काव्यालङ्कारः/षष्ठपरिच्छेदः

विकिस्रोतः तः
Jump to navigation Jump to search
← पंचम परिच्छदः काव्यालङ्कारः
षष्ठ परिच्छदः
भामहः

सूत्राम्भसं पदावर्तं पारायणरसातलम् ।
धातूणादिगणग्राहं ध्यानग्रहबृहत्प्लवम् ।। ६.१ ।।

धीरैरालोकितप्रान्तं अमेधोभिरसूयितम् ।
सदोपभुक्तं सर्वाभिरन्यविद्याकरेणुभिः ।। ६.२ ।।

नापारयित्वा दुर्गाधं अमुं व्याकरणार्णवम् ।
शब्दरत्नं स्वयंगम्यं अलं कर्तुमयं जनम् ।। ६.३ ।।

तस्य चाधिगमे यत्नः कार्यं काव्यं विधित्सता ।
परप्रत्ययतो यत्तु क्रियते तेन का रतिः ।। ६.४ ।।

नान्यप्रत्ययशब्दा वागाविभाति मुदे सताम् ।
परेण घृतमुक्तेव सरसा कुसुमावली ।। ६.५ ।।

मुख्यस्तावदयं न्यायो यत्स्वशक्त्या प्रवर्तते ।
अन्यसारस्वता नाम सन्त्यन्योक्तानुवादिनः ।। ६.६ ।।

प्रतीतिरर्थेषु यतस्तं शब्दं ब्रुवतेऽपरे ।
धूमभासोरपि प्राप्ता शब्दताग्न्यनुमां प्रति ।। ६.७ ।।

नन्वकारादिवर्णानां समुदायोऽभिधेयवान् ।
अर्थप्रतीतये गीतः शब्द इत्यभिधीयते ।। ६.८ ।।

प्रत्येकमसमर्थानां समुदायोऽर्थवान्कथम् ।
वर्णानां क्रमवृत्तित्वान्न्याया नापि च संहतिः ।। ६.९ ।।

न चापि समुदायिभ्यः समुदायोऽतिरिच्यते ।
दारुभित्तिभुवोऽतीत्य किमन्यत्सद्म कल्प्यते ।। ६.१० ।।

तस्मात्कूटस्थ इत्येषा शाब्दी वः कल्पना वृथा ।
प्रत्यक्षमनुमानं वा यत्र तत्परमार्थतः ।। ६.११ ।।

शपथैरपि चादेयं वचो न स्फोटवादिनाम् ।
नमःकुसुममस्तीति श्रद्दध्यात्कः सचेतनः ।। ६.१२ ।।

इत्यन्त ईदृशा वर्णा ईदृगर्थाभिधायिनः ।
व्यवहाराय लोकस्य प्रागित्थं समयः कृतः ।। ६.१३ ।।

स कूटस्थोऽनपायी च नादादन्यश्च कथ्यते ।
मन्दाः साङ्केतिकानर्थान्मन्यन्ते पारमार्थिकान् ।। ६.१४ ।।

विनश्वरोऽस्तु नित्यो वा सम्बन्धोऽर्थेन वा सता ।
नमोऽस्तु तेभ्यो विद्वद्भ्यः प्रमाणं येऽस्य निश्चितौ ।। ६.१५ ।।

अन्यापोहेन शब्दोऽर्थं आहेत्यन्ये प्रचक्षते ।
अन्यापोहश्च नामान्य- पदार्थापाकृतिः किल ।। ६.१६ ।।

यदि गौरित्ययं शब्दः कृतार्थोऽन्यनिराकृतौ ।
जनको गवि गोबुद्धेर्मृग्यतामपरो ध्वनिः ।। ६.१७ ।।

अर्थज्ञानफलाः शब्दा न चैकस्य फलद्वयम् ।
अपवादविधिज्ञाने फले चैकस्य वः कथम् ।। ६.१८ ।।

पुरा गौरिति विज्ञानं गोशब्दश्रवणाद्भवेत् ।
येनागोप्रतिषेधाय प्रवृत्तो गौरिति ध्वनिः ।। ६.१९ ।।

वर्णभेदादिदं भिन्नं वर्णाः स्वांशविकल्पतः ।
के शब्दाः किं च तद्वाच्यं इत्यहो वर्त्म दुस्तरम् ।। ६.२० ।।

द्रव्यक्रियाजातिगुण- भेदात्ते च चतुर्विधाः ।
यदृच्छाशब्दमप्यन्ये डित्थादिं प्रतिजानते ।। ६.२१ ।।

नानाभाषाविषयिणां अपर्यन्तार्थवर्तिनाम् ।
इयत्ता केन वामीषां विशेषादवधार्यते ।। ६.२२ ।।

वक्रवाचां कवीनां ये प्रयोगं प्रति साधवः ।
प्रयोक्तुं ये न युक्ताश्च तद्विवेकोऽयमुच्यते ।। ६.२३ ।।

नाप्रयुक्तं प्रयुञ्जीत चेतःसम्मोहकारिणम् ।
तुल्यार्थत्वेऽपि हि ब्रूयात्को हन्तिं गतिवाचिनम् ।। ६.२४ ।।

श्रौत्रादिं न तु दुर्बोधं न दुष्टादिमपेशलम् ।
ग्राम्यं न पिण्डीशूरादिं न डित्थादिमपार्थकम् ।। ६.२५ ।।

नाप्रतीतान्यथार्थत्वं धात्वनेकार्थतावशात् ।
न लेशज्ञापकाकृष्टं स हन्ति ध्याति वा यथा ।। ६.२६ ।।

न शिष्टैरुक्तमित्येव न तन्त्रान्तरसाधितम् ।
छन्दोवदिति चोत्सर्गान्न चापि च्छान्दसं वदेत् ।। ६.२७ ।।

क्रमागतं श्रुतिसुखं शब्दमर्थ्यमुदीरयेत् ।
अतिशेते ह्यलंकारं अन्यं व्यञ्जनचारुता ।। ६.२८ ।।

सिद्धो यश्चोपसंख्यानादिष्ट्या यश्चोपपादितः ।
तमाद्रियेत प्रायेण न तु योगविभागजम् ।। ६.२९ ।।

इयं चन्द्रमुखी कन्या प्रकृत्यैव मनोहरा ।
अस्यां सुवर्णालंकारः पुष्णाति नितरां श्रियम् ।। ६.३० ।।

वृद्धिपक्षं प्रयुञ्जीत संक्रमेऽपि मृजेर्यथा ।
मार्जन्त्यधररागं ते पतन्तो बाष्पबिन्दवः ।। ६.३१ ।।

सरूपशेषं तु पुमान्स्त्रिया यत्र च शिष्यते ।
यथाह वरुणाविन्द्रौ भवौ शर्वौ मृडाविति ।। ६.३२ ।।

यथा पटयतीत्यादि णिच्प्रातिपदिकात्ततः ।
णाविष्ठवदितीष्ट्या च तथा क्रशयतीत्यपि ।। ६.३३ ।।

प्रयुञ्जीताव्ययीभावं अदन्तं नाप्यपञ्चमी ।
तृतीयासप्तमीपक्षे नालुग्विषयमानयेत् ।। ६.३४ ।।

तिष्ठद्गुप्रभृतौ वाच्यौ नक्तंदिवसगोचरौ ।
यथा विद्वानधीतेऽसौ तिष्ठद्गु च वहद्गु च ।। ६.३५ ।।

शिष्टप्रयोगमात्रेण न्यासकारमतेन वा ।
तृचा समस्तषष्ठीकं न कथंचिदुदाहरेत् ।। ६.३६ ।।

सूत्रज्ञापकमात्रेण वृत्रहन्ता यथोदितः ।
अकेन च न कुर्वीत वृत्तिं तद्गमको यथा ।। ६.३७ ।।

पञ्चराजीति च यथा प्रयुञ्जीत द्विगुं स्त्रियाम् ।
नपुंसकं तत्पुरुषं पुरुहूतसभं यथा ।। ६.३८ ।।

सर्वेभ्यश्च भृशादिभ्यो वदेल्लुप्तहलं यथा ।
प्रियोन्मनायते सा ते किं शठाभिमनायसे ।। ६.३९ ।।

तृतीयैकवचः षष्ठ्यां आमन्तं च वदेत्क्विपि ।
यथोदितं बलभिदा सुरुचां विद्युतामिव ।। ६.४० ।।

असन्तमपि यद्वाक्यं तत्तथैव प्रयोजयेत् ।
यथोच्यतेऽम्भसा भासा यशसामम्भसामिति ।। ६.४१ ।।

पुंसि स्त्रियां च क्वस्वन्तं इच्छन्त्यच्छान्दसं किल ।
उपेयुषामपि दिवं यथा न व्येति चारुता ।। ६.४२ ।।

इभकुम्भनिभे बाला दधुषी कञ्चुकं स्तने ।
रतिखेदपरिश्रान्ता जहार हृदयं नृणाम् ।। ६.४३ ।।

शबलादिभ्योऽतितरां भाति णिज्विहितो यथा ।
बलाकाः पश्य सुश्रेणि घनाञ्छबलयन्त्यमूः ।। ६.४४ ।।

शिशिरासारकणिका- सदृशः सेतुगन्धवाट् ।
त्वां वीजयति सुश्रेणि रतिखेदालसेक्षणाम् ।। ६.४५ ।।

एवं णिचः प्रयोगस्तु सर्वत्रालंकृतिः परा ।
लिङ्गत्रयोपपन्नं च ताच्छील्यविषयं णिनिम् ।। ६.४६ ।।

तस्य हारी स्तनाभोगो वदनं हारि सुन्दरम् ।
हारिणी तनुरत्यन्तं कियन्न हरते मनः ।। ६.४७ ।।

ताच्छील्यादिषु चेष्यन्ते सर्व एव तृनादयः ।
विशेषेण च तत्रेष्टा युच्कुरज्वरजिष्णुचः ।। ६.४८ ।।

क्तिन्नन्तं च प्रयुञ्जीत संगतिः संहतिर्यथा ।
शाकारौ जागुरिष्टौ च जागर्या जागरा यथा ।। ६.४९ ।।

उपासनेति च युचं नित्यमासेः प्रयोजयेत् ।
ल्युटं च कर्तृविषयं देवनो रमणो यथा ।। ६.५० ।।

अणन्तादपि ङीबिष्टो लक्ष्मीः पौरन्दरी यथा ।
अञ्महारजनाल्लाक्षा- रोचनाभ्यां तथा च ठक् ।। ६.५१ ।।

ड्मतुबिष्टं च कुमुदाद्यथेयं भूः कुमुद्वती ।
ठक्चापि तेन जयतीत्याक्षिकः शास्त्रिको यथा ।। ६.५२ ।।

हितप्रकरणे णं च सर्वशब्दात्प्रयुञ्जते ।
ततश्छमिष्ट्या च यथा सार्वः सर्वीय इत्यपि ।। ६.५३ ।।

वदेदिमनिजन्तं च पटिमा लघिमा यथा ।
विशेषेणेयसुन्निष्टो ज्यायानाप कनीयसीम् ।। ६.५४ ।।

द्वयसज्दघ्नचाविष्टौ प्रमाणविषयौ यथा ।
जानुदघ्नी सरिन्नारी- नितम्बद्वयसं सरः ।। ६.५५ ।।

मतुप्प्रकरणे ज्योत्स्ना- तमिस्राशृङ्गिणादयः ।
इनच्च फलबर्हाभ्यां फलिनो बर्हिणो यथा ।। ६.५६ ।।

इनिः प्रयुक्तः प्रायेण तथा ठंश्च मनीषिभिः ।
तत्रापि मेखालामाला- मायानां सुतरां मतौ ।। ६.५७ ।।

अभ्यस्ताज्झेरदादेशे दधतीत्यादयोऽपि च ।
रोदिति स्वपितीत्यादि सहेटा सार्वधातुकम् ।। ६.५८ ।।

अभ्यस्तेषु प्रयोक्तव्यं अदन्तं घुभृञोः शतुः ।
असौ दधदलंकारं स्रजं बिभ्रच्च शोभते ।। ६.५९ ।।

[न तवर्गं शकारेण क्वचित्सं]योगिनं वदेत् ।
यथैतच्छ्याममाभाति वनं वनजलोचने ।। ६.६० ।।

नैकत्रैकारभूयस्तं गतो यातो हतो यथा ।
सावर्ण्यवज्झयो हस्य ब्रूयान्नान्यत्र पद्धतेः ।। ६.६१ ।।

सालातुरीयमतमेतदनुक्रमेण को वक्ष्यतीति विरतोऽहमतो विचारात् ।
शब्दार्णवस्य यदि कश्चिदुपैति पारं भीमाम्भसश्च जलधेरिति विस्मयोऽसौ ।। ६.६२ ।।

विद्यानां सततमपाश्रयोऽपरासां तासूक्तान्न च विरुणद्धि कांश्चिदर्थान् ।
श्रद्धेयं जगति मतं हि पाणिनीयं माध्यस्थ्याद्भवति न कस्यचित्प्रमाणम् ।। ६.६३ ।।

अवलोक्य मतानि सत्कवीनां अवगम्य स्वधिया च काव्यलक्ष्म ।
सुजनावमयाय भामहेन ग्रथितं रक्रिलगोमिसूनुनेदम् ।। ६.६४ ।।

इति श्रीभामहालङ्कारे षष्ठः परिच्छेदः
षष्ट्या शरीरं निर्णीतं शतषष्ट्या त्वलङ्कृतिः ।
पञ्चाशता दोषदृष्टिः सप्तत्या न्यायनिर्णयः ।। ६.६५ ।।

षष्ट्या शब्दस्य शुद्धिः स्यादित्येवम् वस्तुपञ्चकम् ।
उक्तं षड्भिः परिच्छेदैर्भामहेन क्रमेण वः ।। ६.६६ ।।