनम् ।
असत्यं निष्ठुरासक्तं ग्राम्यादिबहुभाषिणम् ॥ ११ ॥
दुवीचारकुतर्कादिकारकं कलहप्रियम् ।
वृथाक्षेपकरं मूर्खं चपलं वाग्विडम्बकम् ॥ १२ ॥
परोक्षे दूषणकरं प्रत्यक्षे प्रियवादिनम् ।
वाग्ब्रह्मवादिनं विद्या चौरमात्मप्रशंसकम् ॥ १३ ॥
गुणासहिष्णुमहितमार्त्तक्रोधनमम्बिके ।
वाचालं दुर्जनसखं सर्वलोकविगहीतम् ॥ १४ ॥
पिशुनं परसन्ताप्यं सम्विदप्रणयं प्रिये ।
स्वक्लेशवादिनं स्वामिद्रोहिणं स्वात्मवञ्चकम् ॥ १५ ॥
जिह्वोपस्थपरं देवि तस्करं पशुचेष्टितम् ।
अकारणद्वेषहासक्लेशक्रोधादिकारिणम् ॥ १६ ॥
अतिहासमकर्माणं मर्मान्तपरिहासकम् ।
कामुकञ्चातिनिर्लज्जं मिथ्यादुश्चेष्टसूचकम् ॥ १७ ॥
असूयामदमात्सर्यदम्भाहङ्कारसंयुतम् ।
ईर्ष्यापारुष्यपैशुन्यकार्पण्यक्रोधमानसम् ॥ १८ ॥
अधीरं दुःखिनं भीरुमशक्तस्तवमातुरम् ।
अप्रबुद्धमतिं मन्दं मूढं चिन्ताकुलं विटम् ॥ १९ ॥
तृष्णालोभयुतं दीनमतुष्टं सर्वयाचकम् ।
बह्वाशिनं कपटिनं भ्रामकं कुटिलं प्रिये ॥ २० ॥
भक्तिश्रद्धादयाशान्तिधर्माचारविवजीतम् ।
मातापितृगुरुप्राज्ञसद्वचोहास्यकारकम् ॥ २१ ॥
कुलद्रव्यादिबीभत्सं गुरुसेवाभिमानिनम् ।
स्त्रीद्विष्टं समयभ्रष्टं गुरुशप्तं कुलेश्वरि ।
इत्यादिदुर्गुणोपेतं गुरुः शिष्यं विवर्जयेत् ॥ २२ ॥
सच्छिष्यन्तु कुलेशानि शुभलक्षणसंयुतम् ।
समाधि साधनोपेतं गुणशीलसमन्वितम् ॥ २३ ॥
स्वच्छदेहाम्बरं प्राज्ञं धामीकं शुद्धमानसम् ।
दृढव्रतं सदाचारं श्रद्धाभक्तिसमन्वितम् ॥ २४ ॥
दक्षमल्पाशिनं गूढचित्तं निर्व्याजसेवकम् ।
विमृश्यकारिणं वीरं मनोदारिद्र्यवजीतम् ॥ २५ ॥
सर्वकार्यातिकुशलं स्वच्छं सर्वोपकारिणम् ।
कृतज्ञं पापभीतञ्च साधुसज्जनसम्मतम् ॥ २६ ॥
आस्तिकं दानशीलञ्च सर्वभूतहिते रतम् ।
विश्वासविनयोपेतं धनदेहाद्यवञ्चकम् ॥ २७ ॥
असाध्यसाधकं शूरमुत्साहबलसंयुतम् ।
अनुकूलं क्रियायुक्तमप्रमत्तं विचक्षणम् ॥ २८ ॥
हितसत्यमितस्मेरभाषणं मुक्तदूषणम् ।
सकृदुक्तगृहातार्थं चतुरं बुद्धिविस्तरम् ॥ २९ ॥
स्वस्तुतौ परनिन्दायां विमुखं सुमुखं प्रिये ।
जितेन्द्रियं सुसन्तुष्टं धीमन्तं ब्रह्मचारिणम् ॥ ३० ॥
त्यक्ताधिव्याधिचापल्यदुःखभ्रान्तिमसंशयम् ।
गुरुध्यानस्तुतिकथादेवार्चावन्दनोत्सुकम् ॥ ३१ ॥
गुरुदैवतसम्भक्तं कामिनीपूजकं परम् ।
नित्यं गुरुसमीपस्थं गुरुसन्तोषकारकम् ॥ ३२ ॥
मनोवाक्तनुभिनीत्यं परिचर्या समुद्यतम् ।
गुर्वाज्ञापालकं देवि गुरुकीत्तीप्रकाशकम् ॥ ३३ ॥
गुरुवाक्यप्रमाणज्ञं गुरुशुश्रूषणे रतम् ।
चित्तानुवत्तीनं प्रेष्यकारिणं कुलनायिके ॥ ३४ ॥
जातिमानधने गर्ववजीतं गुरुसन्निधौ ।
निरपेक्षं गुरुद्रव्ये तत्प्रसादाभिकाङ्क्षिणम् ॥ ३५ ॥
कुलधर्मकथायोगियोगिनीकौलिकप्रियम् ।
कुलार्चनादिनिरतं कुलद्रव्याजुगुप्सकम् ॥ ३६ ॥
जपध्यानादिनिरतं मोक्षमार्गाभिकाङ्क्षिणम् ।
कुलशास्त्रप्रियं देवि पशुशास्त्रपराङ्मुखम् ।
इत्यादिलक्षणोपेतं गुरुः शिष्यं परिग्रहेत् ॥ ३७ ॥
श्रीगुरुः परमेशानि शुद्धवेशो मनोहरः ।
सर्वलक्षणसम्पन्नः सर्वावयवशोभितः ॥ ३८ ॥
सर्वागमार्थतत्त्वज्ञः सर्वमन्त विधानवित् ।
लोकसम्मोहनकरो देववत् प्रियदर्शनः ॥ ३९ ॥
सुमुखः सुलभः स्वच्छो भ्रमसंशयनाशकः ।
इङ्गिताकारवित् प्राज्ञ ऊहापोहविदुज्ज्वलः ॥ ४० ॥
अन्तर्लक्ष्यो बहिर्दृष्टिः सर्वज्ञो देशकालवित् ।
आज्ञासिद्धिस्त्रिकालज्ञो निग्रहानुग्रहक्षमः ॥ ४१ ॥
वेधको बोधकः शान्तः सर्वजीवदयापरः ।
स्वाधीनेन्द्रियसञ्चारषड्वर्गविजयक्षमाः ॥ ४२ ॥
अग्रगण्योऽतिगम्भीरः पात्रापात्रविशेषवित् ।
शिवविष्णुसमः साधुर्मन्ददर्शनदूषकः ॥ ४३ ॥
निर्मलो नित्यसन्तुष्टः स्वतन्त्रो मन्त्रशक्तिमान् ।
सद्भक्तवत्सलो धीरः कृपालुः स्मितपूर्णवाक् ॥ ४४ ॥
भक्तप्रियः सदोदारो गम्भीरः शिष्टसाधकः ।
स्वेष्टदेवगुरुज्येष्ठ वनितापूजनोत्सुकः ॥ ४५ ॥
नित्ये नैमित्तिके काम्ये रतः कर्मण्यनिन्दिते ।
रागद्वेषभयक्लेशदम्भाहङ्कारवजीतः ॥ ४६ ॥
स्वविद्यानुष्ठानरतो धर्मादीनामुपार्जकः ।
यदृच्छालाभसन्तुष्टो गुणदोषविभेदकः ॥ ४७ ॥
स्त्रीधनादिष्वनासक्तो दुःसङ्गव्यसनादिषु ।
सर्वाहम्भावसंयुक्तो निर्द्वन्द्वो नियतव्रतः ॥ ४८ ॥
अलोलुपो ह्यसङ्कल्पपक्षपाती विचक्षणः ।
वित्तविद्यादिभिर्मन्त्रयन्त्रतन्त्राद्यविक्रयी ॥ ४९ ॥
निःसङ्गो निवीकल्पश्च निर्णीतार्थोऽतिधामीकः ।
तुल्यनिन्दास्तुतिर्मौनो निरपेक्षो निरामयः ।
इत्यादिलक्षणोपेतः श्रीगुरुः कथितः प्रिये ॥ ५० ॥
यः शिवः सर्वगः सूक्ष्मश्चोन्मना निष्कलोऽव्ययः ।
व्योमाकारो ह्यजोऽनन्तः स कथं पूज्यते प्रिये ॥ ५१ ॥
अत एव शिवः साक्षाद्गुरुरूपं समाश्रितः ।
भक्त्या सम्पूजितो देवि भुक्तिं मुक्तिं प्रयच्छति ॥ ५२ ॥
शिवोऽहं नाकृतिर्द्देवि नरदृग्गोचरो नहि ।
तस्मात् श्रीगुरुरूपेण शिष्यान् रक्षति धामीकान् ॥ ५३ ॥
मनुष्यचर्मणा बद्धः साक्षात् परशिवः स्वयम् ।
सच्छिष्यानुग्रहार्थाय गूढं पर्यटति क्षितौ ॥ ५४ ॥
सद्भक्तरक्षणायैव निराकारोऽपि साकृतिः ।
शिवः कृपानिधिर्लोके संसारीव हि चेष्टते ॥ ५५ ॥
ललाटलोचनं चान्दीं कलामपि च दोर्द्दयम् ।
अन्तर्धाय च वर्त्तेयं गुरुरूपो महीतले ॥ ५६ ॥
अत्रिनेत्रः शिवः साक्षादचतुर्बाहुरच्युतः ।
अचतुर्वदनो ब्रह्मा श्रीगुरुः कथितं प्रिये ॥ ५७ ॥
नरवद्दृश्यते लोके श्रीगुरुः पापकर्मणा ।
शिववद् दृश्यते लोके भवानि पुण्यकर्मणा ॥ ५८ ॥
श्रीगुरुं परमं तत्त्वं तिष्ठन्तं चक्षुरग्रतः ।
मन्दभाग्या न पश्यन्ति ह्यन्धाः सूर्यमिवोदितम् ॥ ५९ ॥
गुरुः सदाशिवः साक्षात् सत्यमेव न संशयः ।
शिव एव गुरुर्नो चेद्भुक्ति मुक्ति ददाति कः ॥ ६० ॥
सदाशिवस्य देवस्य श्रीगुरोरपि पार्वती ।
उभयोरन्तरं नास्ति यः करोति स पातकी ॥ ६१ ॥
देशिकाकृतिमास्थाय पशोः पाशानशेषतः ।
छित्त्वा परं पदं देवि नयत्येनमतो गुरुः ॥ ६२ ॥
सर्वानुग्रहकर्त्तृत्वादीश्वरः करुणानधिः ।
आचार्यरूपमास्थाय दीक्षया मोक्षयेत् पशून् ॥ ६३ ॥
यथा घटश्च कलसः कुम्भश्चैकार्थवाचकः ।
तथा देवश्च मन्त्रश्च गुरुश्चैकार्थ उच्यते ॥ ६४ ॥
यथा देवस्तथा मन्त्रो यथा मन्त्रस्तथा गुरुः ।
देवमन्त्रगुरूणाञ्च पूजया सदृशं फलम् ॥ ६५ ॥
शिवरूपं समास्थाय पूजां गृह्णामि पार्वती ।
गुरुरूपं समादाय भवपाशान्निकृन्तये ॥ ६६ ॥
सिद्धान्तशारवेत्ताहं बीजोऽहमिति बोधकृत् ।
अविच्छिन्नः सदा हृष्टहृदयो गुरुरुच्यते ॥ ६७ ॥
यो विलंघ्याश्रमान् वर्णानात्मन्येव स्थितः सदा ।
ज्योतिवर्णाश्रमी योगी स गुरुः कथितः प्रिये ॥ ६८ ॥
षडध्वानं षडाधारं षोडशाधारनिर्णयम् ।
यो जानाति विधानेन स गुरुः कथितः प्रिये ॥ ६९ ॥
दृश्यं विना स्थिरा दृष्टिर्मनश्चालम्बनं विना ।
विनायासं स्थिरो वायुर्यस्य स्यात् स गुरुः प्रिये ॥ ७० ॥
यत्तु संवित्तिजननं परानन्दसमुद्भवम् ।
तत्तत्त्वं विदितं येन स गुरुः कुलनायिके ॥ ७१ ॥
भूतभव्यौ तन्त्रमन्त्रौ वेत्ति यः शाक्तशाम्भवम् ।
वेधञ्च षड्विधं देवि स हि वेधकरो गुरुः ॥ ७२ ॥
पदमन्त्रकलायन्त्रसतत्त्वतभुवनाश्रयम् ।
शोधयेद् यः षडध्वानं स गुरुः कथितः प्रिये ॥ ७३ ॥
वेधं पदं विरोधञ्च ग्रहणं मोक्षणं तथा ।
यो वा सम्यग्विजानाति स गुरुः कथितः प्रिये ॥ ७४ ॥
जाग्रत् स्वप्नः सुषुप्तिश्च तुरीयं तदतीतकम् ।
यो वेत्ति पञ्चकं देवि स गुरुः कथितः प्रिये ॥ ७५ ॥
पिण्डं पदं तथा रूपं रूपातीतं चतुष्टयम् ।
यो वा सम्यग्विजानाति स गुरुः कथितः प्रिये ॥ ७६ ॥
यो वा पराञ्च पश्यन्तीं मध्यमां वैखरीमपि ।
चतुष्टयं विजानाति स गुरुः कथितः प्रिये ॥ ७७ ॥
आत्मविद्याशिवसर्वमिति तत्त्वचतुष्टयम् ।
यो वेत्ति परमेशानि स गुरुर्नापरः प्रिये ॥ ७८ ॥
पाशच्छेदं वेधदीक्षां पशुग्रहणमेव च ।
त्रिविधं यो विजानाति स गुरुः परमो मतः ॥ ७९ ॥
पदं पाशं पशुनाञ्च रहस्यार्थं विधानतः ।
यो जानाति वरारोहे स गुरुः कथितः प्रिये ॥ ८० ॥
चक्रसङ्केतकं मन्त्रं पूजासङ्केतकं तथा ।
त्रितयं यो विजानाति स गुरुः कथितः प्रिये ॥ ८१ ॥
वाणेतरस्वयम्भ्वाख्यलिङ्गत्रितयसंस्थितिम् ।
तत्त्वतो यो विजानाति स गुरुः कथितः प्रिये ॥ ८२ ॥
आणवं कार्मणञ्चैव मायीयञ्च मलत्रयम् ।
यो विशोधयितुं शक्तः स गुरुः परमो मतः ॥ ८३ ॥
आरक्तशुक्लमिश्रा(कृष्णा)ख्यचरणत्रयवासनाम् ।
यो जानाति महादेवि स गुरुः परमो मतः ॥ ८४ ॥
महामुद्रां नभोमुद्राम् उङ्डीयानं जलन्धरम् ।
मूलबन्धञ्च यो वेत्ति स गुरुः परमो मतः ॥ ८५ ॥
शिवादिक्षितिपर्यन्तं षट्त्रिंशत्तत्त्वनिर्णयम् ।
यो विजानाति तत्त्वेन स गुरुः परमो मतः ॥ ८६ ॥
अन्तर्यागं बहिर्यागं कलाज्ञानस्थितिं प्रिये ।
चारुयन्त्रविधानञ्च यो वेत्ति स गुरुः प्रिये ॥ ८७ ॥
पिण्डब्रह्माण्डयोरैक्यं स्थितिं यो वेत्ति तत्त्वतः ।
शिरास्थिरोमसंख्यादि स गुरुर्नापरः प्रिये ॥ ८८ ॥
पद्मादिचतुरशीतिनानासनविचक्षणः ।
यमाद्यष्टाङ्गयोगज्ञः स गुरुः परमो मतः ॥ ८९ ॥
घृणा सङ्का भयं लज्जा जुगुप्सा चेति पञ्चमी ।
कुलं शीलं तथा जातिरष्टौ पाशाः प्रकीत्तीताः ॥ ९० ॥
पाशबद्धः पाशुर्ज्ञेयः पाशमुक्तो महेश्वरः ।
तस्मात् पाशहरो यस्तु स गुरुः परमो मतः ॥ ९१ ॥
बन्धनं योनिमुद्राया मन्त्रचैतन्यदर्शनम् ।
यन्त्रमन्त्रस्वरूपञ्च यो वेत्ति स गुरुः प्रिये ॥ ९२ ॥
विनिक्षिप्तां गतायातां संक्लिष्टां संविनीतकाम् ।
चतुवीधां मनोऽवस्थां यो वेत्ति स गुरुः प्रिये ॥ ९३ ॥
मूलादिब्रह्मरन्ध्रान्तसप्ताम्भोजदलेषु यः ।
जीवाचारफलं वेत्ति स गुरुर्नापरः प्रिये ॥ ९४ ॥
शिवादिगुरुपर्यन्तं पारम्पर्यक्रमेण यः ।
अवाप्ततत्त्वसम्भारः स गुरुर्नापरः प्रिये ॥ ९५ ॥
येन वा दशीते तत्त्वे तत्क्षणात्तन्मयो भवेत् ।
मन्यते मुक्तमात्मानं स गुरुर्नापरः प्रिये ॥ ९६ ॥
ये दत्त्वा सहजानन्दं दरन्तीन्द्रियजं सुखम् ।
सेव्यास्ते गुरवः शिष्यैरन्ये त्याज्याः प्रतारकाः ॥ ९७ ॥
संसारभयभीतस्य शिष्यस्य गुरुरादरात् ।
व्रतोपवासनियमैनीयन्ता स गुरुर्मतः ॥ ९८ ॥
यः प्रसन्नः क्षणार्द्धेन मोक्षलक्ष्मीं प्रयच्छति ।
दुर्लभं तं विजानीयाद् गुरुं संसारतारकम् ॥ ९९ ॥
यः क्षणेनात्मसामर्थ्यं स्वशिष्याय ददाति हि ।
क्रियायासादिरहितं स गुरुर्द्देवदुर्लभः ॥ १०० ॥
य सद्यः प्रत्ययकरं सुलभञ्चात्मसौख्यदम् ।
ज्ञानोपदेशं कुरुते स गुरुर्द्देवदुर्लभः ॥ १०१ ॥
द्वीपाद् द्वीपान्तरं देवि सञ्चरेद्यथा तथा ।
यो दद्यात् स गुरुर्ज्ञानमभ्यासादिविवजीतम् ॥ १०२ ॥
क्षुधितस्य यथा तृप्तिराहारादाशु जायते ।
तथोपदेशमात्रेण ज्ञानदो दुर्लभो गुरुः ॥ १०३ ॥
गुरवो बहवः सन्ति दीपवच्च गृहे गृहे ।
दुर्लभोऽयं गुरुर्देवि सूर्यवत् सर्वदीपकः ॥ १०४ ॥
गुरवो बहवः सन्ति वेदशास्त्रादिपारगाः ।
दुर्लभोऽयं गुरुर्द्देवि परतत्त्वार्थपारगः ॥ १०५ ॥
गुरवो बहवः सन्ति आत्मनोऽन्यप्रदा भुवि ।
दुर्लभोऽयं गुरुर्द्देवि लोकेष्वात्मप्रकाशकः ॥ १०६ ॥
गुरवो बहवः सन्ति कुमन्त्रौषधिवेदिनः ।
निगमागमशास्त्रोक्तमन्त्रज्ञो दुर्लभो भुवि ॥ १०७ ॥
गुरवो बहवः सन्ति शिष्यवित्तापहारकाः ।
दुर्लभोऽयं गुरुर्द्देवि शिष्यदुःखापहारकः ॥ १०८ ॥
वर्णाश्रमकुलाचारनिरता बहवो भुवि ।
सर्वसङ्कल्पहीनो यः स गुरुर्द्देवि दुर्लभः ॥ १०९ ॥
गुरोर्यस्यैव सम्पर्कात् परानन्दोऽभिजायते ।
गुरुं तमेव वृणुयान्नापरं मतिमान्नरः ॥ ११० ॥
यस्यानुभवपर्यन्तं बुद्धिस्तत्र प्रवर्त्तते ।
यस्यालोकनमात्रेण मुच्यते नात्र संशयः ॥ १११ ॥
शङ्कया भक्षितं सर्वं त्रैलोक्यं सचराचरम् ।
सा शङ्का भक्षिता येन स गुरुर्द्देविदुर्लभः ॥ ११२ ॥
यथा वह्निसमीपस्थं नवनीतं विलीयते ।
तथा पापं विलीयते सदाचार्य समीपतः ॥ ११३ ॥
यथा दीप्तानलः काष्ठं शुष्कमार्द्रञ्च निर्दहेत् ।
तथा गुरुकटाक्षस्तु शिष्यपापं दहेत् क्षणात् ॥ ११४ ॥
यथा महानिलोद्धूतं तूलं दशदिशो व्रजेत् ।
तथैव गुरुकारुण्यात् पापराशिः पलायते ॥ ११५ ॥
दीपदर्शनमात्रेण प्रणश्यति तमो यथा ।
सद्गुरोर्द्दर्शनाद्देवि तथाऽज्ञानं विनश्यति ॥ ११६ ॥
सर्वलक्षणसम्पन्नो वेदशास्त्रविधानवित् ।
सर्वोपायविधानज्ञस्तत्त्वज्ञानी गुरुः स हि ॥ ११७ ॥
पूजाहोमाश्रमाचारतपस्तीर्थव्रतादिकम् ।
मन्त्रागमादिविज्ञानं तत्त्वहीनस्य निष्फलम् ॥ ११८ ॥
स्वयं वेद्ये परे तत्त्वे स्वात्मानं वेत्ति निश्चलः ।
आत्मनोऽनुग्रहो नास्ति परस्यानुग्रहः कथम् ॥ ११९ ॥
ब्रह्माकारं मनोरूपं प्रप्यक्षं स्वतनुस्थितम् ।
यो न जानाति चान्यस्य कथं मोक्षं ददात्यसौ ॥ १२० ॥
सर्वलक्षणहीनोऽपि तत्त्वज्ञानी गुरुः स्मृतः ।
तस्मात्तत्त्वविदेवेह मुक्तो मोचक एव च ॥ १२१ ॥
यस्तत्त्वविन्महेशानि स पशुं बोधयत्यपि ।
तत्त्वहीनात् कुतोऽध्यात्मतत्त्वज्ञानपरिग्रहः ॥ १२२ ॥
तत्त्वज्ञैरुपदिष्टा ये तत्त्वाज्ञस्ते न संशयः ।
पशुभिश्चोपदिष्टा ये देवि ते पशवः स्मृताः ॥ १२३ ॥
विद्धस्तु वेधयेद्देवि नाविद्धो वेधको भवेत् ।
मुक्तस्तु मोचयेद् बद्धं न मुक्तो मोचकः कथम् ॥ १२४ ॥
अभिज्ञश्चोद्धरेन्मूर्ख न मूर्खो मूर्खमुद्धरेत् ।
शिलां सन्तारयेन्नौही किं शिला तारयेच्छिलाम् ॥ १२५ ॥
तत्त्वहीनं गुरुं लब्ध्वा केवलं भव तत्परः ।
इहामुत्र फलं किञ्चित् स नरो नाप्नुयात् प्रिये ॥ १२६ ॥
शैवे गुरुत्रयं प्रोक्तं वैष्णवे गुरुपञ्चकम् ।
वेदशास्त्रेषु शतशो गुरुरेकः कुलान्वये ॥ १२७ ॥
प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा ।
शिक्षको बोधकश्चैव षडेते गुरुवः स्मृताः ॥ १२८ ॥
पञ्चैते कार्यभूताः स्युः कारणं बोधको भवेत् ।
पूर्णाभिषेककर्त्ता यो गुरुस्तस्यैव पादुका ।
पूजनीया महेशानि बहुत्वेऽपि न संशयः ॥ १२९ ॥
श्रीगुरु लक्षणोपेतं संशयच्छेदकारकम् ।
लब्ध्वा ज्ञानप्रदं देवि न गुर्वन्तरमाश्रयेत् ॥ १३० ॥
अनभिज्ञं गुरुं प्राप्य सदा संशयकारकम् ।
गुर्वन्तरन्तु गत्वा स नैतद्दोषेण लिप्यते ॥ १३१ ॥
मधुलुब्धो यथा भृङ्गः पुष्पात् पुष्पान्तरं व्रजेत् ।
ज्ञानलुब्धस्तथा शिष्यः गुरोगुर्वन्तरं व्रजेत् ॥ १३२ ॥
इति ते कथितं किञ्चिल्लक्षणं गुरुशिष्ययोः ।
समासेन कुलेशानि किम्भूयः श्रोतुमिच्छसि ॥ १३३ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे गुरुशिष्यलक्षणं नाम त्रयोदशोल्लासः ॥ १३ ॥
अथ चतुर्दशोल्लासः
[सम्पाद्यताम्]श्री देव्युवाच
कुलेश श्रोतुमिच्छामि परीक्षां गुरुशिष्ययोः ।
उपदेशक्रमं दीक्षाभेदांश्च वद मे प्रभो ॥ १ ॥
ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण चित्तशुद्धिः प्रजायते ॥ २ ॥
विना दीक्षां न मोक्षः स्यात्तदुक्तं शिवशासने ।
सा च न स्याद्विनाचार्यमित्याचार्यपरम्परा ॥ ३ ॥
तस्मात् सिद्धान्तं सम्प्राप्य सम्प्रदायादिहेतुभिः ।
अन्तरेणोपदेष्टारं मन्त्राः स्युनीष्फला यतः ॥ ४ ॥
देवास्तमेव शंसन्ति पारम्पर्यप्रवर्त्तकम् ।
गुरुं मन्त्रागमाभिज्ञं समयाचारपालकम् ॥ ५ ॥
गुरुः शिष्याधिकारार्थं विरक्तोऽपि शिवाज्ञया ।
किञ्चित्कालं विधायेत्थं स्वशिष्याय समर्पयेत् ॥ ६ ॥
तस्यापीताधिकारस्य योगः साक्षात् परे शिवे ।
देहान्ते शाश्वती मुक्तिरिति शङ्करभाषितम् ॥ ७ ॥
तस्मात् सर्वप्रयत्नेन साक्षात्परशिवोदितम् ।
सम्प्रदायमविच्छिन्नं सदा कुर्यात् गुरुः प्रिये ॥ ८ ॥
शक्तिसिद्धिसुसिद्ध्यर्थं परीक्ष्य विधिवद् गुरुः ।
पश्चादुपदिशेन्मन्त्रमन्यथा निष्फलं भवेत् ॥ ९ ॥
अन्यायेन तु यो दद्याद् गृह्णात्यन्यायतश्च यः ।
ददता गृह्णता देवि कुलशापो भविष्यति ॥ १० ॥
गुरुशिष्यावुभौ मोहादपरीक्ष्य परस्परम् ।
उपदेशं ददद् गृह्णन् प्राप्नुयातां पिशाचताम् ॥ ११ ॥
अशास्त्रीयोपदेशञ्च यो गृह्णाति ददाति हि ।
भुञ्जाते तावुभौ घोरान्नरकानेकविंशतिम् ॥ १२ ॥
असंस्कृतोपदेशञ्च यः करोति स पातकी ।
विनश्यति च तन्मन्त्रं सैकते शालिबीजवत् ॥ १३ ॥
अनर्हे मन्त्रविज्ञानं न तिष्ठति कदाचन ।
तस्मात् परीक्ष्य कर्त्तव्यमन्यथा निष्फलं भवेत् ॥ १४ ॥
कृत्वा समयदीक्षाञ्च दत्त्वा समयपादुकाम् ।
सन्निधायात्मनः शिष्यं वदेन्मन्त्रं न चान्यथा ॥ १५ ॥
सच्छिष्यायातिभक्ताय यज्ज्ञानमुपदिश्यते ।
तज्ज्ञानं तत्तुशास्त्रार्थं तद्विदध्यादखण्डितम् ॥ १६ ॥
असच्छिष्येष्वभक्तेषु यज्ज्ञानमुपदिश्यते ।
तत् प्रयात्यपवित्रत्वं गोक्षीरं श्वघृतादिव ॥ १७ ॥
धनेच्छाभयलोभाद्यैरयोग्यं यदि दीक्षयेत् ।
देवताशापमाप्नोति कृतञ्च निष्फलं भवेत् ॥ १८ ॥
ज्ञानेन क्रियया वापि गुरु शिष्यं परीक्षयेत् ।
संवत्सरं तदर्द्धं वा तदर्द्धं वा प्रयत्नतः ॥ १९ ॥
उत्तमांश्चाधमे कुर्यान्नीचानुत्तमकर्मणि ।
प्राणद्रव्यप्रणामाद्यैरादेशैश्च स्वयं समैः ॥ २० ॥
तत्कर्मसूचकैर्वाक्यैर्मायाभिः क्रूरचेष्टितैः ।
पक्षपातैरुदासीनैरनेकैश्च मुहुर्मुहुः ॥ २१ ॥
आकृष्टस्ताडितो वापि यो विषादं न याति च ।
गुरुः कृपां करोतीति मुदा सञ्चिन्तयेत् सदा ॥ २२ ॥
श्रीगुरोः स्मरणे चापि कीर्त्तनं दर्शनेऽपि च ।
वन्दने परिचर्यायामाह्वाने प्रेषणे प्रिये ॥ २३ ॥
आनन्दकम्परोमाञ्चस्वरनेत्रादिविक्रियाः ।
येषां स्युस्तेऽत्र योग्याश्च दीक्षासंस्कारकर्मणि ॥ २४ ॥
शिष्योऽपि लक्षणैरेतैः कुर्याद् गुरुपरीक्षणम् ।
आनन्दाद्यैर्जपस्तोत्रध्यानहोमार्चनादिषु ॥ २५ ॥
ज्ञानोपदेशसामर्थ्यं मन्त्रसिद्धिमपीश्वरि ।
वेधकत्वं परिज्ञाय शिष्यो भूयान्न चान्यथा ॥ २६ ॥
आदिमध्यावसानेषु योग्याः शक्तिनिपातिताः ।
अधमा मध्यमाः श्रेष्ठाः शिष्या देवि प्रकीत्तीताः ॥ २७ ॥
आदौ भक्तिर्भवेद्देवि दीक्षार्थं समुदन्ति ये ।
पुनवीपुलहृष्टास्ते आदियोग्या इतीरिताः ॥ २८ ॥
दीक्षासमयसम्प्राप्ता ज्ञानविज्ञानवजीताः ।
भक्त्या प्रध्वस्तपर्याया मध्ययोग्याश्च ते स्मृताः ॥ २९ ॥
आदौ भक्तिविहीना ये मध्यभक्तास्तु ये नराः ।
अन्तप्रवृद्धभक्ताश्च अन्तयोग्या भवन्ति ते ।
उत्तमज्ञानसंज्ञाश्चेत्युपदेशस्त्रिधा प्रिये ॥ ३० ॥
यथा पिपीलिका मन्दमन्दं वृक्षाग्रगं फलम् ।
चिरेणाप्नोति कर्मोपदेशश्चापि तथा स्मृतः ॥ ३१ ॥
यथा कपिश्च शाखायां शाखामुल्लंघ्य यत्नतः ।
फलं प्राप्नोति धर्मस्य चोपदेशस्तथा प्रिये ॥ ३२ ॥
यथा वियद्गमः शीघ्रं फल एव निषीदति ।
तथा ज्ञानोपदेशश्च कथितः कुलनायिके ॥ ३३ ॥
स्पर्शाख्या देवि दृक्संज्ञा मानसाख्या महेश्वरि ।
क्रियायासादिरहिता देवा दीक्षा त्रिधा स्मृता ॥ ३४ ॥
यथा पक्षी स्वपक्षाभ्यां शिशून् संवर्द्धयेच्छनैः ।
स्पर्शदीक्षोपदेशच्च तादृशः कथितः प्रिये ॥ ३५ ॥
स्वापत्यानि यथा मत्स्यो वीक्षणेनैव पोषयेत् ।
दृग्भ्यां दीक्षोपदेशश्च तादृशः परमेश्वरि ॥ ३६ ॥
यथा कूर्मः स्वतनयान् ध्यानमात्रेण पोषयेत् ।
वेधदीक्षोपदेशश्च मानसः स्यात् तथाविधः ॥ ३७ ॥
शक्तिपातानुसारेण शिष्योऽनुग्रहमर्हति ।
यत्र शक्तिर्न पतति तत्र सिद्धिर्न जायते ॥ ३८ ॥
क्रियावर्णकलास्पर्शवाग्दृङ्मानससंज्ञया ।
दीक्षा मोक्षप्रदा देवि सप्तधा परिकीत्तीता ॥ ३९ ॥
समयाख्या विशेषा च साधिका पुत्रिकाह्वया ।
वेधका पूर्णसंज्ञा चाचार्या निर्वाणसंज्ञिका ॥ ४० ॥
क्रियादीक्षाष्टधा प्रोक्ता कुण्डमण्डपपूवीका ।
कलसादिसमायुक्ता कर्त्तव्या गुरुणा बहिः ।
देवेशि देहशुद्ध्यर्थं पूर्वोक्तविधिनाचरेत् ॥ ४१ ॥
वर्णदीक्षा त्रिधा प्रोक्ता द्विचत्वारिंशदक्षरैः ।
पञ्चाशद्वर्णैर्वा देवि द्विषष्टिलिपिभिस्तु ता ॥ ४२ ॥
वर्णान् शिष्यतनौ न्यस्य प्रतिलोमेन संहरेत् ।
परमात्मनि संयोज्य तच्चैतन्यं गुरुः प्रिये ॥ ४३ ॥
तस्मादुत्पाद्य तान् वर्णान् न्यसेच्छिष्यतनौ पुनः ।
सृष्टिक्रमेण विधिना चैतन्यञ्च प्रयोजयेत् ॥ ४४ ॥
जायते देवताभावः परानन्दमयः शिशोः ।
एषा वर्णमयी प्रोक्ता दीक्षा पाशहरा प्रिये ॥ ४५ ॥
कलादीक्षा त्रिधा ज्ञेया कर्त्तव्या विधिवत् प्रिये ।
निवृत्तिर्जानुपर्यन्तं तलादारभ्य संस्थिता ॥ ४६ ॥
जानुनोर्नाभिपर्यन्तं प्रतिष्ठा तिष्ठति प्रिये ।
नाभेः कण्ठावधि व्याप्ता विद्या शान्तिस्ततः परम् ॥ ४७ ॥
कण्ठाल्ललाटपर्यन्तं व्याप्ता तस्माच्छिरोऽवधि ।
शान्त्यतीता कला चैषा कलाव्याप्तिरितीरिता ॥ ४८ ॥
संहारक्रमयोगेन स्थानात् स्थानान्तरं प्रिये ।
संयोज्य विधिवत् सम्यग्विधिवेत्ता शिरोऽवधि ॥ ४९ ॥
इयं प्रोक्ता कुलेशानि दिव्यभावप्रदायिनी ।
अष्टत्रिंशत्कलाभिर्वा पञ्चाशद्भिरथापि वा ॥ ५० ॥
तत्त्वन्यासक्रमेणैव सृष्टिसंहारमार्गतः ।
ज्ञात्वा गुरुमुखाद्देविं शिष्ये संयोज्य वेधयेत् ॥ ५१ ॥
जायते देवताभावो योगिनीवीरमेलनम् ।
कलादीक्षा समुद्दिष्टा पशुपाशापहारिणी ॥ ५२ ॥
द्दस्ते शिवं गुरुं ध्यात्वा जपेन्मूलाङ्गमालिनीम् ।
गुरुः स्पृशेच्छिष्यतनुं स्पर्शदीक्षा भवेदियम् ॥ ५३ ॥
चित्तं तत्त्वे समाधाय परतत्त्वोपबृंहितान् ।
उच्चरेत् संहतान्मन्त्रान् वाग्दीक्षेति निगद्यते ॥ ५४ ॥
निमील्य नयने ध्यात्वा परतत्त्वप्रसन्नधीः ।
सम्यक् पश्येद्गुरुः शिष्यं दृग्दीक्षा च भवेत् प्रिये ॥ ५५ ॥
गुरोरालोकमात्रेण भाषणात् स्पर्शनादपि ।
सद्यः सञ्जायते ज्ञानं सा दीक्षा शाम्भवी मता ॥ ५६ ॥
मनोदीक्षा द्विधा प्रोक्ता तीव्रा तीव्रतरापि च ।
अध्वानं षड्विधं ज्ञात्वा शिष्यदेहे स्मरन् प्रिये ॥ ५७ ॥
कल्पयेद्भुवनं तत्त्वं कलां वर्णं पदं मनुम् ।
आजानुनाभिहृत्कण्ठतालुमूर्द्धान्तमम्बिके ॥ ५८ ॥
गुरूपदिष्टमार्गेण वेधं कुर्याद्विचक्षणः ।
पाशयुक्तः क्षणाच्छिष्यश्छिन्नपाशस्तदा भवेत् ।
एषा मुक्तिप्रदा प्रोक्ता तीव्रदीक्षा कुलेश्वरि ॥ ५९ ॥
देवि तीव्रतरा चापि गुरुणा स्मृतमात्रतः ।
सम्यक् संवेधिनः शिष्यश्छिन्नपापस्तदा भवेत् ॥ ६० ॥
वाह्यव्यापारनिर्मुक्तो भूमौ पतति तत्क्षणात् ।
सञ्जातदिव्यभावोऽसौ सर्वं जानाति शाम्भवि ॥ ६१ ॥
यदस्ति वेधकाले तत् स्वयमेवानुभूयते ।
प्रबुद्धः सन् न शक्नोति तत् सुखं वक्तुमीश्वरि ॥ ६२ ॥
वेधविद्धः शिवः साक्षान्न पुनर्जन्मभाग् भवेत् ।
एषा तीव्रतरा दीक्षा भवबन्धविमोचनी ।
शिवभावप्रदा साक्षात् त्वां शपे कुलनायिके ॥ ६३ ॥
आनन्दश्चैव कम्पश्चेद्भवो घूर्णा कुलेश्वरि ।
निद्रा मूर्च्छा च वेधस्य षडवस्थाः प्रकीत्तीताः ॥ ६४ ॥
दृश्यन्ते षड्गुणा ह्येते वेधकाले कुलेश्वरि ।
वेधितो यत्र कुत्रापि तिष्ठेन्मुक्ता न संशयः ॥ ६५ ॥
वेधदीक्षाकरो लोके श्रीगुरुर्दुर्लभः प्रिये ।
शिष्योऽपि दुर्लभस्ताद्दृक् पुण्ययोगेन लभ्यते ।
न दद्याद् यस्य कस्यापि इत्याज्ञा परमेश्वरि ॥ ६६ ॥
कुलद्रव्यैः समभ्यर्च्य कुलचक्रं विधानतः ।
शिष्याय दर्शयेद्देवि दीक्षैषा कौलिकी स्मृता ॥ ६७ ॥
कुलद्रव्यं मुखे पूर्व पञ्चगव्यामृतान्वितम् ।
अभिषिञ्चेद् गुरुः शिष्यं गण्डूषाख्या समीरिता ॥ ६८ ॥
सजीवमीनयुक्तेन सुरया पूरितेन च ।
पञ्चामृतैः सुसम्पूर्णशङ्खेन कलसेन वा ।
अभिषेकं ततः कुर्याद्बाह्ये तत् कथितं प्रिये ॥ ६९ ॥
मीनस्तु लम्बिका देवि वक्त्रं कलस उच्यते ।
पञ्चगवयामृतापूर्णं शिष्यं तेनाभिषेचयेत् ॥ ७० ॥
अयं सिद्धाभिषेकः स्यादाचार्यस्यापि पार्वति ।
त्रिकालं दन्तकाष्ठञ्च पुष्पाञ्जलिरपि प्रिये ॥ ७१ ॥
शङ्खे वेदकलान्यासस्तज्ज्ञानञ्चाष्टधा भवेत् ।
समयो दन्तकाष्ठेन साधकः कुसुमाञ्जलिः ॥ ७२ ॥
पुत्रं शङ्खाभिषेकेण बोधको वेधसंज्ञया ।
पूर्णाभिषेकेणाचार्यः पञ्चावस्थाः प्रकीत्तीताः ॥ ७३ ॥
कुलाचारैकनिरता गुरुभक्ता दृढव्रताः ।
पूर्णाभिषेकपूता ये ते मुक्ताश्चेह जन्मनि ॥ ७४ ॥
पूर्णाभिषेकपूता ये मृताश्च कुलनायिके ।
पुनर्लब्ध्वोत्तमं जन्म गुरुणा शिवरूपिणा ॥ ७५ ॥
शुद्धाः पूर्णाभिषेकेण शिवसायुज्यदायिना ।
तेन मुक्तिं व्रजेयुस्ते शाम्भवी वाचमव्रवीत् ॥ ७६ ॥
पूर्णा(दीक्षा)भिषेकहीनो यः कौलिको मिरयते यदि ।
पिशाचत्वमवाप्नोति यावदाहूतसंप्लवम् ॥ ७७ ॥
दीक्षा च द्विविधा प्रोक्ता बाह्याभ्यन्तरभेदतः ।
क्रियादीक्षा भवेद्बाह्या वेधाख्याभ्यन्तरी मता ॥ ७८ ॥
अन्तः शुद्धिर्बहिः शुद्धिद्वीविधा परिकीत्तीता ।
अन्तरा च क्रियाशुद्धिर्बहिः शुद्धिश्च दीक्षया ॥ ७९ ॥
दीक्षया मोक्षदीपेन चण्डालोऽपि विमुच्यते ।
आभ्यां विना कुलेशानि कौलिको नैव मुच्यते ॥ ८० ॥
शरीरस्य न संस्कारो जायते न च कर्मणः ।
आत्मनः कारयेद्दीक्षामनादिकुलकुण्डलीम् ॥ ८१ ॥
दीक्षा ह्येताः कर्मसाम्ये भिन्नार्थप्रतिपादिकाः ।
अभिसन्धानतो देवि देशिकोत्तमशिष्ययोः ॥ ८२ ॥
मन्त्रौषधेर्यथा हन्याद्विषशक्तिं कुलेश्वरि ।
पशुपाशं तथा छिन्द्याद्दीक्षया मन्त्रवित् क्षणात् ॥ ८३ ॥
अस्मात् प्रवितताद्वन्धात् परसंस्थानबोधकात् ।
दीक्षैव मोक्षयेत् पूर्वं दिव्यं धाम नयत्यपि ॥ ८४ ॥
उपपातकलक्षाणि महापातककोटिशः ।
क्षणाद्दहति देवेशि दीक्षा हि विधिना कृता ॥ ८५ ॥
यया चोन्मीलितात्मानो भवन्ति पशवः शिवाः ।
सा दीक्षा ह्युदिता देवि पशुपाशविमोचिका ॥ ८६ ॥
यया दीक्षितमात्रेण जायन्ते प्रत्ययाः प्रिये ।
सा दीक्षा मोक्षदा ज्ञेया शेषास्तु जनसेविकाः ॥ ८७ ॥
उपासनाशतेनापि यां विना नैव सिध्यति ।
तां दीक्षामाश्रयेद् यत्नात् श्रीगुरोर्मन्त्रसिद्धये ॥ ८८ ॥
रसेन्द्रेण यथा विद्धमयः सुवर्णतां व्रजेत् ।
दीक्षाविद्धस्तथा ह्यात्मा शिवत्वं लभते प्रिये ॥ ८९ ॥
दीक्षाग्निदग्धकर्मासौ मायाविच्छिन्नबन्धनः ।
गतः परां ज्ञानकाष्ठां निर्बीजस्तु शिवो भवेत् ॥ ९० ॥
गतं शूद्रस्य शूद्रत्वं विप्रस्यापि च विप्रता ।
दीक्षासंस्कारसम्पन्ने जातिभेदो न विद्यते ॥ ९१ ॥
शिवलिङ्गे शिला बुद्धिं कुर्वन् यत् पापमश्नुते ।
दीक्षितश्चापि पूर्वत्वस्मृत्या तत् पापमाप्नुयात् ॥ ९२ ॥
दार्वश्मलौहमृद्रत्नजातिलिङ्गप्रतिष्ठितम् ।
यथोच्यते तथा शुद्धाः सर्ववर्णास्तु दीक्षिताः ॥ ९३ ॥
येन पूजितमात्रेण चाब्रह्मभुवनान्तिकम् ।
पूजितं तेन सर्वं स्याद्दीक्षितेन न संशयः ॥ ९४ ॥
दीक्षितस्य न कार्यं स्यात्तपोभिनीयमव्रतैः ।
न तीर्थक्षेत्रगमनैर्न च शरीरयन्त्रणैः ॥ ९५ ॥
अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः ।
न फलन्ति प्रिये तेषां शिलायामुप्तबीजवत् ॥ ९६ ॥
देवि दीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः ।
तस्मात् सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् ॥ ९७ ॥
द्विजो यो दीक्षितः पश्चादन्त्यजः पूर्वदीक्षितः ।
द्विजः कनिष्ठः स ज्येष्ठ इति शास्त्रार्थनिर्णयः ॥ ९८ ॥
गुरुशक्तिसुतानाञ्च यो वा स्यात् पूर्वदीक्षितः ।
गुरुवत्तेन ते पूज्या नावमान्याः कथञ्चन ॥ ९९ ॥
शिष्यो दीक्षितमात्रश्चेद् यदि स्वर्गं गतो गुरुः ।
एकसन्तानकेनैव पूर्णसंस्कारमाचरेत् ॥ १०० ॥
दर्शनेषु च सर्वेषु गुरुणा ज्ञानशालिना ।
दीक्षितो यस्तु विधिना स युक्तो नापरः प्रिये ॥ १०१ ॥
अधिवासनपूर्वन्तु चक्रपूजापुरःसरम् ।
दीक्षया शोधयेच्छिष्यमन्यथा निष्फलं भवेत् ॥ १०२ ॥
शूद्रसङ्करजातीनामादिशुद्धिवीधीयते ।
पादोदकप्रदानाद्यैः कुर्यात् पापविमोचनम् ॥ १०३ ॥
एकाब्देन द्विजो योग्यः क्षत्रियो वत्सरद्वयात् ।
वैश्यो योग्यस्त्रिभिर्वर्षैश्चतुभिः शूद्र एव च ॥ १०४ ॥
विधवायाः सुतादेशात् कन्यायाः पितुराज्ञया ।
नाधिकारः स्वतो नार्या भार्याया भर्त्तुराज्ञया ॥ १०५ ॥
स्याद्वेदाध्ययने शूद्रो नाधिकारी यथा प्रिये ।
तथैवादीक्षितश्चापि नाधिकारी कुलेश्वरि ॥ १०६ ॥
श्रीगुरुं गुरुपत्नीञ्च तत्पुत्रं शक्ति कौलिकान् ।
दीक्षितस्तोषयेद्देवि यथाविभवविस्तरम् ॥ १०७ ॥
इति ते कथितं किञ्चित् परीक्षा गुरुशिष्ययोः ।
दीक्षाभेदादिकं देवि किम्भूयः श्रोतुमिच्छसि ॥ १०८ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे गुरुशिष्यपरीक्षाकथनं नाम चतुर्दशोल्लासः ॥ १४ ॥
अथ पञ्चदशोल्लासः
[सम्पाद्यताम्]श्री देव्युवाच कुलेश श्रोतुमिच्छामि पुरश्चरणलक्षणम् ।
स्थानाहारादिभेदञ्च वद मे परमेश्वर ॥ १ ॥
ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण मन्त्रतत्त्वं प्रकाशते ॥ २ ॥
जपयज्ञात् परो यज्ञो नापरोऽस्तीह कश्चन ।
तस्माज्जपेन धर्मार्थकाममोक्षांश्च साधयेत् ॥ ३ ॥
सर्वपादान् परित्यज्य मन्त्रपादं समभ्यसेत् ।
अप्रमादाद् भवेत् सिद्धिः प्रमादादशुभं फलम् ॥ ४ ॥
भोगापवर्गसङ्कल्पकल्पव्रतशुभो जपः ।
जपध्यानमयं योगं तस्माद्देवि समाचरेत् ॥ ५ ॥
आब्रह्मबीजदोषाश्च नियमातिक्रमोद्भवाः ।
ज्ञानाज्ञानकृताः सर्वं प्रणश्यन्ति जपात् प्रिये ॥ ६ ॥
संसारे दुःखभूयिष्ठे यदीच्छेत् सिद्धिमात्मनः ।
पञ्चाङ्गोपासनेनैव मन्त्रजापी व्रजेत् सुखम् ॥ ७ ॥
पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च ।
होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ ८ ॥
यद् यदङ्गं विहीयेत तत्संख्याद्विगुणो जपः ।
कुर्याद् द्वित्रिचतुःपञ्च-संख्यां वा साधकः प्रिये ॥ ९ ॥
कुर्वीत चाङ्गसिद्ध्यर्थं तदशक्तौ स भक्तितः ।
तच्चेदङ्गं विहीयेत मन्त्री नेष्टमवाप्नुयात् ॥ १० ॥
अन्नैश्चतुवीधैर्देवि पदार्थैः षड्रसान्वितैः ।
सुभोजितेषु विप्रेषु सर्वं हि सफलं भवेत् ॥ ११ ॥
सम्यक्सिद्धैकमन्त्रस्य पञ्चाङ्गोपासनेन च ।
सर्वमन्त्राश्च सिध्यन्ति त्वत्प्रसादात् कुलेश्वरि ॥ १२ ॥
उपदेशस्य सामर्थ्यात् श्रीगुरोश्च प्रसादतः ।
मन्त्रप्रभावाद्भक्त्या च मन्त्रसिद्धिः प्रजायते ॥ १३ ॥
सिद्धमन्त्राद् गुरोर्लब्धो मन्त्रो यः सिद्धिभाग्भवेत् ।
पूर्वजन्मकृताभ्यासान्मन्त्रो वा शीघ्रसिद्धिदः ॥ १४ ॥
दीक्षापूर्वं कुलेशानि पारम्पर्यक्रमागतम् ।
न्यायलब्धश्च यो मन्त्रः स च सिद्धो न संशयः ॥ १५ ॥
सहस्रं प्रजपेन्मन्त्रं मातृकाक्षरसंपुटम् ।
अनुलोमविलोमेन मन्त्रसिद्धिः प्रजायते ॥ १६ ॥
त्रिषष्ट्यक्षरसंयुक्तमातृकाक्षरसंपुटम् ।
क्रमोत्क्रमात्सहस्रन्तु तस्य सिद्धो भवेन्मनुः ॥ १७ ॥
मातृकाजपमात्रेण मन्त्राणां कोटिकोटयः ।
जषिताः स्युर्न सन्देहो यतः सर्वं तदुद्भवम् ॥ १८ ॥
अनेककोटिमन्त्राणि चित्ताकुलकराणि च ।
मन्त्रं गुरुकृपाप्राप्तमेकं स्यात् सर्वसिद्धिदम् ॥ १९ ॥
यदृच्छया श्रुतं मन्त्रं दृष्टेनापि छलेन च ।
पत्रे स्थितं वा चाध्याप्य तज्जपः स्यादनर्थकृत् ॥ २० ॥
पुस्तके लिखितान्मन्त्रान् विलोक्य प्रजपन्ति ये ।
ब्रह्महत्यासमं तेषां पातकं व्याधिदुःखदम् ॥ २१ ॥
पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम् ।
तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं वनम् ॥ २२ ॥
उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः ।
देवतायतनं कूलं समुद्रस्य निजं गृहम् ॥ २३ ॥
साधनेषु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् ।
अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति ॥ २४ ॥
सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य च जलस्य च ।
गोविप्रकुलवृक्षाणां सन्निधौ शस्यते जपः ॥ २५ ॥
गृहे शतगुणं विद्याद् गोष्ठे लक्षगुणं भवेत् ।
कोटिर्देवालये पुण्यमनन्तं शिवसन्निधौ ॥ २६ ॥
म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवजीतः ।
एकान्तपावने निन्दारहिते भक्तिसंयुते ॥ २७ ॥
स्वदेशे धामीके देशे सुभिक्षे निरुपद्रवे ।
राजभक्तजनस्थाने निवसेत्तापसाश्रये ॥ २८ ॥
राजानः सचिवा राज्ञां पुरुषाः प्रभवो जनाः ।
चरन्ति येन मार्गेण न वसेत्तत्र मन्त्रवित् ॥ २९ ॥
जीर्णदेवालयोद्यानगृहवृक्षतलेषु च ।
नदीतडागकूपेषु भूच्छिद्रादिषु नो वसेत् ॥ ३० ॥
दीपनाथमयष्ट्वा यो जपपूजादिकं चरेत् ।
तत्फलं गृह्यते तेन तस्यायासः फलं भवेत् ॥ ३१ ॥
वंशाश्मधरणीदारुतृणपल्लवनिमीतम् ।
वर्जयेदासनं धीमान् दारिद्र्यव्याधिदुःखदम् ॥ ३२ ॥
तूलकम्बलवस्त्राणां सिंहव्याघ्रमृगाजिनम् ।
कल्पयेदासनं धीमान् सौभाग्यज्ञानवृद्धिदम् ॥ ३३ ॥
पद्मस्वस्तिकवीरादिष्वासनेषूपविश्य च ।
जपार्च्चनादिकं कुर्यादन्यथा निष्फलं भवेत् ॥ ३४ ॥
द्वादशावर्त्तयन् बुद्ध्या प्रणवन्तु त्रिमात्रकम् ।
मुञ्चेत् पिङ्गलया वायुमन्तःस्थं रेचको भवेत् ॥ ३५ ॥
षोडशावर्त्तयन् तारं पूरयेद् बाह्यमारुतम् ।
शनकैरिडया बद्ध्वा पूरकं परिकीत्तीतम् ॥ ३६ ॥
द्वादशावर्त्तयन् तारं वायुं मध्ये च कुम्भयेत् ।
शोषयेद्वायुबीजेन देहशोषणमीरितम् ॥ ३७ ॥
पुनश्च पूर्ववद्वायुं विरेच्यापूर्य कुम्भयेत् ।
दहेत् दहनबीजेन देहदाहनमीरितम् ॥ ३८ ॥
पुनश्च पूर्ववद्वायुं विरेच्यापूर्य कुम्भयेत् ।
शिवकुण्डलिनीयोगस्यन्दनामृतधारया ।
आपादमस्तकं देवि प्लावयेत् प्लावनं भवेत् ॥ ३९ ॥
जपध्यानं विनाऽगर्भः सगर्भस्तद्विपर्ययात् ।
अगर्भाद् गर्भसंयुक्तः प्राणायामः शताधिकः ॥ ४० ॥
तपांसि तीर्थयात्राद्या मखदानव्रतादयः ।
प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥ ४१ ॥
मानसं वाचिकं पापं कायिकं वापि यत् कृतम् ।
तत् सर्वं निर्द्दहेच्छीघ्रं प्राणायामत्रयं शिवे ॥ ४२ ॥
दह्यते ध्मार्यमानानां धातूनाञ्च यथा मलम् ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य संयमात् ॥ ४३ ॥
प्राणायामैवीशुद्धात्मा यद् यत् कर्म करोति हि ।
तत्तत् फलत्यसन्देहस्त्वप्रयत्नेन वा कृतम् ॥ ४४ ॥
आगमोक्तेन मार्गेणाभ्यासं नित्यं करोति यः ।
देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते ॥ ४५ ॥
यो न्यासकवचच्छन्दो मन्त्रं जपति तं प्रिये ।
विघ्ना दृष्ट्वा पलायन्ते सिंहं दृष्टवा यथा गजाः ॥ ४६ ॥
अकृत्वा न्यासजालं यो मूढात्मा प्रजपेन्मनुम् ।
वाध्यते सर्वविघ्नैश्च व्याघ्रैर्मृगशिशुर्यथा ॥ ४७ ॥
अक्षमाला द्विधा प्रोक्ता कल्पिताऽकल्पितेति च ।
कल्पिता मणिभिः कॢप्ता मातृका स्यादकल्पिता ॥ ४८ ॥
आदिक्षान्ताक्षवर्णत्वादक्षमालेति कीत्तीता ।
अनुलोमविलोमाभ्यां गणयेन्मन्त्रवित्तमः ॥ ४९ ॥
एकैकमङ्गुलीभिः स्याद्रेखाभिर्द्दशधा फलम् ।
मणिभिः शतसाहस्रं माणिक्याऽनन्तमुच्यते ॥ ५० ॥
त्रिंशद्भिः स्याद्धनं पुष्टिः सप्तविंशतिभिर्भवेत् ।
पञ्चविंशतिभिर्मोक्षं पञ्चदश्याभिचारके ।
पञ्चाशद्भिः कुलेशानि सर्वसिद्धिरुदीरिता ॥ ५१ ॥
अङ्गुष्ठेन च मोक्षः स्यात्तर्जनी शत्रुनाशिनी ।
मध्यमां धनदां विद्यात् शान्तिकर्मण्यनामिका ।
कनिष्ठा स्तम्भन्याकर्षण्यङ्गुली सुप्रकीत्तीता ॥ ५२ ॥
एतज्जपिष्यामीत्यादौ सङ्कल्प्य मन्त्रवित्तमः ।
स्थिरासनो जपित्वाऽथ देव्यै सोदकमर्पयेत् ॥ ५३ ॥
उच्चैर्जपोऽधमः प्रोक्त उपांशुमध्यमः स्मृतः ।
उत्तमो मानसो देवि त्रिविधः कथितो जपः ॥ ५४ ॥
अतिह्रस्वो व्याधिहेतुरतिदीर्घस्तपःक्षयः ।
अक्षराक्षरसंयुक्तो यो मन्त्रः स न सिध्यति ॥ ५५ ॥
मनसा यः स्मरेत् स्तोत्रं वचसा वा मनुं जपेत् ।
उभयं निष्फलं देवि भिन्नभाण्डोदकं यथा ॥ ५६ ॥
जातसूतकमादौ स्यात्तदन्ते मृतसूतकम् ।
सूतकद्वयसंयुक्तो यो मन्त्रः स न सिध्यति ॥ ५७ ॥
आद्यन्तरहितं कृत्वा मन्त्रमावर्त्तयेद्धिया ।
सूतकद्वयनिर्मुक्तो यो मन्त्रः सर्वसिद्धिदः ॥ ५८ ॥
मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः ।
शतकोटिजपेनापि तस्य सिद्धिर्न जायते ॥ ५९ ॥
सुप्तबीजाश्च ये मन्त्रा न दास्यन्ति फलं प्रिये ।
मन्त्रा चैतन्यसहिताः सर्वसिद्धिकराः स्मृताः ॥ ६० ॥
चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् ।
फलं नैव प्रयच्छन्ति लक्षकोटिजपादपि ॥ ६१ ॥
मन्त्रोच्चारे कृते यादृक् स्वरूपं प्रथमं भवेत् ।
शतैः सहस्रैर्लक्षैर्वा कोटिजापेन् तत् फलम् ॥ ६२ ॥
हृत्कण्ठग्रन्थिभेदश्च सर्वावयववर्द्धनम् ।
आनन्दाश्रु च पुलको देहावेशः कुलेश्वरि ।
गद्गदोक्तिश्च सहसा जायते नात्र संशयः ॥ ६३ ॥
सकृदुच्चरितेऽप्येवं मन्त्रे चैतन्यसंयुते ।
दृश्यन्ते प्रत्यया यत्र पारम्पर्य तदुच्यते ॥ ६४ ॥
रुद्धः कूटाक्षरो मुग्धो बद्धः क्रुद्धश्च भेदितः ।
बालः कुमारो युवकः प्रौढो वृद्धश्च गवीतः ॥ ६५ ॥
स्तम्भितो र्मूच्छितो मत्तः कीलितः खण्डितः शठः ।
मन्दः पराङ्मुखश्छिन्नो बधिरोऽन्धस्त्वचेतनः ॥ ६६ ॥
किङ्करः क्षुधितः स्तब्धः स्थानभ्रष्टञ्च पीडितः ।
निःस्नेहो विकलो ध्वस्तो निर्जीवः खण्डितारिकः ॥ ६७ ॥
सुप्तस्तिरस्कृतो नीचो मलिनश्च दुरासदः ।
निःसत्त्वो निजीतो दग्धचपलश्च भयङ्करः ॥ ६८ ॥
निस्त्रिंशो निन्दितः क्रूरः फलहीनो निकृन्तनः ।
निर्वीर्यो भ्रमितो शप्त रुग्णः कष्टोऽङ्गहीनकः ।
जडो रिपुरुदासीनो लज्जितो मोहितोऽलसः ॥ ६९ ॥
षष्ट्येतान् मन्त्रदोषांश्च योऽज्ञात्वा प्रजपेन्मनुम् ।
सिद्धिर्न जायते तस्य लक्षकोटिजपादपि ॥ ७० ॥
कथ्यन्ते दश संस्कारा मन्त्रदोषहराः प्रिये ।
जननं जीवनं पश्चात्ताडनं बोधनं ततः ॥ ७१ ॥
अभिषेकोऽथ विमलीकरणाप्यायने तथा ।
तर्पणं दीपनं गुप्तिः संस्काराः कुलनायिके ॥ ७२ ॥
शाणोल्लोढानि शस्त्राणि यथा स्युनीशितानि वै ।
मन्त्राश्च स्फूत्तीमायान्ति संस्कारैर्द्दशभिस्तथा ॥ ७३ ॥
भक्ष्यं हविष्यं शाकादि विहितानि फलान्यपि ।
मूलं शक्तु यवानाञ्च शस्तान्येतानि मन्त्रिणाम् ॥ ७४ ॥
यस्यान्नपानपुष्टाङ्गः कुरुते धर्मसञ्चयम् ।
अन्नदातुः फलं चार्द्धं कर्त्तुश्चार्द्धं न संशयः ॥ ७५ ॥
तस्मात् सर्वप्रयत्नेन परान्नं वर्जयेत् सुधीः ।
पुरश्चरणकाले च काम्यकर्मस्वपीश्वरि ॥ ७६ ॥
जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् ।
मनो दग्धं परस्त्रीभिः कार्यसिद्धिः कथं भवेत् ॥ ७७ ॥
इन्द्राग्निरुद्रग्रहदृग्वेदार्कदिक्षडष्टसु ।
षोडशमनुबाणाब्धितिथित्रयोदशस्वपि ॥ ७८ ॥
लिखेत् षोडशकोष्ठेषु मातृकार्णान् विचक्षणः ।
स्वनामाद्यक्षराद् यावन्मन्त्राद्यक्षरदर्शनम् ॥ ७९ ॥
सिद्धादीन् कल्पयेन्मन्त्री कुर्यात् साध्यादिभिः पुनः ।
चतुश्चतुवीभागेन सिद्धादीन् गणयेत् पुनः ॥ ८० ॥
सिद्धसिद्धो जपात् सिद्धो द्विगुणात् सिद्धसाध्यकः ।
सिद्धसुसिद्धोऽर्द्धजपात् सिद्धारिर्हन्ति बान्धवान् ॥ ८१ ॥
साध्यसिद्धोऽतिसंक्लेशात् साध्यसाध्यो निरर्थकः ।
साध्यसुसिद्धो भजनात् साध्यारिहन्ति गोत्रजान् ॥ ८२ ॥
सुसिद्धसिद्धोऽर्द्धजपात्तत्साध्यस्तु यथोक्ततः ।
तत्सुसिद्धो ग्रहादेव सुसिद्धारिः स्वगोत्रहा ॥ ८३ ॥
अरिसिद्धः सुतं हन्यादरिसाध्यस्तु योषितम् ।
तत्सुसिद्धः कुलं हन्ति स्वात्मानं हन्ति तद्रिपुः ॥ ८४ ॥
सिद्धार्णा बान्धवाः प्रोक्ताः साध्यास्ते सेवकाः स्मृताः ।
सुसिद्धाः पोषका ज्ञेयाः शत्रवो घातकाः स्मृताः ॥ ८५ ॥
बान्धवा नवबार्णकाः स्युद्विषड्दश सेवकाः ।
वह्निरुद्रमुनयस्तु(पोषका) द्वादशाष्टकचतुरस्तु(घातकाः) ।८६ प्राप लोभा पटु प्राह्यं रुद्रस्याद्रिरुरुः करम् ।
लोक लोप पटुः प्रायः खलोघोभेदिताः प्रिये ।
वर्णाः क्रमात् स्वरान्तौ तु रेवत्यंशगतौ तदा ॥ ८७ ॥
जन्म सम्पद् विपत् क्षेम प्रत्यरिः साधको वधः ।
मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः ॥ ८८ ॥
वालं गौरं खुरं शोणं शमीशोभेति राशिषु ।
क्रमेण भेदिता वर्णाः कन्यायां शादयः स्मृता ॥ ८९ ॥
लग्नो धनं भ्रातृबन्धुपुत्रशत्रुकलत्रकाः ।
मरणं धर्मकर्माय व्यया द्वादश राशयः ॥ ९० ॥
स्वराशेर्मन्त्रशश्यन्तं गणनीयं विचक्षणैः ।
अज्ञाते राशिनक्षत्रे नामाद्यक्षरराशितः ॥ ९१ ॥
नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् ।
त्रिधा कृत्वा स्वरैभिन्द्यात्तदन्यद्विपरीतकम् ॥ ९२ ॥
कृत्वाधिकमृणं ज्ञेयं ऋणी चेन्मन्त्रवित्तमः ।
स्वयमृणी चेत्तन्मन्त्रं जपेत्पूर्वमृणी यतः ॥ ९३ ॥
वायवग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् ।
पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः सन्धिसम्भवाः ।
कादयः पञ्चशः षक्षसहान्ताश्च प्रकीत्तीताः ॥ ९४ ॥
महीसलिलयोमीत्रमनिलानलयोरपि ।
शात्रवं वैपरीत्येन मैत्रं सर्वत्र चापरम् ॥ ९५ ॥
परस्परविरुद्धानां वर्णानां यत्र सङ्गतिः ।
वर्जयेत्तादृशं मन्त्रं नाशकृत्तत् कुलेश्वरि ॥ ९६ ॥
एकाक्षरे तथा कूटे त्रैपुरे मन्त्रनायिके ।
स्त्रीदत्ते स्वप्नलब्धे च सिद्धादीन्नैव शोधयेत् ॥ ९७ ॥
मन्त्रसिद्धोपदिष्टेषु चतुराम्नायजेषु च ।
मालामन्त्रेषु देवेशि सिद्धादीन्नैव शोधयेत् ॥ ९८ ॥
नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ।
सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत् ॥ ९९ ॥
मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः ।
न सिध्यति वरारोहे लक्षकोटिजपादपि ॥ १०० ॥
वादार्थं पठ्यते विद्या परार्थं क्रियते जपः ।
ख्यात्यर्थं दीयते दानं कथं सिद्धिर्वरानने ॥ १०१ ॥
धनार्थं गम्यते तीर्थं दम्भार्थं क्रियते तपः ।
कार्यार्थे देवतापूजा कथं सिद्धिर्नु जायते ॥ १०२ ॥
अमेध्येन तु देहेन न्यासं देवार्चनं जपम् ।
होमं कुवन्ति चेन्मूढास्तत् सर्वं निष्फलं भवेत् ॥ १०३ ॥
विण्मूत्रत्यागशेषादियुक्तः कर्म करोति यः ।
जपार्चनादिकं सर्वमपवित्रं भवेत् प्रिये ॥ १०४ ॥
मलिनाम्बरकेशादिमुखदौर्गन्धसंयुतः ।
यो जपेत्तं दहत्याशु देवता सुजुगुप्सिता ॥ १०५ ॥
आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम् ।
नीचाङ्गस्पर्शनं कोपं जपकाले विवर्जयेत् ॥ १०६ ॥
अत्याहारः प्रलापश्च प्रजल्पो नियमाग्रहः ।
अन्यासङ्गश्च लौल्यञ्च षड्भिर्मन्त्रो न सिध्यति ॥ १०७ ॥
उष्णीशी कञ्चुकी नग्नो मुक्तकेशो गणावृतः ।
अपवित्रोत्तरीयश्चाशुचिर्गच्छंश्च नो जपेत् ॥ १०८ ॥
जाड्यं दुःखं तृणच्छेदं विवादं वा मनोरथम् ।
बहिस्तु देहवायुञ्च जपकाले विवर्जयेत् ॥ १०९ ॥
शान्तः शुचिमिताहारो भूशायी भक्तिमान् वशी ।
निर्द्वन्द्वः स्थिरधीमौनी संयतात्मा जपेत् प्रिये ॥ ११० ॥
विश्वासास्तिक्यकरुणाश्रद्धानियमनिश्चयैः ।
सन्तोषौत्सुक्यधर्मादिगुणैर्युक्तो जपेन्नरः ॥ १११ ॥
सुगन्धिपुष्पाभरणवस्त्रादिभिरलङ्कृतः ।
तस्य हस्तगता सिद्धिर्नान्यस्य जपकोटितः ॥ ११२ ॥
तन्निष्ठस्तद्गतप्राणस्तच्चित्तस्तत्परायणः ।
तत्पदार्थानुसन्धानं कुर्वन् मन्त्रं जपेत् प्रिये ॥ ११३ ॥
जपात् श्रान्तः पुनर्ध्यायेद्ध्यानात् श्रान्तः पुनर्जपेत् ।
जपध्यानादियुक्तस्य क्षिप्रं मन्त्रः प्रसिध्यति ॥ ११४ ॥
इति ते कथितं किञ्चित् पुरश्चरणलक्षणम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ ११५ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे पुरश्चरणादिकथनं नाम पञ्चदशोल्लासः ॥ १५ ॥
अथ षोडशोल्लासः
[सम्पाद्यताम्]श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि करुणामृतवारिधे ।
काम्यकर्मविधानञ्च वद मे परमेश्वर ॥ १ ॥
ईश्वर उवाच शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणामात्रेण प्रयोगनिपुणो भवेत् ॥ २ ॥
मन्त्री विशुद्धहृदयः पूर्वोक्तनियमान्वितः ।
श्रीप्रासादपरामन्त्रं तत्त्वलक्षं जपेत् प्रिये ॥ ३ ॥
दशांशं जुहुयाद्देवि संस्कृते हव्यवाहने ।
दशांशं तर्पयेद्दुग्धैः सलिलैः शालितण्डुलैः ॥ ४ ॥
गन्धपुष्पाक्षताकल्पधनवस्त्रादिभिः प्रिये ।
भक्ष्याथोन्यान्नपानाद्यैर्हव्यद्रव्यैर्मनोहरैः ॥ ५ ॥
तोषयेद् योगिनीचक्रं यथाविभवविस्तरम् ।
एवं न्यासजपध्यानसहोमार्च्चनतर्पणः ॥ ६ ॥
मन्त्री सिद्धिमनुर्द्देवि साक्षात् परशिवो भवेत् ।
ततः स्वमनसोऽभीष्टान् प्रयोगान् कुलनायिके ॥ ७ ॥
मन्त्रेणानेन मतिमान् साधयेद् भुक्तिमुक्तये ।
सिद्धमन्त्रस्य सिध्यन्ति षट् कर्माणि न संशयः ।
नैव सिध्यन्त्यसिद्धस्य देवताशापमाप्नुयात् ॥ ८ ॥
काम्यप्रयोगकर्त्तॄणां परलोको न विद्यते ।
प्रयोगसिद्धिरेवैषां फलमन्यन्न तु प्रिये ॥ ९ ॥
एकस्यापि विधानस्य न कुत्रापि फलद्वयम् ।
देवेशि दृश्यते तस्मान्निष्कामो देवतां यजेत् ॥ १० ॥
होमतर्पणमन्त्राद्यैर्न्यासध्यानविशेषकैः ।
आत्मनश्च परस्यापि षट् कर्माणि समाचरेत् ॥ ११ ॥
प्रयोगान्ते चक्रपूजां विधिनैव समाचरेत् ।
लक्षमेकं जपेन्मन्त्रं न्यासध्यानसमन्वितः ॥ १२ ॥
प्रयोगदोषशान्त्यर्थमात्मरक्षार्थमेव च ।
न चेत् फलं न चाप्नोति देवताशापमाप्नुयात् ॥ १३ ॥
तिथिवारञ्च नक्षत्रं योगमासर्त्तु पक्षकम् ।
दीपेशं कुलचक्राणि ज्ञात्वा कर्माणि साधयेत् ॥ १४ ॥
ऋषिष्छन्दोदेवताङ्गन्यासध्यानार्च्चनादिकम् ।
बीजं शक्तिं कीलकञ्च ज्ञात्वा मन्त्राणि साधयेत् ॥ १५ ॥
पुत्रबान्धवदाराश्च राशिवर्णानुकूलता ।
भूतमैत्रीं तथोद्यन्तं ज्ञात्वा मन्त्राणि साधयेत् ॥ १६ ॥
मन्त्रविद्याऽभेदरूपं निद्राञ्च बोधरूपकम् ।
स्त्रीपुंनपुंसकादींश्च ज्ञात्वा कर्माणि साधयेत् ॥ १७ ॥
स्वरवर्णपदद्वित्वं विदुश्चैतन्यसूतकम् ।
हृस्वदीर्घप्लुतादींश्च ज्ञात्वा मन्त्राणि साधयेत् ॥ १८ ॥
पञ्चशुद्ध्यासनप्राणायामन्यासाक्षमालिकाः ।
दोषसंस्कारमुद्रादीन् ज्ञात्वा कर्माणि साधयेत् ॥ १९ ॥
तथैवासनदिग्बन्धनाडीबन्धादिसङ्गतिम् ।
देवताकालमुद्रादि ज्ञात्वा कर्माणि साधयेत् ॥ २० ॥
साध्यसाधककर्माणि लेखनीद्रव्यपञ्चकम् ।
स्थानं यन्त्रं प्रमाणञ्च ज्ञात्वा कर्माणि साधयेत् ॥ २१ ॥
उत्पत्तिवासनावर्णमूत्तीसंस्कारसंस्थितम् ।
कुण्डद्रव्यप्रमाणादीन् ज्ञात्वा होमं समाचरेत् ॥ २२ ॥
अग्निप्रभां धूम्रवर्णध्वनिगन्धशिखाकृतीः ।
शुभचेष्टादिकं ज्ञात्वा कल्पयेत्तु शुभाशुभम् ॥ २३ ॥
मन्त्रतत्त्वानुसन्धानदेहावेशादिलक्षणम् ।
मन्त्रोच्चारणभेदञ्च ज्ञात्वा कर्माणि साधयेत् ॥ २४ ॥
मण्डलं कलसद्रव्यशुद्धि गन्धाष्टकादिकम् ।
दीक्षानामप्रदानादि ज्ञात्वा दीक्षां समाचरेत् ॥ २५ ॥
नित्यं नैमित्तिकं काम्यं नियमं नाम वासनाम् ।
पूजाधारणयन्त्रादि ज्ञात्वा कर्माणि साधयेत् ॥ २६ ॥
पूजागृहप्रवेशादिकुलपूजकलक्षणम् ।
कुलद्रव्यादिशुद्धिञ्च ज्ञात्वा पूजां समाचरेत् ॥ २७ ॥
अन्तर्यागं बहिर्यागं घटार्घ्यस्थापनादिकम् ।
पञ्चपुष्पाञ्जलिं देवि ज्ञात्वा कर्माणि साधयेत् ॥ २८ ॥
पात्राधारालिपिशितं कलामुद्राध्वमेलनम् ।
बटुकादिबलिं देवि ज्ञात्वा कर्माणि साधयेत् ॥ २९ ॥
कुलाकुलाख्यसहजशक्तिभेदञ्च लक्षणम् ।
शुभलक्षणसंयुक्तं स्त्रीसंस्कारार्चनादिकम् ।
देवि सम्भोगकालञ्च ज्ञात्वा शक्तिं परिग्रहेत् ॥ ३० ॥
पानभेदं फलोल्लासप्रमाणं स्थितिलक्षणम् ।
तत्त्वत्रयस्य स्वीकारं ज्ञात्वा कुलसुधां पिबेत् ॥ ३१ ॥
चक्रप्रवेशं प्रणति स्थिति निर्गमनं प्रिये ।
योगिनीभोगचेष्टादि ज्ञात्वा भवति कौलिकः ॥ ३२ ॥
रत्युल्लासनकालञ्च कुलदीपनिवेदनम् ।
शान्तस्तवादिपठनं ज्ञात्वा स्यात् कुलदेशिकाः ॥ ३३ ॥
मिथुनानुग्रहाष्टाष्टपुष्पिणीकन्यकार्च्चनाम् ।
विशेषतिथिपूजाञ्च ज्ञात्वा कर्माणि साधयेत् ॥ ३४ ॥
आम्नायभेदं सङ्केतं पुष्पसङ्कोचमेव च ।
गुरुत्रयं सम्प्रदाय ज्ञात्वा कर्माणि साधयेत् ॥ ३५ ॥
श्रौतविद्याकुलाचारं मनुभेदञ्च पादुकाम् ।
चरणत्रितयं देवि ज्ञात्वा कर्माणि साधयेत् ॥ ३६ ॥
स्वाधिकस्य समन्यूनकौलिकाराधनक्रमम् ।
सिद्धमुद्राधरार्चादि ज्ञात्वा कर्माणि साधयेत् ॥ ३७ ॥
गुर्वग्निप्रेतसंस्कारमन्त्येष्टिं दिग्बलिक्रमम् ।
मोक्षदीपविधानादि ज्ञात्वा कर्माणि साधयेत् ॥ ३८ ॥
इत्याद्याः कथिताः किञ्चिद्विशेषाः कुलनायिके ।
सर्वेषामेव मन्त्राणां विधिः साधारणक्रमः ॥ ३९ ॥
मन्त्राः पुरुषदेवाः स्युवीद्याः स्त्रीदेवताः प्रिये ।
मन्त्राः पुंसो हुंफडन्ताः प्राणे चरति दक्षिणे ।
प्रबुध्यन्तेऽग्निजायान्ता विद्याः स्त्रीदेवताः प्रिये ॥ ४० ॥
वामे प्राणे प्रबुध्यन्ते नमोऽन्ताः स्युर्नपुंसकाः ।
नाडीद्वयगते प्राणे सर्वे बोधं प्रयान्ति च ॥ ४१ ॥
शान्तिके मनवः सौम्या भूयिष्ठेन्द्वमृताक्षराः ।
स्वाहान्ताः स्युवीयत्प्रायाश्चाग्नेयाः क्रूरकर्मसु ॥ ४२ ॥
फट् च पुष्टौ वषट् वश्ये हुंफट् चैव तु मारणे ।
स्तम्भने च नमः प्रोक्तं स्वाहा शान्तिकपौष्टिके ॥ ४३ ॥
होमतर्पणयोः स्वाहा न्यासपूजनयोर्नमः ।
मन्त्रान्ते योजयेन्मन्त्री जपकाले यथास्थितम् ॥ ४४ ॥
शान्तिके राजतं ताम्रं भूर्जपत्रन्तु वश्यके ।
सर्वकार्येषु सौवर्णे क्रूरे स्यात् प्रेतकर्पटम् ॥ ४५ ॥
त्रिगन्धं शान्तिके प्रोक्तं पञ्चगन्धञ्च वश्यके ।
सर्वकार्यंष्वष्टगन्धं क्रूरे चाष्टविषाणि च ॥ ४६ ॥
शान्तके लेखनी दूर्वा वश्यादौ शिखिपुच्छिका ।
हेम्ना तु सर्वकार्याणि क्रूरे स्यात् काकपुच्छिका ॥ ४७ ॥
स्वगृहे शान्तिकर्मं स्याद्वश्याद्यं चण्डिकालये ।
सर्वकार्यं देवगृहे श्मशाने क्रूरकर्म च ॥ ४८ ॥
लक्षणान्येवमादीनि ज्ञात्वा गुरुमुखात् प्रिये ।
सर्वकर्माणि कुर्वीत मन्त्री तत्तत्फलाप्तये ॥ ४९ ॥
मूले प्रासादबीजञ्च तरुणादित्यसन्निभम् ।
उत्तमाङ्गे पराबीजं चन्द्रायुतसमप्रभम् ॥ ५० ॥
परस्परजनस्पर्शजनितानन्दनिर्भरः ।
मूलादिब्रह्मरन्ध्रान्तं अनवच्छिन्नरूपिभिः ॥ ५१ ॥
परामृतरसासेकैः सिक्तमापादमस्तकम् ।
आत्मानं भावयेन्नित्यं स भवेदजरामरः ॥ ५२ ॥
एवं ध्यात्वा कुलेशानि सर्वकर्माणि साधयेत् ।
सिध्यन्ति तरसा देवि नात्र कार्या विचारणा ॥ ५३ ॥
ध्यानभेदं प्रवक्ष्यामि सर्वसिद्धिकरं प्रिये ।
ईप्सितं लभते येन पूजाहोमादिकं विना ॥ ५४ ॥
स्थाने मनोहरे देवि साधकः स्थिरमानसः ।
स्थितो मृद्वासने ध्यायेद् गुरुवन्दनपूर्वकम् ॥ ५५ ॥
मस्तकस्थितसम्पूर्णचन्द्रमण्डलमध्यगम् ।
श्रीप्रासादपराबीजं षोडशस्वरसंयुतम् ॥ ५६ ॥
शुद्धस्फटिककर्पूरकुन्देन्दुधवलं प्रिये ।
सच्चन्द्रबिम्बसञ्जातसुधाप्लावितविग्रहम् ॥ ५७ ॥
आत्मानं भावयेन्नित्यं निश्चलेनान्तरात्मना ।
सर्वारिष्टं विलीयेत शुभश्रीपुष्टिकारकम् ॥ ५८ ॥
श्रीप्रासादपरामन्त्रमष्टोत्तरसहस्रकम् ।
तरुणोल्लाससहितो मण्डलं पूजयेत् प्रिये ॥ ५९ ॥
अपमृत्युमहारोगजरामरणजं भयम् ।
ग्रहापस्मारवेतालभूतोन्मादादिजं भयम् ॥ ६० ॥
जित्वाधिव्याधिरहितः पुत्रपौत्रसमन्वितः ।
जीवेद्वर्षशतं साग्रं पूजितः सर्वमानवः ॥ ६१ ॥
अश्रुतं बुध्यते शास्त्रं कविता निर्मला भवेत् ।
चिन्मयो जायते साक्षान्नात्र कार्या विचारणा ॥ ६२ ॥
ज्वरोन्मादादिरोगेषु जपेच्छिरसि चिन्तयन् ।
शूलवातव्रणग्रन्थिमूत्रकृच्छ्रादिसम्भवे ।
तत्तत्स्थानेषु देवेशि पूर्ववच्चिन्तयन् जपेत् ॥ ६३ ॥
महारोगेषु जातेषु सर्वाङ्गेषु विचिन्तयेत् ।
तत्क्षणाच्छान्तिमायान्ति रोगाः सर्वे न संशयः ॥ ६४ ॥
दशेन्द्रियेषु यो ध्यायेल्लभेदिन्द्रियसौष्ठवम् ।
यत्र बीजं स्मरेत्तत्र तत्फलं भवति ध्रुवम् ॥ ६५ ॥
सदा यश्चिन्तयेन्मूध्नी स भवेदजरामरः ।
सर्वरोगप्रहरणं विद्यारोग्यप्रदं प्रिये ॥ ६६ ॥
अस्मात् परतरध्यानं नास्ति सत्यं न संशयः ।
सात्त्विकध्यानजं देवि फलमेतदुदीरितम् ॥ ६७ ॥
शान्तिकर्माणि सर्वाणि विधिनानेन कारयेत् ।
विधिनानेन देवेशि सौभाग्यमतुलं भवेत् ॥ ६८ ॥
द्वादशाधारपद्मेषु द्वादशस्वरसंयुतम् ।
बीजं सञ्चिन्तयेद् यस्तु स भवेदजरामरः ॥ ६९ ॥
षडाधारेषु षड्दीर्घयुक्तं बीजं विचिन्तयेत् ।
षडाधारस्थदेवीभिः पूज्यते कुलनायिके ॥ ७० ॥
हृत्पद्मकणीकामध्ये सूर्यमण्डलसंस्थितम् ।
पराप्रासादबीजन्तु तरुणारुणसन्निभम् ॥ ७१ ॥
जवाबन्धूकसिन्दूरपद्मरागप्रभोज्ज्वलम् ।
पञ्चविशतिभिः स्पर्शाक्षरैः संवीतमम्बिके ॥ ७२ ॥
तत्प्रभापटलच्छायाव्यक्तीकृतजगत्त्रयम् ।
आत्मानञ्च स्मरेद्देवि निश्चलेनान्तरात्मना ॥ ७३ ॥
पराप्रासादबीजन्तु तरुणोल्लाससंयुतः ।
अष्टोत्तरसहस्रन्तु मण्डलं प्रजपेत् सुधीः ॥ ७४ ॥
देवदानवगन्धर्वसिद्धकिन्नरगुह्यकान् ।
विद्याधरान्मुनीन् यक्षान् नागानप्सरसः स्त्रियः ॥ ७५ ॥
सिंहव्याघ्रोरगेन्द्रादीनन्यान् दुष्टमृगानपि ।
वश्यान् करोत्यसन्देहं किं पुनर्मानवादिकान् ॥ ७६ ॥
महदैश्वर्यमाप्नोति स्वर्गभोगादिकं प्रिये ।
यस्य मूध्नी स्मरन् जप्यात् स वश्यो जायते हठात् ॥ ७७ ॥
राजसध्यानजं देवि फलमेतदुदीरितम् ।
वश्यकर्माणि सर्वाणि विधिनानेन कारयेत् ॥ ७८ ॥
सर्ववश्यकरं देवि सर्वैश्वर्यफलप्रदम् ।
अस्मात् परतरं ध्यानं नास्ति सत्यं न संशयः ॥ ७९ ॥
लिखेत्त्रिकोणं षट्कोणं अष्टारञ्च महीपुरम् ।
मूलमन्त्रं लिखेन्मध्ये साध्यनामसमन्वितम् ॥ ८० ॥
षट्कोणेषु षडङ्गानि विलिखेत् परमेश्वरि ।
केशरेषु स्वरानष्टौ वर्गान् पत्रेषु पार्वति ॥ ८१ ॥
भूगृहस्य चतुष्कोणे विलिखेन्मूलमम्बिके ।
पञ्चवर्णरजोभिश्च शुभं दृष्टिमनोहरम् ॥ ८२ ॥
एवं यन्त्रं समालिख्य विधिवन्मन्त्रवित्तमः ।
एकत्रिषड्वसुचतुःकलसान् स्थापयेत् प्रिये ॥ ८३ ॥
मध्यादिचतुरस्रान्तं द्वात्रिंशत् कलसान् प्रिये ।
अथवाष्टादशेशानि सप्त वा दश वा प्रिये ॥ ८४ ॥
चतुरो वाप्यथैकं वा कुर्यात् साधकसत्तमः ।
अस्थिरक्तशिरातन्तुमृण्मांसं रुधिरं जलम् ॥ ८५ ॥
चर्मवस्त्रशिलाकूर्मनारिकेलफलं शिरः ।
मन्त्रप्राणसमायुक्तां यजेत् कलसदेवताम् ॥ ८६ ॥
सावित्रीनापराङ्गानि मातरोज् भैरवान्विताः ।
विदिक्षु गुरुविघ्नेशदुर्गाक्षेत्रपतीन् प्रिये ॥ ८७ ॥
कलसेषु समभ्यर्च्य विधिवन्मन्त्रवित्तमः ।
अभिषिञ्चेत् प्रियं शिष्यं सर्वपापप्रशान्तये ॥ ८८ ॥
आयुः श्रीकान्तिसौभाग्यविद्यारोग्यादिकं भवेत् ।
राजाभिषिक्तो लभते चतुःसागरगां महीम् ॥ ८९ ॥
अकिञ्चनोऽभिषिक्तश्च महदैश्वर्यमाप्नुयात् ।
वन्ध्याभिषिक्ता लभते पुत्रं सर्वगुणान्वितम् ॥ ९० ॥
भूतापमृत्युरोगाद्या विनश्यन्ति न संशयः ।
त्रिलौहे वापि भूर्जे वा लिखित्वा यन्त्रमुत्तमम् ॥ ९१ ॥
विधृतं बाहुना देवि सर्वरक्षाकरं भवेत् ।
आयुरारोग्यमैश्वर्यं विद्यालाभं यशो जयम् ॥ ९२ ॥
यद् यत् स्वमनसोऽभीष्टं तत्तदाप्नोत्यसंशयः ।
खड्गवश्यं वयःस्तम्भं यक्षिण्यञ्जनपादुकाम् ॥ ९३ ॥
अणिमाद्यष्टसिद्ध्यादि महारसरसायनम् ।
सञ्जीवयोगगुटिकाप्रमुखाखिलसिद्धयः ॥ ९४ ॥
पराप्रासादमन्त्रज्ञैर्दृश्यन्ते नात्र संशयः ।
षट् कर्माणि प्रयुञ्जीत नान्यथा भवति प्रिये ॥ ९५ ॥
पीतद्रव्यैर्हरिद्राद्यैः समित्पत्रफलादिभिः ।
जुहुयात् पूर्ववन्मन्त्री देवताध्यानतत्परः ॥ ९६ ॥
वाक्श्रोत्रगतिदृक्सेनानदीग्रहरिपून् प्रिये ।
नानादुष्टमृगान् देवि स्तम्भयेन्नात्र संशयः ॥ ९७ ॥
ग्रहवेगादिदुष्टानां विनाशनकरं प्रिये ।
अस्मात् परतरं ध्यानं नास्ति सत्यं न संशयः ॥ ९८ ॥
तामसध्यानजं देवि फलमेतदुदीरितम् ।
दुष्टमारणकर्माणि विधिनानेन साधयेत् ॥ ९९ ॥
इत्यादि ध्यानभेदेन ज्ञात्वा गुरुमुखात् प्रिये ।
षट् कर्माणि प्रयुञ्जीत नान्यथा वीरवन्दिते ॥ १०० ॥
खदिरश्वेतमन्दारसितभानुसमिद्वरैः ।
पलाशोदुम्बराश्वत्थप्लक्षापामार्गसत्वचैः ॥ १०१ ॥
नन्द्यावर्त्तसिताम्भोजहयारिकुसुमादिभिः ।
सितैरन्यैः शुभैर्द्र्रव्यैः समित्पत्रफलान्तरः ॥ १०२ ॥
भक्ष्यैश्च पायसैर्दूर्वासहितैस्तिलतण्डुलैः ।
मधुरत्रयसंयुक्तैर्मन्त्रवित् कुलनायिके ॥ १०३ ॥
एकेन वाथ सर्वैर्वा तत्कार्यगुरुलाघवम् ।
ज्ञात्वा देवि सहस्रन्तु जुहुयादथ पञ्च वा ॥ १०४ ॥
अयुतं नियुतं वापि प्रयुतं वा कुलेश्वरि ।
तत्तत्कर्मोदिते कुण्डे संस्कृते हव्यवाहने ॥ १०५ ॥
आवाह्य देवतामस्मिन् ध्यात्वा सावरणां प्रिये ।
विधिवज्जुहुयाद्देवि तद्गतेनान्तरात्मना ॥ १०६ ॥
सर्वरोगव्रणोन्मादापस्मारोत्पातयक्ष्मजम् ।
सर्वदुःखप्रशमनं तत्क्षणान्नात्र संशयः ॥ १०७ ॥
अनेन सर्वशान्तिञ्च ज्ञानं विद्यां लभेत् प्रिये ।
कदम्बाशोकवकुलपुन्नागाम्रमधूकजैः ॥ १०८ ॥
चम्पकद्वयपालाशपाटलश्रीकपित्थकैः ।
मालतीमल्लिकाजातिबन्धूकारुणपङ्कजैः ॥ १०९ ॥
कल्हारारुणमन्दारयूथिकुन्दजवादिभिः ।
सनारिकेलकदलीद्राक्षेक्षुपृथुकैरपि ॥ ११० ॥
चन्दनागुरुकर्पूररोचनाकुंकुमादिभिः ।
रक्तैरन्यैः शुभद्रव्यैः समिधृतफलोद्भवैः ॥ १११ ॥
पूर्ववज्जुहुयाद्देवि विधिवन्मन्त्रवित्तमः ।
महीपतींश्च पुरुषान् कान्ता यौवनगवीताः ॥ ११२ ॥
सिंहान् मत्तान् तथा व्याघ्रान् मृगान् दुष्टान् गजानपि ।
सिद्धदेवाप्सरोयक्षगन्धर्ववनितास्तथा ।
देवानपि कुलेशानि वशयेन्नात्र संशयः ॥ ११३ ॥
वाजीलवणहोमेन स्त्रियमाकर्षयेद् ध्रुवम् ।
विधिनानेन देवेशि सौभाग्यमुत्तमं लभेत् ॥ ११४ ॥
बहुनात्र किमुक्तेन त्रिषु लोकेषु मन्त्रिणाम् ।
अनेन मन्त्रराजेन नासाध्यं विद्यते क्वचित् ॥ ११५ ॥
ऊर्ध्वाम्नायैकनिष्णातः पराप्रासादमन्त्रवित् ।
कुलार्णवार्थतत्त्वज्ञो जीवन्मुक्तः कुलेश्वरि ॥ ११६ ॥
सुतीर्थे वाप्यतीर्थे वा जलमध्येऽपि वा वसन् ।
पराप्रासादमन्त्रज्ञो मुक्त एव न संशयः ॥ ११७ ॥
दिक्पीठक्षेत्रमुद्रादिवृक्षवल्लीमठादिकाः ।
ज्ञेया भैरवदेव्यश्च ऊर्ध्वाम्नायस्य पार्वति ॥ ११८ ॥
निम्बकारस्करोन्मत्तकण्टकीविप्रदन्तिभिः ।
अस्थिकण्टकवृक्षाद्यैर्द्रव्यैरशुभसाधनैः ॥ ११९ ॥
वटुकैः कृष्णवर्णैश्च समित्पत्रफलान्तरैः ।
गृहधूमचिताङ्गारत्रिकट्वम्लचिताञ्जनैः ॥ १२० ॥
उन्मत्तरससंसिक्तै पिष्ट्वा सम्यक् प्रसेचितैः ।
साध्यपादरजोभिश्च चिताभस्मसमन्वितैः ॥ १२१ ॥
साध्यप्रतिकृतिं कुर्यादेकनक्षत्रवृक्षजाम् ।
सम्यक्प्रतिष्ठितप्राणां कुण्डस्योपरि लम्बयेत् ॥ १२२ ॥
खनेत्तत्प्रतिमां मन्त्री कुण्डस्याधो यथाविधि ।
मलीमसेन मनसा चोग्रदृष्टिरमर्षणः ॥ १२३ ॥
चितानले विषतरु सप्तकाष्ठसमेधिते ।
तद्द्रव्यैर्जुहुयाद्देवि विधिवन्मन्त्रवित्तमः ॥ १२४ ॥
कुर्याद्विद्वेषणोच्चाटमारणानि न संशयः ।
शान्तिके सात्त्विकं देवि श्वेतवर्णं विचिन्तयेत् ॥ १२५ ॥
वश्ये तु राजसं देवि रक्तवर्णं विचिन्तयेत् ।
तामसं क्रूरकार्येषु कृष्णवर्णं विचिन्तयेत् ॥ १२६ ॥
आत्मरक्षां पुरा कृत्वा पश्चात् कर्माणि साधयेत् ।
योऽन्यथा कुरुते मोहात् स भवेद्देवतापशुः ॥ १२७ ॥
तस्माद्देवि महाषोढान्यासं पूजां बलिं सुधीः ।
कृत्वा कर्माणि कुर्वीत नान्यथा वीरवन्दिते ॥ १२८ ॥
मूलाधारसरोजान्तर्वह्निमध्यगतं प्रिये ।
पराप्रासादबीजं तत् कल्पान्ताग्निसमप्रभम् ॥ १२९ ॥
प्रतिलोमसु संवीतं दशभिर्व्यापकाक्षरैः ।
स्वयं कालानलसमः सर्वभूतभयङ्करः ॥ १३० ॥
दक्षिणाशामुखो भूत्वात्युग्रदृष्टिमलीमसः ।
यौवनोल्लाससहितः पराप्रासादसंज्ञकम् ॥ १३१ ॥
मन्त्रं मण्डलकं जप्यादष्टोत्तरसहस्रकम् ।
अनिष्टकारिणः सत्त्वान् कलहायासकारिणः ॥ १३२ ॥
वृथा द्वेषकरान् क्रूरान् सपर्याविघ्नकारिणः ।
भूतोपग्रहवेतालान् पिशाचान् यक्षराक्षसान् ॥ १३३ ॥
इत्यादिदुष्टजन्तूंश्च सदा क्लेशकरान् परान् ।
तद्वह्निमध्यपतितान्निर्दग्धांश्च चिन्तयेत् ।
क्षणेन नाशमायान्ति शलभा इव पावके ॥ १३४ ॥
यस्यमूध्नी स्मरेद्बीजं स मृत्युमधिगच्छति ।
ध्यानेनानेन देवेशि कालादीनपि नाशयेत् ॥ १३५ ॥
इति ते कथितः किञ्चित् काम्यकर्मविधिः प्रिये ।
समासेन कुलेशानि कि भूयः श्रोतुमिच्छसि ॥ १३६ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे काम्यकर्मकथनं नाम षोडशोल्लासः ॥ १६ ॥
अथ सप्तदशोल्लासः
[सम्पाद्यताम्]श्री देव्युवाच
कुलेश श्रोतुमिच्छामि गुरुनामादिवासनाम् ।
तत्त्वं कुलपदार्थानां वद मे परमेश्वर ॥ १ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण कुलज्ञानं प्रकाशते ॥ २ ॥
नमस्ते नाथ भगवन् शिवाय गुरुरूपिणे ।
विद्यावतारसंसिद्ध्यै स्वीकृतानेकविग्रह ॥ ३ ॥
नारायणस्वरूपाय परमात्मस्वरूपिणे ।
सर्वाज्ञानतमोभेदभानवे चैतन्याय च ॥ ४ ॥
सर्वज्ञाय दयाकॢप्तविग्रहाय शिवात्मने ।
परत्रेह च भक्तानां भव्यानां भावदायिने ॥ ५ ॥
पुरस्तात् पार्श्वयोः पृष्ठे नमः कुर्यामुपर्यधः ।
सदा सच्चित्तरूपेण विधेहि तव दासताम् ॥ ६ ॥
गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः ।
अन्धकारनिरोधत्वात् गुरुरित्यभिधीयते ॥ ७ ॥
गकारः सिद्धदः प्रोक्तो रेफः पापस्य दाहकः ।
उकारो विष्णुरित्युक्तस्त्रितयात्मा गुरुः परः ॥ ८ ॥
गकारो ज्ञानसम्पत्ती रेफस्तत्र प्रकाशकः ।
उकारः शिवतादात्म्यं गुरुरित्यभिधीयते ॥ ९ ॥
गुह्यागमात्मतत्त्वान्धनद्धानां बोधनादपि ।
रुद्रादिदेवरूपत्वाद् गुरुरित्यभिधीयते ॥ १० ॥
स्वयमाचरते शिष्यानाचारे स्थापयत्यपि ।
आचिनोतीह शास्त्रार्थानाचार्यस्तेन कथ्यते ॥ ११ ॥
चराचरसमासन्नमध्यापयति यः स्वयम् ।
यमादियोगसिद्धत्वादाचार्य इति कथ्यते ॥ १२ ॥
आत्मभावप्रदानात्तु रागद्वेषादिवर्ज्जनात् ।
ध्यानैकनिष्ठाचित्तत्वादाराध्य इति कथ्यते ॥ १३ ॥
देवतारूपधारित्वाच्छिष्यानुग्रहकारणात् ।
करुणामयमूत्तीत्वाद्देशिकः कथितः प्रिये ॥ १४ ॥
स्वान्तःशान्तिसमुन्मीलत्परतत्त्वार्थचिन्तनात् ।
मिथ्याज्ञानविहीनत्वात् स्वामीति कथितः प्रिये ॥ १५ ॥
मनोदोषादिदूरत्वाद्धेतुवादादिवर्ज्जनात् ।
श्वादिप्राणिषु सादृश्याद् रम्यत्वाच्च महेश्वरः ॥ १६ ॥
श्रीमोक्षज्ञानदातृत्वान्नादब्रह्मात्मबोधनात् ।
स्थगिताज्ञानचिह्नत्वात् श्रीनाथः कथितः प्रिये ॥ १७ ॥
देशकालाविरोधेन वर्त्तमानात् कुलागमे ।
वशीकृतजगज्जीवाद्देव इत्यभिधीयते ॥ १८ ॥
भवपाशप्रशमनात् टङ्कारेन्दुकशेखरात् ।
रक्षणात् कमनीयत्वात् भट्टारक इतीरितः ॥ १९ ॥
प्रगुप्तागमवेदान्तरहस्यार्थविभावनात् ।
भुक्तिमुक्तिप्रदानाच्च प्रभुरित्यभिधीयते ॥ २० ॥
योनिमुद्रानुसन्धानात् प्रस्फुरन्मन्त्रवैभवात् ।
गीर्वाणगणपूज्यत्वाद् योगीति कथितः प्रिये ॥ २१ ॥
सङ्गदुःखपरित्यागात् यत्र कुत्राश्रमाश्रयात् ।
मिथ आत्मनिबन्धत्वात् संयमीत्यभिधीयते ॥ २२ ॥
तत्त्वस्वरूपमननात् परिवादादिवजीतात् ।
स्वीकारात् शुभकार्याणां तपस्वीत्यभिधीयते ॥ २३ ॥
अक्षरत्वाद्वरेण्यत्वाद्धूतसंसारबन्धनात् ।
तत्त्वमस्यर्थसिद्धत्वात् अवधूतोऽभिधीयते ॥ २४ ॥
वीतरागमदक्लेशकोपमात्सर्यमोहतः ।
रजस्तमोविदूरत्वाद्वीर इत्यभिधीयते ॥ २५ ॥
कुलं गोत्रं समाख्यातं तच्च शक्तिशिवोद्भवम् ।
येन मोक्ष इति ज्ञानं कौलिकः सोऽभिधीयते ॥ २६ ॥
अकुलं शिव इत्युक्तं कुलं शक्तिः प्रकीत्तीता ।
कुलाकुलानुसन्धानान्निपुणाः कौलिकाः प्रिये ॥ २७ ॥
सारसंग्रहणाच्चैव धर्ममार्गप्रवर्त्तनात् ।
करणग्रामनियमात् साधकः सोऽभिधीयते ॥ २८ ॥
भजनात् परया भक्त्या मनोवाक्कायकर्मभिः ।
तरत्यखिलदुःखानि तस्माद्भक्त इतीरितः ॥ २९ ॥
शरीरमर्थं प्राणांश्च सद्गुरुभ्यो निवेद्य यः ।
गुरुभ्यः शिक्षते योगं शिष्य इत्यभिधीयते ॥ ३० ॥
योनिमुद्रानुसन्धानात् गिरिजापादसेवनात् ।
निर्लीनोपाधिविभवाद् योगिनीत्यभिधीयते ॥ ३१ ॥
शतकोटिमहादिव्ययोगिनीप्रीतिकारणात् ।
तीव्रमुक्तिप्रदानाच्च शक्तिरित्यभिधीयते ॥ ३२ ॥
पालनाद्दुरितच्छेदात् कामितार्थस्य वर्द्धनात् ।
पादुकेति समाख्याता मम तत्त्वं तव प्रिये ॥ ३३ ॥
जन्मान्तरसहस्रेषु कृतपापप्रणाशनात् ।
परदेवप्रकाशाच्च जप इत्यभिधीयते ॥ ३४ ॥
स्तोकस्तोकेन मनसः परमप्रीतिकारणात् ।
स्तोतृसन्तारणाद्देवि स्तोत्रमित्यभिधीयते ॥ ३५ ॥
यावदिन्द्रियसन्तापं मनसा संनियम्य च ।
स्वान्तेनाभीष्टदेवस्य चिन्तनं ध्यानमुच्यते ॥ ३६ ॥
चरितार्थविकाशाच्च रक्षणादपि पार्वति ।
नरनारीस्वरूपाच्च चरणं कथितं प्रिये ॥ ३७ ॥
वेदिताऽखिलशास्त्रार्थसद्धर्मार्थनिरूपणात् ।
दर्शनानां प्रमाणत्वाद्वेद इत्यभिधीयते ॥ ३८ ॥
पुण्यपापादिकथनाद्राक्षसादिनिवारणात् ।
नवभक्त्यादिजननात् पुराण इति कथ्यते ॥ ३९ ॥
शासनादनिशं देवि वर्णाश्रमनिवासिनाम् ।
तारणात् सर्वपापेभ्यः शास्त्रमित्यभिधीयते ॥ ४० ॥
स्मरणोत्सुकनिष्ठानां धर्माधर्मनिरूपणात् ।
तिमिरोत्पाटनाद्देवि स्मृतिरित्यभिधीयते ॥ ४१ ॥
इष्टधर्मादिकथनात्तिमिराज्ञानभञ्जनात् ।
हरणात् सर्वदुःखानां इतिहास इति स्मृतः ॥ ४२ ॥
आचारकथनाद्दिव्यगतिप्राप्तिनिदानतः ।
महात्मतत्त्वकथनादागमः कथितः प्रिये ॥ ४३ ॥
शाकिनीगणपूज्यत्वात्तारणाद्भववारिधे ।
परादिशक्तिसान्निध्याच्छाक्त इत्यभिधीयते ॥ ४४ ॥
कौमारादिनिरोधत्वात् लयजन्मादिभञ्जनात् ।
अशेषकुलसम्बन्धात् कौल इत्यभिधीयते ॥ ४५ ॥
पाशच्छेदकराद्देवि रञ्जनात् परतेजसः ।
यतिभिश्चिन्त्यमानत्वात् परम्पर्यमितीरितम् ॥ ४६ ॥
संसारसारभूतत्वात् प्रकाशानन्ददानतः ।
यशः सौभाग्यकरणात् सम्प्रदाय इतीरितः ॥ ४७ ॥
आदित्वात् सर्वमार्गाणां मनोल्लासप्रवर्द्धनात् ।
यज्ञादिधर्महेतुत्वादाम्नाय इति कीतीतः ॥ ४८ ॥
श्रुतानेकमहामन्त्रयन्त्रतन्त्रादिदैवतात् ।
श्रुतौ यदनविच्छिन्नाच्छ्रौत इत्यभिधीयते ॥ ४९ ॥
आम्नायतत्त्वरूपत्वाच्चातुर्यार्थनिरूपणात् ।
रागद्वेषादिशमनादाचार इति कीर्त्त्यते ॥ ५० ॥
दिव्यभावप्रदानाच्च क्षालनात् कल्मषस्य च ।
दीक्षेति कथिता सद्भिर्भवबन्धविमोचनात् ॥ ५१ ॥
अहम्भावहराद्भीतिमथनात् सेचनादपि ।
कम्पानन्दादिजननादभिषेक इति स्मृतः ॥ ५२ ॥
उल्बणत्वात् परत्वाच्च देवताप्रीतिदानतः ।
शक्तिपातनिमित्तादप्युपदेश इति स्मृतः ॥ ५३ ॥
मननात्तत्त्वरूपस्य देवस्यामिततेजसः ।
त्रायते सर्वभयतस्तस्मान्मन्त्र इतीरितः ॥ ५४ ॥
देहमास्थाय भक्तानां वरदानाच्च पार्वति ।
तापत्रयादिशमनाद्देवता परिकीत्तीता ॥ ५५ ॥
न्यायोपाजीतवित्तानामङ्गेषु विनिवेशनात् ।
सर्वरक्षाकराद्देवि न्यास इत्यभिधीयते ॥ ५६ ॥
मुदं कुर्वन्ति देवानां मनांसि द्रावयन्ति च ।
तस्मान्मुद्रा इति ख्याता दशीतव्याः कुलेश्वरि ॥ ५७ ॥
अनन्तफलदानाच्च क्षपिताशेषकल्मषात् ।
मातृकात्मतया लाभकरणादक्षमालिका ॥ ५८ ॥
मङ्गलत्वाच्च डाकिन्या योगिनीगणसंश्रयात् ।
ललितत्वाच्च देवेशि मण्डलं परिकीत्तीतम् ॥ ५९ ॥
कमलासनरूपत्वाल्लघुतत्त्वादिनाशनात् ।
शमितापारपापाच्च कलशः परिकीत्तीतः ॥ ६० ॥
यमभूतादिसर्वेभ्यो भयेभ्योऽपि कुलेश्वरि ।
त्रायते सततञ्चैव तस्माद् यन्त्रमितीरितम् ॥ ६१ ॥
आत्मसिद्धिप्रदानाच्च सर्वरोगनिवारणात् ।
नवसिद्धिप्रदानाच्च आसनं कथितं प्रिये ॥ ६२ ॥
मायाजालादिशमनान्मोक्षमार्गनिरूपणात् ।
अष्टदुःखादिविरहान् मद्यमित्यभिधीयते ॥ ६३ ॥
महादानार्थरूपत्वाद् यागभूम्येककारणात् ।
मद्भावजननाद्देवि मद्यमित्यभिधीयते ॥ ६४ ॥
सुमनसः सेवितत्वाद् राज्यदत्वात् सदा प्रिये ।
सुराकारप्रदानत्वात् सुरेति परिकीत्तीता ॥ ६५ ॥
अमृतांशुस्वरूपत्वान्मृत्युभीतिनिवारणात् ।
तत्त्वप्रकाशहेतुत्वादमृतं कथितं प्रिये ॥ ६६ ॥
पानाङ्गविश्वरूपत्वात्त्रिचतुष्ककलाश्रयात् ।
पतितत्राणनाद्देवि पात्रमित्यभिधीयते ॥ ६७ ॥
आशुशुक्षणिरूपत्वाद्धातृदेवप्रियादपि ।
रक्षणादपि चाधेयस्याधारं तु विदुर्बुधाः ॥ ६८ ॥
माङ्गल्यजननाद्देवि संविवदानन्ददानतः ।
सर्वदेवप्रियत्वाच्च मांस इत्यभिधीयते ॥ ६९ ॥
पूर्वजन्मानुशमनाज्जन्ममृत्युनिवारणात् ।
सम्पूर्णफलदानाच्च पूजेति कथिता प्रिये ॥ ७० ॥
अभीष्टफलदानाच्च चतुर्वर्गफलाश्रयात् ।
नन्दनात् सर्वदेवानामर्चनं समुदाहृतम् ॥ ७१ ॥
तत्त्वात्मकस्य देवस्य परिवारवृतस्य च ।
नवानन्दप्रजननात्तर्पणं समुदाहृतम् ॥ ७२ ॥
गम्भीरापारदौर्भाग्यक्लेशनाशनकारणात् ।
धर्मज्ञानप्रदानाच्च गन्ध इत्यभिधीयते ॥ ७३ ॥
आघ्राणनप्रजननान् मोक्षमार्गप्रदर्शनात् ।
दग्धदुःखादिदमनादामोद इति कथ्यते ॥ ७४ ॥
अन्नदानात् कुलेशानि क्षपिताशेषकल्मषात् ।
तादात्म्यकरणाद्देवि अक्षताः परिकीत्तीताः ॥ ७५ ॥
पुण्यसंवर्द्धनाच्चापि पापौघपरिहारतः ।
पुष्कलार्थप्रदानाच्च पुष्पमित्यभिधीयते ॥ ७६ ॥
धूताशेषमहादोषपूतिगन्धप्रभावतः ।
परमानन्दजननाद्धूप इत्यभिधीयते ॥ ७७ ॥
दीर्घाज्ञानमहाध्वान्ताहङ्कारपरिवर्जनात् ।
परतत्त्वप्रकाशाच्च दीप इत्यभिधीयते ॥ ७८ ॥
मोहध्वान्तप्रशमनात् क्षयातीविनिवारणात् ।
दिव्यरूपप्रदानाच्च परतत्त्वप्रकाशनात् ।
ख्यातो मोक्षो दीप इति मोक्षमार्गैकसाधनः ॥ ७९ ॥
चतुवीधं कुलेशानि द्रव्यञ्च षड्रसान्वितम् ।
निवेदनाद्भवेत्तृप्तिर्नैवेद्यं समुदाहृतम् ॥ ८० ॥
बहुप्रकारविचरद् भूतौघप्रीतिकारणात् ।
लिप्तपापप्रशमनाद् बलिरित्यभिधीयते ॥ ८१ ॥
तत्त्वत्रयविशुद्धिः स्यात्त्वत्सेवामात्रतः प्रिये ।
तत्त्वप्रकाशहेतुत्वात्तत्त्वत्रयमितीरितम् ॥ ८२ ॥
चतुर्वर्गफलावापात् लुण्ठिताज्ञानबन्धनात् ।
कल्याणधर्ममूलत्वाच्चलुकं कथितं प्रिये ॥ ८३ ॥
प्रकाशानन्दजननात् सामरस्यप्रदानतः ।
दर्शनात् परतत्त्वस्य प्रसाद इति कथ्यते ॥ ८४ ॥
पाशसञ्छेदनाद्देवि नरकस्य निवारणात् ।
पाबनात् परमेशानि पानमित्यभिधीयते ॥ ८५ ॥
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।
समीपसेवा विधिवत् उपास्तिरिति कथ्यते ॥ ८६ ॥
पञ्चाङ्गोपासनेनेष्टदेवता प्रीतिदानतः ।
पुरश्चरति भक्तस्य तत् पुरश्चरणं प्रिये ॥ ८७ ॥
आवाहनादिकर्माणि षोडश द्वादशावधि ।
विधिनाचरणं प्रोक्तं उपहारमिति स्मृतम् ॥ ८८ ॥
सम्पूज्य सावृतिं देवं षोडशैरुपचारकैः ।
स्वस्थानप्रेषणं प्रोक्तं मृद्वासनमिति प्रिये ॥ ८९ ॥
देवं पूजार्थमाह्वानमावाहनमिति स्मृतम् ।
आसने सन्निवेशः स्यात् स्थापनं कुलनायिके ॥ ९० ॥
अन्योन्यसम्मुखाकारः सन्निधापनमीरितम् ।
यत्र कुत्राप्यचलनं सन्निरोधनमीरितम् ॥ ९१ ॥
देवताङ्गे षडङ्गानां न्यासः स्यात् सकलीकृतिः ।
आच्छादनं समुद्दिष्टमवगुण्ठनमीरितम् ॥ ९२ ॥
दर्शनं धेनुमुद्राया अमृतीकरणं प्रिये ।
क्षमस्वेत्यञ्जलिर्द्देवि परमीकरणं प्रिये ।
स्वागतं कुशलप्रश्नं निगदेद्देवताग्रतः ॥ ९३ ॥
पाद्यं श्यामाकदूर्वाब्जविष्णुक्रान्ताभिरुच्यते ।
जातालवङ्गकक्कोलैरुक्तमाचमनीयकम् ॥ ९४ ॥
अखिलाघप्रशमनार्द्धनपुत्रविवर्द्धनात् ।
अनर्घफलदानाच्च अर्घ्यमित्यभिधीयते ॥ ९५ ॥
सिद्धार्थमक्षतञ्चैव कुशाग्रं तिलमेव च ।
यवं गन्धः फलं पुष्पमष्टाङ्गार्घ्यं प्रकीत्तीतम् ॥ ९६ ॥
मध्वाज्यदधिभिः प्रोक्तो मधुपर्कः कुलेश्वरि ।
देहप्रक्षालनं स्नानं सुगन्धिसलिलैः सह ॥ ९७ ॥
चन्द्राचन्दनकस्तूरीकालागुरुभिरुच्यते ।
अष्टाङ्गप्रणिपातन्तु कथितं वन्दनं प्रिये ॥ ९८ ॥
एतच्चराचरं सर्वं क्षेत्रमित्यभिधीयते ।
तत् क्षेत्रं पालितं येन क्षेत्रपालः स उच्यते ॥ ९९ ॥
इति ते कथिता किञ्चिद् गुरुनामादिवासना ।
समासेन महेशानि यो जानाति स पूजकः ॥ १०० ॥
रहस्यातिरहस्यानां रहस्योऽयं महेश्वरि ।
ऊर्ध्वाम्नायोऽयमाख्यातः समासेन सविस्तरात् ॥ १०१ ॥
कुलार्णवमिदं शास्त्रं योगिनीनां हृदि स्थितम् ।
प्रकाशितं मया चाद्य गोपनीयं प्रयत्नतः ॥ १०२ ॥
पुस्तकञ्च महेशानि पशुगेहे न निक्षिपेत् ।
न दद्यात् पशुहस्ते च न पठेत् पशुसन्निधौ ।
न पठेदासवोल्लासं ग्रन्थं भूमौ न निक्षिपेत् ॥ १०३ ॥
नित्यं सम्पूजयेद्भक्त्या जानीयाद् गुरुवक्त्रतः ।
नापुत्राय प्रवक्तव्यं नाशिष्याय कदाचन ॥ १०४ ॥
स्नेहाल्लोभाद्भयादुक्त्वा सोऽचिरान्नश्यति ध्रुवम् ।
देवि यद्विद्यते प्राज्ञे तत्तत् किञ्चिन्मयोदितम् ॥ १०५ ॥
साधकानां हितार्थाय भुक्तिमुक्तिफलेषिणाम् ।
यश्चोर्ध्वाम्नायमाहात्म्यं पठेत् श्रीचक्रसन्निधौ ॥ १०६ ॥
भक्त्या परमया देवि यः शृणोति स कौलिकः ।
व्रतं स्नानं तपस्तीर्थं यज्ञदेवार्चनादिषु ॥ १०७ ॥
तत् फलं कोटिगुणितं लभते नात्र संशयः ।
त्वत्सन्निधौ सन्निवसेन्नात्र कार्या विचारणा ॥ १०८ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे काम्यकर्मकथनं नाम सप्तदशोल्लासः ॥ १७ ॥
स्रोतः
[सम्पाद्यताम्]- कुलार्णवतन्त्रम् (मुक्तबोध पुस्तकालयम्)