ऋग्वेदः सूक्तं १०.८१

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १०.८० ऋग्वेदः - मण्डल १०
सूक्तं १०.८१
विश्वकर्मा भौवनः
सूक्तं १०.८२ →
विश्वकर्मा । त्रिष्टुप्, २ विराड्रूपा


य इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीदत्पिता नः ।
स आशिषा द्रविणमिच्छमानः प्रथमच्छदवराँ आ विवेश ॥१॥
किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीत् ।
यतो भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ॥२॥
विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।
सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥३॥
किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ।
मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥४॥
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा ।
शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥५॥
विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् ।
मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥६॥
वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम ।
स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा ॥७॥


सायणभाष्यम्

‘य इमा' इति सप्तर्चं त्रयोदशं सूक्तं भुवनपुत्रस्य विश्वकर्मण आर्षं त्रैष्टुभं विश्वकर्मदेवत्यम् । तथा चानुक्रान्तं --- ‘ य इमा विश्वकर्मा भौवनो वैश्वकर्मणं तु ' इति । गतः सूक्तविनियोगः । अत्र वाजसनेयकं -- ब्रह्म वै स्वयंभु तपोऽतप्यत । तदैक्षत न वै तपस्यानन्त्यमस्ति हन्ताहं भूतेष्वात्मानं जुहवानि भूतानि चात्मनीति तत्सर्वेषु भूतेष्वात्मानं हुत्वा ' ( श. ब्रा. १३. ७. १) इत्यादि ॥


य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता न॑ः ।

स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒ आ वि॑वेश ॥१

यः । इ॒मा । विश्वा॑ । भुव॑नानि । जुह्व॑त् । ऋषिः॑ । होता॑ । नि । असी॑दत् । पि॒ता । नः॒ ।

सः । आ॒ऽशिषा॑ । द्रवि॑णम् । इ॒च्छमा॑नः । प्र॒थ॒म॒ऽछत् । अव॑रान् । आ । वि॒वे॒श॒ ॥१

यः । इमा । विश्वा । भुवनानि । जुह्वत् । ऋषिः । होता । नि । असीदत् । पिता । नः ।

सः । आऽशिषा । द्रविणम् । इच्छमानः । प्रथमऽछत् । अवरान् । आ । विवेश ॥१

अत्र निरुक्तं - ‘ विश्वकर्मा सर्वमेधे सर्वाणि भूतानि जुहवांचकार स आत्मानमप्यन्ततो जुहवांचकार । तदभिवादिन्येषर्ग्भवति य इमा विश्वा भुवनानि जुह्वदिति ' (निरु. १०.२६) इति । “यः विश्वकर्मैतन्नामकः “ऋषिः भुवनपुत्रः “होता होमनिष्पादकः सन् “विश्वा सर्वाणि “भुवनानि “जुह्वत् होमं कुर्वन् । प्रथमं सर्वं जगद्धुत्वेत्यर्थः । पश्चादग्नौ “न्यसीदत् “पिता जनकः । आत्मकृतेन कर्मणा देहोत्पत्तेः । न चैकस्य जन्यजनकभावो विरुध्यते तपोबलेन शरीरद्वयस्वीकारात् । स एकधा भवति' (छा. उ. ७. २६. २) इत्यादिश्रुतेः । “सः ऋषिः “आशिषा आशीः प्रतिपादकेन सूक्तवाकादिना “द्रविणं धनं स्वर्गाख्यम् “इच्छमानः कामयमानः “प्रथमच्छत् प्रथममग्नेर्भुवनैराच्छादयिता “अवरान् विप्रकृष्टान् भूतान् स्वात्मनाहुतान् “आ “विवेश आविष्टवानग्निमित्युक्तार्थं एव पुनर्विशेषेणोक्तः । एवमुत्तरत्राधियज्ञपरतया योज्यम् । अथाध्यात्मप्रसिद्ध्योच्यते । यो विश्वकर्मा परमेश्वर इमा विश्वा भुवनानि जुह्वत् प्रलयकाले पृथिव्यादीनिमान् सप्त लोकान् स्वात्मन्याहुतिप्रक्षेपवत्संहरन्नृषिरतीन्द्रियद्रष्टा सर्वज्ञो होता संहाररूपस्य होमस्य कर्ता नोऽस्माकं पिता जनको निषसाद स्वयं स्थितवान् । अयमर्थः । प्रलयकाले प्राप्ते सति सर्वाँल्लोकान् संहृत्यास्माकमपि संहर्ता पुनः स्रष्टा च सन् सर्वज्ञो यः परमेश्वरः स्वयमेक एवासीत् । तथा हि श्रुतयः-- आत्मा वा इदमेक एवाग्र आसीत् ' (ऐ. आ. २. ४. १ ) • सदेव सोम्येदमग्र आसीत् ' ( छा. उ. ६. २. १) इत्यादिकाः। स तादृशः परमेश्वर आशिषा ' बहुः स्यां प्रजायेय' इत्येवंरूपया पुनः पुनः सिसृक्षया द्रविणमिच्छमानः धनोपलक्षितं जगद्भोगमाकाङ्क्षमाणः प्रथमच्छत् प्रथम मुख्यं निष्प्रपञ्चं पारमार्थिकं रूपमावृण्वन्नवरान स्वसृष्टान् प्राणिहृदयप्रदेशाना विवेश आविष्टवान् जीवरूपेण । तथा च श्रूयते -- ‘ सोऽकामयत बहुः स्यां प्रजायेयेति स तपोऽतप्यत स तपस्तप्त्वेदं सर्वमसृजत यदिदं किंच तत्सृष्ट्वा तदेवानुप्राविशत् ' ( तै. आ. ८. ६) इति । एवमन्या अप्युपनिषद उदाहार्याः ॥


वैश्वदेवस्य पशोर्वपाया अनुवाक्या ‘ किं स्वित्' इत्येषा । सूत्रितं च -- किं स्विदासीदधिष्ठानं यो नः पिता जनिता ' (आश्व. श्रौ. ३. ८) इति ॥

किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् ।

यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥२

किम् । स्वि॒त् । आ॒सी॒त् । अ॒धि॒ऽस्थान॑म् । आ॒ऽरम्भ॑णम् । क॒त॒मत् । स्वि॒त् । क॒था । आ॒सी॒त् ।

यतः॑ । भूमि॑म् । ज॒नय॑न् । वि॒श्वऽक॑र्मा । वि । द्याम् । और्णो॑त् । म॒हि॒ना । वि॒श्वऽच॑क्षाः ॥२

किम् । स्वित् । आसीत् । अधिऽस्थानम् । आऽरम्भणम् । कतमत् । स्वित् । कथा । आसीत् ।

यतः । भूमिम् । जनयन् । विश्वऽकर्मा । वि । द्याम् । और्णोत् । महिना । विश्वऽचक्षाः ॥२

पूर्वमन्त्रे जगत्प्रलयकाले संहृत्य पश्चात्सिसृक्षायां सर्वं सृष्ट्वा तत्र प्रविष्ट इत्युक्तम् । अत्र तस्य द्वितीयस्याधिष्ठानजगदुपादानकारणाद्यसंभवात्सृष्टिरनुपपन्नेस्याक्षिपति । लोके हि घटं चिकीर्षुः कुलालो गृहादिकं किंचित्स्थानमधिष्ठाय मृद्रूपेणारम्भद्रव्येण चक्रादिरूपैरुपकरणैर्घटं निष्पादयति । तद्वदीश्वरस्य जगदाश्रयद्यावापृथिव्योरुत्पादनवेलायाम् “अधिष्ठानं “किं “स्विदासीत् किं नामाभूत् । न किंचिदित्यर्थः । तथा: तयोः “आरम्भणं “कतमत्स्वित् । आरभ्यतेऽनेनेत्यारम्भणमुपादानकारणम् । तदपि कतमद्भवेत् । तदपि नेत्यर्थः । यद्यपि संभवेदारम्भणं “कथासीत् कथमभूत् । किं स्वयं सदसद्वा भवेदित्यर्थः । उभयमपि नोपपद्यते । सच्चेदद्वैतभङ्गप्रसङ्गः । असच्चेत् सदात्मकयोर्द्यावापृथिव्योरुपादानानर्हत्वात नान्यत्किंचन मिषत् ' ( ऐ. आ. २. ४. १ ) इति श्रुतेश्चेत्यभिप्रायः । “यतः यस्मादधिष्ठानादारम्भणाच्च “विश्वचक्षा: सर्वद्रष्टा “विश्वकर्मा परमेश्वरः “भूमिं “जनयन् वर्तते तथा “द्यां दिवं “वि “और्णोत् व्यवृणोत् सृष्टवान् महिना स्वमहत्वेन । किं स्विदासीदिति ॥


वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् ।

सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नय॑न्दे॒व एक॑ः ॥३

वि॒श्वतः॑ऽचक्षुः । उ॒त । वि॒श्वतः॑ऽमुखः । वि॒श्वतः॑ऽबाहुः । उ॒त । वि॒श्वतः॑ऽपात् ।

सम् । बा॒हुऽभ्या॑म् । धम॑ति । सम् । पत॑त्रैः । द्यावा॒भूमी॒ इति॑ । ज॒नय॑न् । दे॒वः । एकः॑ ॥३

विश्वतःऽचक्षुः । उत । विश्वतःऽमुखः । विश्वतःऽबाहुः । उत । विश्वतःऽपात् ।

सम् । बाहुऽभ्याम् । धमति । सम् । पतत्रैः । द्यावाभूमी इति । जनयन् । देवः । एकः ॥३

अनया सर्वात्मकत्वेन कुलालादिविलक्षणत्वादधिष्ठाद्यभावेऽपि स्रष्टुं शक्नोतीत्यह। “विश्वतश्चक्षुः सर्वतो व्याप्तचक्षुः । “उत अपि च “विश्वतोमुखः । तथा “विश्वतोबाहुः । “उत अपि च “विश्वतस्पात् । स एवंविधः परमेश्वरः स्वस्मिंस्त्रैलोक्यमुत्पादयतीत्यर्थः । कथमिति उच्यते । “बाहुभ्यां दिवं “सं “धमति । धमतिर्गतिकर्मा । सम्यक्प्रेरयति । तथा “पतत्रैः गमनशीलैः पादैः पृथिवीं “सं धमतीति । उभयोरेव श्रवणं प्राधान्याभिप्रायम् । एवं “द्यावाभूमी “जनयन् दिवं च पृथिवीं चोत्पादयन् “देवः द्योतमानः स्वयंप्रकाशः परमेश्वरः “एकः असहाय एव वर्तते ॥


किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।

मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥४

किम् । स्वि॒त् । वन॑म् । कः । ऊं॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः ।

मनी॑षिणः । मन॑सा । पृ॒च्छत॑ । इत् । ऊं॒ इति॑ । तत् । यत् । अ॒धि॒ऽअति॑ष्ठत् । भुव॑नानि । धा॒रय॑न् ॥४

किम् । स्वित् । वनम् । कः । ऊं इति । सः । वृक्षः । आस । यतः । द्यावापृथिवी इति । निःऽततक्षुः ।

मनीषिणः । मनसा । पृच्छत । इत् । ऊं इति । तत् । यत् । अधिऽअतिष्ठत् । भुवनानि । धारयन् ॥४

पूर्वस्यामृच्युक्तं ब्रह्मैव भूम्यादिकारणमिति । तदेवानया प्रश्नकथनव्याजेनोच्यते । लोके हि प्रौढं प्रासादं निर्मिमाणः कस्मिंश्चित्प्रौढे वने कंचित् महान्तं वृक्षं छित्त्वा तक्षणादिना स्तम्भादिकं संपादयति । इह तु परमेश्वरप्रेरिता जगत्स्रष्टारः “यतः यस्माद्विनाद्यं वृक्षमादाय “द्यावापृथिवी “निष्टतक्षुः तक्षणेन द्यावापृथिव्यौ निष्पादितवन्तः तत् “वनं “किं “स्वित् किं नाम स्यात् । तथा “क “उ “स “वृक्ष आस कस्तादृशो महान् वृक्षोऽभूत् । हे “मनीषिणः मनस ईश्वराः तदुभयं “मनसा जिज्ञासायुक्तेन “पृच्छतेदु पृच्छतैव। किंच ईश्वरः “भुवनानि “धारयन् “यत् स्थानम् “अध्यतिष्ठत् “तत् अपि पृच्छत । एतस्य सर्वस्याप्युत्तरं ‘ ब्रह्म स वृक्ष आसीत् ' इत्यादिकमुत्तरम् ॥


साकमेधेषु वैश्वकर्मण एककपालस्य ' या ते धामानि ' इत्येषा याज्या । सूत्रितं च - ‘ विश्वकर्मन् हविषा वावृधानो या ते धामानि परमाणि यावमा ' (आश्व. श्रौ. २. १८) इति । पूर्वोक्तस्य पशोर्हविष एषैव याज्या । सूत्रितं च –' या ते धामानि परमाणि यावमा य इमे द्यावापृथिवी जनित्री ' ( आश्व. श्रौ. ३. ८) इति ॥

या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा ।

शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ॥५

या । ते॒ । धामा॑नि । प॒र॒माणि॑ । या । अ॒व॒मा । या । म॒ध्य॒मा । वि॒श्व॒ऽक॒र्म॒न् । उ॒त । इ॒मा ।

शिक्ष॑ । सखि॑ऽभ्यः । ह॒विषि॑ । स्व॒धा॒ऽवः॒ । स्व॒यम् । य॒ज॒स्व॒ । त॒न्व॑म् । वृ॒धा॒नः ॥५

या । ते । धामानि । परमाणि । या । अवमा । या । मध्यमा । विश्वऽकर्मन् । उत । इमा ।

शिक्ष । सखिऽभ्यः । हविषि । स्वधाऽवः । स्वयम् । यजस्व । तन्वम् । वृधानः ॥५

अनया भौवनो विश्वकर्मा जगत्कारणं विश्वकर्मदेवं स्तौति । हे “विश्वकर्मन् “या यानि “ते तव “परमाणि “धामानि शरीराणि सन्ति “या यानि च “मध्यमा मध्यमानि शरीराणि सन्ति “उत अपि च “या यानि “अवमा अवमानि शरीराणि सन्ति उतापि च तानीमानि सर्वाणि शरीराणि “सखिभ्यः अस्मभ्यं यष्टुं “हविषि मयि हविर्भूते सति “शिक्ष देहि । हे “स्वधावः हविर्लक्षणान्नवन् “स्वयम् एव त्वं “तन्वं स्वकीयं पूर्वोक्तं त्रिविधं शरीरं “वृधानः हविषा वर्धमानः सन् । अनेन धामत्रैविध्योपन्यासेनो त्तमभूतानि देवादिशरीराणि मध्यमभूतानि मनुष्यादिशरीराणि निकृष्टभूतानि कृमिकीटादिशरीराणि च परिगृहीतानि । किं बहुना सर्वं जगदुपात्तं भवति । उक्तव्यतिरेकेण निरवयवस्य परमेश्वरस्य विग्रहाभावात् तदैक्षत बहुः स्यां प्रजायेय ' (छा. उ. ६. २. ३) इत्यादिश्रुतिभ्यः परमेश्वरस्यैव देवादिभेदेन बहुभावावगमात् ॥


तस्मिन्नेव वैश्वकर्मणपशौ वपापुरोडाशयोः ‘विश्वकर्मन् हविषा ' इति क्रमेण द्वे अनुवाक्ये । सूत्रितं च -- विश्वकर्मन् हविषा वावृधान इति द्वे विश्वकर्मा विमना आद्विहायाः' (आश्व. श्रौ. ३.८) इति । साकमेधेषु वैश्वकर्मणस्य • विश्वकर्मन् हविषा ' इत्येषैवानुवाक्या । सूत्रं तु पूर्वमुदाहृतम् ॥

विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् ।

मुह्य॑न्त्व॒न्ये अ॒भितो॒ जना॑स इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥६

विश्व॑ऽकर्मन् । ह॒विषा॑ । व॒वृ॒धा॒नः । स्व॒यम् । य॒ज॒स्व॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।

मुह्य॑न्तु । अ॒न्ये । अ॒भितः॑ । जना॑सः । इ॒ह । अ॒स्माक॑म् । म॒घऽवा॑ । सू॒रिः । अ॒स्तु॒ ॥६

विश्वऽकर्मन् । हविषा । ववृधानः । स्वयम् । यजस्व । पृथिवीम् । उत । द्याम् ।

मुह्यन्तु । अन्ये । अभितः । जनासः । इह । अस्माकम् । मघऽवा । सूरिः । अस्तु ॥६

हे “विश्वकर्मन् विश्वविषयकर्मन्नेतन्नामक परमेश्वर “हविषा हविर्भूतेन मया विश्वकर्मणा मया दत्तेन वा हविषा “ववृधानः वर्धमानः । ‘ विश्वकर्मा सर्वाणि भूतानि जुहवांचकार स आत्मानमप्यन्ततो जुहवांचकार ' इति हि निरुक्तं पूर्वमुदाहृतम् । “स्वयम् एव “पृथिवीम् “उत अपि च “द्यां दिवं च स्वसृष्टे द्यावापृथिव्यौ स्वयं प्रवृद्धः सन् “यजस्व पूजय । “अन्ये मत्तोऽन्ये “जनासः जना अयष्टारोऽस्मद्यागविरोधिनी वा “मुह्यन्तु मुग्धा भवन्तु “अभितः सर्वतः । अथ परोक्षकृतः । “इह अस्मिन्यागे “अस्माकं “मघवा अस्मत्प्रत्तेन हविर्लक्षणेन धनेन धनवान् सः “सूरिः स्वर्गादिफलस्य प्रेरकः “अस्तु भवतु । अत्र विश्वकर्मन् हविषा वर्धमानः ' (निरु. १०. २७) इत्यादि निरुक्तमनुसंधेयम् ॥


वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।

स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥७

वा॒चः । पति॑म् । वि॒श्वऽक॑र्माणम् । ऊ॒तये॑ । म॒नः॒ऽजुव॑म् । वाजे॑ । अ॒द्य । हु॒वे॒म॒ ।

सः । नः॒ । विश्वा॑नि । हव॑नानि । जो॒ष॒त् । वि॒श्वऽश॑म्भूः । अव॑से । सा॒धुऽक॑र्मा ॥७

वाचः । पतिम् । विश्वऽकर्माणम् । ऊतये । मनःऽजुवम् । वाजे । अद्य । हुवेम ।

सः । नः । विश्वानि । हवनानि । जोषत् । विश्वऽशम्भूः । अवसे । साधुऽकर्मा ॥७

“वाचस्पतिं मन्त्रात्मकस्य वचसः स्वामिनं “विश्वकर्माणं विश्वकर्तारं “मनोजुवं मनोवेगगमनं देवं “वाजे यज्ञे “अद्य अस्मिन्दिने “ऊतये तर्पणाय “हुवेम आह्वयाम । “सः देवः “नः अस्माकं “विश्वानि सर्वाणि “हवनानि “जोषत् सेवताम् । किमर्थम् । “अवसे अस्माकं रक्षणाय । स विशेष्यते । “विश्वशंभूः विश्वस्य सुखस्योत्पादकः “साधुकर्मा च ॥ ॥ १६ ॥

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.८१&oldid=202715" इत्यस्माद् पुनः प्राप्तिः