ऋग्वेदः सूक्तं १.१८०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १.१८० इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं १.१७९ ऋग्वेदः - मण्डल १
सूक्तं १.१८०
अगस्त्यो मैत्रावरुणिः
सूक्तं १.१८१ →
दे. अश्विनौ। त्रिष्टुप्।
मण्डल १

सूक्तं १.१

सूक्तं १.२

सूक्तं १.३

सूक्तं १.४

सूक्तं १.५

सूक्तं १.६

सूक्तं १.७

सूक्तं १.८

सूक्तं १.९

सूक्तं १.१०

सूक्तं १.११

सूक्तं १.१२

सूक्तं १.१३

सूक्तं १.१४

सूक्तं १.१५

सूक्तं १.१६

सूक्तं १.१७

सूक्तं १.१८

सूक्तं १.१९

सूक्तं १.२०

सूक्तं १.२१

सूक्तं १.२२

सूक्तं १.२३

सूक्तं १.२४

सूक्तं १.२५

सूक्तं १.२६

सूक्तं १.२७

सूक्तं १.२८

सूक्तं १.२९

सूक्तं १.३०

सूक्तं १.३१

सूक्तं १.३२

सूक्तं १.३३

सूक्तं १.३४

सूक्तं १.३५

सूक्तं १.३६

सूक्तं १.३७

सूक्तं १.३८

सूक्तं १.३९

सूक्तं १.४०

सूक्तं १.४१

सूक्तं १.४२

सूक्तं १.४३

सूक्तं १.४४

सूक्तं १.४५

सूक्तं १.४६

सूक्तं १.४७

सूक्तं १.४८

सूक्तं १.४९

सूक्तं १.५०

सूक्तं १.५१

सूक्तं १.५२

सूक्तं १.५३

सूक्तं १.५४

सूक्तं १.५५

सूक्तं १.५६

सूक्तं १.५७

सूक्तं १.५८

सूक्तं १.५९

सूक्तं १.६०

सूक्तं १.६१

सूक्तं १.६२

सूक्तं १.६३

सूक्तं १.६४

सूक्तं १.६५

सूक्तं १.६६

सूक्तं १.६७

सूक्तं १.६८

सूक्तं १.६९

सूक्तं १.७०

सूक्तं १.७१

सूक्तं १.७२

सूक्तं १.७३

सूक्तं १.७४

सूक्तं १.७५

सूक्तं १.७६

सूक्तं १.७७

सूक्तं १.७८

सूक्तं १.७९

सूक्तं १.८०

सूक्तं १.८१

सूक्तं १.८२

सूक्तं १.८३

सूक्तं १.८४

सूक्तं १.८५

सूक्तं १.८६

सूक्तं १.८७

सूक्तं १.८८

सूक्तं १.८९

सूक्तं १.९०

सूक्तं १.९१

सूक्तं १.९२

सूक्तं १.९३

सूक्तं १.९४

सूक्तं १.९५

सूक्तं १.९६

सूक्तं १.९७

सूक्तं १.९८

सूक्तं १.९९

सूक्तं १.१००

सूक्तं १.१०१

सूक्तं १.१०२

सूक्तं १.१०३

सूक्तं १.१०४

सूक्तं १.१०५

सूक्तं १.१०६

सूक्तं १.१०७

सूक्तं १.१०८

सूक्तं १.१०९

सूक्तं १.११०

सूक्तं १.१११

सूक्तं १.११२

सूक्तं १.११३

सूक्तं १.११४

सूक्तं १.११५

सूक्तं १.११६

सूक्तं १.११७

सूक्तं १.११८

सूक्तं १.११९

सूक्तं १.१२०

सूक्तं १.१२१

सूक्तं १.१२२

सूक्तं १.१२३

सूक्तं १.१२४

सूक्तं १.१२५

सूक्तं १.१२६

सूक्तं १.१२७

सूक्तं १.१२८

सूक्तं १.१२९

सूक्तं १.१३०

सूक्तं १.१३१

सूक्तं १.१३२

सूक्तं १.१३३

सूक्तं १.१३४

सूक्तं १.१३५

सूक्तं १.१३६

सूक्तं १.१३७

सूक्तं १.१३८

सूक्तं १.१३९

सूक्तं १.१४०

सूक्तं १.१४१

सूक्तं १.१४२

सूक्तं १.१४३

सूक्तं १.१४४

सूक्तं १.१४५

सूक्तं १.१४६

सूक्तं १.१४७

सूक्तं १.१४८

सूक्तं १.१४९

सूक्तं १.१५०

सूक्तं १.१५१

सूक्तं १.१५२

सूक्तं १.१५३

सूक्तं १.१५४

सूक्तं १.१५५

सूक्तं १.१५६

सूक्तं १.१५७

सूक्तं १.१५८

सूक्तं १.१५९

सूक्तं १.१६०

सूक्तं १.१६१

सूक्तं १.१६२

सूक्तं १.१६३

सूक्तं १.१६४

सूक्तं १.१६५

सूक्तं १.१६६

सूक्तं १.१६७

सूक्तं १.१६८

सूक्तं १.१६९

सूक्तं १.१७०

सूक्तं १.१७१

सूक्तं १.१७२

सूक्तं १.१७३

सूक्तं १.१७४

सूक्तं १.१७५

सूक्तं १.१७६

सूक्तं १.१७७

सूक्तं १.१७८

सूक्तं १.१७९

सूक्तं १.१८०

सूक्तं १.१८१

सूक्तं १.१८२

सूक्तं १.१८३

सूक्तं १.१८४

सूक्तं १.१८५

सूक्तं १.१८६

सूक्तं १.१८७

सूक्तं १.१८८

सूक्तं १.१८९

सूक्तं १.१९०

सूक्तं १.१९१


युवो रजांसि सुयमासो अश्वा रथो यद्वां पर्यर्णांसि दीयत् ।
हिरण्यया वां पवयः प्रुषायन्मध्वः पिबन्ता उषसः सचेथे ॥१॥
युवमत्यस्याव नक्षथो यद्विपत्मनो नर्यस्य प्रयज्योः ।
स्वसा यद्वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च ॥२॥
युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यं गोः ।
अन्तर्यद्वनिनो वामृतप्सू ह्वारो न शुचिर्यजते हविष्मान् ॥३॥
युवं ह घर्मं मधुमन्तमत्रयेऽपो न क्षोदोऽवृणीतमेषे ।
तद्वां नरावश्विना पश्वइष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ॥४॥
आ वां दानाय ववृतीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः ।
अपः क्षोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा ॥५॥
नि यद्युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरंधिम् ।
प्रेषद्वेषद्वातो न सूरिरा महे ददे सुव्रतो न वाजम् ॥६॥
वयं चिद्धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान् ।
अधा चिद्धि ष्माश्विनावनिन्द्या पाथो हि ष्मा वृषणावन्तिदेवम् ॥७॥
युवां चिद्धि ष्माश्विनावनु द्यून्विरुद्रस्य प्रस्रवणस्य सातौ ।
अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत्सहस्रैः ॥८॥
प्र यद्वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता ।
धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम ॥९॥
तं वां रथं वयमद्या हुवेम स्तोमैरश्विना सुविताय नव्यम् ।
अरिष्टनेमिं परि द्यामियानं विद्यामेषं वृजनं जीरदानुम् ॥१०॥

सायणभाष्यम्

अथ चतुर्विंशेऽनुवाके द्वादश सूक्तानि । तत्र ' युवो रजांसि ' इति दशर्चं प्रथमं सूक्तमागस्त्यं त्रैष्टुभम् । तुह्यादिपरिभाषया इदमादिसूक्तपञ्चकमाश्विनम् । ' युवोर्दशाश्विनं वै ' इत्यनुक्रमणिका । एतदादीनि तृतीयवर्जितानि पञ्च सूक्तानि प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि विनियुक्तानि । ‘ अथाश्विनः' इति खण्डे सूत्रितं - युवो रजांसीति पञ्चानां तृतीयमुद्धरेत्' ( आश्व. श्रौ. ४. १५) इति ।।


यु॒वो रजां॑सि सु॒यमा॑सो॒ अश्वा॒ रथो॒ यद्वां॒ पर्यर्णां॑सि॒ दीय॑त् ।

हि॒र॒ण्यया॑ वां प॒वयः॑ प्रुषाय॒न्मध्वः॒ पिब॑न्ता उ॒षसः॑ सचेथे ॥ ०१

यु॒वोः । रजां॑सि । सु॒ऽयमा॑सः । अश्वाः॑ । रथः॑ । यत् । वा॒म् । परि॑ । अर्णां॑सि । दीय॑त् ।

हि॒र॒ण्ययाः॑ । वा॒म् । प॒वयः॑ । प्रु॒षा॒य॒न् । मध्वः॑ । पिब॑न्तौ । उ॒षसः॑ । स॒चे॒थे॒ इति॑ ॥

युवोः । रजांसि । सुऽयमासः । अश्वाः । रथः । यत् । वाम् । परि । अर्णांसि । दीयत्।

हिरण्ययाः । वाम् । पवयः । प्रुषायन् । मध्वः । पिबन्तौ । उषसः । सचेथे इति ॥१॥

हे अश्विनौ "युवोः युवयोः 'अश्वाः रथवोढारः 'रजांसि रञ्जकान् लोकान् 'सुयमासः शोभननियमनाः । लोकत्रयसंचारिण इत्यर्थः । कदेति आह । 'यत् यदा “वां 'रथः अर्णांसि अरणीयान् अभिमतदेशान् 'परि “दीयत् परिगच्छेत् परितो गच्छति वा । तदेत्यर्थः । दीयतिर्गतिकर्मा, ‘ दीयति तकति' (नि. २. १४. ६९ ) इति तत्कर्मसु पाठात् । किंच रथागमनकाले “वां युवयोः “पवयः वज्रा रथनेमयो वा 'हिरण्ययाः हिरण्मयाः “प्रुषायन् प्रुष्णन्त्यभिमतम् । यद्वा। हिरण्ययानि पवयो मधुपात्राणि वां युवाभ्यामर्थाय । यस्मादेवं तस्मात् युवां 'मध्वः मधुनो मधुसदृशस्य सोमरसस्य ॥ कर्मणि षष्ठी ॥ सोमरसं पिबन्तौ आस्वादयन्तौ "उषसः उषःसंबन्धिनि काले 'सचेथे यज्ञं संगच्छेथे । अत्र क्रमो न विवक्षितः । उषःकाले एवागत्य मधुरं सोमरसं पिबतमित्यर्थः ।।


यु॒वमत्य॒स्याव॑ नक्षथो॒ यद्विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः ।

स्वसा॒ यद्वां॑ विश्वगूर्ती॒ भरा॑ति॒ वाजा॒येट्टे॑ मधुपावि॒षे च॑ ॥ ०२

यु॒वम् । अत्य॑स्य । अव॑ । न॒क्ष॒थः॒ । यत् । विऽप॑त्मनः । नर्य॑स्य । प्रऽय॑ज्योः ।

स्वसा॑ । यत् । वा॒म् । वि॒श्व॒गू॒र्ती॒ इति॑ विश्वऽगूर्ती । भरा॑ति । वाजा॑य । ईट्टे॑ । म॒धु॒ऽपौ॒ । इ॒षे । च॒ ॥

युवम् । अत्यस्य । अव । नक्षथः । यत् । विऽपत्मनः । नर्यस्य । प्रऽयज्योः ।

स्वसा । यत् । वाम् । विश्वगूर्ती इति विश्वऽगूर्ती । भराति । वाजाय । ईट्टे। मधुऽपौ। इषे । च ॥२॥

हे अश्विनौ "युवं युवां "यत् "अत्यस्य अतनशीलस्य सततसंचारिणः "विपत्मनः विविधगमनस्य विचित्रगमनस्य वा “नर्यस्य मनुष्याणां हितस्य “प्रयज्योः प्रकर्षेण पूज्यस्य ॥ एतानि कर्मणि षष्ठ्यन्तानि ॥ उक्तरूपं रथम् "अव अवस्तात् तदुदयात् पूर्वं "नक्षथः व्याप्नुथो देवयजनं गन्तुम् । किंच “यत् यदा हे "विश्वगूर्ती सर्वस्तुत्यौ सर्वदा उद्गूर्णौ वा "वां युवयोः "स्वसा स्वसृस्थानीया स्वयंसारिणी वा उषाः “भराति पोषते त्वदागमनाय प्रभातं करोति । यदा हे "मधुपौ मधुरस्य सोमरसस्य पातारौ युवां यजमानः "वाजाय बलाय गमनाय वा “इषे प्रभूतान्नाय "ईट्टे स्तौति । तदा रथं प्राप्नुथ इत्यर्थः ॥


यु॒वं पय॑ उ॒स्रिया॑यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः ।

अ॒न्तर्यद्व॒निनो॑ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ॥ ०३

यु॒वम् । पयः॑ । उ॒स्रिया॑याम् । अ॒ध॒त्त॒म् । प॒क्वम् । आ॒माया॑म् । अव॑ । पूर्व्य॑म् । गोः ।

अ॒न्तः । यत् । व॒निनः॑ । वा॒म् । ऋ॒त॒प्सू॒ इत्यृ॑तऽप्सू । ह्वा॒रः । न । शुचिः॑ । यज॑ते । ह॒विष्मा॑न् ॥

युवम् । पयः । उस्रियायाम् । अधत्तम् । पक्वम् । आमायाम् । अव । पूर्व्यम् । गोः ।

अन्तः । यत् । वनिनः । वाम् । ऋतप्सू इत्यृतऽप्सू । ह्वारः । न । शुचिः । यजते। हविष्मान् ॥३॥

हे अश्विनौ "युवं युवाम् “उस्रियायाम् । गोनामैतत् । भोगोत्स्राविण्यां गवि "पयः "अधत्तम् अधारयतं स्थापितवन्तौ । तथा “आमायाम् अपक्वायां “पक्वं परिपक्वं भोगयोग्यं गोसंबन्धि दुग्धं “पूर्व्यं पूर्वभवं तत्रैवोत्पन्नम् "अव अवस्तादधारयतम् । गवि क्षीरमुत्पाद्य पुनर्भोगाय पृथक्कृतवन्तावित्यर्थः । "यत् यस्मात् हे "ऋतप्सू सत्यस्वरूपौ यज्ञियहविर्भक्षयितारौ वा हे अश्विनौ “वां "वनिनः उदकवतः उद्कोपलक्षितहविष्मतो यज्ञस्य "अन्तः मध्ये "हविष्मान् प्रदेयहविषा तद्वान् "शुचिः शुद्धो यजमानः “यजते पूजयति युवां तस्मादेवमकुरुतम् । यद्वा । यदैवं यजमानः करोति तदेत्यर्थः । तत्र दृष्टान्तः । वनिनः वनसंबन्धिवृक्षसमूहस्य अन्तः मध्ये "ह्वारो "न चोर इव । स यथा जागरूको वर्तते तथा यजमानोऽपीत्यर्थः ॥


यु॒वं ह॑ घ॒र्मं मधु॑मन्त॒मत्र॑ये॒ऽपो न क्षोदो॑ऽवृणीतमे॒षे ।

तद्वां॑ नरावश्विना॒ पश्व॑‍इष्टी॒ रथ्ये॑व च॒क्रा प्रति॑ यन्ति॒ मध्वः॑ ॥ ०४

यु॒वम् । ह॒ । घ॒र्मम् । मधु॑ऽमन्तम् । अत्र॑ये । अ॒पः । न । क्षोदः॑ । अ॒वृ॒णी॒त॒म् । ए॒षे ।

तत् । वा॒म् । न॒रौ॒ । अ॒श्वि॒ना॒ । पश्वः॑ऽइष्टिः । रथ्या॑ऽइव । च॒क्रा । प्रति॑ । य॒न्ति॒ । मध्वः॑ ॥

युवम् । ह । घर्मम् । मधुऽमन्तम् । अत्रये । अपः । न । क्षोदः । अवृणीतम् । एषे ।

तत् । वाम् । नरौ। अश्विना । पश्वःऽइष्टिः । रथ्याऽइव। चक्रा । प्रति । यन्ति । मध्वः ॥४॥

अत्रेतिहासमाहुः । प्रवर्ग्येण प्रचरन्तमत्रिं राक्षसास्तप्ते घर्मेऽपातयन् । स च तप्यमानोऽश्विनौ तुष्टाव । तौ च स्तुत्या हृष्टमनसावरक्षतामिति । अपरेऽग्नौ क्षिप्तमपालयतामित्याहुरिति । हे अश्विनौ । “युवं युवां "मधुमन्तं पयोघृतरूपाभ्यां मधुभ्यां तद्वन्तं “घर्मं दीप्तं प्रवर्ग्यम् “एषे सौख्यमिच्छते "अत्रये एतन्नाम्ने महर्षये “क्षोदः क्षोदांसि क्षोद्यमानानि "अपो "न उदकानीव "अवृणीतम् अवारयतम् । औष्ण्यं शैत्यसुखं कृतवन्तौ । तप्तघर्मसकाशात् भ(र)क्षितवान् (वन्तौ) इत्यर्थः । यद्वा । अत्रये क्षोदः । उदकनामैतत् । तत्स्थं शैत्यं लक्ष्यते । अपः क्षोदो न । अप इति षष्ठ्यर्थे द्वितीया । उदकानां शैत्यं यथा भवति तद्वत् । पक्षान्तरे तु घर्मं दीप्तमग्निं मधुमन्तं कृत्वा अवृणीतं सुखयतमित्यर्थः । तथा च मन्त्रान्तरं-’ तप्तं घर्ममोम्यावन्तमत्रये' (ऋ. सं. १. ११२. ७ ) इति । "तत् तस्मात् यस्मादेवं तस्मात् हे “नरौ नेतारौ नराकारौ वा "अश्विना अश्विनौ “वां युवाभ्यां “पश्वइष्टिः । पशुरित्यग्नेर्नाम । ‘अग्निः पशुरासीत् ' (तै. सं. ५. ७. २६ ) इत्यादिश्रुतेः । यद्वा । पशुप्रियत्वात् पशुरित्युच्यते । तस्याग्नेः इष्टिर्भवति । अग्नौ यागः सर्वो युष्मदर्थं प्रवर्तते इत्यर्थः । यद्वा । पशुसाध्यो यागो युवाभ्यां प्रवर्तते इति शेषः । ‘आश्विनं धूम्रललाममा लभेत यो दुर्ब्राह्मणः सोमं पिपासेत् '(तै. सं. २. १. १०. १) इत्यादिनाप्यश्विभ्यां पशुर्विहितः । तथा “मध्वः मधुसदृशाः सोमरसा अपि युवाभ्यां “प्रति यन्ति अभिगच्छन्ति । तत्र दृष्टान्तः । “रथ्येव "चक्रा रथसंबन्धीनि चक्रा चक्राणीव । तानि यथा प्रवणदेशमभिगच्छन्ति तद्वत् ॥


आ वां॑ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे॑ण तौ॒ग्र्यो न जिव्रिः॑ ।

अ॒पः क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ॥ ०५

आ । वा॒म् । दा॒नाय॑ । व॒वृ॒ती॒य॒ । द॒स्रा॒ । गोः । ओहे॑न । तौ॒ग्र्यः । न । जिव्रिः॑ ।

अ॒पः । क्षो॒णी इति॑ । स॒च॒ते॒ । माहि॑ना । वा॒म् । जू॒र्णः । वा॒म् । अक्षुः॑ । अंह॑सः । य॒ज॒त्रा॒ ॥

आ । वाम् । दानाय । ववृतीय । दस्रा । गोः । ओहेन । तौग्र्यः । न । जिव्रिः ।

अपः । क्षोणी इति। सचते । माहिना । वाम्। जूर्णः । वाम् । अक्षुः । अंहसः । यजत्रा ॥५॥

हे "दस्रा शत्रूणामुपक्षपयितारावश्विनौ "वां युवयोः "दानाय अस्मदभिमताय युवाभ्यां वाहयितुम् "आ “ववृतीय आवर्तयामि यागदेशम् ॥ वृतेरन्तर्भावितण्यर्थस्येदम् ॥ केन साधनेनेति तदुच्यते । "गोः स्तुतिरूपाया वाचः "ओहेन वहनेन साधनेन । यद्वा । आवर्तनकाल उच्यते । गोर्गन्त्र्याः उषसो वहनेन। 'जिव्रिः जीर्णो जयशीलो वा "तौग्र्यो “न तुग्राख्यस्य राज्ञः पुत्रो भुज्युरिव । स यथा शत्रुभिः संताड्य समुद्रे पातितो युवां परितोष्य स्वोद्धाराय स्वसमीपमानयत तद्वदित्यर्थः । इयमाख्यायिका ‘तुग्रो ह' (ऋ. सं. १. ११६. ३), ‘भुज्युमंहसः पिपृथः' (ऋ. सं. १०.६५.१२), ‘ नासत्या भुज्युम्' (ऋ. सं. १. ११६. ४ ) इत्यादिषु प्रसिद्धा च । किमाश्चर्यमहमावर्तयामीति । किंतु “अपः "क्षोणी। अप इत्यन्तरिक्षनाम (नि. १.३.८)। क्षोणीति पृथिवीनाम (नि. १. १.७)। द्यावापृथिव्यावपि “वां युवयोः "माहिना माहात्म्येन युवयोः प्रसादेन सर्वोपकारिण्याविति ख्यातिं सर्वप्रदेशव्यापित्वं वा "सचते सेवते प्रत्येकम् । यद्वा । वां माहिना यजमानो द्यावापृथिव्यौ सचते । किंच हे "यजत्रा यष्टव्यौ प्रसादादयमृषिः "जूर्णः जरया जीर्णाङ्गः सन् "अंहसः पापात् जरालक्षणात् प्रमुच्य अक्षुः चिरकालव्याप्तो दीर्घजीवी भूयात् । यद्वा । हे यजत्रा वां प्रसादात् जूर्णो जीर्णो यजमानः अंहसो दुरितस्य हन्त्रीरप उक्तलक्षणानि सोमरसरूपाण्युदकानि क्षोणी क्षोण्याम् ॥ सप्तम्यर्थे प्रगृह्यम् ॥ भूम्यां चिरकालमक्षुर्व्याप्तः सन् महिना माहात्म्येन सचते । द्वितीयो वामित्ययमादरार्थः ॥ ॥ २३ ॥


नि यद्यु॒वेथे॑ नि॒युतः॑ सुदानू॒ उप॑ स्व॒धाभिः॑ सृजथः॒ पुरं॑धिम् ।

प्रेष॒द्वेष॒द्वातो॒ न सू॒रिरा म॒हे द॑दे सुव्र॒तो न वाज॑म् ॥ ०६

नि । यत् । यु॒वेथे॒ इति॑ । नि॒ऽयुतः॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । उप॑ । स्व॒धाभिः॑ । सृ॒ज॒थः॒ । पुर॑म्ऽधिम् ।

प्रेष॑त् । वेष॑त् । वातः॑ । न । सू॒रिः । आ । म॒हे । द॒दे॒ । सु॒ऽव्र॒तः । न । वाज॑म् ॥

नि । यत् । युवेथे इति । निऽयुतः । सुदानू इति सुऽदानू । उप । स्वधाभिः। सृजथः । पुरम्ऽधिम्।

प्रेषत् । वेषत् । वातः । न । सूरिः । आ । महे । ददे । सुऽव्रतः । न । वाज॑म् ॥ ६ ॥

हे "सुदानू शोभनदानावश्विनौ "यत् यदा “नियुतः अश्वान् "नि "युवेथे नियुञ्जाथे नियोजयथः ताभिरस्मद्यज्ञगमनाय संयुक्तौ भवथः तदा "स्वधाभिः अन्नैः तत्कारणैरुदकैर्वा “पुरंधिं बहूनां धात्रीं पृथिवीम् "उप "सृजथः। एवं च सति "सूरिः स्तोता अयं यजमानः “वातो “न वायुरिव तद्वत् क्षिप्रं युवां "प्रेषत् तर्पयतु । "वेषत् व्याप्नोतु । कामयतां वा ॥ प्रीणातेर्वेतेश्च लेटि रूपे ॥ अनन्तरं “सुव्रतो “न अतिप्रशस्तोष्मादिकर्मवानिव "वाजम् अन्नं "महे महत्त्वाय अयं यजमानः “आ “ददे आदत्ते स्वीकरोति ॥ ‘ आङो दोऽनास्यविहरणे' (पा. सू. १. ३. २०) इत्यात्मनेपदम् । ‘लोपस्त आत्मनेपदेषु' इति तलोपः । यद्वा । छान्दसे लिटि रूपम् ॥ स्वीकृत्य स्वमहत्त्वाय युवामेव तर्पयत्वित्यर्थः॥


व॒यं चि॒द्धि वां॑ जरि॒तारः॑ स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् ।

अधा॑ चि॒द्धि ष्मा॑श्विनावनिन्द्या पा॒थो हि ष्मा॑ वृषणा॒वन्ति॑देवम् ॥ ०७

व॒यम् । चि॒त् । हि । वा॒म् । ज॒रि॒तारः॑ । स॒त्याः । वि॒प॒न्याम॑हे । वि । प॒णिः । हि॒तऽवा॑न् ।

अध॑ । चि॒त् । हि । स्म॒ । अ॒श्वि॒नौ॒ । अ॒नि॒न्द्या॒ । पा॒थः । हि । स्म॒ । वृ॒ष॒णौ॒ । अन्ति॑ऽदेवम् ॥

वयम् । चित् । हि । वाम् । जरितारः । सत्याः । विपन्यामहे । वि । पणिः । हितऽवान् ।

अध। चित् । हि। स्म। अश्विनौ। अनिन्द्या । पाथः । हि। स्म । वृषणौ। अन्तिऽदेवम् ॥७॥

“वयं “चिद्धि वयमपि "जरितारः तव स्तोतारः "सत्याः सत्यफलाः सन्तः "विपन्यामहे विविधं स्तुमः । "पणिः पणाधारो द्रोणकलशः "वि “हितवान् स्थापितरसवानासीत् । यद्वा । पणिर्वणिग्लुब्धकोऽयष्टा हितवान्नियतधनो धनाढ्योऽप्ययष्टा वि वियुज्यताम् ॥ उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ "अध अपि च "चिद्धि “ष्म । एते त्रयः पूरणाः । हे "अश्विनौ “अनिन्द्या । प्रशस्यनामैतत् । हे प्रशस्यौ "वृषणौ हे कामानां वर्षितारौ युवाम् "अन्तिदेवं देवानामन्तिके "पाथः सोमं पिबथः । यद्वा । अन्तिके वर्तमानं देवान् प्राप्नुवानं सोममिति योज्यम् ॥


यु॒वां चि॒द्धि ष्मा॑श्विना॒वनु॒ द्यून्विरु॑द्रस्य प्र॒स्रव॑णस्य सा॒तौ ।

अ॒गस्त्यो॑ न॒रां नृषु॒ प्रश॑स्तः॒ कारा॑धुनीव चितयत्स॒हस्रैः॑ ॥ ०८

यु॒वाम् । चि॒त् । हि । स्म॒ । अ॒श्वि॒नौ॒ । अनु॑ । द्यून् । विऽरु॑द्रस्य । प्र॒ऽस्रव॑णस्य । सा॒तौ ।

अ॒गस्त्यः॑ । न॒राम् । नृषु॑ । प्रऽश॑स्तः । कारा॑धुनीऽइव । चि॒त॒य॒त् । स॒हस्रैः॑ ॥

युवाम् । चित् । हि। स्म । अश्विनौ । अनु। द्यून् । विऽरुद्रस्य । प्रऽस्रवणस्य । सातौ ।

अगस्त्यः । नराम् । नृषु । प्रऽशस्तः । काराधुनीऽइव । चितयत् । सहस्रैः ॥ ८ ॥

हे "अश्विनौ "युवां । "चिद्धि “ष्म इति त्रयः पूरणाः । "अनु “द्यून प्रतिदिनं "विरुद्रस्य विशिष्टोष्णरूपदुःखद्रावणस्य विविधरोरूयमाणद्रवणवतो वा "प्रस्रवणस्य वृष्ट्युदकसंस्त्यायस्य "सातौ लाभे निमित्तभूते सति "अगस्त्यः एतन्नामा महर्षिः "नरां नेतॄणां कर्मनिर्वाहकानां मनुष्याणां "नृषु येषु तादृशाः मनुष्याः सन्ति तेषु "प्रशस्तः प्रशस्यतरोऽयं "सहस्रैः अपरिमितैः स्तोत्रैः "चितयत् चेतयति स्तुत्या प्रबोधयति । तत्र दृष्टान्तः । "काराधुनीव । कारा शब्दः । तस्य धूनयितोत्पादयिता शङ्खादिः स इव । यद्वा । एतदप्यगस्त्यविशेषणम् । कारः शब्दयिता होत्रादिः । तस्य धुनिः कम्पयिता प्रेरकः इव । इवेति संप्रत्यर्थे ।' अस्त्युपमार्थस्य संप्रत्यर्थे प्रयोगः ' ( निरु. ७. ३१ ) इति निरुक्तम् ॥


प्र यद्वहे॑थे महि॒ना रथ॑स्य॒ प्र स्य॑न्द्रा याथो॒ मनु॑षो॒ न होता॑ ।

ध॒त्तं सू॒रिभ्य॑ उ॒त वा॒ स्वश्व्यं॒ नास॑त्या रयि॒षाचः॑ स्याम ॥ ०९

प्र । यत् । वहे॑थे॒ इति॑ । म॒हि॒ना । रथ॑स्य । प्र । स्य॒न्द्रा॒ । या॒थः॒ । मनु॑षः । न । होता॑ ।

ध॒त्तम् । सू॒रिऽभ्यः॑ । उ॒त । वा॒ । सु॒ऽअश्व्य॑म् । नास॑त्या । र॒यि॒ऽसाचः॑ । स्या॒म॒ ॥

प्र। यत्। वहेथे इति । महिना । रथस्य । प्र। स्यन्द्रा । याथः । मनुषः । न । होता ।

धत्तम् । सूरिऽभ्यः । उत। वा । सुऽअश्व्यम् । नासत्या । रयिऽसाचः । स्याम ॥ ९ ॥

हे अश्विनौ युवां “रथस्य गमनसाधनस्य “महिना महत्त्वेन “यत् यस्मात् “प्र “वहेथे धारयथो यज्ञम् । यद्वा । रथस्य स्वर्गगमनसाधनस्य यागस्य धुरं वहत । तथा हे “स्यन्द्रा स्यन्दनशीलौ युवां “याथः गच्छथः । स्वस्थानं यज्ञारम्भे आगच्छथः यज्ञसमाप्तौ पुनर्गच्छथश्च । तत्र दृष्टान्तः । "मनुषः "होता मनुष्यस्य यजमानस्य होता यथा यज्ञप्रारम्भे आगच्छति कर्मणि निर्वृत्ते पुनरपगच्छति तद्वत् । आगमनसमये “सूरिभ्यः स्तोतृभ्यः “धत्तं धारयतं फलम् । “उत “वा “स्वश्व्यं शोभनाश्वसमूहं धत्तम् । “नासत्या । सत्सु भवौ सत्यौ । न असत्यौ नासत्यौ । हे तादृशौ त्वदनुग्रहात् “रयिसाचः धनसमवायिनः “स्याम भवेम ॥


तं वां॒ रथं॑ व॒यम॒द्या हु॑वेम॒ स्तोमै॑रश्विना सुवि॒ताय॒ नव्य॑म् ।

अरि॑ष्टनेमिं॒ परि॒ द्यामि॑या॒नं वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥ १०

तम् । वा॒म् । रथ॑म् । व॒यम् । अ॒द्य । हु॒वे॒म॒ । स्तोमैः॑ । अ॒श्वि॒ना॒ । सु॒वि॒ताय॑ । नव्य॑म् ।

अरि॑ष्टऽनेमिम् । परि॑ । द्याम् । इ॒या॒नम् । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥

तम् । वाम् । रथम् । वयम् । अद्य । हुवेम । स्तोमैः । अश्विना । सुविताय । नव्यम् ।

अरिष्टनेमिम् । परि । द्याम् । इयानम् । विद्याम । इषम् । वृजनम् । जीरऽदानुम् ॥१०॥

हे “अश्विना हे अश्विनौ “वां युवयोः संबन्धिनं शीघ्रगमनेन स्तुत्यं “रथं “वयम् अगस्त्याः “अद्य अस्मिन्सुत्येऽहनि “हुवेम आह्वयेम । केन साधनेनेति उच्यते । “स्तोमैः स्तोत्रैः । किमर्थम् । "सुविताय सुष्ठु प्राप्तये । कीदृशम् । "नव्यं स्तुत्यं नूतनं वा तथा “अरिष्टनेमिम् अहिंसितचक्रवलयं “द्यां “परि “इयानं द्युलोकस्य परितो गच्छन्तम् । विद्याम इत्यादि गतम् ॥ ॥ २४ ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१८०&oldid=162089" इत्यस्माद् पुनः प्राप्तिः