कात्यायनशिक्षा
| कात्यायनशिक्षा [[लेखकः :|]] |
katyayana_shiksha
कात्यायन शिक्षा
यदुदात्तात्परं नोचं स्वार्यं तत्परतो न चेत्
उदात्तात्स्वरितं वा स्याद्यत्र स्यात्स्वरितं वदेत् १
एकीभूतमुदात्तेन स्यादुदात्तमतः परम्
नीचं स्वार्यं यथोक्तं चेद्यच्च स्यात्स्वरितान्वितम् २
यदुदात्त इकारः स्यादनुदात्तेन संयुतः
इकारेण तदा स्वार्य्योऽभीन्धताभित्ययं यथा ३
पदकाले य एकार उदात्तः संहितोद्भवः
ओकारःस्वरसंयुक्तोऽयं न च स्वार्य्य एव सः ४
स्वरितं पदमध्यस्थमुदात्तेन समन्वितम्
पदकाले न पूर्व्वेण ततः स्वार्यन्तु यत्परम् ५
एकीभूताविकारौ चेदुदात्तस्वरितौ पदे
एकस्मिन्नेव तौ स्वार्य्यौ दीर्घपूर्वे तयोः परम् ६
पदस्य स्वरितस्थाने व्यञ्जनं जायते यदि
सन्धिकाले तदा नीचः स्वार्य्यः स्यात्तत्पुरः स्थितः ७
पदकाले यदा नादः स्वरितः स च इष्यते
सन्धिकाले तदा तस्मात्स्वार्य्यः पूर्वपदे तु यः ८
व्यञ्जनं स्वरितात्पूर्वं पञ्चमेनान्वितं यदि
स्वरितादुत्तरं तस्मात्स्वार्य्यो नादस्त्वनन्तरः ९
तच्च नीचमिति ज्ञेयं यद्येकस्मिन्पदे भवेत्
प्रचयं स्वरितादूर्ध्वमुपोपेदित्ययं यथा १०
नीचात्प्रचयतस्तस्मात्स्वरिता संहिता भवेत्
परेषां यत्तु पूर्वं स्यात्स्वरोच्चं नीचमेव तत् ११
उदात्तं पदकाले यत्संहितायां तथैव च
तस्मात्पूर्वं तु यत्किञ्चिदनुदात्तं तदुच्यते १२
यन्नीचं पदकाले तत्संहितायां तथैव च
उक्तं वा नीचहीनं चेत्पितृश्रवणं तद्भवेत् १३
इति महर्षिकात्यायनप्रणीता शिक्षा समाप्ता
कात्यायनी शिक्षा
श्री रामचन्द्राय नमः
अथ मा स न शब्देभ्यो वकारो द्विर्विभाषया
वो वां वा वी संहितायां लघुः स्याद् द्विः पदेषु वै १
इत्यमोघनन्दिनी शिक्षायाम्
पादादौ च पदादौ च संयोगावग्रहेषु च
यः शब्द इति विज्ञेयो योऽन्यः स य इति स्मृतः १
युक्तेन मनसा तद्वत्तत्त्वा यामि तथापरम्
अनूकाशेन बाह्यं च तुरीयमनुया पदे २
शाखान्तरे पदान्तस्थो दीर्घत्वे न उदाहृतः
पादादिश्च तथा कारश्चेषद्दीर्घ उदाहृतः ३
षकारस्तु वकारः स्यादृत्ययोगे षकारकः
स्थानात् त्यागेन संहितो ह्यन्यदादोषमाप्नुयात् ४
यकारस्तु जकारस्यात्यदादौ यदि दृश्यते
न न मासनशब्देभ्यो उपसर्गपरस्तथा ५
अन्तरा तूपयज्ञं स्यात् आद्यं चैव विभावयेत्
स्वरात्पूर्वं विद्यमानादकारेऽपि तथा परम्
आगमो मतमन्येषामादेशो नास्मदादिकाः ७
वकारस्त्रिविधः प्रोक्तो गुरुर्लघुर्लघूत्तरः
आदिर्गुरुर्लघुर्मध्ये पदान्ते तु लघूत्तरः ८
यदेव लक्षणं यस्य वकारस्य तु तद्भवेत्
रङ्गौ द्वावे बहिः स्यातां रङ्गादिरङ्गकैः ९
लुप्ते नकारे चादिरङ्गं नो लिप्ति तु द्वितीयकम्
रङ्गः सैव विजानीयात् न कारो यत्र लुप्यते १०
स्वरेऽपि परतश्चैव व्यञ्जने त्वनुनासिकम् ११
इति कात्यायनी शिक्षा समाप्ता