कल्पः/श्रौतसूत्राणि/कात्यायन-श्रौतसूत्रम्/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ कात्यायन-श्रौतसूत्रम्
अध्यायः १३
कात्यायनः
अध्यायः १४ →
गवामयननिरूपणम्

द्वादशाहधर्माः सत्त्रेषु तद्गुणदर्शनात् १ गवामयनायैकाष्टकायां दीक्षा २ फाल्गुनीपौर्णमासे ३ चैत्र्! याम् ४ चतुरहे वा पुरस्तात्प्राक्पौर्णमास्याः ५ चैत्र्! यानन्तर्यात् ६ सर्वा वाऽविशेषात् ७ माघी वा क्रयश्रुतेः ८ लोकप्रत्ययात् ९ अर्थवादाच्च १० पवमानेषूद्गातारमन्वारभेरन्श्येनोऽसि गायत्रच्छन्दा अनुत्वाऽरभे स्वस्ति मा सम्पारय सुपर्णोऽसि त्रिष्टुप्च्छन्दा ऋभुरसि जगच्छन्दा इतीतरयोः सवनयोः ११ सवनान्तेषु जपन्ति मयि भर्गो मयि महो मयि यशो मयि सर्वमिति १२ सर्वत्रैके यजतिशब्दात् १३ न प्रकरणात् १४ १ 13.1

अभिप्लवः षडहोऽग्निष्टोमौ प्रथमान्त्या उक्थ्या इतरे १ अतिरात्राच्चतुर्विंशमहरग्निष्टोम उक्थ्यो वा २ चत्वारोऽभिप्लवाः पृष्ठ्यश्च मासः ३ एवं चत्वार उत्तरे ४ षष्ठे त्रयोऽभिप्लवाः पृष्ठ्यः ५ अभिजिदग्निष्टोमः ६ त्रयः स्वरसामानोऽग्निष्टोमा उक्थ्या वा ७ अग्निष्टोमो विषुवान् ८ ज्प्रातरनुवाकः सन्धिवेलायामुदिते यथोक्तं वा ९ सौर्य उपालम्भ्यः १० उदु त्यम्मिति ग्रहग्रहणमतिग्राह्यवद्भक्षवर्जम् ११ पूर्वपक्षप्रतिलोमम् १२ अभिजित्स्थाने विश्वजिदग्निष्टोमः १३ सर्वपृष्ठश्चेत्सर्वेऽतिग्राह्याः १४ षष्ठे मासे त्रयोऽभिप्लवा गोऽआयुषी दशरात्रो महाव्रतमग्निष्टोमः १५ प्राजापत्य उपालम्भ्यः १६ ग्रहं गृह्णाति वि न इन्द्र वाचस्पतिं विश्वकर्मन्निति वाऽतिग्राह्यवत् १७ उप मा यन्तु मज्जयस्सनीडा उप मा जक्षुरुप मा मनीषा प्रियामहं तन्वं पश्यमानो मयि रसो देवानां तेजसे ब्रह्मवर्चसायेति भक्षणं यजमानैः पृष्ठ्योपाकरणं बाणेन शततन्तुना १८ मौञ्जास्तन्तवो वैतसं वादनम् १९ २ 13.2

बृसीषूपविशन्ति प्रेङ्खे होता फलकेऽध्वर्युः प्रतिगृणाति १ उद्गाताऽसन्द्यां प्रादेशपाद्यायां सोमासन्दीवत् अन्यत् २ अन्तर्वेद्यभिगरापगरौ ४ आक्रोशत्येकः प्रशंसत्यपरः ५ पुंश्चलूब्रह्मचारिणावन्योन्यमाक्रोशतः ६ शूद्रा ऽर्यौ चर्मणि परिमण्डले व्यायच्छेते ७ जयत्यार्यः ८ मार्जालीयं दक्षिणेन परिवृते मिथुनं सम्भवति ९ क्षत्रियं सन्नाहयति दक्षिणां वेदिश्रोणिमपरेण १० मर्माणि त इति कवचं प्रयच्छति ११ तूष्णीमन्येभ्यः १२ त्रिः समन्तं परियन्ति शालामपरेणोत्तरेण चात्वालं वशाचर्म कटे विशाख्यां वाऽस्तीर्णमुच्छ्रितं वा विध्यन्त्यनिष्पत्रम् १३ दक्षिणेन चर्म यन्ति त्रिर्विद्ध्वा पुरस्ताद्विमोदनम् १४ सदःस्रक्तिषु दुंदुभीन्वादयन्ति १५ आग्नीध्रमपरेण श्वभ्रं सवालधानेन चर्मणाऽवनह्य वालधानेनाहन्ति १६ गोधावीणाकाः काण्डवीणाश्च पत्न्यो वादयन्ति १७ उपगायन्ति १८ अन्यांश्च शब्दान् कुर्वन्ति १९ उदकुम्भान् शिरस्सु कृत्वा मार्जालीयं दास्यः परियन्ति २० वाचयत्येनाः पर्यायादिषु २१ है महा३ है महा३ इति २२ गावो हारे सुरभय इदं मधु गावो गुल्गुलुगन्धय इदं मधु गावो घृतस्य मातर इदं मधु ता इह सन्तु भूयसीरिदं मधु तया वयं प्लवामह इदं मधु शम्याः प्रतरतामिवेदं मधु न वै गावो मन्दीरस्य गङ्गाया उदकं पपुः सरस्वतीनदीं ताः प्राच्य उज्जिगाहीर इदं मधु निगीर्य सर्वा आधीरिदं मधु मध्वाकर्षैः कुशैर्यथेदं मध्विति २३ अपसव्यं प्रदक्षिणं चाऽस्तोत्रान्तात् २४ त्रिस्त्रिर्वा २५ निषिच्य मार्जालीये पूर्णान् निदधति २६ अभिगरादि स्तूयमाने सर्वं क्रियते २७ अतिरात्रः श्वः २८ तिस्रोऽनूबन्ध्या मैत्रावरुणीवैश्वदेवी-बार्हस्पत्याः २९ संवत्सराऽवरेषु सत्त्रेष्वसारस्वतेषु सहस्रदक्षिणावरेषु च ३० अनूबन्ध्यावपाहोमान्ते दक्षिणस्यां वेदिश्रोणौ सर्वकेशश्मश्रुलोमवपनम् ३१ पत्न्यश्च ३२ त्रैधातव्युदवसानीया सर्वत्र ३३ अवभृथादुदेत्य ज्योतिष्ठोमोऽग्निष्टोमः पृष्ठशमनीयः ३४ सहस्रदक्षिणो वा ३५ एकाहमेके ३६ सत्त्राङ्गं प्रकरणात् ३७ फलाऽश्रुतेश्च ३८ न फलं न्यायात् ३९ कालप्राधान्याच्च ४० सहस्रदक्षिणे त्रिरात्रे प्रतिविभज्य नयन्रोहिणीमुपध्वस्तामप्रवीतामतिरेचयति त्रिरूपां वा ४१ आद्येऽहन् प्रथमां नयेदन्त्ये वा पश्चात् ४२ हविर्धानाऽग्नीध्रान्तरे द्रो णकलशमेनामाघ्रापयत्याजिघ्रेति ४३ इडे रन्त इति दक्षिणेऽस्याः कर्णे यजमानो जपति ४४ वोचेरिति वाऽन्ते ४५ सर्वतो नवसु दशमीं कृत्वा होत्रे दद्यात् ४६ उन्नेतारौ वा कृत्वाऽनाश्रावयते ४७ दशदशाऽभेदेन दक्षिणा दद्यात् ४८ अनूबन्ध्या-वपाहोमान्ते दद्यादेनाम् ४९ उदवसानीयायां वा ५० अन्यदिच्छन् ५१ अहर्गणे व्युत्क्रामताद्यन्वहम् ५२ वसतीवरिग्रहणं च ५३ एके माध्नन्दिनेऽवनीयाऽवनीय ५४ ३ 13.3

इति कात्यायनसूत्रे त्रयोदशोऽध्यायः १३