सामग्री पर जाएँ

ऋग्वेदः सूक्तं ४.५५

विकिस्रोतः तः
← सूक्तं ४.५४ ऋग्वेदः - मण्डल ४
सूक्तं ४.५५
वामदेवो गौतमः
सूक्तं ४.५६ →
दे. विश्वे देवाः। त्रिष्टुप्, ८-१० गायत्री


को वस्त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः ।
सहीयसो वरुण मित्र मर्तात्को वोऽध्वरे वरिवो धाति देवाः ॥१॥
प्र ये धामानि पूर्व्याण्यर्चान्वि यदुच्छान्वियोतारो अमूराः ।
विधातारो वि ते दधुरजस्रा ऋतधीतयो रुरुचन्त दस्माः ॥२॥
प्र पस्त्यामदितिं सिन्धुमर्कैः स्वस्तिमीळे सख्याय देवीम् ।
उभे यथा नो अहनी निपात उषासानक्ता करतामदब्धे ॥३॥
व्यर्यमा वरुणश्चेति पन्थामिषस्पतिः सुवितं गातुमग्निः ।
इन्द्राविष्णू नृवदु षु स्तवाना शर्म नो यन्तममवद्वरूथम् ॥४॥
आ पर्वतस्य मरुतामवांसि देवस्य त्रातुरव्रि भगस्य ।
पात्पतिर्जन्यादंहसो नो मित्रो मित्रियादुत न उरुष्येत् ॥५॥
नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिरिष्टैः ।
समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप व्रन् ॥६॥
देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् ।
नहि मित्रस्य वरुणस्य धासिमर्हामसि प्रमियं सान्वग्नेः ॥७॥
अग्निरीशे वसव्यस्याग्निर्महः सौभगस्य ।
तान्यस्मभ्यं रासते ॥८॥
उषो मघोन्या वह सूनृते वार्या पुरु ।
अस्मभ्यं वाजिनीवति ॥९॥
तत्सु नः सविता भगो वरुणो मित्रो अर्यमा ।
इन्द्रो नो राधसा गमत् ॥१०॥


सायणभाष्यम्

‘ को वस्त्राता ' इति दशर्चं दशमं सूक्तं वामदेवस्यार्षं विश्वदेवदेवताकम् । अष्टम्याद्यास्तिस्रो गायत्र्यः शिष्टा अनादेशपरिभाषया त्रिष्टुभः । तथा चानुक्रम्यते -' को वो दश वैश्वदेवं त्रिगायत्र्यन्तं तु ' इति । विनियोगो लैङ्गिकः ॥


को व॑स्त्रा॒ता व॑सव॒ः को व॑रू॒ता द्यावा॑भूमी अदिते॒ त्रासी॑थां नः ।

सही॑यसो वरुण मित्र॒ मर्ता॒त्को वो॑ऽध्व॒रे वरि॑वो धाति देवाः ॥१

कः । वः॒ । त्रा॒ता । व॒स॒वः॒ । कः । व॒रू॒ता । द्यावा॑भूमी॒ इति॑ । अ॒दि॒ते॒ । त्रासी॑थाम् । नः॒ ।

सही॑यसः । व॒रु॒ण॒ । मि॒त्र॒ । मर्ता॑त् । कः । वः॒ । अ॒ध्व॒रे । वरि॑वः । धा॒ति॒ । दे॒वाः॒ ॥१

कः । वः । त्राता । वसवः । कः । वरूता । द्यावाभूमी इति । अदिते । त्रासीथाम् । नः ।

सहीयसः । वरुण । मित्र । मर्तात् । कः । वः । अध्वरे । वरिवः । धाति । देवाः ॥१

हे "वसवः सर्वस्य वासयितारो देवाः “वः युष्मान् "कः “त्राता अस्ति । यतो यूयं वसवोऽत इत्यभिप्रायः । "कः च "वरूता संभक्तास्ति । यद्वा । वो युष्माकं मध्ये कस्त्राता रक्षको देवः कश्च वरूता वारयिता दुःखानां वरणीयो वा भवति । हे "द्यावाभूमी “नः अस्मान् "त्रासीथां रक्षतम् । हे "अदिते अखण्डनीये । एतदपि द्यावाभूम्योर्विशेषणम् । संख्याव्यत्ययः । यदीदं पृथग्देवतामन्त्रणं स्यात् तर्हि निघातो न स्यात् ।' आमन्त्रितं पूर्वमविद्यमानवत्' इति पूर्वस्याविद्यमानवत्त्वेनास्यैव पादादित्वात् । ' अदिते मित्र वरुणोत मृळ ' (ऋ. सं. २. २७. १४ ) इति, ‘आदित्या रुद्रा वसवः सुदानवः' (ऋ. सं. १०. ६६. १२) इतिवत् । तस्यैव विशेषणत्वे समानाधिकरणे इति सामानाधिकरण्यात् ‘ अग्ने पावक रोचिषा' (ऋ. सं. ५. २६. १) इतिवत् अस्य निघातः सिध्यति । तस्मात् द्यावाभूमी इत्येतस्य विशेषणम् । हे "वरुण हे "मित्र युवां "सहीयसः "मर्तात् अभिभवितुः मनुष्यात् नस्त्रासीथाम् । हे "देवाः “वः युष्माकम् "अध्वरे यागे "कः "वरिवः धनं “धाति ददाति। यद्वा । वो युष्माकं मध्ये को वरिवो धाति धारयति ॥


प्र ये धामा॑नि पू॒र्व्याण्यर्चा॒न्वि यदु॒च्छान्वि॑यो॒तारो॒ अमू॑राः ।

वि॒धा॒तारो॒ वि ते द॑धु॒रज॑स्रा ऋ॒तधी॑तयो रुरुचन्त द॒स्माः ॥२

प्र । ये । धामा॑नि । पू॒र्व्याणि॑ । अर्चा॑न् । वि । यत् । उ॒च्छान् । वि॒ऽयो॒तारः॑ । अमू॑राः ।

वि॒ऽधा॒तारः॑ । वि । ते । द॒धुः॒ । अज॑स्राः । ऋ॒तऽधी॑तयः । रु॒रु॒च॒न्त॒ । द॒स्माः ॥२

प्र । ये । धामानि । पूर्व्याणि । अर्चान् । वि । यत् । उच्छान् । विऽयोतारः । अमूराः ।

विऽधातारः । वि । ते । दधुः । अजस्राः । ऋतऽधीतयः । रुरुचन्त । दस्माः ॥२

"ये देवाः "पूर्व्याणि पुरातनानि “धामानि स्थानानि वा “प्र “अर्चान् अर्चन्ति प्रयच्छन्ति स्तोतृभ्यः। "यत् ये च "वियोतारः दुःखानाम् अमिश्रयितार: “अमूराः अमूढाः "वि "उच्छान् उच्छन्ति तमो विवासयन्ति देवाः । ते "विधातारः फलानां कर्तारः "अजस्राः नित्याः "वि “दधुः कुर्वन्त्यभिमतम् । किंच “ऋतधीतयः सत्यकर्माणः "दस्माः दर्शनीयाः “ते “रुरुचन्त रोचन्ते ॥


प्र प॒स्त्या॒३॒॑मदि॑तिं॒ सिन्धु॑म॒र्कैः स्व॒स्तिमी॑ळे स॒ख्याय॑ दे॒वीम् ।

उ॒भे यथा॑ नो॒ अह॑नी नि॒पात॑ उ॒षासा॒नक्ता॑ करता॒मद॑ब्धे ॥३

प्र । प॒स्त्या॑म् । अदि॑तिम् । सिन्धु॑म् । अ॒र्कैः । स्व॒स्तिम् । ई॒ळे॒ । स॒ख्याय॑ । दे॒वीम् ।

उ॒भे इति॑ । यथा॑ । नः॒ । अह॑नी॒ इति॑ । नि॒ऽपातः॑ । उ॒षसा॒नक्ता॑ । क॒र॒ता॒म् । अद॑ब्धे॒ इति॑ ॥३

प्र । पस्त्याम् । अदितिम् । सिन्धुम् । अर्कैः । स्वस्तिम् । ईळे । सख्याय । देवीम् ।

उभे इति । यथा । नः । अहनी इति । निऽपातः । उषसानक्ता । करताम् । अदब्धे इति ॥३

"पस्त्यां सर्वैर्गन्तव्याम् अदितिम् अदीनां देवमातरं तां "देवीं “सिन्धुं स्यन्दनशीलां नद्यभिमानिदेवीं "स्वस्तिं सुखनिवासामेतन्नामिकां देवीं "सख्याय अनुकूल्याय “अर्कैः मन्त्रैः “ईळे स्तौमि। "उभे "अहनी द्यावापृथिव्यौ "यथा "नः अस्मान् "निपातः नितरां पातः तथा स्तौमि । "उषासानक्ता अहोरात्राभिमानिदेवते "अदब्धे अदम्भनीये "करतां कुरुताम् । अभिमतमिति शेषः ॥


व्य॑र्य॒मा वरु॑णश्चेति॒ पन्था॑मि॒षस्पति॑ः सुवि॒तं गा॒तुम॒ग्निः ।

इन्द्रा॑विष्णू नृ॒वदु॒ षु स्तवा॑ना॒ शर्म॑ नो यन्त॒मम॑व॒द्वरू॑थम् ॥४

वि । अ॒र्य॒मा । वरु॑णः । चे॒ति॒ । पन्था॑म् । इ॒षः । पतिः॑ । सु॒वि॒तम् । गा॒तुम् । अ॒ग्निः ।

इन्द्रा॑विष्णू॒ इति॑ । नृ॒ऽवत् । ऊं॒ इति॑ । सु । स्तवा॑ना । शर्म॑ । नः॒ । य॒न्त॒म् । अम॑ऽवत् । वरू॑थम् ॥४

वि । अर्यमा । वरुणः । चेति । पन्थाम् । इषः । पतिः । सुवितम् । गातुम् । अग्निः ।

इन्द्राविष्णू इति । नृऽवत् । ऊं इति । सु । स्तवाना । शर्म । नः । यन्तम् । अमऽवत् । वरूथम् ॥४

“अर्यमा देवः अस्माकं "पन्थां यज्ञादिमार्गं “वि “चेति ज्ञापयति । तथा “वरुणः वि चेति । “इषः अन्नस्य हविर्लक्षणस्य “पतिः पालकः “अग्निः "सुवितं सुखकरं "गातुं गमनं मार्गं वा स्वर्गादेः वि चेति । "इन्द्राविष्णू 'सु सुष्ठु "स्तवाना स्तूयमानौ "नृवत् मनुष्यवत् मनुष्योपेतं “वरूथं वरणीयम् "अमवत् बलोपेतं "शर्म गृहं सुखं वा "नः अस्माकं "यन्तं यच्छतम् । “उ पूरणः ॥


आ पर्व॑तस्य म॒रुता॒मवां॑सि दे॒वस्य॑ त्रा॒तुर॑व्रि॒ भग॑स्य ।

पात्पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया॑दु॒त न॑ उरुष्येत् ॥५

आ । पर्व॑तस्य । म॒रुता॑म् । अवां॑सि । दे॒वस्य॑ । त्रा॒तुः । अ॒व्रि॒ । भग॑स्य ।

पात् । पतिः॑ । जन्या॑त् । अंह॑सः । नः॒ । मि॒त्रः । मि॒त्रिया॑त् । उ॒त । नः॒ । उ॒रु॒ष्ये॒त् ॥५

आ । पर्वतस्य । मरुताम् । अवांसि । देवस्य । त्रातुः । अव्रि । भगस्य ।

पात् । पतिः । जन्यात् । अंहसः । नः । मित्रः । मित्रियात् । उत । नः । उरुष्येत् ॥५

“पर्वतस्य इन्द्रसखस्य एतन्नामकस्य “देवस्य "मरुतां च “ञातुः रक्षकस्य “भगस्य देवस्य च “अवांसि रक्षणानि “आ “अव्रि आवृणे । किंच "पतिः वरुणो देवः “जन्यात् जनसंबन्धात् "अंहसः पापात् "नः अस्मान् "पात् पातु रक्षतु । "उत अपि च "मित्रः च "मित्रियात् मित्रभावेन "नः अस्मान् उरुष्येत् रक्षतु ॥ ॥ ६ ॥


नू रो॑दसी॒ अहि॑ना बु॒ध्न्ये॑न स्तुवी॒त दे॑वी॒ अप्ये॑भिरि॒ष्टैः ।

स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो॑ घ॒र्मस्व॑रसो न॒द्यो॒३॒॑ अप॑ व्रन् ॥६

नु । रो॒द॒सी॒ इति॑ । अहि॑ना । बु॒ध्न्ये॑न । स्तु॒वी॒त । दे॒वी॒ इति॑ । अप्ये॑भिः । इ॒ष्टैः ।

स॒मु॒द्रम् । न । स॒म्ऽचर॑णे । स॒नि॒ष्यवः॑ । घ॒र्मऽस्व॑रसः । न॒द्यः॑ । अप॑ । व्र॒न् ॥६

नु । रोदसी इति । अहिना । बुध्न्येन । स्तुवीत । देवी इति । अप्येभिः । इष्टैः ।

समुद्रम् । न । सम्ऽचरणे । सनिष्यवः । घर्मऽस्वरसः । नद्यः । अप । व्रन् ॥६

हे "रोदसी द्यावापृथिव्यौ युवाम् "अहिना “बुध्न्येन अहिर्बुध्न्यनामकेन देवेन सह "नु क्षिप्रम् “अप्येभिः आपनीयैः "इष्टैः कामैर्निमित्तभूतैः "स्तुवीत स्तुवे । "सनिष्यवः धनानां संभक्तुमिच्छन्तः “संचरणे संचाराय समुद्रमध्यगमनाय "समुद्रं "न समुद्रमिव । तं यथा स्तुवन्ति तद्वत् । यस्मादेते देवाः “घर्मस्वरसः दीप्तध्वनयः "नद्यः नदीः “अप “व्रन् अपवृण्वन्तीति परोक्ष इव । अथवा ते देवा नदीरपवृण्वन्तु इत्याशीः । तस्मात् स्तुवे इति संबन्धः ॥


दे॒वैर्नो॑ दे॒व्यदि॑ति॒र्नि पा॑तु दे॒वस्त्रा॒ता त्रा॑यता॒मप्र॑युच्छन् ।

न॒हि मि॒त्रस्य॒ वरु॑णस्य धा॒सिमर्हा॑मसि प्र॒मियं॒ सान्व॒ग्नेः ॥७

दे॒वैः । नः॒ । दे॒वी । अदि॑तिः । नि । पा॒तु॒ । दे॒वः । त्रा॒ता । त्रा॒य॒ता॒म् । अप्र॑ऽयुच्छन् ।

न॒हि । मि॒त्रस्य॑ । वरु॑णस्य । धा॒सिम् । अर्हा॑मसि । प्र॒ऽमिय॑म् । सानु॑ । अ॒ग्नेः ॥७

देवैः । नः । देवी । अदितिः । नि । पातु । देवः । त्राता । त्रायताम् । अप्रऽयुच्छन् ।

नहि । मित्रस्य । वरुणस्य । धासिम् । अर्हामसि । प्रऽमियम् । सानु । अग्नेः ॥७

"अदितिः “देवी अदीना देवमाता "देवैः अन्यैर्मित्रादिभिः सह "नः अस्मान् "नि "पातु पालयतु। तथा “त्राता पालकः "देवः । इन्द्रः इत्यर्थः । सोऽपि “अप्रयुच्छन् अप्रमाद्यन् "त्रायताम् । वयं च "मित्रस्य "वरुणस्य "अग्नेः च "सानु समुच्छ्रितं “धासिम् अन्नं सोमादिलक्षणं “प्रमियं हिंसितुं "नहि "अर्हामसि अर्हामः । समर्था भवामः । किंत्वनुष्ठानेन संवर्धितुम् अर्हाम इत्यर्थः ॥


अ॒ग्निरी॑शे वस॒व्य॑स्या॒ग्निर्म॒हः सौभ॑गस्य ।

तान्य॒स्मभ्यं॑ रासते ॥८

अ॒ग्निः । ई॒शे॒ । व॒स॒व्य॑स्य । अ॒ग्निः । म॒हः । सौभ॑गस्य ।

तानि॑ । अ॒स्मभ्य॑म् । रा॒स॒ते॒ ॥८

अग्निः । ईशे । वसव्यस्य । अग्निः । महः । सौभगस्य ।

तानि । अस्मभ्यम् । रासते ॥८

"अग्निः देवः "वसव्यस्य धनसमूहस्य “ईशे ईष्टे दातुम् । तथा “अग्निः “महः महतः "सौभगस्य सुभगत्वस्यापि ईशे । अतः "तानि धनानि सौभाग्यं च "अस्मभ्यं "रासते ददातु ॥


उषो॑ मघो॒न्या व॑ह॒ सूनृ॑ते॒ वार्या॑ पु॒रु ।

अ॒स्मभ्यं॑ वाजिनीवति ॥९

उषः॑ । म॒घो॒नि॒ । आ । व॒ह॒ । सूनृ॑ते । वार्या॑ । पु॒रु ।

अ॒स्मभ्य॑म् । वा॒जि॒नी॒ऽव॒ति॒ ॥९

उषः । मघोनि । आ । वह । सूनृते । वार्या । पुरु ।

अस्मभ्यम् । वाजिनीऽवति ॥९

हे "उषः हे "मघोनि धनवति हे "सूनृते प्रियसत्यरूपवागभिमानिनि हे "वाजिनीवति अन्नवति देवि “अस्मभ्यं "वार्या वरणीयानि “पुरु बहूनि धनानि “आ “वह प्रापय ॥


तत्सु न॑ः सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मा ।

इन्द्रो॑ नो॒ राध॒सा ग॑मत् ॥१०

तत् । सु । नः॒ । स॒वि॒ता । भगः॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा ।

इन्द्रः॑ । नः॒ । राध॑सा । आ । ग॒म॒त् ॥१०

तत् । सु । नः । सविता । भगः । वरुणः । मित्रः । अर्यमा ।

इन्द्रः । नः । राधसा । आ । गमत् ॥१०

येन "राधसा धनेन सह "सविता "भगो "वरुणो "मित्रोऽर्यमा "इन्द्रः प्रत्येकम् “आ “गमत् आगच्छति यज्ञम् । "तत् राधो धनं ते देवाः "नः अस्मभ्यं "सु सुष्ठु प्रयच्छन्त्विति शेषः ॥ ॥ ७ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५५&oldid=198715" इत्यस्माद् प्रतिप्राप्तम्