कालिकापुराणम्/अध्यायः २४

विकिस्रोतः तः

कालिकापुराणम् चतुर्विंशोऽध्यायः संहारकथनम्
अथ कालिका पुराण अध्याय २४
।। मार्कण्डेय उवाच ।।
ततो हिमवतः प्रस्थे गिरे: शिप्रसरस्तटे ।
उपविष्टो महादेवस्तत्सरोऽपश्यदन्तिके ।।१।।
पुनः पुनः प्रेष्यमाणो ब्रह्मणा हरिणा च सः ।
ध्यानं कर्तुं तत्र मनः स्थिरं कृत्वा दृढात्मवान् ।।२।।
आत्मानमात्मना द्रष्टुमात्मन्येव विशेषतः ।
परमं यत्नमकरोद् ध्यानेन स्मरशासनः ।।३।।
ध्याने प्रविष्टचित्तन्तु तं दृष्ट्वा द्रुहिणादयः ।
हरे प्रविष्टां मायाख्यां तुष्टुवुर्यतमानसाः ।।४।।
मायया मोहितो भर्गः सतीशोकाकुलो भृशम् ।
विलपत्येव तां तस्मिन् मोहहेतुं जगत्प्रसूम् ॥५॥
स्तुत्वा शम्भुशरीरात्तु निःसार्यैनां निराकुलम् ।
शम्भुचित्तं करिष्यामो ध्यानासक्तं निरञ्जनम् ॥६॥
यावत् सती पुनर्देहं गृहीत्वा हरभामिनी ।
भवित्री तावदेवेष विशोको ध्यातु निष्कलम् ॥७॥
इति संचित्य मनसा ब्रह्माद्यास्त्रिदिवौकसः ।
योगनिद्रां महामायां स्तोतुमेवं समारभन् ॥८ ॥
आगे श्लोक ९ से २७ में DP Karmakand अन्तर्मायास्तुतिः को दिया गया है ।
।। मार्कण्डेय उवाच ।।
योगनिद्रा महामाया संस्तुतेयं तदा सुरैः ।
हरस्य हृदयात् क्षिप्रं निःससार तदाञ्जसा ।। २८ ।।
विनिःसृतायां तु तस्यां विवेश मधुसूदनः ।
शम्भोरन्तः स्वयं तस्य शान्त्यर्थं विश्वरूपधृक् ।। २९ ।।
प्रविश्य हृदयं तस्य कल्पे कल्पे यथाभवत् ।
सृष्टि: स्थितिस्तथैवान्तस्तथादर्शयदच्युतः ।। ३० ।।
यथा सती तस्य जाया भूता सा या च यत्सुता ।
तत् सर्वं दयामास मुक्तदेहा च सा यथा ।। ३१ ।।
वहिर्व्यक्तं तु निःसारं प्रपञ्चं रजसं बहु ।
दर्शयित्वा परं ज्योतिर्गतचित्तं तदाकरोत् ।।३२।।
ततो हरोऽपि तान् सर्वान् प्रपञ्चान् वीक्ष्य चासकृत् ।
निःसारांश्च तदा मत्वा सारे चित्तं न्यवेशयत् ।। ३३ ।।
ब्रह्मादीनां तदा माया देवानां तैः परिष्टुता ।
प्रतिश्रुत्य च कर्तव्यं तत्रैवान्तर्दधे द्रुतम् ।।३४।।
भगवानपि वैकुण्ठः शम्भोश्चित्तं पदे पदे ।
संयम्य निःसृतः कायाद्राजेव रविमण्डलात् ।। ३५ ।।
कृतकृत्यास्तदा देवा ब्रह्मनारायणादयः ।
स्वं स्वं स्थानं ययुः प्रीतियुतास्त्यक्त्वा हरं गिरौ ।। ३६ ।।
ध्यानासक्तं महादेवं प्रणम्येन्द्रादयः सुराः ।
विज्ञाप्य मौनिनं देवं जग्मुः स्थानं स्वकं स्वकम् ।। ३७।।
यातेषु तेषु देवेषु कपर्दी वृषवाहनः ।
सहस्रं दिव्यमानेन दध्यौ ज्योतिः परं समाः ।। ३८ ।।
।। ऋषय ऊचुः ।।
कथं मधुरिपुः शम्भोः प्रविश्य हृदयेऽञ्जसा ।
कल्पे कल्पे स्थितिं सृष्टिं संयमञ्चाप्यदर्शयत् ।। ३९ ।।
यथा जगत्प्रपञ्चाय रजसा जगतीं गताः ।
निःसारता कथं तेषां दर्शिता कैटभारिणा ।। ४० ।।
किन्नु सारतरं गुह्यं परं ज्योतिः सनातनम् ।
दर्शितं तेन तत् सत्यमाचक्ष्व द्विजसत्तम ।।४१।।
श्रोतुमिच्छाम इति ते मुनीन्द्राद्भुतमुत्तमम् ।
विस्तरादिदमाख्याहि धर्मं निःश्रेयसं परम् ।।४२।।
।। मार्कण्डेय उवाच ।।
आदिसर्गमहं वक्ष्ये वाराहं द्विजसत्तमाः ।
कल्पे कल्पे यथा सृष्टिर्वाराहे यादृशी भवेत् ।। ४३ ।।
आदिसृष्टिं दर्शयित्वा प्रतिसर्गं तथा हरिः ।
शम्भवे दर्शयामास प्रलयादीन् निबोधत ।।४४ ।।
प्रलयं प्रथमं वक्ष्ये सर्गमादिं ततः परम् ।
प्रतिसर्ग ततो विप्रा वाराहं विनिबोधत ।। ४५ ।।
निमेषो नाम कालांशो नेत्रोन्मेषविलक्षितः ।
तैरष्टादशभिः काष्ठा काष्ठानां त्रिंशता कला ।। ४६ ।।
कलाभिस्तावतीभिस्तु क्षणाख्यं परिकीर्तितः ।
क्षणैर्द्वादशभिः प्रोक्तो मुहूर्तस्तैस्तु त्रिंशता ।।४७ ।।
मानुषः स्यादहोरात्रः पक्षस्ते दश पञ्च च ।
पक्षाभ्यां मानुषो मासः पितॄणां तदहर्निशम् ।।४८ ।।
कृष्णपक्षः पितॄणां तु कर्मार्थं दिवसो मतः ।
स्वप्नार्थ शुक्लपक्षस्तु रजनी परिकीर्तिता ।। ४९ ।।
मासैर्द्वादशभिर्वर्षो देवानां तदहर्निशम् ।
देवानां तु दिनं प्रोक्तं षण्मासा उत्तरायणम् ।
रात्रिः स्वप्नाय देवानां षण्मासा दक्षिणायनम् ।। ५० ।।
द्वाभ्यां द्वाभ्यान्तु मासाभ्यामर्कजाभ्यामृतुः स्मृतः ।
ऋतुभिश्चायनं प्रोक्तं त्रिभिस्तन्मानुषं मतम् ।।५१।।
ऋतुभिर्वत्सरः षड्भिस्तांश्च शृणु पृथक् पृथक् ।
चैत्रादि-मासयुगलैः संज्ञाभेदाद् द्विजोत्तमाः ।। ५२ ।।
वसन्तश्चैत्र वैशाखो ग्रीष्मो ज्येष्ठः शुचिस्तथा ।
प्रावृट् नभोनभस्यौ तु शरत् स्यादिष-कार्तिके ।। ५३ ।।
सहः पौषौ च हेमन्तः शिशिरो माघफाल्गुनौ ।
षडिमे ऋतवः प्रोक्ता यज्ञादौ विहिताः पृथक् ।। ५४ ।।
नृणां मानेन दशभिर्लक्षैः सप्तभिरुत्तरैः ।
अष्टाविंशतिसाहस्त्रैर्मानं कृतयुगस्य तु ।। ५५ ।।
सन्ध्या चतुःशतानीह वर्षाणामन्तरालतः ।
सन्ध्यांशस्तावता प्रोक्तस्तदन्तर्गत ईप्सितः ।। ५६ ।।
त्रेता द्वादशभिर्लक्षैर्मानुषैर्वत्सरैर्भवेत् !
षण्णवत्या सहस्त्रैश्च सन्ध्या चास्य शतत्रयम् ।
शतत्रयं तु सन्ध्यांशस्तदन्तः परिकीर्तितः ।। ५७ ।।
चतुःषष्टिसहस्राणि लक्ष्याण्यष्टौ प्रमाणतः ।।५८।।
भवेद्युगं द्वापराख्यं तेषु सन्ध्या शतद्वयम् ।
शतद्वयं तु सन्ध्यांशस्तदन्तर्गत इष्यते ।। ५९ ।।
द्वात्रिंशत्तु सहस्राणि चतुर्लक्षाणि वै कलेः ।। ६० ।।
संवत्सरैर्भवेन्मानं सन्ध्यैकं प्रोच्यते शतम् ।
वत्सराणामेकशतं सन्ध्यांशश्च तदन्तरे ।। ६१ ।।
एवं कृतश्च त्रेता च द्वापरश्च तथा कलिः ।
मानुषेण प्रमाणेन भवेद् युगचतुष्टयम् ।।६२।।
त्रिचत्वारिंशता लक्षैर्मानञ्चातुर्युगं भवेत् ।
सहस्त्रैरपि विंशत्या सन्ध्या संध्यांशसंयुतम् ।। ६३ ।।
दैवं दिनं वत्सरेण मानुषेण सरात्रकम् ।
एवं क्रमं गणित्वा तु मानुषीयैश्चतुर्युगैः ।
दैवं द्वादशसाहस्रं वत्सराणां प्रकीर्तिम् ।।६४।।
देवैर्द्वादशसाहस्त्रैर्वत्सरैदैविकं युगम् ।
तद्वै चतुर्युगं नृणां सन्ध्या सन्ध्यांशसंयुतम् ।।६५ ।।
देवानां तु कृते त्रेताद्वापरदिव्यवस्थया ।
न युगव्यवहारोऽस्ति न च धर्मादिभिन्नता ।। ६६ ।।
किन्तु चातुर्युगं नारं भवेद्दैवयुगं सदा ।
दैविकैरेकसप्तत्या युगैर्मन्वन्तरं भवेत् ।। ६७।।
दैवयुगसहस्त्रे द्वे ब्रह्मण: स्यादहर्निशम् ।
चतुर्युगसहस्त्रे द्वे नृणां मानेन तद्भवेत् ।। ६८ ।।
एकस्मिन् ब्राह्मदिवसे मनवः स्युश्चतुर्दश ।
एवं ब्राह्मण मानेन दिवसैस्तु त्रिभिः शतैः ।
स- षष्टिभिर्वत्सरः स्याद् ब्राह्मो वर्षो नृणां यथा ।। ६९ ।।
ब्राह्मैः पञ्चशता वर्षैः परार्धः परिकीर्तितः ।
तदीश्वरस्य दिवसस्तावती रात्रीरीड्यते ।।७० ।।
शतेन ब्रह्मणो वर्षो कालः स्याद्विपरार्धकः ।
परार्धद्वितयेऽतीते ब्रह्मण: प्रलयोभवेत् ।
प्रलीने ब्रह्मणि परे जगतां प्राकृतो लयः ।।७१ ।।
समस्तजगदाधारमव्ययं यत् परात्परम् ।
तस्य ब्रह्मस्वरूपस्य दिवारात्रस्य यद् भवेत् ।
तत्परं नाम तस्यार्थं परार्धमभिधीयते ।।७२।।
जगत्स्वरूपी भगवान् परमात्माक्षयोऽव्ययः ।
स्थूलात् स्थूलतमः सूक्ष्माद् यस्तु सूक्ष्मतमो मतः ।। ७३ ।।
न तस्यास्ति दिवारात्रिव्यवहारो न वत्सरः ।।७४ ।।
किन्तु पौराणिकैः पूर्वैरस्माभिरपि तादृशैः ।
सृष्टिप्रलयबोधार्थं कल्प्यते तदहर्निशम् ।। ७५ ।।
स एव रात्रि: स दिवा स वर्ष: स वै क्षिति: सृष्टिकरो हरश्च ।
स विष्णुरूपी पुरुष: पुराण-स्तस्मिन् समस्तञ्च विभाति तद्वत् ।।७६।।
ततो ब्रह्मणि लीने तु परमात्मनि शाश्वते ।
जगत् सर्वं क्रमेणैव तद्रूपत्वाय गच्छति ।।७७।।
ब्रह्मण: शतवर्षान्ते रुद्ररूपी जनार्दनः ।
जगदन्तं स्वयं कृत्वा परमे लीनमेति वै ।।७८।।
प्रथमं सविता सर्व स्थावरं जङ्गमं तथा ।
तीव्रैः करैः शोषयित्वा जलं सर्वं ग्रहीष्यति ।।७९।।
शुष्का वृक्षास्तृणगणाः प्राणिनः पर्वतास्तथा ।
चूर्णीकृत्वा विशीर्णाः स्युर्दिव्यवर्षशतेन तु ।। ८० ।।
ततो द्वादशसूर्यस्य रश्मयः प्रबला भृशम् ।
अभवन् द्वादशादित्या जगद्भोग्योपबृंहिताः ।।८१।।
रश्मिद्वारेण सकलास्सूर्यास्ते भुवनानि च ।
अदहन् पृथिवी द्यौश्च मेदिनी चोष्णतां गता ।। ८२ ।।
ततो विनष्टे सकले स्थावरे जङ्गमे तथा ।
आदित्यरश्मितो देवो रुद्ररूपी जनार्दनः ।।८३ ।।
निःसृत्य प्रथमं यातः पातालतलमुन्नतः ।। ८४ ।।
सप्तपातालसंस्थांस्तु नागगन्धर्वराक्षसान् ।
देवानृषीश्च शेषञ्च जघान वरशूलधृक् ।। ८५ ।।
एवं स्वर्गे च पाताले पृथिव्यां सागरेषु च ।
ये प्राणिनस्तान् समस्तान् जघान स जनार्दनः ।। ८६ ।।
ततो मुखान्महावायुं रुद्रश्च सृष्टवान् स्वयम् ।
सोऽव्याहतगतिर्गाढं ससार भुवनत्रये ।।८७।।
यावद्वर्षशतं वायुर्भ्रमन् भुवनगर्भगः ।
सर्वमुत्सारयामास यत् किञ्चित्तूलराशिवत् ।।८।।
समस्तं तत् समुत्सार्य जगद्वर्ति समन्ततः ।
विवेश द्वादशादित्यान् स वायुर्जवनाधिकः ।। ८९ ।।
प्रविश्य मण्डलं तेषां तेजोभिः सह मारुतः ।
महामेघान् समारेभे रुद्रेण प्रतियोजितः ।। ९० ।।
ततस्ते प्रेरिता मेघास्तेन वातेन वेगिना ।
रुद्रेणाप्यतिरौद्रेण पर्यावब्रुर्नभस्तलम् ।। ९१ ।।
संवर्ताख्या महामेघा भिन्नाञ्जनचयोपमाः ।
केचिद्धूम्राः शोणवर्णाः शुक्लाश्चित्राश्च भीषणाः ।। ९२ ।
केचिच्च पर्वताकाराः केचिन्नागसमप्रभाः ।
प्रासादसदृशाः केचित् क्रौञ्चवर्णा विभीषणाः ।। ९३ ।।
गर्जन्तस्ते महामेघा वर्षाणामधिकं शतम् ।
ववृषुस्त्रीनथो लोकान् प्लावयन्तो महास्वनाः ।। ९४ ।।
अथ स्तम्भप्रमाणेन धारापातेन वै दृढम् ।
धारासारेण महता पूरितं भुवनत्रयम् ।। ९५ ।।
आध्रुवस्थानमासाद्य तोयराशौ स्थिते ततः ।
स मुखादसृजद्वायुं रुद्ररूपी जनार्दनः ।। ९६ ।
तेनौघवायुनाक्षिप्ता मेघाः संवत्सराञ्छतम् ।
अव्याहततेनाशु विध्वस्ता अभवंस्ततः ।। ९७ ।।
नष्टेषु तेषु मेघेषु जनलोकादिकं पुनः ।
रुद्रस्त्वाब्रह्मभुवनं ध्वंसयामास निर्दयः ।। ९८ ।।
विध्वस्तेषु समस्तेषु भुवनेषु विशेषतः ।
विनष्टे ब्रह्मलोके च रुद्रोऽगाद् द्वादशारुणान् ।। ९९ ।।
स गत्वा द्वादशादित्यान् वेगेन महता हरिः ।
अग्रसच्चातिजज्वाल तैर्गर्भस्थैदिवाकरैः ।। १०० ।।
ततो ब्रह्माण्डमासाद्य रुद्रः कालान्तकोपमः ।
चूर्णीचकार सकलं मुष्टिपेषं महाबलाः ।। १०१ ।।
चूर्णीकुर्वन्तु ब्रह्माण्डं पृथिव्यपि विचूर्णिता ।
तोयानि च समस्तानि स दध्रे योगतो हरिः ।। १०२ ।।
यद् ब्रह्माण्डाद्वहिस्तोयं स्थितं पूर्वं समन्ततः ।
यद्वाभ्यन्तर्गतं तोयं तत् सर्वञ्चैकतां गतम् ।। १०३ ।।
एकीभूतेषु तोयेषु सर्वव्यापिषु सर्वतः ।
ब्रह्माण्डखण्डपूर्णौघः प्लवन्नासीत् स नौरिव ।। १०४ ।।
ततः पृथिव्याः सारन्तु गन्धं तन्मात्रकं क्रमात् ।
अम्भो जग्राह सकलं विनष्टा पृथिवी ततः ।। १०५ ।।
पुनः स रुद्रस्तेजांसि गर्भस्थानि स्वकायतः ।
निःसारयामास पुन: पुंजीभूतानि भीषणः ।। १०६ ।।
तानि तेजांसि सकलं जगृहुः सर्वतः स्थितम् ।
अन्तर्बहिश्च ब्रह्माण्डात्तेजो यच्चान्यतो गतम् ।। १०७ ।।
जगद्वतं सर्वतेजो गृहीत्वा चैकतो ज्वलन् ।
रौद्रब्रह्माण्डखण्डानि तेजोऽथ न्यदहज्जले ।। १०८।।
दग्ध्वा ब्रह्माण्डचूर्णानि तेजांस्युज्ज्वलितानि च ।
जलेभ्यो रसतन्मात्रं सारभूतं ततोऽग्रहीत् ।
गृहीतसारास्ता आपः प्रनष्टास्तेजसा ततः ।। १०९ ।
अप्सु नष्टासु तत्तेजः प्रविश्याथ सदागतिः ।
एकीभूतो महाभागो रूपं तन्मात्रमग्रहीत् ।। ११० ।।
गृहीते रूपतन्मात्रे तेजांसि सकलान्यथ ।
विनष्टानि ततो वायुः प्रबलोऽभूदवारितः ।।१११।।
महास्वनं ततो वायुमासाद्याग्निरिवज्वलन् ।
रुद्रः संक्षोभयामास तदाकाशं स्वयं ततः ।। ११२ ।।
तेन संक्षुब्धमाकाशमग्रहीन्मरुतस्ततः ।
तद्गतं स्पर्शतन्मात्रं ततोनष्ट: प्रभञ्जनः ।। ११३ ।।
नष्टे वायौ ततो रुद्र आकाशात् रासमग्रहीत् ।
शब्दतन्मात्रकं तस्मिन् गृहीते विगतं वियत् ।। ११४ ।।
नष्टे नभसि रुद्रोऽसौ काये ब्राह्मे तदाविशत् ।
ब्राह्मं तदाकुलं कायं निराधारं निराकुलम् ।
विवेश वैष्णवे काये शङ्खचक्रगदाधरे ।। ११५ ।।
ततः शौरिर्महातेजाः कायं तत् पाञ्चभौतिकम् ।
शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् ।
स्वशक्त्या संजाहाराशु सारमादाय सर्वतः ।। ११६ ।।
निराधारं निराकारं निःसत्तं निरवग्रहम् ।
आनन्दमयमद्वैतं द्वैतहीनाविशेषणम् ।। ११७।।
न स्थूलं न च सूक्ष्मं यज्ज्ञानं नित्यं निरञ्जनम् ।
एकमासीत् परं ब्रह्म स्वप्रकाशं समन्ततः ।। ११८।।
नाहो न रात्रिर्न वियन्न पृथ्वी नासीत्तमो ज्योतिरभून्नचान्यत् ।
श्रोत्रादिबुद्ध्याद्युपलभ्यमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् ।। ११९ ।।
एवं यावत्स्थिता सृष्टिस्तावत् कालमसृष्टिकम् ।
आसीदेकं परं तत्त्वं ततः सृष्टिः प्रवर्तते ।। १२० ।।
प्रकृतौ संस्थितो यस्मात् सर्वतन्मात्रसञ्चयः ।
अहङ्कारं महत्तत्वं गतो यत् प्राकृतो लयः ।। १२१ । ।
प्रकृतौ संस्थितं व्यक्तमतीयप्रलयन्तु तत् ।
तस्मात् प्राकृतसंज्ञोऽयमुच्यते प्रतिसञ्चरः ।। १२२ ।।
अयं वः कथितो विप्राः प्राकृताख्यो महालयः ।
आदिसृष्टिं शृणुष्वेमां कथ्यमानां मया पुनः ।। १२३ ।।
॥ इति श्रीकालिकापुराणे संहारकथनं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand