सामग्री पर जाएँ

कालहस्तीशविलासः

विकिस्रोतः तः
कालहस्तीशविलासः
[[लेखकः :|]]

ओं

।। कालहस्तीशविलासः ।।

श्रीदेव्यै नमः श्रीकाल * * * *

  • * * पिता तदा शरणादौ भास्यता तस्य चेत्क्रुद्ध * * *

शांकरं सर्वोत्कर्षमवैमि तत्र भवता पा * * * रूपं
नमाम्यहम् । ननु कोऽयं ब्रह्म श * * * * ह्मेत्युच्यते । स
चापमाकीट पतंगेभ्यः आदैव * * * * मिषयता प्रतिपद्यते ।
तथापि यस्माद्ब्रह्म * * * दि परिणाम पितृत्वा योगात् । देहादि
परिणामरू * * * * वा द्विलक्षणः परम पुरुषः परमेश्वर
एव प्रकरणा * * * * ब्रह्म पदादव गत इति स एव नमस्कार्यः
प्रतीयते * * * * महद्ब्रह्म परमं यः परायणमिति । * * * * *

  • स्य च नारायण परत्व मुक्तम् । विष्णुपुराणे * * * * * *रं

धाम त ध्येयं * * * * शब्दोयं नोपचारेण ह्यन्यत्र ह्युपचार
त इति विष्णुब्रह्मभगव * * * * ङ्कः? प्रजापतिरिति निघंटु
वचनात् जातिजीवादावपि ब्रह्म पद प्रयोगो दृष्ट इति चेत् न
तेषा * * * * विलेश? योगेनेश्वर पद प्रयोगस्येव ।
तस्मान्नारायणे मुख्यं ब्रह्मपदं अन्यत्र आम * * * पदं
नारायणे योगरूढम् । अथ कस्मादुच्यते ब्रह्म । बृहन्तोत्यस्मिन् *

  • * * * योगिकत्वात् । तदेव ब्रह्म परमं कवीनाम् । अजस्य नाभो

वध्येकमिति । अन्तः समुद्र * * * * * ढ्यं देव विदुषां मते
ब्रह्मेति नारायणे विद्वदूढ्यंकीरात् जीवादौ ब्रह्म शब्द
रूढि स * * * * *

प्. ३)

भावित भ्रममूलाय आर्य प्रसिद्धेः प्रावल्यस्य यव वराहादि
पदेषु सिद्ध * * * * *च्च ब्र * * * * * द्वितीयमते विष्णौ
योगरूढत्वात् । विष्णुपदवत् । न चा प्रयोजकत्वं श्रुतौ
तन्निर्वचन वैयर्थ्या * * * * * अत्रोच्यते । यद्यपि ब्रह्मपदं
भगवत्पद दृष्टान्तेन विष्णौमुख्यत्वेन * * * * * र्थानुगमस्य
गोपदादीनां नानार्थानां सर्वेष्वर्थेषु स्वर्गादिष्ट
भावेन मुख्य * * * * * च्छतीति गोरितिव्युत्पत्या
सास्नादिमद्व्यक्तावेव मुख्यं भवितु मर्हति । इ * * * * * रि पदं
वा * * * * * ख्यं भ्वति । ननार्थत्व प्रतिपादकनिघं * * * * *
दि विरोधात् । अन्यथा नानार्थो* * * * * * * * ले व्ययाव्ययौ ।
प्रधानत्वेन सृज्यत्वं च विष्णोसक्तम् । यथा सन्निधिम् * * * * *

  • स एव क्षोभको ब्रह्म क्षोभ्यश्च पुरुषोत्तमः । स संकोच

विकासा * * * * * * व्यक्त रूपं च । तथा विष्णुः सर्वेश्वरः
स्मृतः । अत्र परमेश्वरशब्दा ध * * * * य संकोच
विकासादिरूपेण क्षोभ्यत्वकथनान्न तयोर्विरुद्ध धर्म * * * * *

  • कर्मधारयेतु विशेषणस्य पूर्वनिपात प्र * * * * * *

नारायण कर्तृकावान्तरसृष्टि प्रतिपादनान्नारायणो प* * *

  • * * * * * परमितिविभागः । न च न ब्रह्मनेशान इति वाक्य

विरोधः । तस्यावतार * * * * * * * * * * ह्म जगन्मयः ।
सर्वगः सर्वभूतेशः सर्वात्मापरमेश्वरः प्रधानं पु * * *

  • * * * न स्यादिति चेन्न । तत्रानुगतस्य शक्यतावच्छेदकस्य

प्रवृत्ति निमित्तस्यैश्वर्य * * * * * त्वाभावात् ।
ब्रह्मपदवन्निघं

प्. ४)

नानार्थत्वेना प्रतिपादनाच्च । ननु निघंटुवशात्कथं
वेदार्थनिर्णयः । अस्य पौरुषे यत्वेना पौरुषेय वेदार्थ
निर्णये प्रमाण्या भावादिति चेत् । पौरुषे यस्याप्यनादि
प्रयोगस्मारकत्वेन स्मृतिवत्प्रमाणत्वात् । पिकमालभेते त्यादि
वाक्यार्थ निर्णये अनार्य प्रयोगस्यापि उपयोगित्व कथनाच्च । ननु
पिकादि रुदेष्वार्य प्रयोगा भावेसति अनार्य प्रयोगो निर्णायकः
ब्रह्मपदे तु यवादि पदव दार्य प्रयोगो निर्नायक इति चेत् । मैवम्
। निघण्टु काराणां व्याकरणाद्यभिज्ञत्वे * * * * * *
जात्यादावपि सत्वात् भिन्न विषययोरार्यानार्य
व्यवहारयोर्विरोधे तत्र न को* * * * * * दत्र तदभावात् । अवे * *

  • * * नादिमेच्छ * * * जाति परत्वस्यैव निर्णयात् । ननु ब्रह्म

पदे कथ * * * * * * * प्रवृत्ति निमित्ताभाव इति चे * * * * *
ह्मत्यत्र प्रणवे ब्रह्मन्नित्यत्र * * * ता चतुर्मुखादौ
चानुगतस्यशक्यतावच्छेदकस्य वक्तुमशक्यत्वात् । बृहबृहि
वृद्धाविति धा * * * * * वृद्धेः ब्रह्मणत्व जात्यादावनु
गमाभावेन शक्यतावच्छेदकत्वा संभवात् ।
लाघवाद्ब्राह्मणत्व जातेरेव
प्रवृत्तिनिमित्तत्वाच्चावयवार्थादन्यस्य शब्दादप्रतीयमानस्य
वा शक्य तावच्छेदकत्वे अश्वपदगोपदादावपि तथा
वक्तुंशक्यत्वेन नानार्थोच्छेदापत्तेः ।

वस्तुतस्तु अथ कस्मादुच्यते तारा अथ कस्मादुच्यते

प्. ५)

प्रणवः । अथ अस्मादुच्यते ब्रह्मेति प्रणवप्रकरणस्थेषु
प्रश्नोत्तरेषु वाच्यवाचकयोरभेद सम्बन्धमादाय परब्रह्मणि
परमेश्वरे विद्यमानं निरतिशय ब्रह्मत्वं प्रणवे आरोप्य * *

  • मानं ब्रह्म प * * * मुख्यमेव । न हि रज्जुसर्पे सर्प पदं

गौणं भवति । वस्तुतस्तु अथर्वोपनिषदि देवा हवै स्वर्गं
लोकमगमन् । ते * * वा रुद्रमपृच्छन् कोभ वा * * * वित् । अहमेकः
प्रथममासं वर्तामि च भविष्यामि च । नान्यः कश्चिन्मत्तो
व्यति रिक्त इत्युप क्रम्यते देवारुद्रं ध्यायन्तीति मध्ये परा
मृश्य नदेतद्रुद्रचरितमित्युपसंहारेणैक वाक्यतया रुद्र
परत्वस्यैव निर्णयात् । तदुपासनासाधनत्वेन प्राप्तस्य
प्रणवस्य प्रशंसार्थं ब्रह्मभेदमारोप्यतद्वाचक ब्रह्मपदेन
निर्देश इति रुद्रे मुख्यं ब्रह्मपदं तदभेदारोपात् प्रणवेपि
मुख्यमेव । अन्यथा हरिपदमपि भेकशखामृगादावमुख्यं स्यात्


अनुमानमप्ययुक्तम् । विष्णौमुख्यत्वसाधने सिद्धिसाधनात्
तत्रैव मुख्यत्व साधने हरिपदे व्यभिचारः । एवं योगरूढि
मतमपि निरस्तम् वेदितव्यम् । सिद्धसाधनाद्व्यभिचारादेव वि* * *

  • शक्तिरूपस्य योगस्य प्रकृते गुणवाचक

ब्रह्मपदावयवाभावेन गुणपूर्तिवाचकत्वरूप यौगिकत्वस्या
संभवेन ब्रह्मणि योगरूढत्वस्यापि सिद्धत्वात् ।

प्. ६)

न हि यौगिके धेनुपदे योगरूढे पङ्कजपदे वा
अवयवार्थातिरिक्तार्थमादाय यौगिकत्वं केनापि स्वीकृतम् ।

ननु तर्हि बृहन्तो ह्यस्मिन् गुणा इति श्रुतेः का गतिरिति चेत्
कल्पितत्वमेवेति ब्रूमः । अकल्पितत्वेपि धर्ममात्रोपमानातिदेश
वाक्यवच्छक्ति ग्रहमात्रोपयोगितया तदर्थस्य बृहद्गुणत्वस्य
शक्यतावच्छेदकत्वाभावात् । दृष्टं च धर्ममात्रोपमाने
कीदृक्क्र मेलक इति दाक्षिणात्येन पृष्टे सति दीर्घ ग्रीवः
प्रलंबोष्टः कण्टकाशनः पशुः प्रमे * * * * ति
देशवाक्यार्थस्य शक्यतावच्छेदकत्वाभावेन शक्तिग्रहे
सहकारित्वम् ।

ननु तत्रोष्ट्रत्वं शक्यतावच्छेदकमस्ति । ब्रह्म पदे तु
नैवमिति चेत् । ना पदात्प्रतीयमानस्य बृहत्वस्यान्यस्य
ब्रह्मणत्वादेर्वा नानार्थ धर्मस्य शक्यतावच्छेदक संभवे
पदादप्रतीयमानस्य पूर्ण गुणत्वस्यावच्छेदकत्वे
प्रमाणाभावात् । तर्हि रूढिरेवास्त्विति चेत् । ना विष्णुत्व
प्रकारक प्रतीतेरभावेन तदवच्छिन्नशक्तेरभावात् । ज्ञा * *

  • शक्यत्वादिति न्यायेत् । एतेन स विष्णुराहहि स ब्रह्मेति

कल्पसूत्रयोरपि ब्रह्म पदार्थ निर्णायकत्वं प्रत्युक्तम् ।

प्. ७)

अभेद परत्वे * * * * शक्तिग्राहकत्वे प्रमाणा भावात् । तदेव
ब्रह्म परमं कवीनामिति च न रूढिसाधकम् । यथा
अभिषेकादि गुणयुक्तस्य राज्ञः प्रजापरिपालनं परमोधर्म
इत्युक्ते पालनमेव धर्मपदस्य मुख्यं चोदना लक्षणन्त्व
मुख्यमिति न युक्तं भवति । चैत्रः परमधार्मिक इत्युक्ते
धार्मिकत्वेन रूपेण श्रेष्ठत्वेपि चैत्रस्य धार्मिकपदं
यागादिकर्तर्यमुख्यं चैत्रे च मुख्यमपि न युक्तम् । अन्यथा
परमपद वैयर्थ्य प्रसंगात् । ब्रह्मसाधारणत्वे हि
परमपदं सार्थकं भवति

एतेन नारायणः परं ब्रह्मेतिः परमं योमहद्ब्रह्मेति भारत
वचनं च व्याख्यातम् । गीतासु नारायणेन ब्रह्मणः स्वस्य च
भेदेन निर्देशादापि स्वस्मिन् ब्रह्मपदस्य मुख्यत्वं निवारितम् ।
उक्तञ्च किंतद्ब्रह्मकिम ध्यात्मं किं कर्म पुरुषोत्तम इत्यादि
प्रश्नेष्वर्जुनेन कृ * * * * भगवतोत्तरं दत्तम् । अक्षरं
ब्रह्म परममित्यारभ्य अधियज्ञो हमेवेत्यन्तेन तत्र यदि स्वयमेव
परमं ब्रह्मस्यात् अहमेव परं ब्रह्मेति ब्रूयात् ।
अधियज्ञोहमेवेतिवत् । तथा नोक्तञ्च । तस्मात् अन्यदेव परं
ब्रह्मेति निश्चीयते ।

प्. ८)

यधेवमपि ब्रह्मपदस्य विष्णौ विद्वद्रूढिर्वा शिवे
ब्रह्मविद्रूढि सुवचा तथा हि श्वेताश्वतरोपक्रमे ब्रह्मवादिनो
वदन्ति किं कारणं ब्रह्मेति प्रश्नषट्कानन्तरं
यःकारणानि निखिलानि तनि कालात्मयुक्ताव्यधि तिष्ठत्येन इति
। स ईशानः एकोरुद्रः शिव एव केवल इत्यादि वाक्यैः
ब्रह्मविदां रुद्रब्रह्मपद प्रयोगव्यवहारयोरवगमात् प्रबला च
ब्रह्मविद्वद्रूढिर्विद्वद्रूढ्यपेपक्ष्या तेषां श्रेष्ठत्वात् ।
तथा च स्मृतिः- विद्वत्सुकृत बुद्धयः कृतबुद्धिषुवक्तारो
वक्तृषु ब्रह्मवादिन इति । तस्माद्ब्रह्मपदं विष्ण्वावेव मुख्यं
न भवति । नानार्थत्वात् । गवादिपदवत् । न चा प्रयोजको हेतुः
। एकत्र मुख्यत्वे नानार्थेषु गवादि पदेष्वपि गच्छतीति
व्युत्पत्त्या गवादिषु मुख्यत्वं अन्यत्र स्वर्गादावमुख्यत्वं च
स्यात् । न चा सिद्धिः । ना ** र्थेषु परिगणनानुपपत्तेः ।
अनुगतस्य शक्यतावच्छेदकस्या संभवोक्तेश्च । तस्मात्परम्
पुरुषः परमेश्वर एव परं ब्रह्म ब्रह्मवादिनामिति सिद्धम् ।।

ननु शिवस्य कथं परब्रह्म परत्वम् । तल्लक्षणत्वेन वेदान्त
शास्त्रे प्रसिद्धस्य जगज्जन्मादिकारणत्वस्य नारायणैक
निष्ठत्वात् ।

प्. ९)

तथा च नारायणोपनिषदिश्रूयते एकोह वै नारायण आसीत् ।
न ब्रह्मनेशानो नेमेद्या वा पृथिवी इत्यादिना सृष्टेः पूर्वं
नारायणस्य विद्यमानत्वात् । यतो वा इमानि भूतानि जायन्ते
सदेव सोम्येदमग्र आसीत् । आत्मा वा यमेक एववाग्र आसीत्
इत्यादयः सामान्याकारेण नारायणमेव प्रतिपादयन्ति ।
पशूना यजेत । छागस्यवपाया मेदस इत्यादौ सामान्य
विशेषणयोरेक वाक्यत्वस्य छागो वा मन्त्रवर्णादिति
न्यायसिद्धत्वात् । नारायणाद्ब्रह्मा जायत तव इत्यादिना
ब्रह्मादेरपि तत एवोत्पत्तिश्रवणाच्च । यद्यपि यदा तमस्तन्न
दिवा न रात्रिर्नसन्न चा सच्छिव एव केवलः न एव रुद्रो न
द्वितीयाय तस्थे । कारणं तु ध्येयस्सर्वैश्वर्य
सम्पन्नस्सर्वेश्वरः शम्भुराकाशमध्य इत्यादिना शिवस्यापि
सृष्टेः पूर्वं विद्यमानत्वमवगम्यते । तथापि
नारायणाद्रुद्रो जायत इत्यादि ना रुद्रोत्पत्तिश्रवणात्
कारणपराणां शम्भु शिवरुद्रादि शब्दान्न
नारायणपरत्वमेव युक्तम् । न च ब्रह्म विष्णु रुद्रास्ते
संप्रसूयन्त इति विष्णोरत्युत्पत्तिः श्रूयत इति वाच्यम् ।
अजायमानो बहुधाविजायत इति तस्यावतार परत्वात् ।

प्. १०)

गीतासु च कृष्णवाक्यम् अहं सर्वस्य प्रभवो मत्तः सर्वं
प्रवर्तत इति । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।।
विष्णुपुराणे च प्रजाः ससर्जभगवान् ब्रह्मनारायणात्मकः ।
प्रज * * * * र्दवो यथा तन्मे निशामय ।।
ब्रह्मनारायणाख्योसौकल्पादौ भगवान् यथा । ससर्ज
सर्वभूतानि तदाचक्ष्वमहामुने ।। उत्तर रामायणे च स वै
नारायणो देवः शंखचक्रगदाधरः । विधाताचैव
भूतानां संहर्ता च तथैव च ।। यस्य कार्यं भवो ब्रह्मा
पितामह पितामहः । कैलासनिलयः श्रीमान् भवश्चक्रोऽथ
संभव इति ।। तस्मात् श्रुति स्मृति इतिहास पुराणैऽऽरूपबृंहित
नारायणोपनिषद्वाक्येन नारायणस्य जगज्जन्मादि
कारणत्वप्रतीतमिति जगज्जन्मादिकारणत्वरूप
लक्षणसद्भावात् स एव वेदान्त वेद्यं परंब्रह्मेति चेत् ।

अत्र ब्रूमः । यद्यपि विर्ष्णोर्जगत्कारणत्वं श्रुत्या

अत्र ग्रन्थ पातः

नावाभ्यां विद्यते भेदो मच्छक्तिस्त्वं न संशयः । त्वन्मयं
मन्मयं सर्वमव्यक्त पुरुषात्मकम् ।।

ज्ञाताहं ज्ञानरूपस्त्वमन्ताहं त्वं मतिर्हरे । प्रकृतिस्त्वं
सुरश्रेष्थ पुरुषोहं न संशयः ।।

प्. ११)

त्वमेव माया विश्वस्य मययहं परमार्थतः ।। इति ।

एवं हरिवंश विष्णुपुराणाद्युपबृंहित
परमकारणत्वप्रतिपादक श्वेताश्वतर वाक्येन शिवस्य
परमकारणत्वप्रतिपादनात्स एव जगज्जन्मादि कारणम् ।

प्राणं मनसि सह करणैर्नादान्ते परमात्मनि
संप्रतिष्ठाप्य प्रध्यायीतेशानं प्रध्यायितव्यं सर्वमिदं
ब्रह्म ब्रह्म विष्णु रुद्रान्ते संप्रसूयन्ते ।। अकारणं
कारणं तु ध्येयस्सर्वैश्वर्यसम्पन्नः सर्वेश्वरः
शम्भुराकाश * * * य इति
ईश्वरत्रयाणामुत्पत्तिकथनानन्तरं अकारणमिति
त्रयाणामविशेषेण परमकारणत्व * * * वगमात् । कारणं तु
ध्येय इति तु शब्देन पूर्वस्माद्वैलक्षण्यं प्रतिपाद्य शम्भोः
परमकारणत्व विधानात् न विष्णूत्पत्तिखतारंपरा ।

नन्वथर्व नारायणश्रुत्योश्शिवनारायणयोस्सकाशात्
ब्रह्मरुद्रोत्पत्ति खगतेति कथमुभयजन्यत्वं तयोर्विरोधात् ।
वस्तुनिविकल्पा संभवेना विरोधस्य कल्पभेदेन व्यवस्थापने
परतत्वव्यवस्थाया असंभवेनाद्वैतमतप्रवेशेन निर्विशेष
ब्रह्म परतत्व व्यवस्था प्रसंगादिति चेत् मैवम् । संहारकर्तुः
रुद्रस्यैव नारायणादनन्तरमुत्पत्ति श्रवणात् । तदुक्तम्
विष्णुपुराणे ततः कालाग्निरुद्रोऽसौ भूत्वासर्वहरोहरिः ।
शेषौ हि श्वाससंभूतै पातकानि दहत्यधः ।।

प्. १२)

वामने च तमो मयस्तथैवान्यः समुद्भूतस्त्रिलोचनः । शूल
पाणिः कपर्दी चाप्यक्षमालां निदर्शयन् ।।

उत्तर रामायणे च कैलासनिलयः श्रीमान्
भवश्चक्रोथसंभव इति ।।

भारते शिवप्रकरणे सोऽसृजद्दक्षिणादंगाद्ब्रह्माणं
लोकसंभवम् ।

वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः । हृदयाच्च
तथा रुद्रं * * * * * ।। इति ।

अथमभिप्रायः । भारतोपबृंहिताथर्व वाक्येन
ब्रह्मविष्णुरुद्राणां त्रयाणामपि विशेषेण सृज्यत्वावगमात्
रुद्रोत्पत्तेः कालाग्निरुद्रपरत्वात् अकारणमिति निषेधेन
त्रयाणामपि कारणत्वनिषेधात् । वै लक्षण्य प्रतिपादकेन तु
शब्देन त्रितयभिन्नस्यैव शम्भोः परमकारणत्व विधानात्
विष्णूत्पत्तेरवतारपरत्वकल्पनस्य परमकारणाधीनत्वात्
तदभावे तस्याप्ययोगात् । शिवादिपदानां कारणवाचकानां
विष्णुपरत्वमयुक्तम् । पशुछाग न्याये नैव सदात्मादिपदानां
नारायणादि पदानामपि शिस्र परत्वस्य वक्तुंशक्यत्वात् ।
तदुक्तं कैवल्योपनिषदि -

स एव विष्णुस्सप्राणस्सकालोऽग्निस्स चन्द्रमाः ।। विष्णुपुराणे
च । परमात्मा च सर्वेषामाधारः परमेश्वरः ।। विष्णुनामा
हि वेदेषु वेदान्तेषु च गीयते ।। विष्णोर्नामानि यस्यासौ
विष्णुनामा * * * * ।।

धुत्तूकरः कनकाह्वयः चित्रको वह्नि संज्ञिक इत्यादिवत्

प्. १३)

नारायणोपनिषत्समानार्थकं अथर्वोपनिषद्वाक्यं च
पूर्ववादे उदाहृतं द्रष्टव्यम् । किञ्चयः सर्वाल्लोकान्
संभक्षुः संभक्ष्यति अजस्रं सृजति विसृजति वा सयति
तस्मादुच्यते महेश्वर इति । प्रयोगश्च । विष्णुर्जगदादि
कारणभिन्नः ईश्वरभिन्नत्वात् । ब्रह्मादिवत् । न चा भास
समानयोगक्षेमत्वं पूर्वोक्त श्रुत्यादि विरोधात् ।
तस्माज्जगज्जन्मादि कारणत्वस्य ब्रह्म लक्षणस्य परमेश्वरे
परिनिष्ठितत्वात् सदाशिवस्य परब्रह्मत्वमप्रत्यूहम् ।। ननु
मास्तु रुद्रस्य विष्णोरुत्पत्तिः । ब्रह्मणः सकाशात् उत्पत्तिः
स्यात् । तथा च भागवते विष्णुपुराणे -

प्रादुरासीत्प्रभोरङ्के कुमारो नीललोहितः । रुरोद सुस्वरं सोथ
प्राद्रवद्द्विज सत्तम ।। किं रोदिवीतितं ब्रह्मरुदन्तं
प्रत्युवाच वै नाम देहातीतं सोथ प्रत्युवाच प्रजापतिम् ।।
रुद्रस्त्वं देव नाम्नासि मारोदी धैर्यमावह । ततोन्यानि ददौ
तस्मै सप्तनामानि स प्रभुः ।। स्थानानि चैषामष्टाना
पत्नीं पुत्रांश्च वै प्रबुः । भवं शर्वं तथेशानं
तथा पशुपतिं द्विज ।। भीममुग्रं महादेवमुवाच स
पितामहः । चक्रे नामान्यथैतानि स्थानान्येषां चकार सः ।।

प्. १४)

सूर्योजलं महीवायुर्वह्निराकाश एव च । दीक्षितोब्राह्मणः
सोम इत्येतास्तनवः क्रमात् ।।

जाबालोपनिषदि ललाटात् रुद्रो जायते । नाम मे कुरु ।
नामाकरोदिति च ।। ननु ब्रह्मणः सकाशात् रुद्रस्योत्पत्तौ
नारायणाद्रुद्रो जायत इति श्रुति विरोधः । न च
कल्पभेदेनाविरोधः । नारायणस्य परब्रह्मत्वेन तस्मादेव
सर्वोत्पत्तेर्वक्तव्यत्वादिति चेत् । न । ब्रह्मणोपि नारायणा
देवोत्पन्नत्वेनाकाशाद्वायुरित्यादिवत् चतुर्मुख रूपाद्विष्णोरेव
रुद्रोत्पत्तिपरत्वेनाविरोधात् । उक्तञ्चोत्तर रामायणे ब्रह्मवाक्यम्
-

संक्षिप्य च पुरालोकान् माययास्वयमेव हि । एकार्णवे शयानो
मां त्वं वै पूर्वमजीजनः ।।

पद्मे दिव्यार्क संकाशे नाभ्या मुत्पाद्यमामपि । प्राजापत्यं
त्वयाकर्म सर्वं मयि निवेशितम् ।।

तत्त्वं त्रयाणां लोकानामादिकर्ता स्वयं प्रभुः ।। इति च ।

तस्मात्परमकारणस्य नारायणस्य नाभिकमलोत्पन्नत्वात्
ब्रह्मणः तत्सकाशाद्रुद्रोत्पत्तेः कथं तस्य परब्रह्मत्वमिति
महति पूर्वपक्षे प्राप्ते ब्रूमः ।।

चतुर्मुखस्य नारायणादुत्पत्तौ सत्यामेवैतत्सर्वमुपपद्यते ।
तदेव तु नास्ति । तस्य रुद्रादेवोत्पत्तेः । तथा च श्वेताश्वन्तरे
यो देवानां प्रभवश्चोद्भवश्च विश्वाधिकोरुद्रोमहर्षिः ।

प्. १५)

हिरण्य गर्भं जनयामासपूर्वं सनोबुद्ध्याशुभया संयुनक्तु
।।

तैत्तरीयके यो देवानां प्रथमं पुरस्ताद्विश्वाधिको महर्षिः
। हिरण्य गर्भं पश्यत जायमानं सनोदेवः
शुभयासंयुनक्तु ।।

यस्मात्परं ना परमस्ति किञ्चित् इत्यादि ।।

ननु चतुर्मुखस्य नारायण नाभिकमलोत्पन्नत्वं श्रुतम्
तत्कथमुपपद्यत इति चेन्न । रुद्रादुत्पन्नस्य ब्रह्मणो नारायण
देहं प्रविश्य नाभिमार्गेण बहिर्गमन परत्वेन नारायण
स्तुतिपरत्वात् । तथाचोत्तर रामायणे रामवाक्यम् -

सुप्ते विष्णौ तथा ब्रह्मा विशेश जठरं ततः । बहुश्रुतं
तु तं ज्ञात्वा महायोगी समाविशत् ।।

नाभ्यां विष्णोस्समुद्भूतं पद्मं हेमविभूषितम् ।। स तु
निर्गत्य वै ब्रह्मा * * ** महाप्रभुः ।

सिसृक्षुः पृथिवीं वायुं पर्वतान् स महीरुहान् ।

पुनश्च -

दृष्ट्वास्वयंभुवा मुक्तो रात्रो वीक्षितस्तथा ।।

तेन शब्देन संप्राप्तो हरो वै हरिणा सह । अथ चक्रप्रहारेण
सूदितौमधुकैटभौ ।। इति ।

अत्र विष्णु शरीर प्रवेश निर्गमनयोः ब्रह्मपरित्राणाय
विष्णुना सह रुद्रागमनस्य च त्वं वै पूर्वमजीजन इतिवत् न
स्तुति परत्वेनार्थ वादत्वं युक्तम् । धर्मोपदेश प्रकरणत्वात् ।
ते नैव प्रत्यवायोक्तेश्च । वेदपादस्तवे जैमिनिवाक्यम् -

प्. १६)

तं नमामि महादेवं यन्नियोगादिदं जगत् । कल्पादौ भगवान्
धाता यथा पूर्वमकल्पयत् ।।

हरं सुरनियन्तारं परं तमह मानतः । यदा ज्ञया
जगत्सर्वं व्याप्य नारायणः स्थितः ।।

एवं च ब्रह्मणः सकाशात् रुद्रोत्पत्तिरप्यवतार परा । तपसा
तुष्टस्य परमेश्वरस्य चतुर्मुखयाचनापरिपूरणाय
वरदानप्रयुक्तत्वेन प्रादुर्भावरूपत्वात् । तथा चादित्य
पुराणे पञ्चविंशाध्याये चतुर्मुखवाक्यम् -

त्वामेव पुत्रमिच्छामि त्वया वा सदृसंसुतम् । त्वन्मायामोहितः
शंभो न वेद्वीत्वां परं शिवम् ।। ईश्वरः -

अहमंशेन भविता पुत्रस्तव पितामह । ज्ञानं मद्विषयं
क्षिप्रं भविष्यति तवानघ ।।

एव योगीश्वरः शार्ङ्गी ममैवांशो न संशयः । सहायत्वेन
भविता ममादेशात्तवानघ ।।

तस्माच्छेताश्वतर तैत्तिरीयक वाक्याभ्यां चतुर्मुखस्य
रुद्रादुत्पत्त्यवगमात् तद्विरुद्धानां नारायण नाभिप्रभवत्व
प्रतिपादकानां पुराणानां विरोधाधिकरण
न्यायेनबाध्यत्वात् नारायणोपनिषद्वाक्यानां चावान्तर
सृष्टि विषयत्वेनोपपादितत्वात् नारायणाच्चतुर्मुखोत्पत्तेश्च
प्रवेश निर्गमरूपत्वेन नारायण कूर्मपुराणाद्यव गतत्वेन
स्तुतिरूपत्वात्

प्. १७)

रुद्रस्य च ब्रह्म ललाटोत्पत्तेर्वरदान प्रयुक्तत्वेन
प्रादुर्भावरूपत्वात् । ललाटाद्रुद्रोऽजायत इति स्वतन्त्रोत्पत्ति
प्रतीतिवत् । अथर्वभारतवाक्ययोः स्वतन्त्रोत्पत्ति
श्रवणाभावात् । प्रत्युत सृज्यत्वेन पारतन्त्र्यप्रतीतेः नाम
मे कुर्विति रुद्राज्ञा पुरस्सरमेव नामाकरोदिति
चतुर्मुखेननामकरणाच्च । तस्य च कालाग्निरुद्रत्वेन
परमकारणात्परमेश्वराद्भिन्नत्व प्रतिपादनात् ।
इत्यभिध्यायतो नासाविवरात्सहसानघा वराहतोपि
नरगादङ्गुष्ठपरिमाणतः ।। इति भागवत वचनेन
चतुर्मुखस्य नासिकाया नारायणोत्पत्तिश्रवणात् । वामनपुराणे
च -

नमेऽस्ति माता न पिता तथैव निराश्रयोऽहंगिरिवासी । सुतां
प्रतीच्छामि तवाद्रिराज धर्मेणदत्तांभावताभिराय ।। इति ।

ईश्वर वाक्याच्च न चतुर्मुखाद्रुद्रोत्पत्तिः । अत एव रुद्रो न
परं ब्रह्म नारायण सृज्यत्वात् । अस्मदादिवदिति निरस्तम् ।
अनुमानमपि शिवस्य पर तत्व रूपत्वेपि रुद्रस्य
पदार्थस्याग्नेर्देवतात्मनः परब्रह्मत्वाभावेनांशे
सिद्धसाधनात् । तदात्मानं सृजाम्यहंमिति गीता वाक्यात्
स्वसृज्यत्वेन स्वात्मन्येव व्यभिचारात् । न चात्मशब्दो देहपरः ।
जीवानामपि नित्यत्वेन देहस्यैव सृज्यत्वात् । न च विस्पष्टं
सृज्यं स्वस्मिन्नपि समानत्वात् । हेतावाद्यभाग वैयर्थ्यात्
एवमेव प्रति प्रयोग संभवात् व्याक्ताव्यक्तोभय प्रपंच जन्मादि

प्. १८)

कारणं ब्रह्म विष्ण्वादिजनकं
परब्रह्मपरमेश्वरोगङ्गाधरस्सर्वाधिक इति सिद्धम् ।।

अथ कथं महेश्वरस्य गंगाधरस्य सर्वाधीशत्वं गङ्गाया
विष्णुपादोद्भूतत्वेन तद्धारणस्य च विष्णुपादोदक
धारणत्वेन विष्ण्वाधिक्या पादकत्वात् । तथाहि -

भागवते च -

यत्पादनिःसृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्निविधृतेन शिवः
शिवोऽभूत् । धातुर्मनः शैल निसृष्टवज्रं ध्यायेच्चिरं
भगवतश्चरणारविन्दम् ।।

तत्पाद सलिलं यथेति ।

आदावादि पितामहस्य निगम व्यापार पात्रे जलं
पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् ।

पुनश्च विष्णुपुराणे गङ्गां प्रस्तुत्य -

ततः प्रवहति ब्रह्मन् सर्व पापहरासरित् । गङ्गा
देवाङ्गनाङ्गाना मनुलेपन पिञ्जरा ।।

विष्णुपाद विनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् ।
समन्ताद्ब्रह्मणः पुर्या गङ्गापतति वै दिवः ।।

वाम पाद्माम्बुजाङ्गुष्ठ नखस्रोतो विनिर्गताम् ।
विष्णोर्बिभर्तियां भक्त्या शिरसाऽहर्निशं शिवः ।।

अन्यानि च वचनान्यत्रार्थे द्रष्टव्यानि । प्रयोगश्च - शिवः
विष्ण्वपेक्षया अधिको न भवति । यथा गुरुपादोदकधारी
शिष्यः । न चा प्रयोजको हेतुः । भक्त्या पादोदकधारणस्य
नैच्यज्ञापकत्वादिति ।।

प्. १९)

अत्रोच्यते । गङ्गाया विष्णुपादोद्भवत्वेपि तद्धारणस्य
स्वभक्तानुग्रह हेतुकत्वेन नैच्यानापादकत्वात् ।
वंहिक्षीरसागरकन्या लक्ष्म्याः वक्षःस्थले
निरन्तरधारणात् लक्ष्मीधरोनारायण सागरापेक्षया
लक्ष्म्यपेक्षया वा नीचो भवति । किन्त्वाधिक्य प्रमाण
सद्भावादधिक एव । तथा च रामायणे बालकाण्डे -

देवदेवे गते तस्मिन् सोंगुष्ठाष्ठग्र निपीडिताम् । कृत्वा
वसुमतीं राम संवत्सरमुपावसन् ।।

अथ संवत्से पूर्णे सर्वलोकनमस्कृतः । उमापतिः पशुपतिः
राजानमिदमब्रवीत् ।।

प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तवप्रियम् । शिरसा
धारयिष्यामि शैलराजसुतामहम् ।।

इत्यादि वचनै भगीरथ तपसा प्रीतेन
परब्रह्मणापरमकारुणि केन भगवता परमेश्वरेण
भगीरथानुग्रहाय शिरसा गङ्गायाधारणेऽपि नाधिक्यहानिः


अपि च तत्रैव श्रूयते शिवाधिक्यम् -

गङ्गायाः पतनंराजन् पृथिवी न सहिष्यति । तां वै
धारयितुं वीरनान्यं पश्याम् शूलीनः ।।

तत्रैव ब्रह्मवाक्यम् -

रक्ष सर्वानिमाल्लोंकान् मालोक कर्तुमर्हसि । देवानाञ्च वचः
श्रुत्वा सर्वलोक महेश्वरः ।। बाढमित्य व्रवीत् सर्वान्
युनश्चेदमुवाच ह ।।

किञ्च सर्वलोक नमस्कृतः पशुपतिश्चेति श्रुतिश्च -

यस्मै नमच्छिरः । यस्मैस्तस्मैत्वाजुष्टमिति ।

प्. २०)

एतावन्तो वै पशवो द्विपादश्चतुष्पादश्च । तस्माद्रुदः
पशुनामधिपतिः । काशीखण्डेपि -

ब्रह्मविष्णुसुरेशाद्याः पशवः परिकीर्तिताः । तेषां
पतित्वाद्भूतेशः शिवः पशुपतिः स्मृतः ।।

सर्वलोकनमस्कृतत्वं चाथर्वोपनिषदिति रुक्तम् -

यस्सर्वाल्लोंकान् संभक्षुः संभक्ष्यति अजस्रं सृजति
विसृजति वा स यति तस्मादुच्यते महेश्वर इति । अतः
इतिहासपुराणाभ्यां वेदं समुपबृंहयेदिति ।

तौ तु मेधा विनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।

वे दोष बृंहणार्थाय तावग्राहयत प्रभुः ।। इति
रामायणस्य वेदोपबृंहणार्थत्वात् । उदाथृत रामायण
वाक्यनिष्ठानां सर्वलोक नमस्कृत पशुपतिशब्दानां रुद्रैक
विवयाणां वेद निष्ठं तत्तत्पदार्थोपबृंहणार्थत्वेन
प्रत्यभिज्ञयमानत्वात् । तत्तदुप क्रमादि विरोधाच्च न
देवतान्तरपरत्वेन नयनं युक्तम् । गङ्गाया अतिशय पावनत्वं
च महेश्वरसम्बन्धाधीनमित्युक्तम् । तत्रैव -

ते तदेव गन्धर्वा वसुधातलवासिनः । भवाङ्ग पतितं तोयं
पवित्रमिति पस्पृशुरिति ।।

विष्णुपुराणे च शम्भो जटाकलापात् सा विनिष्क्रांता
स्थिशर्करान् । प्लावयित्वादिवं निन्ये या पापान् सगरात्मजान् ।।

वस्तुतस्तु गङ्गा न विष्.णुपादोद्भूता । किन्तु हिमवदुत्पन्ना ।
तथा च रामायणे राम वाक्यम् -

दुहितुः शैलराजस्य ज्येष्ठाया वक्तुर्महसि ।।

प्. २१)

त्रीन् पथो हेतुना केन पावयेल्लोक पावती । कथं गङ्गा
त्रिपथगा विश्रुतासरिदुत्तमा ।। त्रिषुलोकेषु धर्मज्ञ
कर्मभिर्यैः समन्विता ।।

तथा ब्रुवति काकुत्स्ये विश्वामित्रस्तपोधनः ।

इत्यादि तत्त्व वुभुत्सु प्रकरणे ब्रह्मवाक्यञ्च -

इयं हैमवती ज्येष्ठा गङ्गा हिमवतस्सुता ।। वैनतेयवाक्यं
तत्रैव -

गङ्गाहिमवतो ज्येष्ठा दुहिता पुरुषर्षभ । तस्यां कुरु
महाबाहो पितॄणां सलिलक्रियाम् ।।

ननु विष्णुपुराण भागवतादिवचनैः विष्णुपादोद्भूतत्वं
गङायाः प्रतीतमिति चेन्न । विष्णुपादवचनेन ध्रुवलोकादुपरि
लोकस्यैव विवक्षितत्वात् । तथा च तस्मिन्नेव प्रकरणे
पूर्ववाक्यम् -

यावन्मात्रे प्रदेशे तु मैत्रेयोऽवस्थितो ध्रुवः । क्षमयायान्ति
तावत्तु भूमिराभूतसंप्लवम् ।।

ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः । एतद्विष्णुपदं
दिव्यं तृतीयं व्योम्निभास्वरम् ।।

अपुण्य पुण्योपरमे क्षीणाश्शेषार्ति हेतवः । यत्र गत्वा न
शोचन्ति तद्विष्णोः परमं पदम् ।।

इत्यादिना । अस्य प्रकरणस्य भूतादि लोक प्रतिपादन परत्वात्
ध्रुवादुपरि लोकमुक्तवचनाभ्यां वर्णयित्वा ताभ्यामन्यैश्च
वचनैस्तस्यैव लोकस्य विष्णुपदत्वेन प्रतिपदनपुरस्सरं

प्. २२)

अस्मिन् प्रतिष्ठितो भास्वामिहूतः स्वयं ध्रुवः ।

ध्रुवे सर्व ज्योतीषि ज्योतिः शम्भुमुचोद्विज ।। इत्यादिना तस्यैव
विष्णुपादाख्यस्य लोकस्य सर्वाधारत्वमुक्त्वा एवमेतत्पदं
विष्णोस्तृतीय ममलात्मकम् । इति तस्यैव स्वरूपं प्रतिपाद्य
तस्माल्लोंकात्ततः प्रवहति ब्रह्मन् सर्वपापहरासरित् ।
गङ्गादेवाङ्गनाङ्गानामित्यादि पूर्वोदाहृतवचनैः
गङ्गानिर्गमन वर्णनात् पूर्वोत्तर पर्यालोचनया विष्णुपदं न
शरीरावयव परं किन्तु वियद्विष्णुपदं वा तु पुंस्याकाश
विहायसी इत्यादि नैघंटिक प्रसिद्धाकाशपरम् । विष्णोः
पदं विष्णुपदमिति योगापेक्षया तन्निरपेक्षरूढेर्बलवत्वात् ।
तद्बलवत्वस्य च रथकारोऽग्निमाद दधीतेत्यत्र रथं करोतीति
रथकार इति व्युत्पत्त्या तेषा मध्ययनाधिकारे अध्ययनजन्य
विद्यायाः संभवात् जाति परत्वे विद्या प्रयुक्ति गौरवात्
त्रैवर्णिकपरत्वमेवेति पूर्व पक्षानन्तरं योगस्या
वयवशक्तिसापेक्षत्वात् विलम्बित प्रतीतिकत्वेन तन्निरपेक्ष
रूढेरेव शीघ्रोपस्थितत्वे बलवत्वमिति रथकारजातीय
एवाधानाधिकारी । तद्वलाच्च विद्या प्रयुक्तिरपि कल्पनीयेति
सिद्धान्त सिद्धत्वात् । न च वामपादाम्बुजांगुष्ठ

प्. २३)

नखस्रोतो विनिर्गतामिति वाक्यविरोधः । प्रकरणवशेन गङ्गाया
हिमवदुत्पत्ति प्रतिपादकानेक वचनविरोधेनाकाशस्यैव
मनोहरपदाम्बुजत्वेन गङ्गायाश्चतदंगुष्ठनिर्गतत्वेन
चोत्प्रेक्षायाः स्तुतिसंभवात् । दृष्टञ्चाचेतनानां
पदार्थानां चेतना वयवत्व निरूपणेन स्तुतिपरत्वं प्रणा
उपरवाहनू अधिषवणे जिह्वाचर्म ग्रावाणोदन्तामुखमाहवनीयो
नासिकोत्तर वेदिरित्यादौ ।। प्रमाणान्तर विरोधे च
गुणवादत्वमुक्तम् भट्टाचार्यैः - विरोधे गुणवादः स्यात्
अनुवादोऽवधारिते । इति । रामायण वाक्यस्य गङ्गायाः
हिमवत्कन्यात्व प्रतिपादकस्य नार्थवादत्वं युक्तम् । न ते
वागनृताकाव्ये काचिदत्त भविष्यति इति ब्रह्मणा दत्तस्य
वरप्रदानस्य तत्रैव श्रूयमाणत्वात् । अथवा
विष्णुपादांगुष्ठ नख विनिर्भिन्न ब्रह्माण्ड कटाह द्वारा
अन्तः प्रविष्ट कुटिलाख्य बाह्यजल प्रवाहयोगेन
पादाङ्गुष्ठप्रभवत्वस्य व्यपदेशः । तथा च वामनपुराणे
-

विष्ण्वंघ्रिणा प्रसरता कटाहे भेदितेऽम्बरात् । कुटिला तस्य
पादाग्रात् स पारकुटिला ततः ।। इति ।

न च सैव गंगेति वक्तव्यम् । तस्मिन्नेव पुराणे पृथक्
गंगोत्पत्तिवर्णनात् ।

इत्येवं ब्रह्मण शप्ता हिमवद्दुहिता मुने । आपो मयी ब्रह्मलोकं
प्लावया मासयोगिनी ।।

प्. २४)

न च हिमवद्दुहितृत्वेन रामायण भारत वामन पुराणेषु
प्रसिद्धाया गङ्गाया विष्णुपादसम्बन्धि
कटाहोदकसम्बन्धमात्रेण तत्पादोदकत्वं युक्तम् । रथ्याजल
योगेनापि रथ्याजलत्वा पत्तेः ।।

ननु गंगायाः प्रथमं विष्णुपादोत्पन्नाया एव पश्चात्
हिमवत्यवतीर्णायाः तस्माद्भुवंगतायाः हिमवत्कन्यात्वं
जह्नु कन्यात्ववत् गौणमस्तु । जह्नुवात् हिमवतोऽपि
मार्गवशेनप्राप्तत्वादिति चेत् । मैवम् । प्रथमतः हिमवतः
सकाशात् मेनकायामुत्पन्नाया एव देवैर्देवकार्यार्थं स्वर्लोकं
प्रतिनीतायाः पश्चाद्भगीरथानु ग्रहाय भूलोकप्ताप्तेः
बहुप्रमाणसिद्धत्वात् । तथा च रामायणे -

चोदितो रामवाक्येन विश्वामित्रो महामुनिः । सृद्धिं जन्म च
गङ्गायाः वक्तु मेवोपचक्रमे ।।

शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान् । तस्य कन्याद्वयं
राम रूपेणा प्रतिमं भुवि ।।

या मेरुदुहिता नाम तयोर्माता सुमध्यमा । नाम्ना मनोरमा नाम
पत्नीहिमवतः प्रिया ।।

अथ ज्येष्ठां सुरास्सर्वे देवतार्थचिकीर्षया । शैलेन्द्रं
वरया मासुर्गङ्गां त्रिपथगां नदीम् ।।

ददौधर्मेण तनयां हिमवान् लोकपावनीम् । स्वच्छन्द पथगां
गङ्गां त्रैलोक्य हितकाम्यया ।।

प्. २५)

प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः । गङ्गामादाय वै
गच्छन् कृतार्थेनान्तरात्मना ।।

या चान्या शैल दुहिता कन्यासीद्रघुनन्दन । उग्रं
सुव्रतमास्थाय तपस्तेपे तपोधना ।।

उग्रेण तपसायुक्तां ददौ शैलवरस्सुताम् रुद्राया प्रतिरूपाय
उमां लोकनमस्कृताम् ।।

एते ते शैल राजस्य सुते लोकनमस्कृते । गङ्गा च सरितां
श्रेष्ठा उमा देवी च राघव ।।

एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी । खं गतौ
प्रथमं तात गतिं गमिमतांवर ।।

सैषा सुरनदीरम्या शैलेन्द्रस्यसुतातदा । सुरलोकं
समारूढा विपापा जलवाहिनी ।। इति ।।

अत्र विष्णुपादोद्भूतत्वेऽस्माल्लोकाद्देव लोकप्रापणवैमर्थ्यं
तदपि बहुपुराण सिद्धमिति चेत् । तदुत्पत्तिप्रतीतेर्गौणत्वात् ।
किमत्रविनिगमकमिति चेत् । गर्भधारणोपयुक्त मातृवर्नस्य
प्रथमोत्पत्ति ज्ञापकत्वात् । अतएव धर्मशास्त्रे आत्मजत्व मौरसे
मुख्यं दत्तक्रीता दिषुगौणमित्युक्तम् । ततः
गङ्गाविष्णुपादोत्पन्ना न । हिमवत्कत्यात्वात् । गौरीवत् । न चा
सिद्धिः । मेनका गभोत्पत्त्या तत्सिद्धेः ।।

गङ्गाविष्णुपदी शिवश्यशिरसा धत्ते च तां भक्तिमानित्येवं
शतशः पुराणवचनं तत्तत्स्तुति प्रक्रमे ।।

प्. २६)

जिज्ञासुं रघुपुंगवं प्रतिसुतोगाधेरवोचत्पुनः मेनाया
हिमवत्सुतैव दिविजैर्नीता स्वलोकं प्रति ।।

विष्णुश्च विप्रपादाम्बु शतशः सिरसा वहन् । तेभ्यः किं
न्यूनता मेतीत्येवं शम्भुर्विभाव्यताम् ।।

तदुक्तं भागवते तस्यावनिज्यचरणौ तदपश्च मूर्ध्नि

बिभ्रज्जगद्गुरुतरो हि सतांपतिर्हि । अतोपविश्य पर्यङ्के स्वयं
सरव्युः सहर्षणम् ।।

उपाहृत्यावनिज्यास्य पादौ पादावतेजनिः । अग्रहीच्छिरसा
राजान् भगवाल्लोंक पावनः ।।

न च शम्भोर्विष्ण्वपेक्षया आधिक्येप्रमाणाभावः ।

तत्रैव -

नाहं न यज्ञो न च यूयमन्ये येहभाजो मुनयश्च तत्त्वम् ।
विदुः प्रमाणं बलवीर्ययोर्वातस्यात्मतंत्रस्यक उद्विधत्सेत् ।।

तस्मात्परमेश्वरस्य सर्वलोक नमस्कृतत्वादिभिः श्रुतीतिहास
पुराणोक्तैर्धर्मैः सर्वोत्तरविश्वाधिका वर्णनावगमात्
गंगायाश्च हिमवत्कन्यात्वावगमात् तद्धारणस्य
भगीरथानुग्रह प्रयुक्तत्वाच्च परमकारुणिकः परमेश्वरः
सर्वाधीशः । तथा च प्रयोगः - शिवः
स्वसमानाभ्यधिकरहितः । सर्वनमस्कार्यत्वात् । सर्वेश्वरत्वात्
। यन्नैवं तन्नैवम् । यथा स्मदादि वदिति केवल
व्यतिरेक्यनुमानेन विश्वाधिक्य सिद्धिः । न च हेतोरप्रयोजकत्वम् ।
राजादौ नमस्कार्यत्वस्याधिक्य प्रयुक्तत्वात् ।
सर्वनमस्कार्यत्वस्य सर्वाधिक्यं विनाऽनुपपत्तेः ।

प्. २७)

उक्तश्रुत्यादि विरोधाच्चेत्यलमति विस्तरेण ।।

ननु शिवस्य सर्वाधिकत्वं रामायण बलान्निरूपितम् । तत्कथं
युज्यते । रामायण एव -

जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णोः पराक्रमैः ।
अधिकं मेनिरे विष्णुं देवस्सर्षि गणास्तथा ।।

विष्णुपुराणे च -

चक्रे कर्म महच्छौरिर्विभ्राणो मानुषींतनुम् । जिगायशक्रं
सर्वं च सर्वदेवांश्च लीलया । जृम्भणा स्त्रेण गोविन्दो
जृम्भया मासशङ्करम् ।। जृम्भा भीभूतस्तु हरो रथोपस्य
उपाविशत् ।। न शशाक तदायोद्धुं कृष्णेनाक्लिष्ट कमणा ।।

एव मन्यत्रापि भागवत हरिवंशादौ बाणासुरनिमित्तः
पराजयःश्रूयते । तत्कथं शिवस्याधिक्यमिति चेत् । मैवम् ।
किं विष्णुपुराणवचनात् विष्ण्वाधिक्यमुच्यते रामायण
वाक्याद्वा । नाद्यः । तस्मिन्नेव प्रकरणे बाणासुर
बाहुछेदाख्यभुजकण्डू निवारणस्येश्वराज्ञानुसारित्वात् ।
तथा च श्रूयते तत्रैव -

बाणोपि प्रणिपत्याथ देवमाह त्रिलोचनम् । देवबाहुसहस्रेण
निर्विण्णोस्म्याहवं विना ।।

काश्चिन्ममैषां बाहूनां साफल्य जनकोरणः । भविष्यति
विना युद्धं भाराय मम किं भुजैः ।।

शंकरः -

मयूरध्वजभंगस्ते यदा बाण भविष्यति । ऐ शितासि
जनानन्दं प्राप्स्यसि त्वं तदारणम् ।।

प्. २८)

इत्यादि परब्रह्मणा परम कारुणिकेन परमेश्वरेण
बाणासुरमनुगृहीतं तस्याहङ्कारादि दोषप्रभवरण
कण्डूतिं चापनेतुं विषवृक्षोपि संवर्घ्य स्वयं छेत्तुमसं
प्रतमिति न्यायेन स्वयं तन्निवारणस्यानुचितत्वात् मुखान्तरेण
तन्निवारणमभिप्रेत्य तस्मैपरमानुग्रह पर्यवसन्नं
भुजकण्डूतिशामकं रणरूपं वरं मयूरध्वज भङ्गस्ते
इत्यादि वाक्येनदत्तवान् ।

न च शंकरस्य जृम्भणं विना बाणस्य युद्धं संभावितम् ।
न च पूर्वं बाणासुरतपसा प्रसन्नेन
परमेश्वरेणेन्द्रादिभ्योभय निवारणाय
स्वपुरद्वारपालकत्वमभिलषितम् । ततो बाणस्याभिलषितं
प्रतिज्ञाय द्वारे स्थितवता परमेश्वरेण युद्धं न कर्तव्यमिति
युक्तं । तस्माद्विश्वराज्ञा परतन्त्रेणैव
कृष्णेनेश्वरदत्तवर परिपालनायबाणः शिक्षित इति
नेश्वराधिक्यहानिः । अन्यथा -

अस्मात्यंश्रयदृप्तोपि नायं वध्यस्तवा व्यय । मया दत्तवरो
दैत्यस्ततस्त्वां क्षमयाम्यहम् ।।

इतीश्वराज्ञानुवर्तनं नस्यात् । अन्यथा
कमलभवमनोभवयोर्निग्रहस्य प्रतीकार प्रसंगाच्च । ननु
कृष्ण्स्य स्तुतिः कृतेतिचेत् निर्मत्सरा महात्मानः
स्वाज्ञाकारिणः शिष्यादीन् स्तुत्वा लालयित्वा वा स्वकार्यं
साधयन्तीति सर्वत्र प्रसिद्धत्वात् । अयं सर्वोपिवृत्तान्तः
उषाऽनिरुद्ध विव्वह पर्यन्तः परमेश्वश्वरेण

प्. २९)

सङ्कल्पित इति तदभिप्रायाभिज्ञया पार्वत्या
पूर्वमेवोषायैवरोदत्तः । तथा च तस्मिन्नेव पुराणे -

वैशाखशुद्ध द्वादश्यां स्वप्नेयोभिभवंस्तव । करिष्यति
सते भर्ता राजपुत्री भविष्यति ।। इति ।

प्रत्युत वामनपुराणे दक्षाध्वर भङ्गे रुद्रा गमनानन्तरं
विष्णोः पलायन श्रवणात्साम्यमेव दुर्लभम् ।
कुतस्तरामाधिक्यम् ।।

जटाधरं हरिर्दृष्ट्वा क्रोधादारक्तलोचनम् ।
तस्माद्देशादपाक्रम्य कुब्जो धान्तर्हितः स्थितः ।।

अत एवाधिकं मेनिरे विष्णुं इत्यादि रामायण वचनं
व्याख्यातम् द्रष्टव्यम् । आधिक्यज्ञान मात्रस्य
प्रमाभ्रमसाधारणस्याधिक्या साधकत्वात् । न च देवानां
तत्व ज्ञत्वं युक्तम् । आधिक्य जिज्ञासुत्वेन तत्रैव प्रतिपादनात्
। सदाशिवस्य नारायणा पेज्ञयाऽऽधिक्यं नारायणस्य
तत्प्रेर्यतया तदुपसर्जनत्वं त्रिपुरभंग प्रकरणे श्रूयते ।
रुद्र इत्यब्रुवन् । रुद्रो वै क्रूरः । अत्र तेषामसुराणां तिस्रः
पुर आसन्निति त्रिपुरविजयस्य कर्तव्यत्वात् तदुपकरणत्वेन
विष्णोर्बाणत्व प्रतिपादनात् तत्प्रयोक्तृत्वेन रुद्रस्य स्वतन्त्र
कर्तृत्वावगमात् तदाधिक्यस्य स्फुटत्वेन अधिकं मेनिरे
विष्णुमित्यादि वाक्योक्ताधिक्य ज्ञानस्य भ्रमत्वमेव युक्तम् ।
अन्यथा तद्धनुषो मेरोरपि भंगे

प्. ३०)

समर्थस्य विष्णोः रामस्य रावणादि विजयाय मेरोरेकदेश
भूतरावण निकेतभूत त्रिकूटभङ्गाय
बह्वायासानुभवोनस्यात् । शिवस्य तु रावणेन कैलासोत्पाटने
कृते तन्निग्रहायाङ्गुष्ठचालनमेवकृतम् । न तु
रामवद्वह्वायासोऽनुभूत इति व्यक्तमाधिक्यम् । तथा
चाभियुक्तवचनम् -

अलभ्या पातालं व्यलस चलितांगुष्ठ शिरसि प्रविष्टा
त्वययासीद्ध्रुवमुपचितो मुह्यति खलः ।

उत्तररामायणे चा यमर्थो द्रष्टव्यः । तदाराम महादेवः
प्रहसन् वीक्ष्यतत्कृतम् । पादांगुष्ठेन तं शैलं
पीड्यामासलीलया ।।

ततस्ते पीडितास्तत्र रावणस्य भुजास्तदा ।
विस्मिताश्चाभवंस्तत्र सचिवास्तस्य रक्षसः । तेन राक्षस
मुख्येन शैलाक्रान्त भुजेन वै ।। मुक्तो विरावस्सु महान्
त्रैलोक्यं येन पूरितम् ।।

तस्माद्विष्ण्वंशभूतेन परशुरामेणात्मश्लाघायै उक्तस्य
वचनस्याधिकंमेनिरे विष्णुमित्यस्याहंकारमूलत्वात्
लोभमूलस्य वैसर्जनीय वासोध्वयुर्गृह्नातीति वाक्यस्येव हेतु
दर्शनाधिकरण न्यायेनाप्रामाण्यमावश्यकमित्यलमति
विस्तरेण ।।

ननु त्रिपुर विजये परमेश्वरस्य मेरुर्धनुर्धरणीरथः
चन्द्रार्कौ रथाङ्गे वेदा अश्वाः यन्ताचतुर्मुखः नारायणो
बाण इति सर्वं श्रुतिस्मृतीति हासपुराणेषु प्रसिद्धम् ।

प्. ३१)

ब्रह्माद्युप करणत्वेन तदाधिक्यं तथापि तत्रैव पूर्वोदाहृत
त्रिपुरविजयप्रकरणे वेदितव्यः । तथापि पाशुपत्यवरयाचनं
कथमुपपद्यते । याचनस्य दैन्यमूलत्वेन श्रैष्ठय
विरोधित्वादिति चेत् । उच्यते पाशुपत्यस्या नादिसिद्धत्वेपि
कृपालुर्भगवान् परमेश्वरः पाशुपत्यज्ञानस्य
परमपुरुषार्थसाधनतामनुसंदधानः तज्ज्ञानशून्यान्
देवान् तदुपदेशेनानु जिघृक्षुः पुरविजयरूपोपकार
प्रदर्शनव्याजेनाभिमुखीकृत्य तेषांपाशुपत्यमुपदिष्टवान् ।
सोऽब्रवीद्वरं वृणे अहमेव पशूनामधिपतिरासमिति वाक्येन ।

ननु वरं वृणेति वरयाचनं प्रतीयते । तत्कथमुपपद्यत इति
चेत् । मैवम् । देवानां स्वशेषत्वं
तन्मुखेनैवाङ्गीकारयितुमिति वदामः । युक्तं च सर्वाप्तस्य
परमेश्वरस्य पितुरिवपुत्रान् प्रत्युपदेष्टृत्वं
तद्बहुमानपूर्वकमेव । देवानां पितृत्वमपि रुद्रसूक्ते श्रूयते
- अतेपित मरुतान् सुम्नमेत्विति । न च पाशुपत्यानादि
सिद्धत्वमसिद्धम् । प्राजापत्या वै पशवः । तेषां
रुद्रोऽधिपतिः । न चास्यागन्तुकत्वं युक्तम् । वेदस्या नित्य
संयोगाख्यदोष प्रसंगात् । न ह्यनादिमतो
वेदस्यादिमत्पाशुपत्य प्रतिपादकत्वं युक्तम् । ननु हरिश्चन्द्रोह
वै राजेत्यादीनामनादित्वं स्यादिति चेत् । तेषां
प्रवाहरूपेणानादिमत्वस्य शाबरभाष्य जैमिनिसूत्राभ्यां
अर्थवाद पादे अनित्य संयोगपरिहारार्थं प्रदर्शितत्वात् ।

प्. ३२)

न च रुद्रपाशुपत्य वरणस्यापि तथात्वंयुक्तम् । एक एवरुद्रो न
द्वितीयायतस्थ इत्यादि श्वेताश्वतरादि वाक्यै
रुद्रैकत्वावगमात् परमेश्वरस्य स्वरूपेणानादिमत्वसंभवे
प्रवाहरूपेणानादिमत्वस्यायुक्तत्वात् । सहस्राणि सहस्रशो ये ये
रुद्रा अधिभवन्नित्यादीनान्तु परमेश्वरावतार
रुद्रत्वान्नकश्चिद्विरोधः । किञ्चायं परमेश्वरस्य पाशुपत्यं
वरदानलब्धमिति वदन् वादीवैष्णवः उतवेदबाह्यः । नाद्यः
। तस्यापि देवताभ्योवरंप्राप्य समुत्थाप्य च वानरान् ।
अयोध्यां प्रस्थितोरामः पुष्पकेणसुहृद्वृतः ।। इति रामायण
वाक्यस्य प्रमाणत्वात् विष्णोरपि
वरयाचनाप्रयुक्तमप्रकृष्टत्वं स्यात् । श्रुतौ च । किं
स्विदत्रान्तरभूतम् । येनेमे विधृते उभे । विष्णुना विधृते उभे
भूमी इति प्रश्नोत्तरानन्तरम् । किं तद्विष्णोर्बलमाहुः
कादीप्तिः किं परायणम् । एको यद्धारयद्देवः रेजती रोदसी
उभे इत्यादिना विष्णोर्बलदीप्ति परायणद्यावा पृथिवी
धारणानां किं स्वसामर्थ्य प्रयुक्तत्वमुतान्यसामर्थ्य
प्रयुक्तत्वमिति प्रश्ने प्रश्नेषूत्तराणि तत्रैवान्यप्रयुक्त
प्रतिपादकानि श्रुतानि ।
वाताद्विष्णोर्बलमाहुरक्षराद्दीप्तिरुच्यते ।
त्रिपदाद्धारयद्देवः यद्विष्णोरेकमुत्तमम्। अग्नयो वायवश्चैव
एतदस्य परायणम् । इत्यादिना वाताक्षरत्रिपदाग्नि

प्. ३३)

वायवादि शब्दवाच्यैर्विष्णुबलादिकं प्रयुक्तमिति
प्रतिपादनादपकर्षःस्यात् । न चात्र विष्णुशब्द वाच्यो
नारायणादन्यो भवितुर्महति । द्यावापृथिवीविधारणस्या
न्यस्मादशक्यत्वात् किञ्च विष्णोर्माहात्म्यस्य कर्माधीनत्वमपि
श्रूयते । विष्णुर्वा अकामयत पुण्यश्लोकं शृणोमि न मामपि
कीतिरागच्छेदिति विष्णोः पुण्यश्रवणकीर्तनस्य
कर्माधानत्वप्रतिपादनात् । न द्वितीयः । वेदाप्रामाण्य
वादिनः तव वेद प्रतिपाद्य पाशुपत्य
वरणाश्रितदोषाणामाश्रयासिद्धदोषग्रस्तत्वात् । वस्तुतस्तु
पाशुपत्य वरणस्याधिक्य प्रतिपादकत्वमेव । न
त्वपकर्षापादकत्वम् । विष्णुकृत मधुकैटभयाचनवत् । तथा
च मार्कण्डेयपुराणे -

तावप्यति बलोन्मत्तौ महामाया विमोहितौ । उक्तवन्तौ वरोऽस्मत्त
व्रीयतां इति केशवम् ।।

श्रीभगवानुवाच -

भवतामद्य मे तुष्टौ मम वध्याबुभावपि । किमन्येन वरेणात्र
एतावद्धि वृतं मया ।।

प्रकृते च देवताभ्यो वरयाचनस्य स्वाधिक्य पर्यवसायित्वात्
अमात्यपुरोहित सामन्तादिभिः साम्राज्येऽभिषिक्तस्यापि
राजकुमारस्य स्वामित्व नियामकत्व स्वातन्त्र्यादिवत् देवताभिः
पाशुपत्ये प्रतिष्ठापि तस्य परमेश्वरस्य तत्प्रति
योगिकस्वामित्व पर्यवसायित्वात् । तेषां च स्वनिगम्यत्वे
विरोधाच्च स्वयं वरप्रवृत्ते कन्यावृते तद्भर्तृवच्चाधिक्य
पर्यवसायित्वादिति शिवः सर्वाधिकः सर्वपतित्वात् ।

प्. ३४)

व्यतिरेकेण जीववत् । सर्वेशिवादन्ये शिवेन नियम्याः पशुत्वात्
अस्मदादिवत् । सर्वनियामकत्वं शिवैकनिष्ठं शिवादन्यत्रा
विद्यमानत्वे सति वृत्तिमत्वात् शिवत्ववत् । न चा प्रयोजकत्वं
पाशुपत्य प्रतिपादक पूर्वोक्त श्रुति विरोधादित्यास्तां विस्तरः


अथ कथं सर्वाधिकत्वं शिवादन्यत्र नास्तीत्युच्यते तदन्यस्य
विष्णोरेव सर्वाधिकत्वसंभवात् । आधिक्यानाधिक्ये
उपास्योपासक भावेन व्यक्तमवग्च्छामः ।। तथा च पद्मपुराणे
परमेश्वरवचनम् -

रकारादीनि नामानि शृण्वतो मम पार्वति । मनः प्रसन्नतामेति
राम नामाभिशङ्कया ।।

अन्यत्र च -

मुमूर्षोर्मणि कर्णिक्यामर्धोदक निवासिनः । अहं दिशामि ते
मन्त्रं तारक ब्रह्मसंज्ञिकम् ।।

श्रीराम रामरामेति ह्येतत्तारक मुच्यते । अतस्त्वां
जानकीनाथ परब्रह्म सुनिश्चितम् ।।

त्वन्माया मोहितास्सर्वे नत्वां जानन्ति तत्वतः ।।

तापनीये च -

श्रीरामस्यमनुं काश्यांजजाप वृषभध्वजः ।
एवञ्चोपासकस्य शिवस्य नारायणांशभूतराम
प्रतिपादकतारक ब्रह्ममन्त्र जपोपदेशाभ्यां तद्भक्त त्वमेव
ज्ञापयति । तथा च प्रयोगः- शिवो नारायणापेक्षया
अधिकोनभवती तद्भक्तत्वात् । तदुपासकत्वात् ।
तन्मन्त्रजापकत्वात् । नारदादिवत् ।

प्. ३५)

न चा प्रयोजकत्वम् । न्यूनाधिकभावस्योपास्योपासक
भावव्यापकत्वेन राजभृत्यादौ लोकसिद्धत्वात् ।
तस्मान्नारायण एवाधिक इत्युच्यत इति चेत् । अत्र ब्रूमः ।
रामतारकमन्त्रस्य विष्णुवाचकत्वे सत्वे तदुपपद्यते । न च
विष्णुत्वं प्रवृत्तिनिमित्तम् । तथात्वे प्रमाणाभावात् । रमन्ते
योगिनोनन्ते सत्यानन्दे चिदात्मनि इति रामपदेनासौ परं
ब्रह्माभिधीयत इति स्कन्दपुराणवचनेन राम शब्दस्य
परब्रह्मवाचकत्वावगमात् । न च विष्णोः पर ब्रह्मत्वेपि इदं
वचनमुपपन्नमिति वाच्यम् । काश्यां रामतारकोपदेशं
प्राप्यमुक्तस्यशिवत्वप्राप्ति श्रवणेन तस्य
विष्णुवाचकत्वायोगात् । यथा क्रतुरस्मिल्लोके पुरुषो भवति ।
अचेतः प्रेत्य तथा भवतीतिश्रुतेः ।

अस्यार्थः -

क्रतुः संकल्पः । पुरुषः आसील्लोंके यादृशसंकल्पो भवति
यादृशोपासनावान् भवति । इतः प्रेत्य शरीरं त्यक्त्वा तथा
भवति तादृशोभवतीत्यर्थः । गीतासु कृष्णवाक्यम् -

यं यं भावं स्मरन्नित्यं त्यजत्यन्ते कलेवरम् । तं तमेवैति
कौन्तेय सदा तद्भाव भावितः ।।

भूतिलिप्ताविलासिन्या भुगङ्गपरिवारिताः ।
चन्द्रभूषितदेहाश्च यस्यां त्वमिवशङ्कर ।।

रामशब्दः किं विष्णुवाचकः । उततदवतारवाचकः । नाद्यः
। निघंट्वादौ विष्णुवाचक पर्यायेषु पाठा भावात् ।।

प्. ३६)

न द्वितीयः । तदवतार त्वेपि किं भार्गवस्य रामस्यवाचकः
उतराघवस्य रामस्य वाचकः । उतयादवस्य रामस्य सर्वेषां
नाद्यः । भवन्मते भार्गवरामस्येतरावतारवत्
पूज्यत्वानङ्गीकारेण तन्नाम्नोप्यनादरत्व प्रसङ्गात् । न
द्वितीयः । रामोऽहं तु भविष्यामि दुष्ट निग्रह हेतवे ।।
हरिवंशशेषधर्मेषु मतङ्गमहामुनिं प्रति विरूपाक्षचनात्
तस्य रामभद्रस्य परब्रह्मभूत सदाशिवांशत्वात्
परब्रह्मवाचकरामशब्दवाच्यत्वो जपत्तेः । न च विष्णोरर्धं
महाभाग कौसल्यजनयत्सुतम् । इति रामायणवाक्य विरोधः ।
अष्टाभिर्लोकपालानां मात्राभिर्निर्मितो नृप इति न्यायेन
पालनस्य विष्णुकार्यत्वात् विष्ण्वंशगोपपत्तेः । नाविष्णुः
पृथिवीपतिरिति न्यायेन । न चैतावता रामशब्दस्य
विष्णुवाचकत्वं युक्तम् । शिवस्यैव प्रधानत्वात् । प्राधान्येन
व्यपदेश्या भवन्तीति न्यायेन शिववाचकत्वोपपत्तेः ।

न च विष्णोरेव प्रधानत्वं राक्षससंहारार्थत्वादवतारस्य
संहारस्य रुद्रकार्यत्वात् । एतदस्य बलंघोरं
ममवात्र्यम्बकस्य वा । इति रामायणे रामभद्रवाक्येन -

गगनं गगनाकारं सागरः सागरोपमः ।
इतिवदभेदेप्युपमानोपमेय भाव विवक्षया प्रयुक्तेन
रुद्रांशस्यैव प्रधानत्वावगमात् पाञ्चभौतिकेषु घटादि
पदार्थेषु पार्थिवत्वतैजसत्वादि

प्. ३७)

व्यवहारवत् रुद्रांशस्य प्रधानत्वात् रामशब्दस्य
रुद्रवाचकत्वोपपत्तेः । दृश्यते च पुराणेषु रामस्या
करेणशिवरूपत्वम् । यथा शत्रु भये चोर भये राज भये
तथा ।

ध्यात्वा रघुपतिं क्रुद्धं कालानलमिवापरम् ।।

पीतकृष्णाजिनधरं भस्मोद्धूलितविग्रहम् । आकर्ण * * *
कृष्टकोदण्ड भुजमण्डलम् ।। जानकी लक्ष्मणोपेतं
जटामकुटमण्डितम् ।।

इत्यादीनां जटाधारण भस्मोद्धूलनादीनां
शिवभेदज्ञापकत्वात् । अत एव रामभद्रस्य रामेश्वराद्यनेक
लिङ्गप्रतिष्ठापकत्वेन शिवपूजा सम्प्रदाय प्रवर्तकत्वेन च
शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जित इति
रामाष्टोत्तरशतदिव्यनामस्तोत्र वचनैश्च शिवराघव
संवादादि पुराणसंहितानी प्रतिपाद्यमानत्वात् । * * *त्वेन
रामशब्द वाच्यत्वम् । एतेन तृतीय चतुर्थपक्षावपि निरस्तौ ।
रामस्य * * * * * ब्रह्मत्व * * * भावात् । नापि चतुर्थः ।
अवताराणामादिमत्वेन रामशब्दस्य तद्वाचकत्वे
शब्दार्थयोरनित्य सम्बन्धे औत्पतीकश्च शब्दस्यार्थेन नित्यः
सम्बन्ध इति जैमिनीयसूत्र विरोधः स्यात् । न च तदवतारमूल
नारायणत्वानादि त्वेन तत्संबन्धोप्य नादिरिति वाच्यम् ।
तद्वाचक पर्यायेषु पाठाभावस्योक्तत्वात् । न च विष्णु
सहस्रनामपाठाद्विष्णुवाचकत्वं

प्. ३८)

शिवसहस्रनाम पाठा तद्वाचकत्वोपपत्तेः । एवं च
राममन्त्रोपासनया मुक्तस्य शिवत्व प्राप्त्या वैकुण्ठ
लोकमप्नोति दशपूर्वैर्दशापरैरित्यादीनां रामोपासकस्य
वैकुंठ प्राप्ति प्रतिपादक दक्षपुराण वचनानां च
शिवलोक प्राप्ति मार्गभूतार्चिरादि देवताप्राप्ति वदुपपत्तेः ।
विष्णुलोक कामनयानुष्ठान विषयत्वेन वा अविरोधात् । रामस्य
हरिवंश शेष धर्मवचनानुसारेण रामभद्रस्य
सदाशिवावतारत्वेन तद्वाचकस्य शिव परत्वात् । रामेश्वरादि
प्रतिष्ठापकत्वेन जटाभस्मधारित्वेन च शिवत्वनिर्णयात्
तद्वाचकस्य रामतारक मन्त्रस्य सत्यानन्द चिदात्मक
ब्रह्मवाचकत्वात् तादृशराम मन्त्रजपोपदेशयोः लोकानु
ग्रहार्थत्वात् परब्रह्मणः परमेश्वरस्य नाधिक्य हानिरिति
सिद्धम् ।।

स्यादेतत् । रामादिभिर्यदि शिव प्रतिष्ठादिकं कृतं कथं
तर्हि शिवप्रसाद निषेधः । न च विहितत्वा * * * * कर्तव्यं
निषिद्धत्वात् प्रसादादिकं न स्वीकर्तव्यमिति युक्तम् ।
हविश्शेषभक्षणाभावे कृष्णविषाणां प्राश्यतीतिवत्
भूतोपयोगि संस्काराभावेन याग वै गुण्यवत् प्रसाद
भक्षणाभावे पूजायाः वैगुण्यप्रसंगात् प्रसादग्रहणं ।
प्रसादभक्षणाभावे आत्मार्थपाकस्य केवलोघो भवति
केवलादी । भुञ्जते ते त्वघं पापं ये पचन्त्यात्मकारणात् ।
इति श्रुति स्मृतिभ्यां निषिद्धत्वेनस्या भाव प्रसंगात् ।
तस्माच्छिव प्रसाद निषेधः पूजा निषध पर्यवलायी ।

प्. ३९)

नैवं विष्णु प्रसाद निषेधः प्रत्युत विहितस्तत्पूजा च ।

तदुक्तं भागवते -

त्वयोपभुक्तस्रग्गन्ध वसोलंकार चिर्चिताः ।
उच्छिष्टभोजनादानास्तव मायां जयेमहि ।।

अन्यत्र च -

अकाल मृत्युहरणं सर्वव्याधि विनाशनम् । समस्त दुरितध्वंसि
विष्णोः पादोदकं शुभम् ।।

पुनश्च -

आजन्म कृतपापानां प्रायश्चित्तं विधित्सुभिः ।
सालग्रामशिलावारि पापहारि निषेव्यताम् ।।

शिवप्रसादस्य तु अ* * * मम नैवेद्यं निम * * तथा । यः
स्वयं * * लोकेऽस्मिन् प्रायश्चित्ति भवेन्नरः ।।

इत्यादिवचनैः शिवप्रसादस्य निषिद्धत्वादिति चेन्न । यद्यपि
शिवप्रसाद निषेधः क्वचित् क्वचिच्छ्नुतः तथा पितत्स्वीकारो
विहितत्वादवश्य कर्तव्यः । न च विधि निषेधयोर्विरोधः ।
निषेधस्य रागतः प्राप्तविषयत्वेन विहितेतरपरत्वात् । न हि
स्यात् सर्वा भूतानि । अग्नीषोमीयं पशुमालभेत इतिवत् । तथा
च श्रुतिः -

ईशावास्यमिदं सर्वं यत्किंच जगत्यां जगत् । तेन त्यक्तेन
भुञ्जीथामागृधः कस्यस्विद्धनम् ।।

अत्रेशशब्दस्य शम्भुरीशः पशुपतिरिति शिवे रूढत्वात्
पिकमालभेतेत्यादौ म्लेच्छ प्रसिद्धेरपि शब्दार्थनिर्णय
हेतुत्वाभ्युपगमात् । तृतीयान्तत्वेपि ईश ऐश्वर्य इति
धातूत्पन्नत्वेन सदा शिवपरत्वात् । इना देशा भावस्य भद्रं
कर्णे भिरित्यादिवच्छान्द सत्वे नाप्यु * * *

प्. ४०)

दविधानात् भोजनार्थत्वावगते तद्विहित भोजनसाधनत्वेन
तेनत्यक्तेनेति व्याधिकरण तृतीयाद्वयेन परमेश्वरमुक्त
परित्युक्त द्रव्येण भोजनं सम्पादयेदिति विध्यर्थपर्यवसानात्
मागृधः कस्यस्विद्धनमिति इतर निन्दार्थवाद योगना न
कर्मणा न प्रजयाधनेन त्यागेनैकेऽमृतत्वमानशुरितिवत्
विधित्व निश्चयात् । उपांशुयागमन्ता यजतीत्यस्य
विधित्वकल्पनवद्विधित्वोपपत्तेः विहितस्य प्रतिषेधे
विकल्पोच्छेदात् । आदित्यपुराणे -

ब्रह्मघो वा सुरापी वा स्तेयी वा गुरुतल्पगः । योऽन्त्यकाले
शिवं स्मृत्वा शिवसायुज्यमाप्नुयात् ।।

निर्माल्यं धारयेद्भक्त्या शिरसा पार्वतीपतेः । राजसूयस्य
यागस्य फलमाप्नोत्यनुत्तमम् ।।

शिरसा शिवनिर्माल्यं भक्त्या योधारयिष्यति । अशुचिर्भिन्न
मर्यादः सर्वावस्थां गतोऽपि वा ।।

स्वैरीवा मदमत्तो वा नियमैश्चबहिष्कृतः । तस्य पापानि
सर्वाणि नाशयत्येव शङ्करः ।।

लोभा * * * * येच्छंभोर्निर्माल्यं न च भक्षयेत् । न स्पृशेदपि

  • * * * लंघयेन्नापि ना * * * ।।


निर्माल्यलंघनं * * * * * भ्रंशो भिजायते । निर्माल्य दाता
नरके पच्यते कालमक्ष्यम् ।।

पुरुदकं महातीर्थं गंगा च यमुना नदी । नर्मदा चैव
कावेरी तथा गोदावरी नदी ।।

प्. ४१)

सदा सन्निहितास्त्वेताः शम्भोः पादोदके मुने । शम्भोः
पादोदकं सेव्यं सर्वतीर्थमयं हि तत् ।।
धारणात्पापसंघातैस्तत्क्षणादेवमुच्यते ।।

लिंगे स्वयंभुवे बाणे रत्नजे रसनिर्मिते । सिद्ध प्रतिष्ठिते
चैव न चण्डाधि कृतो भवेत् ।।

तस्मादेतैर्वचनैः निर्माल्यस्य विहितत्वात् निषेधवचनानाञ्चा
भ्क्तविषयत्वेन रागतः प्राप्तविषयत्वेन श्रुतिवाक्यादेव
व्यवस्थितत्वात् । भक्त्या निर्माल्य सेवाया अनन्तफलसाधनता
प्रतिपादनात् । भागवते चतुर्थ स्कन्धे -

तत्किं शिवाख्यमनिशं न विदुस्तदन्ये ब्रह्मादयस्तमवकीर्य
जटाश्मशाने । तन्माल्य भस्मनृकपाल * * * त्पिशाचै
र्यन्मूर्धभिर्दधति तच्चरणावसृष्टम् ।।

रामायणे -

तत्र देवर्षि गन्धर्वा वसुधातल वासिनः । भवाङ्गपतितं
तोयं पवित्रमिति पस्पृशुः ।। इति ।।

विष्णुपुराणे-

शम्भोर्जटाकलापात्सा विनिष्क्रान्तास्थि शर्कराः । प्लावयित्वा
दिवंनिन्ये या पापान् सगरात्मजान् ।।

आदित्थपुराण भागवतरामायण विष्णुपुराणवाक्यैः
उपबृंहिते नेशावास्य वाक्येन विहितत्वात् शिवप्रसाद पादोदक
निर्माल्य सेवा सर्वैरपि कर्तव्या ।। तथा च वातूलागमे -

पादोदकं पुरभिदः पाशजालहरं परम् ।
शूलकुष्ठाद्यपस्मारज्वराणां भेषजं प्रिये ।।

प्. ४२)

स्कान्दे -

निर्माल्य सलिलं पीत्वा देवदेवस्य सुचिः ।
क्षयापस्मारकुष्ठादि पातकैरपि मुच्यते ।।

तथा च प्रयोगः -

शिवप्रसादादि सेवा निरतिशयपुरुषार्थ हेतुः । तत्त्वेन वेद
विहितत्वात् । अश्वमेधादिवत् । प्रसादादि सेवा बलवद निष्टा
ननु बन्धीष्टसाधनम् । विहितत्वात् ज्योतिष्टोमादिवत् । न चा
प्रयोजकत्वम् । विहिते प्रतिषेधाभावेन बलवदनिष्टा ननु
बन्धित्वात् । विधेयस्यबलवदनिष्टानु बान्धित्वे वेदस्यानाप्त
प्रणीतत्वप्रसंगः । न च श्येनादिर्विहितत्वेन हेतोर्व्यभिचारः
। नाभिचरित वै । अभिचारं छागहीनं त्रिभिः * * * व्यपोहति
। इति निषेध प्रायश्चित्तोपदेशाभ्यां श्येनादौ विध्यर्था
भावेन अप्रवृत्त प्रवर्तकत्वा भावात् । वैरिवध प्रवृत्तस्य
नियोज्यत्वेन साधनत्वमात्रपरत्वात् । अविगीतत्वं वा
विशेषणं देयमिति बुद्धिमद्भिरुहनीयम् ।।

अत्र केचिच्छिव प्रति पादकानां पुराणागमानां तामसत्वं
प्रतिपादयन्ति । तेषां मयमाशयः । मत्स्यपुराणे-

संकीर्णास्तामसाश्चैव सात्विकाराजसास्तथा । यस्मिन् कल्पेषु
यत्प्रोक्तं पुराणं ब्रह्मणपुरा ।।

तस्य तस्य तु माहात्म्यं तत्वरूपेण वर्ण्यते । अग्नेः शिवस्य
माहात्म्यं तामसेषु प्रकीर्त्यते ।।

राजसेषु तु माहात्म्यंमधिकं ब्रह्मणो विदुः ।

प्. ४३)

सात्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः ।। येष्वेव योग
संसिद्धा गमिष्ठष्यन्ति परांगतिम् ।।

संकीर्णेषु सरस्वत्याः माहात्म्यमधिकं विदुः ।। इति ।
एतदुक्तं भवति । अधिक्षेत्रज्ञ * * * * ब्रह्मणः तस्यापि
केषुचिदहस्सु सत्वमुद्रिक्तम् । केषुचित्तमः । केषुचिद्रजः । तथा
च केचिद्ब्रह्म कल्पासत्वप्रायाः । केचिद्रजः प्रायाः ।
केचित्तमः प्रायाः । एतेन सत्व प्रायेषु तदितरेषु चाहवप्सु
यानि पुराणानि ब्रह्मणा प्रोक्तानि तेषां परस्पर विरोधेसति
सात्विकाहः प्रोक्तं पुराणमेव यथार्थम् । तद्विरोध्यन्यद
यथार्थं सत्वनिष्ठेन ब्रह्मणाप्तोप्रोक्तत्वात् । गीतासु च -

सत्वात्सं जायते ज्ञानं रजसा लोभ एव च । प्रमाद मोहौ
तमसा भवेतां ज्ञानमेव च ।। प्रवृत्तिं च निवृत्तिं च
कार्या कार्ये भयाभये ।।

बन्धमोक्षञ्च योवेत्ति बुद्धिस्सापार्थसात्विकी ।।

यथा धर्ममधर्मञ्च कार्यञ्चा कार्यमेवं च । यथावत्
प्रविजानाति बुद्धिस्सापार्थराजसी ।।

अधर्मं धर्ममिति या मन्यते तमसा कृता ।। सर्वार्थान्वि
परीतांश्च बुद्धिस्सापार्थ तामसी ।। इति ।

सर्वान् पुराणार्थान् ब्रह्मणस्सकाशा दधिगम्यैवसर्वाणि
पुराणानि पुराण काराश्चक्रुः । यथोक्तम् -

कथयामि यथा पूर्वं दक्षाद्यैर्मुनिसत्तमैः ।

प्. ४४)

पृष्ठः प्रोवाच भगवानब्जयोनिः पितामहः ।।

तस्मात्सत्वाद्युद्रेकवता ब्रह्मणा सात्विकादिषु
प्रोक्तत्वात्सात्त्विकादि व्यपदेशः । पुराणानाम् - अग्नेः शिवस्य
माहात्म्यं तामसेषु प्रकीर्त्यत इति वचनात्
शिवप्रतिपादकानां पुराणानां तामसत्वं
तत्प्रतिपाद्यत्वाच्च शिवस्य तामसत्वम् । न च तस्य श्रेयः
प्रापकत्वं तमसा मोह एव चेत्यादि वचनात् । सत्त्वात्सञ्जायते
ज्ञानंश्रेयांसि । तत्र खलुं सत्वतनोः नृणां स्युरिति
भागवत वचनात् तत्प्रधानत्वात् विष्णोरेव श्रेयः प्रापकत्वम्
। अन्ये तु -

एव मोहं सृजाम्याशु योजनान्मोह इष्यति । त्वं वै रुद्र
महाबाहो मोहशास्त्राणि कारय ।।

अतथ्यानि वितथ्यानि दर्शयस्व महाभुज । प्रकाशं कुरु
चात्मानमप्रकाशं च मां कुरु ।।

इत्यादि वराहपुराण वचनेन शिव प्रतिपादकानां
मोहार्थकत्वेना प्रामाण्यमिति वदन्ति । तदयुक्तम् ।

यद्यपि तमो गुणस्य मोहहेतुत्वं सर्वसिद्धं तथापि शिवस्य
तत्प्रतिपादकपुराणा गमानां च न तामसत्वं
प्रमाणाभावात् । तथाहि - किमिदं तामसत्वं
तमोगुणजन्यत्वं वा स्वेतरगुणा संसृष्ट तमोजन्यत्वं वा ।
इतरानभिभूत तमो जन्यत्वं वा तमोगुणजन्य विशिष्टत्वं वा
तमोविशिष्ट कर्तृकत्वं वा तमोगुण विशिष्ट प्रतिपादकत्वं

प्. ४५)

वा तमोगुणप्रधान प्रतिपाद्यत्वं वा अन्यद्वा । नाद्यः
रुद्राद्यात्मनां नित्यत्वेना तामसत्वात् । सर्वस्य प्रपञ्चस्य
गुणत्रय जन्यत्वेन त्वत्संमतानां पुराणागमानामपि
तामसत्व प्रसंगात् । न च तमोमात्र जन्यत्वं वा विवक्षितम् ।
एकस्यानारम्भकत्वेनासिद्धेः । अत एव न द्वितीयः । सर्वस्य
गुणस्य गुणान्तरयुक्तस्यैव जनकत्वेनेतरासंसृष्टतमोगुण
जन्यत्वस्या प्रसिद्धत्वात् । न तृतीयः । रुद्रस्य नित्य सिद्धत्वेन
प्रकृते तदसिद्धेः । तत्कर्तृकाणां शैवागमानां
अष्टादश पुराणानां कर्ता सत्यवती सुतः ।
आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः ।।

पुराणसंहितांचक्रे पुराणार्थ विशारद ।। इति
विष्णुपुराणवचनात् व्यासकृतानां सर्वेषामपि तामसत्वा
भावात् । अन्यथा त्वदभिमतानामपि
तामसत्वप्रसङ्गस्तुल्यन्यायत्वात् ।

नन्वस्तु तमोगुणजन्य देहादिविशिष्टस्य रुद्रस्य तामसत्वमिति
चतुर्थः पक्षः । रुद्रस्य संहारकर्तृत्वेन संहारस्य
तमोगुण कार्यत्वेन सर्वपुराण प्रसिद्धत्वादिति चेन्मैवम् ।
विष्णोः संहार कर्तृत्वाभावेनानीश्वरत्व प्रसंगात् । न च
संहारं प्रतिरुद्रादिशरीरद्वाराकारणत्वं विष्णोः
पालनं प्रति तु साक्षादेवेति वाच्यम् ।

प्. ४६)

साक्षात्संहारकर्तृत्वस्याग्नावभावेन तस्य तामसत्वासिद्धेः
। त्वया सङ्कर्षणस्यैव संहर्तृकत्व कथनाच्च । सर्वत्र
साक्षाद्वा परम्परयावा कारणत्वसंभवे
तारतम्यकल्पत्रयां प्रमाणाभावेन तस्यापि तामसत्व
प्रसङ्गात् । वैपरीत्यस्यापि सुवचत्वाच्च । पालनस्य
प्राकृतसत्वगुणप्रयोज्यत्वेन विष्णोरपि प्राकृतत्व प्रसंगात् ।
तस्यापि भूभारावताराय दैत्यादि संहारकर्तृत्वेन
रुद्रस्यापि कालकूट किलनान्धकारसुर त्रिपुरादि निग्रहद्वारा
जगद्रक्षकत्वस्य पुराण प्रसिद्धत्वेन सात्त्विकत्व तामसत्व
व्यत्ययप्रसंगाच्च । या ते रुद्रशिवा तनूरघोरा पापकाशिनी
। तया नस्तन्वा शंतमया गिरिशत्वमभिचाकशीति शिव
शरीरस्य तामसत्व निषेधाच्च । अस्यार्थः - हे गिरिश हे रुद्र
अपापानां काराते प्रकाशत इत्यपापकाशिनी ।
शिवाक्षेमंकरी या तनूः शरीरं शंतमया आत्यन्तिक
सुखहेतु भूतया तन्वानः अस्मान् प्रतिचाकशीहि प्रकाशस्वेति ।
न हि तामसस्य शरीरस्याघोरत्वं आत्यन्तिकसुखहेतुत्वं
अपापान् प्रति प्रकाशमानत्वं वा संभवति । तस्माच्छिव
शरीरस्य न तामसत्वम् । तर्हि संहारस्य तमः
कार्यत्वप्रतिपादकानां पुराणानां का गतिरिति चेत्
घोरशरीरविषयत्वात् । तथा च श्रुतिः - रुद्रो वा एव
यदग्निस्तस्ये ते ते

प्. ४७)

तनवौ घोरान्या शिवान्येति । प्रत्युत शिवस्यैव निष्ण्वादि
शरीरद्वारा पालनादि कर्तृत्वं वक्तुंयुक्तम् । श्रूयते च
विष्णोरुद्रशरीरत्वम् यद्वसोर्धारां जुहोति यैवास्यशिवा
तनूस्तां तेन प्रीणाति आग्निर्वसुस्तस्यैषा धारा
विष्णुर्वसुस्तस्यैषा धारा वसोर्धारां जुहोति ।
अज्ञाग्नेर्विष्णोश्चरुद्रशरीरत्वाभावे तदुभय देवताक
वसुधाराहुत्यारुद्रतनूः कथं प्रीता भवति । विनियुक्त
विनियोग विरोधात् । तदुक्तम्शिवागमे -

घोरा तनूस्तव ब्रह्मन् आपोधर्मश्च चन्द्रमाः । शिवा तनूस्तव
ब्रह्मन् सूर्योविष्णुर्हुताशनः ।।

अत्र विष्णोः शिवशरीरत्वेन विष्ण्वाधिक्य
प्रतिपादकपुराणागमानां शिवाधिक्यपरत्वमेव निश्चीयते ।
शरीराधिक्यपराणामलंकार स्तोत्रादीनां शरीरिणि
पर्यवसानात् ।

नन्वस्तु पञ्चमः । तमोगुण प्रचुरेषु कल्पेषु तद्विशिष्टेन
ब्रह्मणा कृतानि पुराणानि तामसानि ।
तत्प्रतिपाद्यत्वाच्छिवस्यापि तामसत्वमिति चेत् तामसेषु कल्पेषु
ब्रह्मणा कृतानां पुराणानां अस्मिन्वर्तमाने
श्वेतवराहकल्पेऽनुवर्तमानत्वे प्रमाणाभावात् । अस्मिन्नपि
कल्पेऽष्टाविंशति तमेन व्यासेने दानीन्तनपुराणकरणस्य
श्रूयमाणत्वात् । तदुक्तं विष्णुपुराणे -

वैवस्वतेन्तरे तस्मिन् द्वापरेषु पुनः पुनः । वेदव्यासा
व्यतीतायेऽष्टाविंशति सत्तम ।।

प्. ४८)

वर्तमानस्य पराशरात्मजस्य वेदव्यासस्य
प्रवर्तमानसर्वपुराण कर्तृत्वं च तथैवश्रुताम् ।
पुराणसंहितां चक्रे पुराणार्थ विशारद इति । तानि
चाष्टादश पुराणानि तत्रैव गणयित्वोत्पत्ति क्रमापेक्षया
क्रम उक्तः । एतद्वैष्णव संज्ञं वै पाद्मं तु तदनन्तरम् ।
एवमर्थानामपि कर्तमानकल्पस्थरामकृष्णादीनां
युदुवंशप्रभवत्वात् । दक्ष
कन्यानिमित्तदक्षाध्वरध्वंसादीनामेतत् कल्प मध्यस्थत्वात् ।
एतत्कल्पस्थ शैव वैष्णव प्रभाव प्रतिपादकानां
एतत्कल्पजातेनाष्टाविंशति तमेन व्यासेन कृतानां
पुराणानां परस्परम् बलाबलचिन्तायां बहुकाल व्यवहितानां
तामसादिब्रह्मकल्पानां उपन्यासो निरर्थकः । कथं
प्रतिपादकस्य भ्रान्तिं नापादयतीति चिन्तनीयम् ।

ननु पुराणकाराणां पुराणकर्तृत्वं
ब्रह्मणस्सकाशात्पुराणार्थानधिगम्यैवेत्युक्तम् । सत्यम्
यत्रातीतकल्पस्थाः पुराणार्थाः ब्रह्मणापुराणकारैश्चते
तथैव प्रतिपाधन्ते । यथा पद्मकल्पे मार्कण्डेयस्य
परमेश्वरानुग्रहः । यत्र तु वर्तमानकल्पास्याः
पुराणार्थाः रामावतार कृष्णावतार वराहावतार
प्रभृतयः । यथा वा कालकूटभक्षण
दक्षाध्वरध्वंसादयः । तेप्येतत्कल्पस्यत्वेनैव ब्रह्मणा
उपदिश्यन्ते । पुराणकारैरपि तथैव प्रति पाद्यन्ते । तेषां
परस्पर विरोधे स्वाभिमतपुराणाधिक्य निर्णय हेतु मपश्यता
बहुकाल व्यवहितातीत कल्पाना

प्. ४९)

सात्विकतामसत्वाद्युपन्यासः कुत्रकेन संगत इति जानीमः ।
नापिषष्ठः । रुद्रसम्बन्धिनो घोर शरीरस्य संहारकत्वेन
तमोविशिष्टत्वेपि तच्छरीरिणः परमेश्वरस्य तद्वोतीतत्वात् ।
तथा च कैवल्योपनिषदि -

उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं
प्रशासम् । ध्यात्वामुनिर्गच्छति भूत योनिमिति ।।

यद्यपि देवदत्तादौ तमोगुण प्रधान शरीरादि विशिष्टे
तामसत्वस्य व्यवहारो लोकेदृष्टः । तथापि न तन्मात्र
विशिष्टत्वेन प्रतिपाद्यः परमेश्वर संबन्धानां
तमोतीतानां अलौकिकप्रकाशरूपाणामनेकेषां विग्रहाणां
प्रमाण प्रसिद्धत्वात् । तथा च स्थिरेभिरङ्गैः पुरुरूप
उग्रोबभ्रुः शुभ्रेभिः पिपिशे हिरण्यैः इत्यत्र शुक्लेभिरिति
शुक्ल शब्देन सत्त्वमयत्वमुच्यते । लोहितशुक्ल कृष्णामितिवत् ।
अन्यथा विष्ण्वाधिक्यवादिनां मते तमोविशिष्ट विष्णु
प्रतिपादकत्वेन वैष्णवानां पुराणानामपि
तामसत्वप्रसङ्गः । कथमन्यथा विष्णोर्भूभारावतरणाय
यादव कौरव दैत्यादि संहारकत्वं कथं वा दैत्य
व्यामाहेनाय महामोहाख्य पुरुषरूपेण दैत्यव्यामोहक
बुद्धजिनादि शास्त्रप्रणेतृत्वम् । तदुक्तं विष्णुपुराणे-

इत्युक्तो भगवान् तेभ्यो माया मोहंशरीरतः । समुत्पाद्य ददौ
विष्णुः प्राह चेदं सुरोत्तमम् ।।

माया मोहोऽयमखिलान् दैत्यांस्तान्मोहायिष्यति । ततो
बध्याभविष्यन्ति वेदमार्गबहिष्कृताः ।।

न हि स्वस्य तमो वै शिष्ट्या भावे महामोहस्यान्यत् प्रसिद्धं

प्. ५०)

उपादानम् । येन स्वशरीरस्य तामसत्वं नस्यात् । ननु विष्णोः
कार्यार्थं तमोगुणसाहित्येपि तस्य सत्वेनाभिभूतत्वात् न
प्राधान्यम् । रुद्रस्य तु सत्व रजसी तमसैवाभिभूते इति
प्रधानं तमः तद्विशिष्टतया संहारादि कर्तृत्वेन
प्रतिपाद्यत्वमिति सप्तमः पक्षः कक्षी क्रियतामिति । मैवम् ।
शत्रुसंहारमात्र प्रयोजकेषु नृसिंहाद्यवतारेषु
तत्प्राधान्येनतामसत्व प्रसङ्गात् शिवस्य तमोमय त्वस्य
निरस्तत्वेन पक्षेवाधितत्वाच्च । नान्त्यः । यः संहारकर्ता
तामसः तस्यापि कश्चित्संहारकोऽस्ति नवा । अस्ति चेत् तामसत्वेपि
स एव सर्वाधिकः सर्वसंहार स्वतन्त्रत्वात् । नास्ति चेदयमेव
तामसस्सर्वाधिक इति तामसत्वं सर्वसंहर्तृत्वात्
सर्वाधिकत्वव्याप्तमिति विरुद्धो हेतुः । तस्माद्रुद्रः
सर्वाधिकस्सर्वसंहर्तृत्वात् व्यतिरेकेण जीववत् । न चाप्रयोजको
हेतुः । प्रबलदुर्बलभावं विना बाध्यबाधक
भावस्यैवासंभवात् । सात्विकत्वस्य बाध्यत्व व्याप्तेः
संहारं प्रतिविरुद्धत्वात् । मृदुःसर्वत्र बाध्यत इति न्यायेन
। न च साध्याप्रसिद्धिः । विश्वाधिकोरुद्र इति पक्ष एव
प्रसिद्धेः । तदनुग्रहार्थत्वादनुमानस्य न सिद्धसाधनत्वम् ।
एवं सात्विकत्वमुक्त प्रकारेण विकल्प्यदूषणीयम् ।

ननु सत्वगुण प्रधान विष्णु प्रतिपादकत्वेन पुराणानां
सात्त्विकत्वं विष्णोः सत्त्वप्राधान्यं च । भागवते - सत्त्वं
रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एव इहास्य
धत्ते ।

प्. ५१)

सृष्ट्यादयो हरिविरिञ्चि हरेति संज्ञाः श्रेयांसि तत्र खलु
सत्व तनोर्नृणांस्युः ।। इति विष्णोः श्रूयत इति चेत् । न ।
विष्ण्वाधिक्य प्रतिपादकानां मार्कण्डेयादि पुराणानां
सात्विकत्व प्रसंगात् । रुद्राधिक्य प्रतिपादकानां
पद्मपुराणादीनां तामसत्वप्रसङ्गात् । पद्मपुराणे
पूर्वोत्तरखण्डाभ्यां हरिहरयोराधिक्य वर्णनात्
तदंशेतामसत्वमिष्टमिति चेत् । रामायण भागवतादावपि
तदंशेतामसत्व प्रसंगात् । रामायणे बालकाण्डे-

तां वै धारयितुं राजन् नान्यं पश्यामिशूलीनः । उमापतिः
पशुपतिः सर्वलोकनमस्कृतः ।। इति । युद्धकाण्डेऽपि एतदस्त्र
बलंघोरं ममवात्र्यम्बकस्य वा ।। इति । उत्तरकाण्डे च -
कैलासनिलय यन्त्रणेन रावण निग्रहेन्द्रजिदनु
ग्रहादिवर्णनस्य बहुतरत्वात् । रावणविनाशस्यापि
रुद्रावज्ञानिमित्तत्व वर्णनात् ।

अथ राम महादेवः प्रहसन् वीक्ष्यतत्कृतम् । पादांगुष्ठेन
तं शैलं पीड्यामास लीलया ।। ततस्ते पीडितास्तत्र
शैलस्याधोगता भुजाः ।।

पुनरपि तस्मिन्नेव -

शुशुभे तत्र तल्लिङ्गं नानारत्नविभूषितम् । अर्चयित्वा तु तं
देवं यथा चरति रावणः ।।

तत्सर्वं सिध्यते तस्य विधिर्नार्चयतो हरम् । अथावज्ञां
करोत्येष रावणो दुर्मतिर्यदा ।।

प्. ५२)

ऋषिभिर्देवतैश्चास्य मृत्युः संचिन्त्यते तदा ।। स तु मत्तो न
जानीते विधिहीनं शिवार्चनम् ।।

एवमिन्द्रजितोपि बहुवारं कपिसेनासहितस्य रामस्य परा * * *
कारणीभूतं वरदानादिकं महेश्वरकृतमिति शिवाधिक्यं
बहुधाद्रष्टव्यम् । एवं विष्णुपुराणेपि - बाणासुरामरत्व
वरप्रदानादिकमपि द्रष्टव्यम् । न चैतस्यापि शिवाधिक्य
प्रतिपादकस्य तामसत्वं वक्तुं युक्तम् । न ते वागनृता काव्ये
काचिदत्र भविष्यति । इति ब्रह्म वाक्यविरोधात् । एवं भागवते
चतुर्थस्कन्धे अदिति कश्यपसंवादे न यस्य लोकेस्वजनः परो वा
नात्यादृतो नो त कश्चिद्विगर्ह्यः । वयं व्रतै
यच्चरणापविद्धामाशास्महेजांबत भुक्तभोगाम् ।।

यस्या न वद्यं चरितं मनीषिणो
गृहान्तविद्यापटलाद्विभत्सवः । निरस्त साम्याति शयोपि यः
स्वयं पिशाचचर्यामचरद्गतिस्सताम् ।।

हसन्ति यस्याचरितं हि दुर्भगा स्वात्मस्मृतस्या विदुषः
समीहितम् ।

यैर्वस्त्रमाल्याभरणानुलेपनैः इव भोजनं स्वात्मतयो
पलालितम् । ब्रह्मादयो यत्कृत सेतुपालायत्कारणं विश्वमिदं
हिमाया ।।

आज्ञाकरी तस्य पिशाचचर्येत्यहो विभूम्नश्चरितं विडम्बनम् ।।

प्. ५३)

श्मशानचक्रानिलधूलिधूम्र विकीर्णविद्योत जटाकलापः ।
भस्मावकुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति देवरस्ते ।।

न चैतेषामापि शिव प्रतिपादकत्वेन तामसत्वम् ।
प्रथमश्लोकस्य भुक्तभोगामजोन्य इति द्वितीयश्लोकस्य
यस्मात्परं ना परमस्ति किञ्चिदिति तृतीयस्य स्थेम्नि सर्वं
प्रतिष्ठितमिति यो ब्रह्माणं विदधाति पूर्वमित्यादि श्रुति
समानार्थत्वेन तामसत्वयोगात् । एतद्विरोधेन विश्वाधिक्य
प्रतिपादकानां प्रामाण्यप्रसंगात् ।
प्रत्यक्षश्रुतिसंवादिनां शिवाधिक्य प्रतिपादकानां
पुराणागमानां वाक्यानां स्मृत्यनवकाशाधिकरणे प्रत्यक्ष
वेदमूलानां मन्वादिस्मृतिवाक्यानां सांख्यस्मृतिः * * *
धकत्वमिव विष्ण्वाधिक्य प्रतिपादक मत्स्यकूर्मपुराणादि
वाक्यबाधकत्वोपपत्तेः । एतेन सात्विकादिपुराणानां
विशेषाकारेण परिगणनमपिनिरस्तम् ।।

त्वत्परि गणित सात्विकपुराणेष्वेव रुद्राधिक्य परिगणनेन
परिगणनवैयर्थ्यात् । तथोक्तं त्वया -

ब्रह्माण्डं ब्रह्म कैवर्तं मार्कण्डेयं तथैव च ।
भविष्यद्वामनं ब्राह्मं राजसानि निबोधमे ।।

मात्स्यं कौर्मं तथा लैंगं रौंवस्कान्दं तथैव च ।
आग्नेयं च षडेतानि तामसानि निबोधमे ।।

प्. ५४)

वैष्णवं नारदीयं च तथा भागवतं शुभम् । गारुडं च
तथा पाद्मं वाराहं शुभदर्शने ।। सात्त्विका मोक्षदाः
प्रोक्ता राजसा स्वर्गदा शुभाः ।।

तामसा निरय प्रदा इति । एवं ब्रह्माणु वामनयोः राजसत्वे
तदन्तर्गत रंग माहात्म्य वेंकटाचल मागत्म्ययोः राजसत्वेन
मोक्ष प्रदत्वं नस्यात् । सत्त्वं रजस्तम इति श्लोकानुसारेण
सत्वस्य प्रकृति गुणत्वेन तद्युक्तस्य विष्णोरपि प्राकृतत्वं
स्यात् । तथा च प्रयोगः - सात्त्विकत्वं प्राकृतत्वव्याप्यं
सात्त्विकत्वाद्यन्यता मात्रवृत्तित्वात् । तामसत्ववत् । न च
सत्त्वं विशुद्धं श्रयते भगवान् स्थिताविति वचन विरोधः ।
इतरानभि भूतस्यैव विशुद्धपदार्थत्वात् ।

एतेन प्राकृत सत्त्वमस्त्रीत्याधुनिकमतं परास्तम् । अप्राकृत
रजस्तमसोरपि सिद्धिप्रसंगात् । अत एव नाप्रयोजकोहेतुः । एवञ्च
शिवो गुणातीतः प्रकृत्यतीतत्वात् । मुक्त पुरुषवत् । ना
प्रयोजकत्वमसिद्धत्वं वा । तस्य प्रकृतिलीनस्य यः
परस्समहेश्वर इति प्रकृत्यतीतत्वप्रतिपादक श्रुतिविरोधात् ।
एवं तामसेषु शिवस्य चेत्यादि मत्स्य पुराणमपि प्रत्युक्तम् ।
त्वयैव मत्स्यपुराणस्यतामसेषु परिगणनेनैतद्वाक्य
प्रामाण्ययोर्व्याघातात् । यदिशिवस्य

प्. ५५)

तामसत्व सिद्ध्यर्थं तामसेषु परिगणितमिति मत्स्यपुराणं
तस्मिन्नर्थे प्रमाणम् । तदा तुल्य न्यायत्वात् । स्वर्गापवर्गयोरपि
प्रमा * * * अन्यथा तत्पुराण वक्तु मत्स्यमूर्तेरनाप्तत्वं स्यात्
। मत्स्यावतारेण वेदोद्धारादिकमपि व्यर्थमेव स्यादिति
बहुव्याकुली भवेत् । अनाप्तत्वशङ्कायास्सर्वत्रसुलभत्वात् ।
एवं कूर्म प्रोक्तं पुराणमपि उक्त न्यायेन समर्थनीयम् ।
शैवादि पुराणानामपि शिव प्रतिपादकत्वेन यदि तामसत्वं
तदा तत्प्रतिपादकस्य प्रत्यक्ष वेद भागस्य नमस्ते रुद्र
अणोरणीया नित्यादेरनेक ग्रन्थ सन्दर्भस्य तामसत्व प्रसंगेन
तदङ्गीकरणे प्रमाणिकैस्तस्य बहिर्भाव एवो चितः । एतेन
शिवाधिक्यप्रतिपादकानां शैवागमपुराणानां
मोहशास्त्रत्वमपि प्रत्युक्तम् । एषमोहं सृजामीति
स्वस्याप्यनाप्तत्व प्रसंगात् । स्वोक्तानामपि
पाञ्चरात्रागमानां अप्रामाण्यापत्तेः ।

वस्तुतस्तु शिवाधिक्यस्य प्रत्यक्षश्रुत्यादि सिद्धत्वात् ।
सात्विकत्वेन त्वदभिमतानामितिहास पुराणानां
तदुपबृंहकत्वेन दर्शितत्वात् । तद्विरोधिनां च
पुराणागमानां विरोधाधिकरण स्मृत्यनवकाशन्यायाभ्यां
बाध्यत्वात् सिद्धमप्रत्यूहं शिवाधिक्यमिति ।।

ननु शिवो गुणातीतत्वान्नतामस इत्युक्तम् । तदयुक्तम् । तस्य
चतुर्मुख पञ्चमशिरो निकृन्तनेन ब्रह्महंतृत्वात् ।।

प्. ५६)

तदुक्तम् वामनपुराणे-

तच्छ्नुत्वाक्रोध युक्तेन शंकरेण महात्मना । नखाग्रेण
शिरश्छिन्नं ब्राह्मं परुषवादियत् ।।

तच्छिन्नं शङ्करस्यैव सव्ये करतलेऽभवत् । पतते न
कदाचित्तु तच्छंकरकाराच्छिरः ।।

न च ब्रह्मणो निधनाभावेन ब्रह्महत्या नास्तीतियुक्तम् । तथाच
-

ततस्समागता रौद्रा नीलाञ्जन चयप्रभा । स रक्त
मूर्धजाभीमा ब्रह्म हत्या हरान्तिकम् ।।

ब्रह्महत्यास्मि संप्राप्ता संप्रतीच्छ त्रिलोचन ।। इत्येव मुक्त्वा
वचनं ब्रह्महत्या विवेशतम् ।।

त्रिशूल पाणिनंरुद्रं * * * * इत्यादि । तत्रैव श्रवणात् ।
एवञ्च कपालित्वमपि तत्रैव श्रूयते -

एवं कपालीसञ्जातो देवर्षे भगनेत्रहा । अनेन कारणेनासौ
दक्षेण न निमन्त्रितः ।।

तस्मात्सर्वाधिकस्य शिवस्य कथं
ब्रह्महत्याब्रह्मकपालधारणं चेति । उच्यते । अत्ताचराचर
ग्रहणादित्यत्र ब्रह्म च क्षत्रं चोभे भवत ओदन इति ब्रह्म
क्षत्रादि सर्वभक्षकस्य परमेश्वरस्य संहर्तृत्वं गुण एवेति
गुणदोष भ्रमोनु * * * कारणानाम् । किञ्चयागस्थ दीक्षित
ब्राह्मणस्य दक्षस्यशिरश्छेदेन ब्रह्महत्या प्राप्तिः पुराणेषु
नश्रुतम् । ब्रह्मणः पञ्चमशिरः कृन्तनेनाहंकारनिवारेणेपि
जीवत एव ब्रह्मणोहत्याकथं परिगणिता । मरणोद्देश्यक
मरणफलक व्यापारस्यहिंसात्वेन

प्. ५७)

मरणफलकत्वाभावे हिंसात्वाभावात् । अत एव श्येनादेः
वैरिमरणोद्देशेन विहितस्य हिंसात्व व्यवहारो लौकिक
वैदिकानाम् । अत एव कूपखनन कर्तुर्नहिंसकत्व व्यवहारः ।
मरणानुद्देश्यकत्वात् । अत एव मरणोद्देशेन क्षिप्तनाराचेन
प्राणिवधाभावे क्षिप्तुर्न हिंसकत्व व्यवहारः ।
मरणफलकत्वाभावात् । न च ब्रह्म शिरश्छेदस्य
मरणोद्देश्यकत्वं अहंकारमात्र निरासप्रयोजनत्वात् ।
तदुक्तंवामनपुराणे -

वक्त्राणि दृष्ट्वाथ भवस्य मौढ्या- त्पैतामहं वक्त्रमुवाच
वाक्यम् । समाहतस्यास्य जलस्य बुद्बुदा- भवन्ति किं तेषु परा
क्रमास्ते ।।

तच्छ्रुत्वा क्रोधयुक्तेन शंकरेण महात्मना । नखाग्रेण
शिरश्छिन्नं ब्राह्मं परुषवादियत् ।

मरणोद्देश्यकत्वे शीर्षान्तरस्यापि छेदे संभवति
प्रतिषेधकाभावात् । तस्मादंकार निरासमात्र प्रयोजनत्वेन
मरणोद्देश्यत्वाभावात् हिंसात्वानुपपत्तिः । दक्ष
हिंसायामपि पुराणेषु ब्रह्महत्याया अवर्णनात् । ब्रह्म
क्षत्रादिसकलसंहारकत्वस्येश्वरत्व साधकत्वात् । अनेक कल्प
ब्रह्माण्ड मध्यवर्त्यनन्त चतुर्मुख संहारकस्य रुद्रस्य
ब्रह्महन्तृत्वव्यपदेशस्य भूषणत्वात् । ननु ततस्समागता
रौद्रेति ब्रह्महत्या प्राप्तिवचनस्य कागतिरिति चेत् । तस्य
काशीक्षेत्रस्य

प्. ५८)

ब्रह्महत्या निवर्तकत्व प्रतिपादन परत्वेन स्तुत्यर्थत्वात् तथा
च वामनपुराणे तत्रैव प्रकरणे -

ईदृशायां सुरेशान वाराणस्यां महामते । तत्र गत्वा
सुरश्रेष्ठ पापमोक्षमवाप्स्यसि ।। इति ।

ननु नारं स्पृष्ट्वास्थिसस्नायुसवासा जलमाविशेत् इति
कपालस्यापवित्रत्वात् तद्धारणस्याशुचित्वसम्पादकत्वमिति चेत् ।
मैवम् । काशीस्थ कपालमोचनाख्यतीर्थ
माहात्म्यप्रतिपादकत्वेनान्यपरत्वात् । तथा च तत्रैव-

कपालमोचनेसस्नौ वेदोक्त विधिनामुनिः ।

स्नातस्य तीर्थे त्रिपुरान्तकस्य परिच्युतं हस्ततलात्कपालम् ।
नाम्नाबभूवाथ कपालमोचनात्तत्तीर्थवर्यं भगवत्प्रसादात्
।। ततः कपाली लोके तु ख्यातोरुद्रो भविष्यति ।।

कपाल परित्यागेपि कपालित्वप्रसिद्धिः ब्रह्माद्यपेक्ष * * * धिक्य
सूचकत्वेनोत्कर्षहेतुत्वात् । अन्यथा विष्णोरपि
पञ्चजनाख्यदैत्य शीर्षास्थिभूत
पाञ्चजन्यधारणेनापवित्रत्वं स्यात् । तदुक्तं विष्णुपुराणे -

दैत्याः पञ्चजनोनाम शङ्खरूपस्य बालकान् । जग्राह
सोऽस्तिसलिले ममैवासुरसूदन ।।

इत्युक्तेन्तर्जलं गत्वा हत्वा पञ्चजनं च तम् । कृष्णो जग्राह
तस्यास्थि प्रभवं शंखमुत्तमम् ।।

तं पाञ्चजन्यमापूर्य * * * * ।। इत्यादि

प्. ५९)

रावण हनने च ब्रह्महत्या सेतौ रामेश्वर प्रतिष्ठया
तन्निवृत्तिकथनं च पुराणेषु बहुतरं दृष्टमिति परेषामपि
समोदोषः । आदित्यपुराणे एक त्रिंशे -

प्रतिष्ठाप्य महादेवं सेतुमध्ये स राघवः । लब्धवान्
परमांभक्तिं शिवेशंभोरनुग्रहात् ।।

रामेश्वर इति ख्यातः महादेवः पिनाकधृत् । यस्य
दर्शनमात्रेण ब्रह्महत्या व्यपोहति ।।

भृगुपत्नीहननेन स्त्रीहत्यादोषो रामायणे -

विष्णुना च पुरा राम भृगु पत्नी दृढव्रता । अनिन्द्रं
लोकमिच्छन्ती काव्यमातानिषूदिता ।।

तेषामन्यपरत्वे प्रकृतेपि समं समाधानम् । वस्तु तस्तु
परमेश्वरस्य सर्वज्ञत्वान्न पापसम्बन्धलेपः । जीवानामपि
तत्त्वज्ञानां लेपाभाव वर्णनात् । तथा च सूत्रम् -

तदधि गमे उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् । इति
। एतेन कपालभोजनमपि व्याख्यतम् । पाञ्चजन्यपूरणस्य मुख
सम्बन्धं विनानुपपत्तेः । भिक्षाटनस्य नवनीतचौर्यादिवत्
समाहितत्वात् । वस्तुतस्तु ब्रह्मशिरश्छेदः तत्कपाल
धारणञ्च परमेश्वरांशभूत
तमोगुणप्रधानसंहाररुद्राख्य भैरवेण कृतमिति न
परमेश्वरस्य कपालित्वं ब्रह्महत्या वा । तथा चोपक्रमे -

तमोमयस्तथैवान्यस्समुद्भूतस्त्रिलोचनः । शूलपाणिः कपर्दी
चाक्षमालां निदर्शयन् ।।

प्. ६०)

अहंकारावृतोरुद्रः प्रत्युवाच पितामहम् ।। इति ।।

उपसंहारे च - तमोमूर्तिरहं ह्येषस्त्वदंशः क्रोधसंभवः
।। इति ।

न चैतदतिरिक्ते परमेश्वरे प्रमाणाभावः । तापनीये -

ऐकात्म्य प्रत्ययसारं शिवं शान्तमद्वैतं चतुर्थंमन्यन्ते
इति शिवस्य ब्रह्मरुद्र विष्ण्वपेक्षया चतुर्थत्वव्यपदेशेन सप्त

  • * * * प्राजापत्य * * * * वत् संख्याभेदकत्वात् ।। न च तस्मिन्

शम्भुशंकरादि शिववाचकशब्दप्रयोगानुपपत्तेः ।
शिवांशाद्यिक्येन तत्सादृश्येन च राजपुरुषादौशजपद
प्रयोगवच्छिवादि पद प्रयोगोपपत्तेः । अत एव संहाररुद्र
निष्ठं कपालित्वं परमेश्वरेऽऽरोप्यतमवजानतो
दक्षस्याहंकार भ्रमा(भ्रा)न्तत्वेन निग्रहपात्रत्वं
वीरभद्रादिगणैः कृतमिति युक्तमुत्पश्यामः । तदुक्तम्-

एवं कपाली संजातो देवर्षेत्यादि । त्रयोऽग्नय
स्त्रिभिर्नेत्रैस्समं दक्षमवैक्षत ।। दृष्टमात्रस्त्रिणेत्रेण
भस्मीभूतोऽभवत्क्षणात् ।।

काशीखण्डे च - अयं ब्रह्म * * * * त्तो भैरवस्यैव
रुद्रांशभूतस्य वर्णित इत्येतत्संवादो द्रष्टव्यः । एवं
परमेश्वरो निर्लेपः तत्वज्ञत्वात् । सर्वज्ञत्वाच्च । मुक्तात्मवत्
। तस्मात्सर्वोत्तरः परमेश्वर इति सिद्धम् ।।

अथ कथं सदाशिवः इतरापेक्षया अधिकः

प्. ६१)

तदुपासनया अस्थिर फलत्वात् । दशग्रीवादेः शिवोपासनया
ऐश्वर्याधिकास्य प्रसिद्धत्वात् । तथाचोक्तम् -

अयत्नादापाद्य त्रिभुवनमवैरिव्यतिकरं दशास्यो यद्वाहुन
भृतरणकण्डूत्वावाशान् । शिरः पद्मश्र * * * चित
चरणांबोरुहबलेः स्थिरायास्त्वद्भक्तेः
त्रिपुरहरविस्फूर्जितमिदम् ।।

ईदृशस्य शिवप्रसाद लब्धैश्वर्यस्यान्येषामपि तादृशानां
दैत्यदानवाद्यैश्वर्याणां नाशदर्शनादस्थिर वरप्रदत्वं
परमेश्वरस्य । नारायणस्य तु ध्रुव विभीषणादि
परमोत्कृष्टस्थिरतरैश्वर्य प्रदत्वेन मोक्ष प्रदत्वेन च
स्थिरतरवर प्रदातृत्वमिति स एव सर्वोत्तर इति
परेषामभिप्रायः । अत्र किं कर्मफलमस्थिरमित्युच्यते । उत
ज्ञानफलमपि । नाद्यः - तद्यथेह कर्मचितो लोकः क्षीयत
इत्यादिश्रुत्त्या ध्रुवाद्यैश्वर्यस्यानित्यत्वेन सर्वसम्मतत्वेन
प्रतिपादितत्वात् । न द्वितीयः । ईशं ज्ञात्वा अमृता
भवन्तीति ईश्वरसाक्षात्कारस्यानश्वर मोक्ष हेतुत्वात् ।

ननु कर्म फलस्यानित्यत्वेपि कल्पान्तस्थायि फलत्वं
विष्णूपासनाया न सदा शिवोपासनाया इति चेत् मैवम् ।
शिवोपासनाया अपि बाणासुर सुकेशि
नन्दीश्वरप्रभृतीनामनन्तैश्वर्यावगमात् । तदुक्तं वामन
पुराणे-

प्. ६२)

अस्मिन्निशाचरपतिर्विद्युत्केशीति विश्रुतः । तस्य
तुष्टोऽप्यधीशानः पुरमाकाशचारिणीम् ।।

प्रादादजेयत्वमपि शत्रुभिश्चाप्यवध्यताम् ।

उत्तररामायणे -

अमरं चैव तं कृत्वा महादेवोऽव्ययोऽक्षयः ।
पुरमाकाशगां प्रादादुमायाः प्रीतिकाम्यया ।।

ततः सुकेशिर्वरदानगिअर्वितः देव्याः प्रभोः
प्राप्यहरस्यपार्थिवः । चचारसर्वां स महींमहामतिः
खगांपुरीं प्राप्य यथा पुरंदरः ।।

एवं बाणासुरस्यापि अमरत्वप्रदानम् विष्णुपुराणे -

तदेतस्याभयं दत्तं बाणस्यास्यमया प्रभो । अस्मत्संदृप्तोपि
नायं वध्यस्तवाव्ययः ।।

भारते अर्जुनस्य पाशुपतास्त्रकाले मोक्षदानं चेश्वरेण कृतम्
। तर्हि रावणैश्वर्यस्य कथमस्थिरत्वमिति चेत् परम * * *
दीश्वरावज्ञारूपा धर्मादिति ब्रूमः । तथा च नन्दिकेश्वर
शापो रावणं प्रत्युत्तररामायणे

तं क्रुद्धो भगवान् नन्दी शंकरस्या परा तनुः । अब्रवीत्तत्र
तद्रक्षो दशाननमवस्थितम् ।। यस्माद्वानररूपं मा
मवज्ञायदशानन ।। अशनिपातसंकाशमट्टहासं
प्रमुक्तवान् ।।

तस्मान्मत्मुखसंकाशामद्वीर्या समतेजसः । उत्पत्स्यन्ते
वधार्थंते कुलस्यास्य च वानराः ।। इति ।

एवमीश्वरेण लवणासुरपितुर्मधुदैत्यस्यशूलदान

प्. ६३)

समये धर्मविरोधयवोत्त्रावधीकृतः । तथा चोत्तररामायणे -

तवायमतुलोधर्मो मत्प्रसादकरः शुभः । येन
प्रीतस्तदारिघ्नं ददाम्यायुधमुत्तमम् ।।

यावत्सुरैश्च विप्रैश्च न विरोधं करिष्यति । तावत्कालं
तवैतत्स्यादन्यथा नाशमेष्यति ।।

एवमन्धकासुरस्यापि परमेश्वराद्वरदानं धर्मविरोधावधिश्च
। तथा च वामनपुराणे प्रह्लादवाक्यम्-

तवापिचात्र पुत्रेण धर्मनित्येन दानव । आराधितो महादेवः *

  • * * * पुराकिल ।।


पुत्रकं पुत्रकामस्य प्रोक्त्वेत्थं वचनं विभुः । यदा तु
लोकविद्विष्टं दुष्टं कर्मकरिष्यति ।।

घातयिष्यति वा विप्रं देवान् द्वेष्यतिवाऽखिलान् ।। तदास्य
स्वयमेवेह करिष्ये कायशोषणम् ।।

अन्यथा विष्णोरपि - युधिष्ठिरोग्रसेनादि यादव कौरवेभ्यः
कुचेल सान्दीपनीप्रभृतिभ्योप्यैश्वर्य दानस्यास्थिरत्वात् अस्थिर
वरप्रदत्वं स्यात् । तदुक्तं तेनैव यस्यानुग्रहमिच्छामि तस्य
वित्तं हराम्यहम् ।। इति ।

वस्तु तस्तु परमेश्वरस्य धर्माधिष्ठातृत्वात्
धर्माविरोधेनैव वरप्रदानम् । फलमत उपपत्तेरित्यत्र
फलशब्दस्य सुखदुःख साधारणत्वेन यथा तुष्टस्तपसा
सुखहेतुं वरं ददाति । एवं निषिद्धकर्मणा द्विष्टः
परमेश्वरः

प्. ६४)

नरकादि दुःखं ददाति । यथा धर्मेण पापमपनुदति ।
एवमधर्मेणापि पुण्यमपनुदति । इति परमेश्वर एव फलदातेति ।
रावणादेः परस्त्रीकामनादि जन्येन पापेन तपोलक्षण
पुण्यभिभवाद्युक्तं तेषां शीघ्रतरं नाश इति न
परमेश्वरस्याधिक्य हानिरिति सिद्धम् ।।

ननु विष्णुरेव सर्वोत्तमः । गजेन्द्रेणादिमूलस्य परब्रह्मणः
स्तुतिं कृत्वा परमकारण प्रपत्तौक्रियमाणायां
प्रपन्नपरिपालनाय नारायण एव प्रत्यक्षोभूत्वा
ग्राहपाशात्तं मोचयामास । नान्ये ब्रह्मादयः
प्रत्यक्षीभूयरक्षिवन्तः । तथा भागवते
गजेन्द्रस्तोत्रप्रक्रमे -

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
योऽस्मात्परस्माच्चपरं तं प्रपद्ये स्वयंभुवम् ।।

उपसंहारे च -

एवं गजेन्द्रमुपवर्णित निर्विशेषं ब्रह्मादयो
विविधलिंगभिदाभिमानाः । नैते यथोपससृपु निखिलात्मकत्वात्
तत्राखिलामरमयो हरिराविरासीत् ।।

तस्माद्गजेन्द्रेण सर्वोत्तम स्तुतौ क्रियमाणायां सत्यां यस्तं
रक्षितवान् स एव सर्वोत्तमः । न ह्यन्यप्रपत्तौ क्रियमाणायां
सत्यां यस्तं रक्षितवान् स एव सर्वोत्तमः । अन्यः
परिपालयतीति युक्तम् । अत एव नारायण सर्वोत्तम इति प्राप्ते
ब्रूमः । यद्यपि गजेन्द्रेण परम कारणं प्रत्येवस्तुतिः

प्. ६५)

प्रतिपत्तिश्च कृता तथापि नारायणस्य
जगत्परिपालनेऽधिकृतत्वात् तेन परिरक्षणकरणं युक्तम् । न
हि केनचिदुपद्रवादि परिपीडितेन राजानं प्रत्याक्रोशेक्रियमाणे
राजा अमात्येन परिरक्षणं क्रियत इति युक्तम् । पालने
तस्याधिकृतत्वात् । न च परमेश्वरेण विष्णोः
पालनेऽधिकृतल * * * * * नुशासनिके पर्वाणि ।

स एव भगवान् रुद्रस्सर्व तत्वादि रव्ययः ।
सोऽसृजद्दक्षिणादंगात् ब्रह्माणं लोकसंभवम् ।।

वाम * * * * * त्तथा विष्णुं लोकरक्षार्थमीश्वरः ।

वेदपादस्तवे जैमिनिना च ।।

यदाज्ञया जगत्सर्वं व्याप्य नारायणः स्थितः ।। इति ।

यजुर्वेदे च - वाताद्विष्णोर्बलमाहुरिति । प्राणाधिकरण
न्यायेन वातशब्द वाच्यात्परमेश्वरात् विष्णोर्बलमाहुरित्यर्थः
। अथवा गजेन्द्रस्य पूर्व जन्मनि विष्णुभक्तत्वात् तेन
परब्रह्मत्वेन विष्णोरेव स्तुतां क्रियमाणायां विष्णुरेव
प्रसन्नो नान्य इति युक्तम् । तथा च भागवते -

योऽसौ पूर्वमभूद्राजा पाण्डयो द्रविडसत्तमः । इन्द्रद्युम्न
इति ख्यातो विष्णु व्रतपरायणः ।।

हर्यर्चनानु भावेन यद्गजत्वेऽप्यनु स्मृतिः ।। इति ।।

गीतासु च -

कौन्तेय प्रतिजानीहि नमे भक्तः प्रणश्यति ।

प्. ६६)

तेषामहं समुद्धर्ता मृत्योस्संसारसागरात् ।।

किञ्चपरब्रह्मत्वेन विष्णोः स्तुतिर्वा परब्रह्मत्वे प्रमाणम् ।
स्तुत्यनन्तरं तस्यैवा न गमनान्यथानुपपत्तिर्वा । नाद्यः ।
आपोवा इदं सर्वमित्यादिवत् स्तुतेस्तत्वा साधकत्वात् । न
द्वितीयः । स्वपुत्रभृत्यादि रक्षणवत् स्वभक्तरक्षणस्य
परब्रह्म साधकत्वात् । पालनाधिकारित्वेन वा गजेन्द्र
रक्षणोपपत्तेरिति । वामनपुराणे तु गजेन्द्रस्यानेक जन्म
प्रभृति विष्णुभक्तत्वं विष्णुस्तुतिकर्तृत्वं च स्पष्टतया
युक्तम् । व्याधितस्सन् निरुत्साहो गृहीतोघोरकर्मणा ।

परमापदमापन्नो मनसाऽचिन्तयद्धरिम् ।।

स तु भागवतः श्रीमान् नारायण परायणः । जन्म
जन्मान्तराभ्यासात् भक्तिमान् गरुडध्वजे ।।

नान्यं देवं महादेवात्पूजयामास केशवम् ।
संपूजयन्पद्मनाभं शंखचक्र गदाधरम् ।।

स्तोत्रं च कृतम् -

नमो जगत्प्रतिष्ठाय गोविन्दाय नमो नमः । नमोऽस्तु
पद्मनाभाय सांख्य योगोद्भवाय च ।। इति ।

विष्णुस्तुतिश्च स्पष्टमेवावगम्यते । तस्मात्स्वभक्तरक्षणाय
विष्णुरेवावगत इति । नैतावता तदा गमनस्य सर्वोत्तमत्व
साधकत्वमित्यलमति विस्तरेण ।।

अथ कथं शिवस्य सर्वाधिकत्वं भस्मासुरनाम्नो

प्. ६७)

वृकासुरस्य वरं दत्वा तेन शिरसि हस्तेदातुमारब्धेसति
सर्वाल्लोकान् पलायमानस्य नारायणेनरक्षणात् । तदुक्तं
भागवते - दशमे सप्ताशीति तमे -

कोप प्रसादयोरीशाः ब्रह्मविष्णुशिवादयः । वृकासुराय
गिरिशोवरं दत्वाऽऽपसंकटम् ।।

देवात् स वव्रे पापीयान् वरं भूतभयावहम् । यस्य यस्य करं
शीर्षे दास्ये स म्रियतामिति ।।

स तद्वरपरीक्षार्थं शम्भोर्मूर्ध्नि किलासुरः । स्वहस्तं
दातुमारेभे परिधावत्स वै दिशः ।।

इत्थं भगवतश्चित्रैर्वचोभिः स्तुति पेशलैः ।
भिन्नधीर्विस्मितःशीर्षे स्वहस्तं कुमतिर्व्यधात् ।।

अथा पतद्भिन्नशिराः वज्राहत इव क्षणात् । किञ्च
भृग्वादिभिरपि विष्ण्वाधिक्यस्य निश्चयात् विष्णुरेवाधिकः ।
तदुक्तं तत्रैव-

सरस्वत्यास्तटेरम्ये ऋषयस्सत्रमासत । वितर्कस्समभूत्तेषां
त्रिष्वधिकेषुको? महान् ।।

तस्य जिज्ञासया ते वै भृगुं ब्रह्मसुतं नृपः । तज्ज्ञप्त्यै
प्रेषयामासुः सोऽभ्यगाद्ब्रह्मणः सभाम् ।।

न तस्मै ब्रह्मणे स्तोत्रं चक्रे सत्वपरीक्षया । तस्मै चुक्रोध
भगवान् प्रज्वलन् स्वेनतेजसा ।।

ततः कैलासमगमत् तत्र देवो महेश्वरः । परिरब्धुं समारेभे
उत्थाय भ्रातरं मुदा ।।

प्. ६८)

नैच्छत्युत्पथग इति देवश्चुकोपह । शूलमुद्यम्य तं
हन्तुमारेभेतिग्मलोचनः ।।

पतित्वापादयोर्देवी सान्त्वयामासतं गिरा । अथा जगाम
वैकुण्ठं यत्र देवोजनार्दनः ।।

शयानं श्रिय उत्संगे पदावक्षस्य ताडयन् । तत उत्थाय
भगवान् सह लक्ष्म्यासप्तां गतिः ।।

स्वतल्पादवरुह्याथ ननाम शिरसामुनिम् । तन्नि शम्याथमुनयो
विस्मिता मुक्तसंशयाः ।।

भूयांसं श्रद्दधुर्विष्णुं यतश्शान्तिर्यतोभयम् ।।
वैराग्यप्रदत्वाच्च- यस्याहमनुगृह्नामि हरिष्ये तद्धनंशनैः
। ततो धनं संत्यजन्ति स्वजना दुःखितं यथा ।। मत्परैः
कृतमन्त्रस्य करिष्येमदनुग्रहम् ।।

रामायणे ब्राह्मकाण्डे -

अधिकं मेनिरेविष्णुं देवात्सर्षिगणास्तथा ।।

श्रुतिश्च -

नारायण परंब्रह्म तत्वं नारायणः परः ।। इति

तस्माद्रुद्रभयावहस्य वृकासुरस्य निग्रहाद्भृग्वादिभिः
परमशान्तत्वेनाधिकत्वनिर्णयात् युद्धे जृंभितत्वाच्च
विष्णुरेवाधिकः । परतत्वमपि स एवेति प्राप्तेब्रूमः । शिव एव
परं तत्वं । यो देवानां प्रथमं पुरस्तात् द्विश्वाधिको रुद्रो
महर्षिः । यस्मात्परं नापरमस्ति
किञ्चिदित्युपनिषद्वाक्याभ्यां रुद्रात्पर तत्वस्य निषेधात् । न
चा नयोरेक वाक्यत्वमसिद्धम् । भिन्नक्रियापर्यवसायित्वादिति
वाच्यम् । स्योनं ते सदनं वृणोमि तस्मिन् सीद ।

प्. ६९)

अमृते प्रतिनिवृतीतिवत् विभागे साकांक्षत्वेन सर्वनाम्नः
पूर्वोक्त प्रकृतपरामर्शितत्वात् । तदुक्तम्-

सर्वनाम प्रसिद्धार्थमप्रसिद्ध्यर्थद्यातकृत् । प्रसिद्ध्यपेक्षी
सत्पूर्ववाक्यस्थमपकर्षति ।।

पुरुष पदेन रुद्रप्रत्यभिज्ञानाच्च । तदुक्तं भागवते -
निरस्तसाम्यातिशयोऽपि यत्स्वयम् इति शिवादतिशयस्य निषेधात् ।
ब्रह्मादयो यत्कृत सेतु पालाः ।

यद्यक्षरं नाम गिरेरितं नृणांसकृत्प्रसंगादधमाशुहन्ति
तत् । पवित्रकीर्तिं तमलंघ्यशासनं भवानहोद्वेष्टिशिवं
शिवेतरः ।।

मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।
इत्यादिनामायाधिष्ठातृत्वालंघ्यशासनत्वयोरवगमात् ।
तदुक्तमुत्तररामायणे रामेण -

एवं ते सर्वमाख्यातं शूलपाणिस्सुदुर्जयः । श्रीमतः
शितिखण्डस्य कीर्तिर्हि दुरतिक्रमा ।।

त्वत्कीर्तिः कीर्तनमाज्ञापनमित्यर्थः । ईश्वरः
सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । भ्रामयन्
सर्वभूतानि यन्त्रारूढानि मायया ।।

इति सर्वान्तर्यामित्वावगमात् । अन्यथा तिष्ठामीति
प्रयोगप्रसंगात् । कृष्णकर्तृकपरतत्वोपासना
प्रतिपादककृष्णवाक्यस्य-

तमेव चाद्यं पुरुषं प्रपद्येयतः प्रवृत्तिः प्रसृतापुराणी
। निर्मानमोहा जितसंगदोषा अध्यात्मनित्यानि निवृत्तकामाः ।।

इति श्रवणात् । योऽग्नौ रुद्रो योऽप्सु य ओषधीषु यो रुद्रो

प्. ७०)

विश्वाभुवनानि विवेशेत्यन्तर्यामितया प्रवेशस्य व्यक्तत्वात् ।

बृहदारण्यकेऽन्तर्यामि ब्राह्मणे - एष आत्माऽन्तर्याम्यमृत
इत्यमृत पदेन शिवस्यैव निर्देशात् । जाबालोपनिषदि-
रुद्राध्यायप्रकरणे - एतानि वा अमृतस्य नामधेयानीति
रुद्रनाम्नाममृत नामधेयतोक्तेः पुंलिङ्गस्यामृतपदस्य
मोक्षवाचकत्वानुपपत्तेः । शिवसंकल्पोपनिषदि बोधायन
पठितायां -

येनेदं भूतं भुवनं भविष्यत्परिगृहीतममृतेन सर्वम् ।
येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसंकल्पमस्तु ।
इत्यमृतशब्दस्य शिवेप्रयोगदर्शनात् । अवयवार्थानुस्यूतेरपि
स्थिरेभिरंगैः पुरुरूपौग्र इति मरणादिरहिते शिव एव
संभवात् । विष्णोः शरीरत्यागस्य - बहूनि मे व्यतीतानि
जन्मानि भरतर्षभ । इति गीता वाक्यसिद्धत्वात् । विष्णुपुराणे
च मैत्रेयः ।

सविद्रुशापव्याजेन संजहेस्वं कुलं कथम् । कथं च
मानुषं देहमुत्ससर्जजनार्दनः ।।

पराशरः -

गते तस्मिन् स भगवान् संहृत्यात्मानमात्मनि । तत्याज मानुषं
देहमतीत्य त्रिविधां गतिम् ।। इत्यमृतत्वयोगात् ।। ननु स्वेच्छा न
कर्मायत्तेति चेत् । सुतौ विशेषणादर्शनात् देवानामपि
रावणवधाय स्वेच्छया जन्मश्रवणात् । भीष्मस्यापि
स्वेच्छामरण दर्शनात् नामृतत्वमन्येषाम् । जगज्जन्मादि
कारणत्वादपि शिव एव परं तत्वम् ।।

प्. ७१)

तथा चाथर्वोप निषदि यस्सर्वाल्लोंकान् संभक्षुः
संभक्षयतेत्यादिना । यजुर्वेद च - तमक्रतुं पश्यति
वीतशोको धातुः प्रसादान्महिमानमैशमित्यारक्ष्य
अजामेकामित्यन्तं मायाविशिष्टस्य सर्वकर्तृत्व प्रतीतेः ।
रामायणेचोत्तरकाण्डे -

तैर्वध्यमानादेवाश्च मुनयश्च तपोधनाः । भयार्ताः
शरणं जग्मुर्देव देवं महेश्वरम् ।।

जगत्सृष्टयन्तकर्तारमजमव्यक्तरूपिणम् । आधारं
सर्वलोकानामाराध्यं परमं गुरुम् ।।

ते समेत्य तु कौमारीं त्रिपुरारिं त्रिलोचनम् ।।

ऊचुः प्राञ्जलयो देवाः * * * * * * * इति
श्रुत्युक्तसकर्तृकत्वोपबृंहणात् विश्वं भूतं भुवनं
चित्रं बहुधाजातं जायमानं च यत् । सर्वोह्येष रुद्र इति
सर्वात्मत्ववर्णनात् । शिवसंकल्पोपनिषदि च त्रयाणामपि
तारतम्यं व्यक्तमवगम्यते । परात्परतरं ब्रह्म तत्परात्परतो
हरिः ।

यत्परात्परतोरीशस्तन्मे मनः शिवसंकल्पमस्तु ।। रीश इति
रेफश्छान्दसः ।

ननु नारायणपरं ब्रह्मेति श्रूयत इति चेत् नारायणात्परं
नारायणपरमिति श्रुत्योरविरोधेन व्याख्यानस्यैव युक्तत्वात् ।
सामान्येन परत्वश्रवणस्य विशेषदर्शनेषति त्याग योगात्
सामान्य विशेषयोरेक वाक्यत्वस्य पशुन्नाग न्यायेन सिद्धत्वात् ।
तदर्थस्तु नारायणात्परं ब्रह्मतत्वं नारायणस्तु
चतुर्मुखाद्यपेक्षया पर इति । अन्यथा नारायणः पर इति
उत्तर वाक्येन पुनरुक्तेश्च । रामायणे च सारमेय व्याख्याने -

प्. ७२)

एतच्छ्रुत्वा तु रामो वै विस्मयोत्फुल्ल लोचनः ।
क्वाप्यगच्छन्महातेजाः यत एवा गतस्ततः ।। मनस्वी पूर्व
जातिज्ञो जातिमात्रेणदूषितः । वारणस्यां तथाश्वा वै
प्रायशोपाविशत् स्वयम् ।। इति ।

अत्रायोध्यामुक्तिक्षेत्रत्वेपि रामस्य मोक्षदातृत्वेपि उभयमपि
परित्यज्य शिवक्षेत्रभूत वाराणसीगमनस्य शिवाधिकत्व
सूचकत्वं व्यक्तमेव । वामनपुराणे च-

ततः पितामहोदेवः केशवश्च जगत्पतिः । आजग्मतुस्तमुद्दिश्य
यत्रलिंगं भवस्य तु । ततो लिंगं हरिर्दृष्ट्वा समारुह्य
स्वगेश्वरम् ।।

पातालं स विवेशाथ विस्मयात्परितो विभुः । ब्रह्मा हंस
विमानेनोर्ध्वमाक्रम्य सर्वतः ।।

नैवान्तमलभद्ब्रह्मा विस्मितः पुनरागतः । विष्णुर्गत्वाथ
पातालात्सप्त लोकपरायणः । चक्रपाणिर्विनिष्क्रान्तो लिङ्गं न
लभते मुने ।।

विष्णुः पितामहश्चोभौ हरलिंगं समेत्य हि । कृताञ्जलिपुटौ
भूत्वा स्तोत्रं देवस्य चक्रतुः ।।

अत्र हरशरीरावयवभूतालिङ्गस्यैवाद्यन्त
परज्ञानशून्ययोश्चतुर्मुख नारायणयोर्दिव्यमङ्गलविग्रहस्य
परमेश्वरस्य स्वरूपज्ञानं नास्तीति व्यक्तं शिवाधिक्यम् । न
चास्य पुराणस्य राजसत्वं वक्तुंशक्यम् । पुलस्त्य प्रोक्तस्य
वामनपुराणस्य राजसत्वे पुलस्त्यानुग्रहेण पराशरोक्तस्य
सात्विकत्वेन त्वदभिमतस्य विष्णुपुराणस्यापि राजसत्वं स्यात् ।

प्. ७३)

तदुक्तं विष्णुपुराणे पुलस्त्येन-

पुराण संहिताकर्ता भवान् पुत्र भविष्यति । देवता
परमार्थ्यं च यथावद्वेत्स्यते भवान् ।।

वशिष्टवचनं च - पुलस्त्येन यदुक्तं ते सर्वमेतद्भविष्यति ।।
इति । एतेन स्मृति पुराणयोः राजस तामसविभागो निरस्तः ।
ऋषिवाक्यानां सर्वेषां प्रमाणत्वात् । तदुक्तं विष्णुपुराणे
-

सप्तर्षयोथ मनवः प्रजानां पतयस्तथा । सदाचारस्य
वक्तारः कर्तारश्च महीपते ।। इति ।

तर्हि पूर्वपक्षहेतूनां रामायणाद्युक्तानां कागतिरिति
चेदुच्यते । युद्धे विष्णोर्जयस्येश्वरानुग्रह प्रयुक्ततवात् ।
तदुक्तं महाभारते - अश्वत्थाम व्यास संवादे शत
रुद्रीयप्रस्तावे - जेष्यसे मामपि भवान् युद्धाय समुपस्थितम् ।।
इति । अपि चेत्समरं प्राप्तो भविष्यसि ममाधिकः ।। इति ।
बाणासुरभङ्गस्तु पूर्वमेवनिराकृतः । वृकासुरस्य तु
भक्तत्वात् पुत्रादिच्छेत्पराजयमिति न्यायेन पलायनस्यैव
श्लाघ्यत्वात् । विषवृक्षोपि संवर्घ्य स्वयं
छेत्तुमसाम्प्रतमिति न्यायात् । अन्यथा अन्तर्धानशक्तियुक्तस्य
परमेश्वरस्यान्तर्धायेनैव समाधाने सति कृपां विना
पलायने हेत्वन्तर मन्वेषणीयम् ।

अन्तर्धान सामर्थ्यञ्च मेघनादस्यान्तर्धानशक्त माया
दानेनैव सिद्धम् । तदुक्तमुत्तर रामायणे महेश्वरे प्रवृत्ते तु
यज्ञे पुंन्निस्सुदुर्लभे ।।

प्. ७४)

कामगं स्यन्दनं दिव्यमन्तरिक्षचरं ध्रुवम् ।।

मायाञ्च तामसीं नाम यस्यां प्रभवते नमः । एतयोः
किलसंग्रामे मायया राक्षसोत्तमः । पुं युद्धस्य गतिर्वक्तुं
न शक्या वै सुरासुरैः ।।

इत्यनेनयैव मायया इन्द्र रामचन्द्रादि विजयः प्रसिद्धः ।
कियान् भस्मासुर व्यामोह इति । विष्णोस्तु
शत्रुभूतकालयवनात्पलायनं कथम् ? तथा च विष्णुपुराणे
भागवते च-

इति निश्चित्य यवनः प्राद्रवत्तं पराङ्मुखम् । पलायनं
यदुकुले जातस्य तव नोचितम् ।। इत्यादि ।

एवं भृग्वादि * * * * विष्णोः शान्तत्वेनाधिकत्व निर्णयो न
परतत्व निर्णयोपयोगी । शान्तस्य ज्ञानाधिकारित्वेन
तस्माच्छान्तो दान्तः इति श्रुति प्रसिद्धत्वात् । प्रत्युत
भयहेतुत्वमेव परब्रह्म लक्षणम् । तथा च श्रुतिः-

भीषास्माद्वातः पवने भीषोदेति सूर्यः भीषाग्निश्चेन्द्रश्च
मृत्युर्धावति पञ्चम इति ।। भीषाभयेनेत्यर्थः । न
चेयमन्यपरा । रुद्रपरश्रुति संवादात् । तदुक्तं
हरदत्ताचार्यैः- ब्रह्मत्व लक्षणमयं भयहेतु भाव इति ।
भयहेतुत्वं चोग्रभीमादि पद योगात् । भृगुश्च विष्णौ नेश्वर
बुद्धिं कृतवान् भक्त्या । किन्तु प्रिय वादिने विष्णवे * * *
कृतवान् । कथमन्यथा विष्णुना भृगुपत्नीशिरश्छेदेकृते

प्. ७५)

भवानपि बार्या वियोगादि दुःख्* * * *

तदुक्तं मत्स्यपुराणे-

ज्ञात्वा विष्णुस्ततस्तस्याः क्रूरं देव्या विचेष्टितम् । क्रुद्धः
स्वशस्त्रमादाय शिरश्चि * * * * तच्छ्नुत्वा तु वधं घोरं
चक्रोध भृगुरीश्वरः । ततो हि शप्तो भृगुणा विष्णुभार्या
वधे तदा ।।

यस्मान्मे जान * * * * दिता । तस्मात्त्वं सप्तकृत्वोवै
मानुषेषूपपत्स्यसि ।।

ब्रह्माण्डे च -

भृगोरपि च शापेन विष्णुः परम वीर्यवान् । * * * * * *
दुःखितश्च सदाकृशः ।।

शेपुः शापैश्च विविधैस्तं देवं भुवनेश्वरम् ।।

तस्मान्न भृगुस्तत्वज्ञः । नापिदेवता ऋषयश्च । * * *
सदाशिवं परं ब्रह्म न देवा न व?र्षयो विदुः । एकस्तद्वेद
भगवान् धाता नारायणो हरिः ।।

नारायण * * * * * * * * होरगाः । देवा देवर्षयश्चैव यं
विदुर्दुःखभेषजम् ।। इति ।

दुःखभेषजत्वेन नारायणा * * * * * * भेदः ।
कर्मकर्तृभाव विरोधात् । तस्माच्छिवात्परतत्वस्येतिहास
पुराणोपबृंहित श्रुत्यैव नि * * * णत्व मायाधिष्ठातृत्व
सर्वान्तर्यामित्व सर्वात्मकत्व सर्वभय हेतुत्वानां * * * * शिव
शरीरावयव लिंगान्वेषषणेपि इतरयोस्तन्मात्रस्या ज्ञानात्
तल्लिंग पूजकत्वात्

प्. ७६)

ईदृक्तारतम्यस्य बोधायनपरिगृहीत शिवसंकल्पश्रुति
सिद्धत्वात् वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नम इति
सामान्येन ज्येष्ठत्व श्रेष्ठत्व प्रतीक्ष्या सिद्धं
सर्वापेक्षया आधिक्यं सदाशिवस्येति सर्वमवदातम् ।।

ब्रह्मत्वं कारणत्वं विधिहरिजननं धारणं हैमवत्या
रक्षाबाणस्य शिक्षा पशुपतिविषये रामनामाभिधाय ।
निर्माल्यस्योपयोगः शिवपरवचसां तामसत्वोक्तिभंगो भंगो
मूर्ध्नो विधातुः स्थिरतरपरता * * * पस्युत्युपेक्षा ।।

दैत्याद्भीत्यापयानं भृगुमुनि विषये कोप इत्यादयस्ते
सर्वोत्कर्षाय शम्भोर्नतु हतमातीभिः कल्पिता भासवादाः ।।
श्रीकालहस्तीशपुस्ते सिद्धे पुरः सन्निधि देवतायाः ।।
चण्डीश्वरीपाद समीपदेशे सिंहारुणे भूत् प्रथमोविलालः ।

जयतिविमल बुद्धिः षण्मतस्थापनार्यः सकलबुध
जनेड्यस्सर्व विद्याभिरामः । कुवलयतति विद्वत्पूर्णिमाश्लिष्ट
चन्द्रः सरसगुणयुत श्रीचारुकीर्तिर्यतीन्द्रः ।

प्लवसंवत्सरे मार्गशीर्षे * * * * * * वेंकटेशेन लिखितं
कालहस्तीशपुस्तकम् ।।

"https://sa.wikisource.org/w/index.php?title=कालहस्तीशविलासः&oldid=409982" इत्यस्माद् प्रतिप्राप्तम्