कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः २९

विकिस्रोतः तः
← पटलः २८ द्राह्यायणश्रौतसूत्रम्
पटलः २९
द्राह्यायणः
पटलः ३० →

29.1 एकोनत्रिंशः पटलः । प्रथमः खण्डः ।
पञ्चसु माःसु बार्हताः प्रगाथाः आप्यन्त इत्यभीवर्तस्तोत्रीयाः १ ब्रह्मसामभूतस्य तस्य हि प्रकरणे श्रूयन्ते २ अन्योन्यः प्रगाथ इति च नानाप्रगाथस्तं दर्शयति ३ चतुःशतमैन्द्रा बार्हताः प्रगाथा दशतयीषु ४ तेषां बृहद्रथन्तरकालेयस्तोत्रीया इन्द्रक्रतुश्चान्यत्र स्थाने ५ शतस्यैकं चतुर्विंशे कुर्यादितरानभिप्लवेषु ६ एकोनत्रिंशत्सातोबार्हतास्तृचास्तेषामेकैकं तृतीये तृतीयेऽहनि कुर्यात् ७ कृता ह्येतस्मिन् स्थान आर्षेयकल्पेन ८ पञ्चमस्य मासस्योत्तमेऽभिप्लवे पञ्चमेऽहनि सतोबृहतीः कुर्यात् । प्रगाथाप्रभवात् ६ तेष्वाप्तेषु छन्दसी संयुज्यैतव्यमिति षष्ठे मासे १० गायत्रीपादमेकैकमुष्णिहामुपरिष्टात् कुर्यात् ११ विष्टावानुपपत्तिर्य्तन्यथा १२ सातोबार्हतशेषोऽष्टौ तान् कृत्वा संयोग इति गौतमः १३ बृहतीक्षयाद्ध्येवमामनतीति १४ चतुरुत्तरैरेव छन्दोभिरेतव्यमिति गायत्रीं चतुर्विंशे कुर्यादुष्णिहं प्रथम आभिप्लविकेऽनुष्टभं द्वितीये बृहतीतरेषु १५ उद्धरेत्तु पञ्चमादह्नः सतोबृहतीः प्रभवन्ति हि प्रगाथाः १६ तत्र पङ्क्तिः कृत्वा षष्ठे वा त्रिष्टुभा षष्ठं मासमीयुर्जगती तृतीये स्वरसाम्नि १७ नवसातोबार्हतशेषो द्वौ च प्रगाथौ तान् कृत्वा पङ्क्तिमुपेयुस्तेषां वोत्तमस्य स्थाने तं षष्ठे तत ऊर्ध्वं त्रिष्टुभेति गौतमः १८ बृहत्या चैव त्रिष्टुभा चैतव्यमिति १६ त्रिष्टुभं चतुर्विंशे कुर्यात् । बृहतीं प्रथम आभिप्लविके २०
इति द्राह्यायणश्रौतसूत्रे एकोनत्रिंशे पटले प्रथमः खण्डः १

29.2 द्वितीयः खण्डः
एष विपर्यासः सर्वस्मिन्नयने १ एतानि महानानात्वानि २ चतुरुत्तरप्रयोगो बृहतीत्रिष्टुभोश्च विपर्यासः षष्ठ एव मासे स्यादिति शौचिवृक्षिः ३ संशर इव वा एष छन्दसामिति हि तस्मिन्नुपोद्य विदधाति ४ सर्वत्रैवेत्याचार्याः ५ चतुरुत्तराणि ह्यनुपूर्वं प्रयुञ्जानो बृहतीं मध्य आमनति ६ त्रिष्टुभा षष्ठं मासमिति चाह ७ बृहतीक्षयात्पुनर्विपर्यासस्तस्मिन्नोपपद्यते ८ साप्राय्येण बृहतीग्रहणमिति शौचिवृक्षिः ९ पञ्च मास इति वा रात्रयः १० त्रिष्टुभेति यथा भूयसवादः ११ अक्षीणाश्च बृहत्यः १२ सातोबार्हतशेषो ह्यष्टौ बृहद्रथन्तरकालेयस्तोत्रीयाश्च १३ नैस्त्रिष्टुभो व्यत्यस्येत् १४ तरणिरित्सिषसतीति कालेयं स्याद्यदहस्तस्य स्तोत्रीयेऽभीवर्तः १५ त्वामिद्धीति रथन्तरं यदहस्तस्य १६ स्वरसाम्नोर्वान्यतरस्मिन् रथन्तरस्य स्तोत्रीयं कुर्यात् १७ कृता हि तत्रान्या रथन्तरस्य १८ एवं व्याचक्षत आचार्याः १६ विंशतिशतं त्वपि प्रगाथानधीयते । तेभ्य एव प्रयुञ्जीत २० संरोधो हि चतुःशते २१ तत्र तथैव सतो बृहतीः कुर्यात् २२ उद्धरेत्तु पञ्चमादह्नः २३ शौचिवृक्षेः पुनर्विपर्यासोऽन्याय्येन २४ अकृतक्रिया हि विधानम् । कृताः पुनर्बृहद्रथन्तरकालेयस्तोत्रीयाः २५ ।
इति द्राह्यायणश्रौतसूत्रे एकोनत्रिंशे पटले द्वितीयः खण्डः २

29.3 तृतीयः खण्डः
विंशतिशतस्य तु शेषो विद्यते । तेषां सप्तभिः सातो बार्हतैश्च चतुर्भिर्व्यत्यस्येत् १ त्रयस्त्रिंशत्प्रभृतीन् सह चतुर्विंशेषु कुर्यादुत्तमे च स्वरसाम्नीत्याचार्याः २ अभीवर्तप्रकरणे हि श्रूयन्ते । सोऽत्राप्यभीवर्त इति ३ अन्तरेण त्वेतावार्षेयकल्पेन कृतं षट्प्रगाथमिहापि तथैव स्यात् ४ तेषां यत्र समप्रयोगे तृतीये तृतीयेऽहनि सतोबृहत्य उपपद्येरन् कुर्यादेतास्तत्र ५ अनुपपद्यमानासु प्रगाथा एव स्युः ६ अनाचारो हि षडहेऽन्यत्र तृतीयादह्नः सतोबृहतीनाम् ७ स यथैव पुरस्तादभीवर्तस्तोत्रीयान् कुर्यात् तथोपरिष्टादिन्द्रक्रतौ ब्रह्मसामानि निधनवन्ति तच्छन्दस्यानि ८ तच्छन्दस्याभावेऽप्यन्यानि गीतिनिधनोपेतानि ९ एवमुपेक्षितमिन्द्रक्रतुप्रगाथमनुगृह्णन्नाहतमस्तूयमानमनुशंसयन् सामानि प्रतिकल्पयेत् १० न वा शंसयेदिति गौतमः ११ जनित्रं विश्वजिति १२ यानि पृष्ठ्ये तानि दाशरात्रिके पृष्ठ्ये १३ चत्वार्येषां छन्दोमेषु यथाभागं यथापृष्ठं वा १४ पौरुमीढं व्रते श्यैतं वा १५ अतिरात्रचतुर्विंशाभ्यां सह षष्ठो मासः पूर्वस्मिन्पक्षसि १६ व्रतातिरात्राभ्यां प्रथम उत्तरस्मिन् १७ यदेतानि सामानि न च्यवन्त इति गौरीवितस्योत्तरयोर्निहवश्यावाश्वे स्यातां सर्वत्र गवामयने १८ अनारभ्याच्यवनं विदधातीत्येके १६ अन्ववेत्यविधिस्त्वार्षेयकल्पेन कृतो गौरीवितश्यावाश्वयोर्निहवस्य च २० ब्राह्मणे न तथा सत्यच्यवनं स्यात् २१
इति द्राह्यायणश्रौतसूत्रे एकोनत्रिंशे पटले तृतीयः खण्डः ३

29.4 चतुर्थः खण्डः
सर्वे सहर्त्विजो महाव्रतेन स्तुवीरन्नित्युद्गातृविकार एव स्यात् १ अश्रुतिभूता ह्यन्ये २ अवाप्यन्ते च सर्वशब्दस्तेष्वेव ३ सह स्तुवीरन्निति कर्मसमवायात् ४ पौर्वापर्यदर्शनादनुपूर्वं स्तवनं स्यात् ५ तिसृभिरुद्गातात्मन उद्गीयेति चात्मना जघन्यस्तवनं दर्शयति ६ ननादेशस्तवनं छन्दोगानामेव स्यात् ७ उद्गातैव सर्वेणोद्गायेदिति ह्युक्त्वा तस्य देशान् विदधाति ८ हविर्धाने शिरसा स्तुत्वा संरब्धाः प्रत्यञ्चमेयुस्ते दक्षिणेन धिष्ण्यान् परीत्य पश्चान्मैत्रावरुणस्य धिष्य्तस्योपविश्येति च ये शिरसा स्तुवते तेषामेवेतरैः स्तवनं दर्शयति ९ इलान्दमग्निष्टोमसाम कार्यमित्यग्रे तवश्रवोवय इत्येतासां पूर्वासु तिसृषु दशाक्षरेष्वार्चिकान्यनुगानानि १० एवं तृचे भवति ११ षडृच इत्याचार्या अर्धर्चेष्वनुगानानि १२ द्वादशर्च इति शाण्डिल्यः १३ तत्रापरावाग्नेयौ तृचावाहरेदाते अग्नेऽग्निं तं मन्य इति १४ चतुर्थमेवानुगानं तृच इति वार्षगण्यः १५ अत्र हि निधनवादं वदति । व्रतमिति भवति । स्वरिति भवति । शकुन इति भवतीति १६ भक्तयश्च कल्पान्ते १७ नानासामवच्चैनान्येकेऽधीयतेऽधीयते १८
इति द्राह्यायणश्रौतसूत्रे एकोनत्रिंशे पटले चतुर्थः खण्डः ४