ऋग्वेदः सूक्तं १०.७२

विकिस्रोतः तः
Jump to navigation Jump to search
← सूक्तं १०.७१ ऋग्वेदः - मण्डल १०
सूक्तं १०.७२
लौक्यो बृहस्पतिः, बृहस्पतिराङ्गिरसो वा, दाक्षायणी अदितिर्वा।
सूक्तं १०.७३ →
दे. देवाः। अनुष्टुप्


देवानां नु वयं जाना प्र वोचाम विपन्यया ।
उक्थेषु शस्यमानेषु यः पश्यादुत्तरे युगे ॥१॥
ब्रह्मणस्पतिरेता सं कर्मार इवाधमत् ।
देवानां पूर्व्ये युगेऽसतः सदजायत ॥२॥
देवानां युगे प्रथमेऽसतः सदजायत ।
तदाशा अन्वजायन्त तदुत्तानपदस्परि ॥३॥
भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त ।
अदितेर्दक्षो अजायत दक्षाद्वदितिः परि ॥४॥
अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।
तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥५॥
यद्देवा अदः सलिले सुसंरब्धा अतिष्ठत ।
अत्रा वो नृत्यतामिव तीव्रो रेणुरपायत ॥६॥
यद्देवा यतयो यथा भुवनान्यपिन्वत ।
अत्रा समुद्र आ गूळ्हमा सूर्यमजभर्तन ॥७॥
अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस्परि ।
देवाँ उप प्रैत्सप्तभिः परा मार्ताण्डमास्यत् ॥८॥
सप्तभिः पुत्रैरदितिरुप प्रैत्पूर्व्यं युगम् ।
प्रजायै मृत्यवे त्वत्पुनर्मार्ताण्डमाभरत् ॥९॥


सायणभाष्यम्

॥ श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

प्राज्ञः श्रीसायणाचार्यो व्याख्याय चरमेऽष्टके ।।

स्फुटं द्वितीयमध्यायं तृतीयं वक्तुमुद्यतः ॥

तत्र ‘ देवानाम् ' इति नवर्चमनुवाकापेक्षया चतुर्थं सूक्तमानुष्टुभं देवदेवत्यम् । लोकनाम्नः पुत्रो बृहस्पतिराङ्गिरस एव वा बृहस्पतिर्ऋषिः । अथवा दक्षस्य दुहितादितिर्ऋषिः । तथा चानुक्रान्तं -- देवानां नव लौक्यो वा बृहस्पतिर्दाक्षायण्यदितिर्वा दैवमानुष्टुभम्' इति । गतः सूक्तविनियोगः ।


दे॒वानां॒ नु व॒यं जाना॒ प्र वो॑चाम विप॒न्यया॑ ।

उ॒क्थेषु॑ श॒स्यमा॑नेषु॒ यः पश्या॒दुत्त॑रे यु॒गे ॥१

दे॒वाना॑म् । नु । व॒यम् । जाना॑ । प्र । वो॒चा॒म॒ । वि॒प॒न्यया॑ ।

उ॒क्थेषु॑ । श॒स्यमा॑नेषु । यः । पश्या॑त् । उत्ऽत॑रे । यु॒गे ॥१

देवानाम् । नु । वयम् । जाना । प्र । वोचाम । विपन्यया ।

उक्थेषु । शस्यमानेषु । यः । पश्यात् । उत्ऽतरे । युगे ॥१

अदितिर्दाक्षायण्यनेन सूक्तेन स्वयं यथादित्यानजनयत्तद्ब्रवीति । बृहस्पत्यृषिपक्षे स ऋषिरदितेः सकाशादादित्योत्पत्तिप्रकारमाह । “वयं “देवानाम् आदित्यानां “जाना जन्मानि “प्र “वोचाम प्रकथयाम । “विपन्यया विस्पष्टया वाचा । वयमिति वोचामेति चोभयत्र पूजार्थं बहुवचनम् । अथैकवदाह । “यः देवानां गणः पूर्वे युग उत्पन्नोऽपि “उक्थेषु “शस्यमानेषु यागे शस्त्रेष्वनुष्ठीयमानेषु “उत्तरे “युगे वर्तमानं स्तुवन्तं स्तोतारं “पश्यात् पश्यति । अनेकेष्वपि युगेषु गतेषु कर्मसु स्तूयमानो वर्तत इत्यर्थः ॥ .


ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् ।

दे॒वानां॑ पू॒र्व्ये यु॒गेऽस॑त॒ः सद॑जायत ॥२

ब्रह्म॑णः । पतिः॑ । ए॒ता । सम् । क॒र्मारः॑ऽइव । अ॒ध॒म॒त् ।

दे॒वाना॑म् । पू॒र्व्ये । यु॒गे । अस॑तः । सत् । अ॒जा॒य॒त॒ ॥२

ब्रह्मणः । पतिः । एता । सम् । कर्मारःऽइव । अधमत् ।

देवानाम् । पूर्व्ये । युगे । असतः । सत् । अजायत ॥२

“ब्रह्मणः अन्नस्य “पतिः अदितिः “एता एतानि देवानां जनिमानि “कर्मारइव स यथा भस्त्रयाग्निमुपधमति प्रज्वलनार्थमेवं “सम् “अधमत् उदपादयदित्यर्थः । “देवानां “पूर्व्र्ये “युगे। आदिसृष्टावित्यर्थः । तेषामुपादानकारणात “असतः नामरूपवर्जितत्वेनासत्समानाद्ब्रह्मणः सकाशात् “सत् नामरूपविशिष्टं देवादिकम् “अजायत प्रादुरभूत् । असद्वा इदमग्र आसीत्ततो वै सदजायत ' (तै. उ. २. ७) इति हि श्रुतिः। न सदात्मकस्य प्रपञ्चस्यासत्कारणत्वं युक्तमिति वाच्यं, छन्दोगैः ‘ कथमसतः सज्जायेत ' इति असत्कारणत्वमाक्षिप्य ‘सत्त्वेव सोम्येदमग्र आसीत् ' ( छाः उ, ६. २. २) इत्यवधारितत्वात् । तर्ह्यसत्कारणप्रतिपादकवाक्यानां का गतिरिति चेत् तेषामव्याकृतत्वाभिप्रायत्वात् ' तद्धेदं तर्ह्यव्याकृतमासीत्' (श. ब्रा. १४. ४. २. १५) इति श्रुतेः । यद्येवं तर्ह्यदितेः सकाशात्कथं देवाद्युत्पत्तिः । ‘वायोरग्निः' (तै. आ.८.१) इत्यादिवत् अधिष्ठानसकाशादुत्पत्तेः । यद्वा देवानां कारणभूतं सत् असतो ब्रह्मणः सकाशादुत्पन्नमिति योजनादुक्तन्यायोऽस्मिन्पक्षेऽपि समान एव ॥


दे॒वानां॑ यु॒गे प्र॑थ॒मेऽस॑त॒ः सद॑जायत ।

तदाशा॒ अन्व॑जायन्त॒ तदु॑त्ता॒नप॑द॒स्परि॑ ॥३

दे॒वाना॑म् । यु॒गे । प्र॒थ॒मे । अस॑तः । सत् । अ॒जा॒य॒त॒ ।

तत् । आशाः॑ । अनु॑ । अ॒जा॒य॒न्त॒ । तत् । उ॒त्ता॒नऽप॑दः । परि॑ ॥३

देवानाम् । युगे । प्रथमे । असतः । सत् । अजायत ।

तत् । आशाः । अनु । अजायन्त । तत् । उत्तानऽपदः । परि ॥३

पूर्वार्धमुक्तम् । “तत् “अनु “आशाः दिशः “अजायन्त “तत् “परि तदन्वित्यर्थः । “उत्तानपदः । उत्तानमूर्ध्वतानं पद्यन्त इत्युत्तानपदो वृक्षाः । ते अजायन्त प्रादुरभवन् ॥


भूर्ज॑ज्ञ उत्ता॒नप॑दो भु॒व आशा॑ अजायन्त ।

अदि॑ते॒र्दक्षो॑ अजायत॒ दक्षा॒द्वदि॑ति॒ः परि॑ ॥४

भूः । ज॒ज्ञे॒ । उ॒त्ता॒नऽप॑दः । भु॒वः । आशाः॑ । अ॒जा॒य॒न्त॒ ।

अदि॑तेः । दक्षः॑ । अ॒जा॒य॒त॒ । दक्षा॑त् । ऊं॒ इति॑ । अदि॑तिः । परि॑ ॥४

भूः । जज्ञे । उत्तानऽपदः । भुवः । आशाः । अजायन्त ।

अदितेः । दक्षः । अजायत । दक्षात् । ऊं इति । अदितिः । परि ॥४

“भूः “उत्तानपदः वृक्षात् “जज्ञे । तथा “भुवः सकाशात् “आशाः “अजायन्त । तथा “अदितेः “दक्षः “अजायत उत्पन्नः । “दक्षादु दक्षादपि “अदितिः “परि अजायत । न स्वोत्पन्नं कार्यं स्वस्यैव कारणमपि भवतीति विप्रतिषिद्धमिति वाच्यम् । यास्काचार्य इदमेव वाक्यमुदाहृत्य विरोधमाशङ्क्य पर्यहरत् । तथा हि -- ‘ अदितेर्दक्षो अजायत दक्षाद्वदितिः परीति च । तत्कथमुपपद्येत समानजन्मानौ स्यातामित्यपि वा देवधर्मेणेतरेतरजन्मानौ स्यातामितरेतरप्रकृती ' ( निरु. ११. २३) इति ॥


अदितिदेवताके पशौ ‘अदितिर्ह्यजनिष्ट ' इत्येषा हविषोऽनुवाक्या । सूत्रितं च - ‘अदितिर्ह्यजनिष्ट सुत्रामाणं पृथिवीं द्यामनेहसम् ' ( आश्व. श्रौ. ३, ८) इति ॥

अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ ।

तां दे॒वा अन्व॑जायन्त भ॒द्रा अ॒मृत॑बन्धवः ॥५

अदि॑तिः । हि । अज॑निष्ट । दक्ष॑ । या । दु॒हि॒ता । तव॑ ।

ताम् । दे॒वाः । अनु॑ । अ॒जा॒य॒न्त॒ । भ॒द्राः । अ॒मृत॑ऽबन्धवः ॥५

अदितिः । हि । अजनिष्ट । दक्ष । या । दुहिता । तव ।

ताम् । देवाः । अनु । अजायन्त । भद्राः । अमृतऽबन्धवः ॥५

हे “दक्ष “तव “या “दुहिता अभूत् सा “अदितिः “अजनिष्ट “हि पुत्रानादित्यान् । तदेवाह। “तां “देवा “अन्वजायन्त “भद्राः स्तुत्या भजनीयाः “अमृतबन्धवः अमरणबन्धनाः ॥ ॥ १ ॥


यद्दे॑वा अ॒दः स॑लि॒ले सुसं॑रब्धा॒ अति॑ष्ठत ।

अत्रा॑ वो॒ नृत्य॑तामिव ती॒व्रो रे॒णुरपा॑यत ॥६

यत् । दे॒वाः॒ । अ॒दः । स॒लि॒ले । सुऽसं॑रब्धाः । अति॑ष्ठत ।

अत्र॑ । वः॒ । नृत्य॑ताम्ऽइव । ती॒व्रः । रे॒णुः । अप॑ । आ॒य॒त॒ ॥६

यत् । देवाः । अदः । सलिले । सुऽसंरब्धाः । अतिष्ठत ।

अत्र । वः । नृत्यताम्ऽइव । तीव्रः । रेणुः । अप । आयत ॥६

अनयोत्तरेण चादित्याः स्तूयन्ते । “यत् यदा हे “देवाः “अदः अमुष्मिन् “सलिले यूयं “सुसंरब्धाः सुष्ठु लब्धात्मानः “अतिष्ठत स्थितवन्तः । ‘ आपो वा इदं सर्वम्' ( तै. आ. १०. २२ ) ‘ अप एव ससर्जादौ ' (मनु.१.८) इति श्रुतिस्मृती । “अत्र अस्मिन् सलिले “नृत्यतामिव “वः युष्माकं संबन्धी “तीव्रः दुःसहः “रेणुः अंशभूत एकः “अपायत अपागच्छत् । दिवं प्रति गत इति सूर्याभिप्रायम् । ‘ परा मार्ताण्डमास्यत् ' इति वक्ष्यति ॥


यद्दे॑वा॒ यत॑यो यथा॒ भुव॑ना॒न्यपि॑न्वत ।

अत्रा॑ समु॒द्र आ गू॒ळ्हमा सूर्य॑मजभर्तन ॥७

यत् । दे॒वाः॒ । यत॑यः । य॒था॒ । भुव॑नानि । अपि॑न्वत ।

अत्र॑ । स॒मु॒द्रे । आ । गू॒ळ्हम् । आ । सूर्य॑म् । अ॒ज॒भ॒र्त॒न॒ ॥७

यत् । देवाः । यतयः । यथा । भुवनानि । अपिन्वत ।

अत्र । समुद्रे । आ । गूळ्हम् । आ । सूर्यम् । अजभर्तन ॥७

“यत् यदा हे “देवाः “यतयो “यथा । वृष्ट्या नियमयन्तीति वा वर्षणेन यातयन्तीति वा यतयो मेघाः । ते यथोदकैः “भुवनानि लोकं पूरयन्ति तद्वत्स्वतेजोभिः “अपिन्वत पूरितवन्तः । “अत्र समुद्रे अप्सु “आ “गूळ्हं “निगूळ्हं “सूर्यं प्रातरुदयाय “आ “अजभर्तन आहृतवन्तः ॥


अ॒ष्टौ पु॒त्रासो॒ अदि॑ते॒र्ये जा॒तास्त॒न्व१॒॑स्परि॑ ।

दे॒वाँ उप॒ प्रैत्स॒प्तभि॒ः परा॑ मार्ता॒ण्डमा॑स्यत् ॥८

अ॒ष्टौ । पु॒त्रासः॑ । अदि॑तेः । ये । जा॒ताः । त॒न्वः॑ । परि॑ ।

दे॒वान् । उप॑ । प्र । ऐ॒त् । स॒प्तऽभिः॑ । परा॑ । मा॒र्ता॒ण्डम् । आ॒स्य॒त् ॥८

अष्टौ । पुत्रासः । अदितेः । ये । जाताः । तन्वः । परि ।

देवान् । उप । प्र । ऐत् । सप्तऽभिः । परा । मार्ताण्डम् । आस्यत् ॥८

“अष्टौ “पुत्रासः पुत्रा मित्रादयः “अदितेः भवन्ति “ये अदितेः “तन्वस्परि शरीरात् “जाताः उत्पन्नाः । अदितेरष्टौ पुत्रा अध्वर्युब्राह्मणे परिगणिताः । तथा हि - ‘ ताननुक्रमिष्यामो मित्रश्च वरुणश्च धाता चार्यमा चांशश्च भगश्च विवस्वानादित्यश्च ' (तै. आ. १. १३. ३) इति । तथा तत्रैव प्रदेशान्तरेऽदितिं प्रस्तुत्याम्नातं-- ‘ तस्या उच्छेषणमददुस्तत्प्राश्नात् सा रेतोऽधत्त तस्यै चत्वार आदित्या अजायन्त सा द्वितीयमपचत् ' इत्यादिनाष्टानामादित्यानामुत्पत्तिर्वर्णिता (तै. सं. ६. ५. ६. १ ) । सादितिः “सप्तभिः पुत्रैः "देवानुप “प्रैत् उपागच्छत् । अष्टमं पुत्रं “मार्ताण्डं सूर्यं “परा “आस्यत् उपरि प्राक्षिपदित्यर्थः ॥


स॒प्तभिः॑ पु॒त्रैरदि॑ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गम् ।

प्र॒जायै॑ मृ॒त्यवे॑ त्व॒त्पुन॑र्मार्ता॒ण्डमाभ॑रत् ॥९

स॒प्तऽभिः॑ । पु॒त्रैः । अदि॑तिः । उप॑ । प्र । ऐ॒त् । पू॒र्व्यम् । यु॒गम् ।

प्र॒ऽजायै॑ । मृ॒त्यवे॑ । त्व॒त् । पुनः॑ । मा॒र्ता॒ण्डम् । आ । अ॒भ॒र॒त् ॥९

सप्तऽभिः । पुत्रैः । अदितिः । उप । प्र । ऐत् । पूर्व्यम् । युगम् ।

प्रऽजायै । मृत्यवे । त्वत् । पुनः । मार्ताण्डम् । आ । अभरत् ॥९

पूर्वमन्त्रोक्त एवार्थः पुनरत्रोच्यते । “सप्तभिः मार्ताण्डव्यतिरिक्तैर्मित्रादिभिः “अदितिः “पूर्व्यं पुराणं “युगम् उप “प्रैत् उपगता। अथ “प्रजायै प्राणिनामुत्पत्तये “मृत्यवे तेषां मरणाय “मार्ताण्डं मृतात् व्यृद्धादण्डाज्जातं मार्ताण्डनामानं सूर्यं “पुनः “आभरत् आहरत् । द्युलोकेऽधारयत् । प्राणिमरणजननादीनां सूर्योदयास्तमयायत्तता स्फुटा । तस्यै व्यृद्धमाण्डमजायत' (तै. सं. ६. ५. ६. १ ) इत्यादि ब्राह्मणम् ॥ ॥ २ ॥


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.७२&oldid=202640" इत्यस्माद् पुनः प्राप्तिः