ऋग्वेदः सूक्तं ४.१७

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं ४.१६ ऋग्वेदः - मण्डल ४
सूक्तं ४.१७
वामदेवो गौतमः।
सूक्तं ४.१८ →
दे. इन्द्रः। त्रिष्टुप्,१५ एकपदा विराट्।

समूळ्हे दशरात्रेष्टमेहनि निष्केवल्ये इदं सूक्तं विनियुक्तम् (आश्व.श्रौ. ८.७)। पशुपुरोडाशस्य अनुवाक्या (आश्व.श्रौ. ३.८


त्वं महाँ इन्द्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः ।
त्वं वृत्रं शवसा जघन्वान्सृजः सिन्धूँरहिना जग्रसानान् ॥१॥
तव त्विषो जनिमन्रेजत द्यौ रेजद्भूमिर्भियसा स्वस्य मन्योः ।
ऋघायन्त सुभ्वः पर्वतास आर्दन्धन्वानि सरयन्त आपः ॥२॥
भिनद्गिरिं शवसा वज्रमिष्णन्नाविष्कृण्वानः सहसान ओजः ।
वधीद्वृत्रं वज्रेण मन्दसानः सरन्नापो जवसा हतवृष्णीः ॥३॥
सुवीरस्ते जनिता मन्यत द्यौरिन्द्रस्य कर्ता स्वपस्तमो भूत् ।
य ईं जजान स्वर्यं सुवज्रमनपच्युतं सदसो न भूम ॥४॥
य एक इच्च्यावयति प्र भूमा राजा कृष्टीनां पुरुहूत इन्द्रः ।
सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ॥५॥
सत्रा सोमा अभवन्नस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः ।
सत्राभवो वसुपतिर्वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः ॥६॥
त्वमध प्रथमं जायमानोऽमे विश्वा अधिथा इन्द्र कृष्टीः ।
त्वं प्रति प्रवत आशयानमहिं वज्रेण मघवन्वि वृश्चः ॥७॥
सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभं सुवज्रम् ।
हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥८॥
अयं वृतश्चातयते समीचीर्य आजिषु मघवा शृण्व एकः ।
अयं वाजं भरति यं सनोत्यस्य प्रियासः सख्ये स्याम ॥९॥
अयं शृण्वे अध जयन्नुत घ्नन्नयमुत प्र कृणुते युधा गाः ।
यदा सत्यं कृणुते मन्युमिन्द्रो विश्वं दृळ्हं भयत एजदस्मात् ॥१०॥
समिन्द्रो गा अजयत्सं हिरण्या समश्विया मघवा यो ह पूर्वीः ।
एभिर्नृभिर्नृतमो अस्य शाकै रायो विभक्ता सम्भरश्च वस्वः ॥११॥
कियत्स्विदिन्द्रो अध्येति मातुः कियत्पितुर्जनितुर्यो जजान ।
यो अस्य शुष्मं मुहुकैरियर्ति वातो न जूत स्तनयद्भिरभ्रैः ॥१२॥
क्षियन्तं त्वमक्षियन्तं कृणोतीयर्ति रेणुं मघवा समोहम् ।
विभञ्जनुरशनिमाँ इव द्यौरुत स्तोतारं मघवा वसौ धात् ॥१३॥
अयं चक्रमिषणत्सूर्यस्य न्येतशं रीरमत्ससृमाणम् ।
आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ ॥१४॥
असिक्न्यां यजमानो न होता ॥१५॥
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ।
जनीयन्तो जनिदामक्षितोतिमा च्यावयामोऽवते न कोशम् ॥१६॥
त्राता नो बोधि ददृशान आपिरभिख्याता मर्डिता सोम्यानाम् ।
सखा पिता पितृतमः पितॄणां कर्तेमु लोकमुशते वयोधाः ॥१७॥
सखीयतामविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः ।
वयं ह्या ते चकृमा सबाध आभिः शमीभिर्महयन्त इन्द्र ॥१८॥
स्तुत इन्द्रो मघवा यद्ध वृत्रा भूरीण्येको अप्रतीनि हन्ति ।
अस्य प्रियो जरिता यस्य शर्मन्नकिर्देवा वारयन्ते न मर्ताः ॥१९॥
एवा न इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वा ।
त्वं राजा जनुषां धेह्यस्मे अधि श्रवो माहिनं यज्जरित्रे ॥२०॥
नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥२१॥

सायणभाष्यम्

‘ त्वं महाँ इन्द्र तुभ्यम्' इत्येकविंशत्यृचं सप्तमं सूक्तं वामदेवस्यार्षम् । अत्रेयमनुक्रमणिका- त्वं महाँ असिक्न्यामेकपदा ' इति । ‘असिक्न्यां यजमानो न होता' इत्येकपदा विराट् शिष्टा विंशतिः त्रिष्टुभः । इन्द्रो देवता । समूळ्हे दशरात्रेऽष्टमेऽहनि निष्केवल्ये इदं सूक्तं विनियुक्तम् । तथा च सूत्रितं -- त्वं महाँ इन्द्र तुभ्यमिति निष्केवल्यम्' ( आश्व. श्रौ. ८.७ ) इति । इन्द्रस्य वृत्रघ्नः ‘ त्वं महाँ' इति पशुपुरोडाशस्यानुवाक्या । सूत्रितं च-’ त्वं महाँ इन्द्र तुभ्यं ह क्षाः सत्राहणम् ' ( आश्व. श्रौ. ३. ८) इति ।।


त्वं म॒हाँ इं॑द्र॒ तुभ्यं॑ ह॒ क्षा अनु॑ क्ष॒त्रं मं॒हना॑ मन्यत॒ द्यौः ।

त्वं वृ॒त्रं शव॑सा जघ॒न्वान्त्सृ॒जः सिंधूँ॒रहि॑ना जग्रसा॒नान् ॥१

त्वम् । म॒हान् । इ॒न्द्र॒ । तुभ्य॑म् । ह॒ । क्षाः । अनु॑ । क्ष॒त्रम् । मं॒हना॑ । म॒न्य॒त॒ । द्यौः ।

त्वम् । वृ॒त्रम् । शव॑सा । ज॒घ॒न्वान् । सृ॒जः । सिन्धू॑न् । अहि॑ना । ज॒ग्र॒सा॒नान् ॥१

त्वम् । महान् । इन्द्र । तुभ्यम् । ह । क्षाः । अनु । क्षत्रम् । मंहना । मन्यत । द्यौः ।

त्वम् । वृत्रम् । शवसा । जघन्वान् । सृजः । सिन्धून् । अहिना । जग्रसानान् ॥१

हे “इन्द्र “त्वं "महान् प्रभूतो भवसि । "क्षाः पृथिवी । क्षा इति पृथिवीनामैतत् । "मंहना महत्त्वेन युक्ता सती "तुभ्यं “ह त्वदर्थमेव "क्षत्रं त्वदीयं बलम् "अनु मन्यत अन्वमन्यत । अनुमतीचकार । "द्यौः च त्वदर्थं बलमन्वमन्यत । हे इन्द्र “त्वं "शवसा त्वदीयेन बलेन "वृत्रं लोकानाम् आवरकं वृत्रनामकम्" असुरं "जघन्वान् हतवान् । किंच "अहिना वृत्रेण "जग्रसानान् जग्रहाणान् ग्रस्तान् ॥ ग्रसतेर्लिटः कानजादेशः ॥ "सिन्धून् अपः "सृजः असृजः सृष्टवानसि ।।


तव॑ त्वि॒षो जनि॑मन्रेजत॒ द्यौ रेज॒द्भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः ।

ऋ॒घा॒यंत॑ सु॒भ्वः१॒॑ पर्व॑तास॒ आर्दं॒धन्वा॑नि स॒रयं॑त॒ आपः॑ ॥२

तव॑ । त्वि॒षः । जनि॑मन् । रे॒ज॒त॒ । द्यौः । रेज॑त् । भूमिः॑ । भि॒यसा॑ । स्वस्य॑ । म॒न्योः ।

ऋ॒घा॒यन्त॑ । सु॒ऽभ्वः॑ । पर्व॑तासः । आर्द॑न् । धन्वा॑नि । स॒रय॑न्ते । आपः॑ ॥२

तव । त्विषः । जनिमन् । रेजत । द्यौः । रेजत् । भूमिः । भियसा । स्वस्य । मन्योः ।

ऋघायन्त । सुऽभ्वः । पर्वतासः । आर्दन् । धन्वानि । सरयन्ते । आपः ॥२

हे इन्द्र “त्विषः दीप्यमानस्य “तव त्वदीये “जनिमन् जन्मनि सति “द्यौः अन्तरिक्षं “स्वस्य त्वदीयात् "मन्योः कोपात् । पञ्चम्यर्थे षष्ठी । “भियसा जातभयेन “रेजत अरेजत् । अकम्पत । “भूमिः च "रेजत् कम्पमाना बभूव । “सुभ्वः महान्तः “पर्वतासः । पर्वता मेघाः । “ऋघायन्त सस्यादीनां वृष्टिप्रदानार्थं नियामकेन त्वया अबाध्यन्त । तथा मेघाः “आर्दन् प्राणिनां पिपासारूपां पीडामहिंसन् । तथा मेघाः “धन्वानि उदकरहितान् देशान् “आपः अपः “सरयन्ते गमयन्ति ॥


भि॒नद्गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना॑विष्कृण्वा॒नः स॑हसा॒न ओजः॑ ।

वधी॑द्वृ॒त्रं वज्रे॑ण मंदसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ॥३

भि॒नत् । गि॒रिम् । शव॑सा । वज्र॑म् । इ॒ष्णन् । आ॒विः॒ऽकृ॒ण्वा॒नः । स॒ह॒सा॒नः । ओजः॑ ।

वधी॑त् । वृ॒त्रम् । वज्रे॑ण । म॒न्द॒सा॒नः । सर॑न् । आपः॑ । जव॑सा । ह॒तऽवृ॑ष्णीः ॥३

भिनत् । गिरिम् । शवसा । वज्रम् । इष्णन् । आविःऽकृण्वानः । सहसानः । ओजः ।

वधीत् । वृत्रम् । वज्रेण । मन्दसानः । सरन् । आपः । जवसा । हतऽवृष्णीः ॥३

"सहसानः शत्रूणामभिभवन् “ओजः तेजः आविष्कृण्वानः आविष्कुर्वन् इन्द्रः “वज्रमिष्णन् वज्रं प्रेरयन् “शवसा बलेन “गिरिं पर्वतं जातं “भिनत् अभिनत् बिभेद । किंच “मन्दसानः सोमेन मोदमान इन्द्रः “वज्रेण "वृत्रं वृत्रनामानमसुरं “वधीत् अवधीत् जघान । ततः “आपः वृत्रेणावृतान्युदकानि “हतवृष्णीः । हतो वृषा वृत्रो यासां ता हतवृष्ण्यः । ता वृत्रवधानन्तरं निवारणरहिताः सत्यः "जवसा वेगेन “सरन् असरन् अगच्छन् ॥


सु॒वीर॑स्ते जनि॒ता म॑न्यत॒ द्यौरिंद्र॑स्य क॒र्ता स्वप॑स्तमो भूत् ।

य ईं॑ ज॒जान॑ स्व॒र्यं॑ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ॥४

सु॒ऽवीरः॑ । ते॒ । ज॒नि॒ता । म॒न्य॒त॒ । द्यौः । इन्द्र॑स्य । क॒र्ता । स्वपः॑ऽतमः । भू॒त् ।

यः । ई॒म् । ज॒जान॑ । स्व॒र्य॑म् । सु॒ऽवज्र॑म् । अन॑पऽच्युतम् । सद॑सः । न । भूम॑ ॥४

सुऽवीरः । ते । जनिता । मन्यत । द्यौः । इन्द्रस्य । कर्ता । स्वपःऽतमः । भूत् ।

यः । ईम् । जजान । स्वर्यम् । सुऽवज्रम् । अनपऽच्युतम् । सदसः । न । भूम ॥४

हे इन्द्र “यः प्रजापतिः “स्वर्यम् ऋत्विगादिभिः स्तुत्यं "सुवज्रं शोभनवज्रोपेतं "सदसः स्वकीयात् स्वर्गाख्यात् स्थानात् "अनपच्युतं विच्युतिरहितं च । “न इति समुच्चयार्थे । 'भूम भूम्ना महत्त्वेन युक्तम् “ईम् एनं त्वां “जजान अजीजनत् ॥ ‘ जन जनने ' इति धातुः ॥ “द्यौः द्योतमानः “ते तव “जनिता जनयिता स प्रजापतिः “सुवीरः शोभनपुत्रवानहमस्मीति “मन्यत अमन्यत । किंच “इन्द्रस्य “कर्ता इन्द्रस्य जनयिता प्रजापतिः “स्वपस्तमः अत्यन्तं शोभनकर्मा अभूत् ॥


य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा॑ कृष्टी॒नां पु॑रुहू॒त इंद्रः॑ ।

स॒त्यमे॑न॒मनु॒ विश्वे॑ मदंति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोनः॑ ॥५

यः । एकः॑ । इत् । च्य॒वय॑ति । प्र । भूम॑ । राजा॑ । कृ॒ष्टी॒नाम् । पु॒रु॒ऽहू॒तः । इन्द्रः॑ ।

स॒त्यम् । ए॒न॒म् । अनु॑ । विश्वे॑ । म॒द॒न्ति॒ । रा॒तिम् । दे॒वस्य॑ । गृ॒ण॒तः । म॒घोनः॑ ॥५

यः । एकः । इत् । च्यवयति । प्र । भूम । राजा । कृष्टीनाम् । पुरुऽहूतः । इन्द्रः ।

सत्यम् । एनम् । अनु । विश्वे । मदन्ति । रातिम् । देवस्य । गृणतः । मघोनः ॥५

"कृष्टीनां सर्वासां प्रजानां "राजा प्रभुः “पुरुहूतः बहुभिराहूतः “एक “इत् देवानां मध्ये मुख्य एवं “यः “इन्द्रः “भूम भूतं निष्पन्नं शत्रुभ्यो भयं “प्र “च्यावयति प्रकर्षेण नाशयति । “विश्वे सर्वे यजमानाः “मघोनः मघवतः । हविर्लक्षणधनवत इत्यर्थः । "देवस्य इन्द्रसमाश्रयात् द्योतमानस्य “गृणतः स्तुवतः “रातिं बन्धुम् “एनम् इन्द्रम् “अनु लक्षीकृस्य "सत्यम् एव “मदन्ति स्तुवन्ति ॥ ॥ २१ ॥


स॒त्रा सोमा॑ अभवन्नस्य॒ विश्वे॑ स॒त्रा मदा॑सो बृह॒तो मदि॑ष्ठाः ।

स॒त्राभ॑वो॒ वसु॑पति॒र्वसू॑नां॒ दत्रे॒ विश्वा॑ अधिथा इंद्र कृ॒ष्टीः ॥६

स॒त्रा । सोमाः॑ । अ॒भ॒व॒न् । अ॒स्य॒ । विश्वे॑ । स॒त्रा । मदा॑सः । बृ॒ह॒तः । मदि॑ष्ठाः ।

स॒त्रा । अ॒भ॒वः॒ । वसु॑ऽपतिः । वसू॑नाम् । दत्रे॑ । विश्वाः॑ । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ॥६

सत्रा । सोमाः । अभवन् । अस्य । विश्वे । सत्रा । मदासः । बृहतः । मदिष्ठाः ।

सत्रा । अभवः । वसुऽपतिः । वसूनाम् । दत्रे । विश्वाः । अधिथाः । इन्द्र । कृष्टीः ॥६

“विश्वे सर्वे “सोमाः “अस्य इन्द्रस्य “सत्रा। सत्रेति सत्यनामैतत् । सत्यमेव प्रभूताः “अभवन् । किंच "मदासः मदा मदकराः सोमाः "बृहतः महतोऽस्येन्द्रस्य “मदिष्ठाः मादयितृतमाः “सत्रा सत्यमेवाभवन् । हे “इन्द्र त्वं “वसुपतिः धनपतिः । न केवलं धनपतिः किंतु “वसूनां सर्वेषां पश्वादीनां धनानां पतिः “सत्रा सत्यमेव “अभवः भवसि । हे इन्द्र त्वं "दत्रे धने निमित्तभूते सति “विश्वाः सर्वाः “कृष्टीः स्तोत्रीः प्रजाः "अधिथाः धारयसि ॥


त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा॑ अधिथा इंद्र कृ॒ष्टीः ।

त्वं प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण मघव॒न्वि वृ॑श्चः ॥७

त्वम् । अध॑ । प्र॒थ॒मम् । जाय॑मानः । अमे॑ । विश्वाः॑ । अ॒धि॒थाः॒ । इ॒न्द्र॒ । कृ॒ष्टीः ।

त्वम् । प्रति॑ । प्र॒ऽवतः॑ । आ॒ऽशया॑नम् । अहि॑म् । वज्रे॑ण । म॒घ॒ऽव॒न् । वि । वृ॒श्चः॒ ॥७

त्वम् । अध । प्रथमम् । जायमानः । अमे । विश्वाः । अधिथाः । इन्द्र । कृष्टीः ।

त्वम् । प्रति । प्रऽवतः । आऽशयानम् । अहिम् । वज्रेण । मघऽवन् । वि । वृश्चः ॥७

“अध अपि च "प्रथमम् एव “जायमानः “त्वम् “अमे वृत्रनिमित्ते भये सति “विश्वाः सर्वाः “कृष्टीः प्रजाः “अधिथाः रक्षकत्वेन धारयसि । हे “मघवन् धनवन् “इन्द्र “त्वं “प्रति “प्रवतः प्रति प्रवणानुदकवतो देशान् लक्षीकृत्य “आशयानम् अपां निरोधकम् "अहिं वृत्रनामानमसुरं “वज्रेण “वि “वृश्चः व्यवृश्चः छिन्नवानसि ।।


इन्द्रस्य वृत्रघ्नः पशौ ' सत्राहणम्' इति हविषोऽनुवाक्या । सूत्रितं च-’ सत्राहणं दाधृषिं तुम्रमिन्द्रं सहदानुं पुरुहूत क्षियन्तम् ' ( आश्व. श्रौ. ३. ८) इति ॥

स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिंद्रं॑ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्रं॑ ।

हंता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता॑ म॒घानि॑ म॒घवा॑ सु॒राधाः॑ ॥८

स॒त्रा॒ऽहन॑न् । दधृ॑षिम् । तुम्र॑म् । इन्द्र॑म् । म॒हाम् । अ॒पा॒रम् । वृ॒ष॒भम् । सु॒ऽवज्र॑म् ।

हन्ता॑ । यः । वृ॒त्रम् । सनि॑ता । उ॒त । वाज॑म् । दाता॑ । म॒घानि॑ । म॒घऽवा॑ । सु॒ऽराधाः॑ ॥८

सत्राऽहनन् । दधृषिम् । तुम्रम् । इन्द्रम् । महाम् । अपारम् । वृषभम् । सुऽवज्रम् ।

हन्ता । यः । वृत्रम् । सनिता । उत । वाजम् । दाता । मघानि । मघऽवा । सुऽराधाः ॥८

“सत्राहणं बहूनां शत्रूणां हन्तारं “दाधृषिम् अत्यन्तं धर्षकं “तुम्रम् । तुमिः प्रेरणकर्मा'। शत्रूणां प्रेरकं “महां महान्तम् “अपारम् अपरिमाणम् । विनाशरहितमित्यर्थः। "वृषभं कामानां वर्षितारं “सुवज्रं शोभनेन वज्रेणोपेतम् “इन्द्रम् । वयं स्तोतारः स्तुमेति शेषः । “यः इन्द्रः "वृत्रं वृत्रनामानम् असुरं "हन्ता हिंसिता भवति । “उत अपि च य इन्द्रः “वाजम् अन्नं “सनिता दाता भवति । “सुराधाः शोभनधनयुक्तो यः “मघवा इन्द्रः “मघानि धनानि “दाता भवति । तमिन्द्रं स्तुमेति पूर्वेण अन्वयः ॥ अत्र सर्वत्र तृनन्तत्वात् ' न लोकाव्यय°' इति षष्ठीप्रतिषेधे सति द्वितीयैव भवति ॥


अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा॑ शृ॒ण्व एकः॑ ।

अ॒यं वाजं॑ भरति॒ यं स॒नोत्य॒स्य प्रि॒यासः॑ स॒ख्ये स्या॑म ॥९

अ॒यम् । वृतः॑ । चा॒त॒य॒ते॒ । स॒म्ऽई॒चीः । यः । आ॒जिषु॑ । म॒घऽवा॑ । शृ॒ण्वे । एकः॑ ।

अ॒यम् । वाज॑म् । भ॒र॒ति॒ । यम् । स॒नोति॑ । अ॒स्य । प्रि॒यासः॑ । स॒ख्ये । स्या॒म॒ ॥९

अयम् । वृतः । चातयते । सम्ऽईचीः । यः । आजिषु । मघऽवा । शृण्वे । एकः ।

अयम् । वाजम् । भरति । यम् । सनोति । अस्य । प्रियासः । सख्ये । स्याम ॥९

“मघवा धनवान् “यः इन्द्रः “आजिषु संग्रामेषु “एकः मुख्य एव “शृण्वे श्रूयते । “अयम् इन्द्रः “समीचीः संगताः "वृतः । वृण्वन्त्याच्छादयन्ति लोकानिति वृतः शत्रुसेनाः । ताः “चातयते नाशयति । “अयम् इन्द्रः “यं “वाजं यदन्नं “सनोति यजमानाय ददाति तं वाजं “भरति यजमानस्य तदन्नं दातुं बिभर्ति । स्तोतारो वयम् “अस्य एवंभूतस्येन्द्रस्य “सख्ये सखित्वे प्रियासः प्रियाः “स्याम भवेम ।।


अ॒यं शृ॑ण्वे॒ अध॒ जय॑न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः ।

य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिंद्रो॒ विश्वं॑ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ॥१०

अ॒यम् । शृ॒ण्वे॒ । अध॑ । जय॑न् । उ॒त । घ्नन् । अ॒यम् । उ॒त । प्र । कृ॒णु॒ते॒ । यु॒धा । गाः ।

य॒दा । स॒त्यम् । कृ॒णु॒ते । म॒न्युम् । इन्द्रः॑ । विश्व॑म् । दृ॒ळ्हम् । भ॒य॒ते॒ । एज॑त् । अ॒स्मा॒त् ॥१०

अयम् । शृण्वे । अध । जयन् । उत । घ्नन् । अयम् । उत । प्र । कृणुते । युधा । गाः ।

यदा । सत्यम् । कृणुते । मन्युम् । इन्द्रः । विश्वम् । दृळ्हम् । भयते । एजत् । अस्मात् ॥१०

"अध अपि च "अयम् इन्द्रः “जयन् शत्रून् विजयन् “शृण्वे श्रूयते । सर्वत्र प्रख्यातो भवति । “उत अपि च “घ्नन् शत्रून् हिंसन् सर्वत्र श्रूयते । "उत अपि च "अयम्' इन्द्रः "युधा युद्धेन “गाः पशून् “प्र “कृणुते शत्रुसकाशात् आहरति । किंच “इन्द्रः "यदा “मन्युं कोपं "सत्यम् एव “कृणुते द्विषदर्थं करोति तदानीं "दृळ्हं दृढं स्थिर स्थावररूपम् “एजत् कम्पमानं जङ्गमरूपं च “विश्वं समस्तं जगत् "अस्मात् इन्द्रात् "भयते बिभेति ॥ ॥ २२ ॥


समिंद्रो॒ गा अ॑जय॒त्सं हिर॑ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः ।

ए॒भिर्नृभि॒र्नृत॑मो अस्य शा॒कै रा॒यो वि॑भ॒क्ता सं॑भ॒रश्च॒ वस्वः॑ ॥११

सम् । इन्द्रः॑ । गाः । अ॒ज॒य॒त् । सम् । हिर॑ण्या । सम् । अ॒श्वि॒या । म॒घऽवा॑ । यः । ह॒ । पू॒र्वीः ।

ए॒भिः । नृऽभिः॑ । नृऽत॑मः । अ॒स्य॒ । शा॒कैः । रा॒यः । वि॒ऽभ॒क्ता । स॒म्ऽभ॒रः । च॒ । वस्वः॑ ॥११

सम् । इन्द्रः । गाः । अजयत् । सम् । हिरण्या । सम् । अश्विया । मघऽवा । यः । ह । पूर्वीः ।

एभिः । नृऽभिः । नृऽतमः । अस्य । शाकैः । रायः । विऽभक्ता । सम्ऽभरः । च । वस्वः ॥११

“यो "ह यः खलु “मघवा धनवान् “इन्द्रः “गाः असुराणां “सम् "अजयत् सम्यक् जितवान् भवति । किंच “हिरण्या हिरण्यानि हितरमणीयानि शत्रुसंबन्धीनि धनानि “सम् अजयत् । तथा “अश्विया अश्वियानि शत्रुसंबन्धिनोऽश्वसमूहान् सम्यक् जयति स्म । तथा “पूर्वीः बह्वीः शत्रुसेनाः समजयत् । इन्द्रः सर्वान् शत्रून् जित्वा सकलमपि पश्वादिधनमपहृतवानित्यर्थः। “शाकैः सामर्थ्यैः "नृतमः नेतृतमः पश्वादीनामतिशयेन निर्वाहकः स इन्द्रः “एभिर्नृभिः नेतृभिः स्तोतृभिः स्तुतः सन् “अस्य “रायः पश्वादिरूपस्य धनस्य “विभक्ता स्तोतृभ्यो विभागस्य कर्ता । दाता भवतीत्यर्थः । किंच “वस्वः वसुनो धनस्य “संभरश्च संभर्ता धारकश्च भवति ॥


किय॑त्स्वि॒दिंद्रो॒ अध्ये॑ति मा॒तुः किय॑त्पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑ ।

यो अ॑स्य॒ शुष्मं॑ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ॥१२

किय॑त् । स्वि॒त् । इन्द्रः॑ । अधि॑ । ए॒ति॒ । मा॒तुः । किय॑त् । पि॒तुः । ज॒नि॒तुः । यः । ज॒जान॑ ।

यः । अ॒स्य॒ । शुष्म॑म् । मु॒हु॒कैः । इय॑र्ति । वातः॑ । न । जू॒तः । स्त॒नय॑त्ऽभिः । अ॒भ्रैः ॥१२

कियत् । स्वित् । इन्द्रः । अधि । एति । मातुः । कियत् । पितुः । जनितुः । यः । जजान ।

यः । अस्य । शुष्मम् । मुहुकैः । इयर्ति । वातः । न । जूतः । स्तनयत्ऽभिः । अभ्रैः ॥१२

यः “इन्द्रः “मातुः जनन्याः सकाशात् “कियत्स्वित् यावद्बलम् “अध्येति अधिगच्छति । “पितुः सकाशात् “कियत् यावद्बलमधिगच्छति । “यः इन्द्रः “जनितुः जनयितुर्यस्मात् प्रजापतेः सकाशादिदं दृश्यमानं जगत् “जजान अजनयत् । “यः इन्द्रः तस्मात् प्रजापतेः सकाशात् “अस्य जगतः “शुष्मं यावद्धलं “मुहुकैः मुहुर्मुहुः “इयर्ति प्रेरयति । “स्तनयद्भिः गर्जद्भिः अभ्रैः मेघेः “जूतः प्रेरितः “वातो “न वायुरिव तथा स इन्द्रः स्तोतृभिर्जूतः प्रेरितः हविष्यदानार्थमाहूतो भवति ॥॥१०॥


क्षि॒यंतं॑ त्व॒मक्षि॑यंतं कृणो॒तीय॑र्ति रे॒णुं म॒घवा॑ स॒मोहं॑ ।

वि॒भं॒ज॒नुर॒शनि॑माँ इव॒ द्यौरु॒त स्तो॒तारं॑ म॒घवा॒ वसौ॑ धात् ॥१३

क्षि॒यन्त॑म् । त्व॒म् । अक्षि॑यन्तम् । कृ॒णो॒ति॒ । इय॑र्ति । रे॒णुम् । म॒घऽवा॑ । स॒म्ऽओह॑म् ।

वि॒ऽभ॒ञ्ज॒नुः । अ॒शनि॑मान्ऽइव । द्यौः । उ॒त । स्तो॒तार॑म् । म॒घऽवा॑ । वसौ॑ । धा॒त् ॥१३

क्षियन्तम् । त्वम् । अक्षियन्तम् । कृणोति । इयर्ति । रेणुम् । मघऽवा । सम्ऽओहम् ।

विऽभञ्जनुः । अशनिमान्ऽइव । द्यौः । उत । स्तोतारम् । मघऽवा । वसौ । धात् ॥१३

“मघवा धनवानिन्द्रः “क्षियन्तं धनराहित्येन क्षीयमाणं “त्वम् एकं जनम् “अक्षियन्तं धनेन अक्षीयमाणं “कृणोति करोति । अकिंचनः कश्चित्पुरुषः इन्द्रं स्तुत्वा धनसमृद्धोऽभवदित्यर्थः । “अशनिमान् अशनिना युक्तः द्यौः “इव अन्तरिक्षमिव “विभञ्जनुः शत्रूणां विशेषेण भञ्जकः "मघवा इन्द्रः “समोहं समूढं “रेणुं पापम् “इयर्ति स्तोतुः सकाशात् प्रेरयति । "उत अपि च “मघवा धनवानिन्द्रः “स्तोतारं “वसौ धने “धात् अधात् निदधाति ।। । पूर्वीः । : ॥११॥


अ॒यं च॒क्रमि॑षण॒त्सूर्य॑स्य॒ न्येत॑शं रीरमत्ससृमा॒णं ।

आ कृ॒ष्ण ईं॑ जुहुरा॒णो जि॑घर्ति त्व॒चो बु॒ध्ने रज॑सो अ॒स्य योनौ॑ ॥१४

अ॒यम् । च॒क्रम् । इ॒ष॒ण॒त् । सूर्य॑स्य । नि । एत॑शम् । री॒र॒म॒त् । स॒सृ॒मा॒णम् ।

आ । कृ॒ष्णः । ई॒म् । जु॒हु॒रा॒णः । जि॒घ॒र्ति॒ । त्व॒चः । बु॒ध्ने । रज॑सः । अ॒स्य । योनौ॑ ॥१४

अयम् । चक्रम् । इषणत् । सूर्यस्य । नि । एतशम् । रीरमत् । ससृमाणम् ।

आ । कृष्णः । ईम् । जुहुराणः । जिघर्ति । त्वचः । बुध्ने । रजसः । अस्य । योनौ ॥१४

प्रैतशं सूर्ये पस्पृधानम्' (ऋ. सं. १. ६१.१५ ) इत्यर्धर्चे पूर्वं काचिदाख्यायिका सूचिता । अत्रापि • अयं चक्रम्' इति पूर्वार्धे सा सूच्यते । स्वश्वनामा कश्चिद्राजा । स च पुत्रार्थं सूर्यमुपास्ते । स च सूर्यः पुत्ररूपेण स्वयमेव तत्रोत्पन्नः सन् एतशाख्येन महर्षिणा सार्धं युद्धं चकार । तदानीं स ऋषिः युद्धे जयार्थमिन्द्रं तुष्टाव। स इन्द्रः तेन स्तूयमानः सन् स्वश्वपुत्रस्य सूर्यस्य संबन्धिनः संग्रामात् एनमपालयदिति । “अयम् इन्द्रः “सूर्यस्य “चक्रम् आयुधम् “इषणत् प्रैरयत्। “ससृमाणं युद्धार्थं सरन्तं गच्छन्तम् “एतशम् एतशनामानमृषिं “नि “रीरमत् न्यरीमत् निवारितवान्। “जुहुराणः कुटिलं यथा भवति तथा संचरन् “कृष्णः कृष्णवर्णो मेघः “त्वचः तेजसः “बुध्ने मूलभूते “रजसो “अस्य उदकस्य “योनौ स्थानेऽन्तरिक्षे स्थितम् “ईम् एनमिन्द्रम् “आ “जिघर्ति आसिञ्चति । शत्रूणां प्रेरिताञ्चक्रादेस्त्रस्तं ररक्षेत्यर्थः ॥


असि॑क्न्यां॒ यज॑मानो॒ न होता॑ ॥१५

असि॑क्न्याम् । यज॑मानः । न । होता॑ ॥१५

असिक्न्याम् । यजमानः । न । होता ॥१५

एकपदेयमृक् पूर्वर्चा सह दृष्टान्तत्वेन संबध्यते । “असिक्न्यां रात्रौ “यजमानो “न यजमान इव “होता होतारमाह्वातारमग्निम् । द्वितीयार्थे प्रथमा । सोमेनासिञ्चति तद्वन्मेघ इन्द्रम् आसिञ्चतीत्यर्थः ॥ ॥ २३ ॥


ग॒व्यंत॒ इंद्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यंतो॒ वृष॑णं वा॒जयं॑तः ।

ज॒नी॒यंतो॑ जनि॒दामक्षि॑तोति॒मा च्या॑वयामोऽव॒ते न कोशं॑ ॥१६

ग॒व्यन्तः॑ । इन्द्र॑म् । स॒ख्याय॑ । विप्राः॑ । अ॒श्व॒ऽयन्तः॑ । वृष॑णम् । वा॒जय॑न्तः ।

ज॒नि॒ऽयन्तः॑ । ज॒नि॒ऽदाम् । अक्षि॑तऽऊतिम् । आ । च्य॒व॒या॒मः॒ । अ॒व॒ते । न । कोश॑म् ॥१६

गव्यन्तः । इन्द्रम् । सख्याय । विप्राः । अश्वऽयन्तः । वृषणम् । वाजयन्तः ।

जनिऽयन्तः । जनिऽदाम् । अक्षितऽऊतिम् । आ । च्यवयामः । अवते । न । कोशम् ॥१६

“गव्यन्तः गा इच्छन्तः “अश्वायन्तः अश्वानिच्छन्तः “वाजयन्तः वाजमन्नमिच्छन्तः “जनीयन्तः जायाश्च इच्छन्तः “विप्राः मेधाविनः स्तोतारो वयं “सख्याय इन्द्रसंबन्धिने सखित्वाय “वृषणं कामानां वर्षितारं "जनिदां जयाप्रदम् “अक्षितोतिम् अक्षीणरक्षम् । सर्वदा रक्षाकरमित्यर्थः। एवंभूतम् “इन्द्रम् “आ “च्यावयामः आगमयामः । तत्र दृष्टान्तः । “अवते कूपे । अवत इति कूपनाम ' अवतः अवटः क्रिविः ' (नि. ३. २३. ७ ) इति कूपनामसु पाठात् । “कोशं “न जलोद्धरणपात्रमिव । पुरुषा जलोद्धरणपात्रं जलेन पूरयितुं कूपे यथा आच्यावयन्ति तथा वयमाच्यावयाम इत्यर्थः ।।


त्रा॒ता नो॑ बोधि॒ ददृ॑शान आ॒पिर॑भिख्या॒ता म॑र्डि॒ता सो॒म्यानां॑ ।

सखा॑ पि॒ता पि॒तृत॑मः पितॄ॒णां कर्ते॑मु लो॒कमु॑श॒ते व॑यो॒धाः ॥१७

त्रा॒ता । नः॒ । बो॒धि॒ । ददृ॑शानः । आ॒पिः । अ॒भि॒ऽख्या॒ता । म॒र्डि॒ता । सो॒म्याना॑म् ।

सखा॑ । पि॒ता । पि॒तृऽत॑मः । पि॒तॄ॒णाम् । कर्ता॑ । ई॒म् । ऊं॒ इति॑ । लो॒कम् । उ॒श॒ते । व॒यः॒ऽधाः ॥१७

त्राता । नः । बोधि । ददृशानः । आपिः । अभिऽख्याता । मर्डिता । सोम्यानाम् ।

सखा । पिता । पितृऽतमः । पितॄणाम् । कर्ता । ईम् । ऊं इति । लोकम् । उशते । वयःऽधाः ॥१७

हे इन्द्र “आपिः आप्तः “ददृशानः सर्वं पालकत्वेन पश्यंस्त्वं “नः अस्माकं “त्राता रक्षकः “बोधि भव । किंच । “अभिख्याता अभिद्रष्टा “मर्डिता सुखयिता "सोम्यानां सोमार्हाणां यजमानादीनां “सखा प्रजापतिना समानख्यातिः “पिता पालकः। केवलं पालको न किंतु “पितॄणां पालकानां मध्ये "पितृतमः अतिशयेन पालकः "कर्तेमु पितॄणां स्रष्टा च त्वं "लोकं स्वर्गादिलोकम्' “उशते कामयमानाय स्तोत्रे "वयोधाः । वय इत्यन्ननामैतत् । अन्नप्रदो भव ॥


स॒खी॒य॒ताम॑वि॒ता बो॑धि॒ सखा॑ गृणा॒न इं॑द्र स्तुव॒ते वयो॑ धाः ।

व॒यं ह्या ते॑ चकृ॒मा स॒बाध॑ आ॒भिः शमी॑भिर्म॒हयं॑त इंद्र ॥१८

स॒खि॒ऽय॒ताम् । अ॒वि॒ता । बो॒धि॒ । सखा॑ । गृ॒णा॒नः । इ॒न्द्र॒ । स्तु॒व॒ते । वयः॑ । धाः॒ ।

व॒यम् । हि । आ । ते॒ । च॒कृ॒म । स॒ऽबाधः॑ । आ॒भिः । शमी॑भिः । म॒हय॑न्तः । इ॒न्द्र॒ ॥१८

सखिऽयताम् । अविता । बोधि । सखा । गृणानः । इन्द्र । स्तुवते । वयः । धाः ।

वयम् । हि । आ । ते । चकृम । सऽबाधः । आभिः । शमीभिः । महयन्तः । इन्द्र ॥१८

हे इन्द्र त्वं “सखीयतां सखित्वमिच्छतामस्माकम् “अविता रक्षिता "बोधि भव। तथा “गृणानः स्तूयमानस्त्वं “सखा भव । हे “इन्द्र “स्तुवते स्तुतिं कुर्वते मह्यं “वयः अन्नं “धाः अधाः धेहि। हे “इन्द्र “सबाधः बाधासहिताः “वयं “हि वयं खलु “ते त्वाम् “आ “चकृम आह्वयामः । किं कुर्वन्तः । “आभिः प्रत्यक्षेणोपलभ्यमानैः “शमीभिः स्तुतिरूपैः कर्मभिः "महयन्तः त्वां पूजयन्तः ॥ ६॥


इन्द्रस्य वृत्रघ्नः पुरोडाशस्य ‘स्तुत इन्द्रः' इति याज्या । सूत्रितं च -’ स्तुत इन्द्रो मघवा यद्ध वृत्रैवा वस्य इन्द्रः सत्यः सम्राट्' (आश्व. श्रौ. ३.८) इति ॥

स्तु॒त इंद्रो॑ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको॑ अप्र॒तीनि॑ हंति ।

अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रयं॑ते॒ न मर्ताः॑ ॥१९

स्तु॒तः । इन्द्रः॑ । म॒घऽवा॑ । यत् । ह॒ । वृ॒त्रा । भूरी॑णि । एकः॑ । अ॒प्र॒तीनि॑ । ह॒न्ति॒ ।

अ॒स्य । प्रि॒यः । ज॒रि॒ता । यस्य॑ । शर्म॑न् । नकिः॑ । दे॒वाः । वा॒रय॑न्ते । न । मर्ताः॑ ॥१९

स्तुतः । इन्द्रः । मघऽवा । यत् । ह । वृत्रा । भूरीणि । एकः । अप्रतीनि । हन्ति ।

अस्य । प्रियः । जरिता । यस्य । शर्मन् । नकिः । देवाः । वारयन्ते । न । मर्ताः ॥१९

"यद्ध यदा खलु “मघवा धनवान् “इन्द्रः "स्तुतः अस्माभिः स्तुतो भवति तदेन्द्रः “एकः असहाय एव “भूरीणि बहूनि "अप्रतीनि अप्रतिगमनानि । अभिगमनयुक्तानीत्यर्थः । "वृत्रा वृत्राणि शत्रून् “हन्ति हिनस्ति । "यस्य इन्द्रस्य “शर्मन् शर्मणि आश्रये वर्तमानं स्तोतारं "देवाः “नकि “वारयन्ते निवारणं न कुर्वन्ति । “मर्ताः च “न निवारयन्ते"। "अस्य इन्द्रस्य “जरिता स्तोता “प्रियः भवति ॥


आग्निमारुतशस्त्रे ‘एवा न इन्द्रः' इति परिधानीया। सूत्रितं च-' एवा न इन्द्रो मघवा विरप्शीति परिदध्यात्' ( आश्व. श्रौ. ५. २०) इति ।।

ए॒वा न॒ इंद्रो॑ म॒घवा॑ विर॒प्शी कर॑त्स॒त्या च॑र्षणी॒धृद॑न॒र्वा ।

त्वं राजा॑ ज॒नुषां॑ धेह्य॒स्मे अधि॒ श्रवो॒ माहि॑नं॒ यज्ज॑रि॒त्रे ॥२०

ए॒व । नः॒ । इन्द्रः॑ । म॒घऽवा॑ । वि॒ऽर॒प्शी । कर॑त् । स॒त्या । च॒र्ष॒णि॒ऽधृत् । अ॒न॒र्वा ।

त्वम् । राजा॑ । ज॒नुषा॑म् । धे॒हि॒ । अ॒स्मे इति॑ । अधि॑ । श्रवः॑ । माहि॑नम् । यत् । ज॒रि॒त्रे ॥२०

एव । नः । इन्द्रः । मघऽवा । विऽरप्शी । करत् । सत्या । चर्षणिऽधृत् । अनर्वा ।

त्वम् । राजा । जनुषाम् । धेहि । अस्मे इति । अधि । श्रवः । माहिनम् । यत् । जरित्रे ॥२०

“विरप्शी बहुविधशब्दवान् “चर्षणीधृत् सर्वासां प्रजानां धारयिता "अनर्वा अप्रत्यृतः । केनापि प्रतिकूलेन न प्राप्त इत्यर्थः । “मघवा धनवान् “इन्द्रः “एवा एवमस्माभिः स्तुतः सन् "नः अस्माकं “सत्या सत्यरूपाण्यभिमतानि फलानि “करत् करोतु । हे इन्द्र “जनुषां जन्मवतां सर्वेषां “राजा प्रभुः “त्वं “माहिनं महिम्नोपेतं “यत् “श्रवः यद्यशः "जरित्रे स्तोत्रे देयं तद्यशः “अस्मे अस्मासु “अधि अधिकत्वेन “धेहि । “एवा न इन्द्रो मघवा विरप्शीत्युत्तमया परिदधातीयं वा इन्द्रो मघवा विरप्शी' (ऐ. ब्रा. ३. ३८) इत्यादि ब्राह्मणम् ॥


नू ष्टु॒त इं॑द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः ।

अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥२१

नु । स्तु॒तः । इ॒न्द्र॒ । नु । गृ॒णा॒नः । इष॑म् । ज॒रि॒त्रे । न॒द्यः॑ । न । पी॒पे॒रिति॑ पीपेः ।

अका॑रि । ते॒ । ह॒रि॒ऽवः॒ । ब्रह्म॑ । नव्य॑म् । धि॒या । स्या॒म॒ । र॒थ्यः॑ । स॒दा॒ऽसाः ॥२१

नु । स्तुतः । इन्द्र । नु । गृणानः । इषम् । जरित्रे । नद्यः । न । पीपेरिति पीपेः ।

अकारि । ते । हरिऽवः । ब्रह्म । नव्यम् । धिया । स्याम । रथ्यः । सदाऽसाः ॥२१

नू ष्टुत इन्द्रेति व्याख्याता ॥ ॥ २४ ॥

मण्डल ४

सूक्तं ४.१

सूक्तं ४.२

सूक्तं ४.३

सूक्तं ४.४

सूक्तं ४.५

सूक्तं ४.६

सूक्तं ४.७

सूक्तं ४.८

सूक्तं ४.९

सूक्तं ४.१०

सूक्तं ४.११

सूक्तं ४.१२

सूक्तं ४.१३

सूक्तं ४.१४

सूक्तं ४.१५

सूक्तं ४.१६

सूक्तं ४.१७

सूक्तं ४.१८

सूक्तं ४.१९

सूक्तं ४.२०

सूक्तं ४.२१

सूक्तं ४.२२

सूक्तं ४.२३

सूक्तं ४.२४

सूक्तं ४.२५

सूक्तं ४.२६

सूक्तं ४.२७

सूक्तं ४.२८

सूक्तं ४.२९

सूक्तं ४.३०

सूक्तं ४.३१

सूक्तं ४.३२

सूक्तं ४.३३

सूक्तं ४.३४

सूक्तं ४.३५

सूक्तं ४.३६

सूक्तं ४.३७

सूक्तं ४.३८

सूक्तं ४.३९

सूक्तं ४.४०

सूक्तं ४.४१

सूक्तं ४.४२

सूक्तं ४.४३

सूक्तं ४.४४

सूक्तं ४.४५

सूक्तं ४.४६

सूक्तं ४.४७

सूक्तं ४.४८

सूक्तं ४.४९

सूक्तं ४.५०

सूक्तं ४.५१

सूक्तं ४.५२

सूक्तं ४.५३

सूक्तं ४.५४

सूक्तं ४.५५

सूक्तं ४.५६

सूक्तं ४.५७

सूक्तं ४.५८



"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१७&oldid=184153" इत्यस्माद् पुनः प्राप्तिः