काव्यालङ्कारः/चतुर्थपरिच्छेदः

विकिस्रोतः तः
Jump to navigation Jump to search
← तृतोयः परिच्छदः काव्यालङ्कारः
चतुर्थ परिच्छदः
भामहः
पंचम परिच्छदः →

अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् ।
शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धि च ।। ४.१ ।।

देशकालकलालोक- न्यायागमविरोधि च ।
प्रतिज्ञाहेतुदृष्टान्त- हीनं दुष्टं च नेष्यते ।। ४.२ ।।

अपार्थमित्यपेतार्थं स चार्थः पदवाक्ययोः ।
अर्थवान्वर्णसंघातः सुप्तिङन्तं पदं पुनः ।। ४.३ ।।

पदानामेव संघातः सापेक्षाणां परस्परम् ।
निराकाङ्क्षं च तद्वाक्यं एकवस्तुनिबन्धनम् ।। ४.४ ।।

क्रमवृत्तिषु वर्णेषु संघातादि न युज्यते ।
बुद्धौ तु सम्भवत्येतदन्यत्वेऽपि प्रतिक्षणम् ।। ४.५ ।।

धीरन्त्यशब्दविषया वृत्तवर्णाहितस्मृतिः ।
वाक्यमित्याहुरपरे न शब्दाः क्षणनश्वराः ।। ४.६ ।।

अत्रापि बहु वक्तव्यं जायते तत्तु नोदितम् ।
गुरुभिः किं विवादेन यथाप्रकृतमुच्यते ।। ४.७ ।।

समुदायार्थशून्यं यत्तदपार्थकमिष्यते ।
दाडिमानि दशापूपाः षडित्यादि यथोदितम् ।। ४.८ ।।

विरुद्धार्थं मतं व्यर्थं विरुद्धं तूपदिश्यते ।
पूर्वापरार्थव्याघातात्विपर्ययकरं यथा ।। ४.९ ।।

सखि मानं प्रिये धेहि लघुतामस्य मा गमः ।
भर्तुश्छन्दानुवर्त्तिन्यः प्रेम घ्नन्ति न हि स्त्रियः ।। ४.१० ।।

उपासितगुरुत्वात्त्वं विजितेन्द्रयशत्रुषु ।
श्रेयसो विनयाधानं अधुनातिष्ठ केवलम् ।। ४.११ ।।

यदभिन्नार्थमन्योन्यं तदेकार्थं प्रचक्षते ।
पुनरुक्तमिदं प्राहुरन्ये शब्दार्थभेदतः ।। ४.१२ ।।

न शब्दपुनरुक्तं तु स्थौल्यादत्रोपवर्ण्यते ।
कथमाक्षिप्तचित्तः सन्नुक्तमेवाभिधास्यते ।। ४.१३ ।।

भयशोकाभ्यसूयासु हर्षविस्मययोरपि ।
यथाह गच्छ गच्छेति पुनरुक्तं न तद्विदुः ।। ४.१४ ।।

अत्रार्थपुनरुक्तं यत्तदेवैकार्थमिष्यते ।
उक्तस्य पुनराख्याने कार्यासम्भवतो यथा ।। ४.१५ ।।

तामुत्कमनसं नूनं करोति ध्वनिरम्भसाम् ।
सौधेषु घनमुक्तानां प्रणालीमुखपातिनाम् ।। ४.१६ ।।

श्रुतेः सामान्यधर्माणां विशेषस्यानुदाहृतेः ।
अप्रतिष्ठं यदत्रेति तज्ज्ञानं संशयं विदुः ।। ४.१७ ।।

ससंशयमिति प्राहुस्ततस्तज्जननं वचः ।
इष्टं निश्चितये वाक्यं न दोलायेत तद्यथा ।। ४.१८ ।।

व्यालवन्तो दुरारोहा रत्नवन्तः फलान्विताः ।
विषमा भूभृतस्तेभ्यो भयमाशु प्रमादिनाम् ।। ४.१९ ।।

यथोपदेशं क्रमशो निर्देशोऽत्र क्रमो मतः ।
तदपेतं विपर्यासादित्याख्यातमपक्रमम् ।। ४.२० ।।

विदधानौ किरीटेन्दू श्यामाभ्रहिमसच्छवी ।
रथाङ्गशूले बिभ्राणौ पातां वः शम्भुशार्ङ्गिणौ ।। ४.२१ ।।

सूत्रकृत्पादकारेष्ट- प्रयोगाद्योऽन्यथा भवेत् ।
तमाप्तश्रावकासिद्धेः शब्दहीनं विदुर्यथा ।। ४.२२ ।।

स्फुरत्तडिद्वलयिनो वितताम्भोगरीयसः ।
तेजस्तिरयतः सौरं घनान्पश्य दिवोऽभितः ।। ४.२३ ।।

यतिश्छन्दोऽधिरूढानां शब्दानां या विचारणा ।
तदपेतं यतिभ्रष्टं इति निर्दिश्यते यथा ।। ४.२४ ।।

विद्युत्वन्तस्तमालासितवपुष इमे वारिवाहा ध्वनन्ति ।। ४.२५* ।।*
गुरोर्लघोश्च वर्णस्य योऽस्थाने रचनाविधिः ।
तन्न्यूनाधिकता वापि भिन्नवृत्तमिदं यथा ।। ४.२५ ।।

भ्रमति भ्रमरमाला काननेषून्मदासौ ।*
विरहितरमणीकोऽर्हस्यद्य गन्तुम् ।। ४.२६ ।।*
कान्ते इन्दुशिरोरत्ने आदधाने उदंशुनी ।
पातां वः शम्भुशर्वाण्याविति प्राहुर्विसन्ध्यदः ।। ४.२७ ।।

या देशे द्रव्यसम्भूतिरपि वा नोपदिश्यते ।
तत्तद्विरोधि विज्ञेयं स्वभावात्तद्यथोच्यते ।। ४.२८ ।।

मलये कन्दरोपान्त- रूढकालागुरुद्रुमे ।
सुगन्धिकुसुमानम्रा राजन्ते देवदारवः ।। ४.२९ ।।

षण्णामृतूनां भेदेन कालः षोढेव भिद्यते ।
तद्विरोधकृदित्याहुर्विपर्यासादिदं यथा ।। ४.३० ।।

उदूढशिशिरासारान्प्रावृषेण्यान्नभस्वतः ।
फुल्लाः सुरभयन्तीमे चूताः काननशोभिनः ।। ४.३१ ।।

कला सङ्कलना प्रज्ञा शिल्पान्यस्याश्च गोचरः ।
विपर्यस्तं तथैवाहुस्तद्विरोधकरं यथा ।। ४.३२ ।।

ऋषभात्पञ्चमस्तस्मात्सषड्जं धैवतं स्मृतम् ।
अयं हि मध्यमग्रामो मध्यमे पीडितर्षभः ।। ४.३३ ।।

इति साधारितं मोहादन्यथैवावगच्छति ।
अन्यस्वपि कलास्वेवं अभिधेया विरोधिता ।। ४.३४ ।।

स्थास्नुजङ्गमभेदेन लोकं तत्त्वविदो विदुः ।
स च तद्व्यवहारोऽत्र तद्विरोधकरं यथा ।। ४.३५ ।।

तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः ।
प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी ।। ४.३६ ।।

धावतां सैन्यवाहानां फेनवारि मुखाच्च्युतम् ।
चकार जानुदध्नापान्प्रतिदिङ्मुखमध्वनः ।। ४.३७ ।।

न्यायः शास्त्रं त्रिवर्गोक्तिर्दण्डनीतिं च तां विदुः ।
अतो न्यायविरोधीष्टं अपेतं यत्तया यथा ।। ४.३८ ।।

विजिगीषुमुपन्यस्य वत्सेशं वृद्धदर्शनम् ।
तस्यैव कृतिनः पश्चादभ्यधाच्चारशून्यताम् ।। ४.३९ ।।

अन्तर्योधशताकीर्णं सालङ्कायननेतृकम् ।
तथाविधं गजच्छद्म नाज्ञासीत्स स्वभूगतम् ।। ४.४० ।।

यदि वोपेक्षितं तस्य सचिवैः स्वार्थसिद्धये ।
अहो नु मन्दिमा तेषां भक्तिर्वा नास्ति भर्तरि ।। ४.४१ ।।

शरा दृढधनुर्मुक्ता मन्युमद्भिररातिभिः ।
मर्माणि परिहृत्यास्य पतिष्यन्तीति कानुमा ।। ४.४२ ।।

हतोऽनेन मम भ्राता मम पुत्रः पिता मम ।
मातुलो भागिनेयश्च रुषा संरब्धचेतसः ।। ४.४३ ।।

अस्यन्तो विविधान्याजावायुधान्यपराधिनम् ।
एकाकिनमरण्यान्यां न हन्युर्बहवः कथम् ।। ४.४४ ।।

नमोऽस्तु तेभ्यो विद्वद्भ्यो येऽभिप्रायं कवेरिमम् ।
शास्त्रलोकावपास्यैवं नयन्ति नयवेदिनः ।। ४.४५ ।।

सचेतसो वनेभस्य चर्मणा निर्मितस्य च ।
विशेषं वेद बालोऽपि कष्टं किं नु कथं नु तत् ।। ४.४६ ।।

आगमो धर्मशास्त्राणि लोकसीमा च तत्कृता ।
तद्विरोधि तदाचार- व्यतिक्रमणतो यथा ।। ४.४७ ।।

भूभृतां पीतसोमानां न्याय्ये वर्त्मनि तिष्ठताम् ।
अलंकरिष्णुना वंशं गुरौ सति जिगीषुणा ।। ४.४८ ।।

अभार्योढेन संस्कारं अन्तरेण द्विजन्मना ।
नरवाहनदत्तेन वेश्यावान्निशि पीडितः ।। ४.४९ ।।

न दूषणायामुदाहृतो विधिर्न चाभिमानेन किमु प्रतीतये ।
कृतात्मनां तत्त्वदृशां च मादृशो जनोऽभिसन्धिं क इवावभोत्स्यते ।। ४.५० ।।


इति भामहालङ्कारे चतुर्थः परिच्छेदः