कालिकापुराणम्/अध्यायः १

विकिस्रोतः तः

कालिकापुराणम् प्रथमोऽध्यायः कामप्रादुर्भाववर्णनम् अथ श्रीकालिका पुराण अध्याय १ श्रीकालिका पुराण ॥ श्रीगणेशायनमः ॥ ॥ श्रीकालिकायैनमः ॥ ॥ कालिकायै विद्महे श्मशानवासिन्यै धीमहि तन्नो घोरे प्रचोदयात् ॥ ॥ क्रीं कालिकायै नमः ॥ मङ्गलाचरण यद्योगिभिर्भवभयार्ति विनाशयोग्य- मासाद्य वन्दितमतीव विविक्तचित्तैः । तद् वः पुनातु हरिपादसरोजयुग्म- माविर्भवत् क्रमविलङ्घित-भूर्भुवः स्वः ॥ १ ॥ सा पातु वः सकलयोगिजनस्य चित्ते- ऽविद्यातमिस्त्रतरणिर्मतिमुक्ति हेतुः। या चास्य जन्तुनिवहस्य विमोहिनीति माया विभोर्जनुषि शुद्ध- कुबुद्धिहन्त्री ॥२॥ ईश्वरं जगतामाद्यं प्रणम्य पुरुषोत्तमम् । नित्यज्ञानमयं वक्ष्ये पुराणं कालिकाह्वयम् ॥३॥ मार्कण्डेयं मुनिश्रेष्ठं स्थितं हिमधरान्तिके । मुनयः परिपप्रच्छुः प्रणम्य कमठादयः ॥४॥ ।। मुनयः ऊचुः ।। भगवन् सम्यगाख्यातं सर्वशास्त्राणि तत्त्वतः । वेदान् सर्वांस्तथा सांगान् सारभूतं प्रमथ्य च ॥ ५ ॥ सर्ववेदेषु शास्त्रेषु यो यो नः संशयोऽभवत् । स स छिन्नस्त्वया ब्रह्मन् सवितेव तमश्चयः ।।६।। जैवातृकाग्र्य भवतः प्रसादाद्द्द्विजसत्तम । निःसंशया वयं जाता वेदे शास्त्रे च सर्वशः ॥७॥ कृतकृत्या वयं ब्रह्मन्त्वत्तोऽधीत्य समन्ततः । सरहस्य धर्मशास्त्रं यदवादि स्वयम्भुवा ॥८॥ भूयस्तच्छ्रोतुमिच्छामो हरं काली पुरा कथम् । मोहयामास पतिनं सतीरूपेण चेश्वरम् ।।९।। सर्वदा ध्याननिलयं यतिनं पतिनां वरम् । कथं संक्षोभयामास संसारविमुखं हरम् ।।१०।। सती वा कथमुत्पन्ना दक्षदारासु शोभना । कथं हरी मनश्चक्रे दारग्रहणकर्मणि ।। ११॥ कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा । हिमवत्तनया जाता भूयो वा कथमागता ।।१२।। कथमर्द्धशरीरं साहरत् स्मररिपोः पुनः । एतत् सर्वं समाचक्ष्व विस्तरेण द्विजोत्तमः ।।१३।। नान्योऽस्ति संशयच्छेत्ता त्वत्समो न भविष्यति । यथा जानीम विप्रेन्द्र तत् कुरुष्वैतदात्मवित् ।।१४।। ।। मार्कण्डेय उवाच ।। शृण्वंतु मुनयः सर्वे गुह्याद् गुह्यतरं परम् । पुण्यं शुभकरं सम्यग् ज्ञानदं कामदं परम् ।।१५।। एतद् ब्रह्मा पुरोवाच नारदाय महात्मने । पृष्टस्तेन ततः सोऽपि बालखिल्येषु चोक्तवान् ।। १६ ।। बालखिल्या महात्मानस्तत आचक्षिरे पुनः । यवक्रीताय मुनये स प्रोवाचासिताय च । असितो मे समाचक्ष्व एतद्विस्तरतो द्विजाः ।।१७।। अहं वः कथयिष्यामि कथामेतां पुरातनीम् । प्रणम्य परमात्मानं चक्रपाणिं जगत्पतिम् ।।१८।। व्यक्ताव्यक्तस्वरूपाय सदसद्व्यक्तरूपिणे । स्थूलाय सूक्ष्मरूपाय विश्वरूपाय वेधसे ।। १९ ।। नित्याय नित्यज्ञानाय निर्विकाराय चेतसे । विद्याऽविद्यास्वरूपाय कलारूपाय वै नमः ।।२०।। निर्मलायोर्मिषट्कादिरहिताय विरागिणे । व्यापिने विश्वरूपाय सृष्टिस्थित्यन्तकारिणे ।। २१ ।। योगिभिश्चिन्त्यते योऽसौ वेदान्तानान्तचिन्तकैः । अन्तर्वन्तः परं ज्योतिः स्वरूपं प्रणमामि तम् ।। २२ ।। तमेवाराध्य भगवान्, ब्रह्मा लोकपितामहः । प्रजाः सर्ज सकलाः सुरासुरनरादिकाः । सृष्ट्वा प्रजापतीन् दक्षप्रमुखान् स यथाविधि ।। २३ ।। मरीचिमत्रिं पुलहं तथैवाङ्गिरसं क्रतुम् । पुलस्त्यञ्च वशिष्ठञ्च नारदञ्च प्रचेतसम् ।।२४।। भृगुञ्च मानसान् पुत्रान् यदा दश ससर्ज सः । तदा तन्मनसो जाता चारुरूपा वरांगना । नाम्ना सन्ध्येतिविख्याता सायं सन्ध्यां बरान्तिकाम् ।।२५।। न तादृशी देवलोके न मर्त्ये न रसातले । कालत्रयेऽपि भविता सम्पूर्णगुणशालिनी ।। २६ ।। निसर्गचारुनीलेन कचभारेण राजते । मयूरीव विचित्रेण वर्षासु द्विजसत्तमाः ।। २७ ।। आरक्तगौरपलकमाकर्णान्तं तथालकैः । रेजे सुराधिपधनुश्चारुबालेन्दुसन्निभम् ।।२८।। प्रफुल्लनीलनलिनश्यामलं नयनद्वयम् । चकाशे चकितायास्तु कुरङ्ग्याः सदृशं चलम् ।।२९।। निसर्ग चञ्चलं चारु भ्रूयुग्मं श्रवणायतम् । मीनाङ्ककोदण्डसमं नीलं तस्याः द्विजोत्तमाः ।। ३० ।। भ्रूमध्याधोनिम्न भागादायत प्रांशु नासिका । लावण्यानि द्रवन्तीव ललाटात्तिलपुष्पवत् ।।३१।। तद्वक्त्रं शोणपद्माभ पूर्णचन्द्रसमप्रभम् । बिम्बाधरारुणिम्नातिरेजे रागि मनोहरम् ।।३२।। सौन्दर्यलावण्यगुणैरापूर्णं वदनं पुनः । अभितश्चिवुकं यातुमुद्यताविव तत्कुचौ ।।३३।। राजीवकुड्मलाकारी पीनोत्तुंगी निरन्तरौ । श्यामास्यौ तत्कुचौ विप्रा मुनीनामपि मोहनौ ।।३४।। वलिभाजि क्षीणमध्यं मुष्टिग्राह्यमिवांशुगम् । तन्मध्यं ददृशुः सर्वे शक्तितुल्यं मनोभुवम् ।। ३५ ।। तस्य चोरुयुगं रेजे स्थूलोर्द्ध करभायतम् । आनमद्वारणकरप्रतिमं मृदुमन्थरम् ।। ३६ ।। स्थलाम्बुजरुणं पादयुग्मं सत्पाणिराजितम् । अङ्गुलीदलसंकीर्णं कुसुमायुधबाणवत् ।।३७।। तां चारुदर्शनां तन्वीं तनुरोमावलीं शुभाम् । सस्वेदवदनां दीर्घनयनां चारुहासिनीम् ।।३८।। चारुकर्णयुगां कान्तां त्रिगम्भीरां षडुन्नताम् । दृष्ट्वा धाता समुत्थाय चिन्तयामास गतम् ।। ३९ ।। दक्षादयस्ते स्रष्टारो मरीच्याद्यास्तु मानसाः । दध्युः समुत्सुकाः सर्वे तां दृष्ट्वा वरवर्णिनीम् ।।४० ।। किं कर्मास्या भवेत् सृष्टौ कस्य वा वरवर्णिनी । भविष्यतीति ते सर्वे चिन्तयामासुरुत्सुकाः ।।४१।। एवं चिन्तयतस्तस्य ब्रह्मणो मुनिसत्तमाः । मनसः पुरुषो वल्गुराविर्भूतो विनिसृतः ।। ४२ ।। काञ्चनीचूर्णपीताभः पीनोरस्कः सुनासिकः। सुवृत्तोरुकटीजङ्घ नीलवेष्टितकेशरः । लग्नभ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः ।।४३।। कपाटविस्तीर्णहृदि रोमराजिविराजितः । शुभ्रमातङ्गकरवत् पीननिस्तलबाहुकः । आरक्तपाणिनयनमुखपादकरोद्भवः ।। ४४ ।। क्षीणमध्यश्चारुदन्तः प्रमत्तगजबन्धनः । प्रफुल्लपद्मपत्राक्षः केशरप्राणतर्पणः । कम्बुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ।।४५।। पञ्चपुष्पायुधो वेगी पुष्पकोदण्डमण्डितः । कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् ।।४६ ।। सुगन्धमारुतभ्रान्तं श्रृंगाररससेवितम् । तं वीक्ष्य तादृशं दक्षप्रमुखा मानसाश्च ये ।। ४७ ।। मरीच्याद्या दश ततो विस्मयाविष्टचेतसः । औत्सुक्यं परमं जग्मुरापुर्वैकारिकं मनः ।। ४८ ।। स चापि वेधसं वीक्ष्य स्रष्टारं जगतां पतिम् । प्रणम्य पुरुष: प्राह विनयानतकन्धरः ।। ४९ ।। ।। पुरुष उवाच ॥ किं करिष्याम्यहं कर्म ब्रह्मंस्तत्र नियोजय । मां न्याय्ये पुरुषो यस्मादुचिते शोभने विधे ।। ५० ।। अभिधानं च यद्योग्यं स्थानं पत्नी च या मम । तन्मे कुरुष्व लोकेश त्वं स्रष्टा जगतां यतः ।। ५१ ।। ।। मार्कण्डेय उवाच ।। एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः I क्षणं न किञ्चित् प्रोवाच स्वसृष्टावपि विस्मितः ।।५२।। ततो मनः सुसंयम्य सम्यगुत्सृज्य विस्मयम् । उवाच पुरुषं ब्रह्मा तत्कार्योद्देशमावहन् ।।५३।। ।। ब्रह्मोवाच ।। अनेन चारुरूपेण पुष्पबाणैश्च पञ्चभिः । मोहयन् पुरुषांस्त्रींश्च कुरु सृष्टिं सनातनीम् ।।५४।। न देवो न च गन्धर्वो न किन्नर - महोरगाः । नासुरो न च दैत्यो वा न विद्याधर - राक्षसाः ।। ५५ ।। न यक्षा न पिशाचाश्च न भूता न विनायकाः । न गुह्यका न वा सिद्धा न मनुष्या न पक्षिणः ।। ५६ ।। पशवो न मृगाः कीटपतङ्गाजलजाश्च ये । न ते सर्वे भविष्यन्ति न लक्षा ये शरस्य ते ।। ५७ ।। अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः । भविष्यामस्तव वशे किमन्यैः प्राणधारिभिः ।। ५८ ।। प्रच्छन्नरूपी जन्तूनां प्रविशन् हृदये सदा । सुखहेतुः स्वयं भूत्वा कुरु सृष्टिं सनातनीम् ।। ५९ ।। त्वत् पुष्पबाणस्य सदा मुख्यं लक्षं मनोऽस्तु तत् । सर्वेषां प्राणिनां नित्यं मदमोदकरो भवान् ।।६० ।। इति ते कर्म कथितं सृष्टि प्रावर्तकं पुनः । नामानि च गदिष्यामि यत्ते योग्यं भविष्यति ।। ६१ ।। ।। मार्कण्डेय उवाच ।। इत्युक्त्वाथ च सुरश्रेष्ठो मानसानां मुखानि च । आलोक्य चासने पद्मे सूपविष्टोऽभवत् क्षणात् ।।६२।। ॥ इति श्रीकालिकापुराणे कामप्रादुर्भाव वर्णनम् नाम प्रथमोऽध्यायः ॥ १ ॥ कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-[https://ptvaishnavi.blogspot.com/2023/02/Kalika-puran-adhyay-1.html DP Karmakand]