सामग्री पर जाएँ

कालिकापुराणम्/अध्यायः २

विकिस्रोतः तः
← अध्यायः १ कालिकापुराणम्
अध्यायः २
[[लेखकः :|]]
अध्यायः ३ →

कालिकापुराणम् द्वितीयोऽध्यायः ब्रह्मामोहवर्णनम्
अथ कालिका पुराण अध्याय २
।। मार्कण्डेय उवाच ।।
ततस्ते मुनयः सर्वे तदभिप्रायवेदिनः ।
चक्रुस्तदुचितं नाम मरीच्यत्रिमुखास्तथा ।। १ ।।
मुखावलोकनादेव ज्ञात्वा वृत्तान्तमन्यतः ।
दक्षादयस्तु स्रष्टारः स्थानं पत्नीञ्च ते ददुः ।।२।।
ततो निश्चित्य नामानि मरीचिप्रमुखाद्विजाः ।
ऊचुः सङ्गतमेतस्मै पुरुषाय द्विजोत्तमाः ।।३।।
।। ऋषय ऊचुः ।।
यस्मात् प्रमथ्य चेतस्त्वं जातोऽस्माकं तथा विधेः ।
तस्मान्मन्मथनाम्ना त्वं लोके ख्यातो भविष्यसि ।।४।।
जगत्सु कामरूपस्त्वं त्वत्समो नहि विद्यते ।
अतस्त्वं काम नाम्नापि ख्यातो भव मनोभव ॥५॥
मदनान्मदनाख्यस्त्वं शम्भोदर्पाच्च दर्पकः ।
तथा कन्दर्प- नाम्नापि लोके ख्यातो भविष्यसि ॥६ ॥
त्वदाशुगानां यद्वीर्यं तद्वीर्यं न भविष्यति ।
वैष्णवानाञ्च रौद्राणां ब्रह्मास्त्राणाञ्च तादृशम् ।।७।।
स्वर्गे मत्यें च पाताले ब्रह्मलोके सनातनः ।
तव स्थानानि सर्वाणि सर्वव्यापी भवान् यतः ।
किं वाचातिविशेषेण सामान्ये नास्ति ते समः ॥८॥
यत्र यत्र भवेत्प्राणी शाद्वलास्तरवोऽथवा ।
तत्र तत्र तव स्थानमस्त्वाब्रह्मस भोदयम् ।।९।।
दक्षोऽयं भवतः पत्नीं स्वयं दास्यति शोभनाम् ।
आद्यः प्रजापतियों हि यथेष्टं पुरुषोत्तम ।।१०।।
एषा च कन्यका चारुरूपा ब्रह्ममनोभवा ।
सन्ध्यानामेति विख्याता सर्वलोके भविष्यति ।। ११ ।।
ब्रह्मणो ध्यायतो यस्मात् सम्यग्जाता वराङ्गना ।
अतः सन्ध्येति लोकेऽस्मिन्नाम्ना ख्यातिर्भविष्यति ।।१२।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा मुनयः सर्वे तूष्णीं तस्थुर्द्विजोत्तमाः ।
अवेक्ष्य ब्रह्मवदनं विनयावनताः पुरः ।।१३।।
ततः कामोऽपि कोदंडमादाय कुसुमोद्भवम् ।
उन्मादनेति विख्यातं कान्ताभ्रूतुल्य- वेल्लिताम् ।।१४।।
कौसुमानि तथास्त्राणि पञ्चादाय द्विजोत्तमाः ।
हर्षणं रोचनाख्यञ्च मोहनं शोषणं तथा ।। १५ ।।
मारणञ्चेति संज्ञाभिर्मुनिमोहकराण्यपि ।
प्रच्छन्नरूपी तत्रैव चिन्तयामास निश्चयम् ।। १६ ।।
ब्रह्मणा मम यत्कार्यं समुद्दिष्टं सनातनम् ।
तदिहैव करिष्यामि मुनीनां सन्निधौ विधेः ।। १७ ।।
तिष्ठन्ति मुनयश्चात्र स्वयञ्चापि प्रजापतिः ।
एषा सन्ध्या वरस्त्री च दक्षोऽप्यत्र प्रजापतिः ।। १८ ।।
एते शरव्यभूता मे भविष्यन्त्यद्य निश्चयम् ।
सन्ध्यापि ब्रह्मणा प्रोक्तमिदानीमेव तद्वचः ।।१९।।
अहं विष्णुर्हरश्चापि तवास्त्रवशवर्तिनः ।
किमन्यैर्जन्तुभिरिति तत्सार्थं करवाण्यहम् ।।२०।।
॥ मार्कण्डेय उवाच ।।
इति सञ्चित्यमनसा निश्चित्य च मनोभवः ।
पुष्पज्यां पुष्पचापस्य योजयामास मार्गणैः ।। २१ ।।
आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ।
चकार वलयाकारं कामो धन्विवरस्तदा ।। २२।।
संहिते तेन कोदण्डे मारुताश्च सुगन्धयः ।
ववुस्तत्र मुनिश्रेष्ठाः सम्यगाह्लादकारिणः ।। २३ ।।
ततस्तानथ धात्रादीन् सर्वानेव च मानसान् ।
पृथक् पृथक् पुष्पशरैर्मोहयामास मोहनः ।। २४ । ।
ततस्ते मुनयः सर्वे मोहिताश्चतुराननः ।
मोहितो मनसा किञ्चिद्विकारं प्रापुरादितः ।।२५।।
सन्ध्यां सर्वे निरीक्षन्तः सविकाराः मुहुर्मुहुः ।
आसन्प्रवृद्धमदनाः स्त्रीयस्मान्मदवर्द्धिनी ।।२६।।
ततः सर्वान् स मदनो मोहयित्वा पुनः पुनः ।
यथेन्द्रियविकारांस्ते प्रापुस्तानकरोत्तथा ।। २७।।
उदीरितेन्द्रियो धाता वीक्षाञ्चक्रे यदाप्य ताम् ।
तदैव ह्यूनपञ्चाशद्भावा जाताः शरीरतः ॥२८॥
विव्वोकाद्यास्तथा हावाश्चतुःषष्टिकलास्तथा ।
कन्दर्पशरविद्वायाः सन्ध्याया अभवन् द्विजाः ।। २९ ।।
सापि चक्रे तैर्वीक्ष्यमाणाथ कन्दर्पशरपातजान् ।
मुहुर्मुहुर्भावान् कटाक्षावरणादिकान् ।। ३० ।।
निसर्गसुन्दरी सन्ध्या तान् भावान् मदनोद्भवान् ।
कुर्वन्त्यतितरां रेजे स्वर्नदीव तनूर्मिभिः ।। ३१ ।।
अथ भावयुतां सन्ध्यां वीक्षमाणः प्रजापतिः ।
धर्म्माम्भपूरिततनुः अभिलाषमथाकरोत् ।।३२।।
ततस्ते मुनयः सर्वे मरीच्यत्रिमुखा अपि ।
दक्षाद्याश्च द्विजश्रेष्ठाः प्रापुर्वैकारिकेन्द्रियम् ।।३३।।
दृष्ट्वा तथाविधान् दक्षमरीचिप्रमुखान् विधम् ।
सन्ध्याञ्च कर्मणि निजे श्रद्दधे मदनस्तदा ॥३४॥
यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् ।
कर्तुं शक्यमिति श्रद्धा भावितात्मा भवत्तदा ।। ३५ ।।
ततो वियद्गतः शम्भुर्विधिं दृष्ट्वा तथाविधम् ।
सदक्षान्मानसाञ्चापि जहासोपजहास च ।। ३६।।
ससाधुवादं तान् सर्वान् विहस्य च पुनः पुनः ।
उवाचेदं द्विजश्रेष्ठा लज्जयंस्तान् वृषध्वजः ।। ३७।।
।। ईश्वर उवाच ।।
अहो ब्रह्मन् अत्र कथं कामभावाः समुद्गताः ।
दृष्ट्वा स्वतन्यां नैतद्योग्यं वेदानुसारिणाम् ॥३८॥
यथा माता तथा जामिर्यथा जामिस्तथा सुता ।
एष वै वेदमार्गस्य निश्चयस्त्वन्मुखोत्थितः ।
कथन्तु काममात्रेण तत्ते विस्मारितं विधे ।। ३९ ।।
धैर्ये जागरितं ब्रह्मन् समस्तं चतुरानन ।
कथं क्षुद्रेण कामेन तत्ते विघटितं विधे ॥४०॥
एकान्तयोगिनः कस्मात् सर्वज्ञा दिव्यदर्शनाः ।
कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः ।।४१।।
कथं कामोऽपि मन्दात्मा प्राप्तकर्माधुनैव तु ।
युष्मान् शरव्यान् कृतवानकालज्ञोऽल्पचेतसः ।।४२।।
धिगस्तु तं मुनिश्रेष्ठं यस्य कान्ताजनो हठाद् ।
धैर्यमाकृष्य लौल्येषु मज्जयत्यपि तन्मनः ॥४३॥
मार्कण्डेय उवाच । ।
इति तस्य वचः श्रुत्वा लोकेशो गिरिशस्य च ।
व्रीडया द्विगुणीभूतस्वेदार्द्रा ह्यभवत् क्षणात् ।। ४४ ।।
ततो निगृह्यैन्द्रियकं विकारं चतुराननः ।
जिघृक्षुरपि तत्याज तां सन्ध्यां कामरूपिणीम् ।।४५ ।।
तच्छरीरात्तु धर्माम्भो यत्पपात द्विजोत्तमाः ।
अग्निष्वात्ता वर्हिषदो जाताः पितृगणास्तथाः ।। ४६ ।।
भिन्नाञ्जननिभाः सर्वे फुल्लराजीवलोचनाः ।
नितान्त यतयः पुण्याः संसारविमुखाः पराः ।।४७।।
सहस्राणां चतुः षष्टिरग्निष्वात्ताः प्रकीर्तिताः ।
षडशीतिसहस्राणि तथा वर्हिषदो द्विजाः ।।४८ ।।
घर्माम्भः पतितं भूमौ यद्दक्षस्य शरीरतः ।
समस्तगुणसम्पन्ना तस्माज्जाता वराङ्गना ।। ४९ ।।
तन्वङ्गी तनुमध्या च तनुमावली शुभा ।
मृदङ्गी चारुदशना तप्तकाञ्चनसुप्रभा ।।५०।।
मरीचिप्रमुखैः षड्भिर्निगृहीतेन्द्रियक्रिया ।
ऋते क्रतुं वशिष्ठञ्च पुलस्त्याङ्गिरसौ तदा ।। ५१ ।।
क्रत्वादीनां चतुर्णाञ्च यो भूमौ निपपात ह ।
तेभ्यः पितृगणा जाता अपरे द्विजसत्तमाः ।। ५२ ।।
सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः ।
हविर्भुजस्तु ते सर्वे कव्यवाहाः प्रकीर्तिताः ।।५३ ।।
क्रतोस्तु सोमपाः पुत्रा वसिष्ठस्य सुकालिनः ।
आज्यपाख्याः पुलस्त्यस्य हविष्मन्तोऽङ्गिरः सुताः ।। ५४ ।।
जातेषु तेषु विप्रेन्द्रा अग्निष्वात्तादिकेष्वथ ।
लोकानां पितृवर्गेषु कव्यवाहाः समन्ततः ।। ५५।।
सर्वेषामेव भूतानां ब्रह्माभूतः पितामहः ।
सन्ध्या पितृप्रसूर्भूता तदुद्देशाद्यतोऽभवत् ।। ५६ ।।
अथ शङ्करवाक्येन लज्जित: स पितामहः ।
कन्दर्पाय चुकोपाशु भ्रुकुटीकुटिलाननः ।। ५७ ।।
पुरैव तदभिप्रायं विदित्वा सोऽपि मन्मथः ।
स्वबाणान् सञ्जहाराशु भीतः पशुपतेर्विधेः ।। ५८ ।।
ततः क्रोधसमाविष्टो ब्रह्मा लोक- पितामहः ।
यच्चकार द्विजेन्द्रास्तच्छृणुध्वं सुसमाहिताः ।। ५९ ।।
॥ श्रीकालिकापुराणे ब्रह्मामोहनो नाम द्वितीयोऽध्यायः ॥ २ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand