काशीविश्वेश्वरस्तोत्रम्

विकिस्रोतः तः
काशीविश्वेश्वरस्तोत्रम्
श्रीवासुदेवानन्दसरस्वती


काशीविश्वेश्वरस्तोत्रम्

या षोडशकला काशी तनुरूपा प्रकाशते।।
ज्ञानगंगान्विता यत्र शंभुरात्मा प्रतिष्ठितः।।१।।

विश्वनाथः सात्त्विकधीर्भवान्यालिंगितः सदा।।
यद्दर्शनान्न पुनरावृत्तिः कल्पशतैरपि।।२।।

इति श्री प. प. श्रीवासुदेवानन्दसरस्वतीविरचितं काशीविश्वेश्वरस्तोत्रं संपूर्णम्।।