कालिकापुराणम्/अध्यायः ६५

विकिस्रोतः तः
Jump to navigation Jump to search

।।श्रीभगवानुवाच।।
शरत्काले पुरा यस्मान्नवम्यां बोधिता सुरैः।
शारदा सा समाख्याता पोठे लोके च मानव ।। ६५.१ ।।

तस्यां तु नेत्रबीजाख्यं मन्त्रं प्राक् प्रतिपादितम्।
दुर्गातन्त्रं च तन्मन्त्रमङ्गमन्त्रं पुरोदितम्।। ६५.२ ।।

ताभ्यामेव तु मन्त्राभ्यां पूजयेत् तां जगन्मयीम्।
तृतीयं पीठमन्त्रं तु शारदाया अनुत्तमम्।। ६५.३ ।।

शृणुतं चैकमनसा चतुर्वर्गप्रदयाकम्।
चतुर्थस्वरसंयुक्तमुपान्तो वह्निना युतः।। ६५.४ ।।

कामराजं तथा नान्तमुपान्तस्वरसंयुतम्।
वह्निना चापि सन्दीप्तः सर्वबिन्द्‌बिन्दुसंयुतः।। ६५.५ ।।

हादिः समाप्तिसहित एतद्‌बीजं चतुर्थकम्।
चतुर्भिरेभिः कथितो मन्त्रोक्तैश्च षडक्षरैः।। ६५.६ ।।

अयं तृतीयो मन्त्रस्तु शारदायाः प्रकीर्तितः।
अनेन पूजयेत् पीठे सर्वसिद्धिमवाप्नुयात्।। ६५.७ ।।

रूपमस्याः पुरा प्रोक्तं सिंहस्थं दशबाहुभिः।
तत्र पूजाक्रमं सम्यक् शृणुतं पुत्रकौ मम।। ६५.८ ।।

चतुर्द्वारमण्डलं तु कुर्यात् तत्र विभूतये।
महामायामण्डलं तु शारदायस्तु मण्डलम्।। ६५.९ ।।

वैष्णवीतन्त्रकल्पोक्तैर्मन्त्रस्थानादिमार्जनम्।
कृत्वा तु नेत्रबीजेन मण्डलं प्रस्तरे लिखेत्।। ६५.१० ।।

योनावष्टदलं कृत्वा त्रिकोणं मध्यतो न्यसेत्।
अयं विशेषः कथितो वैष्णवीमण्डलात् पुनः।। ६५.११ ।।

मण्डलोल्लेखनं चैव तथा भूतापसारणम्।
पात्रस्य प्रतिपत्तिस्तु अमृतीकरणं तथा।। ६५.१२ ।।

गन्धपुष्पाम्भसां क्षेप आत्मासनप्रपूजनम्।
प्राणायामश्च त्रिविधो भूतिशुद्धिप्रवेशनम्।। ६५.१३ ।।

दहनप्लवने चैव पाणिकच्छपिका तथा।
योगपीठस्य च ध्यानं वैष्णवोतन्त्रभाषितम्।। ६५.१४ ।।

तथैवोत्तरतन्त्रोक्तं कुर्याद् देव्याः प्रपूजनम् ।
अमृतीकरणं कुर्यात् सलिले धेनुमुद्रया।। ६५.१५ ।।

रूपं त्वेवं दशभुजं पूर्वोक्तं तु विचिन्तयेत्।
अङ्गन्यासकरन्यासौ दुर्गातन्त्रेण भैरव।। ६५.१६ ।।

नवाक्षरेण वै कुर्यादङ्गुष्ठादि क्रमेण तु।
हृदयादिक्रमाद् पश्चाद् वक्त्रादावपि पूर्ववत्।। ६५.१७ ।।

एतदेवार्घपात्रे चाष्टधा मन्त्रं जपेत् सुधीः।
तत् तोयैः सेचयेच्छीर्षं पुष्पगन्धादिकं तथा।। ६५.१८ ।।

एवं पूजाक्रमं तत्र कुर्याद् देव्यास्तु मण्डले।
आदित्यं चण्डिकारूपं ध्यात्वा पूर्वे शिलातले।। ६५.१९ ।।

तस्मै निवदयेदर्घ्यं सिद्धार्थाक्षत पुष्पकैः।
आधारशक्तिप्रभृतीन् क्लीँ मन्त्रेण च साधकः।। ६५.२० ।।

पूजयेत् प्रथमं मध्ये धर्मादीनपि पूर्ववत्।
सत्त्वादोन् गुरुपादान्तान् पूर्वतन्त्रोदितान् बुधः।। ६५.२१ ।।

पूजयेन्मध्यपद्‌मे तु सुमेरुमपि मध्यतः।
पूर्वभागे मण्डलस्य देव्याः शक्तीः प्रपूजयेत्।। ६५.२२ ।।

नाथकामेस्वरादींस्तु लौहित्यान्तान् विशेषतः।
सर्वान् वै पीठदेवांस्तु मण्डलस्योत्तरे यजेत्।। ६५.२३ ।।

मणिकर्णं चित्ररथं भस्मकूटं तथैव च।
श्वेतं नीलं च चित्रं च वाराहं गन्धमादनम्।। ६५.२४ ।।

मणिकूटं नन्दनं च पश्चिमे पूजयेदिमान्।
जल्पीशमथ केदारं देवीं दिक्करवासिनीम्।। ६५.२५ ।।

धात्रीं स्वधां तथा स्वाहां मानस्तोकापराजिते।
दक्षिणे पूजयेदेताश्चतुःषष्टिं च योगिनी।। ६५.२६ ।।

ग्रहांश्च दशदिक्पालान् पूर्वाद्युक्तक्रमेण तु।
पूर्ववत् पूजयेद् धीमान् भैरव भैरवीमपि।। ६५.२७ ।।

ततः कच्छपिकां बद्‌ध्वा पुनरेव तु पूजकः।
ध्यायेच्च पूर्ववद् देवीं हृदिस्थां मनसापि च।। ६५.२८ ।।

मानसैर्गन्धपुष्पाद्यैः पूजयित्वा हृदि स्थिताम्।
नासापुटेन निःसार्य दक्षिणेनाथ मण्डले।। ६५.२९ ।।

पुष्पमारोप्य कामाख्यां शारदामाह्वयेन्मुहुः।
एह्येहि परमेशानि सान्निध्यमिह कल्पय।। ६५.३० ।।

पूजाभागं गृहाणेमं मूखं रक्ष नमोऽस्तु ते ।
दुर्गे दुर्गे इहागच्छ सर्वैः परिकरैः सह।। ६५.३१ ।।

पूजाभागं गृहाणेम मखं रक्ष नमोऽस्तु ते।
नारायण्यै विद्महे चण्डिकायै तु धीमहि।। ६५.३२ ।।

शेषभागे तु गायत्र्यास्तन्नश्चण्डि प्रचोदयात्।
दत्त्वा स्नानमनेनैव दुर्गा तन्त्रण वै पुनः।। ६५.३३ ।।

नेत्रबीजेन च तथा पीठमन्त्रेण चान्तरम्।
चतुरक्षरेण शेषेण त्रिभिर्मन्त्रैः प्रपूजयेत्।। ६५.३४ ।।

चतुरक्षरमन्त्रेण पाद्यादीनथ षोडश।
वितरेदुपचारांस्तु पूर्वोक्तांस्तांस्तु भेरव।। ६५.३५ ।।

दुर्गातन्त्रेण मन्त्रेण देव्यङ्गानि प्रपूजयेत्।
दूर्गेत्यनेन हृदयं पुनर्दुर्गेत्यनेन कम्।। ६५.३६ ।।

शिखाकवचनेत्रञ्च पादपादांश्च पञ्चभिः।
वादिपञ्चाक्षरैः शेषैः पूजयेत् क्रमतः सुधीः।। ६५.३७ ।।

पूर्वाद्यष्टदलेष्वेताः पूजयेन्नाधिकक्रमात्।
जयन्तीं पूर्वपत्रे तु आग्नेय्यादौ तु मङ्गलाम्।। ६५.३८ ।।

कालीं च भद्रकालीं च तथा चैव कपालिनीम्।
दुर्गां शिवां क्षमां चैव क्रमादेव तु नामतः।। ६५.३९ ।।

केशवस्य तु मध्ये तु अष्टावेतास्तु नायिकाः।
नेत्रबीजस्य मन्त्रेण बीजेन षट्‌सु नायिकाः।। ६५.४० ।।

अमीषां च तथवासौ षड्‌भिरेतान्तराहितैः।
ह्राँ ह्राँ श्रोमित्युपान्तां तु प्रान्तामाद्यस्वरेण वै।। ६५.४१ ।।

उग्रचण्डां प्रचण्डां च चण्डोग्रां चण्डनायिकाम्।
चण्डां चण्डवतीं चैव चण्डरूपां च चण्डिकाम्।। ६५.४२ ।।

त्रिकोणकेशरान्तं च कामं प्रीतिं रतिं तथा।
पञ्चबाणान् पुष्पधनुः पूजयेत् काममन्त्रकैः।। ६५.४३ ।।

अष्टपुष्पिकया पश्चात् सम्पूज्य परमेश्वरीम्।
देव्यास्तु करगृह्याणि शस्त्राण्यस्त्राणि वाहनम्।। ६५.४४ ।।

पञ्चाननं केशरं च देव्यग्रे तु प्रपूजयेत्।
पीठदेवीं शारदां तु कामाख्यामधिदेवताम्।। ६५.४५ ।।

त्रिपुराख्यां महादेवीं पीठमत्यधिदेवताम्।
कामेश्वरीं महोत्साहां मध्य एव प्रपूजयेत्।। ६५.४६ ।।

चतुरक्षरमन्त्रेण दद्यात् पुष्पाञ्जलित्रयम्।
जप्त्वा स्तुत्वा बलिं दत्त्वा नमस्कृत्यावगुण्ठ्‌य च।। ६५.४७ ।।

योनिमुद्रां प्रदर्श्याथ निर्माल्यं दिशि शूलिनः ।
चण्डेश्वर्यै नमः इति निक्षिप्य च विसर्जयेत्।। ६५.४८ ।।

ततस्तु भास्करायार्घ्य दद्याच्छिद्रावधारणम्।
देवीं च हृदये स्थाप्य स्थापयेद् योनिमण्डले।। ६५.४९ ।।

एवं देवी तु कामाख्यां योनिमुद्रां जगन्मयीम्।
शारदाख्यां महादेवीं योगेन विधिना यजेत्।। ६५.५० ।।

सर्वकामान् सुसम्प्राप्य शिवलोकमवाप्नुयात्।
यदि पीठं विनान्यत्र पूजयेत् कामरूपिणीम्।। ६५.५१ ।।

नीलकूटे तदाप्येतत् सर्वमेव समाचरेत्।
यदान्यत्र यजेद् देवीं जले वा स्थण्डिलेऽपि वा।। ६५.५२ ।।

शिलादिषु च वह्नौ वा देवपीठे यथेच्छया।
यजेद् वा न यजेद् वापि पीठेऽवश्यं प्रपूजयेत्।। ६५.५३ ।।

एवं यः पञ्चभिर्मन्त्रैः पञ्चमूर्तिधरां शिवाम्।
एकैकेनाथ वा तस्य स्वयं स्याद् वरदायिका ।। ६५.५४ ।।

विघ्ना न तस्य जायन्ते नाधयो व्याधयस्तथा।
न तस्य सदृशोऽन्यः स्याद् धनधान्यसमृद्धिभिः।। ६५.५५ ।।

गवां कोटिप्रदानात् तु यत्फलं जायते नृणाम्।
तत्फलं समवाप्नोति कामाख्यां पूजयन्नरः।। ६५.५६ ।।

दशपूर्वान् दशपरान् वंशानुद्‌धृत्य पापतः।
सकृत् सम्पूजनेनैव मम लोकमवाप्नुयात्।। ६५.५७ ।।

द्विः सम्पूज्य महादेवीं कामाख्यां योनिमण्डले।
शतं वंश्मान् समुद्‌धृत्य देवीलोकमवाप्नुयात्।। ६५.५८ ।।

यस्त्रिवारान् पूजयेत् तु विधिनानेन मानवः।
नीलपर्वतमारुह्य कामाख्यां योनिमण्डले।। ६५.५९ ।।

स सहस्रं तु वंशानामुद्‌धृत्य पापकोषतः ।
इहलोके सुखैश्वर्यचिरायुष्यमवानुयात्।। ६५.६० ।।

देहान्ते मद्‌गृहं प्राप्य गणानामधिपो भवेत्।
यस्यां कस्यामथाष्टम्यां नवम्यां वापि साधकः।। ६५.६१ ।।

पञ्चरूपां तु कामाख्यां पञ्चमन्त्रैः सतन्त्रकैः।
पूजयेद् वरदां देवीं मण्डलैश्च पृथक् पृथक्।। ६५.६२ ।।

ध्यात्वा तु पञ्चरूपाणि जप्त्वा मन्त्रांश्च पञ्च वै।
कल्पकोटिसहस्राणि मम लोके च मानवः।। ६५.६३ ।।

स्थित्वा देवीप्रसादेन परे निर्वाणमाप्नुयात्।
इह लोके वाञ्छितार्थं सुखं प्राप्य यशस्तथा।। ६५.६४ ।।

रिपूञ्जित्वा स धर्मात्मा मातङ्गानिव केसरी।
चिरायुः पुत्रपौत्रैश्च विभवैश्च समन्वितः।। ६५.६५ ।।

क्रीडयित्वा ह्यमरवद् युवतीभिश्च सादरात्।
यक्षरक्षःपिशाचानां नेता भवति नित्यशः।
सर्वान् कामानवाप्यैव द्विजराजसमो भवेत्।। ६५.६६ ।।

इति श्रीकालिकापुराणे पञ्चषष्टितमोऽध्यायः।।