सामग्री पर जाएँ

कथासरित्सागरः/लम्बकः ६/तरङ्गः २

विकिस्रोतः तः

ततः कलिङ्गदत्तस्य राज्ञो गर्भभरालसा ।
राज्ञी तक्षशिलायां सा तारादत्ता शनैरभूत् ।। १
उदेष्यच्चन्द्रलेखां च प्राचीमनुचकार सा ।
आसन्नप्रसवा पाण्डुमुखी तरलतारका ।। २
जज्ञे च तस्या नचिरादनन्यसदृशी सुता ।
वेधसः सर्वसौन्दर्यसर्गवर्णकसंनिभा ।। ३
ईदृक्पुत्रो न किं जात इतीव स्नेहशालिनः ।
रक्षाप्रदीपास्तत्कान्तिजिता विच्छायतां ययुः ।। ४
पिता कलिङ्गदत्तश्च जातां तां तादृशीमपि ।
दृष्ट्वा तद्रूपपुत्राशावैफल्यविमना अभूत् ।। ५५
दिव्यां तामपि संभाव्य स पुत्रेच्छुरदूयत ।
शोककन्दः क्व कन्या हि कानन्दः कायवान्सुतः ।। ६
ततश्चेतोविनोदाय खिन्नो निर्गत्य मन्दिरात् ।
ययौ नानाजिनाकारं विहारं स महीपतिः ।। ७
तत्रैकदेशे शुश्राव धर्मपाठकभिक्षुणा ।
जनमध्योपविष्टेन कथ्यमानमिदं वचः ।। ८
अर्थप्रदानमेवाहुः संसारे सुमहत्तपः ।
अर्थदः प्राणदः प्रोक्तः प्राणा ह्यर्थेषु कीलिताः ।। ९
बुद्धेन च परस्यार्थे करुणाकुलचेतसा ।
आत्मापि तृणवद्दत्तः का वराके धने कथा ।। १०
तादृशेन च धीरेण तपसा स गतस्पृहः ।
संप्राप्तदिव्यविज्ञानो बुद्धो बुद्धत्वमागतः ।। ११
आ शरीरमतः सर्वेष्विष्टेष्वाशानिवर्तनात् ।
प्राज्ञः सत्त्वहितं कुर्यात्सम्यक्संबोधलब्धये ।। १२
तथा च पूर्वं कस्यापि कृतनाम्नो महीपतेः ।
अजायन्तातिसुभगाः क्रमात्सप्त कुमारिकाः ।। १३
बाला एव च तास्त्यक्त्वा वैराग्येण पितुर्गृहम् ।
श्मशानं शिश्रियुः पृष्टा जगदुश्च परिच्छदम् ।। १४
असारं विश्वमेवैतत्तत्रापीदं शरीरकम् ।
तत्राप्यभीष्टसंयोगसुखादि स्वप्नविभ्रमः ।। ३
एकं परहितं त्वत्र संसारे सारमुच्यते ।
तदनेनापि देहेन कुर्मः सत्त्वहितं वयम् ।। १६
क्षिपामो जीवदेवैतच्छरीरं पितृकानने ।
क्रव्याद्गणोपयोगाय कान्तेनापि ह्यनेन किम् ।। १७
तथा च राजपुत्रोऽत्र विरक्तः कोऽप्यभूत्पुरा ।
स युवापि सुकान्तोऽपि परिव्रज्यामशिश्रियत् ।। १८
स जातु भिक्षुः कस्यापि प्रविष्टो वणिजो गृहम् ।
दृष्टस्तरुण्या तत्पत्न्या पद्मपत्रायतेक्षणः ।। १९
सा तल्लोचनलावण्यहृतचित्ता तमब्रवीत् ।
कथमात्तमिदं कष्टमीदृशेन त्वया व्रतम् ।। २०
सा धन्या स्त्री तवानेन चक्षुषा या निरीक्ष्यते ।
प्रत्युक्तः स तया भिक्षुश्चक्षुरेकमपाटयत् ।। २१
ऊचे च हस्ते कृत्वा तन्मातः पश्येदमीदृशम् ।
जुगुप्सितमसृङ्मांसं गृह्यतां यदि रोचते ।। २२
ईदृगेव द्वितीयं च वद रम्यं किमेतयोः ।
इत्युक्ता तेन तद्दृष्ट्वा व्यषीदत्सा वणिग्वधूः ।। २३
उवाच च हहा पापं मया कृतमभव्यया ।
यदहं हेतुतां प्राप्ता लोचनोत्पाटने तव ।। २४
तच्छ्रुत्वा भिक्षुरवदन्मा भूदम्ब तव व्यथा ।
मम त्वया ह्युपकृतं यतः शृणु निदर्शनम् ।। २५
आसीत्कोऽपि पुरा कान्ते कुत्राप्युपवने यतिः ।
अनुजाह्रवि वैराग्यनिःशेषनिकषेच्छया ।। २६
तपस्यतश्च कोऽप्यस्य राजा तत्रैव दैवतः ।
विहर्तुमागतः साकमवरोधवधूजनैः ।। २७
विहृत्य पानसुप्तस्य पार्श्वादुत्थाय तस्य च ।
नृपस्य चापलाद्राज्ञ्यस्तदुद्याने किलाभ्रमन् ।। २८
दृष्ट्वा तत्रैकदेशे च तं समाधिस्थितं मुनिम् ।
अतिष्ठन्परिवार्यैनं किमेतदिति कौतुकात् ।। २९
चिरस्थितासु तास्वत्र प्रबुद्धः सोऽथ भूपतिः ।
अपश्यन्दयिताः पार्श्वे तत्र बभ्राम सर्वतः ।। ३०
ददर्श चात्र राज्ञीस्ताः परिवार्य मुनिं स्थिताः ।
कुपितश्चेर्ष्यया तस्मिन्खड्गेन प्राहरन्मुनौ ।। ३१
ऐश्वर्यमीर्ष्या नैर्घृण्यं क्षीबत्वं निर्विवेकिता ।
एकैकं किं न यत्कुर्यात्पञ्चाङ्गित्वे तु का कथा ।। ३२
ततो गते नृपे तस्मिन्कृत्ताङ्गमपि तं मुनिम् ।
अक्रुद्धं प्रकटीभूय काप्युवाचात्र देवता ।। ३३
महात्मन्येन पापेन क्रोधेनैतत्कृतं त्वयि ।
स्वशक्त्या तमहं हन्मि मन्यते यदि तद्भवान् ।। ३४
तच्छ्रुत्वा स जगादर्षिर्देवि मा स्मैवमादिशः ।
स हि धर्मसहायो मे न विप्रियकरः पुनः ।। ३५
तत्प्रसादात्क्षमाधर्मं भगवत्याप्तवाहनम् ।
कस्य क्षमेय किं देवि नैवं चेत्स समाचरेत् ।। ३६
कः कोपो नश्वरस्यास्य देहस्यार्थे मनस्विनः ।
प्रियाप्रियेषु साम्येन क्षमा हि ब्रह्मणः पदम् ।। ३७
इत्युक्ता मुनिना साथ तपसा तस्य तोषिता ।
अङ्गानि देवता कृत्वा निर्व्रणानि तिरोदधे ।। ३८
तद्यथा सोऽपि तस्यर्षेरुपकारी मतो नृपः ।
नेत्रोत्खननहेतोस्त्वं तपोवृद्ध्या तथाम्ब मे ।। ३९
इत्युक्त्वा स वशी भिक्षुर्विनम्रां तां वणिग्वधूम् ।
कान्तेऽपि वपुषि स्वस्मिन्ननास्थः सिद्धये ययौ ।। ४०
तस्माद्बालेऽपि रम्येऽपि कः काये गत्वरे ग्रहः ।
सत्त्वोपकारस्त्वेतस्मादेकः प्राज्ञस्य शस्यते ।। ४१
तदिमा वयमेतस्मिन्निसर्गसुखसद्मनि ।
श्मशाने प्राणिनामर्थे विन्यस्याम शरीरकम् ।। ४२
इत्युक्त्वा परिवारं ताः सप्त राजकुमारिकाः ।
तथैव चक्रुः प्रापुश्च संसिद्धिं परमां ततः ।। ४३
एवं निजे शरीरेऽपि ममत्वं नास्ति धीमताम् ।
किं पुनः सुतदारादिपरिग्रहतृणोत्करे ।। ४४
इत्यादि स नृपः श्रुत्वा विहारे धर्मपाठकात् ।
कलिङ्गदत्तो नीत्वा च दिनं प्रायात्स्वमन्दिरम् ।। ४५
तत्रानुबाध्यमानश्च कन्याजन्मशुचा पुनः ।
स राजा गृहवृद्धेन केनाप्यूचे द्विजन्मना ।। ४६
राजन्किं कन्यकारत्नजन्मना परितप्यसे ।
पुत्रेभ्योऽप्युत्तमाः कन्याः शिवाश्चेह परत्र च ।। ४७
राज्यलुब्धेषु का तेषु पुत्रेष्वास्था महीभुजाम् ।
ये भक्षयन्ति जनकं बत मर्कटका इव ।। ४८
नृपास्तु कुन्तिभोजाद्याः कुन्त्यादितनयागुणैः ।
तीर्णा दुःसहदुर्वासः प्रभृतिभ्यः पराभवम् ।। ४९
फलं यच्च सुतादानात्कुतः पुत्रात्परत्र तत् ।
सुलोचनाकथामत्र किं च वच्मि निशम्यताम् ।। ५०
आसीद्राजा सुषेणाख्यश्चित्रकूटाचले युवा ।
कामोऽन्य इव यो धात्रा निर्मितस्त्र्यम्बकेर्ष्यया ।। ५१
स चक्रे दिव्यमारामं मूले तस्य महागिरेः ।
सुराणां नन्दनोद्यानवासवैरस्यदायिनम् ।। ५२
तन्मध्ये च चकारैकां वापीमुत्फुल्लपङ्कजाम् ।
लक्ष्मीलीलारविन्दानां नवाकरमहीमिव ।। ५३
तस्यास्तस्थौ स सद्रत्नसोपानायास्तटे सदा ।
पत्नीनां स्वानुरूपाणामभावादवधूसखः ।। ५४
एकदा तेन मार्गेण नभसा सुरसुन्दरी ।
रम्भा जम्भारिभवनादाजगाम यदृच्छया ।। ५५
सा तं ददर्श राजानं तत्रोद्याने विहारिणम् ।
साक्षान्मधुमिवोत्फुल्लपुष्पकाननमध्यगम् ।। ५६
वापिकापद्मपतितां दिवोऽनु पतितः श्रियम् ।
चन्द्रः किमेष नैतद्वा श्रीरस्य ह्यनपायिनी ।। ५७
नूनं पुष्पेषुरुद्यानं पुष्पेच्छुः सोऽयमागतः ।
किं तु सा रतिरेतस्य क्व गता सहचारिणी ।। ५८
इत्यौत्सुक्यकृतोल्लेखा सावतीर्य नभोन्तरात् ।
रम्भा मानुषरूपेण राजानं तमुपागमत् ।। ५९
उपेतां तां च सहसा दृष्ट्वा राजा सविस्मयः ।
अचिन्तयदहो केयमसंभाव्यवपुर्भवेत् ।। ६०
न तावन्मानुषी येन पादौ नास्य रजःस्पृशौ ।
न चक्षुः सनिमेषं वा तस्माद्दिव्यैव काप्यसौ ।। ६१
प्रष्टव्या तु मया नेयं पलायेत हि जातुचित् ।
रतिभेदासहाः प्रायो दिव्याः कारणसंगताः ।। ६२
इति ध्यायन्स नृपतिः कृतसंभाषणस्तया ।
तत्क्रमेणैव तत्कालं तत्कण्ठाश्लेषमाप्तवान् ।। ६३
चिक्रीड च चिरं सोऽत्र साकमप्सरसा तया ।
दिवं सापि न सस्मार रम्यं प्रेम न जन्मभूः ।। ६४
तत्सखीयक्षिणीवृष्टैरपूरि स्वर्णराशिभिः ।
सास्य भूमिर्नरेन्द्रस्य द्यौर्मैरुशिखरैरिव ।। ६५
कालेन चास्य राज्ञः सा सुषेणस्य वराप्सराः ।
असूतानन्यसदृशीं धृतगर्भा सती सुताम् ।। ६६
प्रसूतमात्रैव च सा जगादैनं महीपतिम् ।
राजन्शापोऽयमीदृङ्मे क्षीणो जातः स चाधुना ।। ६७
अहं हि रम्भा नाकस्त्री त्वयि दृष्टेऽनुरागिणी ।
जाते च गर्भे मुक्त्वा तं गच्छामस्तत्क्षणं वयम् ।। ६८
समयो हीदृशोऽस्माकं तद्रक्षेः कन्यकामिमाम् ।
एतद्विवाहान्नाके नौ भूयो भावी समागमः ।। ६९
एवमुक्त्वाप्सरा रम्भा विवशा सा तिरोदधे ।
तद्दुःखाच्च स राजाभूत्तदा प्राणव्ययोद्यतः ।। ७०
निरास्थेनापि किं त्यक्तं विश्वामित्रेण जीवितम् ।
मेनकायां प्रयातायां प्रसूयैव शकुन्तलाम् ।। ७१
इत्यादि सचिवैरुक्तो ज्ञातार्थः स नृपो धृतिम् ।
शनैरादत्त कन्यां च पुनः संगमकारणम् ।। ७२
तां च बालां तदेकाग्रः पिता सर्वाङ्गसुन्दरीम् ।
सोऽतिलोचनसौन्दर्यान्नाम्ना चक्रे सुलोचनाम् ।। ७३
कालेन यौवनप्राप्तामुद्यानस्थां ददर्श ताम् ।
युवा यदृच्छया भ्राम्यन्वत्साख्यः काश्यपो मुनिः ।। ७४
स तपोराशिरूपोऽपि दृष्ट्वैवैतां नृपात्मजाम् ।
अनुरागरसज्ञोऽभूदिति चात्र व्यचिन्तयत् ।। ७५
अहो रूपं किमप्यस्याः कन्यायाः परमाद्भुतम् ।
नेमां प्राप्नोति चेद्भार्यां किमन्यत्तपसः फलम् ।। ७६
इति ध्यायन्मुनियुवा स सुलोचनया तया ।
अदर्शि प्रज्वलत्तेजा विधूम इव पावकः ।। ७७
तं वीक्ष्य सापि सप्रेमा साक्षसूत्रकमण्डलुम् ।
शान्तश्च कमनीयश्च कोऽयं स्यादित्यचिन्तयत् ।। ७८
वरणायेव चोपेत्य नयनोत्पलमालिकाम् ।
क्षिपन्ती तस्य वपुषि प्रणाममकरोन्मुनेः ।। ७९
पतिं समाप्नुहीत्याशीस्तस्यास्तेनाभ्यधीयत ।
सुरासुरदुरुल्लङ्घ्यमन्मथाज्ञावशात्मना ।।८०
ततोसामान्यतद्रूपलोभलुण्ठितलज्जया।
तयाप्यूचे स विनमद्वक्त्रया मुनिपुंगवः ।। ८१
एषा यदीच्छा भवतो नर्मालापो न चेदयम् ।
तद्देव दाता नृपतिः पिता मे याच्यतामिति ।। ८२
अथान्वयं परिजनान्मुनिस्तस्या निशम्य सः ।
गत्वा नृपं तत्पितरं सुषेणं तामयाचत ।। ८३
सोऽपि तं वीक्ष्य तपसा वपुषा चातिभूमिगम् ।
उवाच रचितातिथ्यो राजा मुनिकुमारकम् ।। ८४
जाताप्सरसि रम्भायां कन्यैषा भगवन्मम ।
अस्या विवाहान्नाके मे तया भावी समागमः ।। ८५
एवं तया व्रजन्त्या द्यां रम्भयैव ममोदितम् ।
एतत्कथं महाभाग भवेदिति निरूप्यताम् ।। ८६
तच्छ्रुत्वा मुनिपुत्रोऽसौ क्षणमेवमचिन्तयत् ।
किं पुरा मेनकोद्भूता सर्पदष्टा प्रमद्वरा ।। ८७
दत्त्वायुषोऽर्धं मुनिना न भार्या रुरुणा कृता ।
त्रिशङ्कुः किं न नीतो द्यां विश्वामित्रेण लुब्धकः ।! ८८
तदिदं स्वतपोभागव्ययात्किं न करोम्यहम् ।
इत्यालोच्य न भारोऽयमित्युक्त्वा सोऽब्रवीन्मुनिः ।। ८९
हे देवतास्तपोंशेन मदीयेनैव भूपतिः ।
सशरीरो दिवं यातु रम्भासंभोगसिद्धये ।। ९०
इत्युक्ते तेन मुनिना शृण्वन्त्यां राजसंसदि ।
एवमस्त्विति सुव्यक्ता दिव्या वागुदभूत्ततः ।। ९१
ततः सुलोचना तस्मै मुनये काश्यपाय ताम् ।
वत्साय दत्त्वा तनयां स राजा दिवमुद्ययौ ।। ९२
तत्र दिव्यत्वमासाद्य तया शक्रनियुक्तया ।
स रेमे रम्भया साकं भूयो दिव्यानुभावया ।। ९३
इत्थं कृतार्थता देव सुषेणः प्राप कन्यया ।
कन्या युष्मादृशां गेहेष्वीदृश्योऽवतरन्ति हि ।। ९४
तदेषा कापि दिव्या ते जाता शापच्युता गृहे ।
कन्या नूनमतो मा गाः शुचं तज्जन्मना विभो ।। ९५
इति श्रुत्वा कथां राजा गृहवृद्धाद्द्विजन्मनः ।
कलिङ्गदत्तो नृपतिर्जहौ चिन्तां तुतोष च ।। ९६
तां च चक्रे निजसुतां नयनानन्ददायिनीम् ।
नाम्ना कलिङ्गसेनेति बालामिन्दुकलोपमाम् ।। ९७
सापि तस्य पितुर्गेहे राजपुत्री ततः क्रमात् ।
कलिङ्गसेना ववृधे वयस्यामध्यवर्तिनी ।। ९८
विजहार च हर्म्येषु सा गृहेषु वनेषु च ।
क्रीडारसमयस्येव लहरी शैशवाम्बुधेः ।। ९९
कदाचिदथ हर्म्यस्थां केलिसक्तां ददर्श ताम् ।
मयासुरसुता यान्ती व्योम्ना सोमप्रभाभिधा ।। १००
सा तामालोक्य रूपेण मुनिमानसमोहिनीम् ।
सोमप्रभा नभःस्थैव जातप्रीतिरचिन्तयत् ।। १०१
केयं किमैन्दवी मूर्तिः कान्तिस्तस्या दिवा कुतः ।
रतिर्वा यदि कामः क्व कन्यका तदवैम्यहम् ।। १०२
अत्र राजगृहे कापि दिव्या शापच्युता भवेत् ।
जाने जन्मान्तरे चाभून्नूनं सख्यं ममैतया ।। १०३
एतद्धि मे वदत्यस्यामतिस्नेहाकुलं मनः ।
तद्युक्तं कर्तुमेतां मे स्वयंवरसखीं पुनः ।। १०४
इति संचिन्त्य बालायास्तस्याः संत्रासशङ्कया ।
सोमप्रभा सा गगनादलक्षितमवातरत् ।। १०५
मनुष्यकन्यकाभावमाश्रित्याश्वासकारणम् ।
सास्याः कलिङ्गसेनायाः शनैरुपससर्प च ।। १०६
दिष्ट्या राजसुता कापि स्वयमत्यद्भुताकृतिः ।
असौ समागता पार्श्वमुचितेयं सखी मम ।। १०७
इति तद्दर्शनादेव विचिन्त्योत्थाय चादरात् ।
कलिङ्गसेनाप्यालिङ्गत्सा तां सोमप्रभां तदा ।। १०८
उपवेश्य च पप्रच्छ क्षणादन्वयनामनी ।
वक्ष्यामि सर्वं तिष्ठेति तां च सोमप्रभाब्रवीत् ।। १०९
ततः कथाक्रमेणैव वाचा सख्यमबध्यत ।
ताभ्यामुभाभ्यमन्योन्यहस्तग्रहपुरःसरम् ।। ११०
अथ सोमप्रभावादीत्सखि त्वं राजकन्यका ।
राजपुत्रैः समं सख्यं कृच्छ्रादप्यतिवाह्यते ।। १११
अल्पेनाप्यपराधेन ते हि कुप्यन्त्यमात्रया ।
राजपुत्रवणिक्पुत्रकथां शृण्वत्र वच्मि ते ।। ११२
नगर्यां पुष्करावत्यां गूढसेनाभिधो नृपः ।
आसीत्तस्य च जातोऽभूदेक एव किलात्मजः ।। ११३
स राजपुत्रो दृप्तः सन्नेकपुत्रतया शुभम् ।
अशुभं वापि यच्चक्रे पिता तस्यासहिष्ट तत् ।। ११४
भ्राम्यतोपवने जातु दृष्टस्तेनैकपुत्रकः ।
वणिजो ब्रह्मदत्तस्य स्वतुल्यविभवाकृतिः ।। ११५
दृष्ट्वा च सद्यः सोऽनेन स्वयंवरसुहृत्कृतः ।
तदैव चैकरूपौ तौ जातौ राजवणिक्सुतौ ।। ११६
स्थातुं न शेकतुः क्षिप्रं तावन्योन्यमदर्शनम् ।
आशु बध्नाति हि प्रेम प्राग्जन्मान्तरसंस्तवः ।। ११७
नोपभुङ्के स्म तं भोगं राजपुत्रः कदाचन ।
वणिक्पुत्रस्य यस्तस्य नादावेवोपकल्पितः ।। ११८
एकदा सुहृदस्तस्य निश्चित्योद्वाहमादितः ।
अहिच्छत्रं विवाहाय स प्रतस्थे नृपात्मजः ।। ११९
मित्रेण तेन साकं च गजारूढः ससैनिकः ।
गच्छन्निक्षुमतीतीरं प्राप्य सायं समावसत् ।। १२०
तत्र चन्द्रोदये पानमासेव्य शयनं श्रितः ।
अर्थितो निजया धात्र्या कथां वक्तुं प्रचक्रमे ।। १२१
उपक्रान्तकथो जह्रे श्रान्तो मत्तश्च निद्रया ।
धात्री च तद्वत्सोऽप्यासीत्स्नेहाज्जाग्रद्वणिक्सुतः ।। १२२
ततः सुप्तेषु चान्येषु स्त्रीणामिव मिथः कथा ।
गगने शुश्रुवे तेन वणिक्पुत्रेण जाग्रता ।। १२३
अनाख्याय कथां सुप्तः पापोऽयं तच्छपाम्यहम् ।
परिद्रक्ष्यत्यसौ हारं प्रातस्तं चेद्ग्रहीष्यति ।। १२४
कण्ठलग्नेन तेनैष तत्क्षणं मृत्युमाप्स्यति ।
इत्युक्त्वा विररामैका द्वितीया च ततोऽब्रवीत् ।। १२५
अतो यद्ययमुत्तीर्णस्तद्रक्ष्यत्याम्रपादपम् ।
वियोक्ष्यते फलान्यस्य ततः प्राणैर्विमोक्ष्यते ।। १२६
इत्युक्त्वा व्यरमत्सापि तृतीयाभिदधे ततः ।
यद्येतदपि तीर्णोऽयं तद्विवाहकृते गृहम् ।। १२७
प्रविष्टश्चेत्तदेवास्य हन्तुं पृष्ठे पतिष्यति ।
उक्त्वेति न्यवृतत्सापि चतुर्थी व्याहरत्ततः ।। १२८
अतोऽपि यदि निस्तीर्णस्तन्नक्तं वासवेश्मनि ।
प्रविष्टः शतकृत्वोऽयं क्षुतं सद्यः करिष्यति ।। १२९
शतकृत्वोऽपि यद्यस्य जीवेति न वदिष्यति ।
कश्चिदत्र ततश्चैष मृत्योर्वशमुपैष्यति ।। १३०
येन चेदं श्रुतं सोऽस्य रक्षार्थं यदि वक्ष्यति ।
तस्यापि भविता मृत्युरित्युक्त्वा सा न्यवर्तत ।। १३१
वणिक्सुतश्च तत्सर्वं श्रुत्वा निर्घातदारुणम् ।
स तस्य राजपुत्रस्य स्नेहोद्विग्नो व्यचिन्तयत् ।। १३२
उपक्रान्तामनाख्यातां धिक्कथां यद्यलक्षिताः ।
देवताः श्रोतुमायाताः शपन्त्यस्तु कुतूहलात् ।। १३३
तदेतस्मिन्मृते राजसुते कोऽर्थो ममासुभिः ।
अतोऽयं रक्षणीयो मेत्युक्त्या प्राणसमः सुहृत् ।। १३४
वृत्तान्तोऽपि न वाच्योऽस्य मा भूद्दोषो ममाप्यतः ।
इत्यालोच्य निशां निन्ये स कृच्छ्रेण वणिक्सुतः ।। १३५
राजपुत्रोऽपि स प्रातः प्रस्थितस्तत्सखः पथि ।
ददर्श पुरतो हारं तमादातुमियेष च ।। १३६
ततोऽब्रवीद्वणिक्पुत्रो हारं मा स्म ग्रहीः सखे ।
मायेयमन्यथा नैते पश्येयुः सैनिकाः कथम् ।। १३७
तच्छ्रुत्वा तं परित्यज्य गच्छन्नग्रे ददर्श सः ।
आम्रवृक्षं फलान्यस्य भोक्तुं चैच्छन्नृपात्मजः ।। १३८
वणिक्पुत्रेण च प्राग्वत्ततोऽपि स निवारितः ।
सान्तःखेदः शनैर्गच्छन्प्राप श्वशुरवेश्म तत् ।। १३९
तत्रोद्वाहकृते वेश्म विशन्द्वारान्निवर्तितः ।
तेनैव सख्या यावच्च तावत्तत्पतितं गृहम् ।। १४०
ततः कथंचिदुत्तीर्णः किंचित्सप्रत्ययो निशि ।
निवासकं विवेशान्यं राजपुत्रो वधूसखः ।। १४१
तत्र तस्मिन्वणिक्पुत्रे प्रविश्यालक्षितस्थिते ।
शतकृत्वः क्षुतं चक्रे शयनीयाश्रितोऽथ सः ।। १४२
शतकृत्वोऽपि तस्यात्र नीचैर्जीवेत्युदीर्य सः ।
कृतकार्यो वणिक्पुत्रो हृष्टः स्वैरं बहिर्ययौ ।। १४३
निर्यान्तं तमपश्यच्च राजपुत्रो वधूसखः ।
ईर्ष्याविस्मृततत्स्नेहः क्रुद्धो द्वाःस्थानुवाच च ।। १४४
पापात्मायं रहःस्थस्य प्रविष्टोऽन्तःपुरं मम ।
तद्बद्ध्वा स्थाप्यतां यावत्प्रभातेऽसौ निगृह्यते ।। १४५
तद्बुद्ध्वा रक्षिमिर्बद्धो निशां निन्ये वणिक्सुतः ।
प्रातर्वध्यभुवं तैश्च नीयमानोऽब्रवीत्स तान् ।। १४६
आदौ नयत मां तावद्राजपुत्रान्तिकं यतः ।
वक्ष्यामि कारणं किंचित्ततः कुरुत मे वधम् ।। १४७
इत्युक्तैस्तेन तैर्गत्वा विज्ञप्तः स नृपात्मजः ।
सचिवैर्बोधितश्चान्यैस्तस्यानयनमादिशत् ।। १४८
आनीतः सोऽब्रवीत्तस्मै वृत्तान्तं राजसूनवे ।
प्रत्ययाद्गृहपातोत्थान्मेने सत्यं च सोऽपि तत् ।। १४९
ततस्तुष्टः समं सख्या वधमुक्तेन तेन सः ।
आययौ राजतनयः कृतदारो निजां पुरीम् ।। १५०
तत्र सोऽपि सुहृत्तस्य कृतदारो वणिक्सुतः ।
स्तूयमानगुणः सर्वैर्जनैरासीद्यथासुखम् ।। १५१
एवमुच्छृङ्खला भूत्वा स्वनियन्तृप्रमाथिनः ।
राजपुत्रा न मन्यन्ते हितं मत्ता गजा इव ।। १५२
वेतालैस्तैश्च का मैत्री ये विहस्य हरन्त्यसून् ।
तद्राजपुत्रि सख्यं मे मा स्म व्यभिचरः सदा ।। १५३
इति' श्रुत्वा कथामेतां हर्म्ये सोमप्रभामुखात् ।
कलिङ्गसेना सस्नेहं तां सखीं प्रत्यभाषत ।। १५४
एते पिशाचा न त्वेते राजपुत्रा मताः सखि ।
पिशाचदुर्ग्रहकथामहमाख्यामि ते शृणु ।। १५५
यज्ञस्थलाख्ये कोऽप्यासीदग्रहारे पुरा द्विजः ।
स जातु दुर्गतः काष्ठान्याहर्तुमटवीं ययौ ।। १५६
तत्र काष्ठं कुठारेण पाट्यमानं विधेर्वशात् ।
आपत्य तस्य जङ्घायां भित्त्वान्तः प्रविवेश तत् ।। १५७
ततः स प्रस्रवद्रक्तो दृष्ट्वा केनापि मूर्च्छितः ।
उत्क्षिप्यानीयत गृहं पुंसा प्रत्यभिजानता ।। १५८
तत्र विह्वलया पत्न्या तस्य प्रक्षाल्य शोणितम् ।
आश्वास्य तस्य जङ्घायां निबद्धो व्रणपट्टकः ।। १५९
ततश्चिकित्स्यमानः सन्व्रणस्तस्य दिने दिने ।
न परं न रुरोहैव यावन्नाडीत्वमाययौ ।। १६०
ततो नाडीव्रणात्खिन्नो दरिद्रो मरणोद्यतः ।
अभ्येत्य सख्या विप्रेण केनापि जगदे रहः ।। १६१
सखा मे यज्ञदत्ताख्यश्चिरं भूत्वातिदुर्गतः ।
पिशाचसाधनं कृत्वा धनं प्राप्य सुखी स्थितः ।। १६२
तच्च तत्साधनं तेन ममाप्युक्तं त्वमप्यतः ।
पिशाचं साधय सखे स ते रोपयिता व्रणम् ।। १६३
इत्युक्त्वाख्यातमन्त्रोऽसावुवाचास्य क्रियामिमाम् ।
उत्थाय पश्चिमे यामे मुक्तकेशो दिगम्बरः ।। १६४
अनाचान्तश्च मुष्टी द्वौ तण्डुलानां यथाक्षमम् ।
द्वाभ्यामादाय हस्ताभ्यां जपन्गच्छेश्चतुष्पथम् ।। १६५
तत्र तण्डुलमुष्टी द्वौ स्थापयित्वा ततः सखे ।
मौनेनैव त्वमागच्छेर्मा वीक्षिष्ठाश्च पृष्ठतः ।। १६६
एवं कुरु सदा यावत्पिशाचो व्यक्ततां गतः ।
अहं हि हन्मि ते व्याधिमिति त्वां वक्ष्यति स्वयम् ।।१ ६७
ततोऽभिनन्देस्तं सोऽथ तव रोगं हरिष्यति ।
इत्युक्तस्तेन मित्रेण स द्विजस्तत्तथाकरोत् ।। १६८
ततः सिद्धः पिशाचः स तस्यार्तस्य महौषधीः ।
हिमाचलेन्द्रादानीय रोपयामास तं व्रणम् ।। १६९
जगाद च प्रहृष्टं तं सोऽथ लग्नग्रहो द्विजम् ।
देहि व्रणं द्वितीयं मे यावत्तं रोपयाम्यहम् ।। १७०
न चेत्सृजाम्यनर्थं ते शरीरं संहरामि वा ।
तच्छ्रुत्वा स द्विजो भीतः सद्यो मुक्त्यै तमभ्यधात् ।। १७१
व्रणं द्वितीयं दास्यामि सप्तभिस्ते दिनैरिति ।
ततस्तेनोज्झितः सोऽभून्निराशो जीविते द्विजः ।। १७२
इत्युक्त्वा विरता मध्यादश्लीलाख्यानलज्जया ।
कलिङ्गसेना भूयः सावादीत्सोमप्रभामिदम् ।। १७३
ततो व्रणान्तरालाभादार्तं विप्रमुवाच तम् ।
दृष्ट्वा पृष्ट्वा च दुहिता विदग्धा मृतभर्तृका ।। १७४
वञ्चयेऽहं पिशाचं तं गच्छ त्वं ब्रूहि तं पुनः ।
नाडीव्रणो मद्दुहितुर्भवता रोप्यतामिति ।। १७५
तच्छ्रुत्वा मुदितो गत्वा तथैवोक्त्वा च स द्विजः ।
अनैषीद्दुहितुस्तस्याः पिशाचं तं ततोऽन्तिकम् ।।१ ७६
सा च तस्य पिशाचस्य वराङ्गं स्वमदर्शयत् ।
रोपयेमं व्रणं भद्र ममेति ब्रुवती रहः ।। १७७
स च मूढः पिशाचोऽस्या वराङ्गे सततं ददौ ।
पिण्डीलेपादि न त्वासीत्स तं रोपयितुं क्षमः ।। १७८
दिनैश्च खिन्नस्तस्याः स कृत्वा जङ्घे निजांसयोः ।
किंस्विन्न रोहतीत्येवं तद्वराङ्गं व्यलोकयत् ।। १७९
यावद्द्वितीयं तस्याधः स पायुव्रणमैक्षत ।
तं दृष्ट्वैव च संभ्रान्तः स पिशाचो व्यचिन्तयत् ।। १८०
एको न रोपितो यावदुत्पन्नोऽयं व्रणोऽपरः ।
सत्यः प्रवादो यच्छिद्रेष्वनर्था यान्ति भूरिताम् ।। १८१
प्रभवन्ति यतो लोकाः प्रलयं यान्ति येन च ।
संसारवर्त्म विवृतं कः पिधातुं तदीश्वरः ।। १८२
इत्यालोच्य विरुद्धार्थसिद्ध्या बन्धनशङ्कया ।
स पिशाचस्ततो मूर्खः पलाय्यादर्शनं ययौ ।। १८३
एवं च वञ्चयित्वा तं पिशाचं मोचितस्तया ।
दुहित्रा स द्विजस्तस्थौ रोगोत्तीर्णो यथासुखम् ।। १८४
इत्थं पिशाचास्तत्तुल्या बाला राजसुताश्च ये ।
ते सिद्धा अप्यनर्थाय सखि रक्ष्यास्तु बुद्धिभिः ।। १८५
राजपुत्र्यः कुलीनास्तु नैतादृश्यः श्रुताः क्वचित् ।
अतोऽन्यथा न भाव्यं ते सखि मत्संगतं प्रति ।।१ ८६
एवं कलिङ्गसेनाया मुखाच्छ्रुत्वा कथाक्रमम् ।
सहासचित्रमधुरं तोषं सोमप्रभा ययौ ।। १८७
इतो मे षष्टियोजन्यां गृहं याति च वासरः ।
चिरं स्थितास्मि तत्तन्वि यामीत्येतामुवाच च ।। १८८
ततोऽस्तगिरिशेखरं व्रजति वासरेशे शनैः
सखीं पुनरुपागमत्प्रणयिनीं समापृच्छ्य ताम् ।
क्षणं जनितविस्मया गगनमार्गमुत्पत्य सा
जगाम वसतिं निजां प्रसभमेव सोमप्रभा ।। १८९
विलोक्य च तदद्भुतं बहुवितर्कमत्यद्भुतं
प्रविश्य समचिन्तयत्किल कलिङ्गसेना च सा ।
न वेद्मि किमसावहो मम सखी हि सिद्धाङ्गना
भवेत्किमथवाप्सराः किमथवापि विद्याधरी ।। १९०
दिव्या तावदियं भवत्यवितथं व्योमाग्रसंचारिणी
दिव्या यान्ति च मानुषीभिरसमस्नेहाहृताः संगतिम् ।
भेजे किं नृपतेः पृथोस्तनयया सख्यं न सारुन्धती
तत्प्रीत्या पृथुरानिनाय सुरभिं स्वर्गान्न किं भूतले ।। १९१
तत्क्षीराशनतो न किं पुनरसौ भ्रष्टोऽपि यातो दिवं
संभूताश्च ततः प्रभृत्यविकला गावो न किं भूतले ।
तद्धन्यास्मि शुभोदयादुपनता दिव्या सखीयं मम
प्रातश्चान्वयनामनी सुनिपुणं प्रक्ष्यामि तामागताम् ।। १९२
इत्यादि राजतनया हृदि चिन्तयन्ती तां यामिनीमनयदत्र कलिङ्गसेना ।
सोमप्रभा च निजवेश्मनि भूय एव तद्दर्शनोत्सुकमना रजनीं निनाय ।। १९३
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे मदनमञ्चुकालम्बके द्वितीयस्तरङ्गः ।