सामग्री पर जाएँ

कालिकापुराणम्/अध्यायः २१

विकिस्रोतः तः

कालिकापुराणम् एकविंशोऽध्यायः चन्द्रशापमोक्षणम्
अथ कालिका पुराण अध्याय २१
।। ब्रह्मोवाच ।।
गच्छन्तु भोः सुरगणा दक्षस्य सदनं प्रति ।
प्रसादयत चन्द्रार्थे स च पूर्णो भवेद्यथा ॥१॥
पूर्णे चन्द्रे जगत्सर्वं प्रकृतिस्थं भविष्यति ।
युष्मा कंच भवेच्छान्तिरोषधीनाञ्च सम्भवः ।। २ ।।
।। मार्कण्डेय उवाच ।।
इति ब्रह्मवचः श्रुत्वा देवाः शक्रपुरोगमाः ।
प्रययुर्हृष्टमनसस्तदा दक्षनिवेशनम् ।।३।।
यथान्यायमुपस्थाय सर्वे मुनिवरं सुराः ।
प्रोचुः प्रजापतिं दक्षं प्रणम्य श्लक्ष्णया गिरा ॥४॥
।। देवा ऊचुः ।।
प्रसीद सीदतां ब्रह्मन्नस्माकं बहुदुःखिनाम् ।
उद्धरस्व महाबुद्धे त्राहि नः शोकसागरात् ।।५।।
यद्रूपं ब्रह्मसंज्ञन्तु सृष्टिकृत् परमात्मनः ।
तदंशस्त्वं परं ज्योतिर्विप्ररूप नमोऽस्तुते ।।६।।
रक्षणात् सर्वजगतां प्रजापालनकारणात् ।
दक्षः प्रजापतिश्चेति योगेशस्तं नुमो वयम् ।।७।।
दक्षाय सर्वजगतां दक्षाय कुशलात्मनाम् ।
दक्षायात्महितायाशु नमस्तुभ्यं महात्मने ॥८॥
सततं चिन्त्यमानस्य योगिभिर्नियतेन्द्रियैः ।
सारस्य सारभूतस्त्वं दक्षाय परमात्मने ॥९॥
योगिवृत्तिरनाधृष्य पारगाणां परायणः ।
आद्यन्तमुक्तः सहसा तस्मै नित्यं नमो नमः ।।१०।।
।। मार्कण्डेय उवाच ।।
इति तेषां वचः श्रुत्वा दक्षो यज्ञभुजां तथा ।
प्राह प्रसन्नवदनः शक्रमाभाष्य मुख्यतः ।। ११ ।।
।। दक्ष उवाच ।
कुतः शक्र महाबाहो भवतां दुःखमागतम् ।
दुःखहेतुं वद विभो श्रोतुमिच्छाम्यहन्तु तम् ।।१२।।
ममास्ति वा किं कर्तव्यं भवतां दुःखहानये ।
तदहं यदि शक्नोमि करिष्यामि हितं समम् ।।१३।।
।। मार्कण्डेय उवाच ।।
तच्छ्रुत्वा वचनं तस्य ब्रह्मसूनोर्महात्मनः ।
जगाद वाक्पतिः शक्रो वीतिहोत्रोऽथ तं मुनिम् ।। १४ ।।
।। त ऊचुः ।।
क्षयी जातो निशानाथस्तस्मिन् क्षीणे क्षयं गताः ।
सर्वौषध्यो द्विजश्रेष्ठ तद्धानिर्यज्ञहानिकृत् ।।१५।।
यज्ञे विनष्टे सकलाः प्रजाः क्षुद्धयकातराः ।
वृष्ट्यभावान्महद्दुःखं प्राप्य नष्टाश्च काश्चन ।। १६ ।।
क्षयोऽयं रात्रिनाथस्य यस्ते कोपात् प्रवर्तते ।
स सर्वजगतो ब्रह्मन्नभावार्थमुपस्थितः ।। १७ ।।
नाधुना तत् त्रिभुवने यन्न क्षुब्धं नु किञ्चन ।
विप्लुतं वास्ति विप्रेन्द्र स्थावराः पतगाश्च वा ।। १८ ।।
न यज्ञाः सम्प्रवर्तन्ते न तपस्यन्ति तापसाः ।
आहारदुःखान्निश्रीका: प्रजा क्षीणा भयातुराः ।। १९ ।।
एवं प्रवृत्ते विप्रेन्द्र विप्लवेऽस्मात् रसातलात् ।
दैत्या न यावदुत्थाय बाधन्ते तावदुद्धर ।।२०।।
प्रसीद दक्ष चन्द्रस्य तं पूरय तपोबलात् ।
पूर्णे चन्द्रे जगत्सर्वं प्रकृतिस्थं भविष्यति ।। २१ ।।
।। मार्कण्डेय उवाच ।।
इति तेषां वचः श्रुत्वा प्रजापतिसुतस्तदा ।
उवाच तान् सुरगणान् हृदयाच्छल्यमुद्धरन् ।।२२।।
।। दक्ष उवाच ॥
यन्मे वचो निशानाथे प्रवृत्तं शापकारणम् ।
न केनापि निदानेन मिथ्या कर्तुं तदुत्सहे ।। २३ ।।
किन्तु मद्वचनं यस्मान्नैकान्तेन मृषा भवेत् ।
चन्द्रोऽपि वर्ध यस्मात्तदुपायमुदेक्षत ।। २४ ।।
तत्राप्ययमुपायोऽस्ति मासार्थं यातु चन्द्रमाः ।
क्षयं वृद्धिञ्च मासार्धं समं भार्यासु वर्तताम् ।। २५ ।।
तस्य तद्वचनं श्रुत्वा तं प्रसाद्य प्रजापतिम् ।
सर्वे सुरगणास्तत्र गता यत्रास्ति चन्द्रमाः ।। २६ ।।
एवमुक्ते तु वचने दक्षेण मुनिना द्विजाः ।
अथ चन्द्रं समादाय भार्याभिः सहितं तदा ।
जग्मुस्ते ब्रह्मभवनं मुदिताः सुरसत्तमाः ।। २७ ।।
तत्र गत्वा महाभागाः यथा दक्षेण भाषितम् ।
तत्सर्वं कथयामासुर्ब्रह्मणे परमात्मने ।। २८ ।।
ब्रह्मा दक्षवचः श्रुत्वा देवानां वचनात्तदा ।
चन्द्रभागं महाशैलं जगाम सहितः सुरैः ।। २९ ।।
तत्रगत्वा सुरश्रेष्ठः प्रजानां हितकाम्यया ।
स्नापयामास शुभ्रांशुं वृहल्लोहितपुष्करे ।। ३० ।।
भूतभव्यभवज्ज्ञान: पूर्वमेव पितामहः ।
एतदर्थञ्चकारा सर: पूर्णं जगद्गुरुः ।। ३१ ।।
तत्र स्नातस्य जन्तोस्तु नीरोगत्वं प्रजायते ।
चिरायुष्यञ्च सततं वृहल्लोहितसंज्ञके ।।३२।।
तत्र स्नातस्य चन्द्रस्य शरीरात्तत्क्षणं गदः ।
राजयक्ष्मा निः ससार पूर्वरूपो यथोदितः ।।३३।।
निःसृत्य राजयक्ष्मापि ब्रह्माणञ्च जगत्पतिम् ।
प्रणम्याहं किं करिष्ये क्व गच्छामीत्युवाच तम् ।।३४।।
स्थानं पत्नीञ्च लोकेश कृत्यं मम सनातनम् ।
निदेशयानुरूपे मे स्रष्टा त्वं जगतां यतः ॥३५॥
।। मार्कण्डेय उवाच ।।
ततो ब्रह्मापि तं पुष्टं निरीक्ष्येन्दुं शरीरगैः ।
अमृतैस्तेनातियुक्तैः क्षीणञ्चापि निशापतिम् ।। ३६ ।
दोर्भिः हस्तैः तं गृहीत्वा गिरौ निष्पीड्य वै मुहुः ।
अमृतं गालयामास शरीराद्राजयक्ष्मणः ।। ३७ ।।
अमृतानि च यान्याशु गालितानि तदा जले ।
क्षीरोदस्य च चिक्षेप मध्ये रहसि लोकभृत् ॥३८॥
तस्मादस्यामृतादिन्दोः कलाः क्षीणास्तु याः पुरा ।
तासां जग्राह लवशश्चर्णान् क्षीरोदसागरात् ।। ३९।।
कलामात्रावशेषष्य संसर्गाद्राजयक्ष्मणः ।
क्षीणाः कलाः पञ्चदश याः पूर्वममृतात्मिकाः ।
ता राजयक्ष्मगर्भस्थाचूर्णीभूतास्तु पीडया ॥४०॥
तेजोज्योत्स्ना सुधाभिस्तु निबद्धं यत् कलापतेः ।। ४१ ।।
शरीरं तत् त्रिधा भूतं गर्भस्थं राजयक्ष्मणः ।। ४२ ।।
ज्योतिश्चूर्णमभूत् ज्योत्स्ना लीना राजादियक्ष्मणि ।
द्रवीभूताः सुधाः सर्वाः गर्भे रोगस्य च स्थिताः ।। ४३ ।।
यदा निर्यालयामास सुधां ब्रह्मा क्षमान्तरात् ।
तदा ज्योत्स्नासुधाज्योतिः सर्वं तस्माद्बहिर्गतम् ।।४४ ।।
क्षीरोदसागरे क्षिप्तं तत् सर्वं विधिना तदा ।
देवान् गिरौ परित्यज्य स्वयं गत्वा द्रुतं ततः ।। ४५ ।।
ततोऽमृतानि प्रक्षाल्य कलाचूर्णानि वारिभिः ।
ज्योत्स्नाञ्चाप्याजगामाशु गृहीत्वा तत्त्रयं गिरिम् ॥४६॥
क्षीरोदागिरिमासाद्य चन्द्रभागं तदा विधिः ।
देवमध्ये कलाचूर्णं सुधाज्योत्स्ना न्यवीविशत् ।। ४७ ।।
संस्थाप्य तत्त्रयं ब्रह्मा देवानां मध्यतः स्थितः ।
जगाद राजयक्ष्माणं तत् स्थानादि निदेशयन् ।।४८ ।।
।। ब्रह्मोवाच ।।
सर्वदा यो दिवारात्रं सन्ध्यायां वनितारतः ।
सेवते सुरतं तस्मिन् राजयक्ष्मन् वसिष्यसि ।। ४९ ।।
प्रतिशाय-श्वासकास- संयुक्तो मैथुनं चरेत् ।
स ते प्रवेश्यः सततं श्लेष्मणश्च तथाविधः ॥५० ।।
कृष्णाख्या मृत्युपुत्री या भवतः सदृशी गुणैः ।
सा तेऽस्तु भार्या सततं भवन्तमनुयास्यति ।। ५१ । ।
क्षीणत्वं भवतः कृत्यं ततस्त्वं विषयं कुरु ।
द्रुतं गच्छ यथाकामं चन्द्रात् त्वं विमुखो भव ।। ५२ ।।
।। मार्कण्डेय उवाच ।।
एवं विसृष्टो विधिना राजयक्ष्मा महागदः ।
पश्यतां सर्वदेवानामन्तर्धानं जगाम ह ।। ५३ ।।
अन्तर्हिते महारोगे ब्रह्मा लोकपितामहः ।
चन्द्रं समग्रयामास कलापञ्चदशैधितम् ।।५४।।
तेन क्षीरोदधौतेन सुधापूतेन चात्मभूः ।
सज्योत्स्नैस्तु कलाचूर्णैः पूर्ववच्चाकरोद्विधुम् ।। ५५ ।।
स षोडशकलापूर्णः पूर्ववद्विभौ यदा ।
चन्द्रस्तदा सर्वदेवा मुमुदुस्तस्य दर्शनात् ।। ५६ ।।
अथ चन्द्रस्तदा पूर्णः प्रणिपत्य पितामहम् ।
उवाचेदं सुरसदोमध्यगो नाति हर्षितः ।।५७।।
।। सोम उवाच ।
न श्याम पूर्ववद् ब्रह्मञ्छशरीरे मम वर्तते ।
न वीर्यं वा तथोत्साहो निषीदन्त्यंगसन्धयः ।। ५८ ।।
नोत्सहे पूर्ववच्चेष्टां विधातुं सुतरामहम् ।
चेष्टाही नस्त्वनुदिनं वर्तेयं केन लोककृत् ।।५९।।
।। ब्रह्मोवाच ।।
ग्रस्तस्य यक्ष्मणा सोम यदभूदंगसन्धयः ।
पूर्वं विशीर्णा भवतस्तत्पूर्णमभवन्नहि ॥६०॥
अधुना भवतो देहचूर्णं निःसारितं मया ।
शरीरात् सामृतज्योत्स्नमञ्जसा राजयक्ष्मणः ।।६१।।
तेषां प्रक्षालनविधौ लवशो यत्स्थितं जले ।
ज्योत्स्नायाश्च सुधायाश्च तेन हीनो भवान् यतः ।। ६२ ।।
ततोऽङ्गसन्धयो राजंस्तव सीदन्ति साम्प्रतम् ।
तस्योपायं विधास्यामि यथा नार्तिं लभेद्भवान् ।।६३।।
प्राजापत्यः पुरोडाशो हवनीयः पुरोऽध्वरे ।
ऐन्द्रस्ततोऽनु चाग्नेयः प्रदेयः सर्वतः क्रतौ ।। ६४ ।।
ततो नु भवतो भागः पुरोडाशो मया कृतः ।
तेन भागेन भुक्तेन नित्यं यज्ञकृतेन हि ।
पूर्ववत् ते समुत्साहः श्यामवीर्यं भविष्यति ।।६५।।
ये चामृतकणास्तोये क्षीरोदस्य स्थितास्तव ।
शरीरचूर्णं वा यत्ते ज्योत्स्नायाश्चापि ये लवाः ।। ६६ ।।
तत् सर्वं भवतो ज्योत्स्नायोगादनुदिनं विधो ।
वृद्धिं यास्यति सततं क्षीरसागरगर्भगम् ।।६७।।
स्वारोचिषेऽन्तरे प्राप्ते द्वितीये शङ्करांशजः ।
दुर्वासा भविता विप्रः प्रचण्डश्चण्ड भानुवत् ।।६८।।
स देवेन्द्रस्याविनयाच्छापं दत्वा सुदारुणम् ।
करिष्यति त्रिभुवनं निःश्रीकं ससुरासुरम् ।।६९।।
श्रिया हीने ततो लोके भविता लोकविप्लवः ।
यथा तव क्षयात् सोम प्रवृत्तः सर्वविप्लवः ।।७० ।।
तन्मानुषप्रमाणेन तृतीये तु कृते युगे ।
भविष्यति स्थास्यति च यावद् युगचतुष्टयम् ।।७१।।
ततश्चतुर्थे सम्प्राप्ते सह देवैः कृते युगे ।
क्षीरोदं निर्मथिष्यामः शम्भुर्विष्णुरहं तथा ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकीम् ।।७२।।
यज्ञभागेषु लीनेषु देवान्नार्थं वयं ततः ।
मथिष्यामः समं देवैः क्षीरोदं सह दानवैः ।।७३।
त्वच्छरीरामृतमिदं यत्स्थितं क्षीरसागरे ।
तत् प्रमथ्य ग्रहीष्यामो राशीभूतं तथा क्षयम् ।।७४।
सर्वौषध्यन्तरे कृत्वा त्वच्छरीरं तदा वयम् ।
क्षेप्स्यामः सागरजले शरीरार्थं विधो तव ।।७५।।
निर्मथ्य सागरं पश्चात् समुद्धार्य यदामृतम् ।
तदा तव वपुस्तस्मिन् पूर्ववत् सम्भवविष्यति ।। ७६ ।।
ओजोवीर्याद्भुतं कान्तमक्षयंच सुधात्मकम् ।
दृढाङ्गसन्धिकं चारु भविष्यति वपुस्तव ।।७७ ।।
।। मार्कण्डेय उवाच ।।
सुधांशुमेवमाभाष्य ब्रह्मा लोकपितामहः ।
विधोः क्षयाय मासार्धं वृद्धये यत्नवानभूत् ।।७८।।
यथा दक्षेण गदितं मासार्थं यातु चन्द्रमाः ।
क्षयं वृद्धिं च मासार्धं यत्नं तत्राकरोद्विधिः ।। ७९ ।।
ततः षोडशधा चन्द्रं सुरज्येष्ठो विभक्तवान् ।
विभज्य च सुरान् सर्वान् समुवाचेदमुत्तमम् ॥८०॥
कलाः षोडश चन्द्रस्य तत्रैका शम्भुमूर्धनि ।
तिष्ठत्वद्यावधि परा क्षयं यान्तु क्षयं विना ।।८१ ।।
क्षयेण यदि रोगेण मासार्धं दक्षवाक्यतः ।
क्षयाय पीड्यते चन्द्रो नोपशान्तिस्तदा भवेत् ।।८२ ।।
किंत्वस्य या कला शम्भौ ज्योत्स्ना गच्छतु तां प्रति ।
चतुर्दशकलासंस्थाः प्रतिमासं सुरोत्तमाः ।। ८३ ।।
चतुर्दशकलासंस्थान्यमृतानि पिबन्तु वै ।
प्रतिपत्तिथिमारभ्य भवन्तस्तां चतुर्दशीम् ।।८४॥
तेजोभोगाः सूर्य्यबिम्बं चतुर्दशतिथौ क्रमात् ।
प्रविशन्तु क्षयं त्वेवं कृष्णपक्षे विधोर्भवेत् ।। ८५ ।।
यातु शेष कला दर्शे हरित्पत्रे पलायिता ।
तिष्ठतु प्रथमे भागे तिथौ तस्यां निशापतेः ।। ८६ ।।
द्वितीये दर्शभागे तु रोहिण्या यातु मन्दिरम् ।
तृतीये तु सरस्वत्यां स्नात्वा समुत्थितो विधुः ॥८७।।
चतुर्थे बलसम्पूर्णस्तिथिभागे विभावसोः ।
मण्डलं यातु चन्द्रोऽयं सविम्बस्थघोटकः ॥८८ ।।
यावत् कालेन हि कला प्रथमा क्षयमाप्नुयात् ।
एवमेवं कृष्णपक्षे तावत् सा प्रतिपद् भवेत् ।।८९।।
द्वितीयादौ कृष्णपक्षे वृद्धि - ह्रासस्तथाविधः ।
तिथीनां वृद्धिहेतुश्च शुक्ले कृष्णे तथा भवेत् ।। ९० ।।
ततः पुनः शुक्लपक्षे यावत् पूर्वकलोदिता ।
वृद्धिं नैति भवेत्तावत् प्रतिपत्तिथिरादितः ।।९१।।
ततो द्वितीयभागस्य या ज्योत्स्ना हरमूर्धनि ।
स्थिता या वै कला यातु गता सा पुनरेष्यति ।। ९२ ।।
युष्माभिस्तु भवेत् पेयममृतं यद्दिने दिने ।
तद्द्वितीयादितिथिभिः पूर्णान्ताभिः सदैव हि ।
स्वयमुत्पत्स्यते चन्द्रो ज्योत्स्नायोगात् सुरोत्तमाः ।। ९३ ।।
यथा दिने दिने भागाः क्षयं यान्ति तथा विधोः ।
वृद्धिं गच्छन्त्यनुदिनं शुक्लपक्षेऽन्वहं सुराः ।।९४।।
तेजोभागः सूर्यबिम्बात् पुनरेव समेष्यति ।
प्रयास्यति कृष्णपक्षे यथा भागक्रमं तथा ।। ९५ ।।
ज्योत्स्ना हरशिरश्चन्द्रात् प्रत्यहं पुनरेष्यति ।
तेजोभागः सूर्यबिम्बादमृतं वर्षति स्वयम् ।।९६ ।
एवं वृद्धिः शुक्लपक्षे सुधांशोः सम्भविष्यति ।
पक्षयोः शुक्लकृष्णत्वं चन्द्रवृद्धिक्षयाद्भवेत् ।। ९७।।
यावत् कालेन यो भागः क्षयं वृद्धिंच यास्यति ।
तावत् कालमभिव्याप्य तिथि: स्थास्यति सा पुनः ।। ९८ ।।
चिरेण वृद्धिर्यदि वा क्षयो वा द्रुतेन वृद्धिर्यदिवा क्षयो वा ।
द्रुतातिथीनान्तु सदा क्षयः स्याच्चिरातु वृद्धिस्तिथिषु प्रवेशे ।। ९९ ।।
हव्यं कव्यञ्च चन्द्रेण विना न सम्भविष्यति ।
तस्मात्तयोः प्रवृद्धयर्थं चन्द्रं रक्षन्तु देवताः ।। १०० ।।
आस्वादनीयः शुभ्रांशुः कलाशेषोऽनुमासतः ।
अमावास्यापराधें तु पितृभी रोहिणीगृहे ।। १०१ ।।
तस्यैवास्वादनात् कव्यं वृद्धिं यास्यति चान्वहम् ।
तेन कव्येन पितरस्तृप्तिं यास्यन्ति वै पराम् ।। १०२ ।।
।। मार्कण्डेय उवाच ।।
ततः सुरगणाः सर्वे यथोक्तं विधिना तथा ।
चक्रुर्लोकहितार्थाय चन्द्रस्य क्षय वृद्धये ।। १०३ ।।
महादेवोऽपि चन्द्रार्धं स्वरूपं परमात्मनः ।
जग्राह देवैर्विधिना शिरसा गदितो भृशम् ।। १०४ ।।
यत्तेजः परमं नित्यमजमव्ययमक्षयम् ।
तत्स्वरूपा चन्द्रकला शापतस्तु क्षयं गता ।। १०५ ।।
प्रविशति यदा ज्योतिरानन्दमजरं परम् ।
योगिनस्तु तदा तेषां चिन्तनं लीनमेष्यति ।। १०६ ।।
महादेवशिर: संस्थे लीने चित्ते सुधानिधौ ।
चन्द्रद्वारा भवेन्मुक्तिरित्येवं वैदिकी श्रुतिः ।। १०७ ।।
एतज् ज्ञात्वा महादेवः क्षयवृद्ध्यविनाकृतम् ।
हिताय सर्वलोकानां जग्राह शिरसा विधुम् ।। १०८ ।।
चन्द्रज्योत्स्नासमायोगादौषध्यो यान्ति वृद्धये ।
सर्वोषधिषु वृद्धासु प्रवर्तन्ते ततोऽध्वराः ।। १०९ ।।
अध्वरेषु प्रवृत्तेषु स्वान् स्वान् भागांस्तु देवताः ।
परिगृह्णन्ति पितरस्तथा कव्यानि भूरिशः ।। ११० ।।
अमृतं ब्रह्मणा सृष्टं यद् देवेभ्यः पुरातनम् ।
तेन तृप्यन्ति हीना ये हव्यभागेन देवताः ।। १११ ।।
यज्ञेनाप्यायितं तच्च ज्योत्स्नाभिर्वृद्धिमेति वै ।
यज्ञज्योत्स्ना विनाभूतं तच्च स्यात् क्षीणमन्यथा ।। ११२ ।।
अतोऽमृतस्य यज्ञस्य चन्द्रमाः कारणं स्वयम् ।
अतो दक्षस्य शापात्तु रक्षायै तच्चिकीर्षितम् ।।११३।।
अद्यापि कृष्णपक्षे तु सुधांशुः पीयते सुरैः ।
तेजः सूर्यं याति शम्भुं चन्द्रार्धं ज्योत्स्निका यथा ।। ११४ ।।
पुनश्च शुक्लपक्षे तु शेषोदेति कला ततः ।
ज्योत्स्नाद्वितीयो भागस्तु तेजोभागो द्वितीयकः ।। ११५ ।।
अन्येऽत्युग्रशिरश्चन्द्रात् सूर्यविम्बाद् यथाक्रमम् ।
कलाः षोडश चन्द्रस्य तत्रैका शम्भुशेखरे ।। ११६ ।।
सितासितावुभौ पक्षौ शेषाणामुदयक्षयौ ।
इति वः सर्वमाख्यातं विभक्तश्चन्द्रमा यथा ।
ब्रह्मणा पर्वतश्रेष्ठे यथो तच्चन्द्रभागतः ।। ११७।।
यज्ञभागे स्थिते यस्माद्देवान्नमकरोद्विधुम् ।
कव्ये स्थितेऽपि पित्रन्नं तिथिवृद्धि-क्षयो यथा ।। ११८ ।।
इदं पुण्यतमाख्यानं यः शृणोति सकृन्नरः ।
राजयक्ष्मा तस्य कुले न कदाचिद् भविष्यति ।। ११९ ।।
यक्ष्मणा परिभूतो यः शृणोति वचनं विधेः ।। १२० ।।
इदं स्वस्त्ययनं पुण्यं गुह्याद्गुह्यातमं शुभम् ।
यः शृणोत्येकचित्तः सन् स महापुण्यभाग्भवेत् ।। १२१ ।।
॥ इति श्रीकालिकापुराणे चन्द्रशाप-मोक्षणं नाम एकविंशोऽध्यायः ॥ २१ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand