ऋग्वेदः सूक्तं ४.३०

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ४.२९ ऋग्वेदः - मण्डल ४
सूक्तं ४.३०
वामदेवो गौतमः
सूक्तं ४.३१ →
दे. इन्द्रः, ९-११ इन्द्रौषसौ। गायत्री ८, २४ अनुष्टुप्


नकिरिन्द्र त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन् ।
नकिरेवा यथा त्वम् ॥१॥
सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः ।
सत्रा महाँ असि श्रुतः ॥२॥
विश्वे चनेदना त्वा देवास इन्द्र युयुधुः ।
यदहा नक्तमातिरः ॥३॥
यत्रोत बाधितेभ्यश्चक्रं कुत्साय युध्यते ।
मुषाय इन्द्र सूर्यम् ॥४॥
यत्र देवाँ ऋघायतो विश्वाँ अयुध्य एक इत् ।
त्वमिन्द्र वनूँरहन् ॥५॥
यत्रोत मर्त्याय कमरिणा इन्द्र सूर्यम् ।
प्रावः शचीभिरेतशम् ॥६॥
किमादुतासि वृत्रहन्मघवन्मन्युमत्तमः ।
अत्राह दानुमातिरः ॥७॥
एतद्घेदुत वीर्यमिन्द्र चकर्थ पौंस्यम् ।
स्त्रियं यद्दुर्हणायुवं वधीर्दुहितरं दिवः ॥८॥
दिवश्चिद्घा दुहितरं महान्महीयमानाम् ।
उषासमिन्द्र सं पिणक् ॥९॥
अपोषा अनसः सरत्सम्पिष्टादह बिभ्युषी ।
नि यत्सीं शिश्नथद्वृषा ॥१०॥
एतदस्या अनः शये सुसम्पिष्टं विपाश्या ।
ससार सीं परावतः ॥११॥
उत सिन्धुं विबाल्यं वितस्थानामधि क्षमि ।
परि ष्ठा इन्द्र मायया ॥१२॥
उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् ।
पुरो यदस्य सम्पिणक् ॥१३॥
उत दासं कौलितरं बृहतः पर्वतादधि ।
अवाहन्निन्द्र शम्बरम् ॥१४॥
उत दासस्य वर्चिनः सहस्राणि शतावधीः ।
अधि पञ्च प्रधीँरिव ॥१५॥
उत त्यं पुत्रमग्रुवः परावृक्तं शतक्रतुः ।
उक्थेष्विन्द्र आभजत् ॥१६॥
उत त्या तुर्वशायदू अस्नातारा शचीपतिः ।
इन्द्रो विद्वाँ अपारयत् ॥१७॥
उत त्या सद्य आर्या सरयोरिन्द्र पारतः ।
अर्णाचित्ररथावधीः ॥१८॥
अनु द्वा जहिता नयोऽन्धं श्रोणं च वृत्रहन् ।
न तत्ते सुम्नमष्टवे ॥१९॥
शतमश्मन्मयीनां पुरामिन्द्रो व्यास्यत् ।
दिवोदासाय दाशुषे ॥२०॥
अस्वापयद्दभीतये सहस्रा त्रिंशतं हथैः ।
दासानामिन्द्रो मायया ॥२१॥
स घेदुतासि वृत्रहन्समान इन्द्र गोपतिः ।
यस्ता विश्वानि चिच्युषे ॥२२॥
उत नूनं यदिन्द्रियं करिष्या इन्द्र पौंस्यम् ।
अद्या नकिष्टदा मिनत् ॥२३॥
वामंवामं त आदुरे देवो ददात्वर्यमा ।
वामं पूषा वामं भगो वामं देवः करूळती ॥२४॥


सायणभाष्यम्

‘ नकिरिन्द्र ' इति चतुर्विंशत्यृचं नवमं सूक्तं वामदेवस्यार्षं गायत्रम् । अष्टमी चतुर्विंशी च द्वे अनुष्टुभौ । इन्द्रो देवता ।' दिवश्चिद्धा' इत्ययं तृच उषोदेवताक इन्द्रदेवताकश्च । तथा चानुक्रान्तं -- ‘नकिश्चतुर्विंशतिर्दिवश्चित्तृच उषस्यश्च गायत्रं ह्यष्टम्यन्त्ये चानुष्टुभौ ' इति । अतिरात्रे तृतीये पर्याये मैत्रावरुणशस्त्रे उत्तमावर्जमिदं सूक्तम् । तथा च सूत्रितं- नकिरिन्द्र त्वदुत्तर इत्युत्तमामुद्धरेत्' ( आश्व. श्रौ. ६. ४ ) इति ।।॥३॥


नकि॑रिंद्र॒ त्वदुत्त॑रो॒ न ज्यायाँ॑ अस्ति वृत्रहन् ।

नकि॑रे॒वा यथा॒ त्वं ॥१

नकिः॑ । इ॒न्द्र॒ । त्वत् । उत्ऽत॑रः । न । ज्याया॑न् । अ॒स्ति॒ । वृ॒त्र॒ऽह॒न् ।

नकिः॑ । ए॒व । यथा॑ । त्वम् ॥१

नकिः । इन्द्र । त्वत् । उत्ऽतरः । न । ज्यायान् । अस्ति । वृत्रऽहन् ।

नकिः । एव । यथा । त्वम् ॥१

हे "वृत्रहन् "इन्द्र वृत्रस्य नाशकेन्द्र । लोके एकोऽपति शेषः । "त्वत् त्वत्तः "उत्तरः उत्कृष्टतरः “नकिः "अस्ति न भवति । त्वत्तः “ज्यायान् प्रशस्यतरः एकोऽपि "न अस्ति । हे इन्द्र “त्वं लोके "यथा प्रसिद्धो भवसि तथाविध एकोऽपि “नकिरेव अस्ति नैव भवति । कश्चिदपि लोके इन्द्रसदृशो नास्तीत्यर्थः ।।


स॒त्रा ते॒ अनु॑ कृ॒ष्टयो॒ विश्वा॑ च॒क्रेव॑ वावृतुः ।

स॒त्रा म॒हाँ अ॑सि श्रु॒तः ॥२

स॒त्रा । ते॒ । अनु॑ । कृ॒ष्टयः॑ । विश्वा॑ । च॒क्राऽइ॑व । व॒वृ॒तुः॒ ।

स॒त्रा । म॒हान् । अ॒सि॒ । श्रु॒तः ॥२

सत्रा । ते । अनु । कृष्टयः । विश्वा । चक्राऽइव । ववृतुः ।

सत्रा । महान् । असि । श्रुतः ॥२

हे इन्द्र "कृष्टयः प्रजाः "ते त्वाम् "अनु लक्षीकृत्य "सत्रा सत्यमेव “ववृतुः वर्तन्ते । तत्र दृष्टान्तः । “विश्वा विश्वानि व्याप्तानि "चक्रेव चक्राणीव । यथा चक्राणि शकटमनुवर्तन्ते तद्वत् । हे इन्द्र "महान् त्वं "सत्रा सत्यमेव “श्रुतः विश्रुतः "असि । गुणैः प्रख्यातो भवसि ॥


विश्वे॑ च॒नेद॒ना त्वा॑ दे॒वास॑ इंद्र युयुधुः ।

यदहा॒ नक्त॒माति॑रः ॥३

विश्वे॑ । च॒न । इत् । अ॒ना । त्वा॒ । दे॒वासः॑ । इ॒न्द्र॒ । यु॒यु॒धुः॒ ।

यत् । अहा॑ । नक्त॑म् । आ । अति॑रः ॥३

विश्वे । चन । इत् । अना । त्वा । देवासः । इन्द्र । युयुधुः ।

यत् । अहा । नक्तम् । आ । अतिरः ॥३

हे “इन्द्र “विश्वे "चनेत् सर्वे एव "देवासः असुरान् विजिगीषवो देवाः "अना प्राणरूपेण बलेन “त्वा त्वां सहायं लब्ध्वा "युयुधुः असुरैः सह युद्धं चक्रुः । "यत् यस्मात् कारणात् "अहा अहःसु “नक्तं रात्रिषु च "आतिरः आ समन्तात् शत्रूनवधीः । अतः कारणात् युयुधुरिति पूर्वेण संबन्धः ।


यत्रो॒त बा॑धि॒तेभ्य॑श्च॒क्रं कुत्सा॑य॒ युध्य॑ते ।

मु॒षा॒य इं॑द्र॒ सूर्यं॑ ॥४

यत्र॑ । उ॒त । बा॒धि॒तेभ्यः॑ । च॒क्रम् । कुत्सा॑य । युध्य॑ते ।

मु॒षा॒यः । इ॒न्द्र॒ । सूर्य॑म् ॥४

यत्र । उत । बाधितेभ्यः । चक्रम् । कुत्साय । युध्यते ।

मुषायः । इन्द्र । सूर्यम् ॥४

"यत्र यस्मिन् युद्धे "उत अपि च हे "इन्द्र त्वं “बाधितेभ्यः कुत्ससहायेभ्यः "युध्यते युद्धं कुर्वते “कुत्साय च "सूर्यं सूर्यसंबन्धि "चक्रं "मुषायः अमुष्णाः । अपहृतवानसीत्यर्थः । तस्मिन् युद्धे ‘प्रावः शचीभिरेतशम् ' इति परेण संबन्धः ॥


यत्र॑ दे॒वाँ ऋ॑घाय॒तो विश्वाँ॒ अयु॑ध्य॒ एक॒ इत् ।

त्वमिं॑द्र व॒नूँरह॑न् ॥५

यत्र॑ । दे॒वान् । ऋ॒घा॒य॒तः । विश्वा॑न् । अयु॑ध्यः । एकः॑ । इत् ।

त्वम् । इ॒न्द्र॒ । व॒नून् । अह॑न् ॥५

यत्र । देवान् । ऋघायतः । विश्वान् । अयुध्यः । एकः । इत् ।

त्वम् । इन्द्र । वनून् । अहन् ॥५

हे "इन्द्र “त्वम् “एक "इत् असहाय एव "यत्र यस्मिन् संग्रामे “देवान् इन्द्रादीन् "ऋघायतः बाधमानान् "विश्वान् सर्वान् राक्षसादीन् "अयुध्यः युद्धमकरोः । तथा “वनृन् हिंसकान् "अहन् अवधीः ॥ ॥ १९ ॥


यत्रो॒त मर्त्या॑य॒ कमरि॑णा इंद्र॒ सूर्यं॑ ।

प्रावः॒ शची॑भि॒रेत॑शं ॥६

यत्र॑ । उ॒त । मर्त्या॑य । कम् । अरि॑णाः । इ॒न्द्र॒ । सूर्य॑म् ।

प्र । आ॒वः॒ । शची॑भिः । एत॑शम् ॥६

यत्र । उत । मर्त्याय । कम् । अरिणाः । इन्द्र । सूर्यम् ।

प्र । आवः । शचीभिः । एतशम् ॥६

“यत्र यस्मिन् संग्रामे “उत अपि च हे “इन्द्र त्वं "मर्त्याय मनुष्याय एतशाख्याय ऋषये "सूर्यम् “अरिणाः अहिंसीः । "कम् इति पूरणः । तदानीं "शचीभिः युद्धकर्मभिः "एतशम् एतत्संज्ञकमृषिं "प्रावः प्रकर्षेणारक्षः ।।॥ २ ॥


किमादु॒तासि॑ वृत्रह॒न्मघ॑वन्मन्यु॒मत्त॑मः ।

अत्राह॒ दानु॒माति॑रः ॥७

किम् । आत् । उ॒त । अ॒सि॒ । वृ॒त्र॒ऽह॒न् । मघ॑ऽवन् । म॒न्यु॒मत्ऽत॑मः ।

अत्र॑ । अह॑ । दानु॑म् । आ । अ॒ति॒रः॒ ॥७

किम् । आत् । उत । असि । वृत्रऽहन् । मघऽवन् । मन्युमत्ऽतमः ।

अत्र । अह । दानुम् । आ । अतिरः ॥७

हे "वृत्रहन् वृत्राणामावरकाणां तमसां हन्तः "मघवन् धनवन् इन्द्र त्वम् "आत् अनन्तरमेव “उत अपि च । "किम् इति प्रश्ने । “मन्युमत्तमः "असि अत्यन्तं क्रोधवान् भवसि । “अत्र अस्मिन्नन्तरिक्षे "अह एव "दानुं दनोः पुत्रं वृत्रम् "आतिरः आ समन्तादहिंसीः ।।॥३॥


ए॒तद्घेदु॒त वी॒र्य१॒॑मिंद्र॑ च॒कर्थ॒ पौंस्यं॑ ।

स्त्रियं॒ यद्दु॑र्हणा॒युवं॒ वधी॑र्दुहि॒तरं॑ दि॒वः ॥८

ए॒तत् । घ॒ । इत् । उ॒त । वी॒र्य॑म् । इन्द्र॑ । च॒कर्थ॑ । पौंस्य॑म् ।

स्त्रिय॑म् । यत् । दुः॒ऽह॒ना॒युव॑म् । वधीः॑ । दु॒हि॒तर॑म् । दि॒वः ॥८

एतत् । घ । इत् । उत । वीर्यम् । इन्द्र । चकर्थ । पौंस्यम् ।

स्त्रियम् । यत् । दुःऽहनायुवम् । वधीः । दुहितरम् । दिवः ॥८

हे “इन्द्र “उत अपि च "यत् यस्त्वम् "एतत् उपलक्षितं "पौंस्यं बलं "वीर्यं सामर्थ्योपेतं "चकर्थ कृतवानसि । “घ "इत् इति पूरणौ। किंच “दुर्हणायुवं दुष्टं हननम् इच्छन्तीं “दिवः “दुहितरं द्युलोकसकाशादुत्पन्नां "स्त्रियम् उषसं “वधीः अवधीः ॥


दि॒वश्चि॑द्घा दुहि॒तरं॑ म॒हान्म॑ही॒यमा॑नां ।

उ॒षास॑मिंद्र॒ सं पि॑णक् ॥९

दि॒वः । चि॒त् । घ॒ । दु॒हि॒तर॑म् । म॒हान् । म॒ही॒यमा॑नाम् ।

उ॒षस॑म् । इ॒न्द्र॒ । सम् । पि॒ण॒क् ॥९

दिवः । चित् । घ । दुहितरम् । महान् । महीयमानाम् ।

उषसम् । इन्द्र । सम् । पिणक् ॥९

हे "इन्द्र "महान् त्वं "दिवः "दुहितरं द्युलोकस्य पुत्रीं "महीयमानां पूज्यमानाम् "उषसम् उषोदेवीं “सं "पिणक् "चिद्ध संपिष्टवानसि खलु ।।


अपो॒षा अन॑सः सर॒त्संपि॑ष्टा॒दह॑ बि॒भ्युषी॑ ।

नि यत्सीं॑ शि॒श्नथ॒द्वृषा॑ ॥१०

अप॑ । उ॒षाः । अन॑सः । स॒र॒त् । सम्ऽपि॑ष्टात् । अह॑ । बि॒भ्युषी॑ ।

नि । यत् । सी॒म् । शि॒श्नथ॑त् । वृषा॑ ॥१०

अप । उषाः । अनसः । सरत् । सम्ऽपिष्टात् । अह । बिभ्युषी ।

नि । यत् । सीम् । शिश्नथत् । वृषा ॥१०

“वृषा कामानां वर्षिता इन्द्रः "यत् यदा "सीम् एतत् उषसः संबन्धि शकटं “नि "शिश्नथत् न्यवधीत् तदा “उषाः उषोदेवता “बिभ्युषी इन्द्रसकाशात् भीता सती "संपिष्टात् इन्द्रेण संचूर्णितात् "अनसः शकटात् "अप "सरत् अपासरत् अपजगाम । "अह इति पूरणः ॥ ॥ २० ॥


ए॒तद॑स्या॒ अनः॑ शये॒ सुसं॑पिष्टं॒ विपा॒श्या ।

स॒सार॑ सीं परा॒वतः॑ ॥११

ए॒तत् । अ॒स्याः॒ । अनः॑ । श॒ये॒ । सुऽस॑म्पिष्टम् । विऽपा॑शि । आ ।

स॒सार॑ । सी॒म् । प॒रा॒ऽवतः॑ ॥११

एतत् । अस्याः । अनः । शये । सुऽसम्पिष्टम् । विऽपाशि । आ ।

ससार । सीम् । पराऽवतः ॥११

“सुसंपिष्टम् इन्द्रेण सुष्ठु संचूर्णितम् "अस्याः उषसः संबन्धि “एतत् "अनः शकटं “विपाशि । विपाडाख्या नदी । तस्यां तत्तीरे “आ “शये आ समन्तात् शेते अशेत । "सीम् इयमुषोदेवता शकटे भग्ने सति "परावतः दूरदेशात् "ससार अपससार ।।


उ॒त सिंधुं॑ विबा॒ल्यं॑ वितस्था॒नामधि॒ क्षमि॑ ।

परि॑ ष्ठा इंद्र मा॒यया॑ ॥१२

उ॒त । सिन्धु॑म् । वि॒ऽबा॒ल्य॑म् । वि॒ऽत॒स्था॒नाम् । अधि॑ । क्षमि॑ ।

परि॑ । स्थाः॒ । इ॒न्द्र॒ । मा॒यया॑ ॥१२

उत । सिन्धुम् । विऽबाल्यम् । विऽतस्थानाम् । अधि । क्षमि ।

परि । स्थाः । इन्द्र । मायया ॥१२

हे “इन्द्र “उत अपि च "विबाल्यं विगतबाल्यावस्थां संपूर्णजलां "वितस्थानां वितिष्ठमानां “सिन्धुं नदीम् "अधि "क्षमि क्षमायां "मायया प्रज्ञया “परि “ष्ठाः पर्यस्थाः । सर्वतः स्थापनं कृतवानसि ॥


उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो अ॒भि वेद॑नं ।

पुरो॒ यद॑स्य संपि॒णक् ॥१३

उ॒त । शुष्ण॑स्य । धृ॒ष्णु॒ऽया । प्र । मृ॒क्षः॒ । अ॒भि । वेद॑नम् ।

पुरः॑ । यत् । अ॒स्य॒ । स॒म्ऽपि॒णक् ॥१३

उत । शुष्णस्य । धृष्णुऽया । प्र । मृक्षः । अभि । वेदनम् ।

पुरः । यत् । अस्य । सम्ऽपिणक् ॥१३

“उत अपि च हे इन्द्र “धृष्णुया धृष्णुः धर्षकस्त्वं "शुष्णस्य शुष्णनाम्नोऽसुरस्य संबन्धि "वेदनं वित्तम् "अभि अभितः सर्वतः “प्र “मृक्षः प्रकर्षेणाबाधथाः। "यत् यदा "अस्य शुष्णस्य “पुरः पुराणि नगराणि "संपिणक् संपिष्टवानसि । तदा प्र मृक्षः इति संबन्धः ॥


उ॒त दा॒सं कौ॑लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ ।

अवा॑हन्निंद्र॒ शंब॑रं ॥१४

उ॒त । दा॒सम् । कौ॒लि॒ऽत॒रम् । बृ॒ह॒तः । पर्व॑तात् । अधि॑ ।

अव॑ । अ॒ह॒न् । इ॒न्द्र॒ । शम्ब॑रम् ॥१४

उत । दासम् । कौलिऽतरम् । बृहतः । पर्वतात् । अधि ।

अव । अहन् । इन्द्र । शम्बरम् ॥१४

“उत अपि च हे "इन्द्र त्वं "दासम् उपक्षपयितारं "कौलितरं कुलितरनाम्नोऽपत्यं “शम्बरम् असुरं "बृहतः महतः पर्वतात् अद्रेः "अधि उपरि "अव अवाचीनं कृत्वा "अहन् हतवानसि ॥


उ॒त दा॒सस्य॑ व॒र्चिनः॑ स॒हस्रा॑णि श॒ताव॑धीः ।

अधि॒ पंच॑ प्र॒धीँरि॑व ॥१५

उ॒त । दा॒सस्य॑ । व॒र्चिनः॑ । स॒हस्रा॑णि । श॒ता । अ॒व॒धीः॒ ।

अधि॑ । पञ्च॑ । प्र॒धीन्ऽइ॑व ॥१५

उत । दासस्य । वर्चिनः । सहस्राणि । शता । अवधीः ।

अधि । पञ्च । प्रधीन्ऽइव ॥१५

“उत अपि च हे इन्द्र त्वं “प्रधीनिव चक्रस्य परितः स्थितान् शङ्कूनिव हिंसकान् "पञ्च “शता पञ्चशतानि पञ्चशतसंख्याकान् "सहस्राणि सहस्रसंख्याकान् "दासस्य लोकानामुपक्षपयितुः "वर्चिनः वर्चिनामकस्यासुरस्य संबन्धिनोऽनुचरान् पुरुषान् "अधि अधिकम् "अवधीः हतवानसि ॥ ॥ २१ ॥


उ॒त त्यं पु॒त्रम॒ग्रुवः॒ परा॑वृक्तं श॒तक्र॑तुः ।

उ॒क्थेष्विंद्र॒ आभ॑जत् ॥१६

उ॒त । त्यम् । पु॒त्रम् । अ॒ग्रुवः॑ । परा॑ऽवृक्तम् । श॒तऽक्र॑तुः ।

उ॒क्थेषु॑ । इन्द्रः॑ । आ । अ॒भ॒ज॒त् ॥१६

उत । त्यम् । पुत्रम् । अग्रुवः । पराऽवृक्तम् । शतऽक्रतुः ।

उक्थेषु । इन्द्रः । आ । अभजत् ॥१६

"उत अपि च "शतक्रतुः शतकर्मा "इन्द्रः “त्यं तं प्रसिद्धम् "अग्रुवः एतन्नाम्न्याः "पुत्रं "परावृक्तम् एतन्नामकम् "उक्थेषु स्तोत्रेषु "आभजत् भागिनं कृतवान् । अयमर्थः ‘वम्रीभिः पुत्रमग्रुवः ' ( ऋ. सं. ४. १९. ९) इत्यस्यामृचि प्रतिपादित इति ॥


उ॒त त्या तु॒र्वशा॒यदू॑ अस्ना॒तारा॒ शची॒पतिः॑ ।

इंद्रो॑ वि॒द्वाँ अ॑पारयत् ॥१७

उ॒त । त्या । तु॒र्वशा॒यदू॒ इति॑ । अ॒स्ना॒तारा॑ । शची॒३॒॑ऽपतिः॑ ।

इन्द्रः॑ । वि॒द्वान् । अ॒पा॒र॒य॒त् ॥१७

उत । त्या । तुर्वशायदू इति । अस्नातारा । शचीऽपतिः ।

इन्द्रः । विद्वान् । अपारयत् ॥१७

उत अपि च "अस्नातारा अस्नातारौ ययातिशापादनभिषिक्तौ "त्या त्यौ तौ प्रसिद्धौ “तुर्वशायदू तुर्वशनामानं यदुनामकं च राजानौ “शचीपतिः कर्मणां पालकः । यद्वा शचीन्द्रस्य भार्या । तस्याः पतिर्भर्ता "विद्वान् सकलमपि जानन् “इन्द्रः "अपारयत् अभिषेकार्हावकरोत् ।


उ॒त त्या स॒द्य आर्या॑ स॒रयो॑रिंद्र पा॒रतः॑ ।

अर्णा॑चि॒त्रर॑थावधीः ॥१८

उ॒त । त्या । स॒द्यः । आर्या॑ । स॒रयोः॑ । इ॒न्द्र॒ । पा॒रतः॑ ।

अर्णा॑चि॒त्रर॑था । अ॒व॒धीः॒ ॥१८

उत । त्या । सद्यः । आर्या । सरयोः । इन्द्र । पारतः ।

अर्णाचित्ररथा । अवधीः ॥१८

“उत अपि च "सद्यः सपदि हे “इन्द्र त्वं “त्या त्यौ तौ "आर्या आर्यौ आर्यत्वाभिमानिनौ सन्तावपि । इन्द्रविषयभक्तिश्रद्धारहितावित्यर्थः । "सरयोः सरय्वा नद्याः “पारतः पारे तीरे वसन्तौ “अर्णाचित्ररथा अर्णनामकं चित्ररथनामकं च राजानौ “अवधीः अहिंसीः ।।


अनु॒ द्वा ज॑हि॒ता न॑यो॒ऽंधं श्रो॒णं च॑ वृत्रहन् ।

न तत्ते॑ सु॒म्नमष्ट॑वे ॥१९

अनु॑ । द्वा । ज॒हि॒ता । न॒यः॒ । अ॒न्धम् । श्रो॒णम् । च॒ । वृ॒त्र॒ऽह॒न् ।

न । तत् । ते॒ । सु॒म्नम् । अष्ट॑वे ॥१९

अनु । द्वा । जहिता । नयः । अन्धम् । श्रोणम् । च । वृत्रऽहन् ।

न । तत् । ते । सुम्नम् । अष्टवे ॥१९

हे "वृत्रहन् वृत्रस्य हिंसकेन्द्र त्वं "जहिता जहितौ सर्वैर्बन्धुभिस्त्यक्तौ "अन्धं चक्षुर्हीनमेकं “श्रोणं “च पङ्गुमपरं च "द्वा एतौ द्वौ “अनु "नयः अन्धपङ्गुत्वपरिहारेण अनुनीतवानसि । हे इन्द्र "ते त्वया दत्तं "तत् "सुम्नं सुखम् "अष्टवे व्याप्तुं कोऽपि "न । प्रभवतीति शेषः ॥


श॒तम॑श्म॒न्मयी॑नां पु॒रामिंद्रो॒ व्या॑स्यत् ।

दिवो॑दासाय दा॒शुषे॑ ॥२०

श॒तम् । अ॒श्म॒न्ऽमयी॑नाम् । पु॒राम् । इन्द्रः॑ । वि । आ॒स्य॒त् ।

दिवः॑ऽदासाय । दा॒शुषे॑ ॥२०

शतम् । अश्मन्ऽमयीनाम् । पुराम् । इन्द्रः । वि । आस्यत् ।

दिवःऽदासाय । दाशुषे ॥२०

“इन्द्रः "अश्मन्मयीनां पाषाणैर्निर्मितानां "पुरां शम्बरस्य संबन्धिनां नगराणां “शतं शतसंख्याकं “दिवोदासाय एतन्नामकाय "दाशुषे हविर्दत्तवते यजमानाय “व्यास्यत् व्यक्षिपत् ॥ ॥ २२ ॥


अस्वा॑पयद्द॒भीत॑ये स॒हस्रा॑ त्रिं॒शतं॒ हथैः॑ ।

दा॒साना॒मिंद्रो॑ मा॒यया॑ ॥२१

अस्वा॑पयत् । द॒भीत॑ये । स॒हस्रा॑ । त्रिं॒शत॑म् । हथैः॑ ।

दा॒साना॑म् । इन्द्रः॑ । मा॒यया॑ ॥२१

अस्वापयत् । दभीतये । सहस्रा । त्रिंशतम् । हथैः ।

दासानाम् । इन्द्रः । मायया ॥२१

"इन्द्रो "मायया स्वकीयया शक्त्या "दासानां लोकानामुपक्षपयितॄणां राक्षसादीनां "त्रिंशतं त्रिंशत्संख्याकानि "सहस्रा सहस्राणि “दभीतये दभीतिनामकस्यार्थाय "हथैः हननसाधनैरायुधैः “अस्वापयत् अवधीत् ॥


स घेदु॒तासि॑ वृत्रहन्त्समा॒न इं॑द्र॒ गोप॑तिः ।

यस्ता विश्वा॑नि चिच्यु॒षे ॥२२

सः । घ॒ । इत् । उ॒त । अ॒सि॒ । वृ॒त्र॒ऽह॒न् । स॒मा॒नः । इ॒न्द्र॒ । गोऽप॑तिः ।

यः । ता । विश्वा॑नि । चि॒च्यु॒षे ॥२२

सः । घ । इत् । उत । असि । वृत्रऽहन् । समानः । इन्द्र । गोऽपतिः ।

यः । ता । विश्वानि । चिच्युषे ॥२२

“उत अपि च हे "इन्द्र "यः त्वं "ता तानि "विश्वानि समस्तान् शत्रून् 'चिच्युषे प्राच्यावयः । हे "वृत्रहन् वृत्राणां शत्रूणां हिंसकेन्द्र “गोपतिः गवां पालकः "सः त्वं "समानः सर्वेषां यजमानानां समः सन् प्रख्यातः असि । "घेत् इति पूरणौ ॥


उ॒त नू॒नं यदिं॑द्रि॒यं क॑रि॒ष्या इं॑द्र॒ पौंस्यं॑ ।

अ॒द्या नकि॒ष्टदा मि॑नत् ॥२३

उ॒त । नू॒नम् । यत् । इ॒न्द्रि॒यम् । क॒रि॒ष्याः । इ॒न्द्र॒ । पौंस्य॑म् ।

अ॒द्य । नकिः॑ । तत् । आ । मि॒न॒त् ॥२३

उत । नूनम् । यत् । इन्द्रियम् । करिष्याः । इन्द्र । पौंस्यम् ।

अद्य । नकिः । तत् । आ । मिनत् ॥२३

“उत अपि च हे "इन्द्र "यत् “पौंस्यं त्वदीयं बलम् "इन्द्रियं सामर्थ्योपेतं "नूनं "करिष्याः कृतवानसि खलु । "अद्य अद्यतनः कश्चित् "तत् बलं "नकिः “आ “मिनत् न हिंस्यात् ।।


वा॒मंवा॑मं त आदुरे दे॒वो द॑दात्वर्य॒मा ।

वा॒मं पू॒षा वा॒मं भगो॑ वा॒मं दे॒वः करू॑ळती ॥२४

व॒मम्ऽवा॑मम् । ते॒ । आ॒ऽदु॒रे॒ । दे॒वः । द॒दा॒तु॒ । अ॒र्य॒मा ।

वा॒मम् । पू॒षा । वा॒मम् । भगः॑ । वा॒मम् । दे॒वः । करू॑ळती ॥२४

वमम्ऽवामम् । ते । आऽदुरे । देवः । ददातु । अर्यमा ।

वामम् । पूषा । वामम् । भगः । वामम् । देवः । करूळती ॥२४

हे "आदुरे शत्रूणाम् आदारयितरिन्द्र "ते तव "वामंवामं यद्यत् वननीयं संभजनीयं धनमस्ति लोके तद्वामं वसु "अर्यमा अरीणां नियमयिता एतन्नामकः "देवो "ददातु प्रयच्छतु। तथा "करूळती कृत्तदन्तः “पूषा पोषकः "देवः “वामं धनं ददातु । तथा “भगः अपि “वामं धनं ददातु । ननु करूळतीत्येतत् संनिहितत्वाद्भग इत्यनेन संबन्धनीयम् । अथवा अर्यमादीनां त्रयाणामपि विशेषणत्वेन भाव्यम् । कथं पूष्णो विशेषणं स्यादिति साकाङ्क्षत्वात् । न । सांनिध्याकाङ्क्षयोः सद्भावेऽपि योग्यतामन्तरेण अन्वयायोगात् । तस्मात् पूषा प्रपिष्टभागोऽदन्तको हि' (तै. सं. २. ६. ८. ५) इत्यादिश्रुतिषु पूष्ण एवादन्तकत्वेन प्रसिद्धेः व्यवहितस्यापि तस्यैव विशेषणत्वं युक्तम् । वामं बननीयं भवति' (निरु. ६. ३१) इत्यादि निरुक्तमत्र द्रष्टव्यम् ॥ ॥ २३ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.३०&oldid=185111" इत्यस्माद् पुनः प्राप्तिः