ऋग्वेदः सूक्तं ३.१

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ३.१ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
ऋग्वेदः - मण्डल ३
सूक्तं ३.१
गाथिनो विश्वामित्रः
सूक्तं ३.२ →
दे. अग्निः। त्रिष्टुप्


सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै ।
देवाँ अच्छा दीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥१॥
प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन् ।
दिवः शशासुर्विदथा कवीनां गृत्साय चित्तवसे गातुमीषुः ॥२॥
मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः ।
अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि स्वसॄणाम् ॥३॥
अवर्धयन्सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषं महित्वा ।
शिशुं न जातमभ्यारुरश्वा देवासो अग्निं जनिमन्वपुष्यन् ॥४॥
शुक्रेभिरङ्गै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः ।
शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः ॥५॥
वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः ।
सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ॥६॥
स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् ।
अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥७॥
बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि ।
श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥८॥
पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः ।
गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव ॥९॥
पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः ।
वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ॥१०॥
उरौ महाँ अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः ।
ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम् ॥११॥
अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः ।
उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥१२॥
अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम् ।
देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥१३॥
बृहन्त इद्भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः ।
गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः ॥१४॥
ईळे च त्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः ।
देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः ॥१५॥
उपक्षेतारस्तव सुप्रणीतेऽग्ने विश्वानि धन्या दधानाः ।
सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूँरदेवान् ॥१६॥
आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान् ।
प्रति मर्ताँ अवासयो दमूना अनु देवान्रथिरो यासि साधन् ॥१७॥
नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् ।
घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान् ॥१८॥
आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ।
अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः ॥१९॥
एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् ।
महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन्निहितो जातवेदाः ॥२०॥
जन्मञ्जन्मन्निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः ।
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥२१॥
इमं यज्ञं सहसावन्त्वं नो देवत्रा धेहि सुक्रतो रराणः ।
प्र यंसि होतर्बृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व ॥२२॥
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥२३॥



सायणभाष्यम्

वैश्वामित्रे तृतीये पञ्चानुवाकाः । तत्र प्रथमेऽनुवाके द्वादश सूक्तानि । तत्र ' सोमस्य मा ' इति त्रयोविंशत्यृचं प्रथमं सूक्तम् । तथा चानुक्रान्तं-' सोमस्य त्र्यधिका ' इति । अस्य मण्डलद्रष्टा विश्वामित्र ऋषिः । अनुक्तत्वात् त्रिष्टुप् छन्दः । ' मण्डलादिष्वाग्नेयम् ' इति परिभाषयाग्निर्देवता । प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि विनियोगः । तथा च सूत्रितं-' सोमस्य मा तवसं प्रत्यग्निरुषस इति त्रीणि ' ( आश्व. श्रौ. ४. १३) इति ।।


सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं॑ चकर्थ वि॒दथे॒ यज॑ध्यै ।

दे॒वाँ अच्छा॒ दीद्य॑द्यु॒ञ्जे अद्रिं॑ शमा॒ये अ॑ग्ने त॒न्वं॑ जुषस्व ॥

सोम॑स्य । मा। तवसं । वक्षि । अग्ने। वह्निं । चकर्थ। विदथे । यजध्यै।।

देवान् । अच्छ। दीद्यत् । युंजे । अद्रिं । शंऽआये। अग्ने। तन्वं । जुषस्व ॥१॥

हे अग्ने त्वं विदथे यज्ञे यजध्यै यष्टुं सोमस्य वह्निं वोढारं यं मां चकर्थ कृतवानसि। तं मां तवसं तवस्विनं बलिनं वक्षि । कामयस्व । किंच हे अग्ने देवानच्छाभि दीद्यत् दीप्यमानोऽहमद्रिं ग्रावाणं युंजे । अभिषवणाय युनज्मि । शमाये। शाम्यामि च । तथा च मंत्रांतरं। ऋतेन देवः सविता शमायते । ऋग्वे० ८. ८६.५.। इति । यद्वा शमाये । स्तौमि । शशमानो जरतीति स्तुतिकर्मसु पाठात् । तथा च मंत्रांतरं । सो अग्न ईजे शशमे च मर्तः । ऋग्वे° ६.१.९.। इति । किंच हे अग्ने तन्वं शरीरं जुषस्व । रक्षायै सेवस्व । यद्वा कर्माणि तन्वंतं मां सेवस्वेत्यर्थः


प्राञ्चं॑ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् ।

दि॒वः श॑शासुर्वि॒दथा॑ कवी॒नां गृत्सा॑य चित्त॒वसे॑ गा॒तुमी॑षुः ॥

प्रांचं । यज्ञं । चकृम। वर्धतां । गीः । समित्ऽभिः। अग्निं । नमसा । दुवस्यन्।

दिवः । शशासुः । विदथा। कवीनां । गृत्साय । चित् । तवसे । गातुं । ईषुः ॥२॥

हे अग्ने वयं यज्ञं प्रांचं प्रकर्षेण गच्छंतं चकृम । अकार्ष्म । गीर्मदीया स्तुतिर्वर्धतां । एधतां । अग्निं समिद्भिर्नमसा हविषा च दुवस्यन् । अस्मदीयाः परिचरेयुः । किंच दिवो द्युलोकादागत्य देवाः कवीनां स्तोतॄणां विदथा ज्ञानानि स्तोत्राणि वा शशासुः । अन्वशिषन् । अपि च गृत्साय । गृणातेरिदं रूपं । स्तोतव्यायामग्नये तवसे वृद्धाय गातुं स्तोतुमीषुश्चित् । स्तोतार इच्छंति च । चिदिति चार्थे ॥


मयो॑ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बन्धु॑र्ज॒नुषा॑ पृथि॒व्याः ।

अवि॑न्दन्नु दर्श॒तम॒प्स्व१॒॑न्तर्दे॒वासो॑ अ॒ग्निम॒पसि॒ स्वसॄ॑णाम् ॥

मयः। दधे। मेधिरः। पूतऽदक्षः। दिवः। सुऽबंधुः । जनुषा। पृथिव्याः ।।

अविंदन्। ऊं इति। दर्शतं । अप्ऽसु। अंतः। देवासः। अग्निं । अपसि। स्वसॄणां ॥३॥

मेधिरो मेधावान् प्राज्ञः पूतदक्षः शुद्धबलो जनुषा जन्ममात्रेण सुबंधुः शोभनबंधुः । स्वत एव बंधुरिति यावत् । योऽग्निर्दिवो द्युलोकस्य पृथिव्या भूमेश्च मयः सुखं दधे विदधाति । देवानां मनुष्याणां च सुखं करोतीति यावत् । तं दर्शतं दर्शनीयमग्निं देवासो देवाः स्वसॄणां सरणशीलानां नदीनामप्स्वंतर्गूढं स्थितमपसि यज्ञवहनरूपे कर्मणि निमित्ते ॥ उ इति पूरणः ॥ अविंदन् । लब्धवंतः ॥


अव॑र्धयन्सु॒भगं॑ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा ।

शिशुं॒ न जा॒तम॒भ्या॑रु॒रश्वा॑ दे॒वासो॑ अ॒ग्निं जनि॑मन्वपुष्यन् ॥

अवर्धयन्। सुऽभगं । सप्त। यह्वीः। श्वेतं । जज्ञानं । अरुषं । महिऽत्वा ।

शिशुं । न। जातं । अभि। आरुः। अश्वाः । देवासः। अग्निं । जनिमन्। वपुष्यन् ॥४॥

सप्त सर्पणशीला यह्वीर्यह्व्यो महत्यो नद्यः सुभगं शोभनधनं श्वेतं शुभं जज्ञानं जातं महित्वा महत्त्वेनारुषमारोचमानमप्सु स्थितमग्निमवर्धयन् । स्वकार्यभूताभिरोषधीभिर्वृद्धिं प्रापितवत्यः । यद्वा दिव्यमग्निमापो वर्धयंत्यबिंधनत्वात्तस्य । किंच शिशुं न जातं यथा जातं शिशुमश्वा वडवा अभ्यारुः । अभिगच्छंति । तथा नद्य उत्पन्नमग्निमभ्यारुः । अभिजग्मुः । अपि च देवासो देवा अग्निं जनिमन् जन्मन्युदके वा वपुष्यन् । वपुर्दीप्तिमकुर्वन् ।


शु॒क्रेभि॒रङ्गै॒ रज॑ आतत॒न्वान्क्रतुं॑ पुना॒नः क॒विभिः॑ प॒वित्रैः॑ ।

शो॒चिर्वसा॑न॒ः पर्यायु॑र॒पां श्रियो॑ मिमीते बृह॒तीरनू॑नाः ॥

शुक्रेभिः । अंगैः। रजः । आऽततन्वान्। क्रतुं । पुनानः। कविऽभिः । पवित्रैः ।

शोचिः । वसानः । परि। आयुः । अपां। श्रियः। मिमीते। बृहतीः । अनूनाः ॥५॥

अग्निः शुक्रेभिः शुक्रैरंगैस्तेजोभी रजोंऽतरिक्षमाततन्वान् आतन्वन् व्याप्नुवन् क्रतुं कर्मणां कर्तारं यजमानं कविभिः क्रांतप्रज्ञैः स्तोतव्यैर्वा पवित्रैः शोधकैस्तेजोभिः पुनानः शोधयन् शोचिर्दीप्तिं वस्त्रस्थानीयं परि परितो वसान आच्छादयन् अपामपस्यतां कर्मवतामायुरन्नं बृहतीः प्रभूता अनूनाः संपूर्णाः श्रियः संपदश्च मिमीते । करोति ॥ ॥१३॥


व॒व्राजा॑ सी॒मन॑दती॒रद॑ब्धा दि॒वो य॒ह्वीरव॑साना॒ अन॑ग्नाः ।

सना॒ अत्र॑ युव॒तय॒ः सयो॑नी॒रेकं॒ गर्भं॑ दधिरे स॒प्त वाणीः॑ ॥

वव्राज। सीं । अनदतीः । अदब्धाः। दिवः। यह्वीः। अवसानाः । अनग्नाः।

सनाः । अत्र । युवतयः । सऽयोनीः । एकं। गर्भं । दधिरे । सप्त। वाणीः ॥६॥

अनदतीरभक्षयंतीरदब्धा अहिंसिता मातृभूता अपोऽग्निः सीं सर्वतो वव्राज। व्रजति । अग्निरपां शोषकः तं चापः शमयंति तदुभयमिह नास्तीत्युक्तं भवति । कीदृश्यस्ताः । दिवो यह्वीः । अंतरिक्षस्यापत्यभूताः । अवसानाः । वस्त्रमनाच्छादयंत्यः । वस्त्रस्थानीयस्य जलस्य विद्यमानत्वात् । अत एवानग्नाः । किंच ता अपि सनाः सनातन्यो युवतयो नित्यतरुण्यः । नित्यवृद्धा इत्यर्थः । सयोनीः समानमंतरिक्षं स्थानं यासां ताः सप्त वाणीर्नद्य एकमग्निं गर्भं गर्भस्थं दधिरे । दधते ॥


स्ती॒र्णा अ॑स्य सं॒हतो॑ वि॒श्वरू॑पा घृ॒तस्य॒ योनौ॑ स्र॒वथे॒ मधू॑नाम् ।

अस्थु॒रत्र॑ धे॒नव॒ः पिन्व॑माना म॒ही द॒स्मस्य॑ मा॒तरा॑ समी॒ची ॥

स्तीर्णाः । अस्य। संऽहतः । विश्वरूपाः । घृतस्य । योनौ । स्रवथे । मधूनां ।।

अस्थुः । अत्र । धेनवः । पिन्वमानाः । मही इति । दस्मस्य । मातरा। समीची इति संऽईची ॥७॥

घृतस्योदकस्य योनौ गर्भस्थानेंऽतरिक्षे संहतः पुंजीभूताः ॥ हन्तेः क्विप् ॥ विश्वरुपा नानारूपाः स्तीर्णाः सर्वत्र प्रसृता अस्याग्ने रश्मयो मधूनामुदकानां स्रवथे स्रवणे सत्यस्थुः । तिष्ठंति ! पिन्वमानाः पूर्यमाणा अत्राग्नावापो धेनवः सर्वेषां प्रीणयित्र्यो ऽभवन् । समीची समंचंत्यो शोभमाने मही महत्यौ द्यावापृथिव्यौ दस्मस्य दर्शनीयस्याग्नेर्मातरा मातरो भवतः ॥


ब॒भ्रा॒णः सू॑नो सहसो॒ व्य॑द्यौ॒द्दधा॑नः शु॒क्रा र॑भ॒सा वपूं॑षि ।

श्चोत॑न्ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये॑न ॥

बभ्राणः । सूनो इति। सहसः । वि। अद्यौत् । दधानः । शुक्रा। रभसा । वपूंषि।

श्चोतंति । धाराः । मधुनः । घृतस्य । वृषा । यत्र । ववृधे। काव्येन ॥८॥

हे सहसः सूनो सहसस्पुत्र बभ्राणः सर्वैर्धार्यमाणस्त्वं शुक्रा शुक्राणि भास्वराणि रभसा वेगवति वपूंष्यर्चींषि दधानः धारयंस्त्वं व्यद्योत् । विद्योतसे । वृषाभिर्यत्र यस्मिन्यजमाने काव्येन स्तोत्रेण ववृधे वृद्धिं प्राप्नोति तदानीं मधुनोऽत्यंतं मधुरस्य घृतस्योदकस्य धाराः श्चोतंति । स्रवंते । यदा यजमान स्तोत्रेणाग्निस्तुष्टो भवति तदानीं वृष्टिर्भवतीत्यर्थः ॥


पि॒तुश्चि॒दूध॑र्ज॒नुषा॑ विवेद॒ व्य॑स्य॒ धारा॑ असृज॒द्वि धेनाः॑ ।

गुहा॒ चर॑न्तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा॑ बभूव ॥

पितुः । चित् । ऊधः । जनुषा। विवेद। वि। अस्य। धाराः । असृजत् । वि। धेनाः ।

गुहा। चरंतं । सखिऽभिः । शिवेभिः । विः । यह्वीभिः । न। गुहा। बभूव ॥९॥

पितुरंतरिक्षस्योधरूधः स्थानीयं जलप्रदेशमयमग्निर्जनुषा स्वयमेव विवेद । जानाति । किंचायमग्निरस्योधसः संबंधिन्यो धाराः पयोधारा व्यसृजत् । धेना माध्यमिका वाचश्च विसृजति । शिवेभिः शिवकरैः सखिभिरात्मनः सखिभूतैर्वायुभिर्दिवो यह्वीभिरंतरिक्षस्यापत्यभूताभिरद्भिश्च सह गुहा गुहायां चरंतं वर्तमानमेनमग्निं गुहा चित् गुहायां स्थितः कोऽपि न बभूव । प्राप्तुं समर्थो नाभवत् ॥


पि॒तुश्च॒ गर्भं॑ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको॑ अधय॒त्पीप्या॑नाः ।

वृष्णे॑ स॒पत्नी॒ शुच॑ये॒ सब॑न्धू उ॒भे अ॑स्मै मनु॒ष्ये॒३॒॑ नि पा॑हि ॥

पितुः । च । गर्भं। जनितुः । च। बभ्रे। पूर्वीः । एकः । अधयत् । पीप्यानाः ।

वृष्णे। सपत्नी इति सऽपत्नी। शुचये। सबंधू इति सऽबंधू । उभे इति । अस्मै । मनुष्ये३इति । नि। पाहि ॥१०॥

अयमग्निः पितुश्चांतरिक्षस्य गर्भं वृष्टिद्वारा गर्भभूतं जनितुः सर्वस्य लोकस्य जनयितुश्च ब्रह्मणश्च लोकमोषध्यादिकं बभ्रे । बिभर्ति । एक एवाग्निः पूर्वीर्बह्वीः पीप्यानाः प्यायमाना वृद्धिं प्राप्ता औषधीरधयत् । धयति । भक्षयति । सपत्नी समान एकः सूर्यः पतिर्ययोस्ते मनुष्ये मनुष्येभ्यो हिते उभे द्यावापृथिवी वृष्णे वर्षित्रेऽस्मै शुचयेऽग्नये सबंधू भवतः । अनयोरग्निरेव बंधुरित्यर्थः । हे अग्ने त्वं ते द्यावापृथिवी नि पाहि । नितरां रक्ष ॥ ॥१४॥


उ॒रौ म॒हाँ अ॑निबा॒धे व॑व॒र्धापो॑ अ॒ग्निं य॒शस॒ः सं हि पू॒र्वीः ।

ऋ॒तस्य॒ योना॑वशय॒द्दमू॑ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ॑णाम् ॥

उरौ। महान् । अनिऽबाधे । ववर्ध। आपः । अग्निं । यशसः । सं। हि । पूर्वीः ।

ऋतस्य । योनौ । अशयत् । दमूनाः। जामीनां। अग्निः । अपसि। स्वसॄणां ॥११॥

महानयमग्निरनिबाधेऽसंबाध उरौ विस्तीर्णेंऽतरिक्ष ववर्ध । वर्धते । अस्य वर्धने कारणमाह । हि यस्मात्कारणात्पूर्वीर्बह्व्यो यशसो । यशोऽन्नं । तद्वत्य आपोऽग्निं संवर्धयंति । एवमद्भिर्वृद्धिं प्राप्तोऽग्निर्ऋतस्योदकस्य योनौ स्थानेंऽतरिक्षे स्थितः स्वसॄणां स्वतः सरंतीनां जामीनां भगिनीस्थानीयानां हेतुभूतेऽपसि पयसि दमूना दांतमनाः सन् अशयत् । शेते ॥


अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां॑ दिदृ॒क्षेयः॑ सू॒नवे॒ भाऋ॑जीकः ।

उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो अ॒ग्निः ॥

अक्रः । न। बभ्रिः । संऽइथे। महीनां। दिदृक्षेयः । सूनवे । भाःऽऋजीकः ।

उत्। उस्रियाः । जनिता। यः। जजान। अपां। गर्भः। नृऽतमः। यह्वः। अग्निः ॥१२॥

जनिता सर्वस्य लोकस्य जनयिता अपामुदकानां गर्भो गर्भरूपो नृतमो नेतृतमोऽतिशयेन मनुष्याणां रक्षिता यह्वो महान् योऽग्निरक्रः परेषामाक्रमिता परैरनाक्रमणीयो वा ॥ नेति पादपूरणः ॥ समिथे संग्रामे महीनां महतीनां स्वसेनानां बभ्रिर्भर्ता दिदृक्षेयः सर्वैर्दर्शनीयो भाऋजीकः स्वदीप्त्या प्रकाशमानः सोऽग्निः सूनवे हविषां प्रदात्रे यजमानाय तदर्थमुस्रिया अप उज्जजान । उदजनयत् ॥ सूनवे । षू प्रेरण इत्यस्माद्धातोरौणादिको नुप्रत्ययः ॥


अ॒पां गर्भं॑ दर्श॒तमोष॑धीनां॒ वना॑ जजान सु॒भगा॒ विरू॑पम् ।

दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं॑ दुवस्यन् ॥

अपां। गर्भं। दर्शतं । ओषधीनां । वना। जजान । सुऽभगा। विऽरूपं ।

देवासः । चित् । मनसा। सं। हि। जग्मुः । पनिष्ठं । जातं । तवसं । दुवस्यन् ॥१३॥

सुभगा सुभाग्या वना सर्वैर्वननीयारणिर्दर्शतं दर्शनीयं विरूपं नानाविधरूपमपामोषधीनां च गर्भमग्निं जजान अजनयत् । देवासश्चित् सर्वे देवा अपि पनिष्ठं स्तुत्यं तवसं वृद्धं जातं जातमात्रं तमग्निं मनसा स्तुत्या संजग्मुः । उपागच्छन् । हीति पूरणः । त एव दुवस्यन् । पर्यचरन् ॥


बृ॒हन्त॒ इद्भा॒नवो॒ भाऋ॑जीकम॒ग्निं स॑चन्त वि॒द्युतो॒ न शु॒क्राः ।

गुहे॑व वृ॒द्धं सद॑सि॒ स्वे अ॒न्तर॑पा॒र ऊ॒र्वे अ॒मृतं॒ दुहा॑नाः ॥

बृहंतः । इत्। भानवः। भाःऽऋजीजीकं । अग्निं। सचंत । विद्युतः। न। शुक्राः ।।

गुहाऽइव। वृद्धं। सदसि । स्वे। अंतः । अपारे। ऊर्वे । अमृतं । दुहानाः ॥१४॥

अपारेऽगाध ऊर्वे समुद्रेंऽतर्मध्येऽमृतमुदकं दुहानाः चरंतो बृहंत इद्भानवो महांतः सूर्या एव शुक्रा दीप्यमाना विद्युतो न विद्युत इव स्वे स्वकीये सदसि सदनेंऽतरिक्ष गुहेव गुहायामिव वृद्धं प्रवृद्धं भाऋजीकं प्रभया दीप्यमानमग्निं सचंत । आश्रयंति ॥


ईळे॑ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे॑ सखि॒त्वं सु॑म॒तिं निका॑मः ।

दे॒वैरवो॑ मिमीहि॒ सं ज॑रि॒त्रे रक्षा॑ च नो॒ दम्ये॑भि॒रनी॑कैः ॥

ईळे। च। त्वा । यजमानः । हविःऽभिः। ईळे। सखिऽत्वं । सुऽमतिं । निऽकामः ।

देवैः । अवः । मिमीहि । सं । जरित्रे। रक्ष । च । नः । दम्येभिः । अनीकैः ॥१५॥

यजमानोऽहं हविर्भिः साधनैस्त्वा त्वामीळे च । पश्वादिलक्षणं धनं च याचे । सुमतिं शोभनां मतिं धर्मविषयां बुद्धिं निकामो नितरां कामयमानस्त्वया सह सखित्वमीळे। याचे । त्वं देवैः सह जरित्रे स्तोत्रे स्तोत्रं कुर्वते मह्यमस्मदर्थमवः पश्वादिविषयां रक्षां मिमीहि । कुरु । दम्येभिर्दमनीयैर्नियंतव्यैः । प्रयत्ननियंतव्यतयोच्छृंखलतोक्ता । अनीकैस्तेजोभिर्नोऽस्मान् रक्ष च ॥ ॥ १५॥


उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा॑नि॒ धन्या॒ दधा॑नाः ।

सु॒रेत॑सा॒ श्रव॑सा॒ तुञ्ज॑माना अ॒भि ष्या॑म पृतना॒यूँरदे॑वान् ॥

उपऽक्षेतारः । तव । सुऽप्रनीते । अग्ने । विश्वानि । धन्या । दधानाः ।

सुऽरेतसा। श्रवसा । तुंजमानाः। अभि। स्याम। पृतनाऽयून्। अदेवान् ॥१६॥

हे सुप्रणीते शोभनप्रणयन हे अग्ने तवोपक्षेतार उपगंतारः ॥ अत्र क्षितिर्गत्यर्थे वर्तते ॥ विश्वानि सर्वाणि धन्या धन्यानि पश्वादिधनप्राप्तिहेतुभूतानि कर्माणि दधाना विदधानाः कुर्वंतस्तुंजमाना हवींषि प्रयच्छंतो वयं सुरेतसा शोभनवीर्येण श्रवसा त्वत्कृतेनान्नेनादेवान् देवेभ्योऽन्यान् । वटिवयुक्तन्यायेन राक्षसा एव गृह्यंते । यज्ञविघ्नकारिणस्तान्पृतनायूंश्च शरीराद्युपद्रवकारिणः शत्रूंश्चाभिष्याम । अभिभवेम । यद्वा देवानपूजयतः शत्रूनिति योज्यं ॥ ।


आ दे॒वाना॑मभवः के॒तुर॑ग्ने म॒न्द्रो विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ।

प्रति॒ मर्ताँ॑ अवासयो॒ दमू॑ना॒ अनु॑ दे॒वान्र॑थि॒रो या॑सि॒ साध॑न् ॥

आ। देवानां । अभवः । केतुः । अग्ने। मंद्रः। विश्वानि । काव्यानि । विद्वान्।

प्रति । मर्तान्। अवासयः । दमूनाः । अनु। देवान्। रथिरः। यासि । साधन ॥१७॥

हे अग्ने मंद्रः स्तुत्यः केतुर्यज्ञेषु देवानां प्रज्ञापकस्त्वमाभवः। आ समंताद्भवसि । सर्वव्यापको भवसीत्यर्थः । किंच विश्वानि सर्वाणि काव्यानि यजमानादिभिः कृतानि स्तोत्राणि विद्वान् जानन् त्वं मर्तान् मर्त्यान् स्तोतॄन स्वाभिलषितवस्तुसंपादनेन प्रीतान् विधाय गृहेषु प्रत्यवासयः । प्रतिवासयसि । रथिरो रथी साधन् देवानां हितानि कर्माणि साधयन् देवान् अनु यासि च । अनुगच्छसि च ।।


नि दु॑रो॒णे अ॒मृतो॒ मर्त्या॑नां॒ राजा॑ ससाद वि॒दथा॑नि॒ साध॑न् ।

घृ॒तप्र॑तीक उर्वि॒या व्य॑द्यौद॒ग्निर्विश्वा॑नि॒ काव्या॑नि वि॒द्वान् ॥

नि । दुरोणे । अमृतः । मर्त्यानां । राजा । ससाद । विदथानि । साधन् ।

घृतऽप्रतीकः । उर्विया।वि। अद्यौत्। अग्निः। विश्वानि। काव्यनि। विद्वान् ॥१८॥

अमृतो नित्यो राजा राजमानो योऽग्निर्विदथानि यज्ञान् साधन् साधयन् मर्त्यानामग्निहोत्रिणां दुरोणे गृहे निषसाद । निषीदति । विश्वानि काव्यानि विद्वान् जानन् घृतप्रतीको घृतेन संधुक्षितावयव उर्विया विस्तीर्णः सोऽग्निर्व्यद्यौत् । विद्योतते ॥


आ नो॑ गहि स॒ख्येभिः॑ शि॒वेभि॑र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ।

अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं॑ भा॒गं य॒शसं॑ कृधी नः ॥

आ। नः। गहि। सख्येभिः। शिवेभिः। महान्। महीभिः। ऊतिऽभिः। सरण्यन् ।

अस्मे इति । रयिं । बहुलं । संऽतरुत्रं । सुऽवाचं । भागं । यशसं । कृधि । नः ॥१९॥

सरण्यन् सर्वत्र सरणं गमनमिच्छन् महांस्त्वं शिवेभिः शिवंकरैः सख्येभिः सख्यैः सखिकर्मभिर्महीभिर्महतीभिरूतिभी रक्षाभिश्च नोऽस्मान्प्रति आ गहि । आगच्छ । अस्मे अस्मभ्यं बहुलं विस्तीर्णं संतरुत्रं सर्वेषामुपद्रवाणां संतारकं सुवाचं शोभनवाचं भागं सर्वैर्भजनीयं यशसं यशसा कीर्त्या संयुक्तं रयिं धनं नोऽस्मभ्यं कृधि । देहि । अस्मभ्यमिति पुनर्वचनमादरातिशयार्थं ॥


ए॒ता ते॑ अग्ने॒ जनि॑मा॒ सना॑नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचम् ।

म॒हान्ति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दाः ॥

एता। ते। अग्ने। जनिम । सनानि । प्र। पूर्व्याय । नूतनानि। वोचं ।।

महांति । वृष्णे। सवना।कृता। इमा। जन्मन्जन्मन् । निऽहितः। जातऽवेदाः॥२०॥

हे अग्ने पूर्व्याय पुरातनाय ते तुभ्यं सनानि सनातनानि महद्भिः संभजनीयानि वा नूतनान्यन्येष्वविद्यमानानाद्यतनानि वैतैतानि जनिम जन्मानि कर्माणि स्तोत्राणि वा प्रवोचं । जातवेदा जातप्रज्ञो जातधनो वा जन्मन् जन्मन् । जायंत इति जन्मानः । तेषु सर्वेषु मनुष्येषु निहितो यागार्थं । तस्मै वृष्णे संपदां वर्षित्रेऽग्नय इमेमानि सवना सवनानि कृता । कृतानि ॥


जन्म॑ञ्जन्म॒न्निहि॑तो जा॒तवे॑दा वि॒श्वामि॑त्रेभिरिध्यते॒ अज॑स्रः ।

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥

जन्मन्ऽजन्मन् । निऽहितः । जातऽवेदाः । विश्वामित्रेभिः। इध्यते । अजस्रः ।

तस्य । वयं । सुऽमतौ। यज्ञिय॑स्य । अपि । भद्रे । सौमनसे । स्याम ॥२१॥

जन्मन् जन्मन् सर्वेषु मनुष्येषु निहितो जातवेदा विश्वामित्रेभिर्विश्वामित्रैः । पूजायां बहुवचनं । महर्षिणा विश्वामित्रेण यो जातवेदा अजस्रोऽजस्रमनवरतमिध्यते । दीप्यते । सुमतौ वर्तमाना वयं तस्य यज्ञियस्य यज्ञार्हस्याग्नेर्भद्रे भजनीये सौमनसे सुमनोभावेऽनुग्रहबुद्धावपि स्याम । अपि भवेम । प्रार्थनायां लिङ् ॥


इ॒मं य॒ज्ञं स॑हसाव॒न्त्वं नो॑ देव॒त्रा धे॑हि सुक्रतो॒ ररा॑णः ।

प्र यं॑सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥

इमं । यज्ञं। सहसाऽवन्। त्वं । नः । देवऽत्रा। धेहि। सुक्रतो इति सुऽक्रतो । रराणः।

प्र। यंसि । होतः। बृहतीः । इषः । नः । अग्ने। महि। द्रविणं । आ । यजस्व ॥२२॥

हे सहसावन् सहस्वन् बलवन् सुक्रतो शोभनकर्मन् हे अग्ने रराणः सर्वदा रममाणः शब्दं कुर्वाणो वा त्वं नोऽस्मदीयमिमं यज्ञं देवत्रा देवेषु धेहि । निधेहि । हे होतर्देवानामाह्वातः वृहतीरिषोऽन्नानि नो ऽस्मभ्यं प्रयंसि । प्रयच्छ । हे अग्ने महि महद्द्रविणं पश्वादिलक्षणं धनमायजस्व । प्रयच्छ । अत्र यजिर्दानकर्मा ॥


इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध ।

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥

इळां । अग्ने । पुरुऽदंसं । सनिं । गोः । शश्वत्ऽतमं । हव॑मानाय । साध।

स्यात्। नः। सूनुः। तनयः। विजाऽवा। अग्ने। सा। ते। सुऽमतिः। भूतु। अस्मे इति ॥२३॥

इयं सर्वेषां पशूनां पशुपुरोडाशस्य स्विष्टकृतः पुरोनुवाक्या । सूत्र्यते हि । इळामग्ने पुरुदंसं सनिं गोर्होता यक्षदग्निं पुरोळाशस्य स्वदस्व हव्या समिषो दिदीहीति पुरोळाशस्विष्टकृत इति । आ°३. ५.॥

हे अग्ने पुरुदंसं बहुकर्माणं गोर्गवां सनिं प्रदात्रीमिळां भूमिं हवमानाय स्तुवते मह्यं शश्वत्तमं चिरकालं यथा भवति तथा साध । साधय । नोऽस्माकं सूनुः पुत्रस्तनयः संतानस्य विस्तारयिता विजावा पुत्रपौत्रादिरूपेण स्वयं विजायत इति विजावा स्यात् । हे अग्ने सा प्रसिद्धा ते सुमतिस्त्वदीयानुग्रहबुद्धिरस्मे अस्मासु भूतु । भवतु ॥ ॥१६॥



मण्डल ३

सूक्तं ३.१

सूक्तं ३.२

सूक्तं ३.३

सूक्तं ३.४

सूक्तं ३.५

सूक्तं ३.६

सूक्तं ३.७

सूक्तं ३.८

सूक्तं ३.९

सूक्तं ३.१०

सूक्तं ३.११

सूक्तं ३.१२

सूक्तं ३.१३

सूक्तं ३.१४

सूक्तं ३.१५

सूक्तं ३.१६

सूक्तं ३.१७

सूक्तं ३.१८

सूक्तं ३.१९

सूक्तं ३.२०

सूक्तं ३.२१

सूक्तं ३.२२

सूक्तं ३.२३

सूक्तं ३.२४

सूक्तं ३.२५

सूक्तं ३.२६

सूक्तं ३.२७

सूक्तं ३.२८

सूक्तं ३.२९

सूक्तं ३.३०

सूक्तं ३.३१

सूक्तं ३.३२

सूक्तं ३.३३

सूक्तं ३.३४

सूक्तं ३.३५

सूक्तं ३.३६

सूक्तं ३.३७

सूक्तं ३.३८

सूक्तं ३.३९

सूक्तं ३.४०

सूक्तं ३.४१

सूक्तं ३.४२

सूक्तं ३.४३

सूक्तं ३.४४

सूक्तं ३.४५

सूक्तं ३.४६

सूक्तं ३.४७

सूक्तं ३.४८

सूक्तं ३.४९

सूक्तं ३.५०

सूक्तं ३.५१

सूक्तं ३.५२

सूक्तं ३.५३

सूक्तं ३.५४

सूक्तं ३.५५

सूक्तं ३.५६

सूक्तं ३.५७

सूक्तं ३.५८

सूक्तं ३.५९

सूक्तं ३.६०

सूक्तं ३.६१

सूक्तं ३.६२

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.१&oldid=196919" इत्यस्माद् पुनः प्राप्तिः