कालिकापुराणम्/अध्यायः ६८

विकिस्रोतः तः
Jump to navigation Jump to search

।।श्रीभगवानुवाच।।
उपचारान् प्रवक्ष्यामि शृणु षोडश भैरव।
यैः सम्यक् तुष्यते देवी देवोऽप्यन्यो हि भक्तितः।। ६८.१ ।।

आसनं प्रथमं दद्यात् पौष्ण्यं दारवमेव वा।
वास्त्रं वा चार्मणं कौशं मण्डलस्योत्तरे सृजेत्।। ६८.२ ।।

यदैव दीयते पद्मे मण्डलस्य तदुत्सडजेत् ।
वाक्‌पुष्पतोयैः कुसुमं विना यच्छादकं भवेत्।। ६८.३ ।।

पद्मस्य तद्‌बहिर्देशे द्वारादौ विनिवेदयेत्।
अर्ध्यं पाद्यं चाचमनं स्नानीयं नेत्ररञ्जनम्।। ६८.४ ।।

मधुपर्कं च गन्धं च पुष्पं पद्मे निवेदयेत्।
प्रतिमासु च यद्‌योग्यं गात्रे दातुं च तत् तनौ।। ६८.५ ।।

दद्याद् योग्यं तु पुरतो नैवेद्यं भोजनादिकम्।
पौष्पासनं यद् विहितं यस्य तद्‌ यदि गर्भकम्।। ६८.६ ।।

निवेदयेत् तदा पद्मे विपुलं द्वारि चोत्सृजेत्।
पौष्पं पुष्पौघरचितं कुशसूत्रादिसंयुतम्।। ६८.७ ।।

अतिप्रीतिकरं देव्या ममाप्यन्यस्य भैरव।
यज्ञकाष्ठसमुद्‌भूतमासनं मसृणं शुभम्।। ६८.८ ।।

नोच्छ्रायं नातिविस्तीर्णमासनं विनियोजयेत्।
अन्यद् दारुभवं चापि दद्यादासनमुत्तमम्।। ६८.९ ।।

सकण्टकं क्षीरयुत दारुसारविवर्जितम्।
चैत्यश्मशानसम्भूतं वर्जयित्वा विभीतकम्।। ६८.१० ।।

वल्कलं कोषजं शाणं वस्त्रमेतत् त्रयं मतम्।
रोमजं कम्बलं चैतदनेन तु चतुष्टयम्।। ६८.११ ।।

अनेन रचितं दद्यादासनं चेष्टभूतये।
सिंहव्याघ्रतरक्षूणां छागस्य महिषस्य वा।। ६८.१२ ।।

गजानां तुरगाणां च कृष्णसारस्य चर्मणः।
सृमरस्याथ रामस्य मृगाणां नवभेदिनाम्।। ६८.१३ ।।

चर्मभिः सर्वदेवानामासनं प्रीतिदं श्रुतम्।
वस्त्रेषु कम्बलं शस्तमासनं देवतुष्टये।। ६८.१४ ।।

राङ्कवं चार्मणं श्रेष्ठं दारवं चन्दनोद्भवम्।
यच्चासनं कुशमयं तदासनमनुत्तमम्।। ६८.१५ ।।

सर्वेषामपि देवानामृषीणां च यतात्मनाम्।
योगपीठस्य सदृशमासनं स्थानमुच्यते।। ६८.१६ ।।

आसनस्य प्रदानेन सौभाग्यं मुक्तिमाप्नुयात्।
शम्बरो रोहितो रामो न्यङ्कुरङ्कशशा रुरुः।। ६८.१७ ।।

एणश्च हरिणश्चेति मृगा नवविधा मताः।
हरिणश्चापि विज्ञेयो पञ्चभेदोऽत्र भैरव।। ६८.१८ ।।

ऋष्यः खड्गो रुरुश्चैव पृषतश्च मगस्तथा।
एते वलिप्रदानेषु चर्मदानेषु कीर्तिताः।। ६८.१९ ।।

सर्वेषां तैजसानां च आसनं श्रेष्ठमुच्यते।
आयसं वर्जयित्वा तु कांस्यं सीसकमेव वा।। ६८.२० ।।

शिलामयं मणिमयं तथा रत्नमयं मतम्।
आसन देवताभ्यस्तु भुक्त्यै मुक्त्यै समुत्सृजेत्।। ६८.२१ ।।

अत्रैव साधकानां च आसनं शृणु भैरव।
यत्रासीनः पूजयंस्तु सर्वसिद्धिमवाप्नुयात्।। ६८.२२ ।।

ऐन्धनं चार्मणं वास्त्रं तैजसं च चतुष्टयम्।
आसनं साधकानां च सततं परिकीर्तितम्।। ६८.२३ ।।

तत् सर्वमासनं शस्तं पूजाकर्मणि साधके।
न यथेष्टासनो भूयात् पूजाकर्मणि साधकः।। ६८.२४ ।।

काष्ठादिकासनं कुर्यात् सितमेव सदा बुधः।
चतुर्विंशत्यङ्गुलेन दोर्घं काष्ठासनं मतम्।। ६८.२५ ।।

षोडशाङ्गुलविस्तीर्णमुच्छ्रायं चतुरङ्गुलम्।
षडङ्गुलं वा कुर्यात् तु नोच्छ्रितञ्चात आचरेत्।। ६८.२६ ।।

पूर्वोक्तं वर्जयेद् वर्ज्यमासनं पूजनेष्वपि।
वस्त्रं द्विहस्तान्नो दीर्घं सार्धहस्तान्न विस्तृतम्।। ६८.२७ ।।

न त्र्यङ्गुलात् तथोच्छ्रायं पूजाकर्मणि संश्रयेत्।
यथेष्टं चार्मणं कुर्यात् पूर्वोक्तं सिद्धिदायकम्।। ६८.२८ ।।

षडङ्गुलाधिकं कुर्यान्नोच्छ्रितं च कदाचन।
काम्बलं चार्मणं शैलं महामायाप्रपूजने।। ६८.२९ ।।

प्रशस्तमासनं प्रोक्तं कामाख्यायास्तथैव च।
त्रिपुरायाश्च सततं विष्णोश्चापि कुशासनम्।। ६८.३० ।।

बहुदीर्घं बहूंच्छ्रायं तथैव बहुविस्तृतम्।
दारु भूमिसमं प्रोक्तमश्मापि सर्वकर्मणि।। ६८.३१ ।।

पृथक् पृथक् कल्पयेत् तु बहिर्द्वारि तथासनम् ।
न पत्रमासनं कुर्यात् कदाचिदपि पूजने।। ६८.३२ ।।

न प्राण्यङ्ग-समुद्‌भूतमस्थिजं द्विरदादृते।
मातङ्गदन्तसञ्जातं कामिकेष्वासनं चरेत्।। ६८.३३ ।।

चार्मं पूर्वोदितं ग्राह्यं तथा गनधमृगस्य च।
सलिले यदि कुर्वीत देवतानां प्रपूजनम्।। ६८.३४ ।।

तत्राप्यासन आसीनो नोत्थितस्तु कदाचन।
तोये शिलामयं कुर्यादासनं कौशमेव वा।। ६८.३५ ।।

दारवं तैजसं वापि नान्यदासनमाचरेत्।
आसनारोपसंस्थानं स्थानाभावे तु पूजकः।। ६८.३६ ।।

आसनं कल्पयित्वा तु मनसा पूजयेज्जले।
यद्यासितुं न संस्थानं विद्यते तोयमध्यतः।। ६८.३७ ।।

अन्यत्र वा तदा स्थित्वा देवपूजां समाचरेत्।
इत्येतत् कथितं पुत्र पूज्यपूजकसङ्गतम्।। ६८.३८ ।।

आसनं पाद्यमधुना शृणु वेताल भैरव।
पादार्थमुदकं पाद्यं केवलं तोयमेव तत्।। ६८.३९ ।।

तत् तैजसेन पात्रेण शङ्खेनापि प्रदापयेत्।
धर्मार्थकाममोक्षाणां सस्थानं पाद्यमिष्यते।। ६८.४० ।।

तदासनोत्तरं दद्यान्मूलमन्त्रेण सर्वतः।
कुशपुष्पाक्षतैश्चैव सिद्धार्थैश्चन्दनैस्तथा।। ६८.४१ ।।

तोयैर्गन्धैर्यथालब्धैर्घ्यं दद्यात् तु सिद्धये।
अर्ध्येण लभते कामानर्ध्येण लभते धनम्।। ६८.४२ ।।

पुत्रायुःसुखमोक्षाणि दानादर्ध्यस्य वै लभेत्।
न दद्याद् भास्करायार्घ्यं शङ्खतोयैर्विचक्षणः।। ६८.४३ ।।

तथा न शुक्तिपात्रेण विष्णवेऽर्घ्यं निवेदयेत् ।
दद्यादाचमनीयं तु सुगन्धिसलिलैः शुभैः।। ६८.४४ ।।

कर्पूरवासितैर्वापि कृष्णागुरुविधूपितैः।
यथा तथा सुगन्धैर्वा प्रसङ्गैः फेनवर्जितैः।। ६८.४५ ।।

तत् तैजसेन पात्रेण शङ्खेनापि प्रदापयेत्।
उदकं दीयते यत् तु प्रसन्नं फेनवर्जितम्।। ६८.४६ ।।

आचमनाय देवेभ्यस्तदाचमनमुच्यते।
केवलं तोयमात्रेण तद् वा दद्यान्न मिश्रितम्।। ६८.४७ ।।

वासितं तु सुगन्धाद्यैः कर्तव्यं यदि लभ्यते।
आयुर्बलं यशोवृद्धिं प्रदायाचमनीयकम्।। ६८.४८ ।।

लभते साधको नित्यं कामांश्चैव यथोत्थितान् ।
दधिर्सर्पिर्जल क्षौद्रं सिता ताभिश्च पञ्चभिः।। ६८.४९ ।।

प्रोच्यते मधुपर्कस्तु सर्वदेवौघतुष्टये।
जलं तु सर्वतः स्वल्पं सितादधिघृतं समम्।। ६८.५० ।।

सर्वेभ्य श्चाधिकं क्षौद्रं मधुपर्केप्रयोजयेत्।
तद्‌ दद्यात् कांस्यपात्रेण रौक्मस्वेतमयेन वा।। ६८.५१ ।।

ज्योतिष्टोमाश्वमेधादौ पूर्ते चेष्टे च पूजने।
मधुपर्कः प्रदिष्टोऽयं सर्वदेवौघतुष्टिदः।। ६८.५२ ।।

धर्मार्थकाममोक्षाणां साधकः परिकीर्तितः।
मधुपर्कः सौख्यभोग्यतुष्टिपुष्टिप्रदायकः।। ६८.५३ ।।

पिष्टातकोऽथ कस्तूरी रोचनं कुङ्कुमं तथा।
गुडः क्षौद्रं पञ्चगव्यं सर्वौषधिगणस्तथा।। ६८.५४ ।।

सिता निर्णेजनं तैलं स्निग्धस्नेहेन तत्‌तिलाः ।
प्रान्ते तोयमिति प्राक्तं स्नानीयं कल्पकोविदैः।। ६८.५५ ।।

स्वर्णरत्नोदकं चैव कर्पूराद्यधिवासितम्।
तैजसैः कांस्यपात्रैर्वा शङ्खैर्वा तन्निवेदयेत्।। ६८.५६ ।।

मण्डले केशरे देयमादित्यप्रतिमासु च।
शिवलिङ्गे तथा भोगे पीठे देवतनौ तथा।। ६८.५७ ।।

 सद्यः स्निग्धं मृन्मयं वा सर्पिःसिन्दुरजे तथा।
श्रीचन्दनप्रतिष्ठे वा लेपयेत् प्रतिमातनौ।। ६८.५८ ।।

स्वस्तिकस्थापिते खड्गे स्नापयेद् दर्पणेऽथ वा।
एवं दद्यात् तु स्नानीयं महादेव्यै विशेषतः।। ६८.५९ ।।

रवि विष्णुशिवेभ्यो वा यत्र तत्र प्रपूजने।
पूजकः स्नानदानात् त् चिरायुरुपजायते।। ६८.६० ।।

सम्यक् स्नानप्रदानात् तु कल्पान्तं स्वर्गभाग्‌भवेत्।
यदेव दीयते पाद्यं गन्धपुष्पादिकं तथा।। ६८.६१ ।।

उपाचारांस्तथा सर्वानर्घ्यपात्राहितैर्जलैः।
अमृतीकरणाद्यैस्तु संस्कृतैस्त्वभिषिच्य तैः।। ६८.६२ ।।

प्रदद्यादिष्टदेवेभ्यो गृह्णाति च ततः स्वयम्।
अर्घ्यपात्राणि तैस्तोयैर्विना यद्‌विनिवेदनम्।। ६८.६३ ।।

दीयते चेष्टदेवेभ्यः सर्वं तन्निष्फलं भवेत्।
रागाल्लोभात् प्रमादाद् वा ह्यर्ध्यं पात्रामृतीकृतम्।। ६८.६४ ।।

तोयं स्रुतं स्यात् पात्रात् तु पुनः कुर्यात् तदामृतम्।
स्वल्पावशेषतोये तु पात्रस्थे ह्यमृतीकृते।। ६८.६५ ।।

तत्रान्यदुदकं दद्यात् तत्‌तैनैवामृतं भवेत्।
बहूनि यदि पुष्पाणि माला वा प्रचुरा यदि ।। ६८.६६ ।।

दीयन्ते चार्घ्यपात्रस्थैर्जलैः संसिच्य चोत्सृजेत्।
अन्यतोयैर्यदुत्सृष्टमर्ध्यपात्रस्थितेतरैः।। ६८.६७ ।।

तन्न गृह्वातीष्टदेवो दत्तं विधिशतैरपि।
संस्कृते त्वर्घ्यपात्रे तु नवभिः प्रतिपत्तिभिः।। ६८.६८ ।।

तिष्ठन्ति सवतीर्थानि पीयूषाणि च सर्वतः।
तस्मात् तत्र स्थितैस्तोयैरभ्युक्ष्योपचारानुत्सृजेत्।। ६८.६९ ।।

न योग्यमर्घ्यपात्रेषु निधाय विनिवेदयेत्।
इदं ते भैरव प्रोक्तं षट्कं चैवासनादिकम्।
वस्त्रादि दश वक्ष्यामि शृणु विज्ञानवृद्धये।। ६८.७० ।।

इति श्रीकालिकापुराणे अष्टषष्टितमोऽध्यायः।।