ऐतरेय आरण्यकम्/आरण्यक ४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

4.1.1

विदा मघवन्विदा गातुमनु शंसिषो दिशः । शिक्षा शचीनां पते पूर्वीणां पुरूवसो, इति । आभिष्ट्वमभिष्टिभिः प्रचेतन प्रचेतय । इन्द्र द्युम्नाय न इष एवा हि शक्रः, इति । राये वाजाय वज्रिवः शविष्ठ वज्रिन्नृञ्जसे । मंहिष्ठ वज्रिन्नृञ्जस आयाहि पिब मत्स्व, इति । विदा रायः सुवीर्यं भुवो वाजानां पतिर्वशाँ अनु । मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम्, इति ।। यो मंहिष्ठो मघोनां चिकित्वो अभि नो नय । इन्द्रो विदे तमु स्तुषे वशी हि शक्रः, इति । तमूतये हवामहे जेतारमपराजितम् । स नः पर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत्, इति । इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् । स नः पर्षदति द्विषः स नः पर्षदति स्रिधः, इति । पूर्वस्य यत्ते अद्रिवः सुम्न आधेहि नो वसो । पूर्तिः शविष्ठ शस्यत ईशे हि शक्रः, इति । नूनं तं नव्यं संन्यसे प्रभो जनस्य वृत्रहन् । समन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः, इति । एवा ह्येवैवा ह्यग्ना३इ, इति । एवा ह्येवैवा ही३न्द्रम् । एवा ह्येवैवा हि विष्णा३उ । एवा ह्येवैवा हि पूष३न् । एवा ह्येवैवा हि देवा३ः, इति । एवा हि शक्रो वशी हि शक्रो वशाँ अनु, इति । आ यो मन्याय मन्यव उपो मन्याय मन्यवे, इति । उपेहि विश्वध, इति । विदा मघवन्विदो३म्, इति ।।
इत्यैतरेयब्राह्मणारण्यककाण्डे चतुर्थारण्यके प्रथमाध्याये प्रथमः खण्डः ।। १ ।।
इति बह्वृचब्राह्मणारण्यककाण्डे चतुर्थारण्यके प्रथमोऽध्यायः ।। १ ।।
इति बह्वृचब्राह्मणारण्यककाण्डे चतुर्थमारण्यकं समाप्तम् ।। ४ ।।

सायणभाष्यम्

________________________________________
अथ चतुर्थमारण्यकम् ।
प्रथमोऽध्यायः। तत्र प्रथमः खण्डः।
तुरगाननमाश्रयाम्यहं सुरगन्धर्वशिवेन्द्रकीर्त्यमानम् ।
उरगाधिपवाग्विलासलक्ष्मीं तरसैकेन मुखेन लज्जयन्तम् ” इति।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १॥
कथितोपनिषत्सर्वा महानाम्न्याख्यमन्त्रकाः ।
अरण्याध्ययनार्था वै प्रोच्यन्तेऽथ चतुर्थके ॥ २ ॥
तेषां च मन्त्राणां विनियोग आश्वलायनसूत्रे द्रष्टव्यः। स चाऽऽश्वलायनः सप्तमाध्याये पृष्ठ्यषडहस्य पञ्चमेऽहनि माध्यंदिने सवने मरुत्वतीयशस्त्रस्य क्लृप्तेरूर्ध्वं निष्केवल्यस्य शस्त्रस्य क्लृप्तिं कुर्वन्नेवमाह-"शाक्वरं चेत्पृष्ठं महानाम्न्यः स्तोत्रियस्ता अध्यर्धकारं नव प्रकृत्या तिस्रो भवन्ति ताभिः पुरीषपदान्युपसंतनुयात्पञ्चाक्षरशः पूर्वाणि पञ्च सर्वाणि वा यथानिशान्तम् ” इति । अस्य सूत्रवाक्यस्यायमर्थः-- शाक्वरनामकं सामवेदप्रसिद्धं किंचित्सामास्ति तद्यद्युद्गातारः पृष्ठस्तोत्ररूपेण गायेयुस्तदानीं महानाम्नीसंज्ञया व्यवह्रियमाणा " विदा मघवन् ” [ऐ० आ० ४ अ० १ ख० १ . इत्याद्या नवसंख्याका ऋचो याः सन्ति ताः सर्वा मिलित्वा स्तोत्रसंबन्धितया स्तोत्रियस्तृचा इत्यभिधीयन्ते । तिसृभिस्तिसृभिर्ऋग्भिर्मिलिताभिरेकैकस्यामृचि निष्पादितायां सत्यां प्रकृत्या स्वभावतो नवसंख्याका अपि संपादनेन तिस्र ऋचो भवन्ति । तादृशीस्ता ऋचोऽध्यर्धकारं शंसेत् । अधिकमर्धं यस्या ऋचः सेयमृगध्यर्धा तामध्यर्धां कृत्वा शंसेत् । समाम्नातक्रमेणार्धत्रयं पठित्वा तत्रावसाय पुनरर्धत्रयं पठित्वा तदन्ते प्रणवं कुर्यात् । अनेन प्रकारेण नवसंख्याकाः समाम्नाता ऋचः शस्त्वा ताभिर्नवभिर्ऋग्भिः सह पुरीषपदानि संयोजयेत् । अन्तिमेन प्रणवेन सह पठेत् । " एवा ह्येव " इत्यादयो नव मन्त्राः फलपूर्तिहेतुत्वात्पुरीषपदानीत्युच्यन्ते । तेषु नवस्वाद्यानि पञ्चसंख्याकानि पुरीषपदानि पञ्चाक्षरशः शंसेत् । तद्यथा-"एवा ह्येव " इति पञ्चाक्षराणि पठित्वा सकृदवसाय पश्चात् “एवा ह्यग्ने" इत्येतानि पञ्चाक्षराणि पठेत् । यद्यप्यत्रोभयत्र चत्वार्येवाक्षराणि दृश्यन्ते तथाऽपि हिशब्दमेवशब्दं च विश्लिष्टं कुर्यात् । तथोत्तरत्रापि हिशब्दमग्निशब्दं च संधिरहितं कृत्वा पञ्चाक्षरत्वं द्रष्टव्यम् । अनेन प्रकारेण पञ्च मन्त्रान्पठित्वा पश्चात् " एवा हि शक्र " इत्यादींश्चतुरो मन्त्रान्मध्ये विच्छेदमकृत्वा पठेत् । यद्वा सर्वानपि नव मन्त्रानेतान्यथानिशान्तं यथासमाम्नायमध्ययनपाठक्रमेणैव पठेत् । न तु मन्त्रस्य मध्येऽवसानं कर्तव्यमिति । सोऽयं सूत्रोक्तो मन्त्राणां विनियोगः ।
तत्र नवस्वृक्षु प्रथमामृचमाह
विदा मघवन्विदा गातुमनु शंसिषो दिशः ।
शिक्षा शचीनां पते पूर्वीणां पुरूवसो, इति ।
हे मघवन्निन्द्र *विद वेत्सि । अत्र वेदनस्य कर्मकारकस्य कस्यचिद्विशेषस्यानुपपादनात्सामान्याकारेण सर्वं जानासीत्ययमर्थो लभ्यते । यस्मात्सर्वज्ञस्त्वं तस्माद्गातु यजमानेन गन्तव्यमार्गं विद वेत्सि जानासि । ततो यजमानस्य समीचीनेन मार्गेण स्वर्गं गन्तुं दिशो मार्गोपयुक्तान्दिग्विशेषाननुशंसिषोऽनुक्रमेण शंसोपदिश । किंच पूर्वीणां पूर्वसिद्धानां शचीनां शक्तीनां पते हे पालक पुरु प्रभूतं वसु धनं यस्यासौ पुरूवसुस्तत्संबोधनं हे पुरूवसो शिक्ष यजमानस्य हितोपदेशं कुरु । सर्वशक्तिमत्त्वेन प्रभूतधनत्वेन च हे इन्द्र त्वं यजमानं समीचीने कर्मणि प्रवर्तयितुं तत्फलं दातुं च प्रभवसीत्यर्थः । द्वितीयामृचमाह --
आभिष्ट्वमभिष्टिभिः प्रचेतन प्रचेतय ।
इन्द्र द्युम्नाय न इष एवा हि शक्रः, इति ।
प्रकृष्टा चेतना बुद्धिर्यस्यासौ प्रचेतनः । हे प्रचेतनाऽऽभिर्यजमानेन क्रियमाणाभिरभिष्टिभिस्तवाभीष्टाभिः स्तुतिभिः प्रचेतय प्रकर्षेण यजमानसेवां जानीहि । हे इन्द्र त्वं नोऽस्माकं द्युम्नाय धनलाभायेषेऽन्नलाभाय च शक्रः शक्तिमानेव हि । तस्मात्प्रचेतयानुगृहाणेत्यर्थः ।
तृतीयामृचमाह
राये वाजाय वज्रिवः शविष्ठ वज्रिन्नृञ्जसे ।
मंहिष्ठ वज्रिन्नृञ्जस आयाहि पिब मत्स्व, इति ।
हे वज्रिवो वज्रयुक्तेन्द्र राये धनलाभाय वाजायान्नलाभाय च प्रसन्नो भवेति शेषः । हे शविष्ठातिशयेन बलवन्वज्रिन्वज्रयुक्तेन्द्र, ऋञ्जसे वर्जयस्यनिष्टं परिहरसीत्यर्थः । हे मंहिष्ठातिशयेन पूज्य वज्रिन्वज्रयुक्तेन्द्र ऋञ्जसे सर्वथा त्वमनिष्टं परिहरसि । तस्मात्कारणादायाह्यस्मिन्कर्मण्यागच्छ । आगत्य च सोमं पिब । पीत्वा च मत्स्व हृष्टो भव ।
चतुर्थीमृचमाह
विदा रायः सुवीर्यं भुवो वाजानां पतिर्वशाँ अनु ।
मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणाम् , इति ।
हे इन्द्र रायो धनस्य सुवीर्यं शोभनसामर्थ्यं विद वेत्सि जानासि, अतो धनसाराभिज्ञत्वाद्भुवो भूलोकस्य वाजानां तत्रत्यानामन्नानां च पतिः पालकस्त्वं वशाँ अनु वश्यांस्त्वदधीनान्यजमानाननुगृहाण । हे मंहिष्ठातिशयेन पूज्य वज्रिन्वज्रयुक्तेन्द्र यस्त्वं शूराणां मध्ये शविष्ठोऽतिशयेन बलवांस्तादृशस्त्वमृञ्जसेऽनिष्टं वर्जयसि । यद्वाऽभीष्टं साधयति । "ऋञ्जतिः प्रसाधनकर्मा" इति निरुक्तेऽभिधानात् ।
पञ्चमीमृचमाह --
यो मंहिष्ठो मघोनां चिकित्वो अभि नो नय ।
इन्द्रो विदे तमु स्तुषे वशी हि शक्रः, इति ।
हे चिकित्वोऽस्मत्सेवाभिज्ञेन्द्र यस्त्वं मघोनां धनवतां मध्ये मंहिष्ठोऽतिशयेन पूज्यस्तादृशस्त्वं नोऽस्मानभिनय सर्वतो धनं प्रापय । इन्द्रः परमैश्वर्ययुक्तस्त्वं विदे वेत्सि जानासि । अतस्तमु तमपि यजमानं स्तुषे स्तौषि सम्यग्घविर्दत्तवानिति प्रशंससि । त्वं तु वशी सर्ववस्तुविषयवशीकारवान् । अत एव शक्रः शक्तिमान्हि । तस्मात्तवैतद्यजमानानुग्रहणं युक्तमित्यर्थः ।
षष्ठीमृचमाह
तमूतये हवामहे जेतारमपराजितम् ।
स नः पर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् , इति ।
तमिन्द्रमूतयेऽस्मद्रक्षार्थं हवामह आह्वयामः । कीदृशं सर्वत्र युद्धेषु जेतारं क्वाप्य पराजितम् । स तादृश इन्द्रो नोऽस्माकं द्विषः शत्रूनतिपर्षदतिशयेन विनाशयतु । योऽयं क्रतुरस्माभिरनुष्ठीयमानो यदपि च्छन्दो गायत्र्यादिकमस्माभिः प्रयुज्यमानं यदप्यृतं कर्मफलं तत्सर्वं बृहत्समृद्धमिति शेषः ।
सप्तमीमृचमाह
इन्द्रं धनस्य सातये हवामहे जेतारमपराजितम् ।
स नः पर्षदति द्विषः स नः पर्षदति स्रिधः, इति ।
धनस्य सातये लाभाय जयोपेतं पराजयरहितमिन्द्रं हवामह आह्वयामः । स चेन्द्रोऽस्माकं शत्रुनतिशयेन विनाशयतु । ये त्वन्ये स्वयं द्वेषं न कुर्वन्ति तथाऽपि स्रिधोऽस्माभिर्द्वेष्यास्तानप्यतिशयेन विनाशयतु । सर्वत्र हि वेदेषु “योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः" [ कौषी० २।८] इत्यादौ द्वेष्याणां द्वेष्टॄणां च विनाशः प्रार्थ्यते । अष्टमीमृचमाह--
पूर्वस्य यत्ते अद्रिवः सुम्न आधेहि नो वसो।
पूर्तिः शविष्ठ शस्यत ईशे हि शक्रः, इति ।
हेऽद्रिवोऽद्रयः पर्वता अस्य सन्तीत्यद्रिवान् । इन्द्रो हि पर्वतान्भिनत्ति, अतः पर्वतेन्द्रयोर्भेद्यभेदकत्वलक्षणः संबन्धः । यद्वाऽद्रिरादरणं तद्युक्त हे इन्द्र पूर्वस्यास्मदुत्पत्तेः पूर्वसिद्धस्य ते तव यद्धनमस्ति हे वसो निवासहेतो, इन्द्र तस्मिन्सुम्ने धने नोऽस्मानाधेहि स्थापय । हे शविष्ठातिशयेन बलयुक्त पूर्तिस्त्वदीयधनपूरणं शस्यते सर्वैर्यजमानैः प्रशस्यते । प्रशंसाप्रकार एव प्रशस्यते-शक्रः शक्तिमानिन्द्र ईशे हि सर्वस्यास्मद्रक्षणस्येष्टे खलु । सेयं प्रशंसा । नवमीमृचमाह -
नूनं तं नव्यं संन्यसे प्रभो जनस्य वृत्रहन् ।
समन्येषु ब्रवावहै शूरो यो गोषु गच्छति सखा सुशेवो अद्वयाः, इति ।
हे वृत्रहन्वृत्रघातिञ्जनस्य प्रभो सर्वस्य जन्तोः स्वामिन्नव्यं नूतनं वलीपलितादिलक्षणेन पुराणत्वेन वर्जितमिन्द्रं तं त्वां नूनमवश्यं संन्यसे सम्यङ्नितरां प्रक्षिपामि । अस्मिन्कर्मणि हविषो भोक्तृत्वेन स्थापयामि। त्वं चाहं चेत्यावामुभावन्येषु परस्परं सम्यक्प्रब्रवावहै । इतरेषु यजमानेष्वहं गत्वा प्रभूतफलप्रदोऽयमिन्द्र इत्येवं प्रब्रवीमि । इतरेषु देवेषु त्वं गत्वा सम्यगनुष्ठाताऽयं यजमान इति प्रब्रूहि । यो यजमानोऽस्ति सोऽयं दक्षिणारूपेण दातव्यासु गोषु शूरो गच्छति । उदारः सन्प्रवर्तते । इत्येवं मदीयं गुणं त्वं प्रब्रूहि । इन्द्रोऽयं सखा सखिवदत्यन्तं स्निग्धः । सुशेवः सुष्ठु सेवितुं शक्यः । अद्वया एतत्सदृशो द्वितीयो देवो नास्तीत्येवमहं ब्रवीमि ।
तदेवमृचो नव व्याख्याताः । अथ नव पुरीषपदानि व्याख्येयानि । तत्र प्रथमं पदमाह
एवा ह्येवैवा ह्यग्ना३इ, इति ।
" इण् गतौ " [ अदा० ग० प० ] इत्यस्माद्धातोराङ्पूर्वान्निष्पन्न एवशब्द आगमनवाची । हेऽग्न एवा ह्येव सर्वथा समागच्छ । द्विरुक्तिः प्लुतिश्चाऽऽदरार्था । एकारस्य स्थाने प्लुतिरिकारोत्तरा व्याकरणे विहिता ।
अनन्तराणि चत्वारि पदान्याह --
एवा ह्येवैवा ही३न्द्रम् । एवा ह्येवैवा हि विष्णा३उ ।
एवा ह्येवैवा हि पूष३न् । एवा ह्यवैवा हि देवा३:, इति ।
प्रथमपदवद्व्याख्येयम् ।
षष्ठं पदमाह--
एवा हि शक्रो वशी हि शको वशाँ अनु, इति ।
शक्रः शक्तिमानिन्द्र एवा हि, आगतः खलु । स च शक्रो वशी हि सर्ववस्तुवशीकारवान्खलु । तादृशो देवो वशाँ अनु स्वस्य वश्यान्यजमानाननुगृह्णातु ।
सप्तमं पदमाह--
आ यो मन्याय मन्यव उपो मन्याय मन्यवे, इति ।
य इन्द्रो मन्याय मन्यवे मन्तव्यमस्मद्धितं मन्तुमा यज्ञे समागच्छति स इन्द्रो मन्याय मन्तव्यमस्मद्धितं मन्यवे मन्तुमुपो अस्मत्समीप एव तिष्ठतु ।
अष्टमं पदमाह--
उपेहि विश्वध, इति ।
हे विश्वध विश्वस्य धारकेन्द्रोपेह्यस्मत्समीपे प्राप्नुहि ।
नवमं पदमाह--
विदा मघवन्विदो३म् , इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे चतुर्थारण्यके प्रथमाध्याये प्रथमः खण्डः ॥ १॥
इति बह्वृचब्राह्मणारण्यककाण्डे चतुर्थारण्यके प्रथमोऽध्यायः ॥ १॥
इति बह्वृचब्राह्मणारण्यककाण्डे चतुर्थमारण्यकं समाप्तम् ॥४॥
हे मघवन्धनवन्निन्द्र विद वेत्थ सर्वं जानासि । अतोऽस्मद्धितं विद विद्धि जानीहि चित्तेऽवधारय । ॐ, अस्तु श्रेयोऽस्माकमिति शेषः । तदिदं नवसंख्याकानामृचां पुरीषपदानां च प्रतिपादकं ग्रन्थजातं यद्यपि कर्मकाण्डे पठितुं युक्तं तथाऽप्यरण्य एवाध्येतव्यमित्यभिप्रेत्य चतुर्थारण्यकत्वेनात्र पठितम् ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये
चतुर्थारण्यके प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म
णारण्यककाण्डभाष्ये चतुर्थारण्यके प्रथमोऽध्यायः॥१॥
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य वैदिकमार्गप्रवर्तकस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन सायणामात्येन विरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यककाण्डे चतुर्थमारण्यकं समाप्तम् ॥ ४ ॥
आदितः समष्ट्यङ्काः-(आर० ४ अध्या० १५-०६१)