कालिकापुराणम्/अध्यायः १
| कालिकापुराणम् अध्यायः १ [[लेखकः :|]] |
अध्यायः २ → |
कालिकापुराणम् प्रथमोऽध्यायः कामप्रादुर्भाववर्णनम्
अथ श्रीकालिका पुराण अध्याय १
श्रीकालिका पुराण
॥ श्रीगणेशायनमः ॥
॥ श्रीकालिकायैनमः ॥
॥ कालिकायै विद्महे श्मशानवासिन्यै धीमहि तन्नो घोरे प्रचोदयात् ॥
॥ क्रीं कालिकायै नमः ॥
मङ्गलाचरण यद्योगिभिर्भवभयार्ति विनाशयोग्य- मासाद्य वन्दितमतीव विविक्तचित्तैः ।
तद् वः पुनातु हरिपादसरोजयुग्म- माविर्भवत् क्रमविलङ्घित-भूर्भुवः स्वः ॥ १ ॥
सा पातु वः सकलयोगिजनस्य चित्ते- ऽविद्यातमिस्त्रतरणिर्मतिमुक्ति हेतुः।
या चास्य जन्तुनिवहस्य विमोहिनीति माया विभोर्जनुषि शुद्ध- कुबुद्धिहन्त्री ॥२॥
ईश्वरं जगतामाद्यं प्रणम्य पुरुषोत्तमम् ।
नित्यज्ञानमयं वक्ष्ये पुराणं कालिकाह्वयम् ॥३॥
मार्कण्डेयं मुनिश्रेष्ठं स्थितं हिमधरान्तिके ।
मुनयः परिपप्रच्छुः प्रणम्य कमठादयः ॥४॥
।। मुनयः ऊचुः ।।
भगवन् सम्यगाख्यातं सर्वशास्त्राणि तत्त्वतः ।
वेदान् सर्वांस्तथा सांगान् सारभूतं प्रमथ्य च ॥ ५ ॥
सर्ववेदेषु शास्त्रेषु यो यो नः संशयोऽभवत् ।
स स छिन्नस्त्वया ब्रह्मन् सवितेव तमश्चयः ।।६।।
जैवातृकाग्र्य भवतः प्रसादाद्द्द्विजसत्तम ।
निःसंशया वयं जाता वेदे शास्त्रे च सर्वशः ॥७॥
कृतकृत्या वयं ब्रह्मन्त्वत्तोऽधीत्य समन्ततः ।
सरहस्य धर्मशास्त्रं यदवादि स्वयम्भुवा ॥८॥
भूयस्तच्छ्रोतुमिच्छामो हरं काली पुरा कथम् ।
मोहयामास पतिनं सतीरूपेण चेश्वरम् ।।९।।
सर्वदा ध्याननिलयं यतिनं पतिनां वरम् ।
कथं संक्षोभयामास संसारविमुखं हरम् ।।१०।।
सती वा कथमुत्पन्ना दक्षदारासु शोभना ।
कथं हरी मनश्चक्रे दारग्रहणकर्मणि ।। ११॥
कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा ।
हिमवत्तनया जाता भूयो वा कथमागता ।।१२।।
कथमर्द्धशरीरं साहरत् स्मररिपोः पुनः ।
एतत् सर्वं समाचक्ष्व विस्तरेण द्विजोत्तमः ।।१३।।
नान्योऽस्ति संशयच्छेत्ता त्वत्समो न भविष्यति ।
यथा जानीम विप्रेन्द्र तत् कुरुष्वैतदात्मवित् ।।१४।।
।। मार्कण्डेय उवाच ।।
शृण्वंतु मुनयः सर्वे गुह्याद् गुह्यतरं परम् ।
पुण्यं शुभकरं सम्यग् ज्ञानदं कामदं परम् ।।१५।।
एतद् ब्रह्मा पुरोवाच नारदाय महात्मने ।
पृष्टस्तेन ततः सोऽपि बालखिल्येषु चोक्तवान् ।। १६ ।।
बालखिल्या महात्मानस्तत आचक्षिरे पुनः ।
यवक्रीताय मुनये स प्रोवाचासिताय च ।
असितो मे समाचक्ष्व एतद्विस्तरतो द्विजाः ।।१७।।
अहं वः कथयिष्यामि कथामेतां पुरातनीम् ।
प्रणम्य परमात्मानं चक्रपाणिं जगत्पतिम् ।।१८।।
व्यक्ताव्यक्तस्वरूपाय सदसद्व्यक्तरूपिणे ।
स्थूलाय सूक्ष्मरूपाय विश्वरूपाय वेधसे ।। १९ ।।
नित्याय नित्यज्ञानाय निर्विकाराय चेतसे ।
विद्याऽविद्यास्वरूपाय कलारूपाय वै नमः ।।२०।।
निर्मलायोर्मिषट्कादिरहिताय विरागिणे ।
व्यापिने विश्वरूपाय सृष्टिस्थित्यन्तकारिणे ।। २१ ।।
योगिभिश्चिन्त्यते योऽसौ वेदान्तानान्तचिन्तकैः ।
अन्तर्वन्तः परं ज्योतिः स्वरूपं प्रणमामि तम् ।। २२ ।।
तमेवाराध्य भगवान्, ब्रह्मा लोकपितामहः ।
प्रजाः सर्ज सकलाः सुरासुरनरादिकाः ।
सृष्ट्वा प्रजापतीन् दक्षप्रमुखान् स यथाविधि ।। २३ ।।
मरीचिमत्रिं पुलहं तथैवाङ्गिरसं क्रतुम् ।
पुलस्त्यञ्च वशिष्ठञ्च नारदञ्च प्रचेतसम् ।।२४।।
भृगुञ्च मानसान् पुत्रान् यदा दश ससर्ज सः ।
तदा तन्मनसो जाता चारुरूपा वरांगना ।
नाम्ना सन्ध्येतिविख्याता सायं सन्ध्यां बरान्तिकाम् ।।२५।।
न तादृशी देवलोके न मर्त्ये न रसातले ।
कालत्रयेऽपि भविता सम्पूर्णगुणशालिनी ।। २६ ।।
निसर्गचारुनीलेन कचभारेण राजते ।
मयूरीव विचित्रेण वर्षासु द्विजसत्तमाः ।। २७ ।।
आरक्तगौरपलकमाकर्णान्तं तथालकैः ।
रेजे सुराधिपधनुश्चारुबालेन्दुसन्निभम् ।।२८।।
प्रफुल्लनीलनलिनश्यामलं नयनद्वयम् ।
चकाशे चकितायास्तु कुरङ्ग्याः सदृशं चलम् ।।२९।।
निसर्ग चञ्चलं चारु भ्रूयुग्मं श्रवणायतम् ।
मीनाङ्ककोदण्डसमं नीलं तस्याः द्विजोत्तमाः ।। ३० ।।
भ्रूमध्याधोनिम्न भागादायत प्रांशु नासिका ।
लावण्यानि द्रवन्तीव ललाटात्तिलपुष्पवत् ।।३१।।
तद्वक्त्रं शोणपद्माभ पूर्णचन्द्रसमप्रभम् ।
बिम्बाधरारुणिम्नातिरेजे रागि मनोहरम् ।।३२।।
सौन्दर्यलावण्यगुणैरापूर्णं वदनं पुनः ।
अभितश्चिवुकं यातुमुद्यताविव तत्कुचौ ।।३३।।
राजीवकुड्मलाकारी पीनोत्तुंगी निरन्तरौ ।
श्यामास्यौ तत्कुचौ विप्रा मुनीनामपि मोहनौ ।।३४।।
वलिभाजि क्षीणमध्यं मुष्टिग्राह्यमिवांशुगम् ।
तन्मध्यं ददृशुः सर्वे शक्तितुल्यं मनोभुवम् ।। ३५ ।।
तस्य चोरुयुगं रेजे स्थूलोर्द्ध करभायतम् ।
आनमद्वारणकरप्रतिमं मृदुमन्थरम् ।। ३६ ।।
स्थलाम्बुजरुणं पादयुग्मं सत्पाणिराजितम् ।
अङ्गुलीदलसंकीर्णं कुसुमायुधबाणवत् ।।३७।।
तां चारुदर्शनां तन्वीं तनुरोमावलीं शुभाम् ।
सस्वेदवदनां दीर्घनयनां चारुहासिनीम् ।।३८।।
चारुकर्णयुगां कान्तां त्रिगम्भीरां षडुन्नताम् ।
दृष्ट्वा धाता समुत्थाय चिन्तयामास गतम् ।। ३९ ।।
दक्षादयस्ते स्रष्टारो मरीच्याद्यास्तु मानसाः ।
दध्युः समुत्सुकाः सर्वे तां दृष्ट्वा वरवर्णिनीम् ।।४० ।।
किं कर्मास्या भवेत् सृष्टौ कस्य वा वरवर्णिनी ।
भविष्यतीति ते सर्वे चिन्तयामासुरुत्सुकाः ।।४१।।
एवं चिन्तयतस्तस्य ब्रह्मणो मुनिसत्तमाः ।
मनसः पुरुषो वल्गुराविर्भूतो विनिसृतः ।। ४२ ।।
काञ्चनीचूर्णपीताभः पीनोरस्कः सुनासिकः।
सुवृत्तोरुकटीजङ्घ नीलवेष्टितकेशरः ।
लग्नभ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः ।।४३।।
कपाटविस्तीर्णहृदि रोमराजिविराजितः ।
शुभ्रमातङ्गकरवत् पीननिस्तलबाहुकः ।
आरक्तपाणिनयनमुखपादकरोद्भवः ।। ४४ ।।
क्षीणमध्यश्चारुदन्तः प्रमत्तगजबन्धनः ।
प्रफुल्लपद्मपत्राक्षः केशरप्राणतर्पणः ।
कम्बुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ।।४५।।
पञ्चपुष्पायुधो वेगी पुष्पकोदण्डमण्डितः ।
कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् ।।४६ ।।
सुगन्धमारुतभ्रान्तं श्रृंगाररससेवितम् ।
तं वीक्ष्य तादृशं दक्षप्रमुखा मानसाश्च ये ।। ४७ ।।
मरीच्याद्या दश ततो विस्मयाविष्टचेतसः ।
औत्सुक्यं परमं जग्मुरापुर्वैकारिकं मनः ।। ४८ ।।
स चापि वेधसं वीक्ष्य स्रष्टारं जगतां पतिम् ।
प्रणम्य पुरुष: प्राह विनयानतकन्धरः ।। ४९ ।।
।। पुरुष उवाच ॥
किं करिष्याम्यहं कर्म ब्रह्मंस्तत्र नियोजय ।
मां न्याय्ये पुरुषो यस्मादुचिते शोभने विधे ।। ५० ।।
अभिधानं च यद्योग्यं स्थानं पत्नी च या मम ।
तन्मे कुरुष्व लोकेश त्वं स्रष्टा जगतां यतः ।। ५१ ।।
।। मार्कण्डेय उवाच ।।
एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः I
क्षणं न किञ्चित् प्रोवाच स्वसृष्टावपि विस्मितः ।।५२।।
ततो मनः सुसंयम्य सम्यगुत्सृज्य विस्मयम् ।
उवाच पुरुषं ब्रह्मा तत्कार्योद्देशमावहन् ।।५३।।
।। ब्रह्मोवाच ।।
अनेन चारुरूपेण पुष्पबाणैश्च पञ्चभिः ।
मोहयन् पुरुषांस्त्रींश्च कुरु सृष्टिं सनातनीम् ।।५४।।
न देवो न च गन्धर्वो न किन्नर - महोरगाः ।
नासुरो न च दैत्यो वा न विद्याधर - राक्षसाः ।। ५५ ।।
न यक्षा न पिशाचाश्च न भूता न विनायकाः ।
न गुह्यका न वा सिद्धा न मनुष्या न पक्षिणः ।। ५६ ।।
पशवो न मृगाः कीटपतङ्गाजलजाश्च ये ।
न ते सर्वे भविष्यन्ति न लक्षा ये शरस्य ते ।। ५७ ।।
अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः ।
भविष्यामस्तव वशे किमन्यैः प्राणधारिभिः ।। ५८ ।।
प्रच्छन्नरूपी जन्तूनां प्रविशन् हृदये सदा ।
सुखहेतुः स्वयं भूत्वा कुरु सृष्टिं सनातनीम् ।। ५९ ।।
त्वत् पुष्पबाणस्य सदा मुख्यं लक्षं मनोऽस्तु तत् ।
सर्वेषां प्राणिनां नित्यं मदमोदकरो भवान् ।।६० ।।
इति ते कर्म कथितं सृष्टि प्रावर्तकं पुनः ।
नामानि च गदिष्यामि यत्ते योग्यं भविष्यति ।। ६१ ।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वाथ च सुरश्रेष्ठो मानसानां मुखानि च ।
आलोक्य चासने पद्मे सूपविष्टोऽभवत् क्षणात् ।।६२।।
॥ इति श्रीकालिकापुराणे कामप्रादुर्भाव वर्णनम् नाम प्रथमोऽध्यायः ॥ १ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand