ऋग्वेदः सूक्तं ४.१८

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ४.१७ ऋग्वेदः - मण्डल ४
सूक्तं ४.१८
वामदेवो गौतमः, १ इन्द्रः, ४(उत्तरार्धर्चस्य), ७ अदितिः।
सूक्तं ४.१९ →
दे. १ वामदेवः, २-४(पूर्वार्धर्चस्य), ८-१३ इन्द्रः, ४(उत्तरार्धर्चस्य), ७ वामदेवः।। त्रिष्टुप्


अयं पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे ।
अतश्चिदा जनिषीष्ट प्रवृद्धो मा मातरममुया पत्तवे कः ॥१॥
नाहमतो निरया दुर्गहैतत्तिरश्चता पार्श्वान्निर्गमाणि ।
बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छै ॥२॥
परायतीं मातरमन्वचष्ट न नानु गान्यनु नू गमानि ।
त्वष्टुर्गृहे अपिबत्सोममिन्द्रः शतधन्यं चम्वोः सुतस्य ॥३॥
किं स ऋधक्कृणवद्यं सहस्रं मासो जभार शरदश्च पूर्वीः ।
नही न्वस्य प्रतिमानमस्त्यन्तर्जातेषूत ये जनित्वाः ॥४॥
अवद्यमिव मन्यमाना गुहाकरिन्द्रं माता वीर्येणा न्यृष्टम् ।
अथोदस्थात्स्वयमत्कं वसान आ रोदसी अपृणाज्जायमानः ॥५॥
एता अर्षन्त्यललाभवन्तीरृतावरीरिव संक्रोशमानाः ।
एता वि पृच्छ किमिदं भनन्ति कमापो अद्रिं परिधिं रुजन्ति ॥६॥
किमु ष्विदस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः ।
ममैतान्पुत्रो महता वधेन वृत्रं जघन्वाँ असृजद्वि सिन्धून् ॥७॥
ममच्चन त्वा युवतिः परास ममच्चन त्वा कुषवा जगार ।
ममच्चिदापः शिशवे ममृड्युर्ममच्चिदिन्द्रः सहसोदतिष्ठत् ॥८॥
ममच्चन ते मघवन्व्यंसो निविविध्वाँ अप हनू जघान ।
अधा निविद्ध उत्तरो बभूवाञ्छिरो दासस्य सं पिणग्वधेन ॥९॥
गृष्टिः ससूव स्थविरं तवागामनाधृष्यं वृषभं तुम्रमिन्द्रम् ।
अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ॥१०॥
उत माता महिषमन्ववेनदमी त्वा जहति पुत्र देवाः ।
अथाब्रवीद्वृत्रमिन्द्रो हनिष्यन्सखे विष्णो वितरं वि क्रमस्व ॥११॥
कस्ते मातरं विधवामचक्रच्छयुं कस्त्वामजिघांसच्चरन्तम् ।
कस्ते देवो अधि मार्डीक आसीद्यत्प्राक्षिणाः पितरं पादगृह्य ॥१२॥
अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् ।
अपश्यं जायाममहीयमानामधा मे श्येनो मध्वा जभार ॥१३॥


सायणभाष्यम्

‘अयं पन्थाः' इति त्रयोदशर्चमष्टमं सूक्तं त्रैष्टुभम् । अत्रानुक्रमणिका- अयं पन्थाः सप्तोना संवाद इन्द्रादितिवामदेवानाम् ' इति । ' यस्य वाक्यं स ऋषिः या तेनोच्यते सा देवता ' इति परिभाषितत्वात् ऋषिदेवते तत्र तत्र ज्ञातव्ये । अस्मिन् सूक्ते इन्द्रादितिवामदेवसंवादरूपिणी काचित् आख्यायिका श्लोकरूपेण सूच्यते--’ गर्भस्थो ज्ञानसंपन्नो वामदेवो महामुनिः । मतिं चक्रे न जायेय योनिदेशात्तु मातृतः ॥ १ ॥ किंतु पार्श्वादितश्चेति ज्ञात्वा नु जननी त्विदम् । दध्यौ शान्त्यै शचीं देवीमदितिं त्विन्द्रमातरम् ॥ २ ॥ अदितिस्त्विन्द्रसहिता गर्भिणीमभ्यगाद्वने । अदितीन्द्रवामदेवाः संवादमथ चक्रिरे ॥३॥संवाद इति सूत्रेण कथा सैषात्र सूच्यते। नोक्तो वक्तृविशेषोऽत्र ह्युपदेशेष्वनुक्तितः ॥ ४ ॥ अर्थतस्त्ववगन्तव्यो वक्तृभेद इति स्थितिः । इन्द्रोऽदितिर्ऋषिश्चास्मिन्मिथः सूक्ते समूचिरे ॥५॥ गर्भे शयानं सुचिरं मातुर्गर्भादनिर्गतम् । वामदेवं प्रतिब्रूत आद्ययर्चा शतक्रतुः ॥ ६ ॥ द्वितीयादिभिःरर्धर्चैर्ऋषिरत्राह पञ्चभिः । न ही न्वस्येति सप्त स्युरर्धर्चा अदितेर्वचः ॥ ७॥ ममच्चन त्वा युवतिरित्यृचः पञ्च वै मुनेः । दौर्गत्यशान्तिमत्राह वामदेवस्तथान्त्यया ॥ ८ ॥ एवमर्थाद्वक्तृभेद इति बह्वृचशासनम् । अर्थो विवेकस्पष्टत्वादुपदेशेषु नेरितः ॥ ९॥ ऋषिदेवतसिद्धयर्थं विवेकादर्थ ईरितः' (अनु. भा. ४. १८) इति ॥


अ॒यं पंथा॒ अनु॑वित्तः पुरा॒णो यतो॑ दे॒वा उ॒दजा॑यंत॒ विश्वे॑ ।

अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ॥१

अ॒यम् । पन्थाः॑ । अनु॑ऽवित्तः । पु॒रा॒णः । यतः॑ । दे॒वाः । उ॒त्ऽअजा॑यन्त । विश्वे॑ ।

अतः॑ । चि॒त् । आ । ज॒नि॒षी॒ष्ट॒ । प्रऽवृ॑द्धः । मा । मा॒तर॑म् । अ॒मु॒या । पत्त॑वे । क॒रिति॑ कः ॥१

अयम् । पन्थाः । अनुऽवित्तः । पुराणः । यतः । देवाः । उत्ऽअजायन्त । विश्वे ।

अतः । चित् । आ । जनिषीष्ट । प्रऽवृद्धः । मा । मातरम् । अमुया । पत्तवे । करिति कः ॥१

इन्द्रवाक्यम्। “पुराणः अनादिः “अयं प्रत्यक्षेणोपलभ्यमानः “पन्थाः योनिनिर्गमनरूपो मार्गः “अनु अनुपूर्व्येण “वित्तः सर्वैर्जायमानैर्लब्धः । “यतः यस्माद्योनिमार्गात् “विश्वे सर्वे “देवाः "उदजायन्त उत्कर्षेणोत्पन्ना भवन्ति । तस्माद्योनिमार्गान्मनुष्या उत्पन्ना भवन्तीति किमु वक्तव्यम् । “अतश्चित् अस्माद्योनिमार्गादेव “प्रवृद्धः गर्भे प्रकर्षेण वृद्धिं गतो वामदेवः “आ “जनिषीष्ट अ समन्तात् जायताम् । “अमुया अमूं “मातरं "पत्तवे पतनाय । मरणायेत्यर्थः। “मा “कः मा करोतु ॥


नाहमतो॒ निर॑या दु॒र्गहै॒तत्ति॑र॒श्चता॑ पा॒र्श्वान्निर्ग॑माणि ।

ब॒हूनि॑ मे॒ अकृ॑ता॒ कर्त्वा॑नि॒ युध्यै॑ त्वेन॒ सं त्वे॑न पृच्छै ॥२

न । अ॒हम् । अतः॑ । निः । अ॒य॒ । दुः॒ऽगहा॑ । ए॒तत् । ति॒र॒श्चता॑ । पा॒र्श्वात् । निः । ग॒मा॒नि॒ ।

ब॒हूनि॑ । मे॒ । अकृ॑ता । कर्त्वा॑नि । युध्यै॑ । त्वे॒न॒ । सम् । त्वे॒न॒ । पृ॒च्छै॒ ॥२

न । अहम् । अतः । निः । अय । दुःऽगहा । एतत् । तिरश्चता । पार्श्वात् । निः । गमानि ।

बहूनि । मे । अकृता । कर्त्वानि । युध्यै । त्वेन । सम् । त्वेन । पृच्छै ॥२

वामदेव एवमुक्तवन्तमिन्द्रं प्रत्याह । “अहम् “अतः योनिमार्गात् "न “निरया न निरयाणि । न निर्गच्छानि। “एतत् योनिनिर्गमरूपं वर्त्म "दुर्गहा दुर्ग्रहम् । दुःखेन ग्राह्यम्। न प्राप्यं भवतीत्यर्थः। किंतु “तिरश्चता तिरश्चीनात् "पार्श्वात् “निर्गमानि निर्गच्छानि । योनिदेशादनिर्गतोऽहं पार्श्वं भित्त्वा निर्गच्छानीत्यर्थः । अन्यैरकृतमिदमेव न केवलं मया क्रियते किंत्वन्यैः अकृतानि “बहूनि कर्माणि “मे “कर्त्वानि कर्तव्यानि सन्ति। “त्वेन एकेन सपत्नेन विवदमानेन सह “युध्यै युद्धं करवाणि । “त्वेन एकेन बुभुत्सुना “सं पृच्छै सम्यक् पृच्छानि ।।


प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि ।

त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिंद्रः॑ शतध॒न्यं॑ च॒म्वोः॑ सु॒तस्य॑ ॥३

प॒रा॒ऽय॒तीम् । मा॒तर॑म् । अनु॑ । अ॒च॒ष्ट॒ । न । न । अनु॑ । गा॒नि॒ । अनु॑ । नु । ग॒मा॒नि॒ ।

त्वष्टुः॑ । गृ॒हे । अ॒पि॒ब॒त् । सोम॑म् । इन्द्रः॑ । श॒त॒ऽध॒न्य॑म् । च॒म्वोः॑ । सु॒तस्य॑ ॥३

पराऽयतीम् । मातरम् । अनु । अचष्ट । न । न । अनु । गानि । अनु । नु । गमानि ।

त्वष्टुः । गृहे । अपिबत् । सोमम् । इन्द्रः । शतऽधन्यम् । चम्वोः । सुतस्य ॥३

मयि गर्भस्थिते सतीन्द्रो मदीयां “मातरं “परायतीं परेतां म्रियमाणाम् “अन्वचष्ट अन्वब्रवीत् । एवमपि इदानीं गर्भे स्थितोऽहं पुराणं पन्थानं “न “नानु “गानि नानुगच्छानीति न । किंतु “नु क्षिप्रम् “अनु “गमानि अनुगच्छान्येव । वामदेवः स्वकीयमकृत्यकारित्वं परिहृत्येन्द्रस्याकृत्यकारित्वम् उत्तरार्धर्चेन प्रतिपादयति । “इन्द्रः "चम्वोः सोमाभिषवफलकयोः “सुतस्य सोमं सुतवतोऽभिषुतवतः “त्वष्टुः संबंधिनि "गृहे अनुपहूतः सन् "शतधन्यं बहुधनेन क्रीतं "सोमम् “अपिबत् बलात्कारेण सोमस्य पानं कृतवान् । अयमर्थस्तैत्तिरीयैः ‘त्वष्टा हतपुत्रो वीन्द्रं सोममाहरत्' (तै. सं. २, ४. १२. १) इत्यनुवाके महता प्रबन्धेन प्रपञ्चितः ॥


किं स ऋध॑क्कृणव॒द्यं स॒हस्रं॑ मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः ।

न॒ही न्व॑स्य प्रति॒मान॒मस्त्यं॒तर्जा॒तेषू॒त ये जनि॑त्वाः ॥४

किम् । सः । ऋध॑क् । कृ॒ण॒व॒त् । यम् । स॒हस्र॑म् । मा॒सः । ज॒भार॑ । श॒रदः॑ । च॒ । पू॒र्वीः ।

न॒हि । नु । अ॒स्य॒ । प्र॒ति॒ऽमान॑म् । अस्ति॑ । अ॒न्तः । जा॒तेषु॑ । उ॒त । ये । जनि॑ऽत्वाः ॥४

किम् । सः । ऋधक् । कृणवत् । यम् । सहस्रम् । मासः । जभार । शरदः । च । पूर्वीः ।

नहि । नु । अस्य । प्रतिऽमानम् । अस्ति । अन्तः । जातेषु । उत । ये । जनिऽत्वाः ॥४

अदितिः “यम् इन्द्रं “सहस्रं बहून् 'मासः मासान् “पूर्वीः बह्वीः "शरदश्च संवत्सरांश्च "जभार बभार ॥ बिभर्तेरिदं रूपम् ॥ गर्भे स्थित इन्द्रो बहुषु संवत्सरेष्वदितिं क्लेशितवानित्यर्थः । एवंभूतः “सः इन्द्रः “किं यत् किमपि । सर्वमपीत्यर्थः। “ऋधक् विरुद्धं कर्म "कृणवत् अकरोत् । इन्द्रस्य आक्षेपम् असहमानादितिरिन्द्रमातापि एनं प्रति ब्रूते। हे वामदेव "जातेषु उत्पन्नेषु देवादिषु “अन्तः मध्ये "अस्य इन्द्रस्य प्रतिमानम् उपमानं “नहि “अस्ति न विद्यते खलु। “नु इति पादपूरणार्थः। “उत अपि च "ये देवादयः "जनित्वाः जनयितव्या जनयिष्यमाणास्तेषु मध्येऽस्येन्द्रस्य प्रतिमानं नास्ति ।


अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा॑क॒रिंद्रं॑ मा॒ता वी॒र्ये॑णा॒ न्यृ॑ष्टं ।

अथोद॑स्थात्स्व॒यमत्कं॒ वसा॑न॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ॥५

अ॒व॒द्यम्ऽइ॑व । मन्य॑माना । गुहा॑ । अ॒कः॒ । इन्द्र॑म् । मा॒ता । वी॒र्ये॑ण । निऽऋ॑ष्टम् ।

अथ॑ । उत् । अ॒स्था॒त् । स्व॒यम् । अत्क॑म् । वसा॑नः । आ । रोद॑सी॒ इति॑ । अ॒पृ॒णा॒त् । जाय॑मानः ॥५

अवद्यम्ऽइव । मन्यमाना । गुहा । अकः । इन्द्रम् । माता । वीर्येण । निऽऋष्टम् ।

अथ । उत् । अस्थात् । स्वयम् । अत्कम् । वसानः । आ । रोदसी इति । अपृणात् । जायमानः ॥५

“गुहा गुहायां गह्वररूपे सूतिकागृहे जातम् “इन्द्रम् “अवद्यमिव गर्हमिव “मन्यमाना जानती "माता इन्द्रजनन्यदितिः "वीर्येण सामर्थ्येन “न्यृष्टं नितरां प्राप्तम् "अकः अकरोत् । “अथ अनन्तरं “जायमानः उत्पद्यमान इन्द्रः “स्वयम् एव “अत्कं तेजः “वसानः आच्छादकः सन् । दधान इत्यर्थः । “उदस्थात् उत्कर्षेण अतिष्ठत् । किंच "रोदसी द्यावापृथिव्यौ “आ “अपृणात् समन्तात् पूरयामास ॥ ॥ २५ ॥


ए॒ता अ॑र्षंत्यलला॒भवं॑तीर्ऋ॒ताव॑रीरिव सं॒क्रोश॑मानाः ।

ए॒ता वि पृ॑च्छ॒ किमि॒दं भ॑नंति॒ कमापो॒ अद्रिं॑ परि॒धिं रु॑जंति ॥६

ए॒ताः । अ॒र्ष॒न्ति॒ । अ॒ल॒ला॒ऽभव॑न्तीः । ऋ॒तव॑रीःऽइव । स॒म्ऽक्रोश॑मानाः ।

ए॒ताः । वि । पृ॒च्छ॒ । किम् । इ॒दम् । भ॒न॒न्ति॒ । कम् । आपः॑ । अद्रि॑म् । प॒रि॒ऽधिम् । रु॒ज॒न्ति॒ ॥६

एताः । अर्षन्ति । अललाऽभवन्तीः । ऋतवरीःऽइव । सम्ऽक्रोशमानाः ।

एताः । वि । पृच्छ । किम् । इदम् । भनन्ति । कम् । आपः । अद्रिम् । परिऽधिम् । रुजन्ति ॥६

“अललाभवन्तीः अललेत्येवंरूपं शब्दं कुर्वत्यः "ऋतावरीरिव उदकवत्य एव “एताः नद्यः “संक्रोशमानाः इन्द्रमहत्त्वप्रतिपादकोद्भूतेन हर्षेण बहुविधं शब्दायमानाः सत्यः “अर्षन्ति गच्छन्ति । एवंभूता नद्यः “इदं “किं “भनन्ति श्रोत्रग्राह्यं शब्दायमानं किं वदन्तीममर्थं हे ऋषे त्वम् “एताः नदीः “वि “पृच्छ विशेषेण पृष्टवान् भव । एवं संपृच्छ । विचारिते सति एतच्छब्दायमानमिन्द्रमाहात्म्यस्यैव वचनं भवतीत्यर्थः । किंच “आपः उदकानि “परिधिम् आवरकं "कम् “अद्रिं कं मेघं "रुजन्ति भञ्जन्ति । 'अपः कमपि मेघं न भञ्जन्ति किंतु इन्द्रो मम पुत्र एव उदकावरकं मेघं भङ्क्त्वा आपः प्रवर्तयतीत्यर्थः ।।


किमु॑ ष्विदस्मै नि॒विदो॑ भनं॒तेंद्र॑स्याव॒द्यं दि॑धिषंत॒ आपः॑ ।

ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिंधू॑न् ॥७

किम् । ऊं॒ इति॑ । स्वि॒त् । अ॒स्मै॒ । नि॒ऽविदः॑ । भ॒न॒न्त॒ । इन्द्र॑स्य । अ॒व॒द्यम् । दि॒धि॒ष॒न्ते॒ । आपः॑ ।

मम॑ । ए॒तान् । पु॒त्रः । म॒ह॒ता । व॒धेन॑ । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । वि । सिन्धू॑न् ॥७

किम् । ऊं इति । स्वित् । अस्मै । निऽविदः । भनन्त । इन्द्रस्य । अवद्यम् । दिधिषन्ते । आपः ।

मम । एतान् । पुत्रः । महता । वधेन । वृत्रम् । जघन्वान् । असृजत् । वि । सिन्धून् ॥७

यदेन्द्रो वृत्रासुरं हतवान् तदा शाश्वतीं ब्रह्महत्यां प्राप्तवानिति वामदेवस्याभिप्रायमुन्नीय अदितिः आह । “निविदः । मरुत्वतीयशस्त्रे प्रयुज्यमानानि ‘ मरुत्स्तोत्रो मरुद्गणः' इत्यादीनीन्द्रस्तुतिप्रतिपादकानि कानिचित् पदानि निविच्छब्देनोच्यन्ते । ता निविदः “अस्मै इमं वृत्रवधनिमित्तं ब्रह्महत्यारूपं पापं प्राप्नुवन्तमिन्द्रं “किमु “ष्वित् "भनन्त भनन्ति । किं वदन्तीति चेत् । तर्हि इन्द्रं पापरहितं मत्वा निविदः स्तुवन्ति । कथमिन्द्रस्य पापरहितत्वम् । उच्यते । “आपः फेनरूपेणास्य “इन्द्रस्य “अवद्यं ब्रह्महत्यादिरूपं पापं “दिधिषन्ते धारयन्ति । "मम “पुत्रः मदीयः पुत्र इन्द्रः "महता प्रभूतेन “वधेन । वध इति वज्रनामैतत् । वज्रेण “वृत्रं जघन्वान् हतवान् । ततः “एतान् सिन्धून् उदकानि “वि “असृजत् विशेषेण स्वैरत्वेन सर्तुं सृष्टवान्। इन्द्रेणोत्सृष्टा आपस्तस्य पापं जगृहुरित्यर्थः ॥


मम॑च्च॒न त्वा॑ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा॑ कु॒षवा॑ ज॒गार॑ ।

मम॑च्चि॒दापः॒ शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिंद्रः॒ सह॒सोद॑तिष्ठत् ॥८

मम॑त् । च॒न । त्वा॒ । यु॒व॒तिः । प॒रा॒ऽआस॑ । मम॑त् । च॒न । त्वा॒ । कु॒षवा॑ । ज॒गार॑ ।

मम॑त् । चि॒त् । आपः॑ । शिश॑वे । म॒मृ॒ड्युः॒ । मम॑त् । चि॒त् । इन्द्रः॑ । सह॑सा । उत् । अ॒ति॒ष्ठ॒त् ॥८

ममत् । चन । त्वा । युवतिः । पराऽआस । ममत् । चन । त्वा । कुषवा । जगार ।

ममत् । चित् । आपः । शिशवे । ममृड्युः । ममत् । चित् । इन्द्रः । सहसा । उत् । अतिष्ठत् ॥८

सूक्तशेषेण ऋषिरिन्द्रं स्तौति । हे इन्द्र “ममञ्चन माद्यन्त्येव । प्रमत्तैवेत्यर्थः । “युवतिः त्वदीया मातादितिः “त्वा त्वां “परास पराचिक्षेप । किंच कुषवानाम्नी काचित् राक्षसी सा “ममच्चन प्रमत्तैव “त्वा त्वां "जगार गिरति स्म । हे इन्द्र “ममच्चित् प्रमाद्यन्त्य एव “आपः “शिशवे जाताय तुभ्यं ममृड्युः सुखयांचक्रुः । भमञ्चित् माद्यन्नेव “इन्द्रः “सहसा स्वेन वीर्येण “उदतिष्ठत् सूतिकागृहात् राक्षसीं बाधमानः सन् उत्कर्षेण तस्थौ ।।


मम॑च्च॒न ते॑ मघव॒न्व्यं॑सो निविवि॒ध्वाँ अप॒ हनू॑ ज॒घान॑ ।

अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो॑ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ॥९

मम॑त् । च॒न । ते॒ । म॒घ॒ऽव॒न् । विऽअं॑सः । नि॒ऽवि॒वि॒ध्वान् । अप॑ । हनू॒ इति॑ । ज॒घान॑ ।

अध॑ । निऽवि॑द्धः । उत्ऽत॑रः । ब॒भू॒वान् । शिरः॑ । दा॒सस्य॑ । सम् । पि॒ण॒क् । व॒धेन॑ ॥९

ममत् । चन । ते । मघऽवन् । विऽअंसः । निऽविविध्वान् । अप । हनू इति । जघान ।

अध । निऽविद्धः । उत्ऽतरः । बभूवान् । शिरः । दासस्य । सम् । पिणक् । वधेन ॥९

हे “मघवन् धनवन्निन्द्र “ममच्चन प्रमाद्यन्नेव व्यंसो नाम राक्षसः “निविविध्वान् प्रविध्यन् "ते “हनू त्वदीये हनू मुखपार्श्वे “अप “जघान अपहतवान् । “अध अथानन्तरं है इन्द्र निविद्धः राक्षसेन ताडितः त्वम् “उत्तरः व्यंसाधिकबलः “बभूवान् भूतः सन् “दासस्य क्षीणस्य व्यंसस्य “शिरः “वधेन वज्रेण “सं “पिणक् पिष्टवानसि ।।


गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिंद्रं॑ ।

अरी॑ळ्हं व॒त्सं च॒रथा॑य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा॑नं ॥१०

गृ॒ष्टिः । स॒सू॒व॒ । स्थवि॑रम् । त॒वा॒गाम् । अ॒ना॒धृ॒ष्यम् । वृ॒ष॒भम् । तुम्र॑म् । इन्द्र॑म् ।

अरी॑ळ्हम् । व॒त्सम् । च॒रथा॑य । मा॒ता । स्व॒यम् । गा॒तुम् । त॒न्वे॑ । इ॒च्छमा॑नम् ॥१०

गृष्टिः । ससूव । स्थविरम् । तवागाम् । अनाधृष्यम् । वृषभम् । तुम्रम् । इन्द्रम् ।

अरीळ्हम् । वत्सम् । चरथाय । माता । स्वयम् । गातुम् । तन्वे । इच्छमानम् ॥१०

“गृष्टिः काचित् गौः “वत्सं यथा “ससूव सुषुवे । तथा “माता इन्द्रजनन्यदितिः "चरथाय स्वेच्छया संचरणाय इन्द्रं ससूव सुषुवे । कीदृशमिन्द्रम् । “स्थविरं वयसा प्रवृद्धं “तवागां प्रवृद्धबलम् “अनाधृष्यं शत्रुभिरनभिभाव्यं “वृषभं सेचनसमर्थं तुम्रं प्रेरकम् "अरीळ्हं शत्रुभिरनभिभूतं “स्वयं “गातुम् अन्यनिरपेक्षगमनं “तन्वे स्वशरीराय “इच्छमानम् इच्छन्तम् ॥


उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः ।

अथा॑ब्रवीद्वृ॒त्रमिंद्रो॑ हनि॒ष्यन्त्सखे॑ विष्णो वित॒रं वि क्र॑मस्व ॥११

उ॒त । मा॒ता । म॒हि॒षम् । अनु॑ । अ॒वे॒न॒त् । अ॒मी इति॑ । त्वा॒ । ज॒ह॒ति॒ । पु॒त्र॒ । दे॒वाः ।

अथ॑ । अ॒ब्र॒वी॒त् । वृ॒त्रम् । इन्द्रः॑ । ह॒नि॒ष्यन् । सखे॑ । वि॒ष्णो॒ इति॑ । वि॒ऽत॒रम् । वि । क्र॒म॒स्व॒ ॥११

उत । माता । महिषम् । अनु । अवेनत् । अमी इति । त्वा । जहति । पुत्र । देवाः ।

अथ । अब्रवीत् । वृत्रम् । इन्द्रः । हनिष्यन् । सखे । विष्णो इति । विऽतरम् । वि । क्रमस्व ॥११

“उत अपि च हे मदीय “पुत्र इन्द्र "अमी वह्नयादयः "देवाः “त्वा त्वां “जहति त्यजन्ति । इत्युक्तवतीन्द्रस्य “माता अदितिः इन्द्रं "महिषं महान्तम् । महिष इति महन्नामैतत् । “अन्ववेनत् अयाचत । “अथ अनन्तरं हे “विष्णो व्यापनशील हे “सखे मित्रभूत हरे त्वं “वृत्रं “हनिष्यन् हन्तुम् इच्छन् “वितरं “वि "क्रमस्व अतिपराक्रमी भव इति “इन्द्रः विष्णुम् 'अब्रवीत उवाच ॥


कस्ते॑ मा॒तरं॑ वि॒धवा॑मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चरं॑तं ।

कस्ते॑ दे॒वो अधि॑ मार्डी॒क आ॑सी॒द्यत्प्राक्षि॑णाः पि॒तरं॑ पाद॒गृह्य॑ ॥१२

कः । ते॒ । मा॒तर॑म् । वि॒धवा॑म् । अ॒च॒क्र॒त् । श॒युम् । कः । त्वाम् । अ॒जि॒घां॒स॒त् । चर॑न्तम् ।

कः । ते॒ । दे॒वः । अधि॑ । मा॒र्डी॒के । आ॒सी॒त् । यत् । प्र । अक्षि॑णाः । पि॒तर॑म् । पा॒द॒ऽगृह्य॑ ॥१२

कः । ते । मातरम् । विधवाम् । अचक्रत् । शयुम् । कः । त्वाम् । अजिघांसत् । चरन्तम् ।

कः । ते । देवः । अधि । मार्डीके । आसीत् । यत् । प्र । अक्षिणाः । पितरम् । पादऽगृह्य ॥१२

हे इन्द्र “यत् यस्मात् कारणात् पितुः सकाशात् जनिष्यमाणात् भीतस्त्वं त्वदीयं “पितरं “पादगृह्य पादेषु गृहीत्वा “प्राक्षिणाः प्रकर्षेणावधीः । तस्मात् कारणात् “ते त्वत्तोऽन्यः “कः देवः “मातरं स्वकीयजननीं विधवां पितृवधेन पतिरहिताम् “अचक्रत् अकरोत् । “कः त्वत्तोऽन्यः "शयुं शयानं "चरन्तं जाग्रतं वा “त्वाम् "अजिघांसत् हन्तुमैच्छत् । ते त्वत्तोऽन्यः कः “देवः मार्डीके प्रजानां सुखकरणे “अधि अधिकः “आसीत् । अयमर्थः ‘ऋक्सामे वै देवेभ्यः' (तै. सं. ६. १. ३. ६) इत्यनुवाके यज्ञो दक्षिणामभ्यध्यायत्' इत्यादिब्राह्मणेन तैत्तिरीयकैर्बहुधा प्रपञ्चितः ॥


अव॑र्त्या॒ शुन॑ आं॒त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तारं॑ ।

अप॑श्यं जा॒यामम॑हीयमाना॒मधा॑ मे श्ये॒नो मध्वा ज॑भार ॥१३

अव॑र्त्या । शुनः॑ । आ॒न्त्राणि॑ । पे॒चे॒ । न । दे॒वेषु॑ । वि॒वि॒दे॒ । म॒र्डि॒तार॑म् ।

अप॑श्यम् । जा॒याम् । अम॑हीयमानाम् । अध॑ । मे॒ । श्ये॒नः । मधु॑ । आ । ज॒भा॒र॒ ॥१३

अवर्त्या । शुनः । आन्त्राणि । पेचे । न । देवेषु । विविदे । मर्डितारम् ।

अपश्यम् । जायाम् । अमहीयमानाम् । अध । मे । श्येनः । मधु । आ । जभार ॥१३

अनया वामदेवः स्वकीयं दारिद्र्यं सूचयन्निद्रस्योत्कर्षमाह । वामदेवोऽहम् “अवर्त्या जीवनोपायराहित्येन “शुनः शुनकसंबन्धीनि "अन्त्राणि पुरीतन्ति "पेचे अपचम् । "देवेषु द्योतमानेषु वह्या“यदिषु मध्ये इन्द्रादन्यं मर्ङितारं सुखयितारं न “विविदे न लेभे । किंच “जायां स्वकीयां भार्याम् “अमहीयमानाम् अश्लाघनीयाम् “अपश्यम् अद्राक्षम् । “अध अथानन्तरं “श्येनः श्येनवच्छीघ्रगामीन्द्रः “मे मह्यं “मधु मधुरोपेतमुदकम् “आ “जभार आजहार ॥ ॥ २६ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये तृतीयाष्टके पञ्चमोऽध्यायः संपूर्णः ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१८&oldid=184244" इत्यस्माद् पुनः प्राप्तिः