ऋग्वेदः सूक्तं ४.३३

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ४.३२ ऋग्वेदः - मण्डल ४
सूक्तं ४.३३
वामदेवो गौतमः
सूक्तं ४.३४ →
दे. ऋभवः। त्रिष्टुप्


प्र ऋभुभ्यो दूतमिव वाचमिष्य उपस्तिरे श्वैतरीं धेनुमीळे ।
ये वातजूतास्तरणिभिरेवैः परि द्यां सद्यो अपसो बभूवुः ॥१॥
यदारमक्रन्नृभवः पितृभ्यां परिविष्टी वेषणा दंसनाभिः ।
आदिद्देवानामुप सख्यमायन्धीरासः पुष्टिमवहन्मनायै ॥२॥
पुनर्ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना ।
ते वाजो विभ्वाँ ऋभुरिन्द्रवन्तो मधुप्सरसो नोऽवन्तु यज्ञम् ॥३॥
यत्संवत्समृभवो गामरक्षन्यत्संवत्समृभवो मा अपिंशन् ।
यत्संवत्समभरन्भासो अस्यास्ताभिः शमीभिरमृतत्वमाशुः ॥४॥
ज्येष्ठ आह चमसा द्वा करेति कनीयान्त्रीन्कृणवामेत्याह ।
कनिष्ठ आह चतुरस्करेति त्वष्ट ऋभवस्तत्पनयद्वचो वः ॥५॥
सत्यमूचुर्नर एवा हि चक्रुरनु स्वधामृभवो जग्मुरेताम् ।
विभ्राजमानाँश्चमसाँ अहेवावेनत्त्वष्टा चतुरो ददृश्वान् ॥६॥
द्वादश द्यून्यदगोह्यस्यातिथ्ये रणन्नृभवः ससन्तः ।
सुक्षेत्राकृण्वन्ननयन्त सिन्धून्धन्वातिष्ठन्नोषधीर्निम्नमापः ॥७॥
रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् ।
त आ तक्षन्त्वृभवो रयिं नः स्ववसः स्वपसः सुहस्ताः ॥८॥
अपो ह्येषामजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः ।
वाजो देवानामभवत्सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा ॥९॥
ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा ।
ते रायस्पोषं द्रविणान्यस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् ॥१०॥
इदाह्नः पीतिमुत वो मदं धुर्न ऋते श्रान्तस्य सख्याय देवाः ।
ते नूनमस्मे ऋभवो वसूनि तृतीये अस्मिन्सवने दधात ॥११॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

चतुर्थेऽनुवाके त्रयोदश सूक्तानि । तत्र ‘प्र ऋभुभ्यः' इत्येकादशर्चं प्रथमं सूक्तं वामदेवस्यार्षं त्रैष्टुभम् । तुह्यादिपरिभाषया इदमादि सूक्तपञ्चकमृभुदेवताकम् । अत्रानुक्रमणिका - ' प्र ऋभुभ्य एकादशार्भवं वा ' इति । व्यूढे दशरात्रे चतुर्थेऽहनि वैश्वदेवशस्त्रे आर्भवनिविद्धानीयमिदम् । तथा च सूत्रितं- प्र ऋभुभ्यः प्र शुक्रैत्विति वैश्वदेवम् ' ( आश्व. श्रौ. ८. ८) इति ॥


प्र ऋ॒भुभ्यो॑ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी॑ळे ।

ये वात॑जूतास्त॒रणि॑भि॒रेवै॒ः परि॒ द्यां स॒द्यो अ॒पसो॑ बभू॒वुः ॥१

प्र । ऋ॒भुऽभ्यः॑ । दू॒तम्ऽइ॑व । वाच॑म् । इ॒ष्ये॒ । उ॒प॒ऽस्तिरे॑ । श्वैत॑रीम् । धे॒नुम् । ई॒ळे॒ ।

ये । वात॑ऽजूताः । त॒रणि॑ऽभिः । एवैः॑ । परि॑ । द्याम् । स॒द्यः । अ॒पसः॑ । ब॒भू॒वुः ॥१

प्र । ऋभुऽभ्यः । दूतम्ऽइव । वाचम् । इष्ये । उपऽस्तिरे । श्वैतरीम् । धेनुम् । ईळे ।

ये । वातऽजूताः । तरणिऽभिः । एवैः । परि । द्याम् । सद्यः । अपसः । बभूवुः ॥१

तत्र ऋभूणां पूर्वं मनुष्याणामेव सतां तपसा देवत्वप्राप्तिः ‘आर्भवं शंसत्यृभवो वै देवेभ्यः' ( ऐ. ब्रा. ३. ३०) इत्यत्र ब्राह्मणे स्पष्टमाम्नाता । केचन ऋभवो नाम सूर्यर३मय इत्याचक्षते । अहं यजमानः “ऋभुभ्यः उरुभासमानेभ्य एतन्नामकेभ्यो देवेभ्यः “वाचं स्तुतिरूपां “प्र “इष्ये प्रेरयामि । किमिव । “दूतमिव । यथा दूतं स्वकार्यं प्रति प्रेषयन्ति तद्वत् । किंच “उपस्तिरे सोमोपस्तरणाय “श्वैतरीं पयोयुक्तां श्वेततरां वा “धेनुमीळे याचामि ऋभून् । "ये ऋभवः "वातजूताः वातसमानगतयः “अपसः जगदुपकारिकर्माणः सन्तः “तरणिभिः तारकैः “एवैः गमनशीलैरश्वैः “द्याम् अन्तरिक्षं “सद्यः तदानीमेव “परि “बभूवुः परिभवन्ति सर्वतो व्याप्नुवन्ति । अथ रश्मय एव ऋभव इत्युक्तत्वादादित्यं वा रश्मयः परितो व्याप्नुवन्ति ॥


य॒दार॒मक्र॑न्नृ॒भव॑ः पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा॑ दं॒सना॑भिः ।

आदिद्दे॒वाना॒मुप॑ स॒ख्यमा॑य॒न्धीरा॑सः पु॒ष्टिम॑वहन्म॒नायै॑ ॥२

य॒दा । अर॑म् । अक्र॑न् । ऋ॒भवः॑ । पि॒तृऽभ्या॑म् । परि॑ऽविष्टी । वे॒षणा॑ । दं॒सना॑भिः ।

आत् । इत् । दे॒वाना॑म् । उप॑ । स॒ख्यम् । आ॒य॒न् । धीरा॑सः । पु॒ष्टिम् । अ॒व॒ह॒न् । म॒नायै॑ ॥२

यदा । अरम् । अक्रन् । ऋभवः । पितृऽभ्याम् । परिऽविष्टी । वेषणा । दंसनाभिः ।

आत् । इत् । देवानाम् । उप । सख्यम् । आयन् । धीरासः । पुष्टिम् । अवहन् । मनायै ॥२

"यदा यस्मिन् काले “ऋभवः “पितृभ्यां मातापितृभ्यां “परिविष्टी परिवेषणेन परिचर्यया "वेषणा वेषणेन व्याप्त्या । यद्वा वेषेण जरद्रूपयोर्युवत्वकरणेन "दंसनाभिः अन्यैश्चमसनिर्माणादिकर्मभिः "अरम् अत्यर्थम् “अक्रन् “आदित् अनन्तरमेव “देवानाम् इन्द्रादीनां “सख्यं सखित्वं समानख्यानत्वं देवतात्वम् “उप आयन् आगमन् । “ युवशा कर्त्वा' ( ऋ. सं. १.१६१. ३ ) इति देवत्वप्राप्तेरेकान्तत्वेन देवैरुक्तत्वादिति भावः । किंच “धीरासः धीरा बुद्धिमन्तस्तेषां “पुष्टिं गवादिविषयां “मनायै मतिकृते यजमानाय “अवहन वहन्ति धारयन्ति । यद्वा । सविषयां पुष्टिं मनायै मनसे प्रकृष्टमनस्कत्वायावहन् ।


पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा॑ना॒ सना॒ यूपे॑व जर॒णा शया॑ना ।

ते वाजो॒ विभ्वाँ॑ ऋ॒भुरिन्द्र॑वन्तो॒ मधु॑प्सरसो नोऽवन्तु य॒ज्ञम् ॥३

पुनः॑ । ये । च॒क्रुः । पि॒तरा॑ । युवा॑ना । सना॑ । यूपा॑ऽइव । ज॒र॒णा । शया॑ना ।

ते । वाजः॑ । विऽभ्वा॑ । ऋ॒भुः । इन्द्र॑ऽवन्तः । मधु॑ऽप्सरसः । नः॒ । अ॒व॒न्तु॒ । य॒ज्ञम् ॥३

पुनः । ये । चक्रुः । पितरा । युवाना । सना । यूपाऽइव । जरणा । शयाना ।

ते । वाजः । विऽभ्वा । ऋभुः । इन्द्रऽवन्तः । मधुऽप्सरसः । नः । अवन्तु । यज्ञम् ॥३

“ये ऋभवः “पितरा मातापितरौ "यूपेव छिन्नस्थाणू इव "जरणा जीर्णौ “शयाना शयानौ “पुनः “सना सदा “युवाना युवानौ “चक्रुः नित्यतरुणावकुर्वन् । “ते “वाजो “विभ्वा “ऋभुः च एतन्नामकास्त्रयः सुधन्वन आङ्गिरसस्य पुत्रा ऋभवः ”इन्द्रवन्तः अनुग्राहकेणेन्द्रेण तद्वन्तः “मधुप्सरसः मधुरस्य सोमरसस्य भक्षयितारः मनोहररूपा वा “नः अस्मदीयं “यज्ञम् “अवन्तु रक्षन्तु गच्छन्तु वा ।


यत्सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒ मा अपिं॑शन् ।

यत्सं॒वत्स॒मभ॑र॒न्भासो॑ अस्या॒स्ताभि॒ः शमी॑भिरमृत॒त्वमा॑शुः ॥४

यत् । स॒म्ऽवत्स॑म् । ऋ॒भवः॑ । गाम् । अर॑क्षन् । यत् । स॒म्ऽवत्स॑म् । ऋ॒भवः॑ । माः । अपिं॑शन् ।

यत् । स॒म्ऽवत्स॑म् । अ॒भ॑रन् । भासः॑ । अ॒स्याः॒ । ताभिः॑ । शमी॑भिः । अ॒मृ॒त॒ऽत्वम् । आ॒शुः॒ ॥४

यत् । सम्ऽवत्सम् । ऋभवः । गाम् । अरक्षन् । यत् । सम्ऽवत्सम् । ऋभवः । माः । अपिंशन् ।

यत् । सम्ऽवत्सम् । अभरन् । भासः । अस्याः । ताभिः । शमीभिः । अमृतऽत्वम् । आशुः ॥४

“संवत्सम् । संवसन्ति भूतान्यस्मिन्निति संवत्सः संवत्सरः। संवत्सरपर्यन्तम् “ऋभवो “गां मृताम् “अरक्षन् अपालयन् । स्वसामर्थ्यादिति “यत् यदेतत्कर्मास्ति । तथा "संवत्सं संवत्सरम् “ऋभवो “माः तस्या एवं गोर्मांसम् “अपिंशन् अवयवानकुर्वन्निति “यत् । किंच “संवत्सं संवत्सरपर्यन्तम् “अस्याः "भासः “अभरन् दीप्तीः अवयवशोभा अकुर्वन्निति “यत् “ताभिः “शमीभिः मृताया गोर्नवीकरणविषयैः कर्मभिः "अमृतत्वमाशुः देवत्वं प्राप्ताः । ‘ धेनुः कर्त्वा ' इति देवत्वप्राप्तिसाधनत्वेन देवैः प्रतिश्रुतत्वात् । यद्वा । अत्र संवत्समित्येतत् वत्सेन सहेति व्याख्येयम् ।


ज्ये॒ष्ठ आ॑ह चम॒सा द्वा क॒रेति॒ कनी॑या॒न्त्रीन्कृ॑णवा॒मेत्या॑ह ।

क॒नि॒ष्ठ आ॑ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत्प॑नय॒द्वचो॑ वः ॥५

ज्ये॒ष्ठः । आ॒ह॒ । च॒म॒सा । द्वा । क॒र॒ । इति॑ । कनी॑यान् । त्रीन् । कृ॒ण॒वा॒म॒ । इति॑ । आ॒ह॒ ।

क॒नि॒ष्ठः । आ॒ह॒ । च॒तुरः॑ । क॒र॒ । इति॑ । त्वष्टा॑ । ऋ॒भ॒वः॒ । तत् । प॒न॒य॒त् । वचः॑ । वः॒ ॥५

ज्येष्ठः । आह । चमसा । द्वा । कर । इति । कनीयान् । त्रीन् । कृणवाम । इति । आह ।

कनिष्ठः । आह । चतुरः । कर । इति । त्वष्टा । ऋभवः । तत् । पनयत् । वचः । वः ॥५

' एकं चमसं चतुरस्कृणोतन ' ( ऋ. सं. १. १६१. २ ) इति यदा देवदूतोऽग्निर्ऋभूनाह देवत्वप्राप्त्युक्थेन तदा तेषु मध्ये देवत्वप्राप्त्युत्कः एकः “ज्येष्ठः ऋभुरितरौ “आह । किमिति । उच्यते । “चमसा “द्वा “करेति । एकमेव सन्तं द्वौ कृणवामेति । “कनीयान् तदनन्तरो विभ्वा “त्रीन् “कृणवाम करवाम “इत्याह । तदवरः “कनिष्ठः वाजः “चतुरस्कर चतुर्धा करवाम “इति “आह “तत् एव चतुष्करणरूपं हे “ऋभवः “त्वष्टा युष्मद्गुरुः “वः “वचः युष्मद्वचनं “पनयत् अस्तौत् । अङ्गीचकार इत्यर्थः ॥ ॥ १ ॥


स॒त्यमू॑चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो॑ जग्मुरे॒ताम् ।

वि॒भ्राज॑मानाँश्चम॒साँ अहे॒वावे॑न॒त्त्वष्टा॑ च॒तुरो॑ ददृ॒श्वान् ॥६

स॒त्यम् । ऊ॒चुः॒ । नरः॑ । ए॒व । हि । च॒क्रुः । अनु॑ । स्व॒धाम् । ऋ॒भवः॑ । ज॒ग्मुः॒ । ए॒ताम् ।

वि॒ऽभ्राज॑मानान् । च॒म॒सान् । अहा॑ऽइव । अवे॑नत् । त्वष्टा॑ । च॒तुरः॑ । द॒दृ॒श्वान् ॥६

सत्यम् । ऊचुः । नरः । एव । हि । चक्रुः । अनु । स्वधाम् । ऋभवः । जग्मुः । एताम् ।

विऽभ्राजमानान् । चमसान् । अहाऽइव । अवेनत् । त्वष्टा । चतुरः । ददृश्वान् ॥६

“नरः मनुष्यरूपा ऋभवः "सत्यमूचुः सत्यमेवाब्रुवन् । “हि यस्मादेते “एव एवं “चक्रुः चतुरोऽकुर्वन् । यथोक्तं तथैव कृतत्वात् इत्यभिप्रायः । “अनु चतुर्धाकरणानन्तरम् "एतां तृतीयसवनगतां “स्वधां सोमाख्यममृतम् “ऋभवो “जग्मुः । ‘एकं चमसं चतुरस्कृणोतन, साकं देवैर्यज्ञियासो भविष्यथ' (ऋ. सं. १.१६१. २) इति श्रुतत्वात् । अथ “त्वष्टा देवः “विभ्राजमानान् "अहेव अहानीव दीप्यमानान् “चमसान् “चतुरो “ददृश्वान् दृष्टवान् सन् "अवेनत् अकामयत॥ अङ्गीचकारेत्यर्थः ॥


द्वाद॑श॒ द्यून्यदगो॑ह्यस्याति॒थ्ये रण॑न्नृ॒भव॑ः स॒सन्त॑ः ।

सु॒क्षेत्रा॑कृण्व॒न्नन॑यन्त॒ सिन्धू॒न्धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमाप॑ः ॥७

द्वाद॑श । द्यून् । यत् । अगो॑ह्यस्य । आ॒ति॒थ्ये । रण॑न् । ऋ॒भवः॑ । स॒सन्तः॑ ।

सु॒ऽक्षेत्रा॑ । अ॒कृ॒ण्व॒न् । अन॑यन्त । सिन्धू॑न् । धन्व॑ । आ । अ॒ति॒ष्ठ॒न् । ओष॑धीः । नि॒म्नम् । आपः॑ ॥७

द्वादश । द्यून् । यत् । अगोह्यस्य । आतिथ्ये । रणन् । ऋभवः । ससन्तः ।

सुऽक्षेत्रा । अकृण्वन् । अनयन्त । सिन्धून् । धन्व । आ । अतिष्ठन् । ओषधीः । निम्नम् । आपः ॥७

तत्र रश्मय एव ऋभव इत्युक्तत्वात् तद्रूपेण स्तूयन्ते । “यत् यदा “द्वादश “द्यून् दिवसान् । आर्द्रादिद्वादशवृष्टिनक्षत्राणीत्यर्थः । "अगोह्यस्य अगोप्यस्यादित्यस्य गृहे “आतिथ्ये । अकस्मादागतोऽतिथिः । तदुचितं सत्काररूपं कर्म आतिथ्यम् । तदर्थं “ससन्तः स्वपन्तः सुखेन निवसन्तः “ऋभवः “रणन् रमन्ते । ‘ अगोह्यस्य यदसस्तना गृहे ' ( ऋ. सं. १. १६१. ११.) इत्युक्तम् । तदानीं “सुक्षेत्राकृण्वन् । अकृष्टानि शून्यानि क्षेत्राणि वृष्ट्या सस्यादिसमृद्धान्यकुर्वन् । सिन्धून् नदीः “अनयन्त प्रैरयन् । तस्मिन् काले “ओषधीः ओषधयः “धन्वं निरुदकस्थानमाश्रित्य “आतिष्ठन् । “निम्नं नीचस्थानम् “आपः अतिष्ठन् । ' उद्वत्स्वस्मा अकृणोतना तृणं निवत्स्वपः ' ( ऋ. सं. १. १६१. ११) इत्युक्तम् ॥


रथं॒ ये च॒क्रुः सु॒वृतं॑ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं॑ वि॒श्वरू॑पाम् ।

त आ त॑क्षन्त्वृ॒भवो॑ र॒यिं न॒ः स्वव॑स॒ः स्वप॑सः सु॒हस्ता॑ः ॥८

रथ॑म् । ये । च॒क्रुः । सु॒ऽवृत॑म् । न॒रे॒ऽस्थाम् । ये । धे॒नुम् । वि॒श्व॒ऽजुव॑म् । वि॒श्वऽरू॑पाम् ।

ते । आ । त॒क्ष॒न्तु॒ । ऋ॒भवः॑ । र॒यिम् । नः॒ । सु॒ऽअव॑सः । सु॒ऽअप॑सः । सु॒ऽहस्ताः॑ ॥८

रथम् । ये । चक्रुः । सुऽवृतम् । नरेऽस्थाम् । ये । धेनुम् । विश्वऽजुवम् । विश्वऽरूपाम् ।

ते । आ । तक्षन्तु । ऋभवः । रयिम् । नः । सुऽअवसः । सुऽअपसः । सुऽहस्ताः ॥८

"ये ऋभवः “सुवृतं सुचक्रं सुष्ठु वर्तमानं वा “नरेष्ठां नेतरि चक्रे वर्तमानं “रथं “चक्रुः । “ये च “विश्वजुवं विश्वस्य प्रेरयित्रीं “विश्वरूपां बहुरूपामेतन्नामिकां वा “धेनुं गां चक्रुः अकुर्वन् । बृहस्पतिर्विश्वरूपामुपाजत' ( ऋ. सं. १. १६१. ६ ) इति ह्युक्तम् । “ते महान्तः “ऋभवः “नः अस्माकं “रयिं धनम् "आ “तक्षन्तु सर्वतो निष्पादयन्तु । कीदृशास्त ऋभवः । “स्वपसः सुकर्माणः “स्ववसः शोभनान्नोपेताः सुरक्षणा वा "सुहस्ताः शोभनहस्ताः कुशलहस्ताः ॥


अपो॒ ह्ये॑षा॒मजु॑षन्त दे॒वा अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या॑नाः ।

वाजो॑ दे॒वाना॑मभवत्सु॒कर्मेन्द्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा॑ ॥९

अपः॑ । हि । ए॒षा॒म् । अजु॑षन्त । दे॒वाः । अ॒भि । क्रत्वा॑ । मन॑सा । दीध्या॑नाः ।

वाजः॑ । दे॒वाना॑म् । अ॒भ॒व॒त् । सु॒ऽकर्मा॑ । इन्द्र॑स्य । ऋ॒भु॒क्षाः । वरु॑णस्य । विऽभ्वा॑ ॥९

अपः । हि । एषाम् । अजुषन्त । देवाः । अभि । क्रत्वा । मनसा । दीध्यानाः ।

वाजः । देवानाम् । अभवत् । सुऽकर्मा । इन्द्रस्य । ऋभुक्षाः । वरुणस्य । विऽभ्वा ॥९

“एषाम् ऋभूणाम् "अपः अश्वरथनिर्माणादिरूपं कर्म “देवाः इन्द्रादयः "अजुषन्त असेवन्त । ‘ इन्द्रो हरी युयुजे अश्विना रथम् '(ऋ. सं. १.१६१.६) इत्यादिमन्त्रोक्त प्रकारेण स्वीकृतवन्त इत्यर्थः । कीदृशास्ते। “क्रत्वा वरप्रदानरूपेण कर्मणा "मनसा शोभनेन चित्तेनानुग्रहयुक्तेन “अभि "दीध्यानाः दीप्यमानाः । देवानाम् अनुग्रहेण किं लब्धमित्याह । “सुकर्मा शोभनव्यापारः “वाजः कनीयान् “देवानां सर्वेषां संबन्धी “अभवत् । तथा “इन्द्रस्य संबन्धी “ऋभुक्षाः ऋभुज्येष्ठः । “विभ्वा मध्यमः “वरुणस्य संबन्ध्यभवत् । “हि पूरणः ॥


ये हरी॑ मे॒धयो॒क्था मद॑न्त॒ इन्द्रा॑य च॒क्रुः सु॒युजा॒ ये अश्वा॑ ।

ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः क्षेम॒यन्तो॒ न मि॒त्रम् ॥१०

ये । हरी॒ इति॑ । मे॒धया॑ । उ॒क्था । मद॑न्तः । इन्द्रा॑य । च॒क्रुः । सु॒ऽयुजा॑ । ये । अश्वा॑ ।

ते । रा॒यः । पोष॑म् । द्रवि॑णानि । अ॒स्मे इति॑ । ध॒त्त । ऋ॒भ॒वः॒ । क्षे॒म॒ऽयन्तः॑ । न । मि॒त्रम् ॥१०

ये । हरी इति । मेधया । उक्था । मदन्तः । इन्द्राय । चक्रुः । सुऽयुजा । ये । अश्वा ।

ते । रायः । पोषम् । द्रविणानि । अस्मे इति । धत्त । ऋभवः । क्षेमऽयन्तः । न । मित्रम् ॥१०

"ये ऋभवः "हरी अश्वौ “मेधया प्रज्ञया “उक्था उक्थैः स्तुतिभिः "मदन्तः हर्षयन्तः “चक्रुः । “ये च तौ "सुयुजा सुयुजौ सुयोजनावश्वौ “इन्द्राय इन्द्रार्थं चक्रुः अकुर्वन् । हे “ऋभवः “ते यूयं “रायस्पोषं धनपुष्टिं “द्रविणानि गवादिधनानि च सुखानि वा “अस्मे अस्मासु “धत्त धारयत । किमिव । “क्षेमयन्तः क्षेममिच्छन्तः “मित्रं “न मित्रमिव । अत्र यद्यप्येक एव ऋभुनामा तत्संबन्धात् इतरेऽप्यृभव उच्यन्ते प्राणभृन्न्यायेन ॥


इ॒दाह्न॑ः पी॒तिमु॒त वो॒ मदं॑ धु॒र्न ऋ॒ते श्रा॒न्तस्य॑ स॒ख्याय॑ दे॒वाः ।

ते नू॒नम॒स्मे ऋ॑भवो॒ वसू॑नि तृ॒तीये॑ अ॒स्मिन्सव॑ने दधात ॥११

इ॒दा । अह्नः॑ । पी॒तिम् । उ॒त । वः॒ । मद॑म् । धुः॒ । न । ऋ॒ते । श्रा॒न्तस्य॑ । स॒ख्याय॑ । दे॒वाः ।

ते । नू॒नम् । अ॒स्मे इति॑ । ऋ॒भ॒वः॒ । वसू॑नि । तृ॒तीये॑ । अ॒स्मिन् । सव॑ने । द॒धा॒त॒ ॥११

इदा । अह्नः । पीतिम् । उत । वः । मदम् । धुः । न । ऋते । श्रान्तस्य । सख्याय । देवाः ।

ते । नूनम् । अस्मे इति । ऋभवः । वसूनि । तृतीये । अस्मिन् । सवने । दधात ॥११

“इदा इदानीं चमसादिनिर्माणानन्तरम् “अह्नः सुत्याहसंबन्धिनस्तृतीये सवने “पीतिं सोमपानम् “उत अपि च "मदं तज्जनितं “वः युष्माकं “धुः ददुर्देवाः । “श्रान्तस्य श्रान्तात्तपोयुक्तात् "ऋते “सख्याय सखित्वाय “न भवन्ति “देवाः । यत एते श्रान्ता अतो ददुरित्यर्थः । हे “ऋभवः “ते महान्तो यूयं "नूनं निश्चयम् “अस्मे अस्मासु “अस्मिन् “तृतीये “सवने “वसूनि धनानि “दधात धारयत ॥ ॥ २ ॥

[सम्पाद्यताम्]

टिप्पणी

ऋभु उपरि टिप्पणी

४.३३.४

यत्सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒ मा अपिं॑शन् ।

यत्सं॒वत्स॒मभ॑र॒न्भासो॑ अस्या॒स्ताभि॒ः शमी॑भिरमृत॒त्वमा॑शुः ॥४

शम्योपरि टिप्पणी

४.३३.९ वाजो देवानामभवत्सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा ॥९॥

वाजोपरि टिप्पणी


मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३३&oldid=214682" इत्यस्माद् पुनः प्राप्तिः