कालिकापुराणम्/अध्यायः ३५

विकिस्रोतः तः

कालिकापुराणम् पञ्चत्रिंशोऽध्यायः शरभकायत्यागः
अथ श्रीकालिका पुराण अध्याय ३५
॥ मार्कण्डेय उवाच ।।
ईश्वरः शारभं कायं यथा तत्याज यत्नतः ।
तन्मे निगदतो भूयः शृणुध्वं द्विजसत्तमाः ।।१।।
हते यज्ञवराहे तु ब्रह्मा लोकपितामहः ।
उवाच शरभं गत्वा सामयुक्तं जगद्धितम् ।।२।।
।। ब्रह्मोवाच ।।
देहाभोगेन भवत:पूरितं भूरियोजनम् ।
उपसंहर तस्मात् त्वं कायं लोकभयङ्करम् ।।३।।
तव युद्धेन सकलं प्रणष्टं भुवनत्रयम् ।
आकाशं गन्तुं त्वां दृष्ट्वा विभेत्यद्य जनार्दनः ।
तस्मात् त्वमूर्धलोकानां हिताय त्यज वै तनुम् ।।४।।
।। मार्कण्डेय उवाच ।।
ततस्तस्य वचः श्रुत्वा सुरज्येष्ठस्य शङ्करः ।
तत्याज शारभं कायं तोयोपर्येव तत्क्षणात् ।।५।।
त्यक्तस्य तस्य देहस्य शङ्करेण महात्मना ।
अष्टौ पादा अष्टमूर्तेस्तेषु चाष्टसु भेजिरे ॥६॥
आद्यन्तु दक्षिणं पादमाकाशमगमद्द्द्रुतम् ।
तद्वामं मिहिरं भेजे पश्चाद् दक्षिणजं विधौ ।।७।।
वामन्तु ज्वलनं भेजे पृष्ठाग्रं पद्गतं क्षितिम् ।
पृष्ठाग्रवामं सलिलं तत्पश्चाद् दक्षिणं तथा ।
ययौ वामपदं भेजे होतारं सर्वतोमुखम् ।।८।।
एवं तस्याष्टमूर्तेस्तु अष्टमूर्तिषु तत्क्षणात् ।
अष्टौ पादास्तथा भेजुः स्वं स्वं तेजो ययुः पदम् ।।९।।
मध्यं तु शारभं कायं शङ्करस्य महात्मनः ।
कपाली भैरवो भूतश्चण्डरूपी दुरासदः ।। १० ।।
मस्तिष्कमेदसा युक्तं मांसं जुह्वति ते शुचौ ।
ब्रह्मकपालपात्रस्थं सुराभिर्देवपूजनम् ।।११।।
बलिर्मनुष्यमांसेन पानं तु रुधिरं सदा ।
सुरया पारणं यज्ञे कपालोक्षटधारणम् ।।१२।।
व्याघ्रचर्मपरिधानं समलं त्रिवलीवृतम् ।
एवं कुर्वन्ति सततं कपालव्रतधारिणः ।
कपाली भैरवस्तेषां देव: पूज्यंस्तु नित्यशः ।। १३ ।।
महाभैरव रूप वर्णन
श्मशान भैरवो योऽसौ यो महाभैरवाह्वयः ।।१४।।
बालसूर्यसमोद्योतः सदाष्टादशबाहुभिः ।
बिभ्राजमानो रक्ताक्षः सर्वदा नायिकाव्रजैः ।। १५ ।।
कालीप्रचण्डाप्रमुखैः क्रीडमानस्तु नित्यशः ।
सद्योदग्धनृमांसाशी गलल्लोललसद्भुजः ।।१६।।
लोहिताहारविघसः प्रेताशनगतः सदा ।
स्थूलवक्त्रोऽथ लम्बोष्ठो ह्रस्वस्थलपदालयः ।
विनोदी वादनो लोके साट्टहासत्सु भैरवः ।। १७ ।।
एवं स च महादेवो महाभैरवरूपधृक् ।
मध्यशार भकायेन कार्य द महाभुजः ।। १८ ।।
स जगाम ततो देवा हरस्य प्रमथान् प्रति ।
गणैः सार्धं तथाकाशे विक्रीडति स भैरवः ।। १९ ।।
स महाभैरवो देवः पूज्यमानो जगज्जनैः ।
अद्यापि कुरुते नित्यमिष्टकामस्य साधनम् ।।२०।।
चैत्र-शुक्लचतुर्दश्यां मध्वासवपयः फलैः ।
मांसैर्मत्स्यैः सरुधिरैः सकृद्यो भैरवं यजेत् ।। २१ ।।
स सर्वकामान् संसाध्य भोगान् भुक्त्वा यथेष्टतः ।
प्रयाति शम्भुभवनमारुह्य वृषभं वरम् ।। २२।।
एतद्वः कथितं सर्व यत्पृष्टोऽहं द्विजोत्तमैः ।
भवद्भिर्यच्च वोऽन्यद् वा रोचते पृच्छ मां तु तत् ।। २३ ।।
॥ इति श्रीकालिकापुराणे शरभकायत्यागे पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand