कालोत्तरम्
| कालोत्तरम् [[लेखकः :|]] |
ओं नमः शिवाय ।।
शिवादिस्थापने यागे दीक्षायां च विशेषतः ।
सर्वेषामपि वर्णानामनुग्रहकरः परः ।।
लक्षकोटितस्राणिविंशतिरर्वुदानि च ।
कोटिखर्वाब्दवृन्दं च मंत्रा ईशाद् विनिर्गताः ।।
द्वासप्तति सहस्राणि कोटिलक्षं तथार्बुदम् ।
अयुतानि च पंचाशन्मंत्रावक्त्रांद्विनिःसृताः ।।
त्रिंशत्कोटिसहस्राणि सप्ताष्टकशतानि च ।
नियुतानि च षड्त्रिंशन्मंत्रारुद्राद् विनिर्गताः ।।
नवकोटिसहस्राणि पंचाशीत्ययुतानि च ।
कोटिशतानि पंचाशन् मंत्रा वामाद् विनिःसृताः ।।
सप्तकोटिसहस्राणि सप्तत्रिंशच्छतानि च ।
शतं सहस्रलक्षं च सद्योजाताद् विनिर्गताः ।।
पंचवक्त्रोद्भवैर्मैन्त्रैः शिवोक्तैः सिद्धिमुक्तिदैः ।।
सद्वक्त्रागादि संस्थाप्यं नान्यैर्वेदादि चोदितैः ।।
ईशं वक्त्रं तथाघोरं गुह्यं वा जातसंज्ञकम् ।
पञ्चवक्त्राणि देवस्य पञ्चाङ्गमधिसूक्तये ।।
कामिहं योगर्जचिन्त्यं कारणं वाजितं तथा ।
दीप्तं सूक्ष्मं च स्रहस्रंमंशुमन् सुप्रभं दश ।
शिवभेदा समाख्याता रुद्रभेदस्ततः परम् ।।
विजयं पारमेश्वर्यनिःश्वासोद्गीतसंज्ञकम् ।
प्रोद्गीतं मुखबिम्बं तु सिद्धं सन्तानमेव च ।।
नृसिंहं चंद्रहासं च वीरं स्वायंभु रौरवम् ।
माकोटं किरिणं चैव त्वस्वितं वीरसं परम् ।।
रुद्रभेदाः समाख्याता दशाष्टदशयोर्द्धूगाः ।
हरं हुंकारकं चैव बिंदुसारं कलामृतम् ।।
देवत्रासं च सूयासं सावरं कालसावरम् ।
पक्षिराजं शिखायोगं शिखासारं शिखामृतम् ।।
१ब्) पञ्चभूतविभागं च शून्यभेदं विनिर्णयम् ।
नीलकण्ठं च कालागं कालकूटं पटदुमम् ।।
कम्बोजं कंवलं कंकं कालतुण्डं कटाहकम् ।
सुवर्णरेखं सुग्रीवं त्रोत्तलं त्रोत्तलोत्तरम् ।।
गारुडस्य त्विमे भेदा अष्टाविंशतिरीरिताः ।
स्वच्छन्दभैरयं चण्डं क्रोधमुन्मत्तभैरवम् ।।
असितांगं रुरुं चैव कापालीशं समुच्चयम् ।
अघोरं घोरासं घोरं निस्वासं चारदुर्मुखम् ।।
भीमांसं डामरारावं भीमवेतालवर्द्धकम् ।
उच्छूष्मं वाहिकं बेलं शेखरं पुष्पमद्वयम् ।।
त्रिशिरं चैकपादं तु सिद्धयोगेश्वरीमतम् ।
पञ्चामृत प्रपञ्चं च योगिनीजालसंवरम् ।।
विश्वारिकंठसंकोचं तिलकोषा?नभैरवम् ।
एवं द्वात्रिंशतंत्राणि सोत्तराणि च तद्वयम् ।।
चतुःषष्ठिप्रमारामविरुक्षिंप्त्य? स्योद्भवानि च ।
नयं नयोत्तरं मूकं संमोहं मोहनामृतम् ।।
करपूजाविधानं तु वीणातत्वं तदुत्तरम् ।
जयं च विजयं चैव अजितं चापराजितम् ।।
सिद्धनित्योदयं ज्येष्ठं चिंतामणिमहोदयम् ।
वाग्भवं कुब्जकं चैव कामधेनुकदम्बकम् ।।
आनन्दरुद्र रुद्राक्षं किंकरा किंकरानुगम् ।
अनन्तविजयं सौकं दौर्वासे भीजभेदकम् ।।
वामदं वामदेवोक्तं चतुर्विंशतिभेदगम् ।
हात्वाहत्वं हयंग्रीवं करकोटं कटंकटम् ।।
करोटं मुण्डमालं च कर्कोटं खररामणम् ।
चण्डासिद्वारहुंकारं हाहाकारं शिवारवम् ।।
घोराटहासमुच्छिष्टं घुर्घुरं दुष्टत्रासकम् ।
प्. २अ)
विमलं विकटं चैव सुवरेण महोत्कटम् ।
यमघंटं च भूतांकं विंशद्भेदमजातजम् ।।
इत्येवं शैवसूत्राणां चतुषष्ट्युत्तरंशतम् ।
पुनर्लक्षविभेदेन प्रभिन्नः शास्त्रसंग्रहः ।।
शिषादुदस्ततो देवा देवेभ्यो ऋषयस्तथा ।
ऋषिभ्यो मानुषाः शिष्याः सर्वशास्त्रावतारकाः ।।
कार्तिकेय उवाच ।।
अतिविस्तरयोगेन नाथ ज्ञातुं न शक्यते ।
वाथुलायां महादेव बहुधा संप्रकाशितम् ।।
केवलं मूर्धमार्गस्थमवतारेषु चोदितम् ।
गोपितं दक्षिणं मार्गं वाममार्गं तथैव च ।।
संक्षेपात् तत्त्वसद्भावं यथार्थं मोक्षसाधनम् ।
भूतिप्रदं सिद्धिकरं कथयस्व महेश्वर ।।
ईश्वर उवाच ।।
पृथिव्यापर तथा तेजो वायुराकाशमेव च ।
पञ्चतन्मात्रकं चान्यद् बुद्धिकर्मेन्द्रियात्मकम् ।।
मनोहंकारबुद्धिस्तु गुणाख्यं लयसंज्ञिकम् ।
पुरुषश्च कलाकालो विष्वारागो नियामिका ।।
एतत् कंचुकमित्युक्तं मंत्रस्तारविभेदकम् ।
मायाकंचुकवज्ज्ञेया तुषव च कलादिकम् ।।
शिवेच्छाविधिसंसिद्धा मायेव सहजो मलः ।
पृथिव्यादिप्रधानां तमेकमायात्मकं नयः ।।
द्वितीय मायायोगेन बन्धनं तु निगद्यते ।
योनिश्चैव तथा माया परा संवेदनी तु या ।।
ईश्वरो प्रमदाख्यश्च कुटिला शर्वधारिणी ।
सूक्ष्मप्राकृतजालं तु विघ्नाविघ्नान्तराणि च ।।
तस्मात् सूक्ष्मतरो ग्रन्थिर्पासां सूक्ष्मास्तु कीर्तिताः ।
तत्परस्तु शिवो देवस्तं ज्ञातान्मुच्यते ग्रह ।।
सांतो नियुक्तः षष्ठे च शन्त्यंतं यावदुच्चरेत् ।
प्. २ब्) भुक्तिमुक्तिप्रदो देव एकवीरः शिवो व्ययः ।।
या मुद्रा बलसंज्ञा तु सा देया परमेश्वरे ।
प्रोक्ष्मानाघ तथाभ्यर्च्य आत्मस्थं यावदन्ततः ।।
एकया चैव आहुत्या दीक्षितो भवते नघ ।
व्योमस्थां रसं चा?कृत्या परमामृतसंभवम् ।।
तदाभिषिं? चेधन्मति?मान्मंत्रसिद्धिप्रसिद्धये ।
सूर्याधारेभियिस्तस्तु? आचार्यत्ये नियोजयेत् ।।
आदौ तु प्रथमं यच्च वायव्यैर्वेष्टितं कुरु ।
वायुध्वानात् स योगीन्द्रो वायुरूद्ध्रो? न संशयः ।।
एवं दीर्घैस्तु वह्निस्थं वह्निमंडलवेष्टितम् ।
तदा तु भवते वह्निः साधको वह्निमण्डले ।।
कलशस्य तु विन्यासे वारुणैः संप्रवेष्टितम् ।
वारुणत्वं प्रजायेत शिवं मध्ये नियोजयेत् ।।
अथ मृत्युंजये युक्तः कलैः षोडशभि स्थितम् ।
अष्टपत्रे तु हुंकारं बाह्ये ज्ञेयं द्विनाडिकम् ।।
कंघमध्यगतं देवं शक्तिस्थममृतो भवेत् ।
ह्रस्वा वायुस्वराः प्रोक्ताः दीर्घा वाह्ये?यसंज्ञकाः ।।
उत्क? माहेन्द्रो विजेयो अं अः वारुणमुच्यते ।
वर्गौढ्यै वाययौ प्रोक्तौ वाह्रेयाश्त्रिं? प्रकीर्तिताः ।।
माहेन्द्रा परत्व वाख्याताः शेया ज्ञेयास्तु वारुणाः ।
विद्वेषे काकपक्षास्तु उलूकस्य च संभवात् ।।
वर्णानां च विरोधेन तन्मण्डलनियोजनात् ।
विद्विष्टं कुरुते सर्वं यदि शक्रसमो भवेत् ।।
यस्येत् कंटकैः शीघ्रमस्थिहोमेन फट्कृतम् ।
विसंधटं जलं वह्निं स्तम्भभेदमृतमध्यतः ।।
चन्द्रे चन्द्रामृतं योज्यं कुरुते ह्यविचारतः ।
प्. ३अ)
अथ हंसप्रयोगेन विषमाघ्रायमण्डले ।
रविस्थो रेचकेनासुः संहरेत किमद्भुतम् ।।
कार्तिकेय उवाच ।
किदृशं यजनं देव प्रसादस्य निगद्यताम् ।
तन्मयाचक्ष्व देवेश प्रसादान्मम शूलिनः ।।
ईश्वर उवाच
बीजाख्यात्मासने योज्या पद्यरूपेण संस्थिता ।
कर्णिकायामृतं योज्य ततो देवं न्यसेत् पुनः ।।
सकलादिविभागेन अष्टतत्पादत्व? तयाः ।
महामुद्रान्वितं देवं शरीरे संप्रयोजयेत् ।।
अङ्गानां व्यस्तयोगेन न्यासं विन्यस्य मंत्रवित् ।
एतत् ते यजनं प्रोक्तमग्निकार्यमतः शृणु ।।
प्रोक्षयेदर्च्चयेत् कुण्डं वचं वा चतुरश्रकम् ।
सकलेन हुतयः पंच अनलस्य प्रसिद्धये ।।
होमयेदर्च्चयेद् देवं दीक्षामेकाक्षरीं पराम् ।
विषुवेन तु योगेन योजयेत् परमे शिवे ।।
ब्रह्महत्यादिभिर्दोषैर्न कदाचिद् विभेतिसु ।
सत्यं सत्यं महासेन मुक्तो सौ जन्मबन्धनात् ।।
प्रयोगेन तु सूक्ष्मेण गुरुवक्त्रागतेन तु ।
शिवशक्तिनिपातेन मोचको भवते ग्रह ।।
न स्नानं मलशंका वा न क्वचिद् विचिकित्सितम् ।
मुक्त एव हि युक्तात्मामस्मतत्यं हृदि स्थितम् ।।
ज्ञानानि क्रमजातानि भिन्नेन्द्रियकृतानि तु ।
एकवेदकवेद्यानि इति मे निश्चितं मनः ।।
अंतरा?धिष्ठिता वृत्तिरक्षाणां तु स्वगोचरे ।
द्योतयन्त्री प्रमाणं स्यात् प्रत्यक्षं दोषवर्जितम् ।।
अथ नादात्मकं रूपं जपेन्मंत्री समाहितः ।
तन्मनां मत् पुरो भूत्वा नादे तद्गतचेतसः ।।
षड्मासा सिद्धिमाप्नोति दिव्यरूपां ह्यनिंदिताम् ।
प्. ३ब्)
नादमध्यगतं देवं विचिंत्य दिव्यसाधने ।।
व्योममध्यगतं दिव्यं पश्येद् व्योमसु * ल * ।
व्योमवद् भवते मुर्ध्नी शिवतत्वप्रभावतः ।।
यस्य यस्य तु देवस्य आदिमं तु यदक्षरम् ।
दशधा भेदितं कृत्वा शिवं तस्योपरि स्थितम् ।।
स देवो भवते वश्यो वत्सरान्नात्र संशयः ।
काषामकारपर्यन्ताः पञ्चविंशात्मके पथि ।।
प्रधानान्ते भवेत् सर्वं साधकस्य वशे स्थितम् ।
याद्यावकारपर्यन्ता भूतानां चैव साधने ।।
शाध्यहकारपर्यन्ताः पातालतत्वसाधने ।
श्मशाने भष्मसंगृह्य कृष्णायां तु चतुर्दशीं ।।
एचा?वष्टशतं जप्त्वा श्मशाने त्वु भयावहे ।
ग्रामस्य नगरस्यापि मध्ये स्थित्वा सुयन्त्रितः ।।
महायोगीशमार्गेण प्रक्षिपेत् तन्तु सर्वतः ।
निष्क्रमन्ति हि योगिन्यो भैरवस्य प्रभावतः ।।
यस्योपरि तवेच्चित्तं षोडशेन तु भूषितम् ।
चित्तं कृत्वा ग्रसेत् तत्र अधरं भावसंयुतम् ।।
यो ह्य तेन प्रयोगेन न मृत्युवसगो भवेत् ।
एकखण्डकपालं तु पुरुषस्य यथा भवेत् ।।
गृहीत्वा तु जपेत् तस्मिन् प्रसादं भैरवात्मकम् ।
षण्मासादुत्पतेद् वत्स तस्य योगप्रभावतः ।।
रात्रौ पर्यटनं कार्यं पटहिकां हनेत् त वै ।
चतुष्पथे नदीतीरे देवस्या पतते शुभे ।।
हाहाकारं तु कर्तव्यं तत्र वै देवतान्वितम् ।
दर्शनं तु भवेद् वत्स नात्र कार्य विचारणा ।।
मद्यं मांसं तिलां कृष्णां तत्यूक्तां होमये नले ।
श्मशानारन्ये तु वत्सेश आहृष्टि परमोत्तमाः ।।
अथवा तुंबुरुं देवं चतुर्वक्त्रधरं ग्ररूम् ।
प्. ४अ)
अष्टबाहुं महावीरं चतुर्भिर्योगिनिर्वृतम् ।।
मातृकासनसंस्थं तु षोडशेन तु येष्टितम् ।
मध्ये प्रसादविन्यस्तं यजेत् तन्मातृमण्डले ।।
ंंंंंंंंंं
सिध्यते मासमात्रेण यदि तत्वपरो भवेत् ।
ब्रह्माण्यायास्तु योगिन्यो योगीशान्तगणान्विता ।।
प्रसादे स्वरविन्यस्ते सिद्ध्यंते दिवि देवताः ।
भूतप्रेतपिशाचानां राक्षसानां च साधने ।।
एम ते कथितो न्यासो वाथुलायां न संशयः ।
जानपंचादशिका वत्स न देया यस्य कस्यचित् ।।
वाथुलायां महासेन सद्भावं परमं महत् ।
शियस्यानादिरूपस्य उपायो नास्त्यतः परम् ।।
सर्वतत्वप्रयोगेन मन्त्रयोगेन सुव्रत ।
कथितं तव वत्सेश संप्रदायं परं महत् ।।
ये यत्र संस्थिताः सत्वास्तेषां मंत्र शिवो नघ ।
चिन्तामणिसमप्रख्यो ज्ञातव्यां नास्त्यतः परः ।।
एयं ज्ञात्वा महासेन मुच्यते ह्यविचारतः ।
संप्रदायं मया तुभ्यं पुत्रस्नेहात् प्रकाशितम् ।।
सत्यं सत्यं पुनः सत्यं कथितं तव सुव्रत ।
इति कालोत्तरे ज्ञानपञ्चासिका समाप्ता ।।
[शतिकम्]
ईश्वर उवाच ।।
अतः परं प्रवक्ष्यमि इमामिष्टिमनुत्तमाम् ।
नाथा कालोत्तरे तन्त्रे दध्नो घृतमिवोद्धृतम् ।।
मधुवच्च यथा पुष्पात् साराणरतरं शुभम् ।
नादाख्यं यत् परं बीजं सर्वभूतेष्ववस्थितम् ।।
तं विदित्वा महासेन देशिकः पाशहा भवेत् ।
अलध्वा पशवस्तेन शिवं यात्यमनामयम् ।।
किमन्यैर्बहुभिर्बीजैश्चित्तव्यासंगकारकैः ।
बीजेनैकेन तत् सर्वं बहूनां प्राप्यते फलम् ।।
प्. ४ब्)
प्रयोगेण तु सूक्ष्मेण योगदृष्टेन मन्त्रवित् ।
मुद्राबीजसमायोगाच्चिन्तयेद् बीजमुत्तमम् ।।
न तीथिर्न च नक्षत्रं नोपवासो विधीयते ।
देवाग्निगुरुभक्ताय मात्सर्य रहिताय च ।।
अनुगृह्णाति तत् तत्वं शिवं यष्ट्वा विधानतः ।
मानसे स्थण्डिले वापि यत्र वा रोचते मनः ।।
द्विःप्रकारं मया प्रोक्तमिदं संस्कारमुत्तमम् ।
स्थण्डिलेनुपशोभार्थमानसे मोक्षदम्परम् ।।
हंसबीजं करे न्यस्य मुद्रां बन्धे द्विचक्षणः ।
योगमुद्रां ततो बद्ध्वा करणेन तु साधकः ।।
हस्ताभ्यां संस्पृशेत् पादौ द्वौ हस्तौ यावन्मस्तकम् ।
एषामुद्रा समाख्याता शिवस्य परमात्मनः ।।
कार्तिकेय उवाच ।
कथयस्व महादेव येन मोक्षो ध्रुवं भवेत् ।
सापेक्षं त्यज देवेश निरपेक्षं कथयस्व मे ।।
येन विज्ञातमात्रेण पशुं मोचयते क्षणात् ।
ईश्वर उवाच ।
शृणु षण्मुख तत्वेन प्रयोगं तु सुदुर्लभम् ।
सकृदुच्चारयेद् बीजं परापरमव स्थितम् ।।
यथात्मनि तथा शिष्ये योजयेत विधानतः ।
पश्चाद्धोमं प्रयुञ्जीत प्रसादेन तु बुद्धिमान् ।।
शतमष्टोत्तरं हुत्वा दद्यात् पूर्णाहुतिं ततः ।
स्थण्डिले तु विधिर्ह्येय मानसे मानसं भवेत् ।।
अज्ञात्वा तु परं तत्वं दीक्षां कुर्वन्ति मानवाः ।
मृधा परिश्रमस्तेषां नैव तत्फलमाप्नुयात् ।।
मार्गत्रयं विदित्वा तु विभागेन विचक्षणः ।
गुरुः सर्वस्य जगतोऽनुगृह्णाति मानवात् ।।
यं यं स्पृशति हस्तेन यं यं पश्यति चक्षुषा ।
प्. ५)
शिवी भवति तत् सर्वं शिवेन्दुकिरणाहतम् ।।
इति कालज्ञाने प्रथमः पटलः ।।
ईश्वर उवाच
अतः परं प्रवक्ष्यामि प्रासादस्य तु लक्षणम् ।
ह्रस्वं दीर्घं प्लुतं चैव लक्षयेन्मन्त्रवित्सदा ।।
ह्रस्वोदहति पापानि दीर्घो मोक्षप्रदो भवेत् ।
आप्यायने प्लुतः प्रोक्तो मूर्द्ध्नि बिंदुसमन्वितः ।।
जपे ध्याने तथा होमे आयतं चिन्तयेद् बुधः ।
शान्तिकर्मणि सर्वेषु वश्याश्चैव * युज्यते ।।
प्रणवादि प्रयुक्तेन नमस्कारान्तयोजितम् ।
कर्मकाले प्रयोक्तव्या अन्यथा सन्ति रूपिणः ।।
सिध्यन्ति सर्वकर्माणि यथेष्टं साधकस्य तु ।
एवं विधिविधानज्ञः सिद्ध्यते नात्र संशयः ।।
इति कालज्ञाने द्वितीयः पटलः ।।
यजनं संप्रवक्ष्यामि यथावदनुपूर्वशः ।
ओंकारं कर्णिकापद्मं धर्मज्ञानादिमेव च ।।
वैराग्यं चैवमैश्वर्यं केसारे शक्तमस्तथा ।
अष्टत्रिंशत्कलोपेतं प्रणवं परिकीर्तितम् ।।
आवाहयेत् तते दिवं प्रणवेन विचक्षणः ।
सान्निध्यं चार्यपाद्यं च स्नानं च प्रणवेन तु ।।
गन्धपुष्पाक्षतं धूपं दीपं च प्रणवेन तु ।
बलिं चैव तु नैवेद्यं हैमं च कटिसूत्रकम् ।।
वस्त्रालङ्कारदानैश्च प्रणवेन प्रदापयेत् ।
प्रणवेन तु सर्वं स्याद् यत् किञ्चिद् विधिचोदितम् ।।
एवं यष्ट्वा विधानेन साधकस्तु समाहितः ।
ब्रह्मघ्नो पि लभेत् सिद्धिं विधिमेतत् समारभेत् ।।
प्रसादं येन बुध्यन्ति न ते बुध्यन्ति शूलिनः ।
ज्ञानमन्त्रेण बीजेन न पुनर्जन्मतां व्रजेत् ।।
इति कालज्ञाने तृतीयः पटलः ।।
प्. ५ब्)
ईश्वर उवाच ।।
अग्निकार्यं प्रवक्ष्यामि तन्मे निगदितः शृणु ।
उलिख्या * * * कुण्डं प्रणवेन विचक्षणः ।।
गर्भाधानादिकं कृत्वा निष्कृतिं चाप्यपश्चिमाम् ।
प्रणवेन सर्व ** न्यविधिचोदितम् ।।
पश्चात् पद्मविधानं तु प्रागुक्तं परिकल्पयेत् ।
य एवं जुहुयान्मन्त्री सदाकालं समाहितः ।।
लभते सर्वकामित्वं शिवलोकं स गच्छति ।
जपहोमेन संयुक्ताः सिद्ध्यन्ते नात्र संशयः ।।
इति कालज्ञानेऽग्निकार्यः पटलश्चतुर्थः ।।
अतः परं महाभूतधारणालक्षणं परम् ।
संप्रवक्ष्यामि ते स्कन्द सर्वकर्मावभासकम् ।।
पार्थिवा वर्णसंयुक्तां परापरविभागशः ।
पञ्चोघ्नातप्रयुक्तां तु पार्थिवीं धारयेत् सदा ।।
मनोपवनसंयुक्तां नगरायतनसंकुलाम् ।
देशान्वितपुरग्रामतोरणासरलसंयुताम् ।।
कठिनामचलां ध्यायेद् वायवग्निभोविवर्जिताम् ।
निम्बोन्नतां समां चैव वत्सिभिः संप्रवेष्टिताम् ।।
सर्वस्तंभप्रयोगेषु पौष्टिकेषु प्रयोजयेत् ।
भूतशुद्धिं च प्रकुरुते दीक्षाकाले सुनिश्चितम् ।।
आगर्जितमहामेघ धारां मुशलवर्षिणीम् ।
प्लावितामरलोकांनां वार्यंवर * खेतलम् ।।
विषानलमहाज्वाल कालपाशां न नाशिनी ।
शान्तिकर्मकरो ह्येषा वारुणार्णवयोजिताम् ।।
कालानल शिखारोपज्वालिताशेषरातलम् ।
निर्दग्धं तोयसंधानं भस्मकूटव्यवस्थितम् ।।
आग्नेयाक्षरभूयिष्ठाधासुग्ममग्निसंज्ञिता ।
नागोद्धारेरिहूत्सादेबाधा विनाशिनी ।।?
प्. ६अ)
प्रचण्डमारुतोद्धूतं विघट्टितदिगंबरम् ।
रजसा चिन्तयेत् सर्वमापूरीतनभस्तलम् ।।
चिंतयेत् स्वभावशून्यं मात्मानन्तव्यवस्थितम् ।
तत्रस्थं भगवन् देवं तत्त्वं सकलनिष्कलम् ।।
वर्षन्तं तमभि ध्यायेदमृतं साधकोत्तमः ।
आपूरितं ततस्तेन आयोगकमलान्तिकम् ।।
तद्योगकमलान्तस्थो आत्मानं लिङ्गरूपिणम् ।
सुसूक्ष्मं यत् परं धाम प्रसादस्य महात्मनः ।।
एमा मृत्युंजयो नामधारणायोगिनां सदा ।।
इति कालज्ञाने पञ्चमः पटलः ।।
ईश्वर उवाच ।।
अतः प्रतिलोमं वक्ष्ये तन्मे निगदतः शृणु ।
अहंकारेण क्षुब्धानां तन्मात्राणां पृथक् पृथक् ।।
खं वायुरग्निरुदकं क्षितिश्चैव हि जायते ।
क्षितेः कठिनधारित्वमपां द्रवत्वसंग्रहः ।।
तेजे तु पचनं प्रोक्तं प्रकाशकरणं परम् ।
अनित्वं व्यूहनं प्रोक्तं तथा चैव तु शोषणम् ।।
व्योम्नि तथावकाशित्वमधिकारित्वमेव च ।
एवं भूताः प्रतिष्ठास्तु एकैकं पञ्चधा युतः ।।
शरीरेष्वपि भिद्यंते प्राणिनो देहसंभवा ।
मेदोमांसंस्तथास्थी नित्य च स्नायूनि चैव हि ।।
पृथिवी पञ्चधा भिन्ना शरीरेषु शरीरिणाम् ।
अहंकाराद् विजायन्ते क्रमेणैकैकशः पुनः ।।
शब्दलक्षणमाकाशं शवं स्पर्श तथानिले ।
शब्दः स्पर्शः स्वरूपं च तेजस्यैते त्रयो गुणाः ।।
शब्द स्पर्शश्च रूपं च रसश्च सलिले गुणाः ।
शब्दस्पर्शश्च रूपं च रसो गन्धश्च पंचमः ।।
गुणैस्तु पञ्चभिर्युक्ता पृथिवी परिपठ्यते ।
प्. ६ब्)
पृथिव्याधारणं कर्षयोधधीनां च रक्षणम् ।।
आष्यायनशरीराणाममृतीकरणं परम् ।
स्वेदशोणितमज्जा च वसा श्लेष्मा तथैव च ।।
सलिलं पञ्चधा भिन्नं शरीरेयु शरीरिणाम् ।
कामः क्रोधश्चतुष्या च क्रुधा तेजश्च पंचमः ।।
अग्निस्तु पञ्चधाभिस्तुः शरीरेयु शरीरिणाम् ।
प्राणो पानः समानश्च दानो व्यान एव च ।।
अनिलं पञ्चधा भिन्नं शरीरेयु शरीरिणाम् ।
सुरसवोवं? नासा च हृदयमुदरं तथा ।।
आकाशं पञ्चधा भिन्नं शरीरेयु शरीरिणाम् ।
एतत् स्थूलशरीर सूक्ष्मं तन्मात्रसम्भवम् ।।
तन्मात्रास्तु इमे ज्ञेया विषयाश्चैव कीर्तिताः ।
जीवयोनिमबुद्धा तु अन्तर्यामी स उच्यते ।।
सर्वभूतप्रदो भूतो जीवः क्षेत्रज्ञ उच्यते ।
स नन्दति सदा क्षेत्रे विषयानन्दलक्षणे ।।
तदावासः स्मृतो यस्मात् तद्भावगुणरञ्जितः ।
छिन्नं? भिन्नंनपिशस्त्रैर्व्याधिभिश्च प्रपीडितं ।।
दुःखेन त्यजते देहं न विरागं कथञ्चन ।
विरागं च पुनर्गच्छेत् ज्ञानशक्त्या प्रचोदितः ।।
दृष्ट्वा देहं जुगुप्से हं महोमायासुमोहितः ।
यो हमस्मिन् मलाकीर्णे रमाभिक्षणधङ्कुरे ।।
नानाव्याधिसमाकीर्णे विषये रागदूषिते ।
मदोन्मादिर्विमुह्यन्ते विषयोरगतस्करैः ।।
कामक्रोधममैस्तापैर्मुहुर्मुहुः सुतापिते ।
अत्यंतक्लेशबहुलेर्जरामृत्युसमाकुले ।।
चिन्ताशोकसुसंपूर्णे अहो देवे च दुःखिते ।
चर्मबन्धे सुदुर्गन्धे शुक्रशोणितसंभवे ।।
विण्मूषरेतःसंकीर्णै कथं नाम रमाम्यहम् ।
प्. ७)
दर्पणेषु यथा द्वाया चित्रे रूपं यथा स्थितम् ।।
अनर्थानिमनो ज्ञानि तद्वदेतच्छरीरकम् ।
एवं विरागमापन्नो ज्ञानसिद्धिं समीहते ।।
ज्ञानसिद्धिर्विमोक्षाय विनयायनयाय च ।
उभयार्थमिदं शास्त्रं कालज्ञानं शिवोद्भवम् ।।
इति कालोत्तरे षष्ठमः पटलः ।।
अतः परं भवेत् प्राणो दशधा संव्यवस्थितः ।
प्राणाद्याः वायवः पंच नायाघ्नाश्च तथैव च ।।
प्राणोपानः समानश्च उदानो व्यान एव च ।
नागः कूर्मोथ कृकरो देवदत्तो धनंजयः ।।
मातृ * * तृजं चैव शरीरं द्विविधं स्मृतम् ।
शुक्रशोणितसंयोगात् षट्कौशिकमुदाहृतम् ।।
रोमकोट्यो भवेत् तिस्रो उर्द्धकोटिस्तथोत्तरा ।
द्वात्रिंशद्दशनां प्रोक्तां नखाविंशत् प्रकीर्तिताः ।।
मांसंपलसहस्रैकं रक्तं पलशतं स्मृतम् ।
पलानि दश मेदस्य त्वचं चैव तु तत्समम् ।।
मज्जा च द्वादशपला महारक्तं पलत्रयम् ।
शुक्रं द्विकुडयं ज्ञेयं पित्तस्य कुडवं स्मृतम् ।।
अर्द्धाटकं च श्लेष्मस्य विण्मूत्रं चाप्रमाणतः ।
वायवः पंच ये प्रोक्ताः शृणु तेषां प्रविस्तरम् ।।
प्राणस्तु प्रथमो वायुर्नवानामपि स प्रभुः ।
प्राणः प्राणमयः प्राणाः विसर्गाः पूरणो प्रति ।।
नित्यमापूरयत्येय प्राणिनामुरसिस्थितः ।
निच्छ्वासोच्छासकासैस्तु प्राणो जीवसमासृतः ।।
प्रयाणं कुरुते यस्मात् तस्मात् प्राणः प्रकीर्तितः ।
अपान यत् पपात्तस्तु आहारमनुज्ञामधः ।।
शुकमूत्रवहो वायुरपानस्तेन कीर्तितः ।
पीतं भक्षितमाघ्रातं रक्तपित्तकफानित्वम् ।।
$$$
प्. ७ब्)
समं नयति पात्रेषु समानो नाममारुतः ।
स्पन्दयत्य धरं वक्रमेत्रमात्रप्रकोपनम् ।।
उद्वेजपतिगात्राणि उदानोनाममारुतः ।
व्यानो विनामयत्संगं व्यानोव्याधिप्रकोपनः ।।
प्रीतिर्विनाशकथितो वार्द्धिक्यं व्यान उच्यते ।
प्राणाघ्ना वयवः प्रोक्ता नागाघ्नाः प्रोच्यतेधुना ।।
उद्गारे नाग इत्युक्तः कूर्मध्वोन्मीलने स्थितः ।
कृकरः क्षुधिते चैव देवदत्तो विजृंभणे ।।
धनञ्जय स्थितो षोषे मृतस्यापि न मुञ्चति ।
वायु वृंदं समाख्यातं समासेन तु षण्मुख ।।
इति कालोत्तरे सप्तमः पटलः ।।
देहचारं प्रवक्ष्यामि अहोरात्रायनाति च ।
संक्रान्तिं विषुवं चैव जनरात्रोधिमासकम् ।।
शक्तिसमरसंज्ञेयं मिडाया दक्षिणायनम् ।
मध्यदेशे यदा ह्यात्मा विषुवन्तं विदुर्बुधाः ।।
चूलितो गच्छते चैव मध्य देशे यदा पुमान् ।
उत्तरे दक्षिणे चापि संक्रान्तिः सा विधीयते ।।
क्षुधिते जनरात्रं तु अधिमासो विजृंभके ।
उर्द्ध्वप्राणो अहश्चैव अपानो रात्रिरेव च ।।
व्यापिनी सर्वभूतानां शक्तिश्चैव निबोधमे ।
तृतीये चैव आयामे द्विपूर्वषष्ठबिन्दुकम् ।।
श्रूयते च यदाशक्तिः श्रुत्वा बुध्वा च मानवः ।
लीयते च शिवे देये भिन्ने देहे शिवं व्रजेत् ।।
न शक्ति रहितामंत्रा दीक्षानुग्रहकारिणः ।
शक्तिहीना न सिद्ध्यन्ति न ते यान्ति परां गतिम् ।।
शिवः सर्वगतो ज्ञेयो नामरूपविवर्जितः ।
चिन्मात्र पुरुषो ज्ञेयः शिवो व्याप्यव्यवस्थितः ।।
प्. ८अ)
भावयेत्समरसत्वेन शिवेन सहसंयुतः ।
एवं समरसोभूत्वा गच्छते शिवमन्ययम् ।।
अथवात्म निरालंबं मूर्ध्निमालम्ब्य यत्नतः ।
यागं योगं जपं ध्यानं सर्वकर्माणि कारयेत् ।।
शिवमाधाय कर्माणि कुर्वन्नपि न लिप्यते ।
योगसिद्धिमवाप्नोति शिवसा युज्यतां व्रजेत् ।।
ज्ञानयोगं मया प्रोक्तं अक्लेशात्सिद्धि मोक्षदम् ।
अपरिक्ष्य न दातव्यमब्दत्नय? निवासिने ।।
ब्राह्मणे वृत्तसंपन्ने क्षत्रिये धर्मशीलिने ।
वैश्ये चैव दयायुक्ते शूद्रे युक्षु?य तत्परे ।।
अन्यथा दुष्टमर्त्यानां निन्दातर्कानुवर्त्तिनाम् ।
न देयं शिवसद्भावमन्यायपथवर्त्तिनाम् ।।
शिवभक्तिविहीनाय गुरुभक्ति विवर्जिते ।
जिज्ञासा कौतुकार्थिभ्यो न देयं तत्वमुत्तमम् ।।
इति कालज्ञानेऽष्टमः पटलः ।।
ईश्वर उवाच ।।
देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः ।
आप्तोय देशगम्योसौ सर्वतः किमपि स्थितः ।।
प्रपंच रहितं शान्तं निगूढं च परंगुह ।
कार्यकारणभावेन सर्वत्रैवव्यवस्थितम् ।।
स एव भगवान्व्यापीतित्वे तैलमिव स्थितम् ।
गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतोमुखम् ।।
स्वयमुच्चरते यस्मात् स्वदेहावस्थित शिवः ।
तस्मात् तत्व विदां पुसां तदेव जयमुच्यते ।।
प्राणस्यांतर्विदित्वा तु तदन्तं द्वादशांगुलम् ।
तत्रान्तस्थं विजानीयात् सर्वव्यापी निरंजनम् ।।
नीयते शक्तिना जीवस्तस्मिन्साप्य निवर्तते ।
प्. ८ब्)
गमागमं विदित्वा तु मुच्यते नात्र संशयः ।।
एवं व्यापी स भगवान् करिष्यति गमागमम् ।
व्यापि त्वाद्गमनं नास्ति तत्रस्थो व्याययेत् प्रभु ।।
हंसहंसेति योयाद्धंसो देवः सदाशिवः ।
मातृमोदकन्यायेन ग्रहितव्यं विचक्षणैः ।।
देवयानस्य पूर्वे तु पितृमानस्य चोत्तरे ।
मध्ये तु सेतु बन्धस्य गत्वाभूयो न जायते ।।
मनोप्य न्यन्ननिक्षिसंदृष्टिरन्यन्नपातिता ।
तथापि योगीनां योगो अव्युच्छिन्नः प्रवर्तते ।।
अविछित्वेन संयुक्तं देयं तं विद्धितत्वतः ।
कथितं तु मयावत्स निःसंदिग्धमविस्तरम् ।।
अतः परतरं नास्ति शिवात्परतरं शिवम् ।
ब्रह्महत्यादिकैः पापैर्न च लिप्यति तत्ववित् ।।
असिद्धो तत्वविच्चैव देहपाते शिवान्तिकम् ।।
इति कालज्ञाने शतिकं समाप्तम् ।।
[कालोत्तरम् सार्द्धशतिकम्]
प्. १अ)
ओं नमः शिवाय ।।
नमस्ते कालबोद्धाय कालान्तर नमोस्तुते ।
कालाधिप नमस्तेस्तु सर्वकालप्रवर्तक ।।
कलशे कालरूपेण कलाभिर्विश्वरूपिणः ।
विश्वेश्वरे नमस्तेस्तु आदि कालप्रवर्तकः ।।
एवं स्तुत्वा महादेवं भक्त्या च परमेश्वरम् ।
विज्ञापयाम्यहं देव प्रसादोभवशूलधृक् ।।
कार्तिकेय उवाच ।।
अष्टभेदं त्वया देव पूर्वं हि कथितं मम ।
सूचनात् सूत्रमात्रेण द्विशते कालसंज्ञिके ।।
निर्णयं तस्य देवेश वक्तुमसि शङ्कर ।
विषुवं तु त्वया प्रोक्तं दीक्षाकाले ह्युपस्थिते ।।
अष्टानां चैव तत्वानां रूपकं च महेश्वर ।
देह न्यास विभागं तु योगविभागं यथा भवेत् ।।
ईश्वर उवाच ।।
सकलं पञ्चवर्णस्थं निष्कलं कुन्द स प्रभम् ।
भावमात्रं स्मृतं शून्यं वर्णातीतं षडानन ।।
कलाष्वं कुंकुमाभासं दिव्यसिद्धिप्रदायकम् ।
ऊर्द्ध्व दिग्गोचरावस्थमभ्यासाद्योगदं स्मृतम् ।।
शुद्धस्फटिकसंकाशं तत्वं तु खमलंकृतम् ।
क्षपसां तु समाख्यातं सिन्दूरारुण स प्रभम् ।।
आकर्षणे सदायोज्यं दिव्यभोगेषु षण्मुखः ।
पुष्करं वर्णसंस्थं तु यद्वत्तोयन्तु दृश्यते ।।
अन्तःस्थं तद्विजानीयात् हृत्पद्मांतर्गतं प्रभुम् ।
यादृशेन तु भावेन कण्ठौष्ठ्यं चिन्त्यते बुधैः ।।
तादृशं तस्य रूपं हि विज्ञेयं कृत्तिका सुत ।
कण्ठौष्ठं सर्वगात्रेषु सकलं हृदि विन्यसेत् ।।
शून्यं मूर्द्धनि संचिन्त्य शिखायां क्ष्पणं तथा ।
नेत्रयो खमलं न्यस्य कला खमल मुत्तमम् ।।
अन्तस्थं वक्त्रमध्ये तु निष्कलं बहिरं ततः ।
प्. १ब्)
चतुर्दश स्वराक्रान्तं षष्ठेन तु समन्वितम् ।।
प्रसादं दीर्घमुच्चार्य यावन्निष्कलतां गतः ।
अनेनैव प्रयोगेण निष्कलं सर्वतो न्यसेत् ।।
अङ्गन्यासं तु पूर्वोक्तं हृदि अस्त्रांतसंयुतम् ।
एवं विन्यस्य विधिवयवजनं योगमेव च ।।
कर्तव्यं देशिकेंद्रेण यथा भवति तच्छृणु ।
यागं तु पूर्ववत्प्रोक्तं दीक्षा च परिनिष्ठिता ।।
योगञ्च विषुवं कृत्वा सा युज्यं तु विधीयते ।
प्रसादं नाद संस्थं तु स्मृत्वा नादान्त गोचरम् ।।
समाने नैव संरुध्य शक्ति युग्मं हि यावतः ।
मध्यतोया स्थितारौद्री तया नादं प्रमुञ्चयेत् ।।
नादान्तावस्थिता शक्तिः शिवाख्या कामरूपिणी ।
चतुर्थी सा परानित्या रौघ्न?तीता महेश्वरी ।।
तस्योर्द्धे तु स्थितो देवः शिवः परमकारणः ।
किञ्चिद्विधृतवक्त्रस्तु शून्याधारे महेश्वरः ।।
संस्मृत्य प्रक्षिपेत्पूर्णां शिष्ये चैव तु देशिकः ।
एवं तु विषुवं ज्ञात्वा मुच्यते पशुबन्धनात् ।।
दीक्षितो विषुवे नापि किं पुनस्तत्व विन्नरः ।
तस्मात् सर्व प्रयत्नेन विषुवस्थः सदा भवेत् ।।
अष्टानां चैव तत्वानां न्यासः सिद्धार्थकारणम् ।
न चात्मयाग योगेन वर्णन्यासविभागशः ।।
आसनं हृदये नैव पूर्ववत्परिकल्पयेत् ।
कूटं तु मध्यतो न्यस्य तत्तत्वं तु शिवात्मकम् ।।
सदाशिवन्तु पूर्वेण आग्नेययामीश्वरं न्यसेत् ।
विघ्ना याम्ये तु संपूज्य मायां नैर्-ऋति गोचरे ।।
कालन्तु वारुणे भागे नियतिं वायवे तथा ।
पुरुषं चोत्तरेपन्ने प्रकृतिमीशगोचरे ।।
प्. २अ)
एवं विन्यस्यविधि * *? नयेत् हृदयेन तु ।
आवाहनादिकं कर्म अनेनैव तु कारयेत् ।।
एवं कृत्वा तु मन्त्रज्ञो यत्तत्वं साधयेन्नरः ।
अष्टानां चैव तत्वानां तत्सिध्यति न संशयः ।।
द्रव्याणां चाप्यलाभेन हृत्पद्मे वा प्रकल्पयेत् ।
प्रकल्पमानसं सर्वं ततो योगं समभ्यसेत् ।।
अष्टानां चैव तत्वानां विकाराननु पूर्वशः ।
जाग्रस्थं सकलं विन्घ्नादंतस्थं स्वप्नमाश्रितम् ।।
सुषुप्ते शून्यमानन्तु तुर्ये तु खमलङ्कृतम् ।
निष्कलं द्वादशोर्धे तु कलाढ्यं विशुवे स्थितम् ।।
क्षपणं दुःखनाशाय कण्ठोष्ठ्यं तत्व धर्मतः ।
शुद्धाशुद्धेषु भावेषु विकारा कुरुते प्रभुः ।।
पिण्डस्थं सकलं विन्द्यान्निष्कलं तु समाश्रितम् ।
द्वादशोर्द्ध स्थितं देवं भवबन्धविभेदकं ।।
उभाभ्यामंतरे तत्वं शून्यं नाम प्रकीर्तितम् ।
भावितव्यं प्रयत्नेन साधकैर्मोक्षकाङ्क्षिभिः ।।
इडापिङ्गलमध्यस्थं सुषुम्णान्तर्व्यवस्थितम् ।
यदा भवति विश्लेषं कलाढ्यं लक्षये तदा ।।
रेचकस्य प्रवृत्तस्य यच्छेषं परिकीर्तितम् ।
तत्रस्थं तद्विजानीयात्तत्वं तु खमलंकृतम् ।।
विजृम्भिका स्वरूपेण हाकारं कुरुते यदा ।
क्षपणं तु समाख्यातं तत्वं विद्धि विमोक्षदम् ।।
रेचकं तु परित्यज्य पूरकं तु यदा भवेत् ।
किञ्चिन्निर्वाणमायातं मन्तस्थं मृत्युनाशनम् ।।
सप्तानां तु समाख्याता ये विकाराः षडानन ।
कण्ठोष्ठस्य तु ते प्रोक्ताः किन्तु उत्क्रांतिकारकाः ।।
प्. २ब्)
पादान्मूर्द्धादिकं यावद्विन्यसं परमेश्वरम् ।
आसनं पद्मकं बध्वा यथा सुखमथापिवा ।।
मूर्द्ध्नि चित्तं समाधाय मनसोच्चाहयेद्वरम् ।
शनैः शनैः समाकृष्य ब्रह्मनाढ्यं व्यवस्थितः ।।
रुद्रशक्त्याग्रतोऽयाभेदात्मनमरूणप्रभम् ।
यावत्तद्घण्टिका मार्ग ततो हिक्कान्तु कारयेत् ।।
संपूर्यप्रक्षिपेत् स्कन्द वायुंश्चोते व्यवस्थितं ।
निष्पीड्योर्द्धं प्रकूर्वीत यावत्ताल्यन्तिकं गतम् ।।
सदाशिवं तु तस्योर्द्ध्वं बिन्दुनादं तत्रोपरि ।
बिन्दुनादं परित्यज्य ततः शक्तिमनुक्रमात् ।।
शक्तिं त्यक्त्वा व्रजेच्छान्तं शिवं परमकारणम् ।
यत्र गत्वा न जायन्ते प्रतिश्य समपुत्रक ।।
इति संक्षेपतः प्रोक्तमुत्क्रान्तिस्तवसुव्रतः ।
स्वशिष्याय प्रदातव्यं भक्तियुक्ताय नित्यशः ।।
शिवाद्गुरुतरी यस्य गुरौभक्तिर्व्यवस्थिता ।
तस्मैरेयमिदं ज्ञानं नान्यस्यै तु कदाचन ।।
कार्तिकेय उवाच ।
अष्टभेदं समाख्यातं त्वया देव महेश्वर ।
अधुनाश्रोतुमिच्छामि संक्रान्तिर्विषुवं तथा ।।
यथा कलयेते देवः कालसंख्या च या स्मृता ।।
ईश्वर उवाच ।
षष्टिसंवत्सराः प्रोक्ता अहोरात्रे सा योगिनाम् ।
शतत्रयप्रमाणानां षष्ठ्याधिकं तु षण्मुखः ।।
साधका घटिका प्रोक्ता तायत् संख्याप्रकीर्तिता ।
एवं संवत्सराः प्रोक्ता बाह्ये तु घटिका तु या ।।
आध्यात्मिकेन चरेण कथितन्तु तथा नघ ।
प्राणो भवेदहोरात्रं द्विस्थं तु विषुवं भवेत् ।।
विषुवन्तु परित्यज्य यदा तु चलते प्रभुः ।
किञ्चिद्विचलिते देवे संक्रान्ति परिपठ्यते ।।
प्. ३अ)
कार्तिकेय उवाच ।।
अघ्नापि भ्रमते देव आस्था हि विषुवं मम ।
यथा विज्ञायते तं च तथा कथयशङ्कर ।।
ईश्वर उवाच ।।
अहोरात्रं तु यत्सत्कीर्तितं हि मया तव ।
एवसंवत्सरः प्रोक्तस्तन्त्रे कालाख्यसंज्ञके ।।
तदेव भाजितं कृत्वा द्वादशांशं तु त्रिंशति ।
षड्भिर्भाज्यं त्रिभिर्हार्यं परापर विकल्पितम् ।।
तत्रस्थः प्रक्षिपेत्पूर्णां मुच्यते ह्यविचारतः ।
एषो हि मुक्तिदः प्रोक्तो लीलयापत्सु मोचने ।।
ये न्येपि विषुवाख्याता मुक्ति सायुज्यदायिन ।
कालेन लक्षयेत्तेपि भेदैरेतैर्ह्यनेकधा ।।
अथ धातु महासेन संक्षेपात्कथयामिते ।
यत्पूर्वं तु मयाख्यातं तदन्तं द्वादशाङ्गुलम् ।।
तस्योपरि महेशानं द्वादशान्ते तु सुव्रत ।
अतीत सर्वभावानां कारणं ह्युपरिस्थितम् ।।
कारणं तु भवेद् बिन्दुर्नादशक्तिलयं तथा ।
लयं तु परमं तत्रन्निरुपाख्यं निरामयम् ।।
तं गत्वा सर्वगं देवं न भूयः प्रतिपठ्यते ।
सर्वभावमयं देवं विश्वेस्मिन्स चराचरे ।।
कलते कालरूपेण विश्वमूर्तिर्महेश्वरः ।
दक्षिणं चोत्तरं ज्ञेयं वामदक्षिणसंज्ञितम् ।।
सौम्य * * प्रभेदेन कालस्तु परिकीर्तितः ।
भास्कर ग्रहणं बाह्ये सौम्यं रात्रौ प्रकीर्तितम् ।।
पूर्वोदितं तु यत्कालं घटिका सा व्यवस्थिता ।
मासस्त्रिंशत्स्मृताः प्राणा योगिनां काल वेदिनाम् ।।
सहस्राण्येक विंशस्तु षड्शतानि तथैव च ।
अहोरात्रेण बाह्ये न प्राणसंख्या प्रकीर्तिता ।।
प्राणसंख्या तु या प्रोक्ता अहोरात्रेणषण्मुख ।
प्. ३ब्)
संवत्सरेण सा ज्ञेया संख्या वै घटिकात्मिका ।।
बाह्ये नैव तु कालेन अध्यात्ममेकतः कुरु ।
बाह्यकालं परित्यज्य अध्यात्मं तु निरूपयेत् ।।
अध्यात्मेन तु सर्वाणि काले नैव समारभेत् ।
विषुवे मुक्ति कामस्य यजनं परिकीर्तितम् ।।
शान्त्यर्थं सोम्यनाद्यायाः प्रवहन्ते महेश्वरे ।
यजनं विहितं स्कन्द अनित्वामभि चारुके ।।
एवं ज्ञात्वा तु मन्त्रज्ञो मुच्यते भवसागरात् ।
सिध्यते चापि मन्त्रज्ञो यदि सिद्धिं समीहते ।।
नान्यथा सिद्धिर्मुक्तिस्याघ्नदि कालं न वेत्तिसः ।
कार्तिकेय उवाच ।।
योगीनेयु यथा विघ्ना न भवन्ति हि तत्वतः ।
कथयस्व यथा न्यायं पूर्वादिभिः क्रमात् ।।
ईश्वर उवाच ।
परमेश्वरस्य देवस्य हंसाख्यस्य महात्मनः ।
ज्ञात्वा तु तस्य सद्भावं ततो योगं समभ्यसेत् ।।
शिवी कृत्वा तु चात्मानं पूर्वमुक्तं यथा मया ।
ततो योगस्य चाभ्यासं कर्तव्यं च न चान्यथा ।।
अस्त्रं पाशुपतं ध्यात्वा ततः कर्मसमारभेत् ।
ओं श्लीं पशूं हूं फट्ऽस्येवं तारकाघ्नन्तु ह्यस्त्रनुत्तमम् ।।
नाम्ना पाशुपतं प्रोक्तं रक्षाहेतोर्व्यवस्थितम् ।
साधने योगसिद्धौ तु विघ्नमुच्चाटनं प्रति ।।
प्रासादशीधनार्थं च भूपरिग्रहणेपिवा ।
रक्षोरगभये चैव देवासुर स गुह्यकैः ।।
रक्षते ह्यस्त्र राजस्तु प्राकारादि नियोजितः ।
स्मरणात्सर्वविघ्नानि विनाशयति अस्त्रराट् ।।
अस्य यागं यथा न्यायं शृणुषण्मुख तत्वतः ।
प्रणवं हृदये न्यस्य श्लींकारं शिरसि तथा ।।
मकारं तु शिखां तस्य शूतद्? वर्मप्रकीर्तितम् ।
प्. ४अ)
अस्त्रहुंकारयुक्तेन फट्कारेणसमन्वितम् ।।
हुंकारेण स्मृतं नेत्रं नेत्रयोः परिकल्पयेत् ।
सकृन्मत्त्रं समुच्चार्य शरीरे विन्यसेद्बुधः ।।
अङ्गानि विन्यसेत्पश्चादोंकादि नमोंतिकम् ।
ततो यागं प्रकुर्वित्त विघ्नोपशमनाय च ।।
ध्यात्वा तु मानसं पद्ममष्टपत्रं स कर्णिकम् ।
अथवा रजसा लेख्यं मण्डलं सार्वकामिकम् ।।
प्रणवासनसमारूढं तस्मिन्मंत्रं विचिन्तयेत् ।
दशबाहुंमहात्मानं दशकर्णमहाबलम् ।।
नेत्रैः पञ्चदशैर्युक्तं स्फुरन्तं दीप्ततेजसम् ।
दंष्ट्रैः करकरायन्तं मुक्तनादं सुदुर्जयम् ।।
शीर्षैः पञ्चभिरत्युग्रं सूर्यकोट्ययुतप्रभम् ।
लेलिहानं दुराधर्षं रूपं तस्य मनुं स्मरेत् ।।
कर्णिकाशिखरस्थं हि पूजयेत् परमेश्वरम् ।
बिन्दुनादनियुक्तेन सर्वकर्माणि कारयेत् ।।
प्रथमं तैजसे पत्रे विन्यसेदक्षरेश्वरम् ।
द्वितीयमीशपत्रे तु नैर्-ऋत्यान्तु तृतीयकम् ।।
चतुर्थं वायवे पत्रे हुं देवस्य तु नेत्रयोः ।
अस्त्रं चैव स फट्कारमैंद्रादिषु व्यवस्थितम् ।।
विन्यसेद्विधिवत्सर्वं ततो ह्येमं समारभेत् ।
न चात्मकस्य चाहुत्यैर्नवभिः संस्कृते नले ।।
घृतमध्वादि युक्तेन दध्ना सह नियोजिते ।
अस्त्रराजस्य चाहुत्या जुहुयादष्टोत्तरंशतम् ।।
यष्ट्वा तु विधिवत् भक्त्या बलिभिर्विविधैस्तथा ।
अकालमूलकलशं संपूर्णमुदकेन तु ।।
शताष्टोत्तरजप्तेन अस्त्रमस्त्रेणसाधकः ।
अभिषिञ्चेतप्रतिमान्ध्यात्वा रूपं तु पूर्ववत् ।।
प्. ४ब्)
एवं कृते प्रणश्यन्ति एतस्य द्विद्रकारकाः ।
विनायकाश्च विविधाये च विघ्ने व्यवस्थिताः ।।
तेषां कुर्यादिदं यागं नश्यन्ते नात्र संशयः ।
आत्मनो वा प्रकुर्वीत उपसर्गे ह्युपस्थिते ।।
उपसर्ग भयं सर्ग? विनाशयति अस्त्रराट् ।
इति सर्वसमाख्यातमस्त्रयागं मया तव ।।
सांप्रतं परमेशस्य शिवस्य परमात्मनः ।
पिण्डे शस्याति गुह्यस्य सर्वमन्त्रमयस्य च ।।
येनोच्चारितमात्रेण सर्वपापैः प्रमुच्यते ।
धर्माधर्मैश्च विविधैर्मुच्यते नात्रसंशयः ।।
अस्य स्मरमात्रेण दीक्षितो भवते क्षणात् ।
प्रयत्नान्मुच्यते मर्त्यो दीक्षितः शिवशासने ।।
अस्य देवस्य माहात्म्यं शृणु षण्मुख तत्वतः ।
जन्मकोटि सहस्राणि जन्मकोटि शतानि च ।।
अनन्तस्त्व प्रमेयस्तु संसारपरिकीर्तितः ।
तस्मिन् संसारमानेन यत्पापं समुपार्जितम् ।।
तत्सर्वं नाशयेद् देव सकृद्दुच्चारितोपि यः ।
तस्योद्धारं प्रवक्षामि तन्मे निगदितः शृणु ।।
हंसंहंससमारूढं स्वतत्वोपरिसंस्थितम् ।
भुजार्द्ध सुस्थिराघ्नेन युक्तं तस्याधो विन्यसेत् ।।
आघ्नं द्वितीय वर्गस्य एकविंशत्तथा पुनः ।
ग्रन्थिस्तस्याधः संयोज्य कालममृतमूर्द्धनि ।।
ग्रन्थ्यधस्तात्समायोज्य द्विपिण्डममृतासनम् ।
शोषक ममृताधस्तातलस्योपरि संस्थितम् ।।
शोषकं शक्तिबीजेन युक्तं कुर्यादधः पुनः ।
उपरिष्टात्समाक्रान्तं बिन्दुनाकारयेच्छिवम् ।।
ओंकारमूर्ध्निसहितं नादान्तं तु विचिन्तयेत् ।
एषते परमं तत्वं सर्वपापनिकृन्तनम् ।।
सर्वतत्वेश्वरं शान्तं व्योमव्यापी परंशिवम् ।
प्. ५अ)
सहस्राक्षरदेवस्य हृदयं परिकीर्तितम् ।।
अनेन सकृद्जप्तेन देव देवेन शम्भुना ।
मन्त्राणां सप्तकोट्यस्तु जप्ता एवं भवन्ति हि ।।
बीजानां परमं बीजं तत्वानां परमं स्मृतम् ।
उत्क्रान्ति साधने चैव सर्वपातकशोधने ।।
योज्यं परं शरीरे तु आचार्यैस्तु हितैषिभिः ।
अङ्गानि चास्य देवस्य शृणु स्कन्द यथाक्रमम् ।।
प्राणाः पुंवह्नि चलनं द्वितीयेन समन्वितम् ।
संपूर्णतिलकाक्रान्तं हृदयं परिकीर्तितम् ।।
एवं मध्यमसंयोगाद्वह्निना च तथा पुनः ।
चलनेन समायुक्ता अङ्गाह्येते क्रमेण तु ।।
चतुर्थेन पुनः षष्ठे द्वादशेन तु भूषितम् ।
द्वात्रिंशकं तु प्रथमं सप्तमस्य द्वितीयकम् ।।
तस्यैव प्रथमं गृह्य अधस्तात्परिकल्पयेत् ।
पूर्वपञ्चमसंयोगात्सविसर्गेण मन्त्रवित् ।।
शिवास्त्रं परमं गुह्यं सर्वकिल्विषनाशनम् ।
सर्वविघ्नहरं नाथं दुर्जयं तत्सुरैरपि ।।
सूर्यकोटि सहस्रैस्तु तेजसा वृत्य तिष्ठति ।
तेजोरूपं दुराधर्षं रक्षाहेतोप्रयोजयेत् ।।
भवबन्धान्यनेकानि स्मरणान्नाशयेत् तु सः ।
अघोरं नाममेवन्तु अस्त्रं भूतभयावहम् ।।
यागे तु प्रणवं योज्य मासनार्थायमन्त्रवित् ।
हामिति परमेशस्य धर्मादिषु नियोजयेत् ।।
वामाघ्नाशक्तृयो यास्तु तेन चैव तु कारयेत् ।
महाशिवं समुच्चार्य पिण्डेशं प्रभुरव्ययम् ।।
नादान्ते शक्तिमार्गेण सुषुण्नां तं स्थितं यदा ।
तदा संस्थापनं कुर्यात् सिद्धिमुक्तिफलार्थिना ।।
आग्नेययां हृदयं न्यस्य शिरश्चैशान दिक्स्थितम् ।
प्. ५ब्)
नै-ऋत्यां तु शिखां न्यस्य कवचं वायु गोचरे ।।
ऐं * * दि विन्यसेत् ह्यस्वं पूजयेत्परमेश्वरम् ।
नित्ययागः स्मृतो ह्येष वैशेषिकमतः शृणु ।।
संस्कारार्थं पशूनां च यदा कुर्वन्ति देशिकाः ।
एक हस्तात् समारभ्य यावद्धस्तानि षोडश ।।
मण्डलं चतुरस्त्रं तु चतुर्द्वारो पशोभितम् ।
मध्ये पद्मं तु विकचं कर्णिका केसरोज्ज्वलम् ।।
तव देवं प्रतिष्ठाप्य हृदयेन महाशिवम् ।
पूर्वोक्त विधिना पूज्य हृदयाघ्नस्त्रसंयुतम् ।।
आग्नेयादिषु पत्रेषु दिग्विदिक्षुक्रमेण तु ।
पूज्ययेत्पत्रमध्ये तु मूलस्थाने व्यवस्थितम् ।।
पवमध्ये तु विघ्नेषाः संपूर्णतिलकान्वितम् ।
शान्तं तु चलत्वारूढमनन्ताघ्ना महौजसाम् ।।
अग्रे तु गणसुरम्याश्च नाडी बीजे व्यवस्थिताः ।
द्वितीयेन समाक्रान्त दिव्यादि षण्मुखावधि ।।
लोकपाला महास्त्रैस्तु इन्द्राघ्नास्तु यथाक्रमम् ।
इन्द्रादि सुरपतयेन प्र *? राघ्नमस्त्रसंयुताम् ।।
कथिता लोकपालाश्च स्वकरायुध पाणयः ।
पूजान्ते च प्रयोक्तव्या मुद्रा ह्येयामतः परम् ।।
वज्रादिका त्रिशूलांता अस्त्रमुद्रा क्रमान्न्यसेत् ।
यो यस्य च स्मृतो ह्यत्र सा तु मुद्रा तदात्मिका ।।
महामुद्रा नमस्कारं विघ्नेषान् गणनायकान् ।
योजयेत्परमां मुद्रा नाम्ना चैव महाशिवम् ।।
शिवस्य मंत्रराजस्य मुद्रालक्षणमुच्यते ।
उत्तानौ तु करौ कृत्वा कन्यसे योज्यमेकतः ।।
अनामिका तथैवेह मध्यमौ ह्यूर्द्ध निसृतौ ।
अङ्गुष्ठौ मध्यमाशक्तौ तर्जन्यौ निःसृता वुभौ ।।
प्. ६अ)
संशक्तावग्रतश्चैव मध्यमा पृष्ठयोजितौ ।
एषा मुद्रा महामुद्रा सर्वबन्धनिकृन्तनी ।।
मातेयं सर्वमुद्राणां मन्त्राणां च महेश्वरी ।
शिवस्य मन्त्रराजस्य पूजा काले नियोजयेत् ।।
विधिसंपूरणी ह्येषा धर्माधर्मविनाशिनी ।
गोपितव्यं प्रयत्नेन प्राणवत्सततं बुधैः ।।
हृदि चालभनं कुर्याच्छिष्यस्या पादमूर्द्धनि ।
शिवहस्तादिकं कर्म षड्भिः पिण्डैर्विधानतः ।।
पिण्डेन हृदयाख्येन सर्वात्मनेन सर्वतः ।
कर्म कुर्याघ्नथा?न्यायं संस्कारार्थ तु देशिकः ।।
पृथिव्यादीनि तत्वानि हृच्छिरः शिखावर्मणि ।
व्योमं महाशिवे नैव शोधयेद्देशिकोत्तमः ।।
प्रायश्चित्तादिकं कर्म अस्त्रपिण्डेन होमयेत् ।
तत्वे तत्वे भवेत् पूर्णा पाशानां? विहिताग्रह ।
अथवा चैकमाहुत्या परमेशेन षण्मुख ।
योजयेद्विषुवस्थेन मुच्यते पशुबन्धनात् ।।
देहपाते शिवं यान्ति निरूपाख्यं निरामयम् ।
गणयागं वास्तुयागं च चण्डीशं हृदयेन तु ।।
एतत्सर्वसमाख्यातं विधानं पारमेश्वरम् ।
अष्टभेदप्रसङ्गेन अनाख्येयं कथंचन ।।
शैवी तु परमाशक्तिर्नित्यानुग्रहकारिणी ।
यस्य सा पतने पुंसः सोत्रसंस्कारमाप्नुयात् ।।
नान्यथा प्राप्नुयादीक्षां महाशिव पदानुगाम् ।
इत्येतत्परमं ज्ञानं कथितं तव षण्मुख ।।
सुपरीक्षित शिष्या यदातव्यं तु दयान्विते ।
अन्यथा दुष्टमर्त्येभ्यो अमृतं न प्रकाशयेत् ।।
इति कालोत्तरे स्युर्धशतिकं समाप्तमिति ।।
द्विशतिकम्
प्. १अ)
ओं नमः शिवाय ।।
कार्तिकेय उवाच ।।
अल्पायुषास्त्विमे मर्त्या अल्पवीर्यपराक्रमाः ।
अल्पसत्वाल्प वित्ताश्च लोभ मोहसमन्विताः ।।
अल्पग्रन्थमहार्थञ्च पदार्थानेकसंकुलम् ।
वक्तुमर्हसि देवेशानुग्रहार्थं मम प्रभो ।।
ईश्वर उवाच ।।
अथातः संप्रवक्ष्यामि शास्त्रसद्भावमुत्तमम् ।
नाम्ना उत्तरे तन्त्रे दध्नोघृतमिवोद्धृतम् ।।
तथेदं सर्वशास्त्राणां मुद्धृतं परमामृतम् ।
मधुवच्च यथा पुष्पात् सारात् सारमिदं शुभम् ।।
नादाख्यं यत्परं बीजं सर्वभूते व्यवस्थितम् ।
तं विदित्वा महासेन देशिकः पाशहा भवेत् ।।
आगोपालांगनावालाम्लेच्छाः प्राकृतभाषिणः ।
अन्तर्जलगता सत्वास्तेपि नित्यं ध्रुवन्तितम् ।।
स्थूलं सूक्ष्मं परं ज्ञात्वा कर्मकुर्याद् यथेप्सितम् ।
स्थूलंशब्दमिति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत् ।।
चिन्तया रहितं यच्च तत्परं परिकीर्तितम् ।
एवं ज्ञात्वा तु मन्त्रज्ञः सर्वपापक्षयो भवेत् ।।
य वर्गाश्चाष्टमं बीजं मात्रैर्द्वादशभिस्थितम् ।
अक्षरान्तरितं कृत्वा षडङ्गः स शिवो भवेत् ।।
प्रथमं हृदयं विघ्नाद्द्वितीयं तु शिवः स्मृतम् ।
तृतीया तु शिखा देवी चतुर्थं कवचं भवेत् ।।
पञ्चमं तु शिवं विघ्नात् षष्ठमस्त्रं विसर्गजम् ।
षडङ्गमेतत्कथितं शिवेन परमात्मना ।।
ईश्वर उवाच ।।
अस्य मुद्रां प्रवक्ष्यामि येन सिध्यंति साधकाः ।
हस्ताभ्यां संस्पृशेत्पादौ द्वौ हस्तौ यावमस्तकम् ।।
एषामुद्रा महामुद्रा सर्वकामार्थसाधिका ।
करन्यासं पुराकृत्वा दर्शयेत्तु विचक्षणः ।।
प्. १ब्)
इति कालोत्तरे द्विशतिके प्रथमः पटलः ।।
ईश्वर उवाच ।।
यजनं संप्रवक्ष्यामि यथा वदनुपूर्वशः ।
हृदयं कर्णिका पद्मं धर्मज्ञानादिमेव च ।।
वैराग्यं चैवमैश्वर्यं हृदयेप्रभवान्न्यसेत् ।
केसरै शक्तयो व्यूहं हृदयेन तु कारयेत् ।।
आवाहयेत् तयो देवं हृदयेन तु साधकः ।
स्थापनं चार्धयाघ्नं च आचमनीयञ्च मंत्रवित् ।।
स्नपनं पूजनं चैव हृदयेन तु कारयेत् ।
हृदयेन तु सर्वस्याद्यत्किञ्चिद्विधिचोदितम् ।।
एकावरणमेतन्तु सर्वकामार्थसाधकम् ।
सर्वतन्त्रेषु सामान्यं सर्वज्ञानेषु सम्मतम् ।।
इति कालोत्तरे द्विशतिकेऽर्चनद्वितीयः पटलः ।।
ईश्वर उवाच ।।
अतः परं प्रवक्ष्यामि अग्निकार्यविधिक्रमम् ।
उल्लेखनन्तु चास्त्रेण कवचेनाभ्युक्षणं स्मृतम् ।।
शक्ति न्यासं ततो मंत्री हृदयेन तु कारयेत् ।
हृदिना शक्तिगर्भे तु प्रक्षिपेज्जातवेदसम् ।।
गर्भाधानादितः कृत्वा निष्कृतिं चाप्य पश्चिमाम् ।
हृदयेन तु तत्वज्ञः सर्वकर्म्मणि कारयेत् ।।
पश्चात्पद्मविद्या?नं तु प्रागुक्तं परिकल्पयेत् ।
होमयेत्तु शिवं साङ्गं सर्वसिद्धिप्रदायकम् ।।
इति कालोत्तरे द्विशतिकेऽग्नि कार्यस्तृतीयः पटलः ।।
ईश्वर उवाच ।।
अतः परं प्रवक्ष्यामि मण्डलं सार्वकामिकम् ।
सूत्रेण सुस्मितं कृत्वा चतुरस्रं समंततः ।।
मध्ये पद्मं प्रतिष्ठाप्य अष्टपत्रं स कर्णिकम् ।
एकहस्तं द्विहस्तं वा चतुरष्टमथापिवा ।।
एकावरणमेतत्तु सर्वकामार्थसाधकम् ।
प्. २अ)
पश्चिमे बाहयेद्द्वारं सिद्धिकामः समाहितः ।।
आग्नेययां कारयेत्कुण्डं हस्तमात्रं समं ततः ।
यज्ञकर्म विधिं कुर्यात्सुसमं द्विहुताशने ।।
आग्नेय हृदयं न्यस्य ऐशान्यां च शिरो न्यसेत् ।
नैर्-ऋत्यां तु शिखां दघ्ना द्वापर्या कवचं न्यसेत् ।।
अस्त्रंदिसासु विन्यस्य कर्णिकायां सदाशिवम् ।
संक्षेपेण मयास्कन्द विधानं परिकीर्तितम् ।।
अनुक्तं मद् भवेत् किञ्चित् तत् सर्वं मूलमाश्रयेत् ।
एवं विधिविधानज्ञो बुधा कर्म समारभेत् ।।
इति कालोत्तरे द्विशतिके चतुर्थो मण्डलः पटलः ।
अथ दीक्ष्यं प्रवक्ष्यामि पञ्चतत्वैर्व्यवस्थिताम् ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।।
एते पंचमहातत्वायैर्व्याप्तमखिलं जगत् ।
सर्वे तत्वास्तु तत्रस्था द्रष्टव्य दिशिकोत्तमैः ।।
अविदित्वात्विमांज्ञात्वा यो दीक्षां कर्तुमिच्छति ।
वृथा परिश्रमं तस्य नैवं तत्फलमाप्नुयात् ।।
निवृत्ति पृथिवी ज्ञेया प्रतिष्ठा आप उच्यते ।
विद्या तेजो मयी प्रोक्तायायुः शांतिश्च कीर्तिता ।।
शान्त्यातीतं परं व्योमं तत्परं शान्तमव्ययम् ।
तं विदित्वा महासेन स्थावराण्यपि दीक्षयेत् ।।
निवृत्ति हृदये नैव प्रतिष्टां च शिरेण तु ।
विघ्ना? तत्वं शिखायां तु शान्तिर्वै कवचेन तु ।।
शान्त्यातीतं परंशान्तं प्रसादेन तु यों?दयेत् ।
एकैकस्य शतं जुहुयाच्छतान्वैयं च होमयेत् ।।
पश्चात्पूर्णाहुतिं दघ्नात्प्रसादेन तु षण्मुख ।
प्रायश्चित्त विशुद्ध्यर्थमेकैकायाहुतिं क्रमात् ।।
अस्त्रबीजेन मंत्रज्ञो होमयेच्च पूर्वसः ।
प्. २ब्)
एवं समाप्यते दीक्षा जननादि विवर्जिता ।।
हुते नैव मुच्यंते साधकाजन्मबन्धनात् ।
अप्रकास्यमिदमिष्टिं गोपनीयं प्रयत्नतः ।।
रहस्यं सर्वतन्त्राणामिदं संस्कारमुत्तमम् ।
एवं संस्कारशुद्धस्य शिवत्वं जायते ध्रुवम् ।।
कार्तिकेय उवाच ।।
विस्तरं त्यज देवेश संक्षेपात्कथयस्व मे ।
येन विज्ञात मात्रेण पशुं मोचयते क्षणात् ।।
ईश्वर उवाच ।
शृणु षण्मुख तत्वेन येन मोक्षो भवेद् धुवम् ।
प्रयोगेण तु सूक्ष्मेण योग दृष्टेन मंत्रवित् ।।
योगमार्गेण दिव्येन प्रेर्यते स तु शक्तिताः ।
तं विदित्वा महासेन जीवं वायु मयं बुधः ।।
विषुवेन तु योगेन विन्यसेत् शाश्वते पदे ।
योगं तु विषुवं प्राप्य कोन मुच्यते बन्धनात् ।।
इति कालोत्तरे द्विशतिके पञ्चमः पटलः ।।
ईश्वर उवाच ।
नाडी चक्रमिदं सूक्ष्मं प्रवक्ष्याम्यनुपूर्वशः ।
नाभेरधस्ताघ्नकन्दः कुरास्तत्रनिर्गताः ।।
द्वासप्तति सहस्राणि नाभि मध्ये व्यवस्थिताः ।
तिर्यगूर्ध्वमधश्चैव व्यापितै तैस्तु सर्वतः ।।
चक्रवत्संस्थितामर्धाः प्रधानादशनाडयः ।
इडा च पिंगला चैव सुषुम्ना च तृतीयका ।।
गान्धारी हस्ति जिह्वा च पूषा चैव यमात्तथा ।
अलंबुषा कुहूश्चैव शंखिनीदशमी स्मृता ।।
दशप्राणवहा ह्येता नाडयः परिकीर्तिताः ।
प्राणोपानः समासश्च उदानो व्यान एव च ।।
नागः कूर्मोथ कृकरो देवदत्तो धनंजयः ।
प्राणस्तु प्रथमो वायुर्नवानामपि स प्रभुः ।।
प्राणप्राणमयः प्राणो विसर्गात्पूरणं प्रति ।
प्. ३अ)
नित्यमापूरयत्येय प्राणीनामुरति स्थितः ।।
निश्वासो च्छ्वासकासैस्तु प्राणोजीव समाश्रितः ।
प्रयाणं कुरुते यस्मात्तस्मात्प्राणः प्रकीर्तितः ।।
अपानयत्यपानस्तु आहारमनुजामधः ।
शुक्रमूत्रवहो वायुरपानस्तेन कीर्तितः ।।
सीतं भक्षितमाघ्रातं रक्षपित्तकफानित्वम् ।
शमं नयति गात्रेषु समानो नाममारुतः ।।
स्पंद यत्यवरं वक्त्रं नेत्रमात्रप्रकोपनम् ।
उद्वेजयतिमर्माणि उदानो नाममारुतः ।।
व्यानो विनाशयत्यंगं व्यानो व्याधि प्रकोपनः ।
प्रीतिर्विनाशः कथितो वार्द्धिक्यं व्यानमुच्यते ।।
प्राणाघ्नावायवः प्रोक्ता नागाघ्नाः प्रोच्यतेधुना ।
उद्गारे नाग इत्युक्तः कूर्म उन्मीलने स्थितः ।।
कृकरः क्षुदिते चैव देवदत्तो विजृम्भते ।
धनंजयः स्थितो घोषे मृतस्यापि न मुञ्चति ।।
इत्येतद्वायुवृन्दं हृदि ह्रदनिहितं नाडिचक्रे प्रतिष्ठं ।
निच्छ्वासोच्छ्वसकासैः श्वसनसुरमधः कंपिताघूर्णितैश्च नित्यं
नित्याल्पजन्माव्यसनमतिषु वा यौवने बाल्यभावादाक्रान्तोवायुरेको
विधुननषरणैः क्रीडते सर्वसत्वैः ।।
नाडीचक्रं यथावस्थं कथयामि तवाखिलम् ।
दशारं चक्रमेतं तु विभागो ज्ञायते यथा ।।
तथाते कथयिष्यामि तन्मे निगदितः शृणु ।
चक्रवद्भ्रमते जीवो दशस्थानेष्वनुक्रमात् ।।
स जीवो जीव लोकस्य नैवबुध्यंति मोहिताः ।
दशधा गच्छते येन तेन चक्रं प्रकीर्तितम् ।।
नाडीचक्रमितिख्यातं य च संकमते ह्यसौ ।।
प्. ३ब्)
कार्तिकेय उवाच ।।
स जीवो जीवलोकस्य यथा * *? जितस्वनः ।
संशयो मे महादेव प्रसादीम * *? कर ।।
ईश्वर उवाच ।
जीवस्य पुरुषाख्यस्य दर्शनं शृणु षण्मुख ।
कथयामि न सन्देह पुत्रस्नेहाद्विशेषतः ।।
संक्रान्तिविषुवश्चैव अहोरात्रायनानि च ।
अधिमाससृणं चैव ऊनरात्रं धनं तथा ।।
ऊनरात्रभवेच्छिक्त्वा अधिमासो विजृम्भिका ।
भस्मं च भवते काशो निश्वासोधनमुच्यते ।।
दक्षिणमुत्तरं ज्ञेयं वामदक्षिणसंज्ञकम् ।
मध्ये तु विषुवं प्रोक्तं मुदद्वयविनिःसृतम् ।।
संक्रान्तिपुनरस्यैव स्वरयानात्स्यान एव च ।
इडा चैव सुषुम्ना च प्रमा? चैव समन्विता ।।
सुषुम्ना मध्यमे ह्यङ्गे इमा? * * प्रतिष्ठिता ।
- * * दक्षिणे ह्यङ्गे एतत्स * * * * * ते ।।
?
ऊर्द्ध्वप्राणोऽहश्चैव अपानो रात्रिरेव च ।
विभागादशयो वेत्ति स * वेद विदुच्यते ।।
प्राणायामं समासेषु कथयामि तवाधुना ।
- * * यीत प्रणवं स्वरेणैके न योगवित् ।।
उदरं पूरयित्वा तु वायुना यावदीक्षितम् ।
- * * * * * * * * * * *
- * * * ।।
- * * * * * * णिनि छ्वासोछ्वासवर्जितः ।
संपूर्णकुम्भवत्तिष्ठेत् प्राणायामः स कुम्भकः ।।
युज्यतेद्वायुं? ततोर्द्धे तु निश्वासे * * * * ।
निश्वासयोगयुक्तं वर्द्धं वायुं विरेचयेत् ।।
रेचकस्त्येयविख्यातः प्राणसंशयकारकः ।
योसौ हृदि स्थितः पद्म * * * * * * व्यवस्थित ।।
प्. ४अ)
- * * * सते पद्मः पूरकेन तु पूरितः ।
ऊर्ध्वश्रोतो भवेत् पद्मकुम्भकेन तु रोधितः ।।
रेचके न तु आक्षिप्तः सघ्नः प्राणहरे भवेत् ।
- * हृदयपद्मं तु जीव ऊर्द्ध्वं व्यवस्थितः ।।
रेचितो गच्छते ऊर्द्ध्वं भित्वा ग्रन्थिं क्षणेन तु ।
भित्वाकपालद्वारं तु जीव ऊर्ध्व तु रेचितः ।।
सदाशिव पदं गत्वा न भूयो जन्ममाप्नुयात् ।
आयामः क्रियते तस्य नान्यस्य च कदाचन ।।
स जीवो जीव लोकस्य मया प्रोक्तः समासतः ।
स्वयमुच्चरते यस्मात् स्व * हावस्थितः शिवः ।।
तस्मात्तत्वविदानां तु तदेव जप उच्यते ।
अयुतेब्दे सहस्रैकं षट्शतानि तथैव च ।।
अहोरात्रेण योगिन्द्रो जपः संख्यां करोति सः ।।
इति कालज्ञाने द्विशतिके नाडिचक्रसप्तमः पटलः ।।
ईश्वर उवाच ।।
अथातः संप्रवक्ष्यामि शास्त्रसद्भावमुत्तमम् ।
येन विज्ञातमात्रेण गृह्णाति न पुनस्तनुम् ।।
देहस्थः सकलो ज्ञेयो निष्कलो देहवर्जितः ।
आप्तोपदेश गम्यो सौ सर्वतः किमपि स्थितः ।।
हंसहंसेति यो ब्रूयाद्धंसो देवः सदाशिवः ।
गुरुवक्त्रात्तु लभ्येत प्रत्यक्षं सर्वतो मुखम् ।।
तिलानां तु यथा तैलं पुष्पे गन्धः समासृतः ।
पुरुषस्य शरीरेस्मिन्स बाह्याभ्यन्तरे स्थितः ।।
उल्काहस्तो यथा कऽस्चिद् द्रव्यमालोक्य तांत्यजेत् ।
ज्ञानेन ज्ञेयमालोक्य तदा ज्ञानं परित्यजेत् ।।
पुष्पं तु सकलं विंघ्नाद्गंधं तस्यैव निष्कलम् ।
वृक्षं तु सकलं विन्द्याच्छायं तैस्यैव निष्कला ।।
सकलनिष्कलभावेन सर्वत्रैव व्यवस्थितः ।
प्. ४ब्)
सकले सकलं विंघ्नन्निष्कले निष्कलं तथा ।।
त्रिमात्रश्च द्विमात्रश्च एकमात्रस्तथैव च ।
अर्द्धमात्रापरासूक्ष्मा तस्याप्यूर्द्धं परापरम् ।।
ब्रह्मविष्णुश्च रुद्रश्च ईश्वरः शिव एव च ।
पञ्चधापंच दैवत्यं सकलं परिपठ्यते ।।
ब्रह्मणो हृदये स्थानं कण्ठे विष्णुः स्मासतः ।
तालु मध्ये स्थितो रुद्रो ललाटस्थो महेश्वरः ।।
नाशाग्रे तु शिवं विंघ्नात्तस्यान्ते तु परापरम् ।
परात्परतरं नास्ति इति शास्त्रस्वनिश्चयः ।।
कार्तिकेय उवाच ।
गमागमं कथं तस्य केन वा नीयते तु सः ।
संशयो मे महादेव कथयस्व यथार्थतः ।।
ईश्वर उवाच ।
नीयते शक्तिना जीवस्तस्थित्प्राप्यनिवर्तते ।
तस्यां तं प्रवक्ष्यामि शृणु षण्मुख तत्त्वतः ।।
देहातीतं तु तं विन्ध्यान्नदन्तं द्वादशाङ्गुलम् ।
अन्तस्थं तद्वीजातीयात् तत्रस्थो व्यापयेत् प्रभुः ।।
मलोप्य न्यत्रनिक्षिप्तं दृष्टिरन्यत्रपातिता ।
तथापि योगीनां योगो अव्युच्छिन्नप्रवर्तते ।।
एतत्तु परमं गुह्यमेतत्तु परमं पदम् ।
एतत्तत्परमं ब्रह्म एतद्धि परमाक्षरम् ।।
नातः परतरं किञ्चिन्नातः परतरं शिवम् ।
नातः परतरं ज्ञानमित्याह भगवान् शिवः ।।
शिवज्ञानामृतं प्रोक्तं संक्षेपान्न तु विस्तरात् ।
अवाप्त देवदेवेश परमाक्षरनिर्णयम् ।।
एतद्धि शिव सद्भावं शिववक्त्राद्विनिसृतम् ।
गुह्याद्गुह्यतरं गुह्यं गृहितव्यं प्रयत्नतः ।।
नाशिष्याय प्रदातव्यं ना पुत्राय कथंचन ।
गुरुदेवाग्नि भक्ताय शान्ताय च तपस्विने ।।
प्. ५अ)
शिवामृतं समाख्यातं सत्यं सत्यं मया तव ।
एवं ज्ञात्वा तु मेधावी विचरस्व यथासुखम् ।।
गृहस्थो ब्रह्मचारी वा वानप्रस्थोथ भिक्षुकः ।
यत्र तत्र स्थितो ज्ञानी परमाक्षरवित्सदा ।।
विषयैर्विषयासक्तो यान्ति देहान्तिकं शिवम् ।
ज्ञानादेवास्य शास्त्रस्य पापासक्तोपि मानवः ।।
ब्रह्महत्याश्वमेधाघ्नैः पु * पापैर्न लिप्यते ।
चोदके *? रथकेश्चैव मोक्षकश्च परः स्मृतः ।।
इत्येते त्रिविधाज्ञेया आचार्यास्तु महीतले ।
चोदको दर्शयेन्मार्गं बोधकः स्थानमादिशेत् ।।
मोक्षकस्तु परं स्थानं यं गत्वा न निवर्त्तते ।।
इति कालोत्तरे द्विशतिकेऽष्टमः पटलः ।।
ईश्वर उवाचः ।।
अग्नि मध्ये रविस्थानं रविमध्ये तु चन्द्रमा ।
तन्मध्ये चाङ्कुरं दिव्यं ततः सृष्टिः प्रवर्तते ।।
सृष्टि न्यासं न्यसेत् तत्र द्विरभ्यास पदेरितम् ।
श्रवन्तं चिन्तयेत् तस्मिन् न मृतं साधकोत्तमः ।।
अग्निषोमात्मकं सर्वं जगत्स्थावरजङ्गमम् ।
विपरीतं चिन्तयेत् तस्मिन् सिद्धिकामः समाहितः ।।
स्वदेहं चिन्तयेद्विशन्दिव्यरूपमतौपमम् ।
यस्य यत्कर्ममुद्दिष्टं तत्कर्मं चिन्तयेद्बुधः ।।
यो भ्यसेत इदं ध्यानममृतं सर्वतोमुखम् ।
अचिरेणैव कालेन स सिद्धिफलभाग् भवेत् ।।
सृष्टिन्यासमविज्ञाय कथं युंजन्ति साधकाः ।
हनते मुष्टिनाकासं तुषा?त्कन्दयते तु सः ।।
इति कालोत्तरे द्विशतिकेऽग्नि व्यो?मियो नवमः पटलः ।।
ईश्वर उवाच ।।
अतः परंप्रवक्ष्यामि प्रसादेनोत्थाप्य नादं सततं जपते यदि ।
प्. ५ब्)
षण्मासाज्जायते सिद्धिर्योगयुक्तो न संशयः ।।
गमागमस्य जाप्येन सर्वपापक्षयो भवेत् ।
अणिमादिगुणैश्वर्य षड्भिर्मासै न संशयः ।।
तत्वयस्तन्मयो भूत्वा षण्मासात्सिद्धिमाप्नुयात् ।
स्थूलं सूक्ष्मं परं चैव प्रसादः कथितो मया ।।
प्रसादं येन जानन्ति न ते बुध्यन्ति शंकरम् ।।
इति कालज्ञाने द्विशतिके दशमः पटलः ।।
ईश्वर उवाच ।।
अतः परं प्रवक्षामि प्रसादस्य तु लक्षणम् ।
ह्रस्वोदीर्घः प्लुतश्चैव लक्षयेन्मन्त्रवित्सदा ।।
ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदो भवेत् ।
आप्यायने प्लुतं चैव बिन्दुमूर्द्ध्निसमन्वितम् ।।
स्थूलभेदास्त्रयः प्रोक्ता वश्योच्चाटनमारणे ।
प्लुतेन तु सदावस्यं कुरुते नात्र संशयः ।।
दीर्घोच्चाटयते क्षिप्रं फट्कारेण तु संयुतः ।
आदिरन्ते च ह्रस्वस्य फट्कारो मारयेद्भृशम् ।।
आदिरन्ते च हृदयं प्रयोगाकर्षणे स्मृतः ।
आकर्षयेद्ध्रुवं युक्तो योजनानां शतैः स्थितम् ।।
एवमाकर्षयेत्साध्यं नामं विज्ञायतत्वतः ।
साधकस्य भवेद् वह्वी न्यूनासाध्यस्य कीर्तिता ।।
एवं विज्ञायमेधावी आकर्षं कुरुते ध्रुवम् ।
अविज्ञाय इदं सम्यक् नैव सिध्यन्ति साधकाः ।।
यागं कृत्वा तु पूर्वोक्तं मन्त्रस्यार्घं प्रदापयेत् ।
अर्घं दत्वा तु म्रतस्य? जपं कुर्याद्विचक्षणः ।।
देवस्य दक्षिणे भागे पञ्चलक्षां स्थितो जपेत् ।
जपान्ते * * होमस्तु दशसाहस्रिको भवेत् ।।
एवमाप्यायितो मन्त्रः कर्मयोग्यो भवेत् तनः ।
उक्ता च ये मयाकर्माः सिध्यन्ते नात्र संशयः ।।
प्. ६अ)
दशलक्षं जपेघ्नस्तु जनाः स्वस्थानवासिनः ।
यश्यमायान्ति वै क्षिप्रसिति?शास्त्रस्य निश्चयः ।।
लक्षान्यं च दशाञ्ज पूत्वादशग्रामनिवासिनः ।
ते जनावशमायान्ति आत्मना च धनेन च ।।
पञ्चविंशतिभिर्लक्षैर्विषयं वशमानयेत् ।
त्रिंशल्लक्षं जपेत् यस्तु मण्डलिको वशी भवेत् ।।
पञ्चत्रिंशतिभिर्लक्षैः पृथिवीं वशमानयेत् ।
चत्वारिंशतिभिर्लक्षैरीक्षते हाटकेश्वरम् ।।
लक्षान्यं चाशनाम्जप्त्वा? तु विघ्नाधरसमो भवेत् ।
तत्रैव मोदते मन्त्री यावदाहूतसंप्लवम् ।।
इति कालोत्तरे द्विशतिके एकादशः पटलः ।।
कार्तिकेय उवाच ।
अघ्नापि संशयो देव ज्ञानविज्ञानयोः प्रभो ।
कथं ज्ञायतितज्ज्ञानं कथं वा ज्ञेय उच्यते ।।
ईश्वर उवाच ।।
आधारं पूर्वविज्ञाय पश्चाद्व्ये?यन्तु षण्मुख ।
आधाराधेय वित्प्राज्ञः समर्थः सर्वकर्मसु ।।
आधारं मु?रमित्युक्तं माधेयस्त्वीशमुच्यते ।
ईशिन्या ईशते यो हि सोस्म ईश इति स्मृतः ।।
ईशं विज्ञायमेधावी यः स्वयं नदते सदा ।
पुर्यष्टकसमायुक्तोऽधश्चोर्द्ध्वं च गच्छति ।।
शब्दः स्पर्शश्च रूपं च रसोगन्धश्च पञ्चमः ।
बुद्धिर्मनस्त्वहंकारः पुर्यष्टकमिति स्मृतम् ।।
यावदेतैर्न मुच्यंते कथं मुच्यन्ति बन्धनात् ।
शब्दः स्पर्श त्यजे ब्रह्मे रसं वै केशवे त्यजेत् ।।
रूपगन्धौ त्यजेद्रुद्रे बुध्यहंकारमीश्वरे ।
मनोबिन्दुं शिवे त्यज्य एभिर्मुक्त शिवो भवेत् ।।
इति कालोत्तरे द्विशतिके द्वादशः पटलः ।।
प्. ६ब्)
कालचक्रविधानं तु प्रवक्ष्याम्य तु पूर्वशः ।
कालचक्रेति विख्यातं येन कालं प्रबुध्यति ।।
इडाहोरात्राचारेण चन्दांस्त्रीणि? स जीवति ।
दा?वहोरात्रचारेण अब्द द्वयं स जीवति ।।
तृराय?होरात्रचारेण अब्दमेकं स जीवति ।
अब्दमेकं च * *? स्तु ए * *? कां तथैव च ।।
षण्मासाज्जायते मृत्युरिति शास्त्रस्य सिद्धयः? ।
यागद्वयस्य चारेण अहोरात्रं स जीवति ।।
- * * * * * * * मध्यस्य च तथा भवेत् ।
कालचक्रं समाख्यातं पुत्रस्नेहान्नसंशयः ।।
इति कालोत्तरे द्विशतिके त्रयोदशः पटलः ।।
तथा? वहतु? मार्गौ? तु? * * * *?
भजन्तितौ ।
एकासंयुज्यते योगे द्वितीया दुःखमाप्नुयात् ।।
संयोगा यत्सुखं भद्रे तत्सुखं कथयस्व मे ।
कथयामि त्वहं भद्रे यत्सुखं संप्रवर्तते ।।
पुनश्चागमनं दृष्ट्वा परि * जति सोत्सुका ।
यत्त्वया पूर्वमुद्दिष्टं सांप्रत्रं जप * * *? ।।
अ अस्य मेतत्कथितं * * * * * * सुखम् ।
ततः सा ब्रुवते त्रुकोकिं? त्वया सत्यवादिमि ।।
ईदृशं तादृशं चैव सौपम्यं? प्रत्ययं यतः ।
लयोगिकं? यत्सुखंस्या? चैव * * * * *
- ? ।।
अन्यथा वदमानस्य प्रत्ययो नैव जायते ।
अव्युत्पन्नं सुखं यस्मात् कथितुं वै वशक्यते? ।।
अचिरेणैव कालेन संशयं? तत्सुखं तथा ।
यत्त्वया कथितं भद्रे तत्तथैव न संशयः ।।
अज्ञान सुखमोहेन यदुक्रं चा प्रियं मया ।
- * * * प्रियं भद्रे यथा भजा * * * ।।
इति कालोत्तरे द्विशतिके चतुर्दशः पटलः ।।
प्. ७अ)
कार्तिकेय उवाच ।।
पूर्वदेव प्रतिज्ञातं शिव भेदोष्टधाविभो ।
कथं स भिघ्नते देव प्रसादी भवशूलिनः ।।
ईश्वर उवाच ।
सकलं निष्कलं शून्यं कलाघ्नं खमलं कृतम् ।
क्षेपणं क्षयमन्तस्थं कण्ठोष्ठ्यं चाष्टमं स्मृतम् ।।
प्रसादं षष्टसंयुक्तं षडङ्गे च समन्वितम् ।
सकलं सर्वभूतस्थं शिवतत्त्वं प्रकीर्तितम् ।।
स्वयं निष्क्रमते देवो देहं त्यक्त्वा समारुतः ।
निष्कलं तद्विजानीयात्यद्वर्णरहितः शिवः ।।
निच्छ्वासोच्छ्वसनं भित्वा स्थितं देहन्तु काष्ठवत् ।
शून्यं तं तु विजानीयाद् हृदयेन तु भावयेत् ।।
चुम्बाकारेण वक्त्रेण यत्तत्वं धूमते भुवि ।
कलाद्यं तद्विजानीयादाकाशस्थं तु मे शृणु ।।
ऊर्द्ध्वनादस्य क्षीणस्य यदं तं परिकीर्तितम् ।
तत्रस्थं तु विज्ञानी पादाकाशेन अलंकृतम् ।।
व्यावृत्तेन तु वक्त्रेण श्रुत्वा देवं जगद्गुरूम् ।
दुःखक्षपणमित्युक्तं तत्क्षयात्क्षपणात्स्मृतः ।।
आदौ नादस्य क्षीणस्य पदन्तं परिकीर्तितम् ।
अन्तस्थं तद्विजानीयादनुच्चार्यं प्रकीर्तितम् ।।
अष्टवर्गाष्टमं कोटि सप्तमस्य द्वितीयकम् ।
वर्गातीतं षडं तं च सप्तमे त्रिचतुर्थकम् ।।
आदिमं तु पुनर्योज्यं षष्ठं वै प्रथमस्य तु ।
खशेखरसमायुक्तं कण्ठोष्ठं चाष्टमं स्मृतम् ।।
एते भेदाः समाख्याता अणिमादि प्रसाधने ।
अनुच्चार्यमसंदिग्धं मोक्षमित्यभिधीयते ।।
इति कालोत्तरे द्विशतिके पञ्चदशः पटलः ।।
कार्त्तिकेय उवाच ।।
प्. ७ब्)
कथं व्यापी अधश्चोर्द्ध्वं तिर्यक् चैव कथं भवेत् ।
एतन्मे ब्रूहीं सद्भावं यथा वदनु पूर्वशः ।।
ईश्वर उवाच ।।
यावद्देहे स्थितो जन्तु मावद्व्याप्य व्यवस्थितः ।
निर्गतो व्यापयेत्तिर्यगंतस्थः सर्वतः स्थितः ।।
त्रिमार्गावस्थितो जन्तुः सर्वदेहे व्यवस्थितः ।
अविदित्वा तु मुच्येतपघ्नपि तत्सयो भवेत् ।।
त्रिमार्गं त्रिरधिष्ठानं सर्वदेहे व्यवस्थितम् ।
यो वेत्ये च मिमां व्याप्तिं स व्यापी तु न संशयः ।।
तावद्भ्रमन्ति संसारे यावद्व्याप्तिं न विन्दति ।
विदित्वा व्यापीनं देवं मुच्यते नात्र संशयः ।।
यथा तृणजलूका तु तृणाग्रं यावदागता ।
उपरिष्ठान्निरालम्बा तद्वज्जिवो व्यवस्थितः ।।
ऊर्द्ध्वं शून्यमधः शून्यं मध्ये शून्यं निरामयम् ।
त्रिशून्यं यो विजानाति मुच्यते स ध्रुवं ग्रह ।।
व्याप्तिश्चास्य मया प्रोक्ता संक्षेपान्न तु विस्तरात् ।
अतः परतरं नास्ति व्यापकस्य तु व्यापकम् ।।
इति कालोत्तरे द्विशतिके षोडशः पटलः ।।
अतः परं प्रवक्ष्यामि अष्टधा प्रत्ययो यथा ।
अनग्नेर्ज्वलनं चैव वृक्षस्या लभनं तथा ।।
पाशानां स्तोभनं चैव महापातकनाशनम् ।
विषसंहरणं चैव निर्जीवीकरणं तथा ।।
ज्वरग्रहविनाशं च प्रत्ययोष्टविधः स्मृतः ।
एवं ज्ञात्वा विधिं सम्यक् ख्यातिः सर्वत्र जायते ।।
ओं ह्रं ह्रौं ह्रूं नमः ।
अग्निश्रोते प्रयोक्तव्यं प्रयोयोऽग्निं ज्वालने ।।
सहस्वोद्धोमयुक्तेन ज्वलते नात्र संशयः ।
ओं ह्रूं ह्रौं ह्रूं नमः ।।
अयमप्यग्निश्रोतेषु प्रयोगः संप्रकीर्तितः ।
शतैः पञ्चभिरुद्घातैरालब्धो म्रियते ध्रुवम् ।।
प्. ८अ)
पुनश्चाप्यायनं तस्य वारुणे स्येतसिस्थिते ।
ओं हां हौं हीं नमः ।।
स जीवति पुनर्वृक्षो यथा पूर्वं तथैव सः ।
ओं ह्रीं ह्रौं ह्रीं नमः ।।
(प्रयोगो विषुवे काले पाशानां स्तोभकारकः ।
शतैः पञ्चभिरुद्घातैः पतते नात्र संशयः ।।)
ओं ह्यं ह्रौं स्वं नमः ।
घटस्पशेहणे प्रोक्तं गुरुत्वं चैव जायते ।
- * * * * इति श्लोकोऽन पटितव्या ।।
ओं हं हें स्थें नमः ।।
तुला पुरुषप्रयोगोय सहधातायुतसंख्यया ।।
ओं ह्यां ह्यौं ह्यीं नमः ।
विषसंहरणे चैव प्रयोगो वारुणेन तु ।
उद्घाताष्टशते नैव विषं संहरते ध्रुवम् ।।
यथाग्नि ज्वलने प्रोक्तं निर्वीजीकरणे तथा ।
शतैः पञ्चभिरुद्घातैर्विशेषोऽत्रविधीयते ।।
ओं ह्रं ह्रौं ह्रं नमः ।।
ग्रहान्नाशयते क्षिप्रं प्रयोगो वारुणे स्थितम् ।
उद्घाताष्टशतैः प्रोक्तं ग्रहाणान्नाशने तथा ।।
ओं हुं फट् ।। ओं ह्रों फट् ।। हुं फट् ।।
वारुणेन तु स्त्रोतेन क्षिप्रं नाशयते ज्वरम् ।
उद्घाताष्टशते नैव प्रयोगोज्वरनाशनः ।।
अष्टानां प्रत्ययानां तु प्रयोगो कथितो मया ।।
इति कालोत्तरे द्विशतिके सप्तदशः पटलः ।।
कार्तिकेय उवाच ।।
प्रसादः किंदृशो ज्ञेयो व्याप्तिस्तस्यैव किंदृशी ।
प्रसूतिः किंदृशी तस्य कथयस्व महेश्वरः ।।
ईश्वर उवाच ।
प्रसादं येन जानन्ति पञ्चमंत्रमहातनुम् ।
अष्टत्रिंशत्कलैर्युक्तं न स आचार्य उच्यते ।।
प्रसादं सम्यगज्ञात्वा दीक्षां यः कुरुते गुरुः ।
अधस्ताच्छिष्यमात्मानं नयते नात्र संशयः ।।
प्. ८ब्)
प्रसादा *? शिखान्तस्थो यस्तु दीक्षां प्रकुर्वति ।
आचार्यः सहशिष्यैस्तु शिव सा युज्यतां व्रजेत् ।।
देवदानवगन्धर्वाः स यक्षोरगराक्षसः ।
सिद्धाश्च ऋषयश्चैव सर्वे प्रासादसंभवाः ।।
ब्रह्माविष्णुस्तथा रुद्र ईशश्चेन्दुः प्रजापतिः ।
बृहस्पतिस्तथादित्यः शुक्रः स्कन्दो भृगुस्तथा ।।
ये चान्ये ग्रहगणाः केचित् सर्वे प्रासादसंभवाः ।
एते चान्ये च वहव ऋषयः संशितः व्रताः ।।
ध्यायन्ति परमं हंसं प्रासादं नामनामतः ।
विभागं तस्य वक्ष्यामि यं ज्ञात्वामृतमश्नुते ।।
सद्यं कलाष्टकसंयुक्तामकाराक्षरजं विदुः ।
विध? *? कारजं वाममघोरं तु मकारजम् ।।
बिंदुजं पुरुषं ज्ञेयमीशानं तु शिखात्मकम् ।
एवं मत्रास्त्वयं चैते प्रासादा वा समुद्भवाः ।।
शतकोटिसहस्राणि मन्त्रणाममितौजसाम् ।
प्रसादे नैकेन यष्टेन सर्वे यष्टा न संशयः ।।
मारुतानलशक्राघ्ना ये मन्त्राः परिकीर्तिताः ।
प्रसादान्तसमुत्पन्ना सर्वे चामोघशक्तयः ।।
सद्य * पृथिवी ज्ञेया वामोह्यापः प्रकीर्तितः ।
अघोरस्तेज इत्युक्तो वायुस्तत्पुरुषस्मृतः ।।
आकाशन्तु भवेदीशः स्वयं देवो महेश्वरः ।
सद्यो जातस्तु ऋग्वेदो वामदेवो * *? मृतः ।।
सामवेदो ह्यघोरस्तु तत्पुरुषोऽथर्व उच्यते ।
पञ्चमं यत्परं सूक्ष्मं व्योमव्यापी महेश्वरम् ।।
सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीर्तितः ।
अघोरो देवरुद्रश्च पुरुषश्चेश्वरः स्मृतः ।।
प्. ९अ)
ईशानं शिवदैवत्यमधिदेवास्त्विमे स्मृताः ।
षष्ठन्तु यत्परं तत्त्वमसा दृश्यगुणैस्थितम् ।।
तस्य देहो न वक्तव्यः प्राकृतैर्गुणसंभवैः ।
ज्ञात्वापरमनिःश्रेणीं पञ्चमस्थानगामिनीम् ।।
ज्ञानं ज्ञातं सकृद्येन विस्मिते नान्तरात्मना ।
तत्काल एव मुक्तोसौ यादाज्ञातं हि तत्पदम् ।।
इति कालोत्तरे द्विशतिकेऽष्टादशः पटलः ।।
शुभं भूयात् ।।
अध्युष्ट शतिकम्
प्. १अ)
ओं नमः शिवाय ।।
कार्तिकेय उवाच ।।
भगवन्देव देवेश लोकनाथ जगत्पते ।
मन्त्रं तन्त्रं त्वया प्रोक्तं विस्तरं वस्तु साधनम् ।।
अल्पायुषा स्त्विमे मर्त्या अल्पवीर्यपराक्रमाः ।
अल्पसत्वाल्पवित्ताश्च लोभमोहसमन्विताः ।।
अल्पग्रन्थं महार्थं च पदार्थानेक संकुलम् ।
वक्तुमर्हसि देवेशाऽनुग्रहार्थं प्रभो मम ।।
ईश्वर उवाच ।।
अथातः संप्रवक्ष्यामि शास्त्रं परमदुर्लभम् ।
नाम्ना तु वातुले तन्त्रे कालाख्यमिति संज्ञकम् ।।
सर्वतः सारमादाय दध्नोघृतमिवोद्धृतम् ।
मधुवच्च यथा पुष्पात्सारात्सारमिदं शुभं ।।
नादाख्यं यत्परं बीजं सर्वभूते व्यवस्थितम् ।
मुक्तिदं परमं दिव्यं सर्वसिद्धिप्रदायकम् ।।
तं विदित्वा महासेन देशिकः पाशहा भवेत् ।
आगोपालांगाना बालाम्लेच्छाः प्राकृतभाषिणः ।।
अन्तर्जलगतां सत्वास्तेपि नित्यं ब्रुवन्तितम् ।
स्थूलं सूक्ष्मं परं ज्ञात्वा कर्म कुर्याद्यथेप्सितम् ।।
(न स निप्यति पापेन स्फटिकं पांशुभिर्यथा इति पुस्तकान्तरोधिका
पाठ)?
स्थूलं शब्दमिति प्रोक्तं सूक्ष्मं चिन्ता मयं भवेत् ।
चिन्तया रहितं यच्च तत्परं परिकीर्तितम् ।।
एवं ज्ञात्वा तु मन्त्रज्ञः सर्वपापक्षयो भवेत् ।
सान्तं सर्वगतं शून्यं मात्रैर्द्वादशभिः स्थितम् ।।
अक्षरान्तरितं कृत्वा स षडङ्गं शिवो भवेत् ।
(प्रथमं हृदयं न्यस्य नेत्रं तु पञ्चमं विद्यात् ।)
ह्रस्वा ब्रह्मासमाख्याता दीर्घाह्यंगाषडानन ।।
सानुस्वारं भवेन्नेत्रं सर्वेषां चोपरिस्थितम् ।
स विसर्गं भवेदस्त्रमनुस्वार विवर्जितम् ।।
षष्ठं त्रयोदशान्तं च पञ्चमे विनियोजयेत् ।
शिवं तं तु विजानीयान्मन्त्रमूर्ति सदाशिवम् ।।
षष्ठस्य *? द्वितीयं तु चतुर्थाद्येनसंयुतम् ।
द्वितीये पंचमे चैव आदिमं योजयेत्पुनः ।।
प्. १ब्)
सर्वविघ्नं शिवास्त्रेण शिखयामुक्तिदः स्मृतः ।
एतत्पाशुपतं दिव्यं सर्वपाशनिकृन्तनम् ।।
पञ्चब्रह्मशिवं साङ्गं नेत्रं पाशुपतं च यत् ।
समासात्कथितं सर्वं मन्त्रोद्धारमिदं शुभम् ।।
अस्य मुद्रां प्रवक्ष्यामि साधकानां हिताय वै ।
हस्ताभ्यां संस्पृशेत्पादौ द्वौहस्तौ यावत्मस्तकम् ।।
एषामुद्रा महामुद्रा सर्वकामार्थसाधिका ।
करन्यासं पुराकृत्वा मुद्राबन्धं तु कारयेत् ।।
नलिके हस्त पृष्टौ तु अस्त्र बीजेन शोधयेत् ।
कनिष्ठामादितः कृत्वा अङ्गुष्टं चाप्य पश्चिमम् ।।
यथा ब्रह्मा तथा ह्यैङ्गा विन्यसे तत्प्रयत्नतः(चानुपूर्वशः पा०
मन्त्रोद्धारा) ।
प्रसादं विन्यसेत्पश्चाद्व्यापिनं सर्वतोमुखम् ।।
करन्यासमिदं वत्स अस्मिन्तन्त्रेन संशयः ।।
इति कालोत्तरेऽध्युष्ठशते प्रथमः पटलः ।।
ईश्वर उवाच ।।
अन्तःकरण विन्यासं संभूतशुद्धिं तथैव च ।
भूतशुद्धिं पुराकृत्वा पश्चान्तं करणं कुरु ।।
हृद्बीजं पार्थिवे युक्तं पार्थिवोधारयेत्सदा ।
शिरो स्वाप्ने? शिखातेज कवचं वायुना सह ।।
अस्त्रं तु शिवसंयुक्तं ह्याकाशीं धारयेत्सदा ।
फडन्तेन पटलं भित्वा भित्वा चोर्द्ध्वं विशेषतः ।।
दीक्षाकाले यथा वक्ष्ये तत्प्रयोगं समाचरेत् ।
पश्चोद्धाताय तत्प्रश्व * श्वद्वयमेकतः ।।?
शून्यं सर्वनिरालम्बं विज्ञानं केवलं स्थितम् ।
प्रकृयान्तस्थममृतं स्रवन्तं चिन्तयेत्ततः ।।?
ओमित्यनेन कमलं योगपीठं तथा भवेत् ।
सूर्यमण्डलसंकाशमकारं ह्यात्मसम्भवम् ।।
विघ्नातत्वमुकारन्तु शिव तत्वं मकारजम् ।
(हूं फडन्तेन पटलं भित्वा पूर्वविशेषत. इत्येक पुस्तके पाठः ।
बोत्तोम् ओf पगे)
प्. २अ)
पुर्यष्टकन्तु तन्मात्रं तुर्यातीतं सदाशिवम् ।
चिन्तयेत् परमं धाम सुषुम्णाभिन्नमस्तकम् ।।
तेन प्लावितमात्मानं मापूर्यन्तं विचिन्तयेत् ।
इदं यो भ्यसते नित्यं समाधिं मृत्युनाशिनीम् ।।
न तस्य जायते मृत्युरिति शास्त्रस्य निश्चयः ।
पश्चादाचार्य साधकानां मूर्त्तेस्तु ग्रहणं भवेत् ।।
ईशानाघ्नास्तु सघ्नान्ता मूर्ध्निमारभ्यविन्यसेत् ।
नेत्रं दत्वा तु आवाह्य देवदेवं सदाशिवम् ।।
सर्वज्ञत्व तयोन्मानं चिन्तयेत विचक्षणः ।
हृदयं च शिरश्चैव शिखा कवचमेव च ।।
अस्त्रं चैव तु मन्त्रज्ञो यथा स्थानं नियोजयेत् ।
हृदयैर्वा विधानं तु नाभौ होमप्रकल्पयेत् ।।
ललाटे चेश्वरं ध्यायेद्वरदं सर्वतोमुखम् ।
यथर्चने तथा ह्यग्नौ ध्याने चैव तथैव हि ।।
यथा देवे तथा देहे अग्नौ होमे तथैव च ।
अन्तःकरणमिदं ज्ञात्वा पश्चाद्बाह्यं तु षण्मुख ।।
स बाह्याभ्यन्तरं कृत्वा पश्चाघ्नजनमारभेत् ।
इति कालज्ञाने वातुले तन्त्रेऽध्युष्टशते द्वितीयः पटलः ।।
ईश्वर उवाच ।।
अथातः संप्रवक्ष्यामि स्नानं पापहरंपरम् ।
सकृज्जरो न चास्त्रेण मृदं गृह्यविचक्षणः ।।
मलस्नानं पुराकृत्वा स कृज्जप्त्वा तु संहिताम् ।
तामेव मृत्तिकां वत्स अभिमन्त्र्य सकृत्सकृत् ।।
भागत्रयं ततः कृत्वा एकं चास्त्रेण भालयेत् ।
द्वितीयं पञ्चभिर्ब्रह्मैः शिवजप्तं तृतीयकम् ।।
अस्त्र जप्तेन भागेन दिशाबन्धन्तु कारयेत् ।
शिवजप्तेन तीर्थं तु ब्रह्म जप्तेन चात्मनि ।।
गुंडयित्वा ततः स्नायात् शिव तीर्थस्य मध्यतः ।
प्. २ब्)
(यथा देवे तथा देहे चिन्तयित्वा विचक्षणः ।
कृत्वान्तः करणं ह्येतत्पश्चाद्बाह्यन्तु षण्मुख ।। पाठान्तरम् । टोप् ओf
पगे)
चक्रवत्युपचारेण सुगन्धामलकादिभिः ।।
उपस्पृश्य विधानेन सन्ध्यां वन्देदनुक्रमात् ।
मन्त्रैः सर्वैः सकृद्वत्स उपस्थानन्तु कारयेत् ।।
अभिषेकं पुराकृत्वा पश्चात्सन्ध्यां समाचरेत् ।
अस्त्रंति योजयेद्देहे क्षिपेद्बाह्ये विचक्षणः ।।
शरीरं शोषयेद्वत्स(धयेत्तसः) ते नात्मनि नियोजयेत् ।
विघ्नेषु पाशजालेषु सदायोज्यं विचक्षणैः ।।
हृदयेन ततो विद्वान् पितृदेवांश्च तर्पयेत् ।
संहारं तस्य तीर्थस्य प्रसादेन तु षण्मुख ।।
इति कालोत्तरेऽध्युष्टशते तृतीयः पटलः
ईश्वर उवाच ।।
भस्मस्थानं प्रवक्ष्यामि संक्षेपेण तु षण्मुख ।
सर्वमन्त्रैः सकृद्वत्स अभिमन्त्र्य यथाक्रमम् ।।
मलस्नानं पुराकृत्वा अस्त्रबीजेन षण्मुखः ।
विधिस्नानं ततः पश्चान्मूर्द्ध्निमारभ्य विन्यसेत् ।।
ईशानेन्येद्धूल्य शिरोंमुखं चक्रेणमन्त्रवित् ।
हृदयाङ्गं अघोरेण गुह्यं वै गुह्यकेन तु ।।
सर्वाङ्गञ्चैव संघेन अभिषेकन्तु पञ्चभिः ।
उपरिष्ठाद्येनादेन पश्चात्कुर्वीत षण्मुख ।।
इति कालोत्तरे वातुले तन्त्रेऽध्युष्टशते चतुर्थः पटलः ।।
ईश्वर उवाच ।।
यजनं संप्रवक्ष्यामि यथावदनुपूर्वशः ।
बीजाङ्कुरं पुरा * * त्या पश्चादनन्तमासनम् ।।
अन्ते चानन्तिकं कुर्यात्क्रमेण षडानन ।
हृदयं कर्णिका पद्मं धर्मज्ञानादिमेव च ।।
वैराग्यं नैव ऐश्वर्यं हृदयं प्रभवा न्यसेत् ।
केसरैः शक्तयो व्यूहं हृदयेन तु कारयेत् ।।
आवाहयेत् ततो देवं हृदयेन तु षण्मुखः ।
प्. ३अ)
(शिवादि सर्वमन्त्रैश्च होमयेच्चानु पूर्वशः । तोप् ओf पगे)
स्थापनं चार्घ पाद्यं च आचमनीयं च मंत्रवित् ।।
स्नपनं पूजनं चैव हृदयेन तु कारयेत् ।
उक्तानुक्तं च यत्किञ्चित्तत्सर्व हृदयेन तु ।।
एकावरणमेतद्धि सर्वकामार्थसाधनम् ।
सर्वमंत्रेषु सामान्यं सर्वज्ञानेषु चोत्तमम् ।।
इति कालज्ञाने वातुले तन्त्रेऽध्युष्टशते पञ्चमः पटलः ।।
अथातः संप्रवक्षामि अग्निकार्यविधिक्रमम् ।
अस्त्रेणोत् ह्ये?खनं कुर्यात् कवचेनाभ्युक्षणं तथा ।।
शक्ति न्यासं ततो मन्त्री हृदयेन तु कारयेत् ।
हृदि वै शक्ति गर्भं तु प्रक्षिपेज्जातवेदसम् ।।
गर्भाधानादिकं कृत्वा निकृतिं चाप्य पश्चिमाम् ।
हृदयेन तु मन्त्रज्ञः सर्वकर्माणि कारयेत् ।।
पश्चात्पद्मविधानं तु प्रागुक्तं परिकल्पयेत् ।।
इति कालोत्तरेऽध्युष्टशते षष्ठः पटलः ।।
अतः परं प्रवक्ष्यामि मण्डलं सार्वकामिकम् ।
भूमेः संसोधनं कृत्वा शास्त्रदृष्टेन कर्मणा ।।
अधिवासनं ततः कुर्यान्नक्षत्रे शकुनान्विते ।
आलिखेन्मण्डलं प्राज्ञः सर्वसिद्धिप्रदं शुभम् ।।
सूत्रेण सुमितं कृत्वा चतुरस्त्रं समंततः ।
मध्ये पद्मं प्रतिष्ठाप्य अष्टपत्रं स कर्णिकम् ।।
एकहस्तं द्विहस्तं वा चतुरष्टमथापि वा ।
लिखेदावरणं त्रीणि स्वतन्त्रं विहितांगुह ।।
पश्चिमे वाह्येद्वारमाचार्य सुसमाहितः ।
आग्नेयां कारयेत्कुण्डं हस्तमात्रं प्रमाणतः ।।
यज्ञकर्मविधिं कुर्यात् सुसमिद्धे हुतासने ।
पूर्वादारभ्य वक्त्रादीन् विन्यसेच्चानु पूर्वशः ।।
पवित्राणिपुरान्यस्य शिवाङ्गानि न्यसेत्ततः ।
आग्नेयां हृदयं न्यस्य ईशान्यां शिरो न्यसेत् ।।
(वर्तुलञ्चतुरस्रकश्चन्द्र मेखलशोभितम् ।
सर्वकामप्रवदिष्टां हुन्ताग्नेयां? स लक्षणम् ।।
यज्ञाङ्गानि समाधाय कुर्याद्भूम्याधिपासनम् । बोत्तोम् ओf पगे)
प्. ३ब्)
(संक्षेपेण मयास्कन्द विधानं परिकीर्तितम् ।
अनुक्तं यद् भवेत् किञ्चित् तत् सर्वं हृदयेन तु ।।
एवं विधि विधानज्ञो बुध्वाकर्मसमारभेत् ।। तोप् ओf पगे)
नै-ऋत्यां तु शिखां दघ्नाद्वायव्यां कवचं न्यसेत् ।
अस्त्रं दिशासुविन्यस्य कर्णिकायां सदाशिवम् ।।
गर्भ न्यासे विधिर्ह्येष द्वितीयावरणं शृणु ।
पूर्वादारभ्य विधिना लोकपालांश्च पूजयेत् ।।
तृतीये लोकपालास्त्रां अस्त्रेणैकेन पूजयेत् ।
इति कालोत्तरे वातुले तन्त्रेऽध्युष्टशते सप्तमः पटलः ।।
ईश्वर उवाच ।।
अथ दीक्षां प्रवक्षामि पञ्चतत्वैर्व्यवस्थिताम् ।
पृथिव्या परन्तथा तेजो वायुराकाशमेव च ।।
एते पञ्च महातत्वायैर्व्याप्तमखिलं जगत् ।
सर्वतत्वास्तु तत्रस्याद्रष्टव्या साधकोत्तमैः ।।
नाध्नाः सन्धानयोगेन संयोज्यांहुतिभिः क्रमात् ।
ब्रह्माण्डं तु निवृत्या वै शत रुद्रा व्यवस्थिताः ।।
प्रतिष्ठायां तदूर्द्धंत यावद व्यक्तगोचरम् ।
(कवचं तु प्रतिष्ठायां यावद व्यक्त गोचरम् बाह्य लक्ष । रिघ्त् ओf
पगे)
ततो विघ्नानि युञ्जीत यावद्विघ्नेश्वरान्तिकम् ।।
शान्त्यातदूर्ध्वमध्वानं शान्त्यातीतं शिवं यजेत् ।
तदा प्राप्य शिवं भूय न पुनर्जन्मनां व्रजेत् ।।
अविदित्वा इमांस्तत्वान् यो दीक्षां कर्तुमिच्छति ।
वृथापरिश्रमं तस्य नैव तत्फलमाप्नुयात् ।।
निवृत्तिः पृथिवी ज्ञेया प्रतिष्ठा चाप उच्यते ।
विघ्ना तेजो मयी प्रोक्ता वायुः शान्तिश्च कीर्तिता ।।
शान्त्यातीतं भवेद् व्योम तत्परं शान्तमव्यम् ।
तं विदित्वा महासेन स्वयं चान्यपि दीक्षयेत् ।।
निवृत्तिं हृदये नैव प्रतिष्ठां वै शिरेण तु ।
विघ्ना चैव शिखायां तु शान्तिं वै कवचेन तु ।।
शान्त्यातीतं परं व्योम प्रसादेन तु होमयेत् ।
एकैकस्य शतं जुहुयात् शतं वै पञ्च होमयेत् ।।
प्. ४अ)
पश्चात्पूर्णाहुतिं दघ्नात्प्रासादेन तु षण्मुख ।
प्रायश्चित्तं विशुध्यर्थमेकैकाष्टाहुतिं क्रमात् ।।
अस्त्र बीजेन मन्त्रज्ञो होमयेज्ज्ञातु पूर्वशः ।
एवं समाप्यते दीक्षा जननादि विसर्जिता ।।
हुते नैव तु मुच्यन्ते साधकाजन्मबन्धनात् ।
अप्रकाश्यामिमामिष्टिं गोपनीयं प्रयत्नतः ।।
रहस्यं सर्वतन्त्राणामिदं संस्कारमुत्तमम् ।
एवं संस्कारशुद्धस्य शिवत्वं जायते ध्रुवम् ।।
कार्तिके उवाच ।।
(स्कन्द उवाच ।।
सकलो ह्येतदुद्दिष्टं पूर्णाहुत्वा तु निष्कलम् ।
एवं संयोजितस्तस्मिन्प्रासादेन महेश्वर ।। इत्येक पुस्तकेऽधिकः पाठः ।।
टोप् ओf पगे)
योनि न्यासादितः कृत्वा उद्धारं चाप्य पश्चिमम् ।
सोधनानु क्रमं देव कथयस्व यथाविधि ।।
ईश्वर उवाच ।।
दशसप्त च ये प्रोक्ता पृष्टास्ते वै त्वया गुह ।
यस्य यद्विहितं बीजं कथयाम्यनु पूर्वशः ।।
योनिबीजं तु हृदयं कल्पपीत यथाक्रमम् ।
अर्चनं प्रोक्षणं चैव ताडनं च तथैव हि ।।
संहारं चैव संयोगं निक्षेपं हि तथैव च ।
अर्चनं च पुनः कुर्याद्गर्भधारणमेव च ।।
जननं चाधिकारं च भोगश्चैव लयतथा ।
स्वतत्वे शतमाहुत्या हृदयेन तु षण्मुख ।।
पाशद्भेदं तथास्त्रेण पूर्णाहुत्या च पूर्ववत् ।
हृदयेन ततोद्वारं कर्तव्यं चानुपूर्वशः ।।
अकारादि ऋकारान्तं नपुंसकविवर्जिताः ।
आत्मतत्व स्वराश्चैते पञ्चयुग्माः प्रकीर्तिताः ।।
शोधनीयाः पुरावत्स भूतादिभिरनुज्ञया ।
भूताभावास्तथा तत्वा गन्धादिश्च यथाक्रमम् ।।
गन्धोरसस्तथा रूपस्पर्शः शब्दश्च पञ्चमः ।
तन्मात्र संस्थिताश्चैते होमयेच्चानुपूर्वशः ।।
गन्धभूतानि होतव्यं रसो भावात्षडानन ।
प्. ४ब्)
तेजस्तत्वा समाख्याताः स्पर्शबीजानि होमयेत् ।।
शब्दे शब्दस्तु संयोज्य हृदिना संपुटीकृता ।
उद्धारे प्रोक्षणे चैव ताडने च तथैव हि ।।
हुंफट्कारसमायुक्तं कर्तव्यं चानु पूर्वशः (संहारं तु
तथापरम् पाठान्तरम्) ।
संहारं चैव तत्वानां कर्तव्यं तु यथाक्रमम् ।।
तत्वे तत्वे त्विदं कर्म एष एव विधिक्रमम् ।
यस्य यद्बीजं विहितं तस्य एव विधिक्रमम् ।।
एभिः संसोधितैर्वत्स विधिमाप्नोति पुष्कलम् ।
अन्यथा नैव मुच्यन्ते विधिहीनाः षडानन ।।
पूर्णाहुति प्रदानन्तु कर्तव्यं धारणायुतम् ।
अमृतं यत्परं वत्स स्रवन्तं मनसा स्मरेत् ।।
(तेनाप्यायन्तिते सर्वे देवा ह्यग्निः मुखं गताः ।
भवन्ति शिवदाः सर्वे शिवयज्ञस्य योजनाः ।। टोप् ओf पगे)
दीक्षा प्रकरणे ह्येषा योज्या सर्वत्र सर्वदा ।
लिङ्गोद्धारविधाने तु सर्वसंस्कारकर्मसु ।।
कार्तिकेय उवाच ।।
पशोर्यहं तथा मोक्षं यत्त्वयोक्तं पुरामम ।
पाशा मे भ्यन्तरा बाह्याः कस्मिन् स्थाने व्यवस्थिताः ।।
कस्मिन् स्थाने च तं द्वेघ्नां सघ्नोत्कान्तिश्च कीदृशी ।
पशवः के च निर्देशं कथयस्व महेश्वर ।।
ईश्वर उवाच ।।
आदिमस्य द्वितीयेन गृह्य * * *? चात्मनि ।
मुष्टिना यावत्तत्स्थानं नीयते तु विचक्षणः ।।
विषुवेन तु * * * हर्मद्यं स शिवानिकं ।
एकत्र समतां यान्तिं अन्यथा च पृथक् पृथक् ।।
- * *? ते तु *? त्तव्याः शिवास्त्रेण तु संयुताः ।
तदास्य योज्यतां यान्ति समयेत्परिवर्जिताः ।।
अनिर्देश्यमसंज्ञं च (असंदिग्धमिति पुस्तकान्तरे पाठः)
यत्कृतं तद्वृथा भवेत् ।
समुद्दिश्य कृतं कर्म मोक्षदं नैव संशयः ।।
यथा कामं समुद्दिश्य कौतुकाघ्नानि कुर्वते ।
प्. ५अ)
तथाफलानितद्भुङ्क्ते अनिर्दिष्टन्तु मोक्षदम् ।।
सूर्यस्य ग्रहणे वत्स विषुवेन तु संयुतम् ।
आयामांते यदाछिन्नं तदा चोत्क्रामयेत् ध्रुवम् ।।
अनेन ग्रन्थिताः पाशाः सूत्रे मणि गणा इव ।
हृसध्याघ्नावत्तत्पद्मं मनस्तं तु सुतानितम् ।।
तं दृष्ट्वा छेदनं कुर्यान्मनोवृत्या मनश्छिनेत् ।
मनसा तु मनश्छिन्नं जीवः केवलतां व्रजेत् ।।
कार्तिकेय उवाच ।।
विस्तरं त्यज देवेश संक्षेपं कथयस्वमे ।
येन विज्ञानमात्रेण पशुं मोचयते क्षणात् ।।
ईश्वर उवाच ।।
शृणु षण्मुख तत्वेन येन मोक्षे ध्रुवं भवेत् ।
प्रयोगेण तु सूक्ष्मेण योगदृष्टेन मन्त्रवित् ।।
दिव्येन योगमार्गेण प्रेर्यते मन्त्रशक्तिना ।
तं विदित्वा महासेन जीवं वायुमयंबुध ।।
विषुवेन तु योगेन विन्यसेच्छाश्वतं पदं ।
योगं तु विषुवं प्राप्य कोन मुच्येत बन्धनात् ।।
पृथिव्याघ्नन्तु नाघ्ना वै शब्दादि गुणवायुभिः ।
मन्वाधि देवतात्मा च ज्ञात्वामुच्यति मोचकः ।।
नाडी विवरसंबद्धादूर्धनासो ह्यधोमुखाः ।
ग्रन्थि द्वय युताः सर्वे हुंफडद्वारान्तरेन्विताः ।।
ततश्चोर्द्धं त्वमायान्ति मन्त्रनाद पदेरिता ।
दीक्षाकाले तु संयोज्य उघ्यातैः पूर्ववद्बुधः ।।
क्ष्माघ्नालोक्यमनसा स बाह्याभ्यंतरं ग्रह ।
तत्वे तत्वे तु कर्तव्या वियुक्तानि रहंकृताः ।।
ब्रह्माध्नां श्रावयेद्वत्स न पुनर्जन्मतां व्रजेत् ।
चेता चेतोद् द्विरभ्यस्य मन्त्रवादपदेरितम् ।।
दीक्षा काले तु संयोज्य आयामे भास्करस्य तु ।
सर्वमार्गाश्रितं जीवं नाशाग्रे द्वादशाङ्गुलम् ।।
ताडयित्वा पुरावत्स ग्रहणं पूर्वद् भवेत् ।
प्. ५ब्)
(भित्वागत्वां न्यसेज्ज्योतिं तत्वं तत्वेन शोधयेत् । इत्येक पुस्तके
पाठः । टोप् ओf पगे)
भित्वागत्वां न्यसेघ्नोनिं तत्वं तत्वे तु सन्धयेत् ।।
शक्तिनासं पुटीकृत्य वौषडन्तेन निक्षिपेत् ।।
इति कालाख्यप्रकरणे वातुले तन्त्रेऽध्युष्टशतेऽष्टमः पटलः ।।
ईश्वर उवाच ।।
अभिषेकं प्रवक्ष्यामि संक्षेपान्न तु विस्तरात् ।
हिताय साधकेंद्राणां शिववक्त्राद्विनिःसृतम् ।।
मृन्मयं कलशं ह्येक चन्दनेन विलेपितम् ।
ब्रह्मपत्रपुटे नाथ पद्मपत्रेण वा भवेत् ।।
सर्वौषधि युतं कृत्वा सर्वगन्धीपशोभितम् ।
सर्वरत्नं मयं कुम्भ सर्वरत्नोपशोभितम् ।।
शतमष्टोत्तरं जप्त्वा निनादं सर्वतो मुखम् ।
याग कृत्वा तु पूर्वोक्तमभिषेकं समाचरेत् ।।
शुभे नक्षत्र दिवसे मुहूर्ते शकुनान्विते ।
वहुमङ्गलघोषैश्च शंखवादि अनिःश्वनैः ।।
ब्रह्मघोषैश्च विविधैर्नृत्यगेय समन्वितैः ।
अनुज्ञातोभिषिक्तश्च आचार्यपाशहा भवेत् ।।
इति कालोत्तरेऽध्युष्टशते नवमः पटलः ।।
ईश्वर उवाच ।।
नाडी चक्रमिदं सूक्ष्मं प्रवक्ष्याम्यनुपूर्वशः ।
नाभेरधस्ताप्र?त्कन्दमंकुरास्तवनिर्गताः ।।
द्वासप्तति सहस्राणि नाभिमध्ये व्यवस्थिता ।
तिर्यगूर्ध्वमधश्चैव व्याप्तं तैस्तु समन्ततः ।।
चक्रवत्संस्थिता ह्येताः प्रधानादशनाडयः ।
इडा च पिङ्गला चैव सुष्ठरा च यथा भवेत् ।।
गान्धारी हस्तजिह्वा च पूषा चैव यशा स्मृताः ।
अलंबुषा कुहूश्चैव शंखिनीदशमी तथा ।।
दशप्राणवहां ह्येता नाडयः परिकीर्तिताः ।
प्. ६अ)
प्राणोपानसमाश्च उदानो व्यानमेव च ।।
नागकूर्मोथ कृकरो देवदत्तोधनञ्जयः ।
प्राणश्च प्रथमोर्नवानामपि स प्रभुः ।।
प्राणः प्राणमयः प्राणो विसर्गाः पूरणं प्रति ।
नित्यमापूरयत्येय प्राणिनामुरसि स्थितः ।।
निश्वासो ह्यसकासैश्च प्राणोजीवः समाश्रितः ।
प्रयाणं कुरुते यस्मात्तस्मात्प्राणः प्रकीर्तितः ।।
अपानयत्यपानस्तु आहारमनुजामधः ।
शुक्रमूत्रवहोवायुरपानस्तेन कीर्तितः ।।
पीतं भक्षितमाघ्रातं रक्तं पित्तकफानिलम् ।
समं नयति गात्रेषु समानो नाममारुतः ।।
स्पन्दयत्यधरं वक्त्रं नेत्रगात्रे प्रकोपनम् ।
उद्वेजयति मर्माणि उदानो नाममारुतः ।।
व्यानोविनाशयत्यङ्गं व्यानो व्याधि प्रकोपनः ।
प्रीतिर्विनाशः कथितो वार्धिक्यं व्यान उच्यते ।।
प्राणाघ्नावायवः प्रोक्ता नामाघ्नाः कथयामिते ।
उद्गारे नाग इत्युक्तः कूर्मश्चोन्मीलने स्थितः ।।
कूकरः क्षुभिते चैव देवदत्तो विजृम्भते ।
धनंजयः स्थितो घोषे मृतस्यापि न मुञ्चति ।।
इत्येतद्वायुं वृन्दं हृदहृदि निहितं नाभिचक्रे प्रतिष्ठं
निःश्वासोछ्वासकासैःस्वसनमुरमधः कम्पिता घूर्णितैश्च नित्यं
नित्याल्पजन्मा व्यसनपतिपशुं यौवने चाल्प भावादाक्रान्तो
वायुवृन्दैविधुननमणौः क्रीडते सर्वसत्वै * *? डी चक्रं
यथावस्थं कथयामि तवाखिलम् ।।
दशारं चक्रमेतन्तु विभागो ज्ञायते यथा ।।
चक्रवद्भ्रमते जीवो दशस्थानेष्वनुक्रमात् ।।
प्. ६ब्)
स जीवोजीव लोकस्य नैव बुध्यन्ति मोहिता ।
दशधा गच्छते येन तेन चक्रं प्रकीर्तितम् ।।
नाडीचक्रेति विख्याता येन संक्रमते ह्यसौ ।
हृद्व्योममध्य पङ्कजमष्टदलं कर्णिका च तस्यान्ते ।।
अर्केन्दु हिरण्यघ्नोताभः शक्तियः स्तस्मिनुपरिचराखलु ।
शक्तिस्तासां प्राग्भाविनी शिवस्य तदवस्थांशच्छिव
तुष्टयपङ्कजमध्ये पुरुषस्तषसंलीनः ।।
शून्यं मरुत्संदंशकगृहीतकरणात्मक उभयतोपि ।।
स पाति पत्र नीयते सुष्कदलं मारुते नैव ।
भ्रामति पङ्कजमध्ये कला च स्वोद्भूपांशसंबद्धः ।।
गोलकहेनाहत इव उत्पतननिपतनं सदा कुरुते ।
ईश्वर योगाद्विषु वंसंकान्तिश्चैव सव्यसंयोगात् ।।
सौरनियोगाद्दक्षिणमुदगयनं वाहाजन्मसंयोगात् ।
अयनौ सव्यापसव्यौ द्वौपुटकौ युग्मतो विषुवमाहुः ।।
संक्रान्तिरितश्चेतश्चेतद्विदैश्च समाख्याता ।
सौरः सभ्यो मार्गश्चान्द्रमराश्चेतरसमाख्यातः ।।
धन्यामभिषेचनोंदोसौरः खलु वह्नि सन्धाने ध्यानाघ्नावियुषाख्ये
प्रागुललसंस्थं नृपाबलेपि स्यात् ।।
तेजस्वी तृ इवुभुक्षापीडासंजायतेतिग्नि दिक्पत्रे ।
याम्ये याम्यं भागं नैर्-ऋत्ये राक्षसं समुद्दिष्टम् ।।
वारुणं वरुणं संस्थं मारुतपत्रे गते मरुद्भावम् ।
सौम्ये याक्षं भावमीऽसे ईशं समाख्यातम् ।।
ब्राह्मे ब्राह्मां भावं तदध उरगेन्द्र समुष्टितम् ।
यस्यां दिशं विगच्छत्यखिलं भावं तस्य संयाति ।।
पत्रान्तरालसंयोगाच्छून्यदामात्मानमाभाति ।
प्. ७अ)
इति खलु पुद्गलचारं नाडीसंचारमण्डले मुख्यं कथितमिह *
- ? हेतोर्बोद्धव्यं यत्नतः सिद्धैः ।।
कार्तिकेय उवाच ।।
स जीवोजीवलोकस्य येन जानन्ति तत्वतः (यथा ज्ञायाति इति
पाठान्तरम्) ।
संशयो मे महादेव प्रसादी भव शूलधृक् ।।
ईश्वर उवाच ।।
जीवस्य पुरुषाख्यस्य दर्शनं शृणु षण्मुख ।
कथयामि न संदेह पुत्रस्नेहाद्विशेषतः ।।
संक्रान्तिर्विषुवं चैव अहोरात्रायुनानि च ।
अधिमासं ऋणं चैव ऊत रात्रं धनं तथा ।।
ऊन रात्रं भवेच्छिक्का अधिमासो विजृम्भिका ।
ऋणं च भवते कासो निश्वासो धनमुच्यते ।।
उत्तरं दक्षिणं ज्ञेयं वामदक्षिणसंज्ञकम् ।
मध्ये तु विषुवं प्रोक्तं पुटद्वयविनिःसृतम् ।।
चत्वारो विषुवाः प्रोक्ता योगिनां दिने दिने ।
मध्याह्ने चार्द्धरात्रे च उदयास्तमने तथा ।।
संक्रामं पुनरस्यैव स्वस्थानास्थानमेव च ।
इडा चैव सुषुम्णा च अमा चैव समन्विता ।।
सुषुम्णा मध्यमे ह्यङ्गे इडा वामे प्रतिष्ठिता ।
अमा वै दक्षिणे ह्यङ्गे एतत्संक्रान्ति मुच्यते ।।
ऊर्द्ध्व प्राणो अहश्चैव अपानो रात्रिरेव च ।
विभागा दश प्राणस्य यो वेत्येवं स वेदवित् ।।
आयामो देह मध्यस्थः सोमग्रहणमिष्यते ।
देहातीतं तु तं विंघ्नादादित्यग्रहणं विदुः ।।
स्वयमुच्चरते यस्मात् स्वदेहावस्थितः शिवः ।
तस्मात् तत्व विदां पुंसां तदेव जप मुच्यते ।।
अयुते द्वे सहस्रं तु षड्शतानि तथैव च ।
अहोरात्रेण योगीन्द्रो जपसंख्यां करोति हि ।।
प्राणायामं समासेन कथयामि तवाऽखिल ।
प्. ७ब्)
उक्तस्येत? प्रणवं स्वरेणैकि? न योगवित् ।।
उदरं भू?यित्वा तु वायुना यावदीप्सितम् ।
प्राणायामो भवत्येय पूरके दिहपूरकः ।।
पिधाय सर्वद्वाराणि निःश्वासोछ्वासवर्जितः ।
संपूर्णकुम्भवत्तिष्ठेत् प्राणायामस्तु कुम्भकः ।।
सुश्चे?द्वायुं ततोर्द्धन्तु श्वासे नैकेन योगवित् ।
निःश्वासयोगयुक्तस्तु ऊर्द्ध्ववायुश्चरे चयेत् ।।
रेचकस्त्वेष विख्यातः प्राणः संशय कारकः ।
योसौ हृदिस्थं पद्मस्तु अधोमुखव्यवस्थितः ।।
स वै विकसते पद्मः पूरकेण तु पूरितः ।
ऊर्द्ध्व स्त्रोतो भवेत् पद्मः कुम्भकेन तु रोधितः ।।
रेचकेण तु आक्षिप्तः सघ्नः प्राणहरेण तु ।
मुत्का हृदय पद्मं तु ऊर्ध्वस्त्रोतो व्यवस्थितः ।।
रेचितो गच्छते ह्यूर्ध्वं ग्रन्थिं भित्वा क्षणेन तु ।
भित्वा कपाल द्वारतजीव? ऊर्द्ध्वन्तु रेचितः ।।
सदाशिव पदं गत्वा न भूयो जन्मतां व्रजेत् ।
आयाम? कृयते तस्य नान्यस्य तु कदाचन ।।
स जीवो जीवलोकस्य मया प्रोक्तः समासतः ।।
इति कालोत्तरेऽध्युष्ट इति ज्ञानभेदो दशमः पटलः ।।
चन्द्राग्निरविसंयुक्ता आघ्नाकुण्डलिनी तु या ।
हृत्पद्म देशे तु सा ज्ञेया अङ्कुराकारसंस्थिता ।।
सृष्टि न्यासं न्यसेत् तत्र द्विरभ्यास पदेरितम् ।
स्रवन्तं चिन्तयेत् तस्मिन्नमृतं साधकोत्तमः ।।
अग्नीसोमात्मकं सर्वं जगत्स्थावरजङ्गमम् ।
चिन्तयेद्विपरीतन्तु सिद्धिकामः समाहितः ।।
स्वदेहं चिन्तयेद्विद्वान्दिरूपमनौपमम् ।
ऊद्दिष्टं यस्य यत्कर्म तस्य तत्कर्म चिन्तयेत् ।।
प्. ८अ)
चतुरस्रार्द्धचन्द्रन्तु त्र्यंशवर्तुलशून्यकम् ।
वज्रान्तं शृंगाटं बिन्दुशून्यं चेति प्रकीर्तितम् ।।
पीतं शुक्ल च रक्त्रं च कृष्णं च सर्वकामिकम् (स्यामवर्ण
पा०) ।
यो वेत्येवमिमं तत्वं स तत्ववित्षडानन ।।
समस्तव्यस्तभावेन समाधिं यो भ्यसेद्गुह ।
इहामुत्रफलं तस्य अचिरेण न संशयः ।।
पंचावस्थां स्वतत्वस्थां स्वभावां तेजसान्विता
(भावतेजसमन्विताम् पा०) ।
ध्यात्वा ह्येतां ब्रजेन्मूर्द्ध्नि तस्मिंश्चित्तं नियोजयेत् ।।
स्तम्भनाप्यायनोत्कर्म विद्वेषोच्चाटनादि च ।
प्रीति संजननं सौम्यं यद्दिष्टं ते षडानन ।।
बिन्दुस्थं त्रितयं ध्यायेत् सिद्धिकामं समाहितः ।
आत्मानमीश्वरं चैव एकीकृत्य षडानन ।।
इदमभ्यसते ध्यानममृतं सर्वतोमुखम् ।
अचिरेणैव कालेन स सिद्धिफलभाग् भवेत् ।।
सृष्टि न्यासमविज्ञाय कथं युञ्जन्ति साधकाः ।
आकाशं हनते मुष्ट्या कुर्वते तु षडाननः ।।
इति कालोत्तरेऽध्युष्टशते एकादशः पटलः ।।
ईश्वर उवाच ।।
पुनरेव प्रवक्ष्यामि सृष्टिं विस्तरतः क्रमात् ।
यथा तु सकलो देवो निष्कलेन स * न्वितः ।।
कला युत्पाद या मास सर्वमन्त्र प्रवर्तिकाम् ।
ओंकार मूर्द्ध्निमध्यस्थं ओंकारो व्याप्य सर्वतः ।।
ओंकारः प्रथमो रेखा अंकारः सृजते प्रभुः ।
विंघ्नानामकला सा तु वर्णे वर्णे व्यवस्थिता ।।
ओंकारस्य तु ओंकारोभाकला या तु दृश्यते ।
प्रतिष्ठानाम सा ज्ञेया ओंकाराक्षरक्षरसंभवा ।।
मूर्द्ध्नि तस्य भवेघ्ना तु सूक्ष्मामूर्तिनिरञ्जना ।।
मकारः संभवस्तस्या निवृत्तिर्नाम सा कला ।
प्. ८ब्)
ओंकारं बिन्दुसंयुक्तं लय ओंकारमूर्द्ध्नि ।।
रेखैवव्योम्नि निर्वाणा सा कला शान्तिरुत्तमा ।
संयोगात्संप्रकाशेत निष्कले सकले? स्थितः ।।
मूर्द्ध्नि ओंकारस्त? ओंकारं ओंशब्दस्य तु जायते ।
सा शान्ति परमा सूक्ष्मा बिन्दुना सह जायते ।।
दीपादि दिवयते तेजो विस्फुङ्गशिखान्वितः ।
तन्नियतं त्रिधा याति शिवविघ्नात्पलां हलाम् ।।
शान्ति विघ्ना प्रतिष्ठा च निवृत्तिश्चैव सा कला ।
या कला रेखिणी तत्र पतिता बिन्दुना सह ।।
स विश्वेशः शिवः प्रोक्तो देवदेवो महेश्वरः ।
प्रथमं यस्य यद्बीजं बिन्दुनादेति कीर्तितम् ।।
न त्यजेत् परमं स्थानं सास्वतं ध्रुवमव्ययम् ।
बिन्दुं चोदरे क्षिप्य मातृवत्परिरक्षति ।।
तस्योर्द्ध्वे वामपार्श्वे तु विष्णुबीजं प्रकीर्तितम् ।
तस्य दक्षिण पार्श्वे तु ब्रह्मबीजं प्रकीर्तितम् ।।
वामदक्षिण योनिस्थमेकमेवं त्रिधा भवेत् ।
पार्श्वे बिन्दु द्वये चैव या रेखा मध्यमा स्थिता ।।
तत्र देवः शिवः सूक्ष्मो गूढस्तिष्ठति शङ्करः ।
एतद्बीजं परं देव शक्तिगर्भे महेश्वरम् ।।
यतः प्रवर्तते सूक्ष्मं मन्त्रं तन्त्रं चराचरम् ।
अव्यक्तं परमं सूक्ष्मं शक्तिदेहनिरञ्जनम् ।।
शिवमनादि निधनं या बुध्वानाभि जायते ।
दक्षिणस्यं तु यद्बीजं ज्ञानशक्ति परा हि सा ।।
तद्बीजं परमं ब्रह्म यत्रगूढः स तिष्ठति ।
वामस्थं यत्परं बिन्दुं क्रियाशक्ति परा हि सा ।।
तत्र विष्णु स्वबीजेन गूढः सूक्ष्मो निरञ्जनः ।
एष देवो विसर्गस्थ विसृष्टो यो हि शंभुना ।।
प्. ९अ)
निगूढ्ं तं न पश्यन्ति येन सृष्टं चराचरम् ।
विसर्गाज्जायते सृष्टिरीश्वरः प्रभुरेव स ।।
विसृष्टं येन सद्बीजं विसर्गस्तेन सोच्यते ।
तेन वा पूरितं सर्वं जगत्स्थावरजङ्गमम् ।।
शक्तिरश्मिन्समूहेन शतशोथसहस्रसः ।
सृजते ग्रसते चैव संयोजकवियोजकः ।।
ज्ञानशक्त्या तु भगवान तु गृह्णाति देहिनम् ।
विसर्गाज्जायते सृष्टिः संहारं बिन्दुना सह ।।
निर्वाणतत्वविज्ञानं न तु विस्तरगोचरम् ।।
इति कालज्ञानेऽध्युष्टशते द्वादशः पटलः ।।
ईश्वर उवाच ।।
संहारः संपुटान्तस्थमादिरन्ते षडानन ।।
मातृकान्ते तथा हुत्वा एकैकस्य पृथक्पृथक् ।।
कार्तिकेय उवाच ।।
संहारं चैव सृष्टिश्च सर्वनिगदितं विभोः ।।
दीक्षितानां गतिभ्रंशस्तत्वतः कथयस्व मे ।।
ईश्वर उवाच ।।
मायान्विते शठे क्रूरे निःसत्ये कलहप्रिये ।
गतिभ्रंशकरोयोग तत्वतः शृणु षण्मुखः ।।
बिन्दुयुक्तं यदा नादं तत्वानां च षडानन ।
वामाज्येष्ठा तथा रौद्रीमाकर्षसन्वयेद्रुतम् ।।
विधाय मूर्द्ध्नि संक्षिप्य आयामेन शिवस्य तु ।
पूर्ववत्मनसा लोक्य गतिस्ते स्वनिवर्तते ।।
गतिभ्रं शकरोयोगोवत्स यद्व?दुदाहृतः ।।
इति कालज्ञानेऽध्युष्टशते त्रयोदशः पटलः ।।
ईश्वर उवाच ।।
प्रसादेनोत्थाप्य नादं सतजं जपते यदि ।
षण्मासाज्जायते सिद्धिर्योगयुक्तो न संशयः ।।
गमागमस्य जाप्येन सर्वपापक्षयो भवेत् ।
अणिमादि गुणैश्वर्यं षड्भिर्मासैर्न संशयः ।।
गमागमं विदित्वा तु मुच्यते नात्र संशयः ।
प्. ९ब्)
तन्मयस्तत्सद्यो भूत्वा षण्मासात् सिद्धिमाप्नुयात् ।।
सूक्ष्मस्थूलं परं चैव प्रसाद कथितो मया ।
प्रसाद येन बुध्यन्ति न ते बुध्यन्ति शङ्करम् ।।
इति कालोत्तरेऽध्युष्टशते चतुर्दशः पटलः ।।
ईश्वर उवाच ।।
अतः परं प्रवक्ष्यामि प्रसादस्य तु लक्षणम् ।
ह्रस्वं दीर्घं प्लुतं चैव लक्षयेन्मन्त्रवित्सदा ।।
ह्रस्वो दहति पापानि दीर्घी मोक्षप्रदो भवेत् ।
आप्यायने प्लुतश्चैव मूर्द्ध्निबिन्दुसमन्वितः ।।
स्थूलभेदास्त्रयः प्रोक्तावश्योच्चाटनमारणे ।
प्लुते नैव सदा वश्यं कुरुते नात्र संशयः ।।
दीर्घे उच्चा?टने प्रोक्तं फट्कारेणसमन्वितम् ।
फट्कारेणसमायुक्तो मारयेन्नात्रसंशयः ।।
आदिरन्ते तु ह्रस्वस्य? फट्कारो मारणे स्मृतः । (ठिस् लिने इस् टोप् ओf
पगे)
आदिरन्ते च हृदयं प्रयोगाकर्षणे स्मृतम् (गंण तु कर्षयेत् ।
पा०) ।
आकर्षयेद्ध्रुवं युक्तो योजनानां शतादपि ।।
एवमाकर्षयेत्साध्यं नामविज्ञाय तत्वतः ।
साधकस्य भवेद् वह्नी न्यूनासाध्यस्य कीर्तिताः ।।
एवं ज्ञात्वा तु मेधावी आकर्षं कुरुते ध्रुवम् ।
अविज्ञाय इदं सम्यग् नैव सिध्यन्ति साधकाः ।।
यागं कृत्वा तु पूर्वोक्तं मन्त्रस्यार्घं प्रदापयेत्? ।
अर्घं दत्वा तु मन्त्रस्य जपं कुर्याद्विचक्षणः ।।
देवस्य दक्षिणे भागे (मूर्तौ पा०) पञ्चं लक्षां स्थितो जपेत् ।
जपान्ते घृत होमस्तु दशसाहस्रिको (कं हुनेत्) भवेत् ।।
एवमाप्यायितोमन्त्र कर्मयोग्यो भवेत् ततः ।
उक्ताश्च ये मयामन्त्राः सिध्यन्ते नात्र संशयः ।।
दशलक्षां जपेद्यस्तु ज्ञनास्व स्थानवासिनः ।
वशमायान्तिते क्षिप्रमिति शास्त्रस्य निश्चयः ।।
प्. १०अ)
त्रिपञ्चलक्षां जप्त्वा तु दशग्रामनिवासिनः ।
तेजनावशमायान्ति आत्मना द्रविणेन च ।।
पञ्चविंशतिभिर्लक्षैर्विषयंवशमाप्नुयात् ।
त्रिंशत्लक्षांजपेघ्नस्तु मण्डलेशो वशो भवेत् ।।
पञ्चत्रिंशज्जपेल्लक्षां पृथिवीवशमानयेत् ।
चत्वारिंशतिभिर्लक्षैरीक्षतेह महेश्वरम्? ।।
पञ्चाशल्लक्षजापेन विघ्नाधरसमो भवेत् ।
तत्रैव मोदते मन्त्री यावदाहूतसंप्लवम् ।।
कोटिंजप्त्वा तु मतिमाञ्शङ्करं पश्यते ध्रुवम् ।।
इति कालोत्तरे कालज्ञानेऽध्युष्टशते पञ्चदशः पटलः ।।
कार्तिकेय उवाच ।।
अघ्नापि संशयो देव ज्ञानविज्ञानयोः प्रभोः ।
कथं जानन्ति तं ज्ञानं कथं वा ज्ञेयमुच्यते ।।
ईश्वर उवाच (ठिस् लिने इस् टोप् ओf पगे)
आधारं पूर्वं विज्ञाय पश्चाद्धोमं तु षण्मुख ।
आधाराधेय (द्ध्येयं) वित्प्राज्ञः समर्थः सर्वकर्मसु ।।
आधारंपुरमित्युक्तमाधेयमीश (मीशोध्ये यस्तुव) मुच्यते ।
ईशान्यामीशते यो हि सोत्र (यो यस्य ईशते ईशः सोऽस्य पा०) ईश इति
स्मृतः ।।
ईशं विज्ञायमेधावी यः स्वयं नदते सदा ।
पुर्यष्टकसमायुक्तंमधश्चोर्द्ध्वं च गच्छति ।।
शब्दः स्पर्श स्वरूपं (श्च मनोबुधि) च रसोगन्धश्च
पञ्चमः ।
बुद्धिर्मनस्त्वहंकारः पुर्यष्टकमिति स्मृतं ।।
यावदेतैर्न मुच्यन्ते कथं मुच्यन्ति बन्धनात् ।
शब्दस्पर्शं त्यजेद्ब्रह्मे रसं वै केशवे त्यजेत् ।।
रूपं गन्धं त्यजेद्रुद्रे बुद्ध्यहंकारमीश्वरे ।
मनोबिंदु शिवे त्यज्य एभिर्मुक्तः शिवी भवेत् ।।
इति कालोत्तरेऽध्युष्टशते षोडशः पटलः ।।
ईश्वर उवाच ।।
कालचक्रविधानं तु प्रवक्ष्याम्यनुपूर्वशः ।
कालचक्रेति विख्यातं येन कालं प्रबुध्यति ।।
प्. १०ब्)
इडाहोरात्र चारेण अब्दांस त्रीणि जीवति ।
द्व्यहोरात्र चारेण अब्दद्वयं स जीवति ।।
त्रीरापहोरात्र चारेण अब्दमेकं स जीवति ।
अहमेकं चरेघ्नस्य य?त्रिमेकां षडानन ।।
षण्मासाज्जायते मृत्युरितिशास्त्रस्य निश्चयः ।
यागद्वयस्य (द्विमासस्यतु) चारेण अहोरात्रं स जीवति ।।
यथा वामा तथा वामा मध्यमा च तथैव च ।
कालचक्रं समाख्यातं पुत्रस्नेहाद्विशेषतः ।।
इति कालज्ञानेऽध्युष्टशते सप्तदशः पटलः ।।
कार्तिकेय उवाच ।।
विमुक्ता ये स्थिता देव शिवतुल्यपराक्रमाः ।
अत्यन्तरमुखं तेषां श्रोतुमिच्छामि तत्वतः ।।
ईश्वर उवाच ।।
यथा द्वौ बृहत्कुमार्यौ प्रीत्या न्योन्यं भजन्तितौ ।
एकासंयुज्यते योगे अन्या (द्वितीया पा०) दुःखमाप्नुयात् ।।
सांयोगिकं तु यत्सुखं तत्सुखं कथयस्व मे ।
कथयामि तव (त्वया०) भद्रे (द्र) यत्सुखं संप्रवर्तते
।।
पुनश्चैवागतां (वं त्वया) दृष्ट्वा परिष्वजति सोत्सुकाः ।
यत्त्वया पूर्वमुद्दिष्टं सांप्रतं कथयस्व मे ।।
असत्य(शक्य०)मेतत्कथितं(तुं) यत्त्वया परिपृच्छितम् ।
ततः सा ब्रुवते क्रुद्धा किं त्वया सत्य वादिनि (सन्धानि० पा०) ।।
ईदृशं तादृशं चैव ऋपम्यं प्रत्ययेन तु ।
संयोगाघ्नत्सुखं भद्रे(द्र०) नैव जानन्ति चान्यथा ।।
अन्यथा वदमानस्य (नामा० पा०) प्रत्ययो नैव जायते ।
अव्युत्पन्नं सुखं यस्मात् कथितुं नैव शक्यते ।।
अचिरेणैव कालेन संप्राप्तं(प्यं) तत्सुखं त(म)या ।
मन्त्वया कथितं भद्रे(द्र) तत्तथैव न संशयः ।।
अज्ञाना सुखमोहेन यदुक्तं चा प्रिय मया ।
तत्क्षमस्वाप्रियं भद्रे(द्र०) यथापूर्वं भजस्वमाम् ।।
इति कालोत्तरेऽध्युष्टशतेऽष्टादशः पटलः ।।
कार्तिकेय उवाच ।
कालज्ञानं त्वया प्रोक्तं स्वाङ्गादि कृतलक्षणम् ।
प्. ११अ)
तत्वात्म वेद विहितं परे यांहितलक्षणम् ।।
आत्मवत्सर्वभूतानि यथावेद्मि तथावद ।।
ईश्वर उवाच ।।
शृणु षण्मुख तत्वेन प्राणीनां जीवितं ध्रुवम् ।
शुष्यते दन्तमेकन्तु शेषास्निग्धा स्वभावतः ।।
त्रिवर्ष जीवितं प्रोक्तं मानवस्य न संशयः ।
द्वे चाब्दे दशने द्वे च अब्दैकं दशन त्रये ।।
अधिकेन तु षण्मासं स जीवेन्नात्र संशयः ।
मासपञ्चसु कथ्यन्ते पञ्चदन्ताः स्वभावतः ।।
दन्तषट्केन सन्देहो मासद्वयायु यो नरः ।
दन्तपङ्क्ति यदा सर्वा नरस्य परिशुष्यति ।।
मासमेकञ्च निर्दिष्टं जीविते नात्र संशयः ।
पङ्क्ति द्वयं यदा शुष्येज्जीवितं चार्द्धसंख्यया ।।
अधरं यदि शुष्येत सा एव दशनावली ।
दिक्संख्याजीवितं प्रोक्तं पञ्चाहं स यतो नरः ।।
दन्तोष्ठौ तालुजिह्वा च मुखं च परिशुष्यति ।
सद्य एव भवेन्मृत्युर्नात्र कार्य विचारणा ।।
इति संक्षेपतः प्रोक्तं कालज्ञानं मया तव ।
कथितं स रहस्यन्तु मोक्षमार्गे विशोधनम् ।।
यथात्मनि परे चैव ज्ञातव्यं तदनु क्रमात् ।।
कार्तिकेय उवाच ।।
कथं व्यापी अधश्चोर्द्धं तिर्यग् चैव कथं विभो ।
एतन्मे ब्रूहि सद्भावं कारुण्यात्परमेश्वर ।।
ईश्वर उवाच ।।
यावद्देहे स्थितो जन्तुस्तावधस्ताद्व्यवस्थितः ।
निर्गतो व्यापयेत्तिर्यगन्तःस्थः सर्वतः स्थितः(प्रभुः० पा०) ।।
त्रिमार्गावस्थितो जन्तुः सर्वदेहेष्ववस्थितः ।
अविदित्वा न मुच्येत यघ्नपि तल्लयो भवेत् ।।
त्रिमार्गं त्रिरधिष्ठानं सर्वदेहेषु वर्त्तते ।।
यो वेन्त्येवमिमां व्याप्तिं स व्यापीतिनं संशयः ।
प्. ११ब्)
न तस्य गर्भसंभूतिर्यथा(रेवं) देव प्रभायते ।।
तावद्भ्रमति संसारे यावद्व्याप्तिं न विन्दति ।
विदित्वाव्यापि तं देवं मुच्यते नात्र संशयः ।।
यथा तृणजलूका तु तृणाग्रं यावदा गता ।
उपरिष्टानिरालम्बा तं द्वञ्जीवोव्यव(त्तर० पा०)स्थितंः ।।
ऊर्ध्वशून्यमधः शून्यं मध्यशून्यं निरामयम् ।
त्रिशून्यं यो विजानाति मुच्यते स ध्रुवंगुह ।।
व्याप्तिश्चैव(स्तस्य०) मया प्रोक्तं संक्षेपान्न तु विस्तरात् ।
अतो नास्त्यपरः कश्चिघ्नापक? स्यापि व्यापकम् ।।
इति कालोत्तरेऽध्युष्टशते एकोनविंशः पटलः ।।
ईश्वर उवाच ।।
अतः परं प्रवक्ष्यामि अष्टधा प्रत्ययो यथा ।
अनग्नि ज्वलनं चैव वृक्षालंभनमेव च ।।
पाशानां(प्राण) स्तोभनं चैव महापातकनाशनम् ।
विषयं क्रामणं चैव निर्बीजीकरणं तथा ।।
ग्रहज्वरविनाशं च प्रत्ययोष्टविधरमृतः ।
एवं ज्ञात्वा तु मन्त्रज्ञः ख्यातिः सर्वत्र जायते ।।
प्रणवे नाग्निमध्यस्थो हुंकारो ह्रौ तथैव च ।
आदि बहुं नमश्चान्तेरग्नि ज्वलनेरितम् ।।
ओं ह्रौं ह्रीं नमः ।।
अग्निं श्रोते प्रयोक्तव्यं सहश्वोद्घातसंयुतम् ।
अग्निमण्डलमध्यगम् पञ्चाक्षरप्रयोगेण ज्वलते नात्र संशयः ।।
उकारः सर्वतोधस्ताद्रकारश्चोर्द्धसंयुतम् ।
रु?कारमध्यमे युक्तः प्रणवाघ्नंतदीपितम् ।।
पूर्ववत्संयुक्तोयं प्रयोगो भुवि दुर्लभः ।
ओं ह्रौं उं नमः ।।
शक्तैः पञ्चभिरूध्वातैरालब्दैर्प्र?(र्वृक्षश्च)यते
ध्रुवम् ।
भूयश्चाप्यायनं तस्य वारुणे * *? संस्थिते(स्रोतः
संस्थितः) ।।
स जीवति पुनर्वृक्षो यथा पूर्वं तथैव स ।
ऊकारः पूर्ववदधस्तात् हकारश्चोर्द्धसंस्थितः । इति पुस्तकान्तरे पाठः ।
ठिस् लिने बोत्तोम् ओf पगे)
प्. १२अ)
तादृशे च(न) पुनः सो हि(स्तस्य) किन्तु रेफविवर्जितः ।।
ओं हौं ओं नमः ।
आप्यायनविधिर्ह्येष पञ्चधाबिन्दुदीपितम् ।
ईकारादि सहौमध्ये वह्निमध्ये तथा पुनः ।।
प्रयोगो विषुवे काले पाशानां स्तोभकारकः ।
ओं ह्रीं ह्रौं ह्रीं नमः ।
शतैः सप्तभिरुद्घातैः पतन्ते नात्रसंशयः ।।
पुनश्चोत् गमनं तस्य यथा भवति तच्छृणु ।
ह्रींकाराघ्नन्त युक्तेन उक्तमध्ये नियोजितः ।।
प्राणानुस्वा(प्रणवादिस्व)रदीये?त नमोन्ते न च वह्निजं ।
ओं ह्रीं ह्रौं ह्रीं नमः ।।
उत्थापने प्रयोक्तव्यः सर्वभूतेषु मन्त्रवित्? ।।
ल बीजं जीवसंविष्टं हकाराघ्नन्तसंस्थितः ।
पूर्ववन्मध्यसंस्थं तु नमस्कारोत्तयो
जीवितम्(वायुबिन्दुसमन्वि०) ।।
ओं ह्रीं स्वां ह्रीं नमः ।।
घटस्यारोहणे प्रोक्तो गुरुत्व जायते यथा ।
आदिमंते तथा वायुश्च उक्रमध्ये नियोजितः ।।
लघुत्वकरणं ह्येत कुर्यात्तु मयुतेन तु ।
स्वयकारो हकारश्च ईकारेण तु दीपितम् ।।
आदिरन्ते प्रकुर्वीत ओंक्र मध्ये नियोजितः ।
उद्घाताष्टशते नैव विषयसम्बरध्रुवम् ।।
यथाग्नि ज्वलने प्रोक्तो निर्बीजीकरणे तथा ।
शतैः पञ्चभिरुद्घातैर्विशेषोऽत्रविधीयते ।।
ओंकारमादितः कृत्वा हुंकारस्तदनन्तरम् ।
ह्रौं ह्रूं फट् नमश्चान्ते ग्रहणं नाशते हितम् ।।
प्रयोगो वारुणे मार्गे उद्घाताष्ट शतेन तु ।
प्रणवादि तथा ह्रौं फट् तथा फट् पुनर्हुहु फट् पटेति च ।।
वारुणेन तथा श्रोत्रे क्षिप्रं नाशयते ज्वरम् ।
उद्घाताष्ट शतेनैव प्रयोगो ज्वरनाशने ।।
प्. १२ब्)
अष्टानां प्रत्ययानां तु प्रयोगः कथितो मया ।।
इति कालज्ञानेऽध्युष्टशते विंशतितमः पटलः ।।
सकलं निष्कलं शून्यं कलात्मं खमलं कृतम् ।
क्षपणं क्षयमंतस्थं कण्ठोष्ठं चाष्टमं स्मृतम् ।।
प्रसादं षट्कसंयुक्तं षडन्तेन समन्वितम् ।
सकलं सर्वभूतस्थं शिवतत्वं प्रकीर्त्तितम् ।।
स्वयं निष्क्रमते देवो देहं त्यक्त्वा समाहृतंः ।
निष्कलं तं विजानीयात् षड्वर्णरहितं शिवम् ।।
निःश्वासोच्छ्वासनं भित्वा स्थितं देहे तु काष्ठवत् ।
शून्यं तन्तु विजानीयाद्धृदयेन तु कारयेत् ।।
चुम्बाकारेण वक्त्रेण यत्तत्वं श्रूयते भुवि ।
कलाध्वन्तं विजानीयादाकाशस्थ हि मे शृणु ।।
ऊर्द्ध्वनादस्य क्षीणस्य यदन्त परिकीर्तितम् ।
तत्रस्थं तु विजानीयादाकाशे खमलंकृते ।।
व्यावृते नैव वक्त्रेण श्रुत्वा देवं जगद्गुरुम् ।
दुःक्ष?पणमित्युक्तं तत्क्रियाक्षपणः स्मृतः ।।
अधोनादस्य क्षीणस्य यं दन्तं परिकीर्तितम् ।
अन्तस्थं तु विजानीयादनुच्चार्य इति स्मृतः ।।
अष्टवर्गाष्टमं कोटि सप्तमस्य द्वितीयकम् ।
वर्गातीतं षडन्तं च सप्तमे त्रिचतुर्थकम् ।।
आदिमं तु पुनर्योज्य षष्ठं वै प्रथमस्य तु ।
खशेखरसमायुक्तं कण्ठोष्ठ्यं चाष्टमं स्मृतम् ।।
एते भेदासमाख्याता अणिमाध्वादि साधने ।
अनुच्चार्यमसंदिग्धं मोक्षमित्यभिधीयते ।।
इति कालोत्तरेऽध्युष्टशते एकविंशतितमः पटलः ।।
प्. १३अ)
कार्तिकेय उवाच ।।
प्रसादः कीदृशोदेव व्याप्तिस्तस्यैव कीदृशी ।
शरीरं कीदृशं तस्य कथयस्व महेश्वर ।।
ईश्वर उवाच ।
प्रसादं येन बुध्यन्ति पञ्चमन्त्रमहातनुम् ।
अष्टत्रिंशत्कलायुक्तं न स आचार्य उच्यते ।।
प्रसादं सम्यगज्ञात्वा दीक्षां य कुरुते गुरुः ।
अधस्ताच्छिष्यमात्मानं नयते नात्र संशयः ।।
प्रसादाब्जशिखां तस्यो दीक्षां यः कुरुते गुरुः ।
आचार्य सह शिष्यैस्तु शिवसायुज्यतां यजेत् ।।
देवदानवगन्धर्वाः स यक्षोरगराक्षसाः ।
किन्नराप्सरसः सिद्धाः सर्वे प्रासादसम्भवा ।।
ब्रह्माविष्णुश्च रुद्राश्च चन्द्र इन्द्रप्रजापतिः ।
बृहस्पतिस्तथादित्यः शुक्रमन्दभृगुस्तथा ।।
ये चान्ये प्राणिनः केचित्सर्वे प्रासादसम्भवा ।
एते चान्ये च वहव ऋषयः शंशितव्रताः ।।
ध्यायन्ति परमं हंसं प्रसादं नामनामतः ।
विभागं चास्य वक्ष्यामि यं ज्ञात्वा मृतमश्नुते ।।
सघ्नश्चाष्ट कलायुक्तं अकाराक्षरजं विदुः ।
विघ्नादुकारंजं वाममघोरन्तु मकारजम् ।।
बिन्दुजं पुरुषं ज्ञेयमीशानं तु शिखा(वा)त्मजम् ।
एवं मत्रास्तु पञ्चैते स्मृताः प्रासादसंभवाः ।।
दश(शत)कोटि सहस्राणि मन्त्राणाममितौजसाम् ।
प्रसादेन तु षष्ठेन सर्वे षष्ठा(तुष्टाः) न संशयः ।।
मारुतानलशक्राघ्ना ये(स) मन्त्राः परिकीर्तिताः ।
प्रासा *? ब्जसमुत्पन्ना सर्वे चामोघशक्तयः ।।
सघ्नश्च पृथिवीज्ञेया वामो आपः प्रकीर्तितः ।
अघोरस्तेज इत्युक्तो वायुस्तत्पुरुषः स्मृतः ।।
प्. १३ब्)
आकाशं तु भवेदीशः स्वयं देवो महेश्वरः ।
सघ्नोहजातश्च ऋग्वेदो वामदेवो यजुस्मतः ।।
सामवेदो ह्यघोरस्तु पुरुषोथर्व उच्यते ।
पञ्चमं यत्परं सूक्ष्मं व्योमव्यापी सदाशिवं ।।
सघ्नो जातश्च वै ब्रह्मा वामोविष्णुः प्रकीर्तितः ।
अघोरे रुद्र देवत्यं पुरुषश्चेश्वरः स्मृतः ।।
ईशानं देवदेवत्यमादि देवं प्रतिष्ठितम् ।
षष्ठन्तु यत्परं तत्वमसादृश्य गुणैस्थितम् ।।
तस्य देहो न वक्तव्यः प्राकृतैर्गुणसम्भवैः ।
ज्ञात्वा परमनिःश्रेणी पञ्चसंस्कारगामिनी ।।
ज्ञातं ज्ञेयं सकृघ्नेन विस्मिते नान्तरात्मना ।
तदा एवं विमुक्तोसौ यदाज्ञातं हि तत्पदम् ।।
इति कालोत्तरेऽध्युष्टशते द्वाविंशतितमः पटलः ।।
ईश्वर उवाच ।।
शृणु षण्मुखतत्वेन ज्ञानं परमदुर्लभम् ।
यन्न कस्य चिदाख्यातं तदर्थं(अनाख्यां) कथयामिते ।।
देहस्थ सकलो ज्ञेयो निष्कलो देहवर्जितः ।
आप्नोपदेशगम्योसौ सर्वतः किमपि स्थितम् ।।
हंसं हंसेति यो ब्रूयाद्धंसो देवः सदाशिव ।
गुरुवक्त्रात्तु लभ्येन प्रत्यक्षं सर्वतो मुखम् ।।
तिलानाञ्च यथा तैलं पुष्पे गन्धः समाश्रितः ।
पुरुषस्य शरीरेस्मिन् स बाह्याभ्यन्ते स्थितः ।।
उल्काहस्तो यथा कश्चिद्द्रव्यमालोक्य तां(तं) त्यजेत् ।
ज्ञानेन ज्ञेयमालोक्या ततोज्ञानं परित्यजेत् ।।
पुष्पं तु सकलं विघ्नाद्गन्धस्तस्यैव निष्कलः ।
वृक्षं तु सकलं विघ्नाच्छाया तस्यैव निष्कला ।।
सकलनिष्कलभावेन सर्वत्रैवं व्यवस्थितः ।
प्. १४अ)
सकले सकलं विन्घ्वान्निष्कले निष्कलं तथा ।।
त्रिमात्रश्च द्विमात्रश्च एकमात्रं तथैव च ।
अर्धमात्रापरासूक्ष्मा तस्याप्यर्द्धं परापरम् ।।
ब्रह्मविष्णुश्च रुद्रश्च ईश्वरः शिव एव च ।
पञ्चधापञ्च दैवत्यं सकलं परिपठ्यते ।।
ब्रह्मणो हृदये स्थानं कण्ठे विष्णुः समाश्रितः ।
तालुमध्ये स्थितो रुद्रो ललाटेस्थो महेश्वरः ।।
नासाग्रे तु शिवं विघ्नात्तस्यान्ते तु परापरम् ।
परात्परतरं नास्ति इति शास्त्रस्य निश्चयः ।।
इति कालोत्तरेऽध्युष्टशते त्रयोविंशतितमः पटलः ।।
कार्तिकेय उवाच ।
गमागमं कथं तस्य केन वा नीयते तु सः ।
संशयो मे महादेव कथयस्व यथार्थतः ।।
ईश्वर उवाच ।।
नीयते शक्तिनाजीवस्तस्मिन्प्राप्यनिवर्तते ।
तस्यान्तं संप्रवक्ष्यामि शृणु तत्वेन षण्मुख ।।
देहातीतं तु तं विन्घ्नान्नासाग्रे द्वादशांगुलम् ।
तदन्तं तु विजात्तत्रस्थो व्यापयेत् प्रभुः ।।
मनोप्यन्यत्र निक्षिप्तं दृष्टिरन्यत्र पातिता ।
तथापि योगिनां योगो अव्युच्छिन्न प्रवर्तते ।।
एतत्तत्परमं गुह्यं मेतत्परमं पदम् ।
एतत्परमं ब्रह्म एतत्तु परमाक्षरम् ।।
नातः परतरं किञ्चिन्नातः परतरं शिवम् ।
नातः परतरं ज्ञान(ज्ञेय)मित्याहभगवाञ्छिव ।।
शिवज्ञानामृतं ह्येतत्संक्षेपान्न तु विस्तरम् ।
कथितं देवदेवेन परमाक्षरनिर्णयम् ।।
एतत्ते शिवसद्भावं शिववक्त्राद्विनिसृतम् ।
गुह्याद्गुह्यतरं गुह्यं गुहितव्यं(गोपनीयं) प्रयत्नतः ।।
नाशिष्याय प्रदातव्यं नापुत्राय कदाचन ।
प्. १४ब्)
देवाग्नि गुरुभक्ताय शिवशास्त्र(वार्चन)पराय च ।।
प्रदातव्यमिदं ज्ञानं नेतरेषां कदाचन ।
दातारो नरकं यांति न सिद्ध्येत कदाचन ।।
शिवामृतं समाख्यातं सत्यं वत्समया तव ।
एवं ज्ञात्वा तु मेधावी विचरस्व यथासुखम् ।।
गृहस्थो ब्रह्मचारी वा वानप्रस्थोथ भिक्षुकः ।
यत्र तत्र स्थितो ज्ञानी(योगी) परमाक्षरवित्सदा ।।
विषयैर्विषयाशक्तो याति देहान्तिकं शिवम् ।
ज्ञानादेवास्य शास्त्रस्य पापाशक्तोपि मानवः ।।
ब्रह्महत्या स्वमेधाढ्यैः पुण्यपापैर्न लिप्यते ।
चोदको बोधकश्चैव मोक्षकेस्तु परः स्मृतः(द्वितीयकः) ।।
इत्येते त्रिविधाज्ञेया आचायास्तु महीतले ।
चोदको दर्शयेन्मार्गं बोधकः स्थानमादिशेत् ।।
मोक्षद(क)स्तु परं स्थानं(तत्वं) यज्ज्ञात्वा न
निवर्तते ।।
इति कालोत्तरेऽध्युष्टशते त्रयोविंशतितमः पटलः ।।
ईश्वर उवाच ।।
प्रत्यक्षं यजनं दक्षे संक्षेपान्न तु विस्तरात् ।
यं यष्ट्वा(क्ष्ये) तु नरायान्ति शाश्वतं पदमव्यम् ।।
नाभिमेढो?तिके(दृन्तरे)स्कन्द उ(ओं)काराख्या
प्रतिष्ठिता ।
आधारः सर्वनाडीनां स च हंसेन संयुता ।।
द्वासप्तति सहस्राणि याऽ?यस्त अनिर्ग(संस्थि)ताः ।
तासां मध्ये महानाडीराजनाडीति विश्रुता ।।
तस्या मध्ये स्थिताः स्कन्द पञ्चपद्मा अधोमुखाः ।
ग्रन्थि द्वय समायुक्ताः सर्वे दैवतसंयुताः ।।
ऊर्द्ध्वी(र्द्धं)कृत्वा तु तान्पद्मा शिवशूलेन भेदयेत् ।
शिवशूलहतात्कृत्वा ऊर्द्धवायुश्च रेचयेत् ।।
रेचकेन समायुक्तो जीवो गच्छति वै शिवम् ।।
एतत्सर्वसमाख्यातं संक्षेपान्न तु विस्तरात् ।
प्. १५अ)
सन्धानं चैव उर्द्धन्तु पूर्ववत्कथितयं मयां ।।
स्वयमेव तु तं पश्येद्देही बिन्दुं चतुष्कलम् ।
अयने द्वे विषुवे चैव मार्गवित्पश्यते सदा ।।
कृत्वा योगं पुरावत्सपूरकुम्भक रेचकैः ।
सकली कृत्य विधिना शिवाङ्गैस्तु शिवी भवेत् ।।
सर्वमन्त्रानि जापञ्च देहं त्यक्त्वा तु सम्भवेत् ।
शरीरस्थं न्यसेन्मध्ये सद्वीजं परमं हि तत् ।।
शिरसि निधनाश्त्रं तु ध्यात्वा तस्मिन् नियोजयेत् ।
कारणन्तु शिवं तत्वं न्यस्त्वातः प्रतिपूजयेत् ।।
कालकालार्मुकैः पुष्पैरूर्द्धस्थं संप्रपूजयेत् ।
पूजाशतसहस्रस्य कृताभवतिशास्वती ।।
अहं देव शिवश्चैव सर्वतत्वैर्न संशयः ।
अनन्तादि शिवान्तस्य तत्वग्रामस्य कृ * तः ।।
कृत्वा पूजाभवत्येवं गन्धपुष्प * * त्रकैः ।
माया शेषविधिः ख्यातः शिवशाशनपारगः ।।
पूर्वतोभयमुच्चार्य रेचयेत्तदनुक्रमात् ।
नातः परतरं किञ्चित् पूजास्थानं परं स्मृतम् ।।
नमस्कारेण योगान्ते मूर्द्ध्निमालम्ब्यदापयेत् ।
आदित्यग्रहणे वत्स प्रत्यक्षमर्चनं भवेत् ।।
इति कालोत्तरेऽध्युष्टशते चतुर्विंशतितमः पटलः ।।
कार्तिकेय उवाच ।।
शिवाग्नौ पञ्चवक्त्राणि शिवसद्भावमुत्तमम् ।
कस्मिन् कस्मिन् कदावक्त्रे आचार्यः पशुपाशहा ।।
कस्मिन् करोति संस्कारान् कस्मिन् पापानि जुह्णति ।
कस्मिन् करोति यजनं कस्मिन् पूर्णाहुतिः स्मृताः ।।
कस्मिन् वक्त्रे पुनः पापा(हुतेपाशां)दात्मानं च विशोधयेत् ।
एतत्सर्वं समासेन भगवन्वक्तुमर्हसि ।।
प्. १५ब्)
ईश्वर उवाच ।।
पाशाः पाशेषु सर्वेषु पूर्ववक्त्रं प्रकीर्तितम् ।
संस्काराश्चोत्तरे कुर्याद्यजने पश्चिमेन तु ।।
प्रायश्चित्त विधानन्तु वक्त्रेस्मिन् दक्षिणे स्मृतम् ।
ऊर्द्ध्ववक्त्रे महासेन तस्मिन्प्राणाहुतिः स्मृताः ।।
न पाणिपादपृष्ठे तु आहुतिं संप्रदापयेत् ।
वक्त्रसंस्कारतत्वज्ञ आचार्यो मुक्तिकारकः ।।
एवं संस्कारसंदिग्ध(सिद्ध) आचार्यस्तु न मोक्षदः ।
पुनरायान्ति सम्स्कारं सत्यं वत्स न संशयः ।।
इति कालोत्तरेऽध्युष्टशते षट्विंशतितमः पटलः ।।
ईश्वर उवाच ।।
लिङ्गौद्धारं प्रवक्ष्यामि नैष्ठिकानां तु षण्मुख ।
पञ्चरात्रं त्रिरात्रं वा क्षपयित्वाधिवासयेत् ।।
पूर्वोक्तन्तु विधिं दृष्ट्वा संन्यासं संनिवर्त्तयेत् ।
योनिचक्रं न्यसेत् तत्र विधिदृष्टेन कर्मणाः ।।
अष्टारचक्रमालिख्य नाभिद्वयसमन्वितम् ।
विपरीतं योजयित्वा जनयेत् तत्र नैष्ठिकम् ।।
पञ्चपञ्चाहुतिं दघ्नादरकेषु यथाक्रमम् ।
हृन्मात्रेण तु दातव्यं संहारेण तु बुद्धिमान् ।।
एवं कृत्वा यथा पूर्व जनयेत् तत्र नैष्ठिकम् ।
सृष्टिसंहारकास्कन्द कृत्वा वै नैष्ठिकस्य तु ।।
सृष्टिसंहार न्यायेन यष्ट्वाशुध्यति नैष्ठिकः ।
आशक्त विषयैर्वापि कर्मदोषैर्न लिप्यते ।।
इति कालोत्तरेऽध्युष्टशते षड्विंशतितमः पटलः ।।
ईश्वर उवाच ।।
अन्तेष्टिं संप्रवक्ष्यामि यथा वदनु पूर्वशः ।
शिवाग्निं जनयित्वा शिवं पश्चाद्विशोधयेत् ।।
मृण्मयेनाम्भसाशोध्य भस्मस्नानं यथा पुरा ।
प्. १६अ)
गन्धपुष्पैरलंकृत्य अस्त्रबीजेन शोधयेत् ।।
इष्टिं संहारिकां कृत्वा उद * दैर्निवेशयेत् ।
दर्भास्तरणं पुरा कृत्वा अस्त्रं विन्यस्य सर्वतः ।।
अस्त्रेण ज्वालयेदग्निं समन्तात्सुसमाहितः ।
चन्दनागुरुकाष्ठैश्च तिलैराज्यसमन्वितैः ।।
विद्यमाने तु कर्तव्यमितरेषां यथेप्सया ।
आग्नेयीं धारणां ध्यात्वा दहेदस्त्रेणमन्त्रवित् ।।
दीक्षितोत्तरकाले तु समयान्यदि लङ्घयेत् ।
देवस्य स्वगुरोश्चैव महापातकमेव च ।।
अमुक्त संशया ये च ये चान्येशवलात्मकाः ।
तेषां पापापनोदार्थमंगेष्टि?कथिता गुह ।।
स्वसंज्ञश्च असंज्ञश्च स मयं यदि लङ्घयेत् ।
कन्यादत्वमवाप्नोति समयस्य च लङ्घने ।।
तेना संज्ञसमायोगात्ग्रहणं पूर्ववद् भवेत् ।।
इति कालोत्तरेऽध्युष्टशते सप्तविंशतितमः पटलः ।।
ईश्वर उवाच ।।
अस्त्रयागञ्च छिद्रघ्नं प्रवक्ष्याम्यनुपूर्वशः ।
पूर्वोक्ते भूतले शुद्धे गोमयेनोपलेपिते ।।
गन्धद्रव्यसमायुक्तं कलशं पारिपूरितम् ।
ईशान्याः स्थापयेदिक्षु अविघ्नकणम् शुभम् ।।
ततः पङ्कजमालिख्य स्थण्डिले वा समर्चयेत् ।
रजे तु वहवो विघ्नानिर्विघ्ना स्थण्डिले गुह ।।
तस्मात् सर्वप्रयत्नेन शस्त्र यागन्तु स्थण्डिले ।
सर्वत्र विहितं शास्त्रात्किञ्चिदस्त्र यागं तु स्थण्डिले ।।
प्राकारे कर्णिकापद्म धर्मज्ञानादिमेव च ।
वैराग्यञ्चैव ऐश्वर्यं शक्तयश्च तथैव च ।।
- * * * * * * * यजेत विधिवत्सदा ।
प्. १६ब्)
ततः कुर्वीतमतिमान्प्राकारे समन्वितम् ।।
अस्त्रं पाशुपतं दिव्यं स्थापयेत्कर्णिकोपरि ।
अष्टविंशत्कलैर्युक्तो * * * * * * * * ।।
पूर्वादीञ्शास्त्रविन्यस्य प्राकारं विदिशैः क्रमात् ।
विदिक्षुस्थापयेदस्त्रं प्राकारं सार्वकामिकम् ।।
अस्त्रपीठमिदंश्रेष्ठमच्छिद्रकरणं परम् ।
बाह्ये * * * * * * दशदिक्षु समन्ततः ।।
वज्रं दण्डञ्च खड्गञ्च पाशांकुशं तथैव च ।
गदास्त्रिशूल चक्रञ्च पद्मं चैव यथा क्रमम्? ।।
न्यसेत् पाशुपते नैव प्राकारे * * * * * ।
- * * * * * * * दिशाभागः प्रकीतितः ।।
- * कुर्वीत कुण्डस्तु तथैव चतुरस्रकम् ।
चतुर्नाभित्समायुक्तं हस्तमात्रं समन्ततः ।।
- * * * * * * * * * * *
- * * * ।
- * * * * * * * * * * *
- लक्षणम् ।।
सोधनं तस्य कुर्वीत प्राकारेण तु षण्म्खः ।
जननं निष्कृतिं चैव विधिं कुर्याद्यथा * * ।।
- * * * * * * * * * * *
- * * * ।
- * * * * तं पूर्वं प्राकारं पूर्वमेव च ।।
व्रज्राद्यं तु ततो हुत्वाभागैः पूर्वोपकल्पितैः ।
हुं फट् वौषट् अ * * * * * * * * *
- * ।।
- * * * * * * * * * * ने
विचक्षणः ।
तत्रस्थाः कर्षयेत् तेन प्राकारेण न संशयः ।।
अधिकारादि होमे तु आहुत्या * * * * * ।
- * * * * * * * * * * *
- * * * ।।
- * दीक्षा समाप्येवं सर्वछ्रिद्र निकृन्तनी ।
योजनी शिवतत्वस्य निर्वाणकरणीपरा ।।
प्. १७अ)
ततोमिये * * * * * * * * * * *
- ।
- * * * * * * * * * * *
- * शयः ।।
आकारः प्रथमो रेखा द्वितीया चार्द्धचन्द्रिका ।
तृतीयाङ्कुशाकारा चतुर्थी वह्निसम्भवाः ।।
प * * * * * * * * * * * *
- * * ।
- * * * * * * * * * * *
- व्यापिकाः ।।
नवमी उपराज्ञेया यत्रेदं स चराचरम् ।।
इति कालोत्तरेऽध्युष्टशतेऽष्टाविम्शतितमः पटलः ।।
सप्तशतिकम्
प्. १अ)
ओं नमः शिवाय ।।
स्कन्द उवाच ।
भगवन्देवदेवेश लोकनाथ जगत्पते ।
मन्त्रतन्त्रं त्वयाप्रोक्तं विस्तराद्वस्तु साधनम् ।। १ ।।
अल्पायुषास्त्विमे मर्त्या अल्पवीर्य पराक्रमाः ।
अल्पसत्वा अल्पवित्ताश्च लोभमोहसमन्विताः ।। २ ।।
अल्पग्रन्थं महार्थञ्च पदार्थानेक संकुलम् ।
वक्तुमर्हसि देवेशानुग्रहार्थञ्च मे प्रभो ।। ३ ।।
ईश्वर उवाच ।।
अथातः संप्रवक्ष्यामि शास्त्रं परमदुर्लभम् ।
कालाख्यं वाथुलेतन्त्रे दध्नोघृतमिवोद्घृतम् ।। ४ ।।
मधुवच्च यथा पुष्पात्सारात्सारमिदं शुभम् ।
नादाख्यं यत्परं बीजं सर्वभूतेष्ववस्थितम् ।। ५ ।।
मुक्तिदं परमं दिव्यं सर्वसिद्धिप्रदायकम् ।
तं विदित्वा महासेन देशिकः पाशहा भवेत् ।। ६ ।।
आगोपालांगनाबाला म्लेच्छाप्राकृतभाषिणः ।
अन्तर्जलगताः सत्वास्तेऽपि नित्यं ब्रुवन्तितम् ।। ७ ।।
स्थूलं सूक्ष्मं परं ज्ञात्वा कर्मकुर्याद्यथेप्सितम् ।
स्थूलं शब्दमिति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत् ।। ८ ।।
चिन्तयारहितं यच्च तत्परं परिकीर्त्तितम् ।
एवं ज्ञात्वा तु मन्त्रज्ञः सर्वपापक्षयो भवेत् ।। ९ ।।
शान्तं सर्वगतं शून्यं मन्त्रैर्द्वादशभिः स्थितम् ।
अक्षरान्तरितं कृत्वा षडङ्गं स शिवो भवेत् ।। १० ।।
प्. १ब्)
प्रथमं हृदयं तस्य द्वितीयन्तु शिरः स्मृतम् ।
तृतीयं वै शिखा चैव चतुर्थं कवचं भवेत् ।। ११ ।।
पञ्चमन्तु शिवं विद्याः षष्ठमस्वविसर्गजम् ।
षडङ्गमेतत्कथितं शिवेन परमात्मना ।। १२ ।।
कथितं गुह्य सद्भावं सादाख्येन महात्मना ।
मया तु कथितं तुभ्यं सद्यो मुक्ति प्रदायकम् ।। १३ ।।
दीर्घयुक्तं शिवस्याङ्गं हृदयाद्यं यथा स्थितम् ।
सद्यादि क्रमयोगेन ह्रस्वे ह्रस्वं प्रकीर्त्तितम् ।। १४ ।।
सानुस्वारं भवेन्नेत्रं सर्वेषां चोपरिस्थितम् ।
स विसर्गं भवेदस्त्रं सानुस्वारविखर्मितम् ।। १५ ।।
- * * द्वादशाङ्गं तु षष्ठे नैव विभूषितम् ।
शिवतत्वं विजानीयान्मन्त्रमूर्त्ति परंशिवम् ।। १६ ।।
षष्ठस्य द्वितीयश्च चतुर्थाद्येन संपुनः ।
द्वितीये पञ्चमञ्चैव आदिमं योजयेत्पुनः ।। १७ ।।
सर्वविघ्नाः शिवास्त्रेण शिखायां मुक्तिदाः स्मृताः ।
एवं पाशुपतं दिव्यं सर्वपाशनिकृन्तनम् ।। १८ ।।
पञ्चब्रह्मशिवस्याङ्गं नेत्रं पाशुपतं च यत् ।
समासात्कथितं सर्वं मन्त्रोद्धारमिदं शुभम् ।। १९ ।।
अस्य मुद्रां प्रवक्ष्यामि साधकानां हिताय वै ।
हस्ताभ्यां संस्पृशेत्पादौ द्वौ हस्तौ पादमस्तकम् ।। २० ।।
एषामुद्रा महामुद्रा सर्वकामार्थसाधनी ।
करन्यास पुटां कृत्वा अङ्गुष्ठं च म पश्चिमम् ।। २१ ।।
प्. २अ)
ब्रह्माङ्गाभ्यां यथा न्यासं विन्यसेत प्रयत्नतः ।
तल्लिकाहस्त पृष्ठौ तु अस्त्रबीजेन शोधयेत् ।। २२ ।।
कनिष्ठामादितः कृत्वा अङ्गुष्ठं च म पश्चिमम् ।
ब्रह्माङ्गाभ्यां यथा न्यासं विन्यसेत प्रयत्नतः ।। २३ ।।
प्रासादं विन्यसेत्पश्चाद्व्यापिनं सर्वतोमुखम् ।
करन्यासमिदं वत्स अस्मिन्तन्त्रेन संशयः ।। २४ ।।
एवं मुदाख्ये च्छम्भुं पशुं चैव न दीक्षयेत् ।
नवकोट्यास्तु मन्त्रणां मुद्राकोट्यास्तु संख्यया ।। २५ ।।
सर्वं ते निखिलं यष्ट्वा शिवतत्वं मयाख्यति ।
कायिकं वाचिकं कर्ममनसा चैव यद् भवेत् ।। २६ ।।
दृष्ट्वा बुद्धा महामुद्रां शुद्धदेहस्तु सो भवेत् ।
ये चान्ये शुद्धयः प्रोक्ता विस्तरेण महागुहम् ।। २७ ।।
त्रैमुद्रा अस्य सर्वेषां भवन्ति स विशेषिकः ।
मन्त्रोद्धार विधानंन्तु इज्यते शृणु तत्त्वतः ।।
इति कालोत्तरे महातन्त्रे सप्तशतिके मन्त्रोद्धारः प्रथमः पटलः ।।
कार्त्तिकेय उवाच ।।
अन्तःकरण विन्यासं भूतशुद्धिस्तथैव च ।
भूतशुद्धिं पुरा कृत्वा पश्चादन्तःकरणां कुरु ।।
आप्यायनं कथं तेषां कथयस्व यथार्थतः ।।
ईश्वर उवाच ।।
चैतन्यं योजयेत्पूर्वं दहनं तदनन्तरम् ।
आप्यायनं तृतीयं तु प्राणायामास्त्रयः स्मृताः ।।
ह्रस्वेन दहनं प्रोक्तं प्लुते नाप्यायनं भवेत् ।
प्. २ब्)
दीर्घेण कठिनाधाराः पद्मस्योपरि विन्यसेत् ।।
हृद्बीजैः पार्थिवे युक्तं पार्थिवीत्वानयेत्सदा ।
शिरस्याद्यशिखा तेजः कवचं वायुना सह ।।
अस्त्रं तु शिववद्युक्तमाकाशं तेन धारयेत् ।
हूं फडन्ते बलंभित्वा पूर्वं विद्यास्य यत्नतः ।।
दीक्षायान्तु यथावक्ष्ये तत्प्रयोगं समारभेत् ।
पञ्चोद्घाता चेतस्त्रश्च त्रयश्च द्वयमेव च ।।
शून्यं सर्वनिरालम्बं विज्ञान केवलं स्थितम् ।
प्रकृयान्तस्थममृतं स्रवणं चिन्तयेत्सदा ।।
ओंऽमित्यनेन कमलं योगपीठं प्रकल्पयेत् ।
सूर्यमण्डलसंकाशंमाकाशं ह्यात्मसम्भवम् ।।
विद्यातत्वमुकारं तु शिवतत्वं मकारजम् ।
पुर्यष्टकं तु तन्मात्रं तुर्यातीतं सदाशिवम् ।।
चिन्तयेत्परमं धमं सुषुम्नाभिन्नमस्तकम् ।
तेनाप्यायनमात्मानंमापूर्यतं विचिन्तयेत् ।।
इदं योज्यसते नित्यं समाधि मृत्युनाशनी ।
न तस्य जायते मृत्युरिति शास्त्रस्य निश्चयः ।।
अथाचार्य साधकाय मूर्त्यैश्च ग्रहणं भवेत् ।
ईशान्याद्यास्तु सद्यान्तामूर्ध्नि आरभ्य विन्यसेत् ।।
नेत्रं दद्यात्तथाचाद्यं देवदेवं सदाशिवम् ।
सर्वज्ञत्वं तदात्मानं चिन्तयेत विचक्षणः ।।
हृदयं च शिरश्चैव शिखा कवचमेव च ।
अस्त्रं चैव तु मन्त्रज्ञः पञ्चस्थाने ह्यनुक्रमात् ।।
प्. ३अ)
हृदयेद्वा विधानन्तु नासौ होमं विधीयते ।
ललाटे वै श्वरं ध्यायेद्वरदं सर्वतोमुखम् ।।
यथार्चने तथा चाग्नौ ध्यानकालविशेषतः ।
अन्तःकरणमिदं कृत्वा पश्चाद्बाह्यं तु षण्मुख ।।
स बाह्याभ्यन्तरं कृत्वा पश्चाद्यजनमारभेत् ।
इति कालोत्तरे सप्तशतिकेऽन्तःकरणोनाम द्वितीयः पटलः ।।
अतःपरं प्रवक्ष्यामि स्नानं पापहरंपरम् ।
स कृज्जप्तेन चास्त्रेण मृदं गृह्य विचक्षणः ।।
मलस्नानं पुरा कृत्वा स कृज्जप्तानु संहिताम् ।
तामेवमृत्तिकां वत्स अभिमन्त्र्य सकृत्सकृत् ।।
भागत्रयं ततः कृत्वा एकमस्त्रेण चालभेत् ।
द्वितीयं तु प्रजप्तेन शिवजप्तं तृतीयकम् ।।
अस्त्रजप्तेन भागेन दिशाबन्धं प्रकारयेत् ।
शिवजप्तेन तीर्थे तु ब्रह्मजप्तेन चात्मनि ।।
गुंडयित्वा ततः स्नायेत् शिवतीर्थस्य मध्यतः ।
चक्रवत्युपचारेण सुगन्धामलकादिभिः ।।
उपस्पृश्य विधानेन सन्ध्यावन्दे ह्यनुक्रमात् ।
सर्वमन्त्रैः सकृत्प्राज्ञ उपस्थानं तु कारयेत् ।।
अभिषेकं पुरा कृत्वा पश्चात्सन्ध्यां समाचरेत् ।
अस्त्रं नियोजयेद्देहे क्षिपेद्बाह्यं विचक्षणः ।।
सर्वतीर्थ फलं तस्य निनांदेन तु षण्मुख ।
शरीरं सोधयेद्वत्स तेनात्मनि नियोजयेत् ।।
प्. ३ब्)
विघ्नेषु पाशजालेषु स तु योज्यं वि * क्षणः ।
हृदयेन ततो देवं पितृदेवांश्च तर्पयेत् ।।
संहारं सर्वतीर्थस्य निनादेन तु षण्मुख ।
इति कालोत्तरे सप्तशतिके तृतीयः पटलः ।।
ईश्वर उवाच ।।
भस्मस्नानं प्रवक्ष्यामि सङ्क्षेपेण तु षण्मुख ।
सर्वमन्त्रै सकृत्प्राज्ञ अभिमन्त्र्य यथा क्रमम् ।।
मलस्नानं पुराकृत्वा अस्त्रबीजेन षण्मुख ।
इति कालोत्तरे सप्तशक्तिके भस्मस्नानं चतुर्थः पटलः ।।
ईश्वर उवाच ।।
यजनं संप्रवक्ष्यामि यथावदनु पूर्वशः ।
वीजाङ्कुरं पुराशत्वा पश्चादानन्त्यमासनम् ।।
अनन्तं चान्तरे दद्यात्क्रमेण तु षडानन ।
हृदयं कर्णिकापद्मं धर्मज्ञानादिमेव च ।।
वैराग्यश्चैवमैश्वर्यं हृदये प्रधवं न्यसेत् ।
केशवे शक्तयोर्व्यूहं हृदयेन तु कारयेत् ।।
आवाहयेत्ततो देवं हृदयेन तु षण्मुख ।
स्थापनं चार्घपात्रं च अर्चनीयं तु मन्त्रवित् ।।
स्नापनं पूजनञ्चैव हृदयेन तु कारयेत् ।
उक्तानुक्तं च यत्किञ्चित् तत्सर्वं हृदयेन तु ।।
इति कालोत्तरे महातन्त्रे सप्तशक्तिके यजनविधिः पञ्चमः पटलः ।।
अतःपरं प्रवक्ष्यामि अग्निकार्यं विधि क्रमात् ।
अस्त्रेणोल्लेखनं कुर्याद्दर्भेणाभ्युक्षणं स्मृतम् ।।
शक्तिन्यासं ततो मन्त्री हृदयेन तु कारयेत् ।
प्. ४अ)
हृदिनाशक्तिगर्भस्य प्रक्षिपेज्जातवेदसम् ।।
गर्भाधानादिकं कृत्वा निष्कृतिं च म पश्चिम ।
हृदयेन तु मन्त्रज्ञः सर्वकर्माणि कारयेत् ।।
पश्चात्पद्मविधानं तु प्रागुक्त परिकल्पयेत् ।
शिवादि सर्वमन्त्रेषु होमयेच्चानु पूर्वशः ।।
इति कालोत्तरे सप्तशतिकेऽग्निकार्यविधिः षष्ठः पटलः ।।
ईश्वर उवाच ।।
अतःपरं प्रवक्ष्यामि मण्डलं सर्वकामदम् ।
भूमिं संशोध्य यत्नेन शास्त्रदृष्टेन कर्मणा ।।
अधिवासं ततः कृत्वा नक्षत्रे सत्कृतान्विते ।
आलिखेन्मण्डलं प्राज्ञः सर्वसिद्धिप्रदं शुभम् ।।
सूत्रेणसूत्रितं कृत्वा चतुरस्रं समन्ततः ।
मध्ये पद्मं प्रतिष्ठाप्य अश्वपत्रं सकर्णिकम् ।।
एकहस्तं द्विहस्तं वा चतुर्हस्तमथापि वा ।
त्रीण्यावरणयुक्तं स्वतन्तु विदितं गुह ।।
पश्चिमं वाहयेद्वारंमाचार्यविहितं शुभम् ।
कुशं तु वारुणे कुर्याद्धस्तमात्रं प्रमाणतः ।।
यज्ञकर्मविधिं कुर्यादसमिद्धे हुताशने ।
पूर्वद्वारेभ्य वज्रादीन्विन्यसेच्चानु पूर्वशः ।।
ब्रह्माङ्गानि पुरान्यस्य शिवाङ्गं विन्यसेत्ततः ।
आग्नेययां हृदयं न्यस्य ईशान्यान्तु शिरो न्यसेत् ।।
नैर्-ऋत्यां तु शिखां न्यस्य वायव्यां कवचं न्यसेत् ।
अस्त्रं दिशासु विन्यस्य कर्णिकायां सदाशिवम् ।।
गर्भन्यासविधिर्ह्येष द्वितीयं वरणं शृणु ।
पूर्वद्वारेभ्य हृदिना लोकपालं प्रपूजयेत् ।।
प्. ४ब्)
तृतीये लोकपालास्त्रं शस्त्रेणैकेन पूरयेत् ।
संक्षेपेण मया स्कन्द विधानं परिकीर्त्तितम् ।।
अनुक्तं यद् भवेत् किंचित् तत् सर्वं हृदिना बुध ।
एवं विधिविधानज्ञो ब्रह्मकर्मसमारभेत् ।।
ब्रह्माविष्णुः सुराः सर्वे उपसन्नास्तु ये सुराः ।
ते मया दीक्षिता सर्वे अस्मिन्मण्डल उत्तमे ।।
अस्मिन्मण्डले दृष्टे तु देवदेवेन निर्मिते ।
तं यान्ति परमंस्थानं निर्मलाय शिवं पदम् ।।
एवं मण्डलमाख्यातं बिन्दु देवेन भूषितम् ।
न चान्यं बिन्दते किञ्चिदस्माद्गुह्यतरं परम् ।।
इति कालोत्तरे महातन्त्रे मण्डलराज सप्तमः पटलः ।।
ईश्वर उवाच ।।
अथ दीक्षां प्रवक्ष्यामि पञ्चतत्वे व्यवस्थितम् ।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।।
एते पञ्चमहातत्वायैर्व्याप्तमखिलं जगत् ।
सर्वे तत्वास्तु तत्रस्था द्रष्टव्याः साधकोत्तमैः ।।
नान्ये सत्वा न योगेन संयोज्याहुतिभिः क्रमात् ।
ब्रह्माण्डं सुविनिःसृत्य शतरुद्रावहिः स्थिताः ।।
तदूर्द्ध्वं तु प्रतिष्ठाप्यं यावदव्ययगोचरे ।
ततो बीजानि युञ्जीत यावद्विद्येश्वरान्तिकम् ।।
शान्तेस्तदूर्द्ध्वमन्थानं शान्त्या चैव शिवं न्यसेत् ।
अविदित्वामिमं तत्वं यो दीक्षां कर्तुमुद्यते ।।
वृथा परिश्रमस्तस्य नैषतत्फलमाप्नुयात् ।
निवृत्तिः पृथिवी ज्ञेया प्रतिष्ठा आप उच्यन्ते ।।
प्. ५अ)
विद्या तेजोमयी प्रोक्ता वायुः शान्ति प्रकीर्त्तितम् ।
शान्तातीतं परं व्योमं तत्परं परमव्ययम् ।।
तं विदित्वा महासेन स्थावराणांनु दीक्षयेत् ।
एते पञ्चमहाते * यद्देहं सकलस्य तु ।।
स्थावराणां चराणां च * त्यापश्यन्ति विग्रहम् ।
न चान्य देवता काचिद्व्यतिरिक्तस्तु दृश्यते ।।
एतैर्यष्टाभवेद् यष्टामेतैः शुद्धासुशोधितम् ।
एते पञ्चप्रकाराणि देवतानि सुसंस्थिताः ।।
ब्रह्माविष्णुस्तथारुद्र ईश्वरश्च सदाशिवः ।
एते तत्वाः स्थिताः पञ्च निर्वाणं सर्वतादृशम् ।।
निवृत्ती हृदये चैव प्रतिष्ठा शिरसि न्यसेत् ।
विद्या चैव शिखायां तु शान्ति वै कवचेन तु ।।
शान्तातीतं परं व्योम प्रासादेन तु होमयेत् ।
एकैकस्य शतं जुहुयाच्छत वै पञ्चहोमयेत् ।।
पश्चात्पूर्णाहुतिं दद्यात्प्रासादेन तु षण्मुख ।
प्रायश्चित्तविशुद्ध्यर्थं एकैकाष्ठाहुतिं क्रमात् ।।
अस्त्रबीजेनमन्त्रज्ञो होमयेच्चानु पूर्वशः ।
आत्मा शिष्य शिवं चेति सर्वमेक त्रयोजयेत् ।।
दत्वापूर्णाहुतिं प्राज्ञः शून्ये शून्यमिवस्थिताः ।
परेण सहमेकत्वमेकः समरसो भवेत् ।।
नष्ठे शून्ये तथा शून्य एवं शून्यं समन्ततः ।
तद्वदात्मा तथा शिष्यः शिवमेकसमं नयेत् ।।
एवं समाप्यते दीक्षा जननादि विवर्जितः ।
हुतेनैव विमुच्यन्ते साधकाजन्मबन्धनात् ।।
प्. ५ब्)
अप्रकाशमिदं गुह्यं गोपनीयं प्रयत्नतः ।
रहस्यं सर्वमन्त्राणामिदं संस्कारमुत्तमम् ।।
एवं संस्कारशुद्धिस्तु शिववज्जायते ध्रुवम् ।
कार्त्तिकेय उवाच ।।
यानि न्यासादितः कृत्वा उद्धारं चाप्य पश्चिमम् ।
साधना तु क्रमाद्देव कथयस्व यथाविधि ।।
ईश्वर उवाच ।।
दशसप्तं तु योध्या पृच्छतां नित्यया गुह ।
यस्य यद्बीजविहितं कथयाम्यनुपूर्वशः ।।
योनिबीजं तु हृदयं कल्पयेत यथाक्रमम् ।
अर्चनं प्रोक्षणञ्चैव ताडनञ्च तथैव हि ।।
संहारं चैव स योगं निक्षेपश्च तथैव हि ।।
अर्चनञ्च पुनः कुर्याद्गर्भधारणमेव च ।
जननं चापि कारं च भोगं चैव लयं तथा ।।
स्वतत्वं शतमाहुत्या हृदयेन तु षण्मुख ।
पाशच्छेदं यथास्त्रेण पूर्णाहुंत्याश्च पूर्ववत् ।।
हृदयेन ततो विंशन्कर्त्तव्यश्चानु पूर्वतः ।
उद्धारप्रोक्षणञ्चैव ताडनञ्च यथैव हि ।।
हूं फट्कारसमायुक्तं कर्त्तव्यं चानुपूर्वशः ।।
संहारं चैव तत्वानां कर्त्तव्यञ्च यथाकथम् ।
तत्वैस्तत्वैरिदं कर्म एष एषविधिः स्मृतः ।।
एभिस्तु शोधयेद्वत्स विधिं प्राश्चेति?पुष्कलम् ।
अन्यथा नैव मुच्यन्ते विधिहीनाः षडानन ।।
संपूर्णाहुतिधारं तु कर्त्तव्यं धारणान्वितम् ।
अमृतं यत्परं वत्स स्रवतं मनसास्मरेत् ।।
दीक्षाप्रकरणो ह्येष योस्र सर्वत्र सर्वदा ।
प्. ६अ)
लिङ्गोद्धारविधानं तु सर्वसंस्कार कर्मसु ।।
कार्त्तिकेय उवाच ।।
पशुग्रहणमोक्षञ्च यत्प्रोक्तं तु पुरानघ ।।
पाशंयोरभ्यन्तरं बाह्य कस्मिं स्थाने कथं स्थितः ।
कस्मि देशे तु ते छेद्या सद्योक्तन्ति कीदृशी ।।
पशोश्चैव हि निर्देशं कथयस्व महेश्वर ।।
ईश्वर उवाच ।।
आमंत्रयं द्वितीयेन गृह्यमात्मर्न यत्नतः ।
षष्ठिना यावतः स्थानं नयते तु विचक्षणः ।।
विशुद्धेन तु योगेन ब्रह्माद्यस्तु शिवान्तकम् ।
एकन्तु समयायान्ति अन्यथा तु पृथक्पृथक् ।।
द्वादशान्तेन च्छातव्या स्वरशास्त्रेणसंयुताः ।
तदासौ याज्यतां यान्ति समद्यैः परिवर्जितः ।
अनिर्द्दिश्यं तु संज्ञं तु यत्कृतं तद्वृथा भवेत् ।।
तमुद्दिश्य कृतं कर्म मोक्षदन्तु न संशयः ।
सूर्यग्रहणञ्च वैवत्स विशुद्धेन तु संयुतः ।
आयामंत्र यदाच्छिन्नं तदाचोक्तमते ध्रुवम् ।।
अनेन ग्रन्थिताः पाशा सूत्रेमणिगणा इव ।
हृत्पद्मं यावत्पद्मं मनास्त्रं तु सुतानि च ।।
तं दृष्ट्वा छेदनं कुर्यान्मनोवृत्तिर्मनः शिवः ।
मनसा तु मनश्छिन्नं जीवः केवलतां व्रजेत् ।।
कार्त्तिकेय उवाच ।।
विस्तरं त्यजदेवेश संक्षेपात्कथस्व मे ।
येन विज्ञातमात्रेण पशुं मोचयते क्षणात् ।।
ईश्वर उवाच ।।
शृणु षण्मुख तत्त्वेन योगमोक्षं ध्रुवं लभेत् ।
प्रयोगेण तु सूक्ष्मेण योगदृष्टेन मन्त्रिणा ।।
प्. ६ब्)
दिव्येन योगमार्गेण प्रेर्यते च तु शक्तिना ।
तं विदित्वा महासेन जीवो वायुमयं बुधः ।।
विषु?वेन तु योगेन योजयेच्छाश्वतं पदम् ।
योगन्तु विषुवं प्राप्य कोन मुञ्चति बन्धनात् ।।
पृथिव्याद्याज्जनाद्यो वै शब्दादि गुणवायुभिः ।
मन्त्रादि देवतात्मा तु ज्ञात्वामुच्येत बन्धनात् ।।
नाडी विवरसत्वामूर्द्धनाला अधोमुखाः ।
ग्रन्थिद्वययुताः सर्वे हं फट्कारेण चेतनाः ।।
ततश्चोर्द्ध्वत्वमायान्ति उद्घातौ पूर्ववद्बुधः ।
क्ष्माद्यामालोक्यमनसा स बाह्याभ्यन्तरं गुह ।।
तत्वे तत्वे तु वक्तव्याविमुक्तानिरहंकृताः ।
ब्रह्माधामा?वयद्वत्स न पुनर्जन्मतां व्रजेत् ।।
एताश्वेतो द्विरम्यस्य मन्त्रं नादपदेरितम् ।
दीक्षाकाले तु संयोज्य आयामं भास्करस्य तु ।।
ताडयित्वा पुरावत्स ग्रहणं पूर्ववद् भवेत् ।
भित्त्वागलान्यवद्यानि तत्व तत्वेनसनयेत् ।।
शक्तिभिसंपुटीकृत्य वौषडान्तेन निःक्षिपेत् ।
एषा दीक्षा समासेन संसारार्णवतारणी ।।
यस्मिन्मन्त्राश्च दीक्षाश्च मुद्रामण्डलशोभना ।
निर्मलानि? महासेन शक्तयो भुवनं तथा ।।
स एष मोक्षदो जन्तुर्विशुद्धस्यो महेश्वर ।।
इति कालोत्तरे महातन्त्रे सप्तशतिके दीक्षाप्रकरणोऽष्टमः पटलः ।।
प्. ७अ)
(मभिषेकं समाचरेत् ।
शुभ्रं न * र देवं स मुहूर्तकरात्मवित् ।।
वज्रपरालघातैश्च यं स्ववाविहगे खचे? ।
- * * * * * विचिनत्य मतसमन्वितैः ।।
यत्यज्ञातोऽभिषकं च आचार्यः पशुपाशहा ।।
इति कालोत्तरेऽभिषेको नवमः पटलः ।।
ईश्वर उवाच ।।
नाडिचक्रमिदं सूक्ष्मं प्रवक्ष्याम्यनुपूर्वशः ।।
नाभेरधस्ताद्यत्सूक्ष्मं करो (तत्र * * * *) ।।
टोप् ओf पगे)
ईश्वर उवाच ।।
अभिषेकं प्रवक्ष्यामि संक्षेपेन तु विस्तरात् ।
हिताय साधकेन्द्राणां शिववक्त्राद्विनिःसृताः ।।
मृण्मयं कलशं ह्येवं चन्द्रसेनोपशोधितम् ।
- * पत्रपुटे नापि पद्मपत्रपुटेन वा ।।
सर्वौषधि समायुक्तं सर्वगन्धो?पशोभितम् ।
शतमष्टोत्तरं जप्त्वा निजदे सर्वतोमुखम् ।।
- * * * * * * * * * * *
- * * नि ।
तानि वस्त्राणि द्वासप्तत्यस्त्वमूर्त्तिस्तु ।।
तिर्यगूर्द्धमधश्चैव व्यापिनं चैस्तु सर्वतः ।
चक्रवत्संस्थिता ह्येते प्रधानादशनाड्यः ।।
इडा च पिङ्गला चैव सुषुम्ना च तृतीयका ।
गान्धारी हस्तिजिह्वा च पूषा चैव यशास्तथा ।।
अलंबुषा कुहू चैव शङ्खिनी दशमी स्मृता ।
दशप्राणवहा ह्येते नाडयः परिकीर्त्तिताः ।।
प्राणापानौ समानश्च उदानो व्यान एव च ।
नागः कूर्मोऽथ कृकरो देवदत्तोधनंजयः ।।
प्राणश्च प्रथमो वायुर्नवानामपि स प्रभुः ।
प्राणग्लामयाप्राणो विसर्गाः पूरणं प्रति ।।
नित्यमापूरयेदेष प्राणिनामुरसि स्थितः ।
निःश्वासोच्छ्वासकास्तु प्राणोजीवसमाश्रितः ।।
प्रयाणं कुरुते यस्मात्तस्मात्प्राणः प्रकीर्त्तितः ।
अपानयत्यपानस्तु आहारामनुजाबुधाः ।।
शुक्रमूत्रवहोवायुरपानः स प्रकीर्त्तितः ।
पीतभक्षितमाध्रातरक्तपित्तकफलानिलम् ।।
प्. ७ब्)
समं नयति गात्रेषु समानो नामतः स्मृतः ।
स्पन्दयत्यधराक्तं नेत्रगात्रप्रकोपनम् ।।
उद्वेजयति मर्माणि उदानो नाममारुतः ।
व्यानो विनाशत्यङ्गं व्यानो व्याधिप्रकोपनः ।।
प्रीतिनाशकरैश्चैव व्याधिस्यं व्यान उच्यते ।
प्राणाद्यावायवः प्रोक्ता नागाद्याः प्रोच्यतेऽधुना ।।
उद्गारो नागमित्युक्तं कूर्मोन्मीलने स्थिता ।
कृंकरोक्षुभिले चैव देवदत्तो विजृम्भति ।।
धनंजया स्थितो घोषे मृतस्यापि न मुञ्चति ।
इत्येते वायुवृन्दे हृदिह्लदनिहितं नाडिचक्रे प्रतिष्ठं
निश्वासोच्छ्वासकासैः श्वसनमुखधः कम्पितैर्घूर्णितैश्च ।
नित्यनित्याल्पजन्मा व्यसनसियुवायौवने बालभावे आक्रान्तो वायुरेको
विदुजनमरणैः क्रीड्यते सर्वसत्वैः ।।
नाडीचक्रं यथावस्थं कथयामि तथाखिलम् ।
दशारं चक्रमेतन्तु विभोगोज्ञायते यथा ।।
चक्रवद्भ्रमते जीवो दशस्थानेष्वनुक्रमात् ।
स जीवो जीवलोकस्य नैव बुध्यन्ति मोहिताः ।।
दशधा गच्छते येन तेन चक्रं प्रकीर्त्तितम् ।
नाडीचक्रेति विख्याता यच्च संक्रमते ह्यसौ ।।
हृद्व्योम मध्यपंकजमष्टदल कर्णिका च यस्यान्ते तस्यार्द्धे
केन्दुबह्रिहिरणधोताभाः शक्तयस्तस्मिन्नुपरिचरेखलु शक्तीनां शक्ति
प्राग्भाविनी शिवस्यैव तदवस्था शक्तिचतुष्टय पंकज
प्. ८अ)
मध्ये पुरुषास्तु संलीनाः शून्यमरुसंदंशकगृहीत्वा
करणात्मकोनुभयतोऽपिशयाचायति नियतं शुष्कदले मा कुरुते नैव
मोष्यति पङ्कजमध्ये कलाचतस्राणां पाशसंबन्धः ।।
गोलकहेलाहत इव उत्पतनियतेदा कुरुते । ईश्वर संगाद्विषुवं संक्रान्तिं
चैव संयोगात् ।।
अनियोगादक्षिणमुदयं न गमने उत्तराद्संयोगाः ।
अयनौ सव्यासव्यौ द्वौ पुटाकौ युग्मकौ विषुवः ।।
आहुः संक्रान्तिरिति तश्चेतश्चैव हि गच्छतः ।
तद्वित्तैः स समाख्यातं ।
सौरं सृव्यंगार्गं चन्द्रमसंरेतरं समाख्यातम् ।
धन्यमर्हिषवरेदोसौरं खलु वह्नि सत्वाते ।।
ध्यानाद्याविशुवाख्याप्राग्दले संस्थनृपावलेपः स्यात् ।
तेजस्वी क्षुभितात्मा पीतावाजयेतेऽग्निदिष्टत्रे ।
याम्ये याम्यो भावो नैर्-ऋते राक्षसाश्चैव ।।
वारुणे वारुनः संस्थे मरुत्पत्रे मरुद्भवम् ।
सौम्यसाद्यक्षभावं । ईशे ईशं समाख्यातं ब्रह्मे ब्रह्मभावं
ह्युरगे तु ह्युरगेंद्वं । यस्याभिसमभि गच्छति । तस्यान्ते भावमायाति ।
पात्रान्तेरालयोगात् । शून्ये वामासमाभाति ।।
इति खलु पुद्गलचारं नाडीसंचारमण्डलं मुख्ये
कथितमिहसिद्धिहेतोर्बोद्धव्यं यत्नतः सिद्धे ।।
कार्त्तिकेय उवाच ।।
स जीवो जीवलोकस्य यथान्येन तत्वतः ।।
संशयो मे महादेव प्रसादात्तवशूलिनः ।।
प्. ८ब्)
ईश्वर उवाच ।।
अहो प्रलापसेस्कन्द वात्मवान्तषुन्न्यसे ।
कथयामि पटज्ञाने भूयोभूयः प्रयच्छति ।।
जीवस्य पुरुषाख्यस्य दर्शनं शृणुषण्मुख ।
कथयामि न सन्देहः पुत्रस्नेहाद्विशेषतः ।।
संक्रान्तिं विषुवं चैव अहोरात्रायनानि च ।
अधिमास ऋणञ्चैव * * * * * * * * ।
अनरात्रं भवेच्छिकाः अधिमासो विजृंभिका ।।
ऋणञ्चकाशो विज्ञेयो निश्वासो धन उच्यते ।
उत्तरं दक्षिणं ज्ञेयं वामं दक्षिणसंज्ञकः ।
मध्येषु विषुवं प्रोक्तं पुटद्वयविनिसृतम् ।।
संक्रान्तिं पुनरस्यैव स्वस्थानं स्थानमेव च ।
इडा चैव सुषुम्ना च अमा चैव समन्विताः ।।
सुषुम्ना दक्षिणे ह्यङ्गे इडा वामे प्रतिष्ठिता ।
अमायामध्यमे ह्यङ्गे एतत्संक्रान्तिरुच्यते ।।
ऊर्द्ध्व प्राणो ह्यधश्चैव अपान्यरात्रिरुच्यते ।
विभागं दशप्राणस्य यो वेत्येवं स वेदवित् ।
आयामो देह मध्यस्यं सोमग्रहणमिष्यते ।।
देहातीतं तु तद्वाध्यादादित्यग्रहणं विदुः ।
अयुते द्वे सहस्रं तु षट्शतानि तथैव च ।।
अहोरात्रेण योगीनां जपसंख्यां करोति सः ।।
कार्त्तिकेय उवाच ।।
पूरकं कुम्भकं चैव रेचकं च प्रशान्तकम् ।
करणं च यथा न्याया देवमेतन्महेश्वर ।।
ईश्वर उवाच ।।
शृणु षण्मुख तत्वेन ज्ञाने परमदुर्लभम् ।
न कस्यचिन्मयाख्यातं वक्ष्यते शिखिवाहन ।।
प्. ९अ)
प्राणायामं समासेन कथयामितवाखिलम् ।
उच्चारयेत प्रणवं स्वरेणैकेन योगवित् ।।
उदरं पूरयित्वा तु वायुना यावदीप्सितम् ।
प्राणायामो भवेदेष पूरको देह पूरकः ।।
विहाय सर्वद्वाराणि निःश्वासोच्छ्वासवर्जितः ।
संपूर्णकुम्भवज्जेष्ठे प्राणायामो हि कुंभवत् ।।
मुञ्चेद्वायु ततश्चोर्द्ध्वं श्वासोनैकेन योगवित् ।
निश्वास योगयुक्तस्तु ऊर्द्ध्ववायुं च रेचयेत् ।।
रेचकस्त्वेष विख्याता प्राणसंशयकारकः ।
यो सौ हृदि स्थितं पद्मं अधोमुखव्यवस्थितम् ।।
स वै विकसते पद्म पूरकेण तु पूरितः ।
अर्धमात्रा तु वै पद्मकुम्भकेन निरोधिताः ।।
रेचकण तु भाक्षिप्तं सद्यः प्राणहरेण तु ।
भित्त्वा हृदयं पद्मं तु ऊर्द्ध्वस्रोते व्यवस्थितम् ।।
रेचको गच्छते ह्यूर्द्ध्वं ग्रन्थित्वा क्रमेण तु ।
भित्त्वा कपालद्वारन्तु जीव ऊर्द्ध्वं तु रेचिताः ।।
सदाशिव पदं गत्वा न भूयो जन्मतां व्रजेत् ।।
आयामो क्रियते तस्य नान्यस्य तु कदाचन ।
चिन्तां निवर्त्तयेत् तत्र मध्ये यत्र विवर्जितम् ।।
अनाद्यन्नं पदेलीनं प्रशान्तत्वात्प्रशान्तकः ।
स जीवो जीवलोकस्य मया प्रोक्तं समासतः ।।
स्वयमुच्चरते यस्तु स्वदेहावस्थितः शिवः ।
तथेतविदोनित्यं स देवं जयरुच्यते ।।
अयुतं द्वे सहस्रैकं षट्शतानि तथैव च ।
प्. ९ब्)
अहोरात्रेण योगीनां जपसंख्या करोति सः ।।
न विघ्नं जायते तस्य नाक्षसूत्रं न रोधन ।
न कालश्चक्र या वापि न साध्यसिद्धिरेव च ।।
इति कालोत्तरे महातन्त्रे सप्तशक्तिके नाडीसंचारदशमः पटलः ।।
ईश्वर उवाच ।।
चन्द्राग्नि संयोगान्नाड्याः कुण्डलिनी तु या ।
हृत्प्रदेशे तु सा ज्ञेया अंकुराकरसंस्थिता ।।
सृष्टिन्यासं न्यसेत् तत्र द्विरभ्यासं पदेरितम् ।
स्रवतं चिन्तयेद्यस्मादमृतं साधकोत्तमः ।।
अग्निसोमात्मकं सर्वं जगत्स्थावरजङ्गमम् ।
विपरितं चिन्तयेत्तस्मै सिद्दिकामसमाहितः ।।
स्वदेहे चिन्तयेद्विद्वान्दिव्यरूपमनोपमम् ।
यस्य यत्कर्मनोद्दिष्टं तत्कर्मचिन्तयेद्बुधः ।।
योऽभ्यसेत इदं ज्ञानममृतं सर्वतोमुखम् ।
अचिरेणैव कालेन सिद्धिः सत्फलभाग् भवेत् ।।
सृष्टि न्यासमविज्ञाय कथं युञ्जन्ति साधकाः ।
हन्यते मुष्टिनाकाशं तुषाणांकंडनानि च ।।?
इति कालोत्तरे सप्तशतिकेऽग्नि सोमात्मको*मैकादशः पटलः ।।
ईश्वर उवाच ।।
पुनरेवं प्रवक्ष्यामि सृष्टिं विस्तरतः क्रमात् ।
यथा सकलो देवे निष्कलेन समन्वितः ।।
कलानुत्यादयामास सर्वतन्त्रेषु वर्जिताः ।
उकारं पूर्वमध्यस्थं ऊकारं व्याप्य सर्वतः ।।
उकार प्रथमारेखा लोकानां सृजते प्रभुः ।
प्. १०अ)
विद्या तत्व व्यवस्थे च सा तु वर्णे व्यवस्थिता ।।
उंकारस्यमकाराभायःकलं प्रदृश्यते ।
पूतिनाम तु सा ज्ञेया आकाराक्षरसंभवाः ।।
मूर्ध्निन्तस्य भवेद् यामासूक्ष्ममूर्त्तिर्निरञ्जना ।
मकारमभवातत्र निर्वृत्तिं नाम सा कला ।।
उंकारं बिंदुसंयुक्तं लयं उंकारमूर्धनि ।
रेखा तु व्योम्नि निर्वाणा सा कलाशान्तिरुच्यते ।।
स योगं संप्रकाशेनं निष्कलः सकलः स्थिताः ।
मूर्ध्निमाक्रान्तमोंकारं उ शब्दस्यनुजायते ।।
सा शान्ति परमासूक्ष्मं बिन्दुना सहितं पदे ।
दीपादीपस्वभावेन विस्फुलिंगसमन्वितम् ।।
निपतन्ति त्रिधायान्ति शिववद्यान्त्यंजाः कलाः ।
शान्ति विद्या प्रतिष्ठा च निवृत्तिं चैव सा कला ।।
यावत्कलारेखिष्टो सा तु पतिता विनासहसह ।।
स विद्येशः शिवः प्रोक्तो देवदेवो महेश्वरः ।
प्रथमं तस्य यद्बीजं बिंदुनादेन कीर्त्तितम् ।।
न त्यजेत्परमं स्थानं शाश्वतं ध्रुवमव्ययम् ।
बिन्दु च ह्युदरे क्षिप्य मन्त्रेव परित्परिक्ष्यते ।।
तस्योर्ध्वं वामपार्श्वे तु विष्णुबीजं प्रकीर्त्तितम् ।
दक्षिणं वामयोनिंस्थं एक एव त्रिधा भवेत् ।
पार्श्वे बिन्दु द्वये नैव यो रेखा मध्यतः स्थिताः ।।
तत्र देवः शिवः सूक्ष्मो गूढोस्तिष्ठतिशङ्करः ।
प्. १०ब्)
यद्बीजं परमो देवं शक्तिगर्भं महेश्वरम् ।।
यतः प्रवर्त्तते हंसः शतुवन्तं चराचरम् ।
अव्यक्तं परमं सूक्ष्मं शक्तिदेहं निरञ्जनम् ।।
शिवं अनादि निधनं यं विधानोभिजायते ।
दक्षिणस्थं तु यद्बीजं ज्ञानशक्ति परा हि सा ।।
तद्बीजं परमं ब्रह्म यत्र गूढं स तिष्ठति ।
मस्थं यत्परं बीजं क्रियाशक्ति परा हि सा ।।
तत्र विष्णु बीजेन गूढसूक्ष्मनिरञ्जनः ।
एष देवो विसर्गस्तु षष्थस्तु योनिसंभुन ।।
निर्गूढं तत्र पश्यन्ति येन सृष्टिं चराचरम् ।
विसर्गाज्जायते सृष्टिरीश्वरः प्रभुरेव च ।।
विसृष्टते न यद्बीजं विसर्गान्तेन चोच्यते ।
तेन चापूरितं सर्वं जगत्स्थावरजङ्गमम् ।।
शक्तिरश्मि समूहेन शतशोऽथसहस्रशः ।
सृजते गृह्णते चैव संयोजयवियोजयेत् ।।
ज्ञानशक्तिस्थभगवाननु गृह्णाति देहिनाम् ।
विसर्गाच्च भवेत् सृष्टिः संहारं बिंदुना सह ।।
निर्वाणतत्वविज्ञानं न तु विस्तारगोचरम् ।।
इति कालोत्तरे सृष्टिसंहारको द्वादशः पटलः ।।
कार्त्तिकेय उवाच ।।
संहारं चैव सृष्टिं च सर्वनिगदितं प्रभो ।
दीक्षितानां गतिभ्रंशं तत्वतः कथयामिमाम् ।।
ईश्वर उवाच ।।
मायाविनं शठं क्रूरो सदा तु कलहप्रियः ।
गतिभ्रंशकरो योगस्तत्त्वतः शृणु षण्मुख ।।
विद्धाय सर्वद्वाराणि आयामे शशिनं तथा ।
सर्ववमं न सा लोक्य गतिं तस्य निवर्त्तयेत् ।।
प्. ११अ)
संहारं संपुटं कृत्वा आदावन्ते षडानन ।
मातृकास्ते तथा हुत्या एकैकस्य पृथक् पृथक् ।
गतिभ्रंशकरो योगो यथा वत्समुदाहृतः ।।
इति कालोत्तरे महातन्त्रे सप्तशतिके गतिभ्रंशकरो नामत्रयोदशः पटलः
।।
ईश्वर उवाच ।।
प्रासादेरोस्थाप्य जापं सततं जपते यदि ।
षण्मासाज्जायते सिद्धिर्योगयुक्तो न संशयः ।।
समागम्य जापेन सर्वपापक्षयो भवेत् ।
अणिमादि गुणैश्वर्यं षड्भिर्मासैर्नसंशयः ।।
गमागमं विदित्वा तु मुच्यते नात्र संश्यः ।
तन्मनस्तल्लयोभूत्वा षण्मासात्सिद्धिमाप्नुयात् ।।
गच्छन्तिष्ठन्स्वपञ्जाग्रं उद्विग्नो भयविह्वलः ।
मृत्युरासन्नकालेऽपि स्वयं वा तत्प्रवर्त्तते ।।
यदा प्रवर्त्तते देवं स्वच्छन्दगति लीलया ।
अमनस्कं तु तं जापं अनुत्पन्ननिरामयम् ।।
स्थूलसूक्ष्मपरञ्चैव प्रसादं कथितं मया ।
प्रासादं येन बुध्यन्ति तेन बुध्यन्ति शङ्करम् ।।
इति कालोत्तरे प्रसादनिर्दशनो नामचतुर्दशः पटलः ।।
ईश्वर उवाच ।।
अतः परं प्रवक्ष्यामि प्रासादस्य तु लक्षणम् ।
ह्रस्वं दीर्घं प्लुतंञ्चैव लक्षयेन्मन्त्रवित्सदा ।।
ह्रस्वो दहति पापानि दीर्घो मोक्ष प्रदोभवेत् ।
प्लुत आप्यायनञ्चैव बिन्दुमूर्ध्निसमन्वितम् ।।
स्थूलभेदाम्त्रयः प्रोक्ताः वश्योच्चाटनमारणे ।
प्. ११ब्)
प्लुतेन तु सदावश्यं कुरुते नात्र संशयः ।
दीर्गोच्चाटयते क्षिप्रं हूंफट्कारसमन्वितम् ।।
आदिरन्ते च ह्रस्वस्य फट्कारो मारणे स्मृतः ।
आदिरन्ते च हृदयं प्रयोगाकर्षणः स्मृतः ।।
सवमाकर्षणं सर्वं नामविज्ञायतत्वतः ।
साधकस्य भवेद् वङ्का न्यूनासाध्यस्य कीर्त्तिता ।।
एवं निर्दिश्य मेधावी आकर्षं कुरुते ध्रुवम् ।
अविज्ञाय इदं सम्यक् नैव सिध्यन्ति साधकम् ।।
यागं कृत्वा तु पूर्वोक्तं मन्त्रस्यार्धप्रदापयेत् ।
अर्थं दत्वा तु मन्त्रस्य जपं कुर्याद्विचक्षणः ।।
मन्वाभिषेचनं कृत्वा साधकानां समाहितः ।
देवस्य दक्षिणे मूर्त्तौ पञ्चलक्षं जपे स्थितः ।।
जापान्तेर्घूहोमेन दशसाहसिको भवेत् ।
एवमाप्यायितो मन्त्रः कर्मयोग्यो भवेत्ततः ।।
उक्तानि यानि कर्मणि सिध्यन्ति नात्रं संशयः ।
दशलक्षं जपेद्यस्तु जनास्वस्था न वासिनाम् ।।
वशत्वं यान्ति वै क्षिप्रमात्मनेन धनेन वा ।
त्रिपञ्चलक्ष जत्वा तु दशङ्ख्यामनिवासिनाम? ।।
व?शतां यान्ति वै क्षिप्रमिति शास्त्रस्य निश्चयः ।
पञ्चविंशतिभिर्लक्षै विषयं वशमानयेत् ।।
त्रिंशल्लक्षं जपेद्यस्तु मण्डलोकोवशं नयेत् ।
पञ्चविंशतिभिर्लक्षैः पृथिवीवशमानयेत् ।।
चत्वारिंशतिभिर्लक्षैरीक्षते हाटकेश्वरम् ।
प्. १२अ)
लक्षं पञ्चाशत्कं जप्त्वाविद्याधरसमोभवेत् ।।
प्. १२अ)
तत्रैवमोदते मन्त्री यावदाहुतसंप्लवम् ।
इति कालोत्तरे महातन्त्रे प्रासादलक्षणोनाम पञ्चदशः पटलः ।।
कार्त्तिकेय उवाच ।।
प्रासादं कीदृशं ज्ञानं व्याप्तिस्तस्य च कीदृशी ।
शरीरं कीदृशं तच्च कथयस्व महेश्वर ।।
ईश्वर उवाच ।।
प्रसादं येन बुध्यन्ति पञ्चमन्त्रमहानव ।
अष्टात्रिंशत्कलैर्युक्तं न स आचार्य उच्यते ।।
अविदित्वा प्रसादं तु दीक्षायंः कुरु *** ।
अधस्ताच्छिष्यमात्मानं नीयते नात्र संशयः ।।
प्रासादाब्ज शिखान्तस्थो यस्तु दीक्षां प्रकुर्वते ।
आचार्यः सह शिष्येण शिवसायुज्यतां व्रजेत् ।।
देवदानवगन्धर्वाः स यक्षोरगराक्षसाः ।
किन्नराप्सरसः सिद्धाः सर्वे प्रासादसंभवाः ।।
ब्रह्माविष्णुश्च इन्द्रश्च तथा चन्द्रोबृहस्पतिः ।
प्रजापतिस्तथादित्याः शुक्रः स्कन्दो गुरुस्तथा ।
ये चान्ये प्राणिनश्चेति सर्वे प्रासादसंभवाः ।।
एते चान्ये च वहव ऋषयः संशितव्रताः ।
ध्यायन्ति परमं हंसं प्रासादं नामनामतम् ।।
विभागं तस्य वक्ष्यामि यज्ज्ञात्वामृतमश्नुते ।
सद्यः कलाष्टकां युक्तं अकाराक्षरजं विदुः ।।
विन्द्यादुकारजं वाममघोरं च मकारजम् ।
बिन्दुजं पुरुषं ज्ञेयं ईशानं तु शिवात्मकम् ।।
प्. १२ब्)
एवं मन्त्रश्च पञ्चैते सर्वे प्रासादसंभवाः ।
शतकोटिसहास्राणां मन्त्राणामपि तेजसाम् ।।
प्रासादेन तु यष्टेन सर्वे यष्टा न संशयः ।
मारुता नलशक्राद्या ये मन्त्रापरिकीर्त्तिताः ।।
प्रासादाब्जसमुत्पन्नाः सर्वोश्चामोघशक्तयः ।
सद्यस्तु पृथिवी ज्ञेया वामो ह्यापः प्रकीर्त्तिताः ।।
अघोरस्तेज इत्याहर्वायुस्तत्पुरुषः स्मृतः ।
आकाशस्तु भवेदीशः स्वयं देवः सदाशिवः ।।
सद्यो जातस्तु ऋषिदोवामदेवो यजुः स्मृतः ।
सामवेदौ ह्यघोरस्तु पुरुषोऽथर्व उच्यते ।।
पञ्चम तत्परं सूक्ष्मं व्योमव्यापि निरञ्जनम् ।
उकारं तु स्थितो मूर्ध्नि शक्तिरूपं स बिन्दुकम् ।।
एवमेव मयाख्यातं शिवतत्वं परं विदुः ।
सद्योजातस्तु वै ब्रह्मा वामो विष्णुः प्रकीर्त्तितः ।।
अघोरो रुद्रदैवत्यः पुरुषश्चेश्वरः स्मृतः ।
ईशानं शिवदेवश्च अधिदैवतसंस्थितः ।।
षष्ठं तत्परंबीजमसादृश्यगुणान्वितम् ।
तस्य देहो न वक्तव्यः प्राकृतागुणसंभवः ।।
ज्ञात्वा परमनिश्रेणी पञ्चस्थानानुगामिनी ।
ज्ञानंज्ञेयं सकृद्ये न विस्मृतेऽपि हि देव हि ।।
तत्काल एव मुक्तोऽसौ यदाज्ञानं तं पदम् ।।
स्कन्द उवाच ।।
श्रुत्वाज्ञानं यदाकश्चिन्ज्ञात्वार्थ न प्रबुध्यते ।
मोहिता विषये मूढाः पापानि तु समाचरेत् ।।
अथ वा सङ्गदोषेण पशुज्ञानं प्रशंसति ।
विनिन्दितं परं ज्ञानं कं गतिं प्रजाते तु सः ।।
प्. १३अ)
ईश्वर उवाच ।।
यदा वै तद्ध्रुवं ज्ञात्वा ज्ञानवानार्थवारितम् ।
स च धार्यापुनस्त्यक्तं निन्दितं च पुनः पुनः ।।
तदा ए वहिमुक्तोऽसौ यदानन्दः प्रयत्नवान् ।
न तस्य पुण्य पापोऽस्ति अतीतागतोऽपि वा ।।
ज्ञानं प्रथमं काले तु मनोऽहङ्कारबुद्धयः ।
स्वेस्वेषु लयं यान्ति न ते बुध्यन्ति बन्धनात् ।।
सर्वेषु मर्मविच्छन्ने प्राणाः कण्ठगता यदा ।
मुक्ते तु परमं ज्ञानं कथमेतमनुस्मरेत् ।।
ईश्वर उवाच ।।
अतः परं प्रवक्ष्यामि शृणुस्वैकमनाधुना ।
सर्वेषु मम विच्छिन्ने प्राणे कण्ठगतेऽपि वा ।।
तदासौ परमो नादः स्वयं ज्ञानं प्रवर्त्तते ।
गच्छन्तिष्टत्स्वपञ्जाग्रनुद्विम्नोभयविह्वला ।।
मृत्युरासन्न कालेऽपि स्वयं वा तत्प्रवर्त्तते ।
दीक्षितोदीक्षिता शुद्धौ देही यत्किञ्चिदा चरेत् ।।
वेदे दाहे न दग्धास्ते तद्दग्धो दह्यते पुनः ।
विपरीत तथा मूढौमग्नौ विषयादाचरेत् ।।
दीक्षितं तन्नलिप्येत कर्मणापातकेन वा ।
वाचाअमनस्तथाकायत्रिविधं कर्म उच्यते ।।
न तेन प्रतिबध्या स शुभेन अशुभेन वा ।।
इति कालोत्तरे प्रासादविचोणोनामषोडशः पटलः ।।
कार्त्तिकेय उवाच ।।
अद्यापि संशयो देव ज्ञानविज्ञानयोः प्रभो ।
कथं ज्ञायन्ति तज्ज्ञानं कथं वा ज्ञेय उच्यते ।।
ईश्वर उवाच ।।
प्. १३ब्)
आधारं पूर्वं विज्ञाय पश्चाद्धेयं तु षण्मुख ।
आधाराधेय विप्रज्ञः समर्थः सर्वकर्मसु ।।
आधारमित्युक्तमाधेयस्त्वीया उच्यते ।
ईशेन ईशिता योऽयं सौम्य ईश इति स्मृतः ।।
ईशं विज्ञाय मेधावी * * * नरते सदा ।
कलाष्टकसमायुक्तमधश्चोर्द्धश्च गच्छति ।।
शब्दः स्पर्शश्च रूपश्च रसोगन्धश्च पञ्चमः ।
शेषाबुद्धिरहङ्कारा एते सूर्याष्टका स्मृतः ।।
यावदे तेन मुञ्चन्ति कथमुच्यन्ति बन्धनात् ।
शब्दस्पर्शौ त्यजेद्ब्रह्मा रसं वै केशवस्त्यजेत् ।।
रूपं गन्धञ्च रुद्रो वै बुद्ध्यहङ्कारमीश्वरः ।
मनोबिन्दु शिवस्त्यज्य एभिर्युक्तः शिवोभवेत् ।।
इति कालोत्तरे आधाराधेयविचारणोनामसप्तदशः पटलः ।।
कार्त्तिकेय उवाच ।।
कथं व्यापी अधश्चोर्द्धे भिन्नश्चैव कथं भवेत् ।
एतन्मे ब्रूहि सद्भावं कारुण्यं तु महेश्वर ।।
ईश्वर उवाच ।।
यावद्देह स्थितो जन्तुः सर्वदेहे व्यवस्थितम् ।
निर्गतो व्यापिनीति च गतस्थः सर्वतः स्थितः ।।
त्रिमार्गावस्थितो जन्तुस्तावद्वै ऊर्ध्वसंस्थितः ।
अविदित्वा न मुच्यन्ते यद्यपिस्याल्लयोभवेत् ।।
त्रिमार्गेण प्रविष्टानां सर्वादेरव्यवस्थितम् ।
यो यान्येवमिमां व्याप्तिः सव्यापीतिं न संशयः ।
न तस्य गर्भसंभूति यथा देव प्रभाष्यते ।।
तावद्भ्रमन्ति संसारे यावद्व्याप्तिं न विन्दति ।
विदित्वा व्यापिनं देवं मुच्यते घोरबन्धनात् ।।
यथा तृण जलुका वै तृणाग्रे यावदायतः ।
प्. १४अ)
उपरिष्टान्निरालम्बस्तद्वज्जीवो व्यवस्थितः ।।
ऊर्ध्वशून्यमधः शून्यं मध्ये शून्यं निरामयम् ।।
त्रिशून्यं योऽभिजानाति समुक्तोगुणबन्धनात् ।
व्याप्तिस्तस्य मया प्रोक्ता संक्षेपेण तु विस्तरात् ।।
अतः परतरं नास्ति व्यापिकस्य तु व्यापकम् ।
इति कालोत्तरे महातन्त्रे व्यापनिदर्शनोनामाष्टादशः पटलः ।।
कार्त्तिकेय उवाच ।।
सकलं निष्कलञ्चैव देवदेव महेश्वर ।
विज्ञातव्य कथंभूयः अमनस्कं परं पदम् ।।
ईश्वर उवाच ।।
शृणुषण्मुख तत्वेन ज्ञानं परमदुर्ल्लभम् ।
यन्न कस्य चिदाख्यातमनाख्यं भवगामिने ।।
देहस्थं सकलं ज्ञेयं निष्कलं देहवर्जितम् ।
आप्तोपदेशगम्योऽसौ सर्वतः किमपि स्थितम् ।।
हंसहंसेति यो ब्रूयाद्धंसो देवः सदाशिवः ।
शुद्धो बुद्धो निरालम्बो ध्रुवः सूक्ष्मः सदाव्ययः ।।
गुरुवक्त्रात्तु लभ्येत प्रत्यक्षे सर्वतोमुखं ।
तिलेषु च यथातैलं पुष्पे गन्धः समाश्रितः ।।
पुरुषस्य शरीरेऽस्मिन् स बाह्याभ्यन्तरे स्थितः ।
उल्कहस्तो यदा कश्चिद्द्रव्यमाक्यतां व्रजेत् ।।
ज्ञानेन ज्ञेयमालोक्य तदाज्ञानं परित्यजेत् ।
पुष्पं तु सकलोज्ञेयो गन्धं तस्यैव निष्कलः ।।
वृषं तु सकलं विद्याच्छाया तस्यैव निष्कला ।
प्. १४ब्)
रसं तु सकलं ज्ञेयमास्वादं तस्यैव निष्कलम् ।।
सकलं निष्कलञ्चैव सर्वतन्त्रे व्यवस्थितम् ।
सकले सकलं विद्यान्निष्कलं बिन्दुरुच्यते ।।
त्रिमात्रञ्च द्विमात्रञ्च एकमात्रा तथैव च ।
अर्धमात्रापरं सूक्ष्मं तस्याप्यर्धं परात्परम् ।।
ब्रह्माविष्णुश्च रुद्रश्च ईश्वरः शिव एव च ।
पञ्चधा पञ्चदैवत्याः सकलं परिपठ्यते ।।
शिवसंतोषगायत्री पञ्चमात्रात्मिका न तु ।
सकलं देवदेवेश स मूर्त्ति तु समायुतम् ।।
सकलं निष्कलं चैव तथा सकलनिष्कलम् ।
सूक्ष्मोभिन्न कलाभिन्न शिवोज्ञेयोऽथपञ्चधा ।
यो वर्णसकलो देवो वर्णयुक्तस्तु निष्कलः ।।
साक्षरो सकलो देवो निष्कलस्तु निरक्षरः ।
संयुक्तश्च वियुक्तश्च शिरोभित्त्वालला वा ।।
सूक्ष्मावर्त्ति प्रवर्त्तते । सानयेच्छाश्वतं पदम् । तेन सूक्ष्ममिहोच्यते ।।
कनच्छेदवर्णाभाः यदातेजः प्रवर्त्तते ।
संदृष्ट्वामुच्यते योगी केन किं कनकोच्यते ।।
ब्रह्मणे हृदये स्थानं कण्ठे विष्णुः समाश्रितः ।
तालुमध्ये स्थितो रुद्रो ललाटे तु महेश्वरः ।।
नासाग्रे तु शिवं विद्यात्तस्यान्ते तु परापरम् ।
परस्य परतरं नास्ति इशास्त्रस्य निश्चयः ।।
कार्त्तिकेय उवाच ।।
लयं तु कीदृशी तस्य बोद्धव्यं तत्त्व वेदिभिः ।
समागमः कथं तस्य केन वा नीयते तु सः ।।
संशयो मे महादेव कथयस्व यथार्थतः ।।
प्. १५अ)
ईश्वर उवाच ।।
नीयते मायतत्वेन लयमायाति ब्रह्मणः ।
ब्रह्माऽपि लीयते विष्णोरिन्द्रे विष्णुः प्रलीयते ।।
अहमेव प्रलीयं तु ईश्वरे तु लयं व्रजेत् ।
ईश्वरोऽपि ततो भूयः सा तु लीयेत षण्मुख ।।
यस्मिन् स्काने तु यो याति शिवतत्वः स उच्यते ।
शिवतत्व परिज्ञानी साधकस्तत्र लीयते ।।
अविशेषः शिवेनैव शून्याशून्यव्यवस्थितः ।
एषते कथितं वत्स संसारार्णवतारणी ।।
नीयते शक्तिना जीवस्तस्मि प्राप्यनिवर्त्तते ।
तस्यान्तं संवक्ष्यामि शृणु तत्वेन षण्मुख ।।
देहातीतं तु तं विन्द्यान्नासाग्राद्वादशाङ्गुलम् ।
नादान्तं तं विजानीयात् तत्रस्थो व्यापयेत्प्रभुः ।
मनोऽप्यन्यत्र निक्षिप्य चक्षुरन्यत्र पातिता ।।
तथापि स्तुतिनायोगमव्युच्छिन्नं प्रवर्त्तते ।
एतत्परतरं गुह्यमेतत्परतरं पदम् ।
एतत्परतरं ब्रह्म एतद्धि परमामृतन् ।।
एतद्धि सकलं देवमेतद्धि परमाक्षरम् ।
नातः परतरं ज्ञानं नातः परतरं शिवम् ।।
अतः परतरं किञ्चिदित्याह भगवाञ्शिवः ।
शिव ज्ञानामृतं प्रोक्तं संक्षेपेण तु विस्तरात् ।।
कथितं देवदेवेन परमाक्षरनिर्णयम् ।।
एतद्धि शिवसद्भावं शिववक्त्राद्विनिःसृतम् ।
गुह्याद्गुह्यतरं गुह्यं गोपनीयं प्रयत्नतः ।
न शिष्याय प्रदातव्यं न पुत्राय कदाचन ।।
गुरुदेवाग्नि भक्ताय सर्वप्राणि हिताय च ।
प्रदातव्यमिदं शास्त्रमन्येषां तु न दापयेत् ।।
प्. १५ब्)
दातारो नरकं यान्ति सिद्धिं न तु कदाचन ।
शिवामृतसमाख्यातं सत्यं सत्यं मया तव ।।
एवं ज्ञात्वा तु मेधावी विचरस्व यथासुखम् ।
गृहस्थो ब्रह्मचारी वा वानप्रस्थस्तु भिक्षुकः ।।
यत्र तत्र स्थितो मन्त्री परमाक्षरवित्सदा ।
विषयी विषयो सक्तो याति देहान्तिके शिवम् ।।
यथेष्टं क्री * यित्वा तु भुत्वा भोगान्यथेष्टयम् ।
ज्ञानादेवस्य शास्त्रस्य पाप स जयि मानवः ।।?
ब्रह्महत्याश्वमेधाद्याः पुण्यपापेर्न लिप्यते ।
चोधको बोधकश्चैव मोक्षकस्तु परः स्मृतः ।।
इत्येते त्रिविधा ज्ञेया आचार्यस्य महोतले ।
चोदकादर्शयेन्मार्गो बोधकानमादिशेत् ।।
मोक्षकस्तु परं तत्त्व यो ज्ञात्वा न निवर्त्तते ।
चोदकस्तु ह्यह ईश बोधकस्तु सदाशिवः ।।
मोक्षकस्तु परं तत्वं यो ज्ञात्वा न निवर्त्तते ।
इत्येते त्रितयः प्रोक्ता वन्दनीया ह्यनु क्रमात् ।।
त्रिस्थानं च स्वयं देवः पूज्यं गृह्णति सर्वतः ।
पूज्यं गृह्णाति निर्गस्थो च हि तिर्हतेत् ।
देशिकं मूर्तिमास्थाय यसो वक्ष्यन्तते? शिवः ।।?
इति कालोत्तरे महातन्त्रे सप्तशतिके तत्वनिर्णयोनामैकोनविंशति पटलः ।।
कार्त्तिकेय उवाच ।।
पूर्वमेव इति ज्ञातं शिवभेदन्नुचाष्टधा ।
कथं विन्द्यति तं देवं कथयस्व यथार्थतः ।।
ईश्वर उवाच ।।
तत्तत्वंभिद्यते शैवे शक्तिभेदमिहोच्यते ।
कथयामि त्वयावत्स अस्मिन्वस्तु न संशयः ।।
प्. १६अ)
सकलं निष्कलं शून्यं कलाद्यं खमलंकृतम् ।
क्षपणोक्षपमन्तःस्थः कण्ठोष्ठं चाष्टमं स्मृतम् ।।
प्रासादं शङ्करेणोक्तं षडन्तेन समन्वितम् ।
सकलं सर्वदेहस्थं शिवतत्वं प्रकीर्त्तितम् ।।
स्वयं निष्क्रमते देवो देहं त्यक्त्वा समारुतः ।
निष्कलं तं विजानीयात् षड्वर्णरहितः शिवः ।।
निःश्वासोच्छ्वसनं हित्वा स्थितं देहेषु काष्ठवत् ।
शून्यं तं तु विजानीयाद्धृदयेन तु भावयेत् ।।
चुंबाकारेण वक्त्रेणमतत्वं श्रूयते भुवि ।
कलाढ्यं तं विजानीयादाकाशस्थं च मे शृणु ।।
ऊर्ध्वनादस्य क्षीणस्य यदन्तं परिकीर्त्तितम् ।
तत्रस्थं तं विजानीयादाकाशेन समन्विता ।।
व्यावृत्ते नैव वक्त्रेण श्रुत्वा देवो जगद्गुरुः ।
दुःखं क्षणमित्युक्तं तत्क्षयोक्षपणः स्मृतः ।।
अधोनादस्य क्षीणस्य यदन्तं परिकीर्त्तितम् ।
अन्तस्थं तं विजानीयादनुचार्यः प्रकीर्त्तितः ।।
अष्टवर्गाष्टमं कोटिसप्तमस्य द्वितीयकम् ।
वर्गातीतं षडन्तंश्च सप्तमेन्ति? चतुर्थकम् ।।
आदिमं च पुनर्योज्यः षष्ठं वै प्रथमस्य च ।
खसेखरसमायुक्तं कण्ठोष्ठं चाष्टमं स्मृतम् ।।
अतिस्थूलमिदं ज्ञेयं कलाभरणभूषितम् ।
अतिभारं तु तत्त्वानां तस्मिन् देहे व्यवस्थितम् ।
एते भेदाः समाख्याता अणिमाद्यादि साधने ।।
अनुचार्यसमादिश्च मोक्ष इत्यभिधीयते ।
प्. १६ब्)
एवं ज्ञा * * * * * दीक्षयेत् स्थावरान्यपि ।।
इति कालोत्तरे सप्तशतिकेऽष्टभेदोनामविंशतितमः पटलः ।।
ईश्वर उवाच ।।
तदेव * * * * * विवरे मारुतो यथा ।
हंसवर्णेन देहेन उकारश्चरणेन तु ।।
इडा सुषुम्नया युक्तं देहस्थं वहते यदा ।
बिन्दुना सह संयुक्तं सर्वप्राणिषु संस्थितम् ।।
हंसो जीवः स विज्ञेयः सकलं सर्वजन्तुषु ।
वायुमात्रस्थितो देहे ज्ञायते नादिभिस्तथा ।
वहन्तं सकलं ज्ञेयं बीजञ्चेह विजृम्भते ।
सकलस्य तु संक्रान्ति षडद्वर्णरहितं शिवः ।।
हंस देहे पुनर्वक्ष्ये क्षेत्रज्ञाः सर्वदेहिनाम् ।
निष्कलञ्च पुनर्वक्ष्ये षड्वर्णरहितं शिवः ।।
उकारं बिन्दुसंयुक्तं वहन्ति तिष्ठते यदा ।
ग्रन्थिस्थाने स विज्ञेया सर्पवत्कृत कुण्डली ।।
इडा सुषुम्नया युक्तं बिन्दुनादविवर्जितम् ।
यथात्मनि तथा शिष्ये विज्ञेया निष्कला सदा ।।
निष्कलस्य तु संक्रान्ति षड्वर्णरहितं शिवः ।
हंसज्ञानं पुनर्वक्ष्ये शून्योऽयं यत्र जायते ।।
मेघदुन्दुभिशब्देन ज च शब्दकृतेन तु ।
गजवाजिनः शब्देषु नानाशब्दनिनादिते ।
तत्र शून्यं विजानीयाद् देहे तिष्ठन्ति काष्ठवत् ।।
काष्ठलोष्ठं च पाषाणे अचेतन सुकथ्यते ।
निश्चलं तिष्ठते सोहि यत्र नोच्छ्वसते पुनः ।।
अथ शब्दं यदा कर्णे तदा शून्यं प्रकीर्त्तितम् ।
प्. १७अ)
शून्यस्य तु च संक्रान्तिर्हयग्रीवस्य निर्दिशेत् ।।
एकपाद स्थितो नित्यं कलाढ्यं परिकीर्त्तितं ।
सुषुम्ना पदस्थिते हेतु हुंकारे तु न संशयः ।।
अग्नीनाञ्च तथैवेह वक्रवक्रान्तसंस्थितम् ।
वर्द्धते खादते चैव आकाशस्थो मुहुर्मुहुः ।।
आकाशं पिबते नित्यं आकारं सर्वदेहिनाम् ।
कलाढ्यं खं तु संक्रान्तिर्हयग्रीवस्य निर्दिशेत् ।।
स्वभावो यत्र जायन्ते * * * * * * * * ।
पशुमन्त्रस्य भेदस्य बिन्दुना सहितस्य च ।।
रिक्ताभावस्य काष्ठस्य यदा आपूरये शुभाः ।
खमलं कृत वै ज्ञेया कण्ठस्थाने स्थिता सदा ।।
महाप्रयाणकाले तु लोकासकृशेखरम् ।
उच्छ्वसन्तं न किज्ज्ञ आकाशस्थिलम् ।।
खमलं कृतस्य संक्रान्तिर्हयग्रीवस्य निर्दिशेत् ।
हयग्रीवस्य पुनर्भेदः संसारार्णवतारणः ।।
प्रत्यक्षयेन सिध्यन्ति न ते तत्वं विदोजनाः ।
व्यावृत्ते नैव * क्रेण श्रुत्वा देवं जगद्गुरुम् ।
देवक्षपणमित्युक्तं तत्क्षयात्क्षपणः स्मृत ।।
महाशब्दस्तु क्षपणो महादेवैस्तवस्य च ।
मात्रा मात्रा यदा कश्चिदुत्कोशयति जन्तवः ।।
महाविनायको यत्र महाकालः करोति च ।
हसते गायते चैव हाहाकारस्तथैव च ।।
वेदारण्या च विज्ञेया महाकालादि देवतम् ।
यत्र यत्र महाशब्दं तत्र वै क्षपणं स्मृतम् ।।
क्षपणस्य तु संक्रान्तिर्हयग्रीवस्य निर्दिशेत् ।
प्. १७ब्)
क्षपणस्य तु तद्वक्ष्ये संक्रान्तिर्या दृशी भवेत् ।।
अहो यत्र यतेर्यस्तु ग्रन्थिनादाय कण्ठयोः ।
जिह्वातालुककोष्ठाभ्यां क्वदेहे तत्र जायते ।।
उदरे मध्यमं विंद्या जायते नादितः सदा ।
क्षयस्य तत्र संक्रान्तिः क्षयः संसारसारणम् ।।
ग्रन्थिस्थो बोधयेत् सर्वं ग्रन्थिस्थात्ररिमण्डले ।
लिख्यते सर्वशास्त्रेषु देहस्थ एव जायते ।।
योसौ ऊर्ध्वगता नादा हयग्रीवस्तथात्मकः ।
त्रिकोणक शिरो यत्र अकारो यत्र जायते ।।
क्षपमध्ये सदा तस्य हयग्रीवताल्वोष्ठयोः ।
खादते पिबते चैव अधो नादेन संहरेत् ।।
इडा ऊर्ध्व गता तस्य अमृताश्च सुषुम्नया ।
ज्ञायते च अधस्थाथः? सुषुम्नार्द्ध गतास्तु वा ।।
तुर्यातीत मनौपम्य सादृश्यञ्च परापरम् ।
सुषुम्नाय पुनर्देवी श्यामवर्णाः प्रकीर्त्तिताः ।।
गङ्गायां तु इडा देवी गङ्गा तुर्णा प्रकीर्तिता ।
तस्यैव तु पुनर्भेदः कोटिदेशोनुवर्त्तुला ।।
तिर्यङ्नाडी मणिमध्या सृष्टिर्जायति तत्क्षणात् ।
सद्य बीज शिवो हंसः क्षेत्रज्ञः सर्वदेहिनाम् ।।
शिवतत्वमविज्ञाय दीक्षिता नाड्करिष्यति ।
वेलकालं तथा जीवः शिवभक्ति शिवं च यत् ।।
निर्मिता ज्वलनी धूम्रा कृष्णा च विद्युता तथा ।
शर्करी बालमित्रा च सुमति प्रति बोधनीम् ।।
निर्मिता षड्गुणा ज्ञेया ज्वलिनि द्विगुणा भवेत् ।।
धूम्रा च त्रिगुणा प्रोक्त कृष्णाज्ञेया चतुर्गुणा ।
प्. १८अ)
विद्या पञ्चगुणाश्चैव ज्ञेया सर्करि षड्गुणाः ।।
बालसप्तगुणा चैव मित्राष्टं च गुणाभवेत् ।
सुमित्रा नवगुणां ज्ञेया बोधनी दशमी भवेद् इति ।।
इति कालोत्तरे सप्तशक्तिके संक्रान्तिनिर्णय एकविंशतितमः पटलः ।।
ईश्वर उवाच ।।
संक्रान्तिश्चाष्टधा ज्ञेया पुनज्ञेया सहस्रधा ।
पुनः पुनस्तथा ज्ञेया शतमष्टकसङ्ख्यया ।।
तज्ज्ञात्वा बहुभिर्भेदैः संसाराद्धि प्रमुच्यते ।
कूटशक्ति स्थितो हंसो वश्योच्चारे हि मोचयेत् ।।
तदासौ दीक्षिता सा हि अन्यथा न विधीयते ।
हंस ज्ञाने शरीरस्य येन विन्दन्ति तत्वतः ।।
न तेषां मोक्षमादाय सिद्धिस्तेषां न विद्यते ।
ग्रन्थिस्थश्चलते हंसो विमुच्यते विनिर्द्दिशेत् ।।
संक्रान्तिर्नासिकाग्रे तु शक्ति वाचा शिवात्मिका ।
कूटशक्तिस्तु विज्ञेया हयग्रीव स कम्पयोः ।।
यदा मन्त्रयते किञ्चिदुच्छ्वसन्तं यदा भवेत् ।
शक्तिभि सहीतो हंसः शक्तिः समरसोभवेत् ।।
इडा सुषुम्नया युक्तं यदा वहति मारुतः ।
समरसं तु यदा ज्ञेयं नासिकाग्रे विदुर्बुधाः ।।
सप्तसप्तति जानीयाज्जाग्राजाग्र तु इष्यते ।
छेदकश्चैव विज्ञेयस्तत्त्वाख्य ईश्वरात्मकः ।।
योजकस्तु भवेद् रुद्रः शिवतत्त्वस्तथैव च ।
अक्षमीविग्रहादेवः श्रीकण्ठोक्षेप उच्यते ।।
अनन्ताकर्षण सो हि देविरज उच्यते ।
प्. १८ब्)
पाशच्छेदस्तु विज्ञेय आचार्याच्छिव तत्ववित् ।।
त्रासितो शिव तत्वज्ञो हंस ज्ञान सुभाषितैः ।
हंस ज्ञानं विजानीयादाचार्यो मोचयेद्ध्रुवम् ।।
इति कालोत्तरे सप्तशक्तिके शक्तिसमरसो द्वाविंशतितमः पटलः ।।
ईश्वर उवाच ।।
यथा बृहत्कुमार्यादौ प्रीत्यान्योन्यं भवन्ते ।
कथयामि न सन्देहस्तत्सुखं संप्रपद्यते ।।
अन्योन्यं भजते योग एकासंजायते सुखम् ।
अन्योन्य रहितं ताभ्यां नृसुखं संप्रवर्त्तते ।।
पुनश्चैवा गमं दृष्ट्वा परिष्वजतिसोत्सुकाः ।
यत्त्वया पूर्वमुद्दिष्ठं साम्प्रतं कथस्वमाम् ।।
आशङ्ख्य एव कथितं यत्त्वया परिपृच्छितम् ।
तत्तस्माद्ध्रुवते क्रुद्धाः किं त्वया सत्यसंसिनी ।।
ईदृशं तादृशं चैव जपस्य प्रत्ययात्मकम् ।
संयोगाय सुखं भद्रे नैव ज्ञेत चान्यथा ।।
अन्यथा वदमानस्य प्रत्ययो नैव जायते ।
अभ्युपेय सुखं तस्य कथितुं नैव शक्यते ।।
अचिरेणैव कालेन संप्राप्तं यत्सुखं त्वया ।
यत्त्वया कथितं भद्रे तत्तथैव न संशयः ।।
अज्ञान सुखमोहेन उक्ता चैव प्रियं वचः ।
क्षमयस्व प्रियं भद्रे यदा पूर्वं भजस्वमाम् ।।
संयोगेन सुखं भद्रे योगिज्ञानसमागमम् ।
युज्यते तस्य वर्त्तते सुखमानन्दलक्षणम् ।।
इति कालोत्तरे महातन्त्रे सप्तशक्तिके कुमारिकाप्रकणोनामत्रयोविंशतितमः
पटलः ।।
१९अ)
ईश्वर उवाच ।।
कालचक्र विधानं तु प्रवक्ष्याम्यनुपूर्वशः ।
कालचक्रेति विख्याता येन कालं प्रबुध्यति ।।
इडा होरात्रचारेण वर्षत्रीणि स जीवति ।
द्वावहोरात्रचारेण वर्षद्वयं संजीवति ।।
त्रीण्यहोरात्रचारेण वर्षमेकं स जीवति ।
चतुरहोरात्रचारेण षण्मासानि स जीवति ।।
पञ्चाहोरात्रचारेणमासत्रीणि स जीवति ।
षडहोरात्रचारेण द्विमासानि स जीवति ।।
सप्ताहोरात्रचारेण मासमेकं स जीवति ।
अष्टाहोरात्रचारेण अर्द्धमासं स जीवति ।।
नवाहोरात्रंचारेण दशाहः स जीवति ।
दशाहोरात्रचारेण दिनानि पञ्च जीवति ।।
एकादशाहोरात्रेण दिनानि त्रीणि जीवति ।
द्वादशाहोरात्रेण दिनद्वयं स जीवति ।।
त्रयोदशाहोरात्रेण दिनमेकं स जीवति ।
चतुर्दशाहोरात्रेण दिनमर्द्धं स जीवति ।।
पञ्चदशाहोरात्रेण मुहूर्तानि स जीवति ।
अहरेकं चरेद्वस्तु रात्रौनार्द्धं तथैव च ।।
षड्भिर्मासैर्भवेन्मृत्युरितिशास्त्रस्य निश्चयः ।
यामद्वयस्य चारेण अहोरात्रं स जीवति ।।
यथा यामास्तथा चामा मध्यमा च तथा भवेत् ।
कालचक्रं समाख्यातं पुत्रस्नेहाद्विशेषतः ।।
इति कालोत्तरे सप्तशतिके कालचक्रश्चतुर्विंशतितमः पटलः ।।
ईश्वर उवाच ।।
प्रत्यक्ष यजनं वक्ष्ये संक्षेपेन तु विस्तरात् ।
प्. १९ब्)
यं दृष्ट्वा तु नरायान्ति शाश्वतं पदमव्ययम् ।।
नाभ्यां मध्यन्तरे यस्तु उकाराख्यः स तिष्ठति ।।
आधार सर्वनाडीनां स तु हंसेन संयुतः? ।
द्वासप्तति सहस्राणि नाडयस्तत्र कीर्त्तिताः ।।
तासां मध्ये महानाडी राजनाडिति विश्रुता ।
तयस मध्य स्थिता स्कंद पञ्चपद्मा ह्यधोमुखा ।।
ग्रन्थिद्वय युताः सर्वे देवदैवत संयुताः ।
ऊर्ध्वं कृत्वा तु तान् पद्मान् शिवमूलेन भेदयेत् ।।
शिवमूलं स्थूलं? कृत्य? ऊर्ध्ववायुञ्च रेचयेत् ।
रेचकेन तु संयुक्तो जीवो गच्छति वै शिवम् ।।
एतत्सर्वं समाख्यातं संक्षेपेन तु विस्तरात् ।
सत्त्वानाञ्चैव ऊर्ध्वत्वं पूर्वंते? कथितं मया ।।
स्वयमेव तु तां पश्येद्देही विश्वचतुष्कलम् ।
अयनौ द्वौ तु विषुवौ मार्गवित्पश्यते सदा ।।
कृत्वा योगे पुरावत्स पूरकः कुम्भरेचकः ।
पूर्वतो भयमुच्चार्य अर्चयेत ह्यनुक्रमात् ।।
नमस्कारेण यागान्ते मूर्ध्निक्षारभ्यदापयेत् ।
सूर्यस्य ग्रहणे वत्स प्रत्यक्षं ह्यर्चनं स्मृतम् ।।
इति कालोत्तरे प्रत्यक्षयजनोनामपञ्चविंशतितमः पटलः ।।
कार्त्तिकेय उवाच ।।
शिवाग्नौ पञ्चवक्त्राणि शिवसद्भावमुत्तमम् ।
कस्मिं कस्मिंस्तदाववक्त्रे आचार्य पशुपाशहा ।।
कथं कथं तु संस्कारं कस्मिन्यायानि जुह्णति ।
कस्मिन्करोति यजनं कस्मिन्पूर्णाहुतिः स्मृतः ।।
प्. २०अ)
कस्मिन् वक्त्रे पुनः पापमात्मानं च विशोधयेत् ।
एतत्सर्वं समासेन भगवान्वक्तुमर्हसि ।।
ईश्वर उवाच ।।
पाशः पाशेषु यत्प्रोक्तः पूर्ववक्त्रं प्रकीर्त्तितम् ।
संस्कारं चोत्तरे वक्त्रे जननं पश्चिमेन तु ।।
प्रायश्चित्त विधानं तु वक्त्रेऽस्मिन्दक्षिणे स्मृतम् ।
ऊर्ध्ववक्त्रे महासेन तस्मिन्पूर्णाहुतिं स्मृतम् ।।
न पाणिपादपृष्ठेषु आहुत्यां संप्रदापयेत् ।
वक्त्रसंस्कार तत्वज्ञा आचार्या मोक्षकारकाः ।।
एवं संस्कारसंदिग्धे आचार्यस्तु न संस्कृतः ।
पुनरायन्त्य संस्काराः सत्यं वत्स वदाम्यहम् ।।
इति कालोत्तरे शिवाग्निसंस्कारो नाम षड्विंशतितमः पटलः ।।
अतः परं प्रवक्ष्यामि अष्टधा प्रत्ययो यथा ।
अग्निप्रज्वलनञ्चैव वृक्षालभनमेव च ।।
पक्षानां स्तोभनं चैव महापातकनाशनम् ।
विषसंक्रामणञ्चैव निर्बीजीकरणं तथा ।।
ज्वरग्रहविनाशं च प्रत्यया अष्टविधाः स्मृताः ।
एवं ज्ञात्वा विधानेन ख्यातिः सर्वत्र जायते ।।
प्रणवाद्यग्नि मध्यस्थो हकारो ह्रौ तथा पुनः ।
आदिमन्तं पुनश्चान्ते अनाग्नेर्ज्वलनं हितम् ।।
अग्निं स्रोतसि संयोज्य सहस्रोद्घातसंयुतम् ।
पञ्चाक्षर प्रयोगेण ज्वलत्येवं न संशयः ।।
उकारः सर्वतोधस्तादोकारश्चार्धसस्थिताः ।
होकारमध्य युक्तस्तु प्रणवाद्यन्त पीडितम् ।।
प्. २०ब्)
पूर्ववत्संप्रयोक्तव्यं प्रयोगाभुविदुर्लभाः ।
शनैः सप्ततिरुद्घातैर्गलं चाम्रियतेद्रुमः ।।
भूयश्चाप्यायनं तस्य वारुणश्रोत्रसंस्थितम् ।
स जीवति पुनर्वृक्षो यथा पूर्वे तथैव सः ।।
तादृशैव पुनश्चास्य किन्तुरेक विवर्जिता ।
आप्यायन विधिर्ह्येष पञ्चधा बिन्दुदीपिताः ।
ईश हकारादि शम्भो मध्ये वह्निस्तथा परा ।।
प्रयोगो विषुवे काले पाशानां स्तोभकर्मणि ।
शतैः सप्ततिरुद्घातैप्रतत्येव न संशयः ।।
पुनश्चोत्थापनं तस्य यथा भवति तच्छृणु ।
इकाराद्यन्त युक्तेन ह्येमध्ये तु नियोजिता ।।
प्रणवाद्यं बिन्दुसंयुक्तं नमोन्तेन तु वारुणे ।
उत्थापने प्रयोक्तव्यं सर्वभूतेषु तत्त्ववित् ।।
सन्निविष्ट स हूं बीजा हकाराद्यन्तसंस्थितम् ।
पूर्ववन् मध्यं संस्थस्य वायुबिन्दुसमन्वितः ।।
ददस्यारोहणे प्रोक्ता गुतुवं जायते यथा ।।
श्रूय एव प्रवक्ष्यामि लघुत्वं येन जायते ।
उकार सहकारश्च ह्यैकारेहं नमस्तथा ।।
तुला पुरुष योगोय मुद्घातेना युतेन तु ।
सहकार यकारश्च ईकारेण तु दीपितम् ।।
ह्रो ह्रो मध्ये ह्री नमश्चान्ते वारुणेन तु बुद्धिमान् ।
उद्घाताष्टमनेनैव विषसंक्रमणं ध्रुवम् ।।
यथाग्नि ज्वलने दृष्ट्वा निर्बीजीकरणं तथा ।
शनैः पञ्चभिरुद्घातैर्विशेषोऽत्रविधीयते ।।
उंकारमादिनं कृत्वा हूंकारं तदनन्तरम् ।
ह्रौं ह्रं पूर्वं नमश्चान्ते ग्रहाणां नाशने हितम् ।।
प्. २१अ)
योगन्तु विषुवे काले उद्घाताष्टशते तु ।
प्रणवादि ततो हूं च फट् हौं फट् तथा पुनः ।।
हूं फट् तथा फट् भूयः फट् फडेति च वारुणे ।
उद्घाताष्टशते नैव क्षिप्रं नाशयते ज्वरम् ।।
अष्टानां प्रत्ययामान्तु प्रयोगं कथितं मया ।
एवं ज्ञात्वा तु मेधावी कर्मकुर्याद्यथेप्सितम् ।।
पूज्यते शिव लोकेशः प्रत्यक्षश्च सदाभवेत् ।
प्रत्ययो नैव मोक्षं वै ज्ञात्वा सिध्यन्ति नान्यथा ।।
इहलोवेत्सिद्धिर्भिन्नदेहः शिवं व्रजेत् ।।
इति कालोत्तरे सप्तशतिकेऽष्टप्रत्ययो नाम सप्तविंशतितमः पटलः ।।
कार्त्तिकेय उवाच ।।
नैष्ठिकानान्तु सर्वेषां विधिं ब्रूहि महेश्वर ।
निवर्त्तनं कथं तेषां कथयस्व यथार्थतः ।।
ईश्वर उवाच ।।
लिङ्गोद्धारं प्रवक्षामि नैष्ठिकानां तु षण्मुख ।
निवर्त्तनं हि तत्तेषां प्रवक्ष्यामि समासतः ।।
त्रिरात्रं पञ्चरात्रं वा क्षपयित्वाधिवासयेत् ।
पूर्वोक्तं तु विधि कृत्वा न्यसन्तु निवर्त्तयेत् ।।
योनिचक्रं न्यसेत्तत्र विधि दृष्टेन कर्मणा ।
अष्टारं चक्रमालिख्य नाभिद्वयसमन्वितम् ।।
विपरीतं योजयित्वा जपेन्मन्त्रं तु नैष्ठिकम् ।
पञ्चपञ्चाहुतिं दद्यान्नैष्ठिके तु यथाक्रमम् ।।
हृन्मन्त्रेण तु दातव्यं संहारेण तु बुद्धिमान् ।
प्. २१ब्)
एवं कृत्वा यथा पूर्वं यजनं तत्र नैष्ठिकम् ।।
इष्टसंहारिका स्कन्दत्स तत्वा वै नैष्ठिकस्यत् ।
सृष्टिसंन्तु कृत्वा सिध्यन्ति नैष्ठिकाः ।।
आसक्तो विषयी वापी कर्मदोषैर्न लिप्यते ।
इदं ते कथितं वत्स संन्यासं तु विशेषः ।।
उपसन्नास्तु ये चान्ये तैषां चैव निवर्त्तनमिति ।।
इति कालोत्तरे महातन्त्रे नैष्टिविधिरष्टाविंशतितमः पटलः ।।
ईश्वर उवाच ।।
अच्छिष्टिकं प्रवक्ष्यामि यथावदनुपूर्वशः ।
शिवाग्निं जलयित्वा तु शिव पश्चाद्विशोधयेत् ।।
शृङ्गो? मयाम्बुभिशोध्यं भस्मस्नानं यथापुरा ।
गन्धैपुष्पैरलङ्कृत्य अस्त्रबीजेन शोधयेत् ।।
इष्टसंहारिकं कृत्वा ऊर्ध्व पादौ निवेशयेत् ।
दर्भास्तरं पुरा कृत्वा अस्त्रं विन्यस्य सर्वतः ।।
अस्त्रेण ज्वालयेद्वह्निः समन्तात्सुसमाहितः ।
चन्दनागरुकाष्ठेन तिलसर्पिः समन्विता ।।
विद्यमानेन स सर्वमितेषु यथेष्टया ।
आग्नेयी धारणाद्ध्यात्वा देहे अस्त्रेया मन्त्रवित् ।।
दीक्षितोत्तर काले तु समयाघो विलङ्घयेत् ।
देवस्याथ गुरोर्वापि महापातकमेव च ।।
अमुक्ताः संशयायेऽपि ये चान्ये समलात्मकाः ।
तेषां पापापनुदये अ * ष्ट कथितं गुह ।।
स्वसंज्ञालयमापद्ये समयायेषु लङ्घने ।।
चैसाः संज्ञाश्च संयोगो ग्रहणं पूर्वद्भवेत् ।
प्. २२अ)
एवमन्तेष्टि यस्येह क्रियतेष्टि विधानतः ।।
सर्वपापविनिर्मुक्तः शिवं याति विशुद्धवत् ।
इति कालोत्तरे महातन्त्रे सप्तशतिकेऽन्तेष्टिकोनत्रिंशत्तमः पटलः ।।
अतः परं प्रवक्ष्यामि अस्त्रयागं समासतः ।
अस्त्रयागं तु छिद्रघ्नं प्रवक्ष्याम्यनुपूर्वशः ।।
पूर्वोक्ते भूतले शुद्धे गोमयेनानु लेपिते ।
मन्त्र द्रव्य समायुक्तं कलशं वारि पूरितम् ।।
ईशान्या स्थापयेद्विक्षु निर्विघ्नकरणं शुभम् ।
ततः पद्मं समालिख्य स्थण्डिले वा समर्चयेत् ।।
रजांसि वहवो विघ्न निर्विघ्नं स्थण्डिले गुह ।
तस्मात् सर्वप्रयत्नेन अस्त्रयागं तु स्थण्डिले ।।
सर्वत्र विहितं शान्तं स्थण्डिले यागमुत्तमम् ।
प्राकारं कर्णिका पद्मे धर्मज्ञानादिमेव च ।।
वैराग्यं चैवमैश्वर्यं शक्तयश्च तथैव हि ।
गन्धपुष्पोपहाराद्यैर्भक्तेन विधिवत्सदा ।।
तेन कुर्वीत मतिमान्प्राकारेण सुसंयुतः ।
अस्त्रं पाशुपतं दिव्यं स्थापयेत्कर्णिकोपरि ।
अष्टात्रिंशत्कलैर्युक्तं पुराकृत्वा तु विन्यसेत् ।।
अस्त्रं दिशासु विन्यस्य प्राकारं विदिशा क्रमात् ।
अस्त्रपीठमिदं श्रेष्ठं निच्छिद्रकरणं परम् ।।
बाह्ये कुर्वीत वज्राद्या दशदिक्षु सम * न्तः ।
वज्रं शक्तिं च दण्डं च खड्गः पाशं तथा क्रमम् ।।
गदात्रिशूलश्चक्रञ्च पद्मं चैव यथाक्रमम् ।
प्. २२ब्)
न्यसेत्पाशुपते नैव प्राकारेण समन्ततः ।।
पूजनं चाग्नि कार्यंन्तु? दिशाभागं प्रकीर्त्तितम् ।
वृत्तकुर्वीत कुण्डं तु तस्योर्द्धं चतुरङ्गुलम् ।।
चतुरस्रसमायुक्तं हस्तमात्रं समन्ततः ।
सर्वकर्मकधृत्तं तु अस्त्रयागं विशेषतः ।
स्थण्डिले रजपाते च कुण्डं कुर्यात् स लक्षणम् ।
शोधनं तस्य कुर्वीत प्राकारेण तु षण्मुख ।
जननं निष्कृतिं चैव विधिं कुर्याद्यथा क्रमम्? ।।
होमं कुर्वित मतिमान्शास्त्रदृष्टेन कर्मणा ।
महापाशुपतं दिव्यं प्राकारं पुण्यमेव च ।।
वज्राद्यास्तु ततो हुत्वा भगे पूर्वप्रकल्पिते ।
हुं फट् वौषडन्तेन पूर्णहुत्यां प्रकल्पयेत् ।।
न्यसेत्प्राकारजां योनिं बिन्दुस्थाने विचक्षणः ।
तत्रस्था कर्षणेन प्राकारेण न संशयः ।।
अधिकारादि होमं तु आहुत्या विंशत्रिंशति ।
शतमष्टोत्तरं पूर्णं महास्त्रेण तु पातयेत् ।।
अस्त्र दीक्षा समाप्येत सर्वच्छिद्रनिकृन्तनी ।
योजयेच्छिवतत्त्वस्य निर्वाणकरणपरा ।।
ततोभिषेकयेत्कुम्भैः पूर्वोक्तस्य प्रकल्पितैः ।
विनायकग्रहादीनि नश्यन्ते नात्र संशयः ।।
इति कालोत्तरे महातन्त्रे सप्तशतिकेऽस्त्रयागस्त्रिंशत्तमः पटलः ।।
प्. २३अ)
चतुरस्रार्धचन्द्रश्च त्र्यंशंवर्त्तुलकं तथा ।
शून्यं वजाङ्क शृङ्गाटा शून्यञ्चैव प्रकीर्त्तितम् ।।
पीतं रक्तं तथा शुक्लं कृष्णं चेति यथाक्रमम् ।
यो वेत्येवमिमां तत्त्वां तत्त्वविद्भिः स *? त्तरैः ।।
समस्त व्यस्तभावेन समाधिं योऽभ्यसेद्गुह ।
इहोष्म न फलं तस्य अचिरेण न संशयः ।।
पञ्चावस्था सुतत्त्वज्ञाः स्वभावस्तेजसंयुतः ।
ध्यात्वा मेता व्रजेन्मूर्ध्नि तस्मिंश्चित्तं निवेदयेत् ।
स्तम्भना व्यापनोत्कर्ष विद्वेषोच्चाटनानि च ।।
प्रीति संजननं सौम्यं यत्तिष्टन्ति षडानन ।
बिन्दुस्थं त्रितयं ध्यायेत् सिद्धिकर्मसमाहितः ।।
आत्मनः पञ्च ईशञ्च एकोकृत्य षडानन ।
आकाराद्या उकारान्ता नपुंसकविवर्जिताः ।।
आत्म तत्त्वेश्वरा ह्येते पञ्चयुग्मः प्रकीर्त्तितः ।
शोधयित्वा पुरावत्स भूतादिति चतुष्टयम् ।।
भूतभावं तथा तत्त्वं बीजं चैव यथाक्रमम् ।
गन्धं रूपं रसं चैव शब्दं स्पर्शं च पञ्चमम् ।।
तन्मात्रा सहिता ह्येते होमयेच्चानुपूर्वशः ।
गन्धभूतानि होतव्या रसोभाव षडानन ।।
तेजस्तत्वाः समाख्याताः स्पर्श बीजानि होमयेत् ।
शब्दं शब्दे तु संपाद्य हृदिनामपुटीकृतम् ।
स्वमानसर्वतत्वानां होमयेच्चानु पूर्वशः ।
प्. २३ब्)
क्षित्याद्याश्चैव धर्माद्या आकाराद्यास्तथा स्वराः ।।
विहितं सर्वतन्त्रेषु इदं संस्कारमुत्तमम् ।
ह्रां ह्रींमिति प्लावयेत् ।
ह्रीं ह्रमिति शोधयेत् ।
ह्रूं ह्रीमिति प्लावयेत् ।
ह्यैं ह्लामिति स्थिरोभवेत् ।।
मित्राविभेदनत्स्येषामेवं? कृत्वा इदं कर्मग्रन्थभेदा
समाधा? क्रमात् ।
वामयायोजनं कृत्वा ज्येष्ठा यास्तु वियोजनम् ।।
रौद्रं चोत्कर्षयेदूर्ध्वं विन्यसेच्चानुपूर्वशः ।।
इति कालोत्तरे महातन्त्रे सप्तशतिके एकत्रिंशत्तमः पटलः ।।
कार्त्तिकेय उवाच ।।
कथं हंसस्य संचार देहमध्यव्यवस्थितम् ।
एतत्सर्वं समासेन कथयस्व यथार्थतः ।।
ईश्वर उवाच ।।
शृणुस्कन्दप्रवक्ष्यामि हंसचारविधिक्रमम् ।
इडा वै वामनेत्रन्तु सुषुम्ना दक्षिणेन तु ।।
कर्ण नासिकादन्त्य?स्थिकपाले पिङ्गलास्मृता ।
हस्तपादहृदिजङ्गस्तनपादभुजद्वये ।।
गान्धारी कुरुते नित्य सर्वयोरुभयोरपि ।
हस्तिनी वृषणे लिङ्गे पूषा च उदरे गुदे ।।
यशा च नख सर्वेषु रोमकूपेत्वलंबुषा ।
कूर्म चैव कटिपृष्ठेधध्विनीति कृकाटिकाः ।
अस्थिमज्जेकं चैव वसेदन्ते च शङ्खिनी ।।
इडायां जाग्रतो चैव विपुलास्वयते गुरु ।
सुषुम्ना पश्यते स्वप्नं दक्षिणं नेत्रमाश्रिताः ।।
रेतोमुञ्चति गान्धारी मूत्रञ्चैव तु हस्तिनी ।
पुरीषञ्चैव पूषा च रतिं काले यथा तथा ।।
अलंबुषा कुहूश्चैव वक्त्राणां पिपासिता ।
प्. २४अ)
शङ्खिनी पिबते तोयं सद्योनि सर्व एव हि ।।
इडायां कर्षणे चैव कोयं चैव तु पिङ्गला ।
विशादन्तु सुषुम्ना च गान्धारी भयमाश्रिता ।।
हस्तिनी हसते चैव पूषा च शब्दमाश्रिता ।
पश्यते च यशा नाडी रसं चैव अलंबुषा ।।
पुरीषं मरुद्वक्त्रा च गन्धमाघ्रातशङ्खिनी ।
इडा नाडी स्थिता प्राणे अपाने चैव पिङ्गला ।।
समाने तु सुषुम्नाया गान्धारी तु उदानजा ।
व्याने तु हस्तिनी नाम नागे पूषा समाश्रिता ।।
कूर्मं चैव कुहूनाम कृकरे तु अलंवुषा ।
देवदत्तो मरुद्वक्त्रः शङ्खिनी तु धनञ्जयः ।।
मृत्युकाले च वै नाशश्वसते च मुहुर्मुहुः ।
दीर्घो घुरुघुरा शब्दं देवदत्तो विजृम्भति ।।
धनञ्जयः स्थितो घोषे मृतस्यापि न मुञ्चति ।
इत्ये तद्वायुवृन्दस्तु हृदि सर्वस्य संस्थितः ।।
पूयाकारसमानन्तु अधोनाडी व्यवस्थितः ।
इडायां पितृलोकं तु पिङ्गलायान्तु चन्द्रमाः ।।
सुषुम्नायां सर्वलोकं गान्धारी कृमिकीटजा ।
हस्तिन्यां रक्षसां लोकं पूषायां नरकं ध्रुवम् ।।
खरोष्ट्राश्चैव जायन्ते भानोल * * * * * ।
शूली?हंसचालं तु मोक्षद्वारप्रदायिका ।
हकाराग्नि प्रदीप्यन्ते वज्रेण हंसवर्त्तते ।
कुद्वशमिवशैलकालाग्नि रथचेदिणी ।।
चालयेद्वैत्रिभुवनं पुनर्वैभवबन्धनात् ।
सुषुम्ना देवतायानः पिङ्गला असुरं पुरम् ।।
इडायां मानुषं लोकं गान्धारी कृमि संभवा ।
प्. २५)
हस्तिनी प्रेतलोकं वै प्लवाचनरकं ध्रुवम् ।
इत्ये तेषां गतिर्भावं मोक्षभावश्चमेकतः ।।
अत ऊर्ध्व न विद्यन्ते सद्यद्वारं प्रशस्यते ।।
कुर्यावस्थस्य देवीनां अजानादीनियं बुधः ।
न भूयोजन्मसंभवः ।।
इति कालोत्तरे महातन्त्रे सप्तशतिके हंसाचारो नाम द्वात्रिंशत्तमः पटलः
।।
प्. २६)
ओं नमः शिवाय ।।
सर्वज्ञस्तृप्तिमान्नित्यं बोध स्वातन्त्र्यसंयुतः ।
अलुप्तविभवोऽनन्त शक्तिर्विजयते शिवः ।।
अथ नित्यादिकं वक्ष्ये संक्षेपादल्पधीर्हितम् ।
तत्र प्रातः समुत्थाय हृदिध्यात्वा महेश्वरम् ।।
बहिर्गत्वा शुचौ देशे तृणाच्छन्नमहीतलेः ।
विसृजेन्मलमूत्रादि गुर्वादी नामसन्मुखः ।।
दिवोत्तराननोमौनीरजन्यां दक्षिणान *? ।
दक्षकर्णोपवीतश्च नासाग्रो व्यग्रलोचनः ।।
पायुं विसृज्यलोष्ठाद्यैः शौचं कुर्यान्मृदाजलैः ।
एकालिङ्गे गुदे पञ्च दशवामकरे मृदः ।।
उमयोः सप्तसंयोज्याः पादे हस्ते सकृत्सकृत् ।
आचम्य शोधयेद्दन्ताचिहितैर्दन्तधावनैः ।।
मुक्तयेष्टाङ्गुलं तच्च भुक्तये * *? शाङ्गुलम् ।
यद्वा ब्राह्मणराजन्य वैश्य शूद्रान्त्यजन्मनाम् ।।
दिशा नरास्त मुनिडू? पर्वभिर्द्दन्तधावनम् ।
प्रतिपन्नवमीषष्ठीषु नुदतैर्नतैः ।।
यद्वास्यं रविगण्डूषैः संशोध्यस्नानमाचरेत् ।
तच्च वारुणमाग्नेयं माहेन्द्रमारुतं तथा ।।
पार्थिवं गौरवं मान्त्रे कापिलं मानसंमतम् ।
अथोदशशतिकम्
प्. १अ)
ओं नमः शिवाय ।।
कार्तिकेय उवाच ।।
अल्पग्रन्थं महार्थश्च पदार्थानेकसंकुलम् ।
त्वयोक्तं पार्वतीशान सूत्रमात्रं प्रभो मम ।।
न ज्ञातं तत्वतो देव तत्वं कालाख्य * * * ।
अल्पग्रन्थं महार्थत्वादति गुह्यव्यवस्थितम् ।।
मनुजानां हितार्थाय ब्रूहि मे परमेश्वर ।
महामोहभिभूतानां क्षुत्तृष्णां च परिप्लुताम् ।।
संज्ञामात्रेण मुग्धानां पशूनां पार्थि * पतेः ।
नेत्रस्योन्मीलनं शंभो तत्वार्थे न कुरुष्वमे ।।
मन्त्रार्थञ्च यथावस्थं यथा स्थाने च ये स्थिताः ।
स्वरमात्रा विभागेन न्यस्यन्ते तत्वसंयुताः ।।
तत्वं तु कथयशंभो कस्मिन्स्थाने तु संस्थितम् ।
पुनः सर्वगतं देवं कथितं व्यापकं त्वया ।।
ब्रह्मस्थं च शिवाङ्गस्थं भूतस्थं परमेश्वर ।
अस्त्रस्थं तु विनिर्दिष्टं कथितंनावधारितम् ।।
शान्तं सर्वगतं शून्यं व्यापिनं बहुधा स्थितम् ।
एकन्तु बहुधा देव कथितं तत्वमीश्वरम् ।।
पञ्चोद्धातास्त्वया शम्भो पृथग्भूताश्च वर्णिताः ।
शोधनं तेषु कर्तव्यं भूतेषु परमेश्वर ।।
पञ्चैव चतुरश्चैव अयश्च द्वयमेव च ।
शून्यं सर्वं निरालम्बं विज्ञानं केवलं स्थितम् ।।
एतन्मोहकरं देव प्रश्नार्थं परमेश्वर ।
प्रस्फुटी कुरुष्व सर्वज्ञ स्वल्पग्रन्थार्थ मोहिताम् ।।
कथं शून्यं निरालम्बं विज्ञानस्थं भवेत्प्रभो ।
विज्ञानं सकलं प्रोक्तं मत्रमे संशयो महान् ।।
प्रकृयान्तस्थ ममृतं श्रवन्तं चिन्तयेत्कथम् ।
अमृतं प्रक्रियायान्तु यत्रस्थं स व्यवस्थितम् ।।
कतरासा महादेव प्रकृया परमेश्वर ।
प्. १ब्)
यस्यान्ते संस्थितं सोथ अमृतं मृत्युनाशनम् ।।
मृत्युश्च परमेशान कतिधासंव्यवस्थिताः ।
यं किन्तु नाशयते देव प्रकृयान्त स्थितः प्रभुः ।।
श्रवन्तं कुरु देवेश चिन्तितव्यन्तु साधकैः ।
एतद्गुह्यतरं शंभो कथयस्व प्रसादतः ।।
हृत्पद्मस्य च विन्यासं सूचितं परमेश्वर ।
संज्ञा भेदेन देवेश ओमित्यक्षरसंस्थितम् ।।
न ज्ञातं तेषु भेदोयं मुद्वातानां? पृथक्पृथक् ।
सूत?शुद्धि विधानेन आयामेन महेश्वर ।।
अकारञ्च उकारञ्च मकाराक्षरमेव च ।
पूर्यष्टकञ्च तन्मात्रं भेदितं न प्रकाशितम् ।।
अकारं कतिधा ज्ञेयमुकारं च महेश्वर ।
मकारं तत्वतो ब्रूहि प्रत्यवस्थं ह्युमापते ।।
तुर्यातीतं परं देवं चतुर्थं यत्प्रकीर्तितम् ।
तस्योपरि स्थितं शान्तं नादरूपं सदाशिवम् ।।
एतेषां प्रविभागन्तु ब्रूहि मेतज्जगदीश्वर ।
येन जानाम्यहं शम्भो समाधिं मृत्युनाशनीम् ।।
मूर्त्तेश्च ग्रहणं ब्रूहि काव्यमूर्त्तिः प्रपठ्यते ।
स्थूलं सूक्ष्मं परं देवं न्यायकं कथितं पुरा ।।
स्थूलं शब्दमिति प्रोक्तं सूक्ष्मं चिन्तामयं भवेत् ।
चिन्तया रहितं देवं कथितन्तु परापरम् ।।
स्थूलं कतिविधं ज्ञेयं शब्दमुच्चार * * मे ।
- * * परमेशान चिन्तया यत्प्रवर्तते ।।
चिन्ता कति विधा देव रूपं तत्वं च कीदृशम् ।
रूपलक्षणहीनंस्य ग्रहणं चिन्तया कथम् ।।
चिन्तया रहितं चान्यं कथं विज्ञोयते प्रभो ।
एतत्सर्वं सुरेशान पदार्थार्थं महार्णवम् ।।
कथयस्व विशेषेण भक्ताय परमेश्वर ।
प्. २अ)
स्नानाध्यायं त्वया चोक्तं भस्मकर्पूरणं प्रभो ।।
कथितं लोकनाथेश नमया चावधारितम् ।
यजनं देवदेवस्य संक्षेपेण तु वर्णितम् ।।
अनन्तं कमलं शंभो धर्माद्यैर्विधृतं परम् ।
कथितं देवतानन्द विधिपूर्वं विशेषतः ।।
शक्तिव्यूहं च मे ब्रूहि स्पष्टार्थेन सुरेश्वर ।
एतानि सर्वतत्वानि कथं हृदय संस्थिता ।।
यजन्ते परमेशान गुह्यमेतद्ब्रवीहि मे ।
बीजाङ्कुरं पुराशक्त्या ह्यनन्त कमलं ततः ।।
पुराशक्तिस्तु का ज्ञेया बीजाङ्कुर विसर्पिणी ।
मया कुर्वीत देवेश अनन्तं कमलं प्रभो ।।
अत्येप्येवं पठन्तीह सुत्रं सुत्र विदोजनाः ।
बीजाङ्कुरं पुराशक्त्या अनन्त कमलं भवेत् ।।
पादद्वयस्य देवेश निर्णयं ब्रूहि मे प्रभो ।
अन्ते चानन्तकं कुर्यात्क्रमेण कथितं प्रभो ।।
कीदृशोनन्तक सुत्रयत्क्रमेण विधीयते ।
अग्निकार्यविधिश्चैव संक्षेपेण तु वर्णितः ।।
उल्लेखनादिकं कर्म तथा चाभ्युक्षणं पुनः ।
गर्भाधानादि जननं संक्षेपेण तु वर्णितम् ।।
आहुतीनां प्रयोगन्तु बहुधा संव्यवस्थितम् ।
न ज्ञातं स्वल्पमुक्तत्वाद्बहुकर्म्मकरः प्रभुः ।।
आप्यायन विधिं चैव त * * * * * शेदि ।
पुष्ट्यर्थञ्च विशेषेणमारणोच्चाटमोहने ।।
स्तम्भने चैव साध्यानां आवेशग्रहमासने ।
दीक्षाकाले च पाशानां कथमन्त्रा भवन्तिते ।।
दीपनं बोधनं चैव ताडनं मलनाशनम् ।
मन्त्रणां तु कथं देव विभागं भवते प्रभोः ।।
स्वल्पत्वान्न तु विज्ञातं मन्त्रावह्वर्थ जातयः ।
प्. २ब्)
कर्मनानाविधेस्ते तु यजान्ते? साधकादिभिः ।।
एकरूपाश्च ते शंभो कथं कामफलः प्रदाः ।
मण्डलस्य प्रमाणन्तु द्वारकोशसमन्वितम् ।।
गर्भपद्मपुराव्योम किं * * * * * द्विभो ।
दलोपदलमान्तन्तु केसराणां विनिर्णयम् ।।
कर्णिकायां प्रमाणेन कथं ते तु व्यवस्थिताः ।
विध्यन्तर प्रमाणन्तु रजसां लक्षणं कथम् ।।
पातनीयं विशेषेण पुष्ट्यर्थे शान्तिमारणे ।
स्थूलं सूक्ष्मतरं देव हीना रेखिका यदा ।।
गुणदोषौ भवेत्तस्य कश्चात्र परमेश्वर ।
कथं दीक्षा प्रकर्तव्याः साधकादिषु देशिकैः ।।
एक तत्वे स्थिताः पञ्च तत्वं वै पार्थिवादयः ।
न ज्ञातस्ते महादेव दीक्षाकाले ह्युपस्थिते ।।
पृथिव्याः कतरं तत्वं मयां चैव तथोत्तरे ।
तेजो वायुः खमूर्त्तीनां के बीजाः परिकीर्तिताः ।।
कथं सर्वाणि तत्वानि तेषु वै संव्यस्थिताः ।
न जानामिवदेशान व्याकुलत्वादुमापते ।।
दीक्षाकाले कथं साध्यास्तत्वा तत्वान्तरे स्थिताः ।
वलावत्वे तु तत्वानां कथं भवति शङ्कर ।।
सर्वे सर्वगताः प्रोक्ताः सर्वे सर्वज्ञभाविता ।
व्यापका विमलाशुद्धाः कथं तेषां तु शोधनम् ।।
अशुद्धाके समुद्दिष्टाः शुद्धावाके महेश्वर ।
आगोपालाङ्गनावस्थं व्यापिनं कथितं त्वया ।।
नादान्ते परमं देवं कथं वा शुद्धसंस्थितम् ।
एतन्मोहकरं देव प्रश्नार्थ वद मे प्रभो ।।
कथं शुद्धमशुद्धश्च मन्त्रत्वं च? कथं भवेत् ।
प्. ३अ)
येन जानाम्यहं दीक्षां निर्वाणफलदायिकम् ।।
सर्वे शुद्धा विनिर्दिष्टास्तत्वास्तत्वेश्वरेश्वराः ।
अशुद्धास्तु पुनस्ते वै कथं युज्यन्ति चाध्वरे ।।
निवृत्तिः पृथिवी प्रोक्ता भूताख्या सा प्रकीर्तिता ।
सघ्नो जात इति प्रोक्त ब्रह्मत्वे संव्यवस्थिताः ।।
कथं वा शुद्धमित्युक्तं शुद्धा देवी महेश्वरी ।
हृदयेन समाख्याता त * * * महाप्रभोः ।।
ब्रह्मतत्वस्य देवेश कथं शुद्धिर्विधीयते ।
ह्रस्वबीजं भवेद् ब्रह्म ह्रस्वाकारं तया प्रभोः ।।
कथं लोकस्य मुक्त्यर्थं पृथ्वी बीजं महेश्वर ।
को विशेषो भवेद् देव बीजानां सुरसत्तम ।।
निवृत्तिः पृथिवी सद्यरात्मतत्वश्च गीयते ।
वर्णितं बहुभिर्भेदैस्तत्वभेदं सुरेश्वर ।।
प्रतिष्ठा भवते आपो भूत शक्तिस्तु संस्थिता ।
शिरसा सा तु होतव्या कथितं परमेश्वरा ।।
वामदेवं बिजानीयाद्ध्रस्वमीकारसंस्थितम् ।
कथं संशोधनीयस्तु शुद्धो देवो निरञ्जनः ।।
विध्यतेऽतो मयीख्याता कलासंभूतसंस्थिता ।
अघोरं पञ्चमं विद्धि होतव्यं षट्कसंयुतम् ।।
कथितं पार्वतीशान सा शिखापरमेश्वरी ।
कथं विशोधनीयं स्वंदीक्षाकाले ह्युपस्थिते ।।
वायुशान्तिः समाख्याता भूतशान्ती व्यवस्थितम् ।
पुरुषं तं विजानीयादेकाराक्षरसंस्थितम् ।।
होतव्यं कवचे नैव कथितं परमेश्वर ।
शान्त्यतीतं परं व्योममाकाशं परिकीर्तितम् ।।
तथापि देवतानन्दनमया चावधारितम् ।
प्रसादः कीदृशो देव सर्वज्ञः परमेश्वरः ।।
प्. ३ब्)
व्यापिनं व्यापकं शुद्धं महाशुद्धन्तु तत्स्मृतम् ।
वह्वक्षरं प्रभेदेन बहुधा कथितं त्वया ।।
न विज्ञातं मया शंभो तस्य देवस्य निर्णयम् ।
प्रसादेति च देवेश संज्ञायै किं विभाव्यते ।।
अनामकस्य देवस्य नामकैः किं प्रयोजनम् ।
कोकिला?स्तत्र संस्थातुं केवर्णाः परमेश्वर ।।
किं रूपाः संभवंत्येते दीक्षाकाले ह्युपस्थिते ।
सकलं परमं तत्वं सर्वव्यापी जगत्प्रभुम् ।।
कथितं लोकमुक्त्यर्थं परमेशं महाप्रभो ।
पशुं तत्वं त्वया प्रोक्तं प्रतितत्वं च शंकर ।।
एतन्मोहकरं देव वाक्यं दुर्भेद्यमुत्तमम् ।
एकैकस्य शतं होम्यं बीजानां परमेश्वर ।।
चतुर्णां सप्तवर्गन्तु जननादि विवर्जिताः ।
पञ्चमी चैव होतव्या प्रसादेन तु वर्णिताम् ।।
एवं पञ्चशतान्याहुः कथितानि पुरा विभोः ।
ज्ञानेन देवदेवेन देशिकस्य तु शङ्कर ।।
प्रायश्चित्तं कथं तस्य प्रवर्ततीति दक्षह ।
एतच्चित्रकरं प्रश्नं मां प्रबोधय सर्वदा ।।
अस्तु बीजेन देवेश होमयेच्चानु पूर्वशः ।
कथं वै योजनेन्तेषु मन्त्रेषु संप्रवर्तते ।।
अल्पाक्षर महार्थत्वात्कथं भाव धारितम् ।
एकैकस्य शतं होम्यं शतानि पञ्च होमयेत् ।।
पश्चात्पूर्णाहुतिं दघ्नात्प्रसादेन महेश्वर ।
प्रायश्चित्त विशुद्ध्यर्थं एकैकाष्टाहुतिः क्रमात् ।।
अस्तु बीजेन संयुक्ता होमयेच्चानुपूर्वशः ।
एवं समाप्यते दीक्षा जननादि विवर्जिता ।।
हुते नैव तु मुच्यन्ते साधका जन्म बन्धनात् ।
एतच्चित्रकरं देव वाक्यमेतदुदाहृतम् ।।
प्. ४अ)
ज्ञाने नैव तु देवेश प्रसादे व्यापके शिवे ।
प्रायश्चित्ताः प्रजायन्ते एतन्मे ब्रूहि शङ्करः ।।
कथं बीजास्त्र योगेन युज्यन्ते स महेश्वर ।
भूतस्थञ्च महेशान ब्रह्मस्थश्च महाप्रभो ।।
अङ्गस्थः सर्वधं देव युज्यते च शिवाध्वरे ।
एते सप्तदशोक्ता वै त्वया शोध्या महेश्वर ।।
न ते ज्ञाता महादेव यथा मुच्यन्ति चाध्वरे ।
हुते नैव तु मुच्यन्ते साधकाः पाशमोक्षिताः ।।
रहस्यं कथितं सर्वं मन्त्राणां परमेश्वर ।
सर्वसंस्कारशुद्धस्य शिवत्व प्रतिपाटनात् ।।
तथापि न भवेच्छुद्धिर्यावद्योगं न विन्दति ।
विदिते परमे योगे तदा मोक्षो विद्धिंयति ।।
एवं वै व्याकूलं चित्तं प्रश्नादुपहतेंद्रिये ।
तथा वदत्वं मे नाथ यथा निःसंशयो भवेत् ।।
सप्तदशानां साध्यानां स्वबीजाके प्रकीर्तिताः ।
येन शुद्धिर्भवेत्तेषामुपाशितां तु शङ्कर ।।
एकैकस्य तु मन्त्रस्य शोधनं बहुधा प्रभोः ।
कथितं देवतानन्द न मे ज्ञातं हि तत्वतः ।।
अर्चनं प्रोक्षणं चैव ताडनं च तथैव हि ।
संहारं चैव संयोगं निक्षेपश्च महेश्वर ।।
उद्धारं चैव पाशानां मेकस्य प्रकीर्तितम् ।
हृदयेन महादेव उक्तं ते पार्वतीपते ।।
तथापि न भवेद् व्यक्तिस्तत्व दीक्षा विशोधने ।
स्व तत्वे चाहुति शतमुक्तं ते परमेश्वर ।।
स्व तत्वं न मया ज्ञातं संदिग्धार्थं ह्युमापते ।
यस्याहुति शतं देव होतव्यं तु शिवाध्वरे ।।
हृदयेन ततोद्धारं कथितन्तु मनुक्रमात् ।
तदेवानुक्रम ब्रूहि येन जानाम्यहं प्रभो ।।
प्. ४ब्)
शिवाध्वर विधानेन पशुपाशविभेदकम् ।
उद्धारं प्रोक्षणं चैव ताडनश्च विशेषतः ।।
संहारेण समायुक्तं कथितं चानुपूर्वशः ।
एतद्भान्तिकरं योगं न मया चावधारितम् ।।
पूर्वं हृदय मुक्तं तु सर्व कर्मकरं प्रभोः ।
प्रसादश्च पुनश्चोक्तं फट्कारं तदनन्तरम् ।।
अभिन्न भेदनं चैव मन्त्राः सप्तादश प्रभोः ।
येन विज्ञायते या शुद्धिर्वै पारमेश्वरी ।।
तत्वे तत्वे स्थितं कर्म व्याख्यातं नावधारितम् ।
अल्पबुद्धा न मे सर्वे सर्व तत्वार्थ शोधनम् ।।
न ज्ञातं परमेशान स्वल्पसंज्ञार्थ मोहनात् ।
कथं पञ्चसु भूतेषु धारणासंहितेषु च ।।
ब्रह्माक्षरविभेदेन प्रसादोर्थ युतेन च ।
पूर्णाहुतिस्तु दातव्या मया मोक्षो विधियते ।।
एवं व्यवस्थितो देव उच्चाटन भवस्थितम् ।
कथं बुद्धाम्यहं शम्भो बीजानां तत्व कल्पना ।।
ये भूता धारणास्ते तु कलास्ताः वक्तसंस्थिताः ।
ब्रह्मत्वश्च पुनस्तेषां कथं भवति शङ्करः ।।
शुद्धाब्रह्माः समुद्दिष्टा अशुद्धा भूतजातयः ।
पूर्वतत्वे समाख्यातास्त्वयैव परमेश्वर ।।
कलास्ता व्यक्तसंज्ञास्तु तासां शुद्धि कथं भवेत् ।
ये नोक्तन्तु त्वया सर्व षडङ्गेन तु शोधनम् ।।
अङ्गास्तु सकलाः प्रोक्ताः कलाः सूक्ष्मा निरञ्जनाः ।
एवं विलोम कथितं स्वल्पप्रज्ञायु तस्य मे ।।
यास्ताः कलाः पूराशम्भो मोक्षदाः सर्ववर्णिताः ।
तैस्तु तत्वं स्थितं देव सर्वव्यापी सदाशिवम् ।।
भूताधारमिदं सर्वं भूताश्च द्विविधाप्रभो ।
प्. ५अ)
स्थूल सूक्ष्मा विनिर्दिष्टात्पूर्वतन्त्रे महेश्वर ।।
पञ्चरूपा समाख्याता पृथिवी च स्वधारिणी ।
आपश्चतुर्गुणाः प्रोक्तास्तेजश्च त्रिगुणाः प्रभो ।।
वायु द्विगुणमित्याहुराकाशश्चैक रूपधृक् ।
एते स्थूला समाख्याता भूताभूतेस्वरेश्वराः ।।
सूक्ष्माः कलास्थ निर्दिष्टा निवृत्यादिषु शान्तगाः ।
तत्रस्थास्ते महाभागाः कथिता ह्यव्ययाक्षया ।।
स्थूलाविनाशं गच्छन्ति चतुर्दश गुणोत्कटाः ।
सूक्ष्मास्तु विष्कत्वा ज्ञेयाः सर्वज्ञाः सर्वगाः पराः ।।
महाशुद्धाश्च भूताश्च निष्ठा परमतात्विकाः ।
एतन्निर्वाणमाख्यातं चतुष्कन्तु सदाशिवं ।।
तस्य शुद्धिर्विनिर्दिष्टा हृदयेन महेश्वर ।
एतस्मात्कारणाद्देव महामोह परंगतम् ।।
विबोधय महादेव स्पष्टज्ञातार्थ चोदनात् ।
उक्तं त्वयैव मधुनायोगः पाशनिकृन्तकम् ।।
विषुवं च महायोगं संप्राप्यकोन मुच्यते ।
येन विज्ञात मात्रेण पशुपाश क्षयो भवेत् ।।
पृथिव्याद्यञ्जनाद्यं वै शब्दादि गुणवायुभिः ।
मन्त्राधि देव चात्मा च ज्ञात्वा मुच्यति बन्धनात् ।।
मन्त्रास्तु धारणाख्याताः शक्राद्या वायुमन्तगाः ।
एते स्थूलाविनिदिष्टा अधिदैवाः कलाः स्मृताः ।।
आदि तन्त्रे समाख्याता अस्मिन्तन्त्रे तु अन्यथा ।
एतस्मान्मोहजाभावाज्ञाता वै परमेश्वर ।।
पृथ्वीमालोक्य भावेन सर्वगेन विशुध्यति ।
निरहंकृत योगेन पुनः कस्मात् प्रचोदितम् ।।
चेताचेतसि संयोज्य द्विरभ्यासि पदोरितम् ।
दीक्षाकाले महादेव आयामे भास्करस्य तु ।।
प्. ५ब्)
मुचति नात्र संदेहो त्वयोक्तं परमेश्वर ।
चेता चेतो न विजानं द्विरभ्यास पदं तथा ।।
आयामं चिअव देवस्य भास्करस्य महाप्रभो ।
येन मोक्षो भवे क्षिप्रं सर्वप्रशम्यहं शुभं ।।
सूर्यस्य ग्रहणं देव कथं भवति शङ्कर ।
विषेवेन तु संयुक्तं मायामांसं पदेस्थितम् ।।
तदा चोत्क्रमते तन्तुर्यदि सम्यक् प्रयुज्यते ।
एतत्प्रसार्ध? कर्तव्यं सम्यगोधाय ईश्वर ।।
मनसा ग्रन्थिता पाशाः पुत्रे? मणि? गणा इव ।
- ? णयुः? केतु विज्ञेययसत्यं? वा किं महेश्वर ।।
हृत्पद्माद्या * * * *? मनस्तं तु सुतान्वितम् ।?
एतत्सर्व * * * * *? दत्वात्पार्वति *? र ।।##?
हृत्पद्माद्या वृतत्पद्मं * * * *? विधीयते ।
एतन्मोहकरं सर्व * * * * * *? प्रभो ।।
प्रयोगेण तु सूक्ष्मेण योग? *? देवशङ्कर ।
दिव्येन योगमार्गेण प्रेर्यते स तु व्यक्तिना ।।?
तं विदित्वा मह * * * * * *? वायुमयं *
- ? ।
विषुवेन तु योगेन * * * * * * * * ।।
- * * * * *? प्राप्यकोन? * * *
- * *? ।
यद्येवं भवते सर्व दिक्षया हि? प्रयोजनम् ।।
दीक्षा वह्ने विधा देव वि * * * * * * *? ।
- * * * * * * * * * * *
- * * * ।।?
- * * * * * * * * * * *
- * * * ।?
- * * * * * * * * * * *
- * * * ।।?
- * * * * * * * * * * *
- * * * ।?
- * * * * * * * * * * *
- * * * ।।?
- * * * * * * * * * * *
- * * * ।?
- * * * * * * * * * * *
- * * * ।।?
कथं तेषां भवेन् मुक्तिरज्ञात्वा विधि पूर्वकम् ।
प्. ६अ)
विधिर्नानाविधः प्रोक्तं सिद्धान्ते बहुविस्तरः ।।
नमया विदिते देन महाम्नाया विमोहकृत् ।
सत्रयाग विभेदेन मण्डलानां विकल्पना ।।
कथितं परमेशान नानारूप गुणाकृतिः ।
कृत्वा तु परमां दीक्षां पश्चात्तत्वे नियोजयेत् ।।
एवमुक्तं त्वया शम्भो पश्चात् किं तत्व योजनात् ।
यदि दीक्षा न शुद्धिस्तु भवते जन्मनाशनी ।।
तदा तत्वे तु देवेश किन्न पूर्वप्रयुज्यते ।
तं तु सर्वगतं सूक्ष्मं निष्कलं हृदि संस्थितम् ।।
व्यापिनं मोक्षदं देवं कथितं पार्वतीपते ।
न तत्वेन विना मुक्तिर्न तत्वेन विनागतिः ।।
न तत्वे विना तत्वं याति वै साधकेश्वर ।
तस्मात्तत्वं मयं सर्वं यदुद्भूतं चराचरम् ।।
ते चैव किन्न कुर्वीत आदौ दीक्षो सूरेश्वर ।
येनोक्तं ते महादेव मन्त्र तत्व विशोधनम् ।।
पूनर्दीक्षां प्रवर्तेत योगजा तु कलाध्वरे ।
योगन्तु विषुवं प्राप्य कोन मुच्येत बन्धनात् ।।
भित्वार्गत्वां न्यसेद् योनिं तत्वे तत्वं तु संधयेत् ।
शक्त्या तु संपुटीकृएत्य वौषडन्तेन निःक्षिपेत् ।।
एवं तु सकला दीक्षा पञ्च तत्वात्मिका प्रभो ।
कथयस्व विशेषन्तु येन भ्रान्तिर्न विद्यते ।।
स्पष्टेन परमेशान आगमेन विबोधमे ।
येन जानामि तं तत्वं दीक्षास्तु बहुधा स्मृताः ।।
पशोर्ग्रहण मोक्षस्तु यस्त्वयोक्तं पूरा नघा ।
पाशाभ्यन्तरबाह्याश्च कस्मिन्स्थाने सुसंस्थिताः ।।
कस्मिन् स्थाने तु तेच्छेद्या सद्योत्क्रान्तिश्च कीदृशी ।
पशूनां च विनिर्दोषं कथयस्व महेश्वर ।।
प्. ६ब्)
संज्ञा मात्रेण देवेश न मे ज्ञातं सुराधिप ।
तथा वदस्व मे नाथ यथा संप्रत्ययो भवेत् ।।
त्वयोक्तं पार्वतीशान मुक्तिना पाशसंग्रहम् ।
पाशाञ्च ग्रहणं कृत्वा न येत्तत्वान्तिकं पदम् ।।
विषुवेन तु योगेन ब्रह्माद्याश्च शिवान्तिकाः ।
एकत्र समतां यान्ति भन्यथा तु पृथक्पृथक् ।।
एकत्वे नैव जानामि देवानान्तु शङ्कर ।
श्रयाणां परमेशान विषुवेन तु संयुताम् ।।
पुनश्छेदं विनिर्दिष्टं शरास्त्रेण त्वया प्रभो ।
कतम * रास्त्रन्तु येन विच्छेदयेत् पशुम् ।।
शराहतं पूर्वमाख्यातं सन्तनि न व्यवस्थितम् ।
द्वादशोन्ते अधो नादे अत्र मे मुह्यते मतिः ।।
तेन हीना न यास्यन्ति अन्यथा तु पृथक्पृथक् ।
तदा सा युज्यतां यान्ति समयै परिवर्जिता ।।
समयास्तु पुराशम्भो शास्त्रान्ते परिभाषित ।
तेन हीना कथं यान्ति एतन्मे ब्रूहि शङ्कर ।।
अनिर्दिश्यमविज्ञानं आगमेन विवर्जितम् ।
यत्कृतं भवने शंभो व्यर्थं वै नात्र संशयः ।।
आगमात्परिपत्तव्यं त्वयोक्तं पूर्वशङ्कर ।
तच्चागमं भवेच्छार्वं पाशविच्छेदकारकम् ।।
एवं स्थिते महादेव कि मुक्तं तु त्वया विभो ।
मूच्यते नात्र सन्देहः समयैः परिवर्जितः ।।
तदुद्दिश्य कृतं कर्ममोक्षदं तन्नसंशयः ।
तदुद्देशकं भवेच्छास्त्रं कथं वाक्य द्वये स्थितम् ।।
उद्देशक कृतो मोक्षस्तेन हीनो विपर्ययः ।
अथवा विधिवाक्यं वा न जाने पार्वतीश्वर ।।
प्. ७अ)
अथ वादं भवेद् देव त्वयोक्तं भवति प्रभो ।
विधिवाक्यमिति प्रोक्तं सर्वज्ञत्वान्महेश्वर ।।
सूत्रद्वयस्य हेतुत्वात्प्रश्नद्वयमुदाहृतम् ।
अवापराधो देवेश न कर्तव्यः कदाचन ।।
संसारस्य विमुक्त्यर्थं व्याकुलेन्द्रिय गोचरम् ।
पृच्छामित्वां महादेव अज्ञानोपहते मने ।।
उत्क्रान्ति नैव जानामि येन चोक्त्व मते क्षणात् ।
उत्क्राम परमं सौख्यं मृत्युकाले तु जायते ।।
यदा स्वच्छन्दतः प्राणा गच्छन्ते परमेश्वर ।
तदा परमदुःखेन न तु गृह्येति सर्वदा ।।
एतस्मात्कारणाद्देव उत्क्रान्तिं ब्रूहि शङ्कर ।
यथा जानाम्यहं तत्वं तथा वद सुराधिप ।।
उक्तं ते सूत्रमात्रेण नमया चावधारितम् ।
हृत्पद्माभ्यावत्तत्पद्ममन तन्तुं चितानितम् ।।
तं दृष्ट्वा छेदनं कुर्यान्मनोवृत्यामनं छिनेत् ।
एतद्वै सुत्रं मात्रं तु उक्तं तेन मयावृतम् ।।
मनसे वमनं छित्वा जीवः केवलतां व्रजेत् ।
कथं मनस्य मनसा छेदो वै संप्रवर्तते ।।
जीवोयं कश्च देवेश एतन्मे ब्रूहि दुःखद्वा ।
जीवश्च निष्कलः प्रोक्तः स च देवः परात्परः ।।
सर्वगः सर्वतो व्यापी गच्छते कुत्र शङ्कर ।
एतन्मया न विदितं संक्षेपार्थं महाप्रभो ।।
सर्वपश्न विबोधार्थं कुरुष्व परमेश्वर ।
अमिका * द पश्चान्ये सत्वाना * व धारिताः ।।
सूक्ष्मादीनां पुनः शंभो पदार्थानां वदस्वमे ।
एतच्छ्रुत्वा महार्थस्तु प्रश्नानां परमेश्वर ।।
विहस्य वदते देव परिष्वज्य च षण्मुख ।
अहो गूढतमं प्रश्न पृच्छतोहं त्वया गुह ।।
त्वत्तस्त्वन्यकुतस्तात पृच्छे देवं षडानन ।
प्. ७ब्)
अवागीशस्य पुत्रेण कथं प्रश्नार्थसंग्रहः ।।
इदृशं संप्रवर्तेत मु * * * पार्वती सुत ।।
इति कालोत्तरे त्रयोदशसतिके प्रश्नाध्यायः ।।
ईश्वर उवाच ।।
शृणुवत्स महार्थन्तु कालज्ञानं याथास्थितम् ।
सूत्रमात्रस्य हे स्कन्द भेदनं प्रव्रतीमिते? ।।
यत्तदक्षरमित्युक्तं भावाभावविवर्जितम् ।
वहिरन्तः स्थितं शून्यं सर्वतः प्रभुरव्ययम् ।।
तस्य देवस्य निर्देशं नानावर्णमहोदयम् ।
स्थूलं सूक्ष्मं कृशं तन्तु अदेहं देहसंस्थितम् ।।
अविभक्तं विभक्तं च तं तुभ्यं निगदाम्यहम् ।
विसर्गान्त स्थितं शून्यं शान्तं च परमेश्वरम् ।।
सान्तं क्षान्तं च संस्थानं कृतं तेन महात्मना ।
अथवा सर्ववर्णेषु अवर्णरहितः स्थितः ।।
तदा भवति तं देवं निष्कलं यन्न गृह्यते ।
गृहीतश्चैक तत्वेन सप्तवर्णादिमेन तु ।।
तत्रस्थ प्रवहे देवो यन्न भूतेषु गृह्यते ।
वदते सर्वगो देवो वाचया रहितः प्रभुः ।।
शरीरस्थ स्वशक्तिस्थो ज्ञायते सौ शिवेच्छया ।
तस्येच्छा चोदितः स्कंद बुध्यते प्रभुरव्ययः ।।
अन्यथा नैव जानन्ति अप्रसन्ने शिवे गुह ।
तदेवादि पुराकृत्वा कुटिलावर्णवर्जिता ।।
पश्चाद्भवत्ययं योगो अपूर्वशिरसिस्थितः ।
एवमोंकारंमुत्पन्नमव्यक्तत्वान्महेश्वरात् ।।
अकाराघ्नाः समुत्पत्तिः षोडशांत मिवस्थिताः ।
तदन्ते यत्परं तत्त्वं तस्मात्सृष्टिः प्रवर्तते ।।
विसर्गाश्चाय ते सर्व पञ्चवर्गानु गोचरम् ।
यावत्तंत्पश्चयानां? योनि तत्वं प्रकीर्तितम् ।।
प्. ८अ)
तदन्ते भविकोदेवः सोपि सृष्टिप्रवर्तकः ।
वायुश्चैव तथा ह्यग्निः शक्रश्चैव जलेश्वरः ।।
एताः कलाः समाख्यातास्तत्वाधारास्तु सर्वदा ।
भूताश्चैव विनिर्दिष्टा धारणाश्च सुराधिप ।।
तेषां चन्द्रश्च सूर्यश्च यजमानो स्वरस्तथा ।
अस्वरान्नपरं किञ्चित्प्रवर्तन्ते षडानन ।।
एवं सृष्टि समाख्याता संक्षेपात्ते षडानन ।
एवं सृष्ट्यास्सकासात्तु ज्ञायते तत्वगोचरम् ।।
एतस्मात्कारणाद्वत्स आदौ सृष्टिविनिर्णयम् ।
कथितं पार्वती पुत्र येन जानासि तत्वतः ।।
संक्षेपेण त्विदं पुत्र सृष्टेः प्रभवलक्षणम् ।
विस्तरात्कथयिष्यामि अग्रतोत्पत्ति लक्षणम् ।।
मन्त्राणां लक्षणं वक्ष्ये शिवज्ञाने शिवात्मकम् ।
नान्यैस्तु पशुरुक्तैस्तु लक्षणैर्लक्ष्यते शिवः ।।
आदिमन्तु भवेत्सद्यस्तृतीयं वाम मुच्यते ।
बहुरूपं समाख्यातं पञ्चमं कृत्तिका सुत ।।
एकादशं भवेद् वक्त्रं स्थितं चन्द्रकलासृतम् ।
सप्तमं भास्करांवस्थं तदेव परिगीयते ।।
ईशानं भवते स्कन्द अघोरान्नवसंपदम् ।
गणितं चन्द्रयोगेन भास्करेण तु पञ्चमम् ।।
एवं ते कथिता ब्रह्मा अङ्गा शृणु अतः परम् ।
आद्यस्य मुद्द्वितीयं तु हृदयं तत्प्रकीर्तितम् ।।
सर्वगं परमं देवं सर्वकर्मकरः प्रभुः ।
शिवश्चतुर्थविज्ञेयं तस्यैव न गजात्मज ।।
वामदेवाद्द्वितीयन्तु मूर्द्धनिं तु न संशयः ।
शिखा चान्तस्थिता तस्य बहुरूपस्य शाङ्करी ।।
परमाविमला शुद्धा सर्वतत्वविभेदिका ।
कवचं तु चतुर्थं स्यादीशानादि व्यवस्थितम् ।।
प्. ८ब्)
अभेद्यं तु विनिर्दिष्टं शिववर्मषडानन ।
वर्मस्यान्ते चतुर्थन्तु यत्पदं बिन्दुसंज्ञितम् ।।
तन्नेत्रं नेत्र मध्यस्थं तस्यान्ते ह्यस्त्रमादिसेत् ।
स चास्त्रमिति विज्ञेयं षडङ्गं च न संशयः ।।
पञ्चब्रह्म समाख्यातां षडङ्गं च स लक्षणम् ।
पुनश्चान्यं महाभाग लक्षणं शृणु तत्वतः ।।
प्रसादस्य महाबाहो येन विज्ञायते पदम् ।
यत्तच्छून्यं निरालम्बं आकाशं परिकीर्तितम् ।।
पञ्चमं तन्तु विज्ञेयं नाद तत्वं द्विकुञ्जकम् ।
तस्मिन्सद्यन्यसेद्वत्स शिरस्थं परमेश्वरम् ।।
शिरोपरिभवे देवमीशानान्त स्थितः प्रभुः ।
अधस्तात्तच्छिखा भिन्नं कर्तव्यं परमेश्वरम् ।।
सर्वोपरिस्थितं शान्तं देवं योन्यन्तसंस्थितम् ।
एवमन्त्रे स्वरः स्कन्दः प्रसादः परमेश्वरः ।।
यं विदित्वा विमुच्यन्ते सप्तजन्मकृतैरपि ।
भूतानां लक्षणं वक्ष्ये पृथिव्याद्यां व्रताधिप ।।
येन विज्ञायते पुत्र शरीरं पञ्चभौतिकम् ।
तत्वस्यादौ भवेत् षष्ठं यत्पदं तु सुराधिप ।।
पृथिवी सा समुद्दिष्टा पञ्चरूपास्तु सा स्मृता ।
कला तु सा निवृत्तिः स्याज्ज्ञातव्या तत्ववेदिभिः ।।
तस्यान्तेयद्वितीयन्तु जलेसं पञ्चमं प्रभुम् ।
द्वितीयं तत्समाख्यातं भूतं भूतेस्वरेश्वरम् ।।
प्रतिष्ठा सा विनिर्दिष्टा चतूरूपा उदाहृता ।
तृतीयं भवते तत्वं यकाराद्य द्वितीयकम् ।।
स तु वह्निः समाख्याता स्त्रिगुणः परमेश्वरः ।
विद्या कला तु सा ज्ञेया शिरस्था भव कृन्तनी ।।
वायु तत्वं भवेद् वायुं पञ्चवर्गान्तसंस्थितम् ।
द्विगुणं तं तु विज्ञेयं शान्तिश्चैव कलास्मृता ।।
प्. ९अ)
तस्यातीतं भवे *? मं पञ्चमं यत्प्रकीर्तितम् ।
एकरूपं भवेत्तं तु शब्दस्थं परमेश्वरम् ।।
एते भूताः समाख्याता देहाधारव्यवस्थिताः ।
एतां विज्ञाय मेधावी मुच्यते जन्मबन्धनात् ।।
सप्तादश महामन्त्रा अस्त्रपाशनिकृन्तनम् ।
नाम्ना पाशुपतं दिव्यं शृणु लक्षणतो गुह ।।
सृष्टि तत्वस्य यच्चादौ चतुर्थ परिकीर्तितम् ।
तस्योपरिष्टाद्यत्तत्वं द्वादशं भवते गुह ।।
आदौ तु प्रथमं कृत्वा द्वितीयं चापरं भवेत् ।
तृतीयं योनि माद्यं तु चतुर्थादिमवस्थितम् ।।
योन्यादौ यच्चतुर्थं तु वर्णं तु भवते गुह ।
तस्याधस्तात्तु तत्कुर्यात्सान्तं यत्परिकीर्तितम् ।।
शिखयासंयुतं कृत्वा आदौमन्त्रं षडानन ।
मुक्तिदो भवते सोथ अस्त्रं पाशुपतं गुह ।।
एतत्पाशुपतं प्रोक्तं सर्वतत्वविभेदकम् ।
अप्रमेयं प्रभालोकं संवर्त्तार्कसमप्रभम् ।।
उक्ता ह्येते पुरावत्स मन्त्राः सर्वार्थसाधकाः ।
कार्यमन्यतमं वक्ष्ये शृणुष्वावहितो गुह ।।
शिखायां तु समाख्याता षष्ठं बीजं स्वरादितः ।
भवेत् सा योजनीस्थाः स्युः केवलापार्वती सुत ।।
शिव तत्वेन संयुक्ता मुक्तिदा सा प्रकीर्तिता ।
प्रेरिका भवते वत्स अस्त्रस्य तु महात्मना ।।
यावन्न प्रेरको देवो भवते विश्वतो मुखः ।
तावन्मंत्रगणाः सर्वे भवन्त्य विदितात्मनः ।।
तेन युक्ता सहैकं त्वे * * * * रववर्म्मणि ।
भवन्ति मुक्तिदास्कन्द नात्र कार्य विचारणात् ।।
तस्यादौ लक्षणं प्रोक्तं पूर्वसूत्रे षडानन ।
तं ज्ञेयं सर्वबीजज्ञैः संसारार्णव मीरुभिः? ।।
प्. ९ब्)
तदुक्तं तु पुरावत्स भूतानां शोधनं परम् ।
दीक्षाकाले पशूनां च ग्रन्थिभेदे उदाहृतम् ।।
तत्सर्वं कथयिष्यामि तन्त्रसारं महोदयम् ।
यदुक्तं तु मयासूत्र आदिमे सुद्धसूचितः? ।।
निवृजिर्हृदये नैव शुद्ध्यते तच्छृणुष्वमे ।
निवृत्तिश्च प्रतिष्ठा च विद्याशान्तिस्तथैव च ।।
स्थिकत्वात्मका? भूताश्चतुर्धा परिकीर्तिता ।
भूतस्थो स्थूलमित्युक्तां कलाख्यां सूक्ष्मजातयः ।।
तेषां विबोधनं वक्ष्ये भूतानां वे तु कलैस्सह ।
हृदयं तु भवेन्मात्रा दीर्घा ह्याकारसम्भवाः ।।
तया विशुद्ध्यते बीजं पार्थिवं सुरसत्तमः ।
प्रतिष्ठा तु विशुध्येत * * * * *? संयुताम् ।।
विद्या तु शोधनीया स्युः शिख * तेजसंभवाः ।
शान्तिं कवच भुक्तास्तु भवेच्छुद्धानु शाङ्करी ।।
आकाशस्थेन देवेन खं? तेन परिशोधयेत् ।
एतद्वाक्यं समाख्यातं शोधनं दक्ष आत्मज? ।।
एवं न शुद्धिमायान्ति मन्त्रास्तस्थ? विवर्जिताः ।
पूर्वमुक्तं मयास्कन्द संज्ञाभेदेन गोपीतम् ।।
सर्वज्ञता वियुक्तेन भेदितं तत्वमुत्तमम् ।
यथाभूतं * * * * * * * *?
समन्विता ।।
तेषां शृणुश्च? पुत्रेश येन निःसंशयो भवेत् ।
आदिमं यद्भवेत्तत्वं मनसा परिवर्जितम् ।।
शून्यं व्योमगतं सूक्ष्मं तं विद्यात्परमं पदम् ।
पूर्वतन्त्रे समाख्यातं ब्रह्मादीनां तु संस्थितम् ।।
तस्याधस्ताभवेच्छक्रं पार्थिवं पञ्चभिर्युतम् ।
तस्योपरिष्ठाद्यदादीर्घं भावतत्वं हृदिस्थितम् ।।
दीपितं बिन्दु देवेन शुद्धिरेषा तु पार्थिवी ।
अन्यथा न भवेच्छुद्धिरयुक्तस्तस्य गोचरे ।।
प्. १०अ)
आपस्य संप्रवक्ष्यामि शुद्धिर्वै भवते यथा ।
लक्षणेन महाबाहो शृणुत्वं कृत्तिका सुत ।।
आदौ तु विन्यसेत् तत्वं व्यापिनं व्योमरूपिणम् ।
भावतत्वं समायुक्तं तस्याधस्ताश्चलं न्यसेत् ।।
चतुर्गुणं समाख्यातं तत्तत्वं वारिसंज्ञितम् ।
तस्योपरि चतुर्थं तु शिरस्तत्वं तु दुर्जयम् ।।
बिन्दुयुक्तं तु कर्तव्यं मे तच्छुद्धिर्जलस्य तु ।
विद्याकलाग्नि बीजन्तु त्रिगुणं परिकीर्तितम् ।।
तस्य शुद्धिः समाख्याता शिखा बीजेन सुव्रत ।
पूर्वं नियोजयेत्तत्वं तत्वान्ते यद्व्यवस्थितम् ।।
भावितं भावदेवेन तदा योज्यं तु चालनात् ।
पार्वती पुत्र तस्याधस्तात् शिखा भवेत् ।।
सुदीर्घ क्रियते सा तु सन्तानेन महात्मनः ।
बिन्दुयुक्तं शिरं तस्य कर्तव्यं परमस्य तु ।।
एवं शुद्धिर्विनिर्दिष्टा अ * * * * सर्वदा ।
वायु तत्वस्य सर्वज्ञ शृणु शुद्धिर्विपश्चिताः ।।
शून्यं सर्वगतं तत्वं आदौ तु विनियोजितम् ।
तस्याधस्ताद्भवेद् वायुर्द्विगुणं परमेश्वरम् ।।
ईशानादे स्थितं चैव कवचं यत्प्रकीर्तितम् ।
तेन दीप्तन्तु कर्तव्यं बिन्दुयुक्तं तु तत्वतः ।।
एवं शुद्धिर्भवेत्तस्य वायुतत्वस्य सुव्रत ।
आकाशस्य समाख्याता शुद्धिर्वै निष्कलेन तु ।।
निष्कलं पूर्वमाख्यातं व्यापिनं परमेश्वरम् ।
पञ्चस्थान स्थितं देवं ज्ञातव्यं मोक्षवादिभिः ।।
सर्वान्त स्थितवर्णानां शुद्धाशुद्धेन कर्मणा ।
लक्षणं तस्य वक्ष्यामि येन विज्ञायते शिवम् ।।
प्. १०ब्)
मातृकादौ स्थितं यच्च व्यापिनं मण्डलान्वितम् ।
षोडशान्ते तु वर्णानां विसगान्तर्वह्नि स्थितम् ।।
अष्टादशान्तमित्युक्तं निष्कलं भाववर्जितम् ।
चतुर्विंशत्पदं चान्यं अस्यैव परिकीर्तितम् ।।
भान्तं तत्पूर्वमित्युक्तं यस्यान्तेनोपलभ्यते ।
तृतीयं कथितं स्थानं निष्कलस्य महात्मनः ।।
चतुर्थं संप्रवक्ष्यामि स्थानं पञ्चमदुर्लभम् ।
यं विदित्वा विमुच्यन्ते भवसंसारबन्धनात् ।।
शान्तं यत्कथितं वत्स क्षकारां तस्य संस्थितम् ।
बिन्दुद्वयविनिष्क्रान्तं यत्तत्वं श्रूयते सदा ।।
अनाहत मनुच्चार्यं तत्तत्वं पारमेश्वरम् ।
न तस्य उपमा स्कन्द वक्तुं शक्यं कदाचन ।।
द्विरोष्ठ निसृतं देवं दुर्विज्ञेयं शुत्तैरपि ।
ज्वलनस्य यथा शब्दं ज्वलमानस्य सुव्रत ।।
मारुतस्य च पुत्रेण यो ध्वनिः संप्रवर्तते ।
तत्तत्वं परमेशन्तु कथितं पार्वती सुत ।।
अकथ्यं परमं योगं तत्वस्थान्तर्गतस्य तु ।
स्पृशतो यो ध्वनिस्तस्य तद्विचिन्त्य षडानन ।।
पुत्र स्नेहात्समाख्यातं पुनरन्यं ब्रवीमिते ।
न तत्वं न च वर्णाश्च न रूपं न च गोचरम् ।।
न मन्त्रा न च तत्वास्तु तद्ब्रवीमि हिताय वै ।
प्रथमादौ स्थितं यत्तद्विभजामि शृणुष्वमे ।।
मात्राः षट्कद्विकं वत्स कथितं पूर्वतो मया ।
पुनर्भेदेन तं वक्ष्ये यथा भवति निश्चयम् ।।
आकारस्य विशुद्धस्य चार्थां संविकल्पयेत् ।
द्विकुम्भं? यद्भवेत्तत्वं शिवस्य तु महात्मनः ।।
शिरयुक्तं तु गृह्णीयात् षट्काधो भेदितं कुरु ।
तस्यार्द्धं नाद * * * * * * दौ संप्रकीर्तितम् ।।
प्. ११अ)
मध्यस्थं वेष्टितं तन्तु तं बिन्दुं पारमेश्वरम् ।
वेष्टनीया स्मृता चान्ये तन्नादं परमेश्वरम् ।।
एवं भिन्नं परं तत्वं मोक्षदं परिकीर्तितम् ।
- * * तस्य तत्वस्य विभागं कथयामिते ।।
पूर्वं पूर्वे नियुञ्जीत षट्कं बिन्दु समन्वितम् ।
एवमेतत्समाख्यातं द्वितीयं परमेश्वरम् ।।
तृतीयं सांप्रतं वक्ष्ये तत्वं कलाख्यमुत्तमम् ।
विभक्ता वयवं देवं तत्प्रवक्ष्यामितेऽधुना ।।
शिरोर्द्धे बिन्दुकं देवं कथितं तत्परमं शिवम् ।
ऊर्द्ध्वबाहु स्थितायां तु नादं तत्परिकीर्तितम् ।।
पूर्वोक्तं संयुतं कृत्वा सोप्येवं मुक्तिदं भवेत् ।
पूर्वोक्तं शान्तमित्युक्तं शिखया तु विभेदितम् ।।
दातव्यं शिरसि बिन्दु नादौ * * षडानन ।
एवं तु भवते वत्स मुक्तिदः परमेश्वरः ।।
चतुर्थं कथितं स्थानं निष्कलस्य शिवस्य तु ।
शान्तं वै पूर्वमाख्यातं मोक्षदं भवनाशनम् ।।
सर्ववर्णसमायुक्तं ज्ञातव्यं तत्व वेदिभिः ।
पञ्चमं क्षान्तमित्युक्तं पूर्वलक्षणसंयुतम् ।।
भवते परमे * * मोक्षदः पाशकृन्तनः ।
अथवा तस्य मध्ये तु क्षकारस्य महात्मनः ।।
ज्ञातव्यः परमो हंस भावयुक्तस्तु केवलः ।
क्षान्तमेतत्समुद्दिष्टं द्विभेदेन तु षण्मुखः ।।
क्षकारं भवते वत्स शरीरं सर्वजन्तुषु ।
ज्ञातव्यं तत्र विद्वांसैर्मोक्षकाम हितैषिभिः ।।
पञ्चमं कथितं स्थानं परमस्य शिवस्य तु ।
सर्ववर्णगुणैस्तं तु तदेव परीगीयते ।।
एवं ज्ञात्वा महासेन स्वपंचार्यपि दीइषयेत् ।
एवं शुद्धिः समाख्याता भूतानां तत्व वेदिभिः ।।
नान्यथा भवते शुद्धिस्तत्वहीनस्य सुव्रत् ।
प्. ११ब्)
अङ्गाप्येवं विशुध्यन्ते यदि तत्वे वियोजिताः ।।
सद्यो जातश्च वामश्च बहुरूपस्तृतीयकः ।
पुरूषन्तु महाभाग ईशानं शान्तमयमम् ।।
एते युक्ताः परे तत्वे निष्कले भाववर्जिते ।
तदा तु भवते वत्स * * ब्रह्मनि योजिताः ।।
तत्व हीना भवेद् भूता येषां शुद्धिः पुराकृता ।
तेपि शुद्धाः कलाः प्रोक्ताः कला वै ब्रह्म उच्यते ।।
ब्रह्म तत्वमिति प्रोक्तं तत्वं बलं शिवमनामयम् ।
शिवस्य व्यापकं नाम व्यापकं शुद्ध उच्यते ।
- * न्तु विरजं प्रोक्तं निरजं निर्गुणं स्मृतम् ।।
निर्गुणं नामरहितं अनामं ध्रुवमेव च ।
ध्रुव * * लमित्युक्तमपलंसाश्वतं पदं ।।
एतत्ते कथितं सर्वस्तत्वं चैव परापरम् ।
शोधकं तेषु शोध्येयु पूर्वोक्तेषु षडानन ।।
एकादशेषु वत्से * * * * *? वर्णितम् ।
न शोध्यैः शुध्यते किञ्चिच्छा *ः परमेश्वरः ।।
न तस्य शोधनं कुर्यात् सुशुद्धः परमो गुह ।
एतत्ते कथितं सर्वं पञ्चभेदं वरानने ।।
अशोध्य?स्य कुतः साध्यशोध्यानां शोधकस्तु सः ।
एतत्ते कथितं गुह्यं अकथ्यं गूहीतं मया ।।
त्वयापि * * *? वेदं * * * * * *
चन ।
ऊद्धातानां प्रवक्ष्यामि लक्षणं पार्वती सुत ।
यैस्तु विज्ञान मात्रैस्तु देह शुद्धिर्भवेन वै ।
पञ्चो * * * * * * * * * * *
- * * ।।
आपस्य चतुरः प्रोक्तास्ते तस्य तु गुणत्रयम् ।
वायोस्तु द्वयमुद्दिष्टा आकाशस्यैकमेव च ।।
पृथग्भूता प्रवक्ष्यामि भूता *? सर्व * * वाः ।
यत्तत्पार्थिवं बीजं तु मकाराद्यं प्रकीर्तितम् ।।
प्. १२अ)
तत्व युक्तं तु कर्तव्यं ततः शुद्धं भवेद् गुह ।
उद्घातस्तु भवेत्प्राणो यस्मादायामितं भवेत् ।।
प्रथमं पूरकं कुर्याद्द्वितीयं कुंभकं भवेत् ।
रेचकस्तु तृतीयः स्यात्प्राणे प्राणे तु पूरयेत् ।।
यावत्तत्पञ्चकं भद्र एष दृष्टो विधिः परः ।
एवं पञ्चदशः प्रोक्ताः प्राणायामस्तु वह्निजः ।।
जातीयात्तु क्रमेणैव शेषास्तु चतुरोपराः ।
वरुणस्य द्विषट्के च वह्नेश्चैव नवस्तथा ।।
वायोश्च द्विस्त्र यत्प्रोक्ताः प्राणायामं सुरान्तकृत् ।
त्रिविधेन तु योगेन आकाशन्तु निगद्यते ।।
एकत्र गुणितं भद्र चत्वारिंशच्च पञ्च च ।
पूरकादि प्रयोगेण कथितं सर्वतो गुह ।।
पञ्चानां चैव भूतानां शुद्धिस्ते कथिता मया ।
शिवेन न षडङ्गेन भूतस्थेन तु योगतः ।।
एतं शान्तं च अन्तं च एष प्रथमपञ्चकः ।
पार्थिवस्तु सम्प्रख्या योगोयं भूतशुद्धये ।।
लान्तं शान्तं च वामान्तं द्वितीयं योगमुत्तमम् ।
वारुणं तु समाख्यातं चतुर्गुणविशुद्धये ।।
यान्तं घोरान्तं शान्तं च तृतीयं वह्निजं गुह ।
योगोयं विगुणः प्रोक्तः सर्वलक्षणशोधितः ।।
मकारान्तं च शान्तञ्च पुरुषांते नियोजितम् ।
वायुलक्षणमाख्यातं द्विगुणं पार्वती सुत ।।
सोपि पूर्वक्रमेणैव शोधनीयं प्रयत्नतः ।
ईशानान्ते च यत्तत्वं अघोरान्ते च सुव्रत ।।
तयोर्युक्तं हि कर्तव्यं एवं शुद्धिर्विपश्चिता ।
सर्वे दीप्तास्तु कर्तव्या अस्त्राद्यन्तेषु चोपरि ।।
एवं भूता विशुद्ध्यन्ते नेकजन्मगुणान्विताः ।
भूतः शुद्धिं ततः कृत्वा पञ्चान्तः करणं कुरु ।।
प्. १२ब्)
अन्तःकरण विर्यासं कथितं पूर्वतो मया ।
तथापि कथयामीह त्वहृ? वत्याशरितात्मज्ञ ।।
यत्तच्छून्यं निरालम्बं विज्ञानं पूर्वचोदितम् ।
तदन्तः करणं प्रोक्तं विज्ञानं तन्निगद्यते ।।
तत्सूक्ष्मं परमं देवं हृद्व्योमस्थं परापरम् ।
हृद्व्योमं कथितं तु स्वे आदिमे हिमजा सुत ।।
नाड्याभेदसहस्रेण? शक्तियोगे विचारितम् ।
तस्योपरिपरभ्यायेदमृतं प्रक्रियान्तगम् ।।
अमृतं चामृते कुर्यात्प्रयोन गुहेश्वर ।
प्रयोगं प्रक्रियान्त्रस्थं तदन्तस्थे नियोजयेत् ।।
प्रक्रियां शृणु प्रवेशयेन विज्ञायते सृयम्? ।
संज्ञामात्रेण ते ख्यातस्था कप्यगादिता मया ।।?
तां विभागेन वक्ष्यामि अमृतं ये * * *? से ।
ओमित्यनेन कमलं योगपीठं यथा भवेत् ।।
तथा ते संप्रवक्ष्यामि यथा निःसंशयो भवेत् ।
सूर्यमण्डलसंकाशं अकारं ह्यात्मसंभवम् ।।
विधातत्व मुद्रास्तु शिवतत्वं मकारजम् ।
बिन्दुतत्वं विजानीयाद्देवं चैव सदाशिवम् ।।
बिन्दु देवात्परंशान्तं नादं परमदुर्लभम् ।
नादान्ते अमृतं ज्ञेये यं विदित्वामृती भवेत् ।।
एषा ते कथिता वत्स प्रक्रिया मृत्युनाशिनी ।
तस्या विभागं वक्ष्यामि तत्वाधानं व्यवस्थितम् ।।
सद्यः कलाष्टसंयुक्तं मकाराक्षरज्ञं? विदुः ।
आत्मतत्वं विजानीयाच्चतुर्विंशति पङ्कजम् ।।
कन्दनालं भवेत्सोथ आधारं परिकीर्तितम् ।
वाममुकारजं विद्धिरत्रयोदशकलान्वितम् ।।
विद्या तत्वं विनिर्दिष्ठं शिवस्याधारसंस्थितम् ।
प्. १३अ)
यत्र केसर मध्ये तु कर्णिकायां व्यवस्थितम् ।।
शिवतत्वमकारं तु पूर्यष्टकसमन्वितम् ।
बहुरूपं समाख्यातं कर्णिकान्ते प्रतिष्ठितम् ।।
सुषिरं तत्समाख्यातं तत्र बिन्दुं व्यवस्थितम् ।
चतुष्कलं विजानीयात् पुरुषं लोकतारकम् ।।
तस्योपरि शिखा दिव्या नादरूपा व्यवस्थिता ।
ईशानं तत्समाख्यातं पञ्चधा संव्यवस्थितम् ।।
अष्टात्रिंशत्कला ह्येताः पञ्चतत्वेषु संस्थिताः ।
तेषां विभागं वक्ष्यामि शृणुष्वावहितो गुह ।।
नादबिन्दुः समुत्पन्ने बिन्दुदेवात् सदाशिवः ।
स च तत्व त्रयोवत्स ज्ञातव्यः परमेश्वरः ।।
सदाशिवश्च ईशश्च विद्यातत्वं तृतीयकम् ।
एभिस्तत्वत्रयेस्नात् स्थितो देवः सदाशिवः ।।
ईश्वरं द्विविधं विन्द्या ह्येकां षडानन ।
बिन्दु तत्वं समाख्यातं मकारं शृणुसांप्रतम् ।।
मायाकालश्च नियतिर्मकारो व्याप्यसंस्थितः ।
- तु त्वावस्थितं तन्तु बोधकः परमेश्वरः ।।
कालतत्वं द्विधावस्थं नियतिश्चैक रूपधृक् ।
मकारन्तु समाख्यातं शिवतत्वं तु तामसम् ।।
उकारं सांप्रतं वक्ष्ये राजसं विष्णु? संस्थितम् ।
विद्यातत्वं तु तयोक्तं शृणु तस्याप्यनुक्रमम् ।।
पुरुषं प्राकृतिश्चैव व्यक्तं चाहं कृतो गुणाः ।
त्रिधा तत्पौरुषं तत्वं कथितं शङ्करात्मज ।।
अव्यक्तं द्विविधं विद्याद्व्यक्तेन सहसंयुतम् ।
तन्मात्राश्चैकधाज्ञेया आधारं शृणु सांप्रतम् ।।
त्रिमात्रासनमित्युक्तं श्रोत्राधारो द्वितीयकम् ।
पृथिव्यादि पञ्चकं चैव एकधा परिकीर्तितम् ।।
प्. १३ब्)
सात्विकं तु समाख्यातं आत्मतत्वं तु सुव्रत ।
आत्मतत्वे स्थितः सद्यो विद्यातत्वे विलोमजः ।।
अघोरं शिवतत्वे तु बिन्दुतत्वे सदाशिवम् ।
सदाशिवात्परो देवो नादः परमदुर्लभः ।।
नादान्तोवस्थितं तन्तु अमृतं यदुदाहृतम् ।
सृष्टिरेयाः समाख्याता प्रक्रिया च वरानन ।।
पञ्चतत्वे स्थिता भद्र कथिता मृत्युनाशिनी ।
पुनः संक्षेपतश्चैव कथयिष्यामि तेनघ ।।
तत्वैस्तु नवभिश्चैव संस्थिता? सर्वतो मुखा ।
प्रकृतिः पुरुषश्चैव नियतिः काल एव च ।।
मायान्ताः पञ्चभूतानि अकारे तु समासृताः ।
विद्यायामीश्वरे तत्वे स्थितः सकलनिष्कलः ।।
सदाशिव शिवाश्चैव संस्थितो निष्कलः शिवः ।
तत्वायेत् नवप्रोक्तास्त्रयस्तत्वाश्च ते स्मृताः ।।
पुनरेकं भवेत्तत्वं शिवतत्वं महाप्लुतम् ।
विभागं तस्य वक्ष्यामि मात्रावस्थो यथा भवेत् ।।
मात्रा तु भवते वत्स चतुर्थं भागसंयुतम् ।
अक्षरस्य विभागं तु यथा भवति तवशृणु? ।।
अक्षरं पूर्वमित्युक्त अकारोकामन्तगम् ।
तेषां वत्स विभागन्तु शृणुष्वा वहितो गुह ।।
शिरश्चन्द्रार्धदण्डाश्च त्रयोभागा ह्यकारजाः ।
द्विकुब्जं यद्भवेच्चान्यं तत्वभागे चतुर्थकम् ।।
तन्मध्ये योजनीयन्तु विद्यातत्वं प्रतिष्ठितम् ।
प्रतिष्ठा सा तु विज्ञेया कलामात्रा निगद्यते ।।
अकाराद्यंसका ह्येते कथितन्तु समासतः ।
उकारस्य तु पुत्रेश चतुर्थांशब्रवीमिते ।।
शिरदण्डश्च चक्रं च शेषभागयुतं च यत् ।।
प्. १४अ)
वक्त्र? भागतस्तदूर्द्धमधस्तात्तस्य धीमतः ।
मकारस्यं शकं? वक्ष्ये मस्तकं चार्द्धतिर्यगम् ।।
ऊर्द्धभागं शकं वक्ष्ये मस्तकं चार्द्ध तिर्यगम् ।
ऊर्द्धभागं तथा चापि तिर्यगं शिरस्थितम् ।।
शिवत्वं तु तं विद्धि द्विमात्रो परिसंस्थितम् ।
पदमष्टादशातीतमर्धमात्रं निगद्यते ।।
तस्याधो बिन्दुकं विद्या सर्वव्यापि महेश्वरः ।
तेषामुपरिसंस्थं तु मात्रायोगस्य सुव्रत ।।
बिन्दोर्द्ध्व सा भवेत् सूक्ष्मा निष्कला या उदाहृता ।
- * * *? च शक्तिश्च नादश्च परिपठ्यते ।।
धनञ्जयश्च सर्वज्ञ शिवेन सहधीमता ।
एकत्र संस्थिता ह्येते ज्ञातव्याप्तत्य चिन्तकैः ।।
यत्रैव तु लयं यान्ति तत्स्थानममृतं ग्रह ।
प्रयोगं तस्य वक्ष्यामि येन मृत्युर्न विद्यते ।।
स्रवन्तं चिन्तयेत् तन्तु मूर्द्ध्नि भागे षडानन ।
अधोमुखं महातत्वं सुषुम्णान्तर्गतं कुरु ।।
क्षीरधारा सहस्रौद्यैः स्रवन्तं चिन्तयेत्सदा ।
तस्योपरि महाप्राज्ञ हृद्व्योमान्त स्थितस्य तु ।।
एवं विचिन्त्य मनुष्य तत्वे तत्वार्थितः सदा ।
जीवते सोपि पुत्रेणयोऽपिनीतोयमालयम् ।।
किं पुनः साधकेन्द्रस्तु परिज्ञान बलेन तु ।
ध्यायते परमेशो हि स कथं मृत्युमाविशेत् ।।
योगी च भवते शीघ्रं सर्वज्ञश्च महेश्वर ।
स्रष्टावे दृग्विधानं च अण्डानां च भवेत्सदा ।।
क्षयकारी च पाशानां यो ह्येवं विधिमाचरेत् ।
एतत्ते कथितं भद्र अमृतं मृत्युनाशनम् ।।
इति कालज्ञाने त्रयोदशसतिके सूत्रभेदो द्वितीयः ।।
भूयस्ते संप्रवक्ष्यामि मूर्त्तेश्च ग्रहणं गुह ।।
प्. १४ब्)
साधकाचार्ययोर्यद्वद्भवतेत तथा शृणु ।
मूर्त्तिस्तु द्विविधा दृष्टा परा चैवा परा गुह ।।
परा सूक्ष्मा समाख्याता या कला षोडशांवगा ।
तया विकल्प्यते मूर्त्तिरादौ चैतन्यसंयुता ।।
चैतन्यं भावमुद्दिषं तत्र तत्वं व्यवस्थितम् ।
तत्व चैतन्य योगेन भवते देहपञ्जरम् ।।
स तु पूर्वं समाख्यातं प्रक्रिया देहमुत्तमम् ।
अव्यक्तात्तत्समुद्भूतं यच्च व्यक्तं शिवात्मकम् ।।
तस्मादेव तदाकाश आकाशाद्वायुमीश्वरम् ।
वायोस्तेजः समुत्पन्नंस्तेजादापः प्राजायते ।।
आपस्तु पृथिवी जाता सा च पञ्चगुणाः स्मृताः ।
एकाशाहीना शेषास्तु चतुरः पूर्वचोदिताः ।।
सं *? मूर्त्तिः समुत्पन्ना तत्वस्थाद्यंशकस्य तु ।
तस्या भूताः प्रजायते पञ्चये पूर्वचोदिताः ।।
परामूर्त्तिः समाख्याता सर्वप्राणिषु संस्थिताः ।
अपराभूतसंज्ञा तु ब्रह्माख्याया उदाहृता ।।
तस्या प्रजायते शेषं सेंद्रियग्रामगोचरम् ।
तत्वमाला समायुक्तं त्रिततं यत्प्रकीर्तितम् ।।
नानारूप विभागेन तेन व्याप्तं तु सर्वदा ।
संदग्धं भूतसंघातं स्वेंद्रिय ग्रामगोचरम् ।।
विज्ञानेन महाबाहो पञ्चोद्घातस्थितेन तु ।
अमृते नाभिषिंसिच्य? पूर्वसुक्ते न सुव्रत ।।
ततस्तु गृह्णयेन्मूर्त्ति पञ्चब्रह्मात्मजांशुभाम् ।
अपराया समुद्दिष्टा भूताख्या तु महागुह ।।
ईशानं मूर्द्ध्नि भागे तु वक्त्रे तत्पुरुषं न्यसेत् ।
हृदये तु महाघोरं गुह्ये वामं प्रकल्पयेत् ।।
सद्यं तु विन्यसेत् पादौ सर्वाङ्गेषु व्यवस्थितम् ।
आदि सृष्टिं न्यसे देवं अन्येषां सद्यमादिकम् ।।
प्. १५अ)
पादाद्यं यावन् मूर्द्धान्तं ब्रह्मन्यासं प्रकल्पयेत् ।
वामदेवं न्यसेद्गुह्ये बहुरूपं हृदिन्यसेत् ।।
वक्त्रे तत्पूरूषं देवमीशानं मूर्ध्नि योजयेत् ।
ब्रह्मन्यासं पुरा कृत्वा पश्चादङ्गानिकल्पयेत् ।।
नेत्रं न्यस्य तथा पूर्वं हृदयाद्यन्ततो न्यसेत् ।
मन्त्रोद्धारे तु ये प्रोक्ता मन्त्रा वै ब्रह्मलक्षणा ।।
तेषां न्यासं तु कर्तव्यमंगस्थानेषु सुव्रत ।
हृदयं हृदये न्यस्य ये न्यस्य शिरसि न्यसेत् ।।
शिखायां तु शिखां दद्यान् नेत्रं पूर्वविकल्पितम् ।
कवचं सर्वगात्रेषु दातव्यं देहरक्षणम् ।।
अस्त्रन्तु विन्यसेद्धस्ते दिशासु विदिशा सु च ।
एषा मूर्त्तिः समाख्याता परापर व्यवस्थिता ।।
येन कृत्वा यजेद् देवं सकलं निष्कलं प्रभुम् ।
येन यष्टा महासेन न पुनर्गृह्णते तनुः ।।
अथवा भावशुद्धेन मनसावायद्धिवम्? ।
स बाह्याभ्यन्तरं कृत्वा पश्चाद्यजनमारभेत् ।।
बाह्ये भूताः समुद्दिष्टास्त्रितत्वाभ्यन्तरे विदुः ।
स बाह्याभ्यन्तरं स्कन्द कथितं तव पृच्छतः ।।
देहशुद्धिं पुराकृत्वा मन्त्रवारि मृदायुताः ।
विधानेन विधानज्ञ पश्चात्पूर्वं समारभेत् ।।
भस्मना च विशुद्धेन सर्वमन्त्राभिमन्त्रितम् ।
आत्मनोद्धूलनं कृत्वा साङ्गोपाङ्गेषु मन्त्रवित् ।।
ब्रह्माद्यङ्गाः समुद्दिष्टामूर्द्धाद्यं यावसादतः ।
तेषां स्थानविभागन्तु प्रवक्षोहं ह्यनुक्रमात् ।।
मूर्द्ध्नि मुद्धूल्य ईशेन वक्त्रं तत्पुरुषेण तु ।
हृदयं तु अघोरेण गुह्यं वै गुह्यकेन तु ।।
पादौ सद्येन वत्सेश एषाह्यङ्ग विकल्पना ।
प्. १५ब्)
उपाङ्गानां विभागन्तु शृणु तेषां यथाक्रमम् ।
हृदयं हृदये नैव शिरं वै शिरसेन तु ।।
उद्धूलयेन् महाप्रोक्तः शिखया तु शिखां तथा ।
नेत्रवेक्त्रें समुद्धूल्य सर्वाङ्गं कवचेन तु ।।
अस्त्रेणक्ष्यालयेद्धस्तौ ताला *? क्षेसु कारयेत् ।
उपाङ्गानां तु विन्यासं कथितं कृत्तिका सुत ।।
ब्रह्माणि तु समुद्दिश्य उपाङ्गास्ते भवन्ति तु ।
अन्यथा न भवेद्धङ्गां सर्वशास्त्रेषु मन्त्रवित् ।।
एवं अङ्गातुषांगश्च पुमाङ्गा? ब्रह्मभिस्सह ।
एव सुद्धूलनं कृत्वा सन्ध्या वन्दे पवित्रकैः ।।
कृतायां चैव संध्यायां यो विधिः पूर्वकल्पितः ।
तं नियोजय विप्रेन्द्र येन पूजयसे शिवम् ।।
एवं व्यस्तं समस्तं तु कथितं पार्वती सुत ।
पुत्र स्नेहान्महाभाग गोप्तुं ते नैव शक्यते ।।
स्नेहेन चैव विज्ञाना भावनाभावितस्य च ।
अर्चनंते प्रवक्ष्यामि पंचशुद्धिर्व्यवस्थिता ।।
दशसंस्कारविज्ञानं कर्तव्यं सर्वदेशिकैः ।
प्रासादमात्म शुद्धिश्च द्रव्यमन्त्र शिवस्य च ।।
एतास्तु शुद्धयः प्रोक्ताः शिवेन परमात्मना ।
आत्मशुद्धिः समाख्याता भूताद्युद्घातसंस्थिताः ।।
प्रासादशुद्धिः कर्तव्या प्रासादेन षडानन ।
चक्षुषी न्यस्य तं देवं प्रासादं तु निरीक्षयेत् ।।
ततः प्रासादशुद्धिः स्याद् भवते नात्र संशयः ।
द्रव्यशुद्धिस्तु ते नैव प्रासादेनविशोधयेत् ।।
यज्ञोपकरणं यच्च तद्द्रव्यं परिकीर्तितम् ।
तोयाभिमन्त्रितं कृत्वा तेन शुद्धिं विनिर्दिशेत् ।।
मन्त्रशुद्धिः समाख्याता पूर्वमेव तवानघ ।
तत्व युक्तास्तु ते वत्स शुद्ध्यन्ते मन्त्रनामकाः ।।
प्. १६अ)
अन्यथा नैव शुध्यन्ते तत्वहीना वरानन ।
तत्वं सर्वगतं विद्धि वर्णे वर्णे व्यवस्थितम् ।।
संप्रदा येनासौ देवोज्ञातव्यः साधकोत्तमैः ।
अन्यथा नैव जानन्ति प्रयोगेन विना गुह ।।
यथा क्षीरे स्थितं सर्पिर्नाशक्यं मन्थितुं जनैः ।
प्रयोयोगेण विना भद्र तद्वद्देवो निरञ्जनः ।।
प्रयोगो भवते तस्य क्षीरस्य तु महातपः ।
दध्नाभावं यथा याति रज्जुसंधानसंयुतम् ।।
मंथकस्य वशादेवं तदा सर्पिः प्रजायते ।
एवं शिवोपितं अज्ञेर्जायते तत्व गोचरात् ।।
बीजमन्थान योगेन वैकारिक गुणैः सह ।
नवयेत्प्रकृतिं वत्स पुरुषः पञ्चविंशकः ।।
केचिद्युक्ता वियुक्ताश्च वर्णास्त्व न्योन्यसंस्थिताः ।
चतुर्विधेन योगेन सर्ववर्गेण सुव्रत ।।
एवं तत्वं विजानीयान्मन्थ्यमन्थानसंयुतम् ।
पञ्चानामधिकस्त्वेको विसर्गान्तस्य मूर्द्धनि ।।
द्वितीयं तं विजानीयात्तृतीयं यो निरंततः ।
एवं यथास्थितं तत्वं दुर्विज्ञेयं सुरैरपि ।।
प्रथमं रुद्रतत्वं तु द्वितीयं निष्कलं शिवम् ।
भावयुक्तं महासेन तृतीयं कालमूर्द्धनि ।।
कालं बिन्दुविजानीयाद्भाव तत्वो परिस्थितम् ।
एवन्तु भवते तत्वं सर्वमन्त्रविशोधनम् ।।
भावहीनास्तु ये वर्णा बिन्दुमात्राविवर्जिताः ।
स्वभावशुद्धा कर्तव्यास्तदा ते निष्कलाः स्मृताः ।।
तत्वे तत्वे त्विदं योगं ज्ञातव्यं सिद्धि तत्परैः ।
प्रणवादि नमोन्ताश्च पूजान्यासादि योजिताः ।।
स्वाहान्ताः प्रणवाद्याश्च अग्निकार्ये प्रयोजयेत् ।
प्. १६ब्)
वौषडन्ताश्च कर्तव्याः पुष्टि *? प्यायनेषु च ।।
हुंफट्कारसमायुक्ताः पाशानां छेदनं कुरु ।
वायव्याग्नेय माहेन्द्रैर्वारुणैर्वारुणात्मकैः ।।
कर्तव्यास्ते येथान्यायं कार्योद्दिश्यविधानवित् ।
वश्याकर्षणकर्मेषु स्तोभस्तम्भादि मारणे ।।
उच्चाटे चैव विद्वेषे प्रष्ट्यर्थे शान्ति कर्मणि ।
मोक्षसिद्धिफलावाप्तिं कामाकामितसाधने ।।
कुर्वन्त्येते महात्मानो यदि युक्ता च तुष्टये ।
रक्तमाकर्षयेत्तूर्णं राक्तो वह्निं प्रकीर्तितः ।।
वायुर्वरुणसंयुक्त एवमाकर्षणे हितम् ।
स्तोभे तु बिन्दु हीनन्तु वायुरग्नि समन्वितम् ।।
स्तोभनं कुरुते स्यात्पुनहताभूवरारायपि ।
शक्रेण युक्त स्तम्भन्तु पीतरूप युतेन ।।
उच्चाटये महासेन यदि युक्तस्तु मारुते ।
उद्भान्तं गमनं सर्वशाल्मली तूलसंनिभम् ।।
धूम्रवर्णेन दीव्येन हितमुच्चाटनं परम् ।
वारुणेन तु शान्त्यर्थं पुष्ट्यर्थं च विशेषतः ।।
मारणे कृष्णवर्णन्तु हुंफट्कारान्त *? द्बुधः ।
साध्यस्य तु पदानाम तदा भवति मांरुणम् ।।
षडन्ताश्च कर्तव्या आप्यायन विधौ सदा ।
एतास्तु धारणा ज्ञेयाः सर्वसिद्धि फलप्रदाः ।।
हुंफट्कारसमायुक्तामन्त्राये दश संज्ञय ।
दीक्षाकाले प्रयोक्तव्याः पाशानां तु निकृन्तेने ।।
एषा तत्व विशुद्धिस्तु कथिता तव शाङ्करि ।
लिङ्गशुद्धिं प्रवक्ष्यामि साधकानां हिताय वै ।।
येन शुद्धेन वै क्षिप्रं मन्त्रसिद्धिं प्रयच्छति ।
प्. १७अ)
त्रिविधास्तु गणाः प्रोक्ता लिङ्गमाश्रित्य ये स्थिताः ।।
तेषां प्रोत्सारणं कुर्याद्येन शुद्धिर्भवेतवै ।
भूतजा मन्त्र देहास्तु मुक्त देहास्तथैव च ।।
विषु स्थानेषु तिष्ठन्ति लिङ्गमाश्रित्य ते गणाः ।
प्रासादे भूतजाः सन्ति मन्त्रदेहाश्च पिण्डके ।।
मुक्त देहास्तु वै लिङ्गे ह्युपजीवन्ति शङ्करम् ।
तेषां प्रोत्सारणं कृत्वा प्रसादास्वनियोजनात् ।।
प्रणश्यन्ति ततो विघ्ना आचार्यास्तु विलुम्भकाः? ।
ततः पूजां प्रकल्पीत दशसंस्कारसंस्कृताम् ।।
सद्यो जातेन देवेन मूर्त्तिं तस्या नयेद्भृशम् ।
शिवस्य तु महाभाग शिरस्थेन प्रयोगतः ।।
अन्यथा न भवेत्पूजा मूर्त्तिहीनस्य शङ्करे ।
वामदेवं ततः स्मृत्वा योगपीठे निवेशयेत् ।।
बहुरूपेण मन्त्रेण सन्निधानं प्रकल्पयेत् ।
तेन सान्निध्यतां याति मन्त्रमूर्त्ति महेश्वरः ।।
हृदयेनानुरुन्धीयाच्छिरसार्धं प्रकल्पयेत् ।
शिखया तु भवेत्पाद्यं कवचे नावगुण्ठयेत् ।।
अमृतत्वं तु चास्त्रेण वक्त्रेण चमनं तथा ।
पुष्पाञ्जलिं तु ईशाने मूर्द्ध्निस्थाने प्रकल्पयेत् ।।
एतत्ते कथिता वत्स दशसंस्कारजातयः ।
एवमेवं विधिं कृत्वा ततो पूजां प्रकल्पयेत् ।।
शुद्धयः पञ्चयाः प्रोक्तास्तासामन्ते विधिं स्मृतः ।
धर्मज्ञानादि वैराग्यमैश्वर्यं च चतुष्टयम् ।।
विन्यसेत महासेन विदिक्षु तु समासतः ।
हृदयेन विधानज्ञः पद्मकेसरकर्णिकाम् ।।
कर्णिकायां न्यसेद्देवं प्रसादं व्योमरूपिणम् ।
केसरैः शक्तयोर्व्यूहं हृदयेन प्रकल्पयेत् ।।
प्. १७ब्)
बीजाङ्कुरं पुराशक्त्या अनन्तकमलं न्यसेत् ।
प्रसादं कथितं पूर्वं शक्तिबीजाङ्कुरं परम् ।।
अन्ते चानन्तकं कुर्याद्यदन्तं परिवर्जितम् ।
दशसंस्कारशुद्धिस्तु यस्मरा? तु मयेरिता ।।
तां समासेन तत्कुर्याद्धृदयेन महात्मनः ।
आवाहनं स्थापनं च सान्निध्यं सन्निरोधनम् ।।
स्नपनं पूजनं चैव धूपनं च विलेपनम् ।
भोजनं पाद्यंमर्घ्यञ्च हृदयेन विसर्जनम् ।।
हृदयं पूर्वमाख्यातं शिवतत्वं तु आपतम् ।
बिन्दुयुक्तन्तु कर्तव्यं तेन सर्वं तु कारयेद् ।।
अर्चा ह्येषा समाख्याता अग्निकार्यविधिं शृणु ।।
इति कालोत्तरे त्रयोदशसतिके तृतीयः पटलः ।।
तृप्ते ख नादिकर्मन्तु तथा चाभ्युक्षणं पुनः ।
अस्त्रेण कारयेत्प्राज्ञो अथवा हृदयेन तु ।।
वर्मणा वाथ विप्रेंद्र शक्तिगर्भे निपातयेत् ।
हृदयेन शिखिं देवं जातकर्मञ्च तेन वै ।।
षडष्टकसमायुक्तं गर्भाधानादिकं हुनेत् ।
त्रयपञ्चाष्ट वा हुत्या दातव्या वह्नि गोचरे ।।
प्रत्येक शस्तु दातव्याः संस्कारविधि संभवे ।
चत्वारिंशाष्टमित्युक्ताः संस्कारा ब्रह्मजातिषु ।।
ब्रह्मत्वे योजयित्वा तु हृदयेन तु सर्वदा ।
पश्चात्सर्व भवेद् ब्रह्म यो विधि सूत्र चोदितः ।।
पद्मन्यासादि योगेन होमयेच्छानले सदा ।
घृतेन कापिले नैव पाशानां शोधनाय वै ।।
अथवा पूर्वसुक्तस्तु मन्त्रस्यां ये * * * *? ।
तेन होमस्तु कर्तव्यो दशसप्तैस्तु तत्वतः ।।
प्. १८अ)
एवन्ते वह्नि कार्यन्तु कथितं पाशदाहकम् ।
ततोनन्तरमे वाथ मण्डलानु क्रमं वदेत् ।।
सर्वकर्मकरं शुद्धं सर्वसिद्धिप्रदायकम् ।
सर्वलक्षणसंयुक्तं कथयामीहते गुह ।।
इति कालज्ञाने त्रयोदशशतिकेऽष्टपुष्पिकाग्निकार्यः पटलः ।।
भूमि संशोधयित्वा तु खनयित्वा प्रमाणतः ।
भस्मेष्टाङ्गारमस्थीनि सर्करा च कपालिकाः ।।
काष्टकेशादि मुद्गारं कर्मासु विशोधितम् ।
स शल्यायां न कर्तव्यं यागं प्रासादगोपुरम् ।।
बहुदोष करस्तेन तस्माच्छल्यं विवर्जयेत् ।
हस्ति शल्ये भवेन्मृत्युर्यदि श्वान? कृतो भवेत् ।।
पौरुषे कुलमुत्सादं काकेनोच्चाटनं भवेत् ।
मार्जार न कुलादीनां गृध्रगोमायुमूषिकान् ।।
एतेषां यदि भवेच्छल्प तन्तु व्याधिकरं भवेत् ।
भस्मे विद्वयेमित्युक्तं केशेष्वल्पायुः प्रजाः ।।
अङ्गारे अग्निदापस्तु शर्करागों? विनाशिनी ।
काष्ठेन भवते धान्यं गर्भस्रावं कपालिके ।।
शल्ये तु भवते वत्स तस्माच्छल्पं विवर्जयेत् ।
अशल्याया भवेद् भूमिर्निम्नाकोटरवर्जिता ।।
सुस्निग्धा च सुपुष्टा च सा भूमिः सर्वकामदा ।
तृणोदक फलैराष्टापुष्पवत्या पवित्रिणी ।।
सुशीतला चरम्या च सा ज्ञेया शोभना मही ।
पूर्व प्लवान्तरत ईशान्या चैव शोभना ।।
अन्यप्लवान गृह्णीयाद्वहुदोषकरा स्मृता ।
उन्नता करिकराकारा कूर्माकारा च वह्निज ।।
शोभनाता विजानीया * * ति पुष्टि विवर्द्धनी ।
उष्ट्राकृतिः स्वामिहतात्पूर्याधान्यविनाशनी ।।
प्. १८ब्)
यवमध्याशस्य हानी अनपत्यापि पीलिका ।
त्रिकोणादोषवहुत्वा वर्जनीया विचक्षणैः ।।
श्वेतारक्ता च पीता च कृष्णाज्ञेया चतुर्विधा ।
वर्णानुक्रमयोगेन ग्राह्या धात्री तु सर्वदा ।।
मधुरा च कमाया? च अल्पा च कदुका तथा ।
एते चैव रसा * *? व्रर्जनीया प्रयत्नतः ।।
अन्ये वर्ज्या प्रयत्नेन रसा वै दोषदायकाः ।
विशुद्धा सा विजानीयादशल्पादोषवर्जिताः ।।
अथवा क्षिप्रकाले तु राष्ट्रभङ्गेन च?तुरे ।
कर्तव्या न परीक्षा तु अशक्त्या तु षडानन ।।
कर्तव्या तु सदाकालं दीक्षा वैल्केकतारणी ।
कटितिशोधनं तस्याः कर्तुं वै नैव शक्यते ।।
तस्माद्विशोधनं तस्याः कर्तव्यं तत्वजं गुह ।
अस्त्रेण शोधयेत्पूर्वं पश्चाद्भूतैस्तु शोधनम् ।।
ब्रह्मभिश्च तथा शोध्या एवं शुद्धिः सदा भवेत् ।
सुकुडिमां ततः कृत्वा पालाशैर्मुद्गरैः शुभैः ।।
उपलेपनं ततः कुर्यात्पञ्चगव्येन धीमतः ।
तस्योपरिष्टात्तु कर्तव्यं गोमयेनोपलेपनम् ।।
गोमयानन्तरं वत्स चन्दनेनोपलेपनम् ।
अन्यैस्तु विविधैर्गन्धै * * जेद्रज योगजैः ।।
लेपनं विधिवत्कुर्यात्पुष्पप्रकरसंयुतम् ।
घर्ययेद्विल्वं पत्रैश्च ततो मन्त्रैश्च शोधनम् ।।
दपकार सदृशां कारयेत्स्फटिकोपमाम् ।
तस्य मध्ये लिखेद्व्योमं आचार्य शुद्धकल्मषः ।।
तन्त्रज्ञश्च सदादास्त ऋजुमौनै समाहितः ।
सुत्रं वै कर्तयेत्पूर्व त्रिगुणं च कुमारिजम् ।।
प्. १९अ)
कार्पासं वार्क्ष्यजं क्षौमं अन्यं वायच्छुभं भवेत् ।
दर्भादिस्तु समारभ्य गृह्णीयात्पुष्टिवये ।।
सर्वकामप्रदं ज्ञेयं कार्पासं वार्क्ष्यजं गुह ।
अहमात्रं भवेत्सूत्रं पञ्चव्यामांगमायतम् ।।
यद्व्यामं तु द्विहस्तस्य मण्डपस्य प्रकीर्तितम् ।
चतुहस्ते भवेद् व्याम्यः सप्तं वै तन्त्र चोदिताः ।।
त्रिहस्तं पञ्च नवकं कर्तव्यं न कदाचन ।
बहुदोषकरास्ते तु मारणोच्चाटनेहिताः ।।
तस्माद्विषयमानन्तु मण्डलानां कारयेत् ।
षट्काष्टौ दशहस्तां वा द्वादशाष्टद्विकस्तथा ।।
अत ऊर्द्धं न कर्तव्यं अल्पारम्भ तु वर्जितम् ।
क्रिया विस्तारसंयुक्तं बहुविघ्नकरं भवेत् ।।
एतेषां चैव कर्तव्यं सूत्रं न्यायायलक्षणम् ।
दशद्वादश विंशश्च पञ्चविंशश्च उन्नतम् ।।
न कर्तव्यमतः सुत्रं तच्च दोषकरं भवेत् ।
त्रिगुणं? पूर्वं कर्तव्यं वृत्तं चोर्द्धमुखं शुभम् ।।
पुनस्तु त्रिगुणी कृत्य ऊर्द्धजेन क्रमेण तु ।
तन्तु वस्तु नवः प्रोक्ता पुनस्त्रिगुणमारभेत् ।।
सप्तविंशतिमित्युक्ता तं तवः शास्त्र चोदिताः ।
सोपि चोर्द्धवृत्तः कार्यस्त्रिगुणैर्तवतन्तुजः ।।
त्रिवृत्तमेतदाख्यातं देवताः प्रवदाम्यहम् ।
धरित्री वारितेजश्च मरुद्व्योमश्च पञ्चमः ।।
गन्धश्च रसरूपश्च स्पर्शशब्दश्च ते नघ ।
कर्णत्वक्चक्षु यो चैव जिह्वानासा च पञ्चमी ।।
वाचा हस्तौ च पादौ च गुदोपस्थं च शाङ्करि ।
एते वै कर्मकृज्ज्ञेयाः प्रथमा बुद्धिवेदना ।।
विंशतिश्च समाख्याता मनश्चाहन्विमस्तथा ।
अव्यक्त पुरुषो वत्स ईश्वरश्च सदाशिवः ।।
प्. १९ब्)
एता वै देवताः ख्याताः सूत्रे मण्डलकारकैः ।
योजानाति तां देवा सूत्रस्यां सूत्रचोदिताम् ।।
नासौ कुर्याद्विधानन्तु सार्वजं पाशकृन्तनम् ।
काष्ठेन लोष्ठेन नाङ्गारेणनखेनवा ।।
नालिखेत्करणिं प्राज्ञः कुद्रव्यान्येन केनचित् ।
शुद्धा बिन्दुसमुद्भूता निष्कला या प्रकीर्तिता ।।
तया तु आलिखेत्प्राज्ञो मण्डलाधानसंवराम् ।
तया विस्मन किञ्चित्स्यात्प्रवर्तति सुरेश्वर ।।
बोधत कर्म जातिश्च मातृका प्रसवं तथा ।
खटिकायाः प्रजायेते तेन सा शिवजा स्मृता ।।
आचार्यस्तु भवेन्नाद * * * * * * * *? ।
लोकस्यानुग्रहं भद्र करोति विधि संस्थितः ।।
अन्यथा बोधनं तांत न बोधाय प्रवर्तते ।
न या विनाग्नि जन्मेश तस्मात् सा परमा स्मृता ।।
महेन्द्रे मलये सह्ये शुक्तिमानृक्षपर्वते ।
पारियात्रे च विन्ध्ये च हिमवत्ते महागिरौ ।।
श्रीशैले अर्बुदे चैव खटिका शोभनास्मृता ।
अन्ये ये गिरयः पुण्याः प्रदेशा शुभलक्षणाः ।।
तस्मात्सानु गृहीतव्या खटिका सार्वकामदा ।
सुविशुद्धासिद्धासिता स्निग्धानिर्मला दोष वर्जिताः ।।
गृहीतव्या प्रयत्नेन शुभे नक्षत्रवासरे ।
अथवा पुष्पयोगेन सोपवासे न धीमता ।।
सुरक्षीकृत कायेन बलि धूपार्च्चनादिभिः ।
कर्तव्या विधिवत्पूजा विघ्नमातृगणादिषु ।।
शिवस्य च महापूजामादौ कृत्वा षडानन ।
प्रोक्षयेतां पवित्रैस्तु यत्र गृह्णि द्विजोत्तमः ।।
प्. २०अ)
सह्येन स्पर्शनं कुर्याद्गुह्येनाभ्युक्षण गुह ।
अघोरेणसमुद्धृत्य पुरुषेणाभिमन्त्रयेत् ।।
ईशाने मुष्टिबन्धन्तु शिवास्त्रेण तु रक्षयेत् ।
खातं ते नैव कर्तव्यं आदौ तस्याः प्रयत्नतः ।।
दिशा बन्धन्तु ते नैव दशधा परिकल्पयेत् ।
कवचेनाव गुण्ठीत हृदयेन निवेशयेत् ।।
समुद्रके महाप्राज्ञः शिखायामस्त्र स्मरेत् तदा ।
शिवं तस्मिन्निवेशेत बिन्दु देवेनसंयुतम् ।।
एवं संस्थापनीयातु गृहीतव्या क्रमेण तु ।
उद्घाटयित्वा चास्त्रेण बिन्दुदेवं स्मरेत्तदा ।।
हृदयेन समायुक्तं विधिमेतत्समाचरेत् ।
एवं गृहीता सा देवी सिद्धिदा भवते गुह ।।
मोक्षकामस्य मोक्षंस्याच्छ्रीकामस्य च श्रीसदा ।
भ्रामयेच्चैव सव्येन वृत्ताकारेण मन्त्रवित् ।।
एवमष्टाङ्गुलाख्याता कर्णिका शिवधारिणी ।
केसरादलमानन्तु तथा चोपदलानि तु ।।
भ्रामयेत्त क्रमेणैव त्रयस्ते पार्वती सुत ।
अष्टद्वादश योगेन षोडशेन विपश्चितः ।।
वृत्ताकारः स्वरूपेण भ्रामयेत्तांतुजांगुह ।
चतुरश्चतुरश्चैव तथा द्विचतुरः पुनः ।।
एकमानं स्मृतं ह्येत दिशासु विदिशासु च ।
कर्णिका केसर दलां तथा चोपदलेषु च ।।
पद्मं द्वात्रिंशति प्रोक्तंमङ्गुलानि प्रमाणतः ।
पीतां तु कर्णिकां कुर्याच्छ्वेतारक्तास्तु केसराः ।।
दला वैश्वे तरूमस्य पुराणिधन भोगाभि वर्द्धनम् ।
अथवा सर्वकामानि प्रयच्छेद्विधिनाहृता ।।
तया तु कारयेत्सर्वं मण्डलं सर्वकामदम् ।
सुरेखं शङ्कु मध्यस्थं बिन्दुं वा पतये तदा ।।
प्. २०ब्)
शङ्कुविद्धे भवेद् दोषे मु?स्माच्छङ्कुं न पातयेत् ।
यत्र बिन्दुकृतं कर्म तं विद्यात्सर्वकामदम् ।।
- * * * * *? पायुरक्ताश्चोपबलाः स्मृताः ।
प्रतिवारस्य रेखा तु कर्तव्यास्तु शिवाबुधैः ।।
गर्भमेतत्समाख्यातं द्विहस्तस्य प्रमाणतः ।
चतुर्भागप्रमाणेन द्वारादिशि प्रकल्पयेत् ।।
पूर्वदक्षिणपश्चात्तु उत्तरेशा च वह्नितः ।
रक्षेसादनिलादि क्षुरष्टौ होतादिशः स्मृताः ।।
- * * * *? पातं तु कुर्याद्वीरो विचक्षणः ।
दिशा न चलते यत्र विदिशा चैव षण्मुख ।।
तत्सूत्रं कथितं तन्त्रे सर्वकामफलप्रदम् ।
ग?र्भतुल्या भवेद् वीथी अर्द्धेनावरणानि च ।।
बाह्यतो मण्डपस्यैव अस्त्रोणि विनिवेशयेत् ।
चतुर्विधाः समाख्याता रेखाः शैव? समाश्रिताः? ।।
तेषु मध्ये भवेद् वारं पादभागोपकल्पितम् ।
शोभास्तत्तुल्य भागस्तु द्वारस्य तु गुहेश्वर ।।
शोभार्द्धेन भवेत्तत्रं कपोलौ? क्रौञ्च मर्दनः ।
उपशोभा तु तत्तुल्याकपोलेन न संशयः ।।
पट्टयेत्तां समग्रेण द्वारां रेखासु सूत्रितात् ।
उत्तरे दक्षिणे चैव पूर्वपश्चाग्रते ग्रह ।।
प्. २१अ)
शेषमन्यद्वयं चैव दिशिवरुणेंद्रसंस्थिते ।
शेषामायामतः कार्यापूर्वद्वारक्रमेण तु ।।
पूर्वेण पश्चिमं हो * * * * दक्षिणेन तु ।
उद्घाटयेद्दिशावस्थं द्वारं पश्चिमसंस्थितम् ।।
एतत्ते सर्वमाख्यातं संक्षेपेण तु लक्षणम् ।
लोकपालास्त्र भेदं च कथितं पूर्वतो मया ।।
मन्त्रयुक्तास्तु ते वत्स दातव्या विघ्नरक्षकाः ।
एवं वै सूत्रयित्वा तु पातयेत रजः सदा ।।
चतुर्विधं सुसूक्ष्मं तु पातितव्यं रजो बुधैः ।
वायव्याग्नेय माहेन्द्रं वारुणं चादि दैवतम् ।।
श्वेतं तु वारुणं विन्द्यादुक्तं वर्णन्तु वह्निजम् ।
कृष्णवर्णो भवेद् वायुः पीतवर्णस्तु देवराट ।।
श्वेतो ब्रह्मा विजानीयाद्रक्तवर्णो जनार्दनः ।
कृष्णवर्णो भवेद् रुद्रः पीतवर्णसहसृ दृक् ।।
रजानान्तु महासेन अधिदेवाः प्रकीर्तिताः ।
वश्यार्थे मुष्टियोगेन पातयेत रजैर्गुरुः ।।
अग्रांगुलीषु पातव्यं पुष्टिशान्ति विवर्धने ।
अपसव्य प्रयोगेण सर्वकामार्थसाधने ।।
पातयेत्सुस्थिरांगुल्यैर्यथा दोषो न जायते ।
रेखाञ्चैव विशुद्धान्तु पातयेत् सर्वदा गुह ।।
न स्थूला न कृषान निम्नविकटान्योन्यपीडिता ।
विच्छिन्ना पुरुषा न बिन्दु वितताव्याकुब्ज वक्त्रोन्नता ।।
कर्तव्या विहितैरजोभिस्मलैरङ्गुष्ठमात्राशुभा ।
एतानित्यमनाकुलेन गुरुणा पैनाकिने मण्डले ।।
विच्छिन्नामस्त्रांकृशापतिभयं व्याधिश्च निम्नोन्नता ।
संश्लिष्टा कलहा शुभं च पुरुषा वक्त्रासुहृन्नाशनी ।।
प्. २१ब्)
स्थूलोपद्रवमर्थहानिमतुलं चालङ्कृता बिन्दुकैः ।
रेखास्मिन्विषम्य करोत्य रूचितं कामद्विषो मण्डले ।।
विन्यासं संप्रवक्ष्यामि भितिरावरणै स्थितम् ।
मन्त्राक्षरप्रभेदेन लक्षणेन यथार्थतः ।।
धरित्रीं विन्यसेत्पूर्वमापो ज्योतिमरुस्तथा ।
आकाशञ्च क्रमेणैव न्यसनीयं प्रयत्नतः ।।
तेषामुपरिविन्यासं भूतानां चैव मत्सुत ।
प्रसादं ब्रह्मभिर्युक्तं साङ्गोपाङ्गञ्च ईश्वर ।।
सद्यो वामो ह्यघोरश्च पुरुषेशानमेव हि ।
शिवस्य संविन्यसेद्देहे मूर्तयस्ते उदाहृताः ।।
शान्तस्य पार्वती पुत्र पञ्चब्रह्मा समासतः ।
न्यसनीयास्तु विद्धांसैर्येन गृह्णाति पूजनम् ।।
अन्यथा नैव गृह्णाति निष्कलः परमेश्वरः ।
सद्योजातं न्यसेत्पादौ सर्वमात्रेषु सुव्रतः ।।
गुह्ये वै गुह्यके देशे बहुरूपं हृदि स्थितम् ।
वक्त्रदेशे न्यसेद्वक्त्रं ईशानं शिवमूर्धनि ।।
अष्टविंशकस्वा युक्तं शिवं विग्रहरूपिणम् ।
यजेत सततं देवं मोक्षकामफलप्रदम् ।।
सद्यंस्त्वष्टकमलैर्युक्तं भितिर्दशमि गुह्यकम् ।
हृदयं चाष्टभिर्वक्त्र संस्थितम् ।।
ईशानस्य कत्वाः पञ्चबिजाः पञ्च उदाहृताः ।
हृच्छिरशिखा वर्मास्त्र अङ्गोपाङ्गेषु विन्यसेत् ।।
हृदये हृदयं न्यस्य शिरः शिरसि योजयेत् ।
शिखास्थाने शिखा चैव नैर्-ऋतेषु संस्थितम् ।।
धर्म वै सर्वगात्रेषु अस्त्रं हस्तदिशि स्थितम् ।
एवं विन्यस्य सकलं प्रसादं पुष्पसंयुतम् ।।
प्. २२अ)
तस्मिन्निवेशयेद्भद्रं कर्णिकायां सदाशिवम् ।
हंसवर्णेन कायेन ऊकारचरणानि तु ।।
बिन्दुनादशिरोग्रीवान्संयोगात्पुरुषः स्मृतः ।
एवं स्थाप्य विधानेन देवं सकलनिष्कलम् ।।
ततः पूजाविधानं तु कर्तव्यं सिद्धिमिच्छता ।
सद्यं पश्चिमभागे तु वामं चोत्तरतः स्थितम् ।।
दक्षिणे बहुरूपन्तु पुरुषं पूर्वतो न्यसेत् ।
ईशानं मूद्ध्निभागे तु पञ्चधा परिकल्पयेत् ।।
अङ्गानां संप्रवक्ष्यामि हृदयादि यथाक्रमम् ।
वह्निजे हृदयं न्यस्य दलेशाने शिरो न्यसेत् ।।
नै-ऋत्यां तु विक्ष्या? देवी वायव्यां तु पुरुष्टुतम् ।
नेत्र स्थाने न्यसेन्नेत्रमस्त्रपूर्वदलादिके ।।
दक्षिणे पश्चिमे चैव उत्तरे च निवेशयेत् ।
द्वितीयावरणागोप्ता लोकानां चैव विन्यसेत् ।।
शक्राग्नि पद्म नै-ऋत्यां वारिवायवेन्दु शङ्करे ।
पूर्वादारभ्य योगिन्द्र विन्यसेद्यावद्रौद्रजाम् ।।
तृतीया वरणास्त्रीणि योज्यास्तु दशदिक्षु च ।
वज्रं शक्तिस्तथा दण्डं अंसि पाशाङ्कुशं गदा ।।
शूलं चैवाष्टमं प्रोक्तं पद्मश्चक्रं च ते दश ।
तेपि ते नैव योगेन पूर्वोक्तेन तु योजयेत् ।।
चक्रपद्मौ न्यसेद्वत्स अधरोत्तरतो दिशि ।
चक्रन्तु चाधरे भागे नैर्-ऋते तु नियोजयेत् ।।
पद्मश्चैवेश भागे तु एष दृष्टो विधिः पुरा ।
अनुक्तेष्वथ सर्वेषु हृदयं संप्रयोजयेत् ।।
कृतात्कृतं भवेत्सर्वं पुरितन्तु न संशयः ।
बीजमुद्रानियोगेन कर्तव्यं तंत्र चोदितम् ।।
देशिको नरकं याति विधिमेतदजानतः ।
इति कालज्ञाने त्रयोदशशतिके मण्डलविधानपटलः ।।
प्. २२ब्)
अथ दीक्षां प्रवक्ष्यामि या पूर्वं चोदितामया ।
मयाविदितमात्रा या मोक्षसिद्धिः प्रजायते ।।
पञ्चतत्वै स्थितं स्कन्द शरीरं सर्वजन्तुषु ।
शोधितव्यं प्रयत्नेन दीक्षाकाले उपस्थिते ।।
पृथिव्या पखरव्या? तेजोवायुराकाशमेव च ।
पञ्चौतानि तत्वानियैर्व्याप्तं सकलं जगत् ।।
सर्वतत्वानि तत्रैव द्रष्टव्यानि समासत ।
पृथिव्या * * वांतश्च व्याप्य एते तु संस्थिताः ।।
निवृत्तिस्तु वराज्ञेया प्रतिष्ठा वारि उच्यते ।
तेजसी भवते विद्या शान्तिश्चानिल?संस्थिता ।।
शान्त्यातीतं परंव्योमं सर्वगं पाशमोचकम् ।
तं विदित्वा महासेन स्वपचानपि दीक्षयेत् ।।
तेषां विभागं वक्ष्यामि शृणुष्वावहितो गुह ।
येन विज्ञायसे दीक्षां महासंसारमोचिकाम् ।।
- * * *? महातत्वं धारकं परिकीर्तितम् ।
एकांशस्तस्य इत्युक्तं गन्धत्सेश्वरेश्वरम् ।।
सा प्रतिष्ठा भवेत्तत्र सा कलाभूत उच्यते ।
तस्यान्तावस्थित चान्यं तत्वमाप्यायकं स्थितम् ।।
चतुर्गुणं समाख्यातं शुद्धमेक गुणं भवेत् ।
रसरूपं च जायेत निवृत्तितां विजानथ ।।
सा कस्य तु भवेत्स्कन्द भूताख्या वा सम्भवा ।
त्रिगुणं वह्नि भूतं तु सोपि शुद्धस्तु रूपतः ।।
शस्यां? त्यक्तो भवेच्छुद्धः? कला शेषप्रजायते ।
अनित्यापि संशुद्धि शब्दसुक्ती विशुध्यति ।।
स्पर्शरूपं (वारिन्ते) विजानीयात्त्रैलोक्याधिपतिं हरिम् ।
प्. २३अ)
पञ्चावस्थं स्थितं तन्तु कलामयसमन्वितम् ।।
शोधनं तस्य कर्त्तव्यं यावद्देकोशसंस्थितम् ।
च तस्यैव गुणं वै शान्ति लक्षणम् ।।
शान्त्यतीतं परं व्योमं निःशब्दं शुध्यते गुह ।
नादान्तं तं विजानीयाच्छिवधामसनानतम् ।।
नादं शब्दमिति प्रोक्तं आकाशगुणलक्षणम् ।
दीक्षया शुध्यते ह्येवं विज्ञानेन तु तत्वतः ।।
एषा शुद्ध्स्तु तत्वानां सकला निष्कला गुह ।
सकलाभूतसंस्थातु निष्कलास्तु कलाः स्मृताः ।।
परिज्ञानमिदं वत्स कथितं भूतशुद्धये ।
दीक्षाप्रयोगसागान्ते प्रवदिव्यामिते नघ ।।
निवृत्तिर्हृदये नैव प्रतिष्ठा शिरसिस्थिता ।
शिखायां तु ततो विद्यां शान्तिं वै कवचेन तु ।।
शान्त्यातीतं परं देवं प्रसादेन तु होमयेत् ।
पूर्वमेव समाख्यातं मन्त्रोद्धारे विशेषतः ।।
शोधनन्तु यथा तेषां तथाते कथितं मया ।
एकैकस्य शतं होम्यं शतं वै पञ्चकीर्तिताः ।।
आहुतीनां घृते नैव कापिलेन वरानन ।
अन्ते पूर्णाहुतिं दद्यात्प्रसादेन तु षण्मुख ।।
प्रायश्चित्तविशुद्ध्यर्थं एकैकाष्ठाहुतिं क्रमात् ।
शिखास्त्र योगे विप्रेन्द्र होमयेच्चानुपूर्वशः ।।
दीक्षां एताः समाख्याता जननादि विवर्जिताः ।
हुते नैव तु मुच्यन्ते साधका जन्मबन्धनात् ।।
एषा तु प्रथमा दीक्षा भूताख्या परिकीर्तिताः ।
मया शुद्धा भवन्त्येते कलारूपधरास्तु यैः ।।
अङ्गानां तु विशुद्ध्यर्थं द्वितीयं कथयामिते ।
प्. २३ब्)
हुं फट्कारसमायुक्ता भूतशुध्यानुशोद्धयेत् ।।
एकैकस्य शतं तेषां क्रमेणैव तु होमयेत् ।
षड्कृताश्च समाख्याता आहुतीनां विचक्षणः ।।
अन्ते पूर्णाहुतिं तेन प्रसादेन तु होमयेत् ।
एकैकस्य? शतं तेषां क्रमेणैव तु होमयेत् ।।
तृतीयं ब्रह्मभिश्चैव कथितं शिवसंयुतम् ।
होमन्तु गदितं वत्स सर्वपापक्षयापहम् ।।
तस्याप्यन्ते तु दातव्या आहुतिर्या उदाहृता ।
तस्य होमं प्रकर्तव्यं शतानि पञ्च वै सुत ।।
अथवा हृदयं तेषां होमयेत्तदनु क्रमात् ।
षोडशैव * शून्याहुस्तेषां शुद्धिर्विनिर्दिशेत् ।।
अथवा शक्तियोगेन शिवजेन तु तत्वतः ।
होमयेत् संपुटीकृत्य एकैकं वीजमन्त्रवित् ।।
आहुत्यानुक्रमं पूर्व यदुक्तं शास्त्रकल्पितम् ।
एवं दीक्षा समाख्याता सर्वपाशापहाशुभा ।।
योनिन्यासादितः कृत्वा उद्धारं चाप्य पश्चिमम् ।
शोधनानु क्रमं चैव कर्तव्यं तु सदा बुधैः ।।
योनि न्यासं समाख्यातं पूर्वमेव मया तव ।
निष्कलं परमं तत्वं सा योनिः सर्वदेहिनाम् ।।
देहोयं कथितः पूर्वं सप्तभिर्दशेभिस्तथा ।
पञ्चभूतां समुद्दिष्टाः पञ्चब्रह्मास्तुते नघ ।।
षडङ्गं च तथा चान्यं योनिपूर्वं षडानन ।
न योनिना विनाभूता ब्रह्मानाङ्ग जातया? ।।
तस्मात् सर्व प्रयत्नेन योनिन्यासं विजानथ ।
या सा मात्रा कला वत्स सा ह्यंते च व्यवस्थिता ।।
पराशक्तिः समाख्याता बीजाङ्कुरविसर्पिणी ।
सा योनिः सर्वभूतानां माता प्रसवकारिणी ।।
प्. २४अ)
तया युक्तास्तु ते वत्स दशसप्त प्रकीर्तिताः ।
अन्यथा न भवेत्तेषामुत्पत्तिर्योनिवर्जिताः ।।
सा नियुक्तास्तु कर्तव्या हृदयेन समासतः ।
तेन सर्वं प्रकुर्वीत विधानं शिवभाषितम् ।।
अर्चनं प्रोक्षणं चैव संहारं ताडनं तथा ।
संयोगं चैव विक्षेपमर्चनं च पुनस्तथा ।।
गर्भाधारण कर्मञ्च कतव्यञ्चानुपूर्वशः ।
जननं चाधिकारं च भोगञ्चैव लयं तथा ।।
स्रुतत्वे चाहुति शतं हृदयेन तु कारयेत् ।
पाशछेदं तथास्त्रेण दद्यात्पूर्णाहुति क्रमात् ।।
हुं फट्कारसमायुक्तंमुद्धारं चानु पूर्वशः ।
वार्थिवानु क्रमेणैव ब्रह्मचाङ्गादिषु क्रमात् ।।
संहारं चैव कर्तव्यं तत्वानां प्रतिवर्द्धनम् ।
मन्त्रतत्वे वयं योगोऽनुपूर्वेणकारयेत् ।।
मन्त्राः सप्तदश प्रोक्तास्तत्वां सप्तदशाव्ययाः ।
हुंफट्कारसमायुक्ता ह्येतव्यास्तु शिवाध्वरे ।।
तत्वे तत्वे विनिर्दिष्टं कर्ममेतन्मया तवः ।
एवं विशोधितैर्वत्स न पुनर्गृह्णते तनुं ।।
अन्यथा नैव मुच्यन्ते विधिहीनास्तु साधकाः ।
ईशानमादितः कृत्वा शिवास्त्रान्तमतः परम् ।।
वर्णे वर्णे तु कर्तव्य अंवरादिक यान्तिकम् ।
पूर्णाहुति वयोदद्यादन्ते चैव चतुर्थिका ।।
स्वरान्ते एक उद्दिष्टा कादिभांते द्वितीयका ।
यादिशान्ते तृतीया तु क्षान्ते चैव चतुर्थिका ।।
एवं दीक्षाः समाख्यातास्तत्वमार्गव्यवस्थिताः ।
कथितामन्त्रयुक्तास्तु पूर्वमेव मया नघ ।।
पञ्चधा तु समाख्याता दीक्षा ते पाशमोचनी ।
भूतैस्तु प्रथमा दीक्षा ब्रह्मभिश्च द्वितीयका ।।
प्. २४ब्)
तृतीया चाङ्ग दीक्षा तु चतुर्थी तात्विकी भवेत् ।
पञ्चाशान्ते समुद्दिष्टा साज्ञेया तात्विकी गुह ।।
कलैस्तु पञ्चमी प्रोक्ता प्रसादेन तु संयुता ।
पञ्चमि सा विनिर्दिष्टा निर्वाणफलदायिका ।।
न कलैस्तु विना भद्र प्रसादेशः प्रवर्तते ।
प्रतिष्ठा कुब्जिका ज्ञेया सा क्रिया तु द्विकुब्जिका ।।
तान्तु मध्यगतां कृत्वा तस्याधस्ताज्जलेरागा ।
निवृत्तिर्वारुणी ज्ञेया शिखाया तु रुदाहृता ।।
विद्याग्नेयी भवेद् वत्स द्विकुब्जस्योपरिस्थिता ।
शान्ति बिन्दुः समाख्याता अनिला तत्व वाहिनी ।।
तस्यातीतं परं व्योमं नादं वैयदुदाहृतम् ।
एषा वै कथितं स्कन्द प्रसादस्तु कला युता ।।
पञ्चमी सा विनिर्दिष्टा दीक्षा निर्वाणगामिनी ।
पूर्णाहुत्यन्त काले तु अमृतं चिन्तयेत्ततः ।।
श्रवन्तं मूर्द्ध्नि भागे तु हृदिमाप्याय बिन्दुकम् ।
दीक्षा प्रकरणे ह्येवंमेष दृष्टोविधिः परः ।।
अमृतं पूर्वमाख्यातं प्रक्रियान्ते मया तव ।
योनिरेखा समाख्याता शक्तिस्तु लक्षणान्विता ।।
विस्तरः कथितस्तात् क्रिया पूर्व मयोदिता ।
संक्षेपात् कथयिष्यामि यथा ज्ञास्यसि तद्धुवम् ।।
विषुवेन तु योगेन लभते परमं पदम् ।
योगन्तु विषुवं प्राप्य कोन मुच्येत बन्धनात् ।।
पृथिव्याद्यञ्च? नाद्यो वै शब्दादि गुणवायुभिः ।
मन्त्राधि देवताः ख्याताः कलायाः पूर्वचोदिताः ।।
एते पूर्वसमाख्याता पार्थिवाद्या महातपाः ।
व्यापकाः परमा बीजास्तेषां व्याप्तिं शृणुष्वमे ।।
प्. २५अ)
हृदयान्ते समुद्दिष्टास्तत्वान्ते च प्रकीर्तिताः ।
ब्रह्मादीनां विभागेन ते चैव परिनिष्ठिताः ।।
तेषां स्वरूपमाख्यातं समासेन तु षण्मुख ।
संज्ञा मात्रं पुरा वत्स कथितन्तु मया तव ।।
विस्तरं प्रवदिष्यामि येन विंदन्ति तत्वतः ।
विषुवं यत्समुद्दिष्टं मोक्षदं परयाप्रदम्? ।।
निष्कलं परमं शुद्धं तत्वमैशं निगद्यते ।
मूर्द्धांतं यात्यसौ देवे विषुवेन योगतः ।।
आकाशाद्भवते बिन्दु स च वायुः प्रकीर्तितः ।
तन्त्रान्ते तत्समुद्दिष्टं सदाशिव पदं ध्रुवम् ।।
बिन्दोर्विद्या समुत्पन्ना अग्नितत्वं विभाव्यते ।
अग्नेरापः समुत्पन्ना आपात्पृथिवी संभवः ।।
एतैस्तु हृदयं प्रोक्तं जगतस्तु महामते ।
जगतस्तु मातृकान्ते या यथा लीना तु मे शृणु ।।
या कलाः पूर्वमाख्याता निवृत्त्याद्या मया तव ।
प्रतिष्ठा तेज बिन्दुश्च तस्मादुपरिसंस्थिताः ।।
तासां विभागं वक्ष्यामि कलानान्तु सुरैः सह ।
सद्यं चैवादितः कृत्वा शिरं यावदवस्थितम् ।।
शान्ता ह्येते समुत्पन्नाः स्वरा वै क्रमशः पुरा ।
सद्यं च हृदयं वामं शिरं चैव चतुर्थकम् ।।
बिन्दुदेवाः समुत्पन्नाश्चत्वारो बीजमुत्तमं ।
अघोरं च शिखा देवी पुरुषं वर्ममेव च ।।
विद्या ह्येते विजानीयाश्चतुरस्तेजसम्भवाः ।
ईशानं च प्लुतं देवं नेत्रं चास्त्रञ्च धीमतः ।।
निवृत्त्यास्तु स्थिता ह्येते चत्वारस्तत्वमुत्तमाः ।
नपुंसकास्तु चत्वारः क्रुधामृत्युजरास्तु ये ।।
व्याधिरन्ते विजानीयात् प्रतिष्ठायां विजानतः ।
पुनरन्ये च मार्गेण कन्या जन्मवरानन ।।
प्. २५ब्)
निवर्त्तिर्वारुणी ज्ञेया उकाराख्या वरानन ।
प्रकृतिः सा विजानीयाच्चतुर्विंशति नायिका ।।
वारुणी सा समुद्दिष्टा * * * *? शक्रजां विदुः ।
द्विकुब्जा सा भवेद् वत्स हकाराक्षरसम्भवाः ।।
विद्याग्नेयी विजानीयादुकाराक्षरलक्षणा ।
एकारस्था विजानीयाद्भावस्था च तथा पुनः ।।
भावमकारमित्युक्तं शतार्धव्यापकं प्रभुम् ।
शिशकं संविजानीयाच्छिवस्य परमात्मनः ।।
शान्तिर्मरुत्समुद्भूता बिन्दुतत्वं कलात्मकम् ।
एता वै कथिता स्कन्द कलास्तत्वे व्यवस्थितम् ।।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
कथिताः पञ्चभूतास्तु स्वरैस्तु सह संयुताः ।।
पुनर्विभागं वक्ष्यामि सर्वतन्त्रेषु सम्मतम् ।
स्वराणाञ्च कलानाञ्च यो योयं सर्वसिद्धिदा ।।
अकारादि विसर्गान्तं स्वरा वै? षोडशः स्मृताः? ।
शान्त्या तु आदितः कृत्वा चतुरश्चतुरः स्मृताः ।।
अकारादि शिरं यावच्छान्त्या देहसमुद्भवाः ।
पञ्चमं दीर्घमूकारं ऋ ॠ वर्णौ तथैव च ।।
विद्या समुद्भवा ह्येते ज्ञातव्याः सिद्धि तत्परैः ।
ऌकारमादितः कृत्वा ऐकारान्तमवस्थिताः ।।
प्रतिष्ठाः सम्भवा ह्येते ज्ञेयाश्चैव निवृत्तिजाः ।
निवृत्तिः कथितास्त्वन्यै रूकाराख्या तु वारुणी ।।
निवृत्तिः पार्थिवीः ज्ञेया प्रतिष्ठा वारुणी स्मृताः ।
द्वितीयं कथितं भेदं कलास्वरसमन्वितम् ।।
तृतीयं संप्रवक्ष्यामि भेदं परमदुर्लभम् ।
स्वराणाञ्च कलानाञ्च भूतानाश्चाप्यवस्थितः ।।
प्. २६अ)
आदिरन्तौ स्वरौ वत्स प्रोक्तौ विद्या समुद्भवौ ।
चत्वारस्ते विजानीया अ आ बिन्दु बिन्दु विसर्गजम् ।।
ईकारद्वयमेवोक्तौ ए ऐ तत्वे च ते नघ ।
एतेऽपि चतुरः प्रोक्ताः प्रतिष्ठा देहसमुद्भवाः ।।
द्विरोष्ठ वदनौ वर्णौ चत्वारः परिकीर्तितौ ।
निवृत्ति सम्भवास्ते तु ज्ञातव्या सिद्धि तत्परैः ।।
नपुंसकास्तु चत्वारः कलस्य कथयामिते ।
ऋकारः सान्त्यया जातः ॠकारः शीशकोद्भवः ।।
ऌकारस्तु प्रतिष्ठाभूः ॡकारस्तु निवृत्तिजः ।
एवं स्वराः समुत्पन्नाः समस्तव्यस्तसंभवाः ।।
ततोत्पन्नाविजानीयात्ततस्ते कामदा स्मृताः ।
स्पर्शानान्तु वक्ष्यामि योगोयं भूतसंयुतः ।।
कवर्गं शान्त्यया जाते विद्याजातञ्च वर्गजः ।
ट वर्गस्तु समुद्भूतः प्रतिष्ठायां गुहेश्वर ।।
तवर्गो वारिजो ज्ञेयो निवृत्तिः प्रभवो नघ ।
पृथिर्वी केचिदिच्छन्ति निवृत्तिं पार्वती सुतं ।।
प्रतिष्ठा तु जलं विद्धिरस्मिन्तन्त्रेन संशयः ।
अन्य तन्त्रे समुद्दिष्ठा प्रतिष्ठा शक्रजा गुह ।।
निवृत्तिर्वारुणी ज्ञेया भेदद्वयमिदं स्मृतम् ।
प्रतिष्ठा शिवपत्नी तु शान्तिं माहेश्वरी स्मृता ।।
विद्या तु वैष्णवी प्रोक्ता निवृत्तिर्ब्रह्मवादिनी ।
जगद्बीजं भवेद् ब्रह्मा विष्णुर्योनिर्न संशयः ।।
बीजी माहेश्वरश्चैव शिवश्चैव नपुंसकः ।
एतच्चतुष्कं सर्वस्वं देवैरपि सुदुर्लभम् ।।
गोपनीयं प्रयत्नेन शिव सद्भावमुत्तमम् ।
प्रतिष्ठा शिव तत्वन्तु सर्वतन्त्रे उदाहृतम् ।।
द्विकुब्जं यद्भवेद् देवं तत्तत्वं परमेश्वरम् ।
पृथिवी सा समुद्दिष्टा योनिरेषा परापरा ।।
प्. २६ब्)
विद्या तत्वं समाख्यातं शिवतत्वस्य मस्तके ।
आत्मतत्वं निवृत्तिस्तु कथिताभवभीरु समः? ।।
नाददेहात्समुत्पन्नं पञ्चमं वर्गशेखरम् ।
य वर्गमेतदित्युक्तं यस्यान्ते तत्वमीश्वरम् ।।
मकारं नामयेत्प्रोक्तं बिन्दुतत्वं स* * *म्? ।
मोक्षदं दुःखनाशञ्च करोति परमेश्वरः ।।
एवं स्पर्शाः समाख्याताः कला देहसमुद्भवाः ।
अन्तस्थाः कथिता वत्स कला देहेषु संस्थिताः ।।
वायव्यां कथिता शान्त्या विद्याग्नेयी प्रकीर्तिता ।
प्रतिष्ठानाममाहेन्द्री निवृर्त्तिर्वारुणी स्मृता ।।
पूरकादि प्रयोगेण तत्व त्रयमवस्थितम् ।
सकारः पूरकः प्रोक्तः प्रकारः कुम्भकः स्मृतः ।।
रेचकस्तु सभाकारो वै प्राणायां मस्त्रयः स्मृताः ।
ऋकारं कथितं सर्व वाङ्मयं स चराचरम् ।।
भूतानां व्याप्ति रेष्ठते? कथिता सर्वतो मया ।
अज्ञात्वैतानि तत्वानि हकारस्थानि सुव्रत ।।
नासौ मोचयते पाशान्ना चार्यश्च महीतले ।
विषुवन्तु समाख्यातं धारणाभिः समन्वितम् ।।
प्राणायाम त्रयेणैव विषुवं भवते गुह ।
एभिर्युक्तो महेशानः सुप्तभिर्धातुभिः सदा ।।
देहोद्देहद्भ्रमेद्वत्स? व्यापकः परमेश्वरः ।
धातवः सप्तमुद्दिश्य मरुच्छान्त्यादि? कीर्तिताः ।।
एतद्देहं शिवं संशय? भ्रमते सर्वजन्तुषु ।
क्रमात्क्रमण योगेण वामदक्षिणतः स्थितः ।।
प्राणायाम समायुक्ता क्रमे *? निष्कल? शिवः ।
पूरयेद्देहमध्यस्थः पुनस्तिष्ठेत निश्चलः ।।
क्षणयेकं शिवोदेहे रमते वंशगोचरे ।
प्. २७अ)
दक्षिणे चोत्तरे चैव रेचकः परिकीर्तितः ।।
दक्षिणे चोत्तरं विन्द्याद्वामे दक्षिणमाविशेत् ।
अयनौतौ समाख्यातौ सङ्क्रमे ते परस्परम् ।।
विषुवन्ते समं वत्स सङ्क्रमः परिकीर्तितः ।
तेन योगेन तत्कुर्याद्येन मोचयते पशुम् ।।
नाडी विवरसम्बन्ध ऊर्ध्वनाला ह्यधोमुखाः ।
ग्रन्थिद्वययुताः सर्वे हुं फट्कारान्तजापिताः ।।
पार्थिवाद्याः समाख्याता ग्रन्थि योगे पुरामया ।
द्विमुखास्ते विजानीयादधोर्ध्व प्रवहाः सदा ।।
पादौ सद्यं स्थितं देवं गुह्ये वामं प्रतिष्ठितम् ।
अघोरं हृदयावस्थं वक्त्रे वक्त्रं प्रतिष्ठितम् ।।
ईशानं मूर्द्ध्निभागस्थं पञ्चस्थाना प्रकीर्तिताः ।
अधोमार्गवहा ह्येते ग्रन्थव्यः पञ्चसंस्थिताः ।।
अज्ञानीनां महासेन ज्ञानिनामूर्द्धगामिनः ।
ज्ञानमेषां प्रवक्ष्यामि येनोर्द्धं प्रवहन्ति ते ।।
ये ब्रह्मास्ते भवेद् भूता ये भूतास्ते पुनर्विदुः ।
ब्रह्मा वै नात्र संदेहां तेषां भेदं ब्रवीमिते ।।
सद्यस्तु पृथिवी ज्ञेया वामोह्यापः प्रकीर्तितः ।
अघोरः शिखिमित्युक्तं वायुस्तत्पुरुषः स्मृतः ।।
ईशानन्तु भवेद् व्योमं एवं भूताः प्रतिष्ठिताः ।
ब्रह्मस्था मोक्षदा ज्ञेया भूतस्था बन्धका विदुः ।।
कलामय समुद्भूतास्ते भूताः परिकीर्तिताः ।
भवन्ते भवमित्युक्ता भूता भूते व्यवस्थिताः ।।
चतुर्दशान्ते संसारे तेन भूतास्तु ते स्मृताः ।
देवमष्टविधं प्रोक्तं तिर्यग्जातिषु पञ्चधा ।।
मानुष्यमेक जन्मन्तु क्रमते भूतगोचरे ।
सा *? तु पृथिवी प्रोक्ता वकारो वरुणः स्मृतः ।।
प्. २७ब्)
रकारस्तु भवेद् वह्निरनिलश्चापि मारुतः ।
आकाशस्तु भवेत् स्कन्द विनादः परमेश्वर ।।
एते भूतात्वकाबीजां ब्रह्मस्थां शृणु तत्वतः ।
बिन्दुनादान्तगं तत्वं सद्योजातः प्रकीर्तितः ।।
तस्य तृतीयं वामं तु पञ्चमं बहुरूपकम् ।
अघोराद्य? तृतीयन्तु देवं तत्पुरुषात्मकम् ।।
ईशानं ओमिति ज्ञेयं एवं ब्रह्मा प्रतिष्ठिताः ।
कला विज्ञा योगेन तेषां भेदं ब्रवीमिते ।।
अकाराद्यं शका मध्ये सद्यां संप्रकीर्तितम् ।
अधिदेवं भवेच्छक्रः पृथिवी सा निगद्यते ।।
इकारन्तु भवेद् वामं द्विकुब्जं प्रथमस्य तु ।
सोप्यंरमे वामदेवस्य वारुणं तत्प्रकीर्तितम् ।।
अधिदेवो भवेत्सोथ तृतीयं प्रवदाम्यहम् ।
अघोरं तेजमित्युक्तं द्विकुब्जस्योर्द्धसंस्थितम् ।।
वह्निस्तु देवता तस्य पुरुषः शिरसि स्थितः ।
अधिदेवं विजानीयादनिलं सर्वगं प्रभुम् ।।
ईशानं व्योममित्युक्तं विषन्तस्याधिदेवताम् ।
बिन्दुरूपं तु स रूपस्य बिन्दुकं प्रणवं स्मृतम् ।।
एताः कलाः समाख्याता ब्रह्मवृत्तिसमन्विताः ।
पञ्चतत्व समायुक्तं कथयामीहते सुत ।।
ब्रह्मानि वृत्तिरियुक्तश्च तु विंशति नायकः ।
पञ्चकस्तु चतुर्विंश नायकः षट्क उच्यते ।।
एतद्योगं समाख्यातं दुर्लभं स्यात्म?वेदिनाम् ।
प्रतिष्ठा भवते विष्णुर्यत्र तत्वं प्रतिष्ठितम् ।।
अनाख्ये मम वर्णश्च रूपगोचरवर्जितम् ।
यद्वर्ण रहितं शान्तं यस्मिन्नेव प्रतिष्ठितम् ।।
पूर्वमुक्तं मयावत्स शक्तिरन्ते शिवं स्थितम् ।
प्. २८अ)
शक्तिस्तु वैष्णवी प्रोक्ता प्रतिष्ठा गदिता तु या ।।
तत्रस्थः परमेशाने यं विदित्वा मृती भवेत् ।
तस्योपरिष्ठाद्भेदोयं प्रवदिष्यामि सुव्रत ।।
अष्टभेदैः स्थितं स्कन्द कथयिष्यामि निष्कलम् ।
शिवतत्वं भवेद् विद्यान्मस्तकं यदुदाहृतम् ।।
सर्ववर्णगतं तन्तु ज्ञातव्यं मोक्षकाङ्क्षिभिः ।
अन्यथा न भवेत्स्कन्द संसारस्य प्रवर्तनम् ।।
न वर्णा न च मन्त्राश्च नादाश्च न च देवताः ।
न भूता सूस?सङ्घाश्च न भावा विषयास्तथा ।।
नाहङ्कारे मनश्चैव नन्वधीः संप्रवर्तते ।
नाव्यक्तः पुरुषश्चैव नियतिर्नैव विद्यते ।।
न कालो न च माया च न विद्या च व्रतेश्वर ।
शिवतत्वस्य चैतानि प्रकुर्वन्तिमनेकधा ।।
शान्तस्योपरिपरिर्द्री?शन्तु मोक्षकः परमेश्वरः ।
तेन क्षुधास्तु वै कर्णा व्यक्तिं यान्ति यथेच्छया ।।
तस्योपरि पदं देवं नादरूपं सदाशिवम् ।
स मोक्षः स च मूक्तिश्च तत्क्षयं ध्रुवमेव च ।।
तत्परं कारणं शान्तमजरं नित्यमव्ययम् ।
सदाशिवमिति प्रोक्तं नित्यस्थमचलं ध्रुवम् ।।
तत्परन्तु परं प्रोक्तं परं यस्य न विद्यते ।
नादान्तरञ्जिनी यावत्पदमष्टादशान्तगम् ।।
एतत्ते कथितं स्कन्द विज्ञानं ग्रन्थिभेदकम् ।
पुनरन्यं प्रवक्ष्यामि दीक्षायोगव्यवस्थितम् ।।
धरित्री मनसा युक्ता कर्तव्या मन्त्रसंयुता ।
येन ग्रन्थिमधोवाहं मित्वा याति परं शिवं ।।
शाक्रंबीजमधो न्यस्य शान्तस्य च महातप ।
प्. २८ब्)
दीर्घाकारसमायुक्तं बिन्दुयुक्तं तु कारयेत् ।।
सप्लुतमादितो न्यस्य अन्ते चास्त्रं शिखान्वितम् ।
सुदीर्घं क्रीयते मन्त्रं यावत्पूर्णं समन्ततः ।।
दिर्घाकारेण विप्रेन्द्र पूरकेन प्रयोगतः ।
कुम्भकश्च समां तिष्ठेत्प्राणं मोक्षप्रदायकम् ।।
यावद्देहं सुसंपूर्णं तावद्वै पूरयेद्बुधः ।
तस्यान्तेन तु देवेन शिखास्त्रेण परेण तु ।।
छेदनं तस्य कर्तव्यं अंते रेचकसंयुतम् ।
पार्थिवस्य तु तत्वस्य उद्घातैः पञ्चभिर्बुधः ।।
शोधनं कथितं भद्र स बाह्याभ्यन्तरं गुह ।
तत्वे तत्वे तु द्रष्टव्या वियुक्तानिरङ्कुताः ।।
एवं सर्वगता पृथ्वी वेदितव्यामुमुक्षुभिः ।
- ? चेता चेतसिसंयोज्य द्विरभ्यासपदेरितम् ।।
अवधानं स्मृतं चित्तं चेता बोधः प्रकीर्तितः ।
तेन चायामनं कुर्याद्येन चोर्द्धमुखं भवेत् ।।
एवं जलेक्ष तत्वस्य प्रयोगमिदमारभेत् ।
शिवाङ्गयुक्ता कर्तव्या शेषास्तु चतुरोपराः ।।
यथा पूर्वप्रयोगेन पृथिव्यादि क्रमेण तु ।
चतुर्भिश्चैव उद्घातैर्वारितत्वं विशोधयेत् ।।
त्रिभिस्तेजो विजानीयाद्द्वाभ्यां तु मरुतः स्मृताः ।
एकेन शोधयेद्व्योमं प्रसादेन न संप्रयः ।।
विशुद्धेन तु कर्तव्यं भूतार्गल?विशोधनम् ।
तेन पञ्चसुविप्रेन्द्र शिखास्त्रे ताडनं शुभम् ।।
येन दग्धकरो हन्ति भूता वै सारितामजः ।
एतद्गुह्यं सष्मंसमतं? भूतार्गलविभेदकम् ।।
येन भूयो न भूयस्तु भवते भूतसम्भवः ।
भित्वार्गलां न्यसेद्योनिं तत्वे तत्वे तु संधयेत् ।।
प्. २९अ)
शक्त्या तु संपुष्टि? कृत्य वौषडन्तेन निक्षिपेत् ।
शक्तिस्तु भवते तत्वं न तत्वं शक्तिवर्जितम् ।।
शक्तिरन्ते स्थितं तत्वं दुर्विज्ञेयं सुरैरपि ।
तया तु संपुटं कृत्वा चतुरः पूर्ववत्क्रमात् ।।
तेषामेको विधिः प्रोक्तः सन्धानेन व्यवस्थितः ।
सन्धानं संप्रवक्ष्यामि येन यास्यति तत्पदम् ।।
उकारः प्रलयं याति कुटिलायां षडानन ।
ऊकारः कुटिला चैव तामसे संव्यवस्थितौ ।।
तामसस्त्वहमे बाहुर्विद्या देह समाश्रितः ।
विद्यादेहसमाख्याता लयं यान्ति स शान्तया ।।
शान्तापि प्रलयं यान्ति भक्षयित्वा चराचरम् ।
बिन्दु तत्वं विजानीयान्नाद तत्वं सुदुर्लभम् ।।
नादात्परतरं देवं शिवं परमकारणम् ।
तत्र गत्वा महासेन सन्धानेन तु योगिनः ।।
नपुर्गृह्णते जन्तुर्भूताख्यं यत्प्रकीर्तितम् ।
एतत्संधानमित्युक्तं सर्वपाश निकृन्तनम् ।।
अनाख्येयमिदं योगं दुष्टशीलायमानवे ।
शुद्धिशुद्धायदान्ताय हिताय नियतात्मने ।।
तस्याख्येयमिदं योगं नान्यस्य तु कदाचन ।
संधानमेतदाख्यातं द्वितीयं परमं शृणु ।।
आदिमन्तु द्वितीयेन गृह्णेद्देहांस्तु देहिनम् ।
मुष्टिना तु समासेन आयामं कारयेच्छिवे ।।
यत्तद्बीजं परं तत्वं हृदयस्थन्तु तिष्ठति ।
हृदयान्ते परं स्थानं वीवस्य तु षडानन ।।
तेन चाकर्षये क्षिप्रं मुष्टियोगेन सर्वजः ।
तावन्न मोक्षयेन्मुष्टिं यावत्पूर्णं पुरं ततः ।।
पुरिते तु पुरेक्षेप्या या मुष्टिः पूर्ववेष्टिता ।
स चास्त्रेण महाभाग द्वादशान्त स्थितेन तु ।।
प्. २९ब्)
समरात्र महायोगे निष्कले भववर्जिते ।
तत्रयुज्यान्ततो देही येन भूयो न जायते ।।
एवं सायुतां यान्ति समयैः परिवर्जिताः ।
समयस्तु दशप्रोक्ता यमाद्यायै प्रकीर्तिताः ।।
नियमास्तु तथा चान्ये तेषां संज्ञानिबोधये ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमकल्कता ।।
अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् ।
अप्रमादश्च पञ्चैते नियमाः परिकीर्तिताः ।।
यमास्तु पूर्वजा ज्ञेया एता वै दशकीर्तिताः ।
समयास्तु ईमे ख्यातादृशधर्मस्य जातयः ।।
धृतिक्षमादयः स्तेय शौचमिन्दिय निग्रहम् ।
ह्रीविद्यासस्यमक्रोधो दशकं धर्मलक्षणम् ।।
एतैस्तु वर्जिता ये तु नराः पापरायान्विताः ।
तेपि यान्ति महासेन सन्धानेन शिवं पदम् ।।
यदुक्तं पूर्वसूत्रे तु साधकस्य विमोक्षणम् ।
प्रयान्ति परमं स्थानं समयैः परिवर्जिताः ।।
अनिर्देश्यमविज्ञातं यत्कृतं तद्वृथा भवेत् ।
तमुद्दिश्य कृतं कर्म मोक्षदो भवते गुह ।।
शिवी भूतं जगत्सर्वं विचिन्त्येत चराचरम् ।
सर्वकर्मसुवर्तन्तं चिन्तितव्यं मुहुर्मुहुः ।।
अशिवात्मकं यत्कर्म कुरुते मूढचेतसः ।
तेन कर्मस्वरूपेण गृह्ये ते शतशोनरः ।।
तस्मात्कर्मसु सर्वेषु चिन्तितव्यं सदाशिवम् ।
येन कर्म फलावाप्तिर्भवने साधकस्य तु ।।
इति कालोत्तरे त्रयोदशतिके दीक्षापटलः समाप्तः ।।
उत्क्रान्तिं चैव वक्ष्यामि येन चोत्क्रमते ध्रुवम् ।
सूर्यस्य ग्रहणं कृत्वा आयामं कारयेद्बुधः ।।
प्. ३०अ)
आयामान्ते तदा वत्स च्छेदनं कारयेत्सदा ।
क्षरास्त्रेण सुतीक्ष्णेन तदा चोत्क्रमते ध्रुवम् ।।
सूर्यश्च्च सकलं तत्वं विषुवेन तु संयुतम् ।
सन्तानेन सुदिर्घेण योजयेत् परमेश्वरे ।।
वक्त्रं पिधापयित्वा तु उच्चरेच्छिवमक्षरम् ।
पूरयित्वा समुच्येत विसर्गेणपुटद्वयम् ।।
एवञ्चोत्क्रमते शीघ्रं तत्वी तत्वार्थ वेदिनः ।
द्वितीयान्ते प्रवक्ष्यामि उत्क्रान्तिं पाशदायिकाम् ।।
यया चोत्क्रमं शीघ्रमसंयुक्तोपि साधकः ।
सद्य उत्क्रमणह्येतत् कथयामि सुनिश्चितम् ।।
मनसाग्रन्थिताः पाशाः सूत्रेमणि गणा इव ।
हृत्पद्माद्यावत्तत्पद्मं मनस्तन्तु सुतानितम् ।।
मणयः पूर्वमेवोक्ता भूता ये समुदाहृता ।
ग्रन्थयस्ते च इत्युक्तामणयश्च विशेषतः ।।
पाशाश्च बन्धकास्ते तु वेदितव्या प्रयत्नतः ।
भेदनन्तेषु कर्तव्यमनेनं तु महात्मनः ।।
तन्तुकः स तु आख्यात वेधकः परमेश्वरः ।
हृत्पद्माद्या वत्तत्पद्मं याति सन्तान चोदितः ।।
धरित्री याति आपे तु आपोयाति गुणत्रयम् ।
गुणत्रयोऽनिले याति अनिलश्च वियद्विशेत् ।।
वियच्च परतो याति शिव धामे सनातने ।
एषो वै तन्तुकः ख्यातो मणीनां वेधकः परः ।।
हृत्पद्माद्यावत्तत्पद्मं कथितं ते शिवात्मकम् ।
तं दृष्ट्वाच्छेदनं कुर्यान्मनोवृत्यामनंच्छिदेत् ।।
मनसैव मनंछित्वा नान्यस्य प्रभवं सदा ।
न वाचा न च भूतास्तु नेन्द्रियाविययास्तदा ।।
एते सर्वे निवृत्तास्तु भूते चानिलसम्भवे ।
प्. ३०ब्)
एतच्च गन्धानिजानितरसस्यं? न तेजसः ।।
विज्ञान रहितं स्थर्य? रहितं स्पर्शनस्य तु ।
शब्दादि रहितं यच्च तत्पदं परिकीर्तितम् ।।
एके विच्छेदकस्तत्र मानसः संप्रकीर्तितः ।
तस्य छेदं सकृत्कृत्वा तन्तुकस्य मनेन तु ।।
तं च्छिसा? विनिवर्तेत मनसः परमेश्वर ।
निवृत्तेस्तु मने वत्स जीतः केवल *? जेत् ।।
स्यान्मोक्षकरं गुह्यं य कथ्यं कथितं तव ।
स्वेहेमकुष्टेनतेकस? कथितं परमं पदम् ।।
एतत्संधानयोगन्तु विविधं परिकीर्तितम् ।
भूतजं प्रथमं योग मुक्तासिद्धि? विध्वंरतम्? ।।
तृतीयं मनयोगन्तु मनसैव समारभेत् ।
दीक्षा प्रकणि ह्येतत्कथितं पाशदाहकम् ।।
अविज्ञायमिदं योगं यो दीक्षां कर्ममुत्सहेत्? ।
स पच्यते ह्यवी * न्तेसुं चिरंकालमक्षयम् ।।?
अनाख्ययमिदं ज्ञानं दुष्टशीलायमानवे ।
सुशीलाय प्रदातव्यंमन्तज्ञानोत्तमोत्तमम् ।।?
इति कालोत्तरे वयो?दशंशतिके दीक्षापटलः ।।
कार्तिकेय उवाच ।।
दीक्षितस्य तु देवेश महाशुद्धस्य? साधके ।
शिव तस्ये? नियुक्तस्य अभिषेकं कथं भवेत् ।।
न ग्रहान्मे? *? सर्यास्तु विष्णुयान्विविनायका ।?
दीक्षितस्तु महादेव यत्वया पार्वतीश्वर ।।
शिवस्य कीदृशो देव अभिषेको विधीयते ।
विमुक्त सर्वबन्धैस्तु * *? देहस्तु तिष्ठति ।।
शेषवृत्ति नियोगेन क्षीणदेहे शिवं व्रजेत् ।
कथं तस्यु तु कर्तव्यं दीक्षितस्यभिषेचनम् ।।
प्. ३१अ)
ईश्वर उवाच ।।
शृणु पुत्र महाप्राज्ञ यत्त्वया चोदितं वचः ।
तस्याहं कथयिष्यामि प्रश्ननिर्णयकारणम् ।।
विद्यातत्वनिमित्तार्थे अभिषेको विधीयते ।
त्रिविधश्चाभिषेकोऽस्य कर्तव्यः साधकेश्वरे ।।
अभिषेके कृते पूर्वमुक्तिं दीक्षा विधीयते ।
विद्यादीक्षा द्वितीया तु यत्र विद्याप्रदीयते ।।
साधकस्य द्विजश्रेष्ठ उपसर्गे तृतीयकम् ।
एवं त्रिविध उक्तो वै अभिषेको मया तव ।।
विभागन्तेषु वक्ष्यामि येन भ्रान्तिर्न विद्यते ।
विद्याभिषेकं प्रथमं कर्तव्यं साधकादिभिः ।।
विद्यादीक्षां पुराकृत्वा ततो विद्याभिषेचनम् ।
पाशानां छेदनं यत्र क्रियते साधकस्य तु ।।
मुक्तिदा सा भवेत् स्कन्द दीक्षानिर्वाणदायिका ।
विद्यया न तु दह्यन्ते दीक्षया पाशगोचरम् ।।
विद्यान्ते च पुनर्यस्मात्तेन विद्या इहोच्यते ।
शिवतत्वे येन युक्ताः शिवतत्वेन धीमता ।।
छिन्ना नैव शरास्त्रेण ते पाशास्तु भवन्ति हि ।
विद्या दीक्षानन्तरतो भवते पाशदाहिका ।।
तया दग्धा न रुह्यन्ते पाशा वै सरितात्मज ।
शेषवृत्त्या तु भावेन त्रैलोक्यफलगामिनी ।।
विद्या दीक्षा भवेत्तत्र शृणु तस्यापि निर्णयम् ।
अनेनैव तु देहेन यत्फलं भुज्यते गुह ।।
विद्या तत्वं समुत्थन्तु नात्रकार्यविचारणात् ।
पातालश्चोर्द्धगमनं गुटिकासिद्धिलक्षणम् ।।
अज्जनं हरितालञ्च पादुकै रोचनं तथा ।
विद्याधरपदावाप्तिं योगिन्यैश्च सहैकता ।।
प्. ३१ब्)
भूलोकस्य च राज्यं स्याद्यथेष्टं क्रमशो द्विजः ।
अणिमाद्याष्टकं भागं शेषवृत्तिरियं स्मृता ।।
भक्ष्य भोज्य विचित्राश्च चतुर्धा तु रसानि षट् ।
एवं भुक्त्वा ततः सम्यक् साधकस्तु न संशयः ।।
यात्यसौ परमं स्थानं न पुनर्गर्भगोचरम् ।
भिन्ने देहे फलं तस्य भुज्यते पाशमुक्तये ।।
अनेनैव तु देहेन विद्याया भुज्यते गुह ।
तस्या यागं प्रवक्ष्यामि सुविशुद्धे महीतले ।।
विद्या तु मण्डलं कार्यं रजोभिर्विमलैशुभैः ।
चतुष्कोणं तु कर्तव्यं चतुर्द्वारोप शोभितम् ।।
तस्य मध्ये शितं पद्मं लिखेच्चाष्ट दलान्वितम् ।
कर्णिका केसरैर्युक्तं सुप्रभं तेजशोत्कटम् ।।
पूर्वोक्तेन विधानेन पातयेत रजं क्रमात् ।
पातयित्वा रजं वत्स पूर्वन्यासार्च्चनं कुरु ।।
आह्वानमर्घपाद्यं च पूजनं स्नपनं तथा ।
धूपगन्धं पवित्रञ्च नैवेद्यं त्रदिशावलिम् ।।
एवं सर्वविधानन्तु कर्तव्यं तु यथाविधि ।
अग्निकार्यं यथोक्तन्तु पूर्वमेव मया तव ।।
ते नैव विधिना कार्यमग्निकार्यन्तु तत्ववित् ।
विद्या दीक्षा समाख्याता सकला भोगदायिका ।।
विद्या दीक्षा विशुद्धस्य मुक्तिदीक्षा विधीयते ।
मण्डलानां विभेदोयं प्रवादिष्यामि तत्वतः ।।
सर्वकामप्रदं देवं माहेन्द्रमण्डलोत्तमम् ।
वारुणं भुक्तिमुक्त्यर्थ यागं कुर्यात्तु देशिकः ।।
नवनाभं तु कर्तव्यं यागं चास्त्राभिषेजने ।
मारणे तु त्रिकोणं स्यात् स्तम्भने धनुषाकृतिः ।।
प्. ३२अ)
उच्चाटे वर्तुलं ज्ञेयं विद्वेषे पञ्चकोणकम् ।
एते वै मण्डप्रोक्ताः स्वतन्त्रविहिता गुह ।।
पूर्वोक्ते चतुरस्रे च मण्डलेसार्व कामिके ।
दिव्यसिद्धि प्रदे दिव्ये तत्र विद्याभिषेचनम् ।।
कर्तव्यं देशिकेन्द्रैश्च शिष्यानां हितकारणात् ।
ईशान्यां दिशिमास्थाय सकलं लक्षणान्वितम् ।।
पञ्चाशदलसंयुक्तं पद्मं कुर्यात्स कर्णिकम् ।
मतृकाक्षरबीजानि विन्यसेत्पूर्ववत्क्रमात् ।।
यदन्ते बीजमुख्यन्तु अष्टवर्गाद्विनिर्गतम् ।
घटस्थं क्रयते तन्तु बिन्दुयुक्तं मयोदयम् ।।
कर्णिकान्ते तु कलशं स्थापयेद्बीजमुद्रया ।
सर्वलक्षणसंयुक्तं निर्व्रणं ऋजुतः शुभम् ।।
निर्मलं विरजं चित्रं शितं वा रक्तमेव वा ।
विशालं कण्ठकर्णश्च बृहत्कुक्षि महोदरम् ।।
सुपक्वं नातिदग्धञ्च नापक्वं चैव कारयेत् ।
आवर्त रहितं कार्यमकृष्णञ्च सुमङ्गलम् ।।
पूरितं हेमरत्नाघैरोषधीभिश्च शोभनैः ।
सवणी च मुखोद्गारं नद्योत्थाम्भः प्रपूरितम् ।।
सुगन्धगालितं कृत्वा चन्दनेन्दु विमिश्रितम् ।
चर्चितं बाह्यतस्तच्च चन्दनागरुकुङ्कुमैः ।।
दुकूलेन विचित्रेण स दशेन नवेन तु ।
वेष्टयेत्तस्य कण्ठन्तु अलाभेक्षौमजेन वा ।।
शुक्रेन तेन दिव्येन कर्पासेन नवेन तु ।
एवं कृत्वा पुराभद्र पश्चान्न्यासो विधीयते ।।
अङ्गैश्च ब्रह्मभिश्चैव भूतैश्चैवाभि मन्त्रयेत् ।
अक्षसूत्रेण विप्रेन्द्र विधिना चाहृतेन तु ।।
कुर्यादष्ट शतं तस्य मणीनां च विशेषतः ।
प्. ३२ब्)
तत्र विद्यां न्यसेत् स्कन्द साधकः प्रार्थयेत्तुयाम् ।।
ब्रह्म विद्यां तु पद्माक्षैर्वैष्णवी शंखजानति ।
रुद्राक्षै रुद्र विद्यान्तु इन्द्राक्षैश्च महेन्द्रिका ।।
भास्करी या भवेद् विद्या स्फटिकैस्तां न्यसेत्सदा ।
विद्याधरी तु या विद्या मौक्तिकैस्तु तां प्रकल्पयेत् ।।
यक्षविद्या महासेन सुवर्णरजतादिभिः ।
गान्धर्वी वकुलैश्चैवं कदम्बैश्च जपेत्सदा ।।
राक्षसी निम्बरिष्टैस्तु कर्तव्यामालिका सदा ।
मातरश्चन्द्र कान्तिस्तु इच्छन्ते पुष्टिवर्द्धनम् ।।
गणाश्चैव तु नागाश्च * * * * * * * * ।
- * काम प्रदातास्तु पुत्रं जीवास्तु पुत्रका ।।
स्फाटिकैः पुष्टिकामन्तु मौक्तिकैः ।
कुलमुत्सादनार्थन्तु निम्बारिष्टैस्तु कारयेत् ।।
सौवर्णमालिकां चैव वश्यार्थे कारयेत्सदा ।
विद्वेषेकदुतिक्तानां फलानां मालिका स्मृता ।।
पद्मक्षैर्ब्रह्मविद्या तु क्षिप्रमेव प्रसिध्यति ।
वैष्णवी यायवेद्विद्या साशखैः? सिध्यते ध्रुवम् ।।
रुद्राक्षैर्मोक्षमिच्छन्ति जपतस्त्वथ धारणे ।
रुद्राक्षधारणा वत्स मयापस्पृदात्ते? क्वचित् ।।
- * * * * * * * * * * *##?
न मातरोपि हिंसन्ति रुद्राक्षं यस्तु धारयेत् ।।
किं पुनर्जपते मन्त्रं रुद्राक्षै रुद्रजं गुह ।
कोटि कोटि गुणं पुण्यं सकृदावर्तनाल्लभेत् ।।
न्यायतोये धरिष्यन्ति रुद्राक्षकरसंस्थितम् ।
मन्त्रयुक्तैस्तु वै वत्स ते रुद्राः पर्यटन्ति वै ।।
नारुद्रो वहते स्कन्द रुद्राक्षं रुद्रवत्सदा ।
रुद्र लिङ्गसहसेसु अर्वाङ्कुवन्तिते सदा ।।
प्. ३३अ)
पापावस्थोपि यो वत्स रुद्राक्षं धारयेत्सदा ।
तेपि मुक्ताविदेहास्तु शिवं यान्ति तनुक्षये ।।
सुकण्टकं? सुविपुलं निर्व्रणञ्च गुरुं सदा ।
धारयेद्यस्तु योगीन्द्र गुरुणापित निर्मलम् ।।
सोपवाराविशुद्धेन गृह्णीयान्न्यायतः शुद्धि? ।
मुखं मुखेन योक्तव्यं अपानं पनगोचरे ।।
प्रोक्तं कार्पास सूत्रेण अथवा दर्भजे शुभे ।
वल्कलेषा विशुद्धे तु ग्रन्थयेत गणे त्रिकाम् ।।
मन्त्र कल्पोक्त विधिना कारयेन्मालिकां तदा ।
येन सर्वफलावाप्तिर्भवते साधकस्य तु ।।
औदुम्बरे महापीठे निर्व्रणे चाथ दान्तिके ।
स्थापयेत द्विजश्रेष्ठ प्राङ्मुखोदङ्मुखोपि वा ।।
अभिषिञ्च्य तदा शिष्यं वारिणा शुचिना बुधः ।
मन्त्र जप्तं तु तच्छुद्धं शतमष्टोत्तरं क्रमात् ।।
ते नाभिषेकं कर्तव्यं सुगन्धामलधारिणा ।
श्रीफलैर्जातिकुसुमैः सुगन्धैर्हरितैः शुभैः ।।
पूरितमोषधीभिश्च सुवर्णरजतैस्तथा ।
सुवाससैर्विचित्रैश्च अण्डजैर्वोण्डजैः सितैः ।।
सुधूपितैर्विकेक्षैस्तु घटकण्ठं तु वेष्टयेत् ।
ब्रह्मघोषैस्तु कर्तव्यं वादि अस्वननाद्रितम् ।।
तन्त्रीगीत जयशब्दैः पठमानैश्च वन्दिभिः ।
आख्यानैर्विविधाकारैः श्रुतिपौराणसंभवैः ।।
शंखनादैश्च पणवैर्मृदंगैर्मधुरस्वरैः ।
एवं समर्पयेद्विद्यां अक्षसूत्रसमायुताम् ।।
तां प्रणम्य तु गृह्णीयाच्छिरसा भक्तितः शुचिः ।
रोमाञ्चोद्गत गात्रेण हृष्ट तुष्टेन बुद्धिमान् ।।
प्. ३३ब्)
धरणायं दण्डवत्पातः कर्तव्यं गुरुरग्रतः ।
त्वत्प्रसादान्महात्मान सिद्धिर्मे भवतु सदा ।।
एवमस्त्विति चोक्त्वावै तदा उत्थापयेद्गुरुः ।
ततोऽनन्तरतः कार्यं पूजनं गुरवस्य तु ।।
स्वधनं जीवितं दासं पुत्रपौत्राश्च ये पि हि ।
तेन्यदीया द्विजेन्देशं यावत्प्राणाधियन्तिमे ।।
एवं निवेदयित्वा तु आत्मानं देशिके गुह ।
ततो वश्यं महासत्व सिद्धिं प्राप्नोति उत्तमाम् ।।
एवमेतेन विधिना दातव्यं देशिकेन तु ।
विद्याभिषेकं विप्रेन्द्र ततस्तत्वाभिषेचनम् ।।
विद्याभिषेकं ब्रह्मैस्तु कर्तव्यं देशिकेन तु ।
तत्त्वाभिषेकं तत्वेन दातव्यं भुक्तिसिद्धये ।।
सर्वमन्त्रैश्च मन्त्रज्ञोऽभिषेकं शिवात्मकम् ।
आचार्यत्वे तु दातव्यं छत्रपीठसमन्वितम् ।।
उष्णीषं कर्तरी युक्तं हस्ते च कटकं स्मृतम् ।
हेमजरौप्यजं वापि रुद्राक्षं वाथ धारयेत् ।।
विद्याभिषेकं कर्तव्यं छत्रं पीठविवर्जितम् ।
नोष्णीयं तेन कर्तव्यं कर्तर्याग्रहणं न तु ।।
अस्त्राभिषेकश्चास्त्रेण यदि विघ्नैरभिद्रुतः ।
तेषां प्रोत्सारणार्थाय अस्त्रयागन्तु कारयेत् ।।
अस्त्र यागे कृते भद्र ततोऽस्त्राभिषेचनम् ।
एवमेते समुद्दिष्टा अभिषेकाः पृथक् पृथक् ।।
विद्याभिषेकं प्रथमं द्वितीयं तात्त्विकं स्मृतम् ।
तृतीयं देशिकं तत्वं चतुर्थ ह्यस्त्रजं गुह ।।
कथितं द्विस्वराद्वत्स विधानं साधकादिषु ।।
इति कालज्ञाने त्रयोदशशतिकेऽभिषेकः पटलः ।।
कार्तिकेय उवाच ।।
प्. ३४अ)
नाडीचक्रं परादेव जीवसंक्रमणं तथा ।
कथितं क्षिप्रयोगेन न मे ज्ञातुं सुराधिप ।।
नाडयः कति देवेश वायवश्च कति स्मृताः ।
कस्मिन् सधाने च तं शंभोः प्रवहन्ति अहर्निशि ।।
जीवसंक्रमणं चैव जीवो वा को विभाव्यते ।
कुत्रस्थश्चरते सो थ व्यापकः परमेश्वरः ।।
सर्वगत्वाच्च भूतेषु चरते वायुषु कथम् ।
कथं देहविभक्तश्च अविभक्तकैः स्थितः ।।
सप्तजन्मकृतं पपं कथं गृह्णाति स प्रभुः ।
जन्माष्टके विनिर्दिष्टा एतन्मे ब्रूहि शङ्कर ।।
ईश्वर उवाच ।।
नाडीचक्रं प्रवक्ष्यामि दशधा यद्व्यवस्थितम् ।
अनेकाभिश्च नाडीभिर्व्याप्तंताभिस्तु सर्वदा ।।
देहमध्ये भवेन्नाभिः कन्दं तत्र व्यवस्थितम् ।
अवर्णस्थः परो देवो व्यापकः शिरसि स्थितः ।।
तस्य देहाद्विनिष्क्रान्ता बीजा वै ह्यङ्कुरोपया ।
षोडशस्ते विजानीयाद्वात्रिंशश्च तथापरे ।।
आराष्टकविभेदेन षट्वर्णाः संप्रकीर्तिताः ।
ऋविसर्गो जकारश्च तरु सा अक्षराणि तु ।।
क्रियते गुणसंख्यानं शेषमन्यत् परापरम् ।
स जीवः सर्वसत्वानां वर्णास्तु त्र्यर्णविग्रहाः ।।
अकारः प्रभवाः सर्वे ज्ञातव्या वहिरन्ततः ।
नाडयस्ते समुद्दिष्टा वायवश्च षडानन ।।
विभागं तेषु वक्ष्यामि चक्रस्थं भ्रमते यथा ।
अष्टारं यत्समुद्दिष्टं चक्रं हृदयसंस्थितम् ।।
नाडीभिर्दशभिः सूक्ष्मैः समन्तात्परिवारितम् ।
ईडा च पिङ्गला चैव सुषुम्णा च तृतीयकम् ।।
गांधारी हस्ति जीह्वा च पूषा चैव मसा तथा ।
प्. ३४ब्)
अलंबुषा कुहूश्चैव शङ्खिनी दशमी स्मृताः ।।
दशप्राण ब्रह्म?ह्येता नाडयश्चक्र संस्थिताः ।
ईडा तु वामतः प्रोक्ता दक्षिणे पिङ्गलाः स्मृताः ।।
तयोर्मध्ये सुषुम्णा तु सृष्टिः प्रभवकारिका ।
शेषाणां तु महासेन नाडीनां प्रवदाम्यहम् ।।
कालचक्रस्थितानाञ्च अष्टंधातु क्रमेण तु ।
अन्याभिधानयोगेन प्रवक्ष्याम्यनुपूर्वशः ।।
दशदिक्षु स्थितानाञ्च * * * * दि युत्क्रमात् ।
ज्वालिनीतपनधूम्राकामदा विजया तथा ।।
अमूला बहुमूला च पक्षिणी ह्यूद्धगामिनी ।
अलम्बु माता तु जिह्वा च दशैताः प्राणनाडयः ।।
एतेषां प्रविभागं तु शृणु वत्ससमाहितः ।
ज्वालिनी वायुतत्वं तु तपना वह्नि रुच्यते ।।
धूम्राकालं विजानीयात्कामदावारुणी स्मृता ।
विजयायां तु ईकार अमूलानाप उच्यते ।।
बहुमूला भवेद्धृत्स रुद्र तत्वं न संशयः ।
पक्षिणी प्रणवं विद्धिमत्तत्व तु अलंबुषा ।।
तालु जिह्वा समाख्याता दशमं वर्गशेखरम् ।
समासात् कथिता ह्येता विभागं शृणु साम्प्रतम् ।।
जया च विजया चैव गान्धारीतलवाहिनी ।
हरितजिह्वासमाख्याता वहन्ति प्राणपञ्चके ।।
बुद्धिर्मन स भूतादि स्वेता जीवाश्च पंचमः ।
बुद्धिपञ्चकमित्येषं प्राणादीन्सन्विरोधकः ।।
जया वायु विजानीद्यकारं नामनामतः ।
विजया ईशमुद्दिष्टा गान्धारीं शक्रजा विदुः ।।
प्. ३५अ)
तलवाही कुहूज्ञेया जलेशं नामनामतः ।
हस्ति जिह्वा भवेद् रौद्री प्राणस्था प्राणपञ्चके ।।
बुद्धिपञ्चकमादौ तु सद्योबीजमुदाहृतम् ।
मनं मकारतत्त्वं तु भूतादि व्यापकं स्मृतम् ।।
चेतो वह्निः समाख्यातः जीवः संहार उच्यते ।
बुद्धिपञ्चकमेतन्तु कथितं नाडी गोचरे ।।
एतानि चैव जानीयाद्व्यस्ता तु कथयामिते ।
नाडीचक्रे महाभाग प्रतिष्ठा निद्धि नाडिषु ।।
पिङ्गलाया इडायास्तु वामदक्षिणसंस्थितौ ।
संक्रान्ति विषुवादीनां सञ्चारं चक्रगोचरे ।।
वामदक्षिणयोगेन अर्द्धयामक्रमेण तु ।
रुद्रतत्वं च तत्पूर्वं पिङ्गलायाः प्रकीर्तितम् ।।
वहते दक्षिणावस्थामायमाश्रित्य सुव्रत ।
इडा तु वामतो ज्ञेया वारुणी तु कुहू स्मृता ।।
आभिः सर्वमिदं व्याप्तं नाडिभिश्चक्रगोचरे ।
वामदक्षिणयोगेन अर्द्धयामक्रमेण तु ।।
कला विभाग योगेन अष्टधातु क्रमेण तु ।
अकारादिन्सकारान्तं ह्रस्वदीर्घाक्षराः स्मृताः ।।
प्रवहन्ति सदाकालं हृदिस्थाश्चकगोचरे ।
सकलस्य भवेच्चारः प्रदोषे भास्करोदये ।।
माघमासं तु आख्यातं योगीनांबलवर्द्धनम् ।
वहते सकलस्तत्र आदित्येन सहैकतः ।।
दीर्घाकारं च वर्णे शमनन्तंश्चैव नागराट् ।
प्राणस्थो वहते वायू रविस्थं वहते सदा ।।
अर्द्धयामं न सन्देहमभिन्नस्तु यदा भवेत् ।
भेदं त्रिविधमाख्यातं वातपित्तखफादिकम् ।।
क्षणमेकं भवेत्तेषां भेदोयं पार्वती सुत ।
यः पुनश्चन्द्रसूर्याभ्यां संभेदः संप्रवर्तते ।।
प्. ३५ब्)
ते च कालं विजानीयान्न वातादि प्रलोपयेत् ।
अस्वरं वामतो ज्ञेयं चारं वै निष्कलस्य तु ।।
वासुकिश्चैव सोमश्च एक * वहते सदा ।
अपानश्च समाख्यातो निशा चैव तु शाङ्करी ।।
पूर्वार्द्धे च तु इत्युक्तः प्राणेन सह धीमता ।
प्रहरं तु समाख्यातं बाह्यचारे सुराधिप ।।
- * * * * * * * दक्षिणेयव्यवस्थिता ।
अर्द्धधामं द्वितीयस्य प्रहरस्य न संशयः ।।
सापि ते चक्रमेतौव? चन्द्रादित्यात्मजेन तु ।
शून्यचारं समुद्दिष्टं ग्रहश्चाङ्गारकः? स्मृतः ।।
तक्षकस्तु समाख्यातः समानेन समायुतः ।
अभिन्नो * * *? देव इकारो दक्षिणेन तु ।।
अर्द्धयामं महासेन पिङ्गलायां ध्रुवा वहे ।
ईकारस्तु युवो? ज्ञेयः कलाद्यस्थं सदाशिवम् ।।
उदानेन समायुक्तः कर्कोटेन धीमता ।
द्वितीयं प्रहरं प्रोक्तं बाह्यचारेन संशयः ।।
चन्द्रजेन तु मार्गेण वामेन कथितं तव ।
अमायां व्यापकं जीवं दक्षिणां दिशिसंस्थितम् ।।
बृहस्पति ग्रहस्तत्र? पद्मश्चैव तु नागराट् ।
खमलं कृत देवस्य वारं ध्यानसमन्वितम् ।।
उकारस्वरयोगेन नाडयो व्यापकाः स्मृताः ।
पिङ्गलस्था विजानीयदर्द्धयामं तु पञ्चमम् ।।
उकारः शुक्रमाख्यातो नागोवायुः प्रकीर्तितः ।
महापद्मश्च तत्रैव चारं च क्षपणस्य तु ।।
दक्षिणायनमित्युक्तं निशा चैव तु शाङ्करी ।
तृतीयं प्रहरं वत्स कथितं बाह्यतो मया ।।
इडावस्थं समाख्यातं चक्रेस्मिन्स्वरमण्डले ।
प्. ३६अ)
गान्धारी शक्रजा देवी नैर्-ऋत्यां दिशिमाश्रिताः ।।
कूर्मारस्तु समाख्यातः क्षयान्त सहितो वहेत् ।
शनिस्तत्रग्रहो ज्ञेयः शङ्खपालश्च नागराट् ।।
ऋकारो वहते तत्र स्वरं दीर्घे तु दक्षिणे ।
पुटेन तु महाभाग अभिन्नो वहते सदा ।।
सप्तमन्तु समाख्यातमर्द्धयामं क्रमोदितम् ।
पिङ्गलस्थं समाख्यातं योगोयं दीर्घसंयुतम् ।।
इडा ऋकारमित्युक्तं ॠकारेणसमायुतम् ।
कुलिकस्तु समाख्यातः कण्ठोष्ठेन तु धीमतः ।।
राहुर्ग्रहसमाख्यातः प्रहरार्द्धन्तु चाष्टमम् ।
दिनं तु कथितं भद्रं बाह्यन्तु तव सुव्रत ।।
अन्तश्चरे महासेन अहोरात्र चतुष्टयम् ।
भवते नात्र संदेहो यदि रुद्धान नाडयः ।।
शुद्धास्तु प्रवहन्त्येते अर्द्धयाम क्रमेण तु ।
चत्वारो दक्षिणावस्था नाडयश्चक्रसंस्थिताः ।।
पिङ्गला च ध्रुवा चैव अमागन्धारिरेव च ।
स्वरा ह्येष्टौ तथा चान्ये प्रतिनाडिषु संस्थिताः ।।
आकारादिक्षुकारान्ता दिनचारे विनिर्दिशेत् ।
ये ह्रस्वास्ते भवन्तीह वामे चन्द्रकलास्मृताः ।।
सूर्यस्य तु महाभाग दीर्घादक्षिणसंस्थिताः ।
तासां संज्ञा विधाने तु नाडीनां तु शृणुष्व मे ।।
पूषायुसासु? मनसा प्रीति तुष्टिरतिस्तथा ।
धृतिर्धृतिकरी चैव कलाह्यष्टौ व्यवस्थिताः ।।
पिङ्गलाद्यादि गान्धारी अन्ते चक्रमशो न्यसेत् ।
द्वे द्वे चतुर्महाभाग ह्रस्वदीर्घादि योगतः ।।
नागाह्यष्टौ न्यसेद्भाग व्युत्क्रमेण महातप ।
अनन्तं दीर्घमित्युक्तं ह्रस्वं वासुकि उच्यते ।।
प्. ३६ब् )
तक्षकस्तु पुनर्दीर्घ कर्कोटो ह्रस्वके स्थितः ।
दीर्घं पद्मं भवेद् वत्स महापद्मश्च ह्रस्वके ।।
शङ्खपालं पुनर्दीर्घः कुलिकं ह्रस्वमादिशेत् ।
ग्रहाह्येवं भवन्त्येते आदित्यादि क्रमेण तु ।।
भास्करोङ्गारकश्चैव गुरुश्चैव शनिस्तथा ।
एते दीर्घा विजानीयाद्वहास्तु रविमण्डले ।।
सोममण्डलमध्यस्था वहन्ति अनिवारिताः ।
प्राणापानसमानश्च उदानो व्यानमेव च ।।
नागः कूर्मोथ कृकरो वहन्ति क्रमशः सदा ।
आदित्यः प्राणमित्युक्तोऽपानः सोम उच्यते ।।
समानोङ्गारकोज्ञेय उदानस्तु बुधः स्मृतः ।
व्यानो बृहस्पतिर्ज्ञेयो नागः शुक्रमिहोच्यते ।।
कूर्मारस्तु विजानीयाच्छ निश्चैव ग्रहेश्वरः ।
कृकरो राहुराख्यातश्चक्रेस्मिन्माडिगोचरे ।।
देवदत्तो महाभाग अनिलः कालसंस्थितः ।
धनञ्जयस्तु वर्गेश कथितं पूर्वतो मया ।।
विषुवेन महायोगे शुषुम्नायावहेति च ।
नाद्यं प्रवहमुद्दिष्टस्तस्य देवस्य धीमता ।।
शिनीवानी कुहुश्चैव ज्ञातव्या क्षीणयोगतः ।
दक्षिणे चैव वामे च अमावास्येति कीर्तिताः ।।
चन्द्रसूर्यवुभावेतौ शेइनी वाली लयं गतौ ।
या सा षोडशमि प्रोक्ता? चन्द्रस्था निष्कला कला ।।
शिनी सा तु विजानीयाद्वाली वै सूर्यमण्डले ।
द्वादशान्ते तु साज्ञेयादेकतस्ताभवन्ति तु ।।
क्षीणे तु प्रवहे वत्स दक्षिणे वामगोचरे ।
सुरेचित पुटे स्कन्द शेषं यत्किञ्चित् संस्थितम् ।।
शिनी वाली तु सा ज्ञेया अमावास्येति कीर्तिता ।
तां विदित्वापि मुच्यन्ते यदि युक्तास्तु शाङ्करी ।।
प्. ३७अ)
एतत् समरसं प्रोक्तं धनञ्जय शिवस्य तु ।
एकत्रैवव्रजन्त्यासु शक्तिर्वै या निलास्मृताः ।।
प्रवहं सकलं प्रोक्तं यस्मिन्यस्मिन् प्रवर्तते ।
अन्यत्र निष्कलो ज्ञेयः क्षीणं योगं सुराधिप ।।
वहते समरसे नैव अनामाप्रभुरव्ययः ।
यथाक्षीरे स्थितं सर्पिर्न दृश्येद प्रयोगतः ।।
तथा धनञ्जयावस्थो न दृश्येत शिवः सदा ।
पदेतत् प्रवहेत् सर्वं स जीव सर्वगोव्ययः ।।
प्राणेन सहितो भद्र नाडी मुखे व्यवस्थितः ।
संक्रमते सदाकालं यावन्न त्यजतेति च ।।
शेषं वृत्ति स्वरूपेण वहते वाम मध्यतः ।
यस्मिन्त्यजति कालेन पञ्जरं दोष कृद्वहुम् ।।
तदा चोर्द्ध्वं प्रवाहेन अन्तस्थश्चरते गुह ।
निशाप्येवं समाख्याता वातनागग्रहोदिता ।।
शिवाष्टकप्रभेदेन येन योगेन वर्णितम् ।
नाडीनाञ्च स्वराणाञ्च पुनर्भेदो विधीयते ।।
गान्धर्वा च जया चैव विजया च तृतीयका ।
कुहू चैव समाख्याता शिनीवाली च मध्यमा ।।
गान्धर्वा पश्चिमे प्रोक्ता अकारं बीजमुत्तमम् ।
जयावायव्यसंस्था तु यकार स्थानमाश्रिता ।।
विजया सोम दैवत्या इकारेणोत्तराश्रिता ।
कुहू ईशान भागेन वारुणाक्षरसंस्थिता ।।
शिनी वाली च कालस्था सुषुम्णास्थो धनञ्जय ।
ऌ ॡ स्वरौ तु गान्धर्वौ ए ऐ वायव्यगोचरे ।।
ओ औ तु विजयावस्थौ कुहा बिन्दुविसर्गजः ।
दीर्घा दक्षिणतो ज्ञेया ह्रस्वा वामेन संस्थिताः ।।
स्वरा वै वाम मध्ये तु कथितास्तपवर्द्धनः ।
गान्धर्वा प्रथमे यामे द्विश्रोत्र प्रवहेन तु ।।
प्. ३७ब्)
स्वरजेन समाख्याता निशायां निशिचिन्तकः ।
जया द्वितीय यामे तु पूर्वोक्ते नैव योगतः ।।
विजयापि तृतीये तु यामे तु वहते सदा ।
पूर्वयामं समारभ्य द्विश्रोत्र प्रवहेन तु ।।
कुहू इडस्या विज्ञेया चतुर्थयामकं भवेत् ।
पूर्वोक्त क्रमयोगेन वर्णितं योगिनां हितम् ।।
सकलादि समारभ्य कण्ठोष्ठ्यं यावत्पश्चिमम् ।
नागाग्रहाश्च प्राणाश्चक्रमन्ति क्रमशः सदा ।।
पूर्वयामं समारभ्य द्विश्रोत्रेण क्रमेण तु ।
द्विनाद्यस्ता समाख्यातास्तासां नामानि मे शृणु ।।
पूषामसा तथा सौम्या मरीचीत्वं सु मां तथा ।
शङ्खिनी ह्यङ्गिरा चैव छायासंपूर्णमण्डले ।।
अमृता षोडशी ज्ञेया निशान्ते या व्यवस्थिता ।
गान्धर्वा पिङ्गलावस्था प्राप्तो न सहसंयुता ।।
दीर्घजेन तु वर्णेन वहते व्युत्क्रमेण तु ।
ह्रस्वेन सा तु वामस्था इडस्था वहतेति च ।।
भावजातुसमाख्याता स्वप्नं भावितमुच्यते ।
दिवाकृतं तु यत्कर्ममन्त्रितं चक्रितं च यत् ।।
भावस्थः पश्यते तन्तु निशायां प्रथमे पदे ।
जयायां वातिकं विन्द्यात्स्वप्नं स्यात्कृत्तिका सुत ।।
वैत्तिकं च तृतीयांशे विजयायां तु तिष्ठति ।
पश्चिमे चैव यामोर्द्धे स्वप्न श्लेष्मिक उच्यते ।।
सन्निपातात्मिकमेतदविछिन्नं प्रवर्तते ।
अर्धप्रहरशेषायां उषायान्त स उच्यते ।।
व्यामिश्रं वितथं विन्द्याद्वातादेः पश्यते तु यः ।
भाव्यन्तु द्विविधे ज्ञेयं श्रेयाश्रेयमवस्थितम् ।।
इडायां श्रेयसं विन्द्यदन्यथा तु विपर्ययः ।
प्. ३८अ)
सर्वासामेव नाडीनां इडा नाडीसु या? वहा ।।
कालनाडी समाख्याता पिङ्गला दक्षिणेन तु ।
तस्मिञ्चरे यदा प्राणस्तदाकालं परिक्षयेत् ।।
समस्तव्यस्तयोगेन तदा प्राणं चरेद्धृदि ।
नाडीनां सहितं स्कन्द यथा भवति तच्छृणु ।।
यस्मिन्वर्णे समाश्रित्य चरते नाडिभिः सह ।
तत्तद्रूपं भवेत्तस्य ईश्वरस्यामितौजसः ।।
आमायां पर्यटेत्प्राणः पस्योदाकाण्शमेव हि ।
अक्षरादि कृतं चित्तं ब्राह्मणवेदपारगाः ।।
पश्यते तानि सर्वाणि गान्धर्वायां गुहेश्वर ।
मन्सायां? वल्भनं युद्धं चित्राणि तु वरस्त्रिय ।।
दिव्यं माल्यां वरादींश्च विजयायां प्रपश्यति ।
नग्नां पाशुपतां मुण्डां जटिलां शिवलिङ्गिनाम् ।।
पिङ्गलायान्तु रुद्रेस्मिन्पश्यते क्रमगोचरे ।
पक्षिवदुजते? ध्यानं प्रलापश्च प्रलापनम् ।।
आरोहणं प्रवेशञ्च जयायां पश्यते गुह ।
अग्निदाघं ब्रुवायान्तु क्षुत्पिपासातुरं भवेत् ।।
पश्यनात्रसंदेहो शिवं चानलसंस्थितम् ।
सुतृप्तं च शरीरस्य शुक्रोत्सर्गं सहर्षिणन् ।।
हस्सरचरथयानानिद्वत्र? सिंहासनानि च ।
पश्यते तानि सर्वाणि गान्धारी सह संयुतः ।।
जलवृष्टिं कुहूसंस्थः समुद्रांशलिलाश्रयाम् ।
शीतादि अशनीं चैव सोद्वेगं फणिनागणम् ।।
पश्यते तु सदा जीवो जलनाडी समाश्रितः ।
यमस्य सदनं पश्ये शिनी वाली समाश्रितः ।।
बहूंश्च नरकां रौद्रां निग्रहानुग्रहस्थिताम् ।
कालस्थ पश्यते तानि स्वनसञ्चार गोचरे ।।
प्. ३८ब्)
सुषुस्मामाश्रितप्राणः पश्यते परमं शिवम् ।
अभिन्न पश्यते जीवो नाडि * * * * * *? ।।
दक्षिणेन चरेद्वत्स नाडीचक्रं समाश्रितः ।
न पश्यन्ति दुरात्मानस्तत्वं तत्वार्थ वर्जिता ।।
एकत्रैव विलीनास्तु नाडयो यत? प्रकीर्तिता? ।
- * * *? महासेन नवधायाश्च षोडशः ।।
सुषुम्नान्त स्थितो जीवः कर्णिकारं धुमाश्रितः? ।
नाडीमुखेषु सा देवश्चरते * * * * *? ।।
तेन * * * * * * *? चैतन्यं प्रवतते ।
जाग्रस्थं यदाचेतो व्यापयेत्कार्यपञ्जरम् ।।
सरोमकूपमार्गेषु क्रमतेऽहर्निशं शिवः ।
षष्ठ? स्थाने * * * * * * *?
नासिकोपरि ।।
तुर्यस्थाने गतो देवः प्रबुध्यति सदाशिवः ।
अभिन्नेषु समाख्यातो भिन्नस्य * * * * *? ।।
- * * * * * * * * *? दि
गृह्यते गुह ।
न दोषो तेषु वै दद्यादित्याह परमेश्वरः ।।
मात्राभेदो यदावत्स भवते * * * * *? ।
- * * * * * * * * * * *
- *? यिनः ।।
प्रहरं वहते यस्य पिङ्गलायां गुहेश्वर ।
तदा भिन्नं विजानीयात् * * * * * * * *##?
- * * * * * * * * * * *
- *? यित ।
येन तु मासेन अधिकं सन्निवेदयेत् ।।
उद्वेगन्तु समासेन * * * * * * * *? ।
- * * * * * * * * * * *
- * भवेत् ।।?
चतुर्थे *? र्थ हानिस्तु भवते कृत्तिका सुत ।
पञ्चमे तु निशायामे विभिन्नं वहते यदा ।।
तदार्थानान्तु? विच्छिन्नो? भवते नात्र संशयः ।
प्. ३९अ)
षष्ठे गोत्रक्षयं विन्द्यात्सप्तमे निश्चला भवेत् ।
अहोरात्रं वहेनैव मृत्युर्ज्ञेयोवर्यत्रये ।।
अहोरात्रं द्वये नैव पिङ्गलायां वहे यदा ।
तदा तस्य भवेत् स्कन्द मृत्युर्ज्ञेयो द्विवार्षिकः ।।
त्रिरात्रं वहते यस्य दक्षिणेन सदाशिवं ।
वर्षमेकं स जीवे तु देहिनस्तु न संशयः ।।
रात्रिमेकां वहेद्यस्तु दिनश्चाथ सुरेश्वरः ।
षड्भिर्मासैर्भवेन्मृत्युरिति शास्त्रस्य निश्चयः ।।
यामं द्वयं चरेद्यस्तु अधोरात्रं स जीवति ।
पिङ्गला तु विनिर्दिष्टा कालनाडी वरानन ।।
कालं सूर्यं विजानीयाद्दक्षिणेन वहत्यसौ ।
जीवितं ध्रुवमाचष्टे तस्मिन्ते ववरेन? तु ।।
सौम्या नाडी इडा प्रोक्ता वारुणा वामतः स्थिताः ।
विभिन्ना वहते यस्माद्रविमात्रैस्तु सुव्रत ।।
तदा तेन क्रमेणैव पूर्वज्ञेन विनिर्दिशेत् ।
प्रहरं वहते सा तु इडा भास्कर भेदिता ।।
ये दोषास्तत्र जायन्ते उपशाम्यन्ति ते सदा ।
मन्त्रहोमप्रयोगेन दाने वाथ सुकल्पिते ।।
या वा कालविकल्पेन सुखी स शिविदो भवेत् ।
सोमायां ये प्रजायन्ते भेदो वै साधकेश्वर ।।
प्रशमं यान्ति ते तस्य इति रुद्रः प्रभायते ।
कालजेन च मार्गेण ये दोषाः संप्रकीर्तिताः ।।
ते मृत्युं सन्निवेदन्ते क्रमेण क्रमशः सदा ।
यावदायुः क्षयं प्राप्तं दिनमेकन्तु शाङ्करी ।।
वारुणे चोपसंसर्गाशाम्यन्ते विधिपूर्वकैः ।
प्रहरे प्रहरे ज्ञेयास्वस्वल्पदुःखप्रदायिनः ।।
द्वितीयमधिकं विद्धि तस्य व्याधि तृतीयके ।
चतुर्थे पुत्रदाराणां विनाशं भवते गुहं ।।
प्. ३९ब्)
पञ्चमे तु महापीडा प्राणस्यान्तकरी भवेत् ।
षष्ठे समाष्टमे चैव प्रहरे शक्रमर्दनम् ।।
जीवितं केवलं तिष्ठे दन्येषां तु विपर्ययः ।
उच्चाटयति पश्चाप्ता वारुणायां दिशि स्थिता ।।
बन्धनं विविधं चैव कर्णनासा निकृन्तनम् ।
शत्रूणां वशमायाति दशाहा प्रवहेन तु ।।
एतैस्तु न भवेन्मृत्युरा पदाश्च सुदुस्तराम् ।
यथाशक्त्याथ वादानं पात्रकालयपेक्षया ।।
शान्तिहोमं जपादींश्च ससिविन्दः सुखी भवेत् ।
एवं ते कथितं भद्र नाडीनान्तु परस्परम् ।।
नाडी चक्र विधोनेन? कालचक्रे मयोदितम् ।।
इति कालज्ञाने कालचक्रपटलं त्रयोदशशतिकमष्टमम् ।।
कालचक्रं प्रवक्ष्यामि अङ्गप्रत्यङ्गसंस्थितम् ।
मणिबन्धं भवेद् यत्र प्रकोष्ठ स्थानसंस्थितम् ।।
न चलते यदा देवो मृत्युर्वासैर्विनिर्दिशेत् ।
एकादशैर्न संदेहो बाहुमध्ये द्विपञ्चके ।।
मासैश्चैववरेशान कक्षमध्येन त्रैस्मृतः ।
अष्टभिर्गुल्फ देशे तु सप्तभि *? रु मध्यतः ।।
जानुनी च महासेन षड्भिर्मासैस्तु जायते ।
पञ्चभिः पायुरानन्द मध्येन चलते यदा ।।
भवते तु तदा मृत्युः स्पष्टन्तु कथितं तव ।
चतुर्थे शङ्खदेशे तु न स्पन्दति गुहेश्वर ।।
श्रोत्रमूले त्रिभिर्मासैर्मानं वै विनिवेदयेत् ।
ग्रीवायां तु द्विभिर्मासैस्तव देशे तु मासतः ।।
अर्धमासं हृदिस्थाने पञ्चाहं हृदयादधः ।
अहोरात्रं भवेन्मृत्युः कण्ठे तु न चले यदा ।।
प्रहरं जीवते वत्स उदरे ह्यचलनेन तु ।
प्. ४०अ)
नेत्रो परिगता या तु नाडीबिन्दु सुभागता ।।
स जीवसर्वमाख्यातस्तस्थान? त्यजते प्रभुः ।
प्रहरार्द्धार्द्धमानन्तु जीवः सर्वगतो भवेत् ।।
स भित्वा तत्त्वसंघातं चेन्द्रियग्रामगोचरम् ।
वायुनाडी निबद्धन्तु त्यक्त्वायाति परंशिवम् ।।
मूर्द्धयेन तु मार्गेण अन्तस्थ परमेश्वरः ।
व्रजते तु स्वकं स्थानं पुनरागमवर्जितम् ।।
अज्ञानिनां वरेशान उदरान्तमधो व्रजेत् ।
पापिष्ठा ये समाख्याताः कर्मदोषसमन्विताः ।।
तेषामियं गतिः प्रोक्ता अपानेन न संशयः ।
यष्टं महामस्वैर्यैस्तु श्रुतिस्मार्तोदितैः क्रमात् ।।
तेषाञ्चक्र गतिः प्रोक्ता ब्रह्मज्ञानं तु वामतः ।
क * न तु महाभाग सांख्यज्ञानन्तु दक्षिणे ।।
उत्तरायणमित्युक्तं गतिर्ज्ञेया निवर्तिका ।
विषुवेन तु मार्गेण गच्छन्ते शिववेदिनः ।।
येन भूयो न भूयस्तु जन्म लाभो न विद्यते ।
एषते सर्वमाख्यातः कालचक्रविधिस्तव ।।
पुत्रस्नेहान्महाभाग कथितं जीवसञ्चरम् ।
त्वयापि सहसानेदं कथनीयं कदाचन ।।
रक्षणीयं प्रयत्नेन न?स्कराणां धनं तथा ।।
इति कालज्ञाने त्रयोदशशतिके मर्माध्यायः समाप्तः ।।
कालचक्र प्रयोगेन जीवसञ्चारगोचरम् ।
कथितं वह्निजन्मेश लोकानां हितकारणात् ।।
कार्तिकेय उवाच ।।
यदेतत्परमेशान कथितं जीवसञ्चरम् ।
नाडिभिर्दशभिः सूक्ष्मैर्वायुभिश्च समायुतम् ।।
न मे ज्ञातं महादेव जीवतत्वं सनातनम् ।
प्. ४०ब्)
यदेतद्धन ते देहे स्पन्दते च समन्ततः ।।
नाडिभिर्मर्मदेशेषु स वायुः परिपठ्यते ।
जीवंस्त कुत्र देवेश एतन्मे ब्रूहि तत्वतः ।।
स्वरवर्ण विहीनन्तु रूपगोचरवर्जितम् ।
निधिन्द्रियं? यदातीतं बुद्ध्यहङ्कावर्जितम् ।।
तत्त्वान्तरविनिर्मुक्तं स जीवो ज्ञायते कथम् ।
नरसेन न शब्देन न रूपेण नानिलेन च ।।
न गन्धेन स देवेशो गृह्यते प्रभुरव्ययः ।
एवं ते कथितं पूर्वं जीवतत्त्वं ह्युमापते ।।
कथयस्व महेशान येन जानन्ति निश्चयात् ।
दशसंचारयोगेन ऊनरादिषु क्रमात् ।।
यथासञ्चरते देही नाडिचक्रे हृदिस्थिते ।
अपृष्टान्यपि मानीह प्रज्ञा हीनस्य मे प्रभो ।।
तेपि कथ्यास्त्वया नाथ अनुकम्पार्थकारणात् ।।
ईश्वर उवाच ।।
साधु साधु महासेन पृष्टं ते च महाद्भुतम् ।
चित्रमेतन्महा * ह्मंत्वा भुक्त्वाकोन्यः पृच्छति ।।
यदेतत् कथितं पूर्वं जीवाख्यं नाडीगोचरे ।
प्रक्रियायां विनिर्दिष्टं तदेव परमेश्वरम् ।।
तस्याहंते प्रवक्ष्यामि निर्णयं तत्व वेदिनाम् ।
यत्तच्चतुष्कलं प्रोक्तं व्यापकं तत्वमुत्तमम् ।।
तस्मिन् मध्ये स तिष्ठेत जीव परमकारणम् ।
अनिर्देश्यमनाख्यञ्च वायुस्थो वहते यथा ।।
एकादशमाकथितो दशानान्तु परोहि सः ।
यस्मिन्स्थाने स्थितस्ते तु उदयेन तु सर्वदा ।।
वायुवाहनमार्गस्थं निर्द्धूतं परमं शिवम् ।
स जल्यं तं सदा देहे तत्तत्वं कथयामिते ।।
भ्राम्यति पङ्कज मध्ये कलाव्रत? विनियोगात् ।
प्. ४१अ)
गोलकहेलाहत इव उत्पतनिपतन सदा कुरुते ।।
एतत्तत्त्व शरीरं तु चतुष्कं यत्प्रकीर्तितम् ।
तस्य मध्ये गतं देवं कथैष्यामि ते नघ ।।
स्पष्टेन तु विचित्रेण प्रयोगेण शुभेन तु ।
कथयिष्यामिते तत्वं यथा विन्दसि तत्वतः ।।
प्रोत्सारयित्वा सर्वाणि तत्रस्था ये महासदाः ।
कथयामास तत्सर्वं वृत्तान्तं जीवितस्य तु ।।
यदेवच्छ्वस *? पुत्रकलाशान्ता तु ता स्मृता ।
वायव्या सा पुराख्याता तत्रस्थः प्रवहेत्तु सः ।।
शक्तिना तु समायुक्तो वह्निना तु तथैव तु ।
माहेन्द्री शक्तिरुद्दिष्टा पूर्वनिगदिता तुष्ठा? ।।
तया तु धार्यते सोथ जीवः सर्वगतः प्रभुः ।
सा चाग्निनावृता देवी परिवार्यसमं ततः ।।
अग्निमण्डलमित्युक्तः शक्तिश्चैव स्वेस्थिता ।
मण्डले तु महासेन तेषां सोमस्तु वाह्यते ।।
निवृत्तिः सा विजानीयाद्वा हृदा?क्षरसम्भवा ।
एवं चतुष्कलावस्थं तत्वराजन्सुराधिप ।।
पुरंशरीरमित्याहुश्चतुष्कं यत्प्रकीर्तितम् ।
तस्य मध्य गतो देवो जाति सर्वेश्वरः प्रभुः ।।
व्यावृत्तेन तु वक्त्रेण यो देवस्तत्र सञ्चरेत् ।
सा शान्ता तु विजानीयादाग्नेयाधारणाद्विदुः ।।
रेचकस्तु समाख्यातः प्राणायामस्तृतीयकः ।
तस्मिन्नेवश्च निर्या तु स्पृशते तु यदक्षरम् ।।
तदा सा वारुणी ज्ञेया पूरकेणसमन्विता ।
वारुणी तु न सन्देह कथितं तव पृच्छतः ।।
मध्यस्थस्तिष्ठते देहे कुम्भकेन निरोधितं ।
साङ्गर्द्धं वहते देवी णन्ता तत्त्वसमन्विता ।।
मूर्ध्नान्तेन चरेशानमन्यत्प्रवहवर्जितां ।
प्. ४१ब्)
सा तत्वं प्रवहेद्वत्स? स पूर्वां यदुदाहृतम् ।।
घोषः स तु समाख्यातः श्रूयते यो हृदिस्थितः ।
सा तत्वं व्याहरेद्देवीमाहृदि? सा विजानतः ।।
सप्तधातुकमेतन्तु कथितं तत्वविग्रहम् ।
चत्वारो धारणाश्चैव कलायास्तु उदाहृता ।।
प्राणायाम त्रयं चान्यं पूरकादि प्रकीर्तितम् ।
सप्तधातुकमेतद्धि न ज्ञातमकृतात्मभिः ।।
पिधापि तेन वक्त्रेण स दैवसरतेत्यसौ ।
नासिकामूलरन्ध्रेषु यावद्वै द्वादशाङ्गुलम् ।।
तदेव संस्पृशेच्छ्रोत्रे ध्वनिर्वै पारमेश्वरी ।
गोरम्भं सदृशो देवी श्रूयते शक्तिसंवृते ।।
वक्त्रेण तु महाभाग सा तत्त्वं वहते गुह ।
दशभिस्तु प्रयोगैस्तु ऊनरात्रादि सञ्चरे ।।
ऊनरात्रं भवेच्छिक्का अधिमासो विजृम्भिका ।
ऋखस्तु? भवते काशो निश्वासोधन उच्यते ।।
उत्तरं दक्षिणं ज्ञेयं वामं दक्षिणसंज्ञितम् ।
मध्ये तु विषुवं प्रोक्तं पुटद्वयविनिसृतम् ।।
संक्रांतिश्च तथा ज्ञेया स्वस्थानात्स्थान एव हि ।
ऊर्द्धप्राणौ अधश्चैव अपानो रात्रिरेव हि ।।
शक्तिसञ्चारमेतन्तु दशधा संव्यवस्थितम् ।
सप्तकेन न तु योगेन पूर्वमेव प्रभाषितम् ।।
अकथ्य कथितं पुत्रस्नेहानुग्रहकारणम् ।
संप्रदायमिदं प्रोक्तं गुरुपारंपरागतम् ।।
नाम?मस्वच्च? वै वत्स प्रमाणादिषु वर्जितम् ।
दृष्टानुमानं हेतूनां अगम्यः परमेश्वरः ।।
पूर्वमेव समाख्यातं गुरुवक्त्रा तु लभ्यते ।
संप्रदायं समाख्यातं गुरुवक्त्रे निवेशितम् ।।
प्. ४२अ)
गुरुवक्त्रं समाख्यातं यथा वै पार्वती सुत ।
वक्त्रं तु प्रथमं प्रोक्तं श्वेत बन्धद्विभिर्युतम् ।।
मूर्द्धान्ते तु चतुर्थं स्यादेते वक्त्रा अजस्य तु ।
अजस्तु स गुरुः प्रोक्तो वक्त्र मध्ये तु सञ्चरेत् ।।
गुरुवक्त्रं समाख्यातं संप्रदायविभेदितम् ।
तात्वार्द्धार्द्ध प्रमाणेन सञ्चरेत सदा प्रभुः ।।
एभिर्वक्त्रैर्महासेन शक्त्याधारव्यवस्थिता ।
न तस्य ग्रहणं शक्यं कर्तुं केनापि सुव्रत ।।
उपदेशेन सौगम्य स्वभावेन च धीमतः ।
अन्यथा न तु गृह्येत सूक्ष्मदेहः सदाशिवः ।।
दृष्टातं संप्रवक्ष्यामि तत्वग्रहणकारणम् ।
समाधिर्येन जायेत निः * * * करी गुह ।।
यथातौ पूर्वमुक्तौ तु बृहत्कन्यौ युवानकौ ।
अजातं पौरुषं भोगं सुखासुखकरं सुत ।।
अन्योन्यं भजतां भिस्तु एकायुक्ता सुखेन तु ।
सा मृच्छेत्तां द्वितीया तु कन्यानां कल्पकां तदा ।।
कीदृशन्ते तु सुभगे सुखं चानङ्गसम्भवम् ।
यथा जानाम्यहं भद्रे तथा वचसु मध्यमे ।।
एवं पृष्टा तु सा कन्या कथये तत्सुखोत्तमम् ।
ईदृशन्तादृशञ्चैव सुखं ते सखि सत्तमैः ।।
एवमुक्तेतिरुषिता कन्याया तु सुखार्थिनी ।
क्षुद्रत्वात् तेन आख्यातं दौर्जन्याद्वाथ गोपितम् ।।
पिशुनत्वादथ दुष्टत्वादसङ्गत्वा भवा शुभे ।
एवं सा ताडिता कन्या द्वितीया या षडानन ।।
मात्वं प्रकोप माया हि कथितं न तु शक्यते ।
सत्यं सत्यं पुनः सत्यं नेदृशं तत्सुखोत्तमम् ।।
(द्वितीया तु ऋ भावस्था तत्सुखन्तु न विन्दति । बोत्तोम् ओf पगे)
प्. ४२ब्)
तथापि न विजानाति अव्यक्तत्वात्तु सा कला ।
अचिरेणैव कालेन तया प्राप्तन्तु तत्सुखम् ।।
स्वयं वेद्य तया ज्ञातंमुपदेष्टुं न शक्यते ।
सा तुष्टा कन्यका तस्य व्यर्थ तु रुषितं मया ।।
स्वसंवेद्यमिदं सौख्यं कशक्यं कथितुं सखे ।
एवं जीवविचारस्तु स्वनिगू *? स्थितं गुह ।।
कथितुं नैव शक्येत प्रत्यक्षेण प्रमाणतः ।
संप्रदायेन सौ देवो ज्ञातव्यः प्रभुमण्डितैः ।।
तालार्द्धस्थश्च खस्थ खशक्तिस्थश्च महेश्वर ।
संप्रदाय त्रये नाथ गृह्यतेसौ हृदिस्थितः ।।
अष्टधातु क्रमेणैव सकस्यादि प्रयोगतः ।
वहते परमेशान अष्टाष्टकसमन्वितः ।।
चतुः षष्ठिरिति प्रोक्ता गतयस्ते शिवात्मिकाः ।
न विज्ञाता कुतर्कैस्तु हेतुजालसमुद्भवैः ।।
निमेषं तालिका प्रोक्ता उन्मेषेण तु संयुता ।
तस्याश्चतुर्थं यद्भागं तुटिः सा तु निगद्यते ।।
सञ्चारस्य प्रमाणन्तु शिव तस्य तु भाषितम् ।
खस्थं पूर्वं समाख्यातं सुखं यद्व्यावतं गुह ।।
तस्यान्ते वहते शक्तिः सप्तधातु समन्विता ।
तस्याप्यन्त स्थितं सोथ जीवो दुर्लक्षलक्षिते? ।।
लक्षणैका सावात्मा तालिकामुख शक्तिना ।
एतत्प्रमाणं कथितं जीवतत्त्वं च वर्णितम् ।।
त्व * * * * *? नन्दस्पष्टन्ते कथितं सुत ।
आज्ञासिद्धिकरं ह्येतन्यद्वाक्यमसुरान्त कृत् ।।
न चान्यैर्हेतुजालैस्तु शक्यते विनिवर्तितुम् ।
यत्तत्प्रमाणरहितं वाक्यद्वय विवर्जितम् ।।
प्. ४३अ)
सिद्धासिद्धिकरं चैव पशुवाक्यं द्विधा स्थितम् ।
दशधा तु समाख्यातं शिववाक्यं सलक्षणैः ।।
सिद्धिवञ्च सुगम्भीरं सुदृढं सुस्थिर शिवम् ।
विरजं विमलं शान्तं आज्ञासिद्धिश्च सुव्रत ।।
विधिवादमिति प्रोक्तं नार्थवाद शिवात्मकः ।
रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् ।।
ते चेश्वरेन विद्यन्ते ब्रूयात् स कथमन्यथा ।
अजाता शेषदोषेण सर्वज्ञेन शिवेन तु ।।
प्रणीतममलं वाक्यं तत्प्रमाणं न संशयः ।
पशु वाक्यानि क्लिष्टानि अस्थिराणि लघूनि च ।।
संकीर्णानि अशुद्धानिमिध्या? युक्ति स्थितानि तु ।
हेतुजाला च मुख्यानि अनुमानाङ्गुलानि च ।।
न तेषां विद्यते किञ्चित् सत्यं वै कृत्तिका सुत ।
परमो हकरास्ते तु वञ्चकाः कलिकारकाः ।।
तत्त्वस्य रक्षणार्थन्तु महाविघ्नास्तु कल्पिताः ।
प्रत्यक्षं यत्प्रवर्तेत तच्चागममिहोच्यते ।।
प्रत्यक्षेण विनाभद्र मिथ्याज्ञाना भवन्ति तु ।
मन्त्रस्य जातयोनेका वीजानेकास्तु ते स्मृताः ।।
प्रत्यक्षं तेषु विज्ञानं परोक्षं न च षण्मुखम् ।
प्रत्यक्षेण परोक्षन्तु सिद्ध्यते यत्पदं गुह ।।
तत्पदं ह्यविकल्पन्तु भवते साधकस्य तु ।
यथा जात्यन्धकस्याथं श्वेत रक्तन्तु दुर्घटम् ।।
न शक्यं व्यक्तितः कर्तुं गुणाः श्वेतादि रक्तकः ।
तथा प्रत्यक्ष हीनानां पशूनां स्वर्गगोचरम् ।।
तुलायाः शोधनं चैव अनग्नेर्ज्वलनं तथा ।
प्. ४३ब्)
बीजनिर्बीजकं चैव दग्धानां च प्ररोहणम् ।।
स्वस्थामावेशकरणं साध्यानां स्तंभनं तथा ।
विद्वेषोच्चाटनं चैव ग्रहराक्षस नाशनम् ।।
विष विक्षेप संहारं नागाकर्षणामेव च ।
पर्वतोद्धरणं चैव दिव्यकन्या निवेषणम् ।।
गुटिकाकारागमनं महीविस्फोटनं तथा ।
अदृश्यता च कायस्य दिव्यवाचा प्रवर्तनम् ।।
अनागतार्थ विज्ञानं अणिमादि प्रवर्तनम् ।
एवमाद्यानि चान्या वहूनि विविधानि च ।।
शिवशास्त्रे निविष्टानि प्रमाणानि सहस्रशः ।
प्रत्यक्षाणि न सन्देहे य * * *? शिवस्य तु ।।
सर्वे अवि? तथास्तातवितथाः पशु भाषिताः ।
तस्माच्छास्त्र परज्ञानं प्रत्यक्षं युक्तिदं गुह ।।
अनेनैव तु देहेन सिद्धि प्राप्ता नरेश्वराः ।
न चान्यैः पशु तन्त्रैस्तु सिध्यते तु नराधमाः ।।
तस्माच्छुद्धा तु महती कर्तव्या शिवसेदिते ।
शास्त्रे शास्त्रार्थ वेतारो? येन यास्यन्ति तत्पदम् ।।
पशूनान्तु कुतो मुक्तिर्मायोपहत चेतसाम् ।
शिवशास्त्र परिरवा? कृतारक्षा महागुह ।।
दुर्गमा? *? स्तरा चैव दुर्भेद्या दुरति क्रमा ।
अन्याय ग्राहकलुषा सत्यमेवाल सङ्कुला ।।
विषयोर्मि भिराक्रान्ता तिमिरा * * *? यिनी? ।
अहङ्कारमगाधन्तु बुद्धिर्जल विसर्पिणी ।।
त्रिगुणावर्त कलिका भूतेन्द्रिय सुटङ्किता ।
तडिद्भिश्च विशालाभिरव्यक्तं कृत मेखला ।।
प्. ४४अ)
एवं वै परिखा वत्स शिव तत्वस्य संस्थिता ।
येन तत्वं न जानन्ति सर्वसिद्धि प्रदायकम् ।।
तयाग्रस्ता ध्रुवं ते तु मनुजा धर्म तत्पराः ।
एतस्माद्दुर्भिदं तत्वं प्रसादं जन्मतारकम् ।।
कथितं निष्कलावस्थं हंसस्थं परमेश्वरम् ।
क्रियाकारण निर्मुक्तं दृष्टादृष्टविवर्जितम् ।।
अगम्यम प्रतर्क्यञ्च देहस्थं देहवर्जितम् ।
यथामणिस्थो तेजस्तु काष्ठस्थो वाहुतारानः ।।
क्षीरस्थस्य यथासर्पिस्तथा शक्तिस्थमीश्वरः ।
यथापृथिव्यां गन्धस्तु आपेवारससंस्थितः ।।
अनिले स्पर्शनं स्कन्द तथा शक्ति गतः शिवः ।
आकाशे पक्षिणो गच्छन्पदं नैवोपलभ्यते ।।
तथा कायस्थितो देवो न ज्ञायति सुरेश्वर ।
प्रयोगेण तु सूक्ष्मेण ज्ञायते साधकेश्वरैः ।।
प्रयोगं संप्रवक्ष्यामि येन विज्ञायसे शिवम् ।
अष्टत्रिंशत्कलोपेतं चतुर्भेदं पञ्चभूतजम् ।।
पञ्चब्रह्मसमायुक्तं विज्ञायपरमेश्वरम् ।
निवृत्ति पृथिवी ज्ञेया प्रतिष्ठा आप उच्यते ।।
विद्याग्नेयी विनिर्दिष्टा वायुः शान्तिश्च कीर्तिताः ।
शान्त्यतीतं परं व्योमं नादं वै यदुदाहृतम् ।।
पञ्चभूताः समाख्याता ब्रह्म शृणु अतः परम् ।
निवृत्तिः सद्यमित्युक्तं प्रतिष्ठा वाम उच्यते ।।
विद्यास्त्वघोरजा ज्ञेया शान्तिर्ज्ञेया तु पौरुषी ।
आकाशे नादभित्युक्तं पञ्चब्रह्माः प्रकीर्तिताः ।।
सद्यमष्टकलं ज्ञेयं त्रिदशं गुह्यकं विदुः ।
अघोरं पुनरष्टाभिः पुरुषञ्च चतुष्कलम् ।।
प्. ४४ब्)
ईशानं पञ्चभिश्चैव अष्ट त्रिंशत्कलाः स्मृताः ।
ऋग्वेदस्तु निवृत्याहुः प्रतिष्ठा यजुषा स्मृताः ।।
सामवेदं स्मृता विद्या बिन्दुश्चाथर्व उच्यते ।
यत्तच्छान्तं परं देवं पञ्चमं परिपठ्यते ।।
व्यापकं योनिमित्याहुराकाशञ्च निगद्यते ।
तनु नादं विजानीयाद्यस्मात्सर्वं विनिसृतम् ।।
पञ्चभेदाः समाख्याता युगास्तु शृणु साम्प्रतम् ।
कलिस्तु प्रथमो ज्ञेयो द्वितीयो द्वापरः स्मृतः ।।
तृतीयं त्रेतमुद्दिष्टञ्चतुर्थं कृत उच्यते ।
महायुगं समाख्यातं पञ्चमं नादसंस्थितम् ।।
अगम्यं तत्समाख्यातं युगं काल व्यवस्थितम् ।
अचलं शाश्वतं दिव्यं प्रमाणागमवर्जितम् ।।
निवृत्यादि समारभ्य कल्पयेदनु पूर्वशः ।
ब्रह्मा विष्णुस्तथा रुद्र कैलाशान्ता च षण्मुख ।।
नादं वै पञ्चमं विद्धि अधिदेवाः प्रकीर्तिताः ।
ब्रह्मानिवृत्तिरुद्दिष्टा विष्णुर्ज्ञेयो द्विकुब्जकः ।।
रुद्रोमकारमारुढो विद्याया तामसी स्मृता ।।
रजस्तु भवते शान्ता कुटिला सत्व उच्यते ।
निर्गुणस्तु समाख्यातः पुरुषोयः प्रकीर्तितः ।।
सदाशिव परं यत्तत्पञ्चमं परिकीर्तितम् ।
नाददेहं महाभाग तच्छान्तः शाश्वतो ध्रुवः ।।
कालाग्नि नरकाश्चैव सप्तपातालका स्मृताः ।
भूर्लोकश्च भुवश्चैव स्वर्लोकश्च महस्तथा ।।
जनस्तपस्तथा सत्यं सप्तलोकाः प्रकीर्तिताः ।
तेषामुपरि रुद्रास्तु शतधा संव्यवस्थिताः ।।
दशधा दशधा चैव दिग्विदिक्षु तथोपरि ।
अधस्तात्तु समाख्याताः शत रुद्रास्तु धीमतः ।।
एतद्ब्रह्माण्डमित्युक्तं पार्थिवावरणे स्थितम् ।
प्. ४५अ)
निवृत्ति प्रभवं सर्वमशुद्धाध्वान उच्यते ।।
पञ्चाष्टकं तथा चान्यं तेषामुपरि संस्थितम् ।
आपतत्वादितः कृत्वाऽहङ्कारावरणं ततः ।।
तस्योर्द्ध देवयोन्यष्ट्यं बुध्यावरणसंस्थितम् ।
योगाष्टक परं तस्य गुणाषरण भूषितम् ।।
क्रोधेशाश्च तथा देवास्तेपि अष्टविधा स्मृताः ।
अव्यक्ता वरणास्ते तु स्थिता वै सिद्धिदायकाः ।।
गुरुपङ्क्ति स्वय धान्यं धातारस्तु मनादयः ।
भस्मिणस्य तथा दिवारागावरणसंस्थिताः ।।
प्रमाणमष्टकं यत्तद्विद्याष्टक समन्वितम् ।
विद्यावरणसंस्था तु कथिता वक्त्रजा गुह ।।
मूर्त्तिरष्ट पदं यच्च द्वे विद्ये आशनं तथा ।
कलावरणसंस्थं तु विद्या देह समुद्भवम् ।।
सकल प्रभवं सर्वं त्रितत्वं यत्प्रकीर्तितम् ।
यत्तदन्यतमं वत्स परतः संप्रतिष्ठितम् ।।
अकथ्यं तत्समाख्यातं पदं शान्तं सनातनम् ।
शान्या तु परमं तन्तु नादं परमदुर्लभम् ।।
निर्वाणं तत्समाख्यातं तं शिवं परमं पदम् ।
तस्यापि परतरं यत्तु गुरुवक्त्रे निवेशितम् ।।
अन्यथा नैव जानन्ते गुरुवक्त्र विवर्जिताः ।
एतत्प्रसादमित्युक्तं सकलं निष्कलं गुह ।।
कथितं नात्र सन्देहे विकल्पमतिं कुरु ।
येन त्वं ज्ञायसे मोक्षं निःसंशय करं गुह ।।
शिवशास्त्रे समाख्यातं शिव तत्वं गुहेश्वर ।
अन्य तन्त्रे न विज्ञातं पशुवक्त्रस्तु सर्वदा ।।
यदाकाशे तु पक्षिभ्य आलयं क्रियते गुह ।
तदा शिवमयं तत्वं पशुज्ञानैस्तु विद्यते ।।
प्. ४६अ)
यदा मेघैर्विना भद्र वृष्टिञ्चैव प्रवर्तते ।
पशुज्ञानात्तदा वत्स शिव तत्वस्तु लभ्यते ।।
शिक्तायान्तु यदा तैलं लभते पार्वती सुत ।
पशुज्ञानेषु वत्से शतदा विज्ञायते शिवम् ।।
पुरुषेण विना नारि यदा जनयते सुतम् ।
तदा शिवं पशुज्ञानैः प्राप्यते कृत्तिका सुत ।।
सर्पिषा तु यदाक्षीरं पुनः सम्भवते गुह ।
तदा पशूक्तं तन्त्रेषु भवते ज्ञान देहिताम् ।।
मृत्पिण्डा तु यदा लोकाः पटं कुर्वन्ति संहितम् ।
तन्तुभ्यो वा घटं वत्स्व तदा हेतु विदैः शिवम् ।।
मुष्टिनाहत ते व्योमं पिबते मृग तृष्णिकाम् ।
यः शिवे ज्ञान रहितः शिवं वै ज्ञातुमिच्छति ।।
न शिवेन विना मुक्तिर्न शिवेन विनागतिः ।
न शिवेन विना सौख्यं दुर्विज्ञेयश्च य शिवः ।।
शिवात्सर्वमिदं लोके प्राप्नुवन्तीह मानवाः ।
तस्माच्छिवं तु विज्ञेयं दुःखस्यान्तो भविष्यति ।।
इति कालोत्तरे त्रयोदशशतिके दशमः पटलः समाप्तः ।।