सामग्री पर जाएँ

ऋग्वेदः सूक्तं १०.१२८

विकिस्रोतः तः
← सूक्तं १०.१२७ ऋग्वेदः - मण्डल १०
सूक्तं १०.१२८
विहव्य आङ्गिरसः
सूक्तं १०.१२९ →
दे. विश्वे देवाः। त्रिष्टुप्, ९ जगती।


ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम ।
मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥१॥
मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः ।
ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥२॥
मयि देवा द्रविणमा यजन्तां मय्याशीरस्तु मयि देवहूतिः ।
दैव्या होतारो वनुषन्त पूर्वेऽरिष्टाः स्याम तन्वा सुवीराः ॥३॥
मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु ।
एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधि वोचता नः ॥४॥
देवीः षळुर्वीरुरु नः कृणोत विश्वे देवास इह वीरयध्वम् ।
मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥५॥
अग्ने मन्युं प्रतिनुदन्परेषामदब्धो गोपाः परि पाहि नस्त्वम् ।
प्रत्यञ्चो यन्तु निगुतः पुनस्तेऽमैषां चित्तं प्रबुधां वि नेशत् ॥६॥
धाता धातॄणां भुवनस्य यस्पतिर्देवं त्रातारमभिमातिषाहम् ।
इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् ॥७॥
उरुव्यचा नो महिषः शर्म यंसदस्मिन्हवे पुरुहूतः पुरुक्षुः ।
स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परा दाः ॥८॥
ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् ।
वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ॥९॥


सायणभाष्यम्

‘ ममाग्ने ' इति नवर्चं षोडशं सूक्तमाङ्गिरसस्य विहव्यस्यार्षं वैश्वदेवम् । अन्त्या जगती शिष्टास्त्रिष्टुभः । अनुक्रम्यते हि-- ‘ ममाग्ने नव विहव्यो वैश्वदेवं जगत्यन्तम् ' इति । संसवे निमित्तभूते वैश्वदेवसूक्तस्य पुरस्तादेतत् शंस्यम् । सूत्रितं च --- ममाग्ने वर्च इति वैश्वदेवसूक्तस्यापि वैतेष्वेव निविदो दध्यात् ' (आश्व. श्रौ. ६.६ ) इति । समावर्तनेऽनेन सूक्तेन सिष्णासुना प्रत्यृचं समिदाधातव्या । सूत्रितं च – ‘ममाग्ने वर्च इति प्रत्यृचं समिधोऽभ्यादध्यात् ' (आश्व. गृ. ३.९.२) इति ।।


ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु व॒यं त्वेन्धा॑नास्त॒न्वं॑ पुषेम ।

मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥ १

मम॑ । अ॒ग्ने॒ । वर्चः॑ । वि॒ऽह॒वेषु॑ । अ॒स्तु॒ । व॒यम् । त्वा॒ । इन्धा॑नाः । त॒न्व॑म् । पु॒षे॒म॒ ।

मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिशः॑ । चत॑स्रः । त्वया॑ । अधि॑ऽअक्षेण । पृत॑नाः । ज॒ये॒म॒ ॥१

मम । अग्ने । वर्चः । विऽहवेषु । अस्तु । वयम् । त्वा । इन्धानाः । तन्वम् । पुषेम ।

मह्यम् । नमन्ताम् । प्रऽदिशः । चतस्रः । त्वया । अधिऽअक्षेण । पृतनाः । जयेम ॥१

हे “अग्ने । विविधमाहूयन्ते येषु शूरा इति विहवाः संग्रामाः । यद्वा । विविधं यागार्थं देवा आहूयन्त एष्विति विहवा यज्ञाः ।। ‘ ह्वः संप्रसारणं व न्यभ्युपविषु ' (पा. सू. ३. ३. ७२) इत्यधिकरणेऽप संप्रसारणं च । थाथादिनीत्तरपदान्तोदात्तत्वम् । संग्रामेषु यज्ञेषु वा “वर्चः दीप्तिः त्वदनुग्रहात् “मम “अस्तु अवतु । “वयं च “त्वा त्वाम् “इन्धानाः समिद्भिर्दीपयन्तः “तन्वं तब शरीरं “पुषेम हविर्भिर्वर्धयेम ।। इन्धेः शानचि श्नसोरल्लोप उदात्तनिवृत्तिस्वरेण शानच आद्युदात्तत्वे प्राप्ते विभाषा वेण्विन्धानयोः (पा. सू. ६, ६, २१५) इत्याद्युदात्तत्वम् ।। तन्वं पुषेम ।। पुषेर्लिङि लिङ्याशिष्यङ् ।। अपि च “मह्यं मदर्थम् । ‘ ङयि च ' ( पा. सू. ६, ६, २१२ ) इत्यमद् आद्युदात्तत्वम् ।। “चतस्रः “प्रदिशः प्रकृष्टा दिशः । तद्वासिनो जना इत्यर्थः । “नमन्तां स्वत एव प्रह्वीभवन्तु । नमतेः कर्मकर्तरि लोटि न दुहस्नुनमाम् ' इति यक्प्रतिषेधः ॥ “त्वया अस्माभिर्हविर्भिः प्रवर्धितेन “अध्यक्षेण ईश्वरेण सता “पृतनाः शत्रुसेनाः “जयेम अभिभवेम ॥


मम॑ दे॒वा वि॑ह॒वे स॑न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः ।

ममा॒न्तरि॑क्षमु॒रुलो॑कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे॑ अ॒स्मिन् ॥ २

मम॑ । दे॒वाः । वि॒ऽह॒वे । स॒न्तु॒ । सर्वे॑ । इन्द्र॑ऽवन्तः । म॒रुतः॑ । विष्णुः॑ । अ॒ग्निः ।

मम॑ । अ॒न्तरि॑क्षम् । उ॒रुऽलो॑कम् । अ॒स्तु॒ । मह्य॑म् । वातः॑ । प॒व॒ता॒म् । कामे॑ । अ॒स्मिन् ॥२

मम । देवाः । विऽहवे । सन्तु । सर्वे । इन्द्रऽवन्तः । मरुतः । विष्णुः । अग्निः ।

मम । अन्तरिक्षम् । उरुऽलोकम् । अस्तु । मह्यम् । वातः । पवताम् । कामे । अस्मिन् ॥२

“सर्वे “देवाः “विहवे संग्रामे यज्ञे वा “मम “सन्तु ममैव साधका भवन्तु । के पुनस्ते । “इन्द्रवन्तः इन्द्रेण युक्ताः “मरुतो “विष्णुरग्निः च । तथा “अन्तरिक्षं “मम “उरुलोकं विस्तीर्णप्रकाशकम् “अस्तु ॥ ‘ लोकृ दर्शने ' । भावे घञ् । लोक आलोकः प्रकाशः । उरुर्लोको यस्येति बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् ।। अपि च “अस्मिन् “कामे कामयितव्ये फले निमित्तभूते सति “वातः वायुः “पवताम् अनुगुणं प्रवातु ॥ ‘ पूङ् पवने '। भौवादिकः । ‘ ऊडिदम् ' इत्यादिना इदमः सप्तम्या उदात्तत्वम् ।।


मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू॑तिः ।

दैव्या॒ होता॑रो वनुषन्त॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा॑ सु॒वीराः॑ ॥ ३

मयि॑ । दे॒वाः । द्रवि॑णम् । आ । य॒ज॒न्ता॒म् । मयि॑ । आ॒ऽशीः । अ॒स्तु॒ । मयि॑ । दे॒वऽहू॑तिः ।

दैव्याः॑ । होता॑रः । व॒नु॒ष॒न्त॒ । पूर्वे॑ । अरि॑ष्टाः । स्या॒म॒ । त॒न्वा॑ । सु॒ऽवीराः॑ ॥३

मयि । देवाः । द्रविणम् । आ । यजन्ताम् । मयि । आऽशीः । अस्तु । मयि । देवऽहूतिः ।

दैव्याः । होतारः । वनुषन्त । पूर्वे । अरिष्टाः । स्याम । तन्वा । सुऽवीराः ॥३

“देवाः सर्वे “द्रविणं धनं “मयि स्तोतरि “आ “यजन्तां गमयन्तु । मह्यं ददत्वित्यर्थः । तथा “आशीः आशंसनीयं यज्ञफलं च “मयि एव “अस्तु । देवानां हूतिराह्वानमस्मिन्निति “देवहूतिः यज्ञः । स च “मयि अस्तु । अपि च देवानामिमे “दैव्याः । देवाद्यञञौ ' इति यञ् । तादृशाः “होतारः साधुहोमनिष्पादका मदीया ऋत्विजः “पूर्वे अन्यदीयेभ्य ऋत्विग्भ्यः प्रथमभाविनः सन्तः “वनुषन्त देवान् संभजन्ताम् ॥ बनतेश्छान्दसे लङि ‘ व्यत्ययो बहुलम् ' इति त्रयो विकरणा उप्रत्ययः सिष्शपौ च । अडभावश्छान्दमः । वयं च “तन्वा शरीरेण “अरिष्टाः अहिंसिताः “सुवीरा: सुपुत्राश्च “स्याम भवेम ।। ‘ वीरवीर्यौ च ' इत्युत्तर पदाद्युदात्तत्वम् ।।


मह्यं॑ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू॑तिः स॒त्या मन॑सो मे अस्तु ।

एनो॒ मा नि गां॑ कत॒मच्च॒नाहं विश्वे॑ देवासो॒ अधि॑ वोचता नः ॥ ४

मह्य॑म् । य॒ज॒न्तु॒ । मम॑ । यानि॑ । ह॒व्या । आऽकू॑तिः । स॒त्या । मन॑सः । मे॒ । अ॒स्तु॒ ।

एनः॑ । मा । नि । गा॒म् । क॒त॒मत् । च॒न । अ॒हम् । विश्वे॑ । दे॒वा॒सः॒ । अधि॑ । वो॒च॒त॒ । नः॒ ॥४

मह्यम् । यजन्तु । मम । यानि । हव्या । आऽकूतिः । सत्या । मनसः । मे । अस्तु ।

एनः । मा । नि । गाम् । कतमत् । चन । अहम् । विश्वे । देवासः । अधि । वोचत । नः ॥४

“मह्यं मदर्थं “यजन्तु ऋत्विजो देवान् हविर्भिर्यजन्तु । यद्वा । षष्ठ्यर्थे चतुर्थी । मह्यं मदीया ऋत्विज इत्यर्थः। “मम स्वभूतानि हव्यानि “यानि हवींषि चरुपुरोडाशादीनि सन्ति तैर्हविर्भिरित्यर्थः । तथा “मे “मनसः “आकूतिः संकल्पनमभीष्टस्य प्रार्थनं “सत्या यथार्थम् “अस्तु । अपि च “अहं “कतमच्चन किमपि “एनः पापं “मा “नि “गां मा नियतं निकृष्टतरं वा गच्छेयम् । पापं मा कार्षमित्यर्थः ॥ एतेर्माङि लुङिः ‘ इणो गा लुङि ' इति गादेशः । गातिस्था ' इति सिचो लुक् ॥ अपि च हे “विश्वे सर्वे “देवासः देवा: यूयं “नः अस्माकम् “अधि “वोचत विवादपदेषु पक्षपातेन ब्रूत ॥ वक्तेर्लोटि व्यत्ययेनाङ्। ‘ वच उम् ' इत्युमागमः ।।


देवीः॑ षळुर्वीरु॒रु नः॑ कृणोत॒ विश्वे॑ देवास इ॒ह वी॑रयध्वम् ।

मा हा॑स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो॑म राजन् ॥ ५

देवीः॑ । ष॒ट् । उ॒र्वीः॒ । उ॒रु । नः॒ । कृ॒णो॒त॒ । विश्वे॑ । दे॒वा॒सः॒ । इ॒ह । वी॒र॒य॒ध्व॒म् ।

मा । हा॒स्म॒हि॒ । प्र॒ऽजया॑ । मा । त॒नूभिः॑ । मा । र॒धा॒म॒ । द्वि॒ष॒ते । सो॒म॒ । रा॒ज॒न् ॥५

देवीः । षट् । उर्वीः । उरु । नः । कृणोत । विश्वे । देवासः । इह । वीरयध्वम् ।

मा । हास्महि । प्रऽजया । मा । तनूभिः । मा । रधाम । द्विषते । सोम । राजन् ॥५

हे “षट् “उर्वीः षट्संख्याका उर्व्यः । एताश्चान्यत्राम्नायन्ते -- ' षण्मोर्वीरंहसः पान्तु द्यौश्च पृथिवी चाहश्च रात्रिश्चापश्चौषधयश्च इति । ईदृश्यो हे “देवीः देव्यः ॥ जसि वा छन्दसि । इति पूर्वसवर्णदीर्घः । ‘ नामन्त्रिते समानाधिकरणे सामान्यवचनम् ' इत्यस्याविद्यमानत्वनिषेधेन षळुर्वीरित्यनयोरामन्त्रितयोः पदात्परत्वादाष्टमिकमामन्त्रितानुदात्तत्वम् ।। ता यूयम् “उरु विस्तीर्णं धनं “नः अस्माकं “कृणोत कुरुत ।। ‘ कृवि हिंसाकरणयोश्च । ‘ धिन्विकृण्व्योरच्च ' इत्युप्रत्ययः । ‘तप्तनप्तनथनाश्च । इति तस्य तबादेशः ॥ हे “विश्वे सर्वे “देवासः देवाः यूयं च “इह अस्मिन् धने प्राप्तव्ये विषये “वीरयध्वं विक्रामयत । यथा वयं तद्धनं लभेमहि तथा वीर्यवन्तो यूयं प्रयतध्वमित्यर्थः ।। ‘ वीर विक्रान्तौ । अपि च “प्रजया पुत्रादिरूपया “मा “हास्महि वयं मा परित्यज्येमहि । “मा च “तनूभिः शरीरैस्त्यज्येमहि । अस्मान् कदाचिदपि पुत्रादयः शरीराणि च मा परित्याक्षुरित्यर्थः ।। “ओहाक् त्यागे । अस्मात् कर्मणि लुङि चिण्वद्भावाभावे रूपमेतत् ।। तथा हे “राजन् राजमान यद्वास्माकं स्वामिन् हे “सोम “द्विषते अप्रीतिं कुर्वते ।। द्विषेः शतरि अदादित्वात् शपो लुक् । 'शतुरनुमः । इति विभक्तेरुदात्तत्वम् । 'षष्ठ्यर्थे चतुर्थी वक्तव्या ' इति चतुर्थी ।। द्विषतः शत्रोः “मा “रधाम मा वशं प्राप्नुयाम तथा त्वं कुर्वित्यर्थः । ‘ रध्यतिर्वशगमने ' (निरु. ६. ३२ ) इति यास्कः । यद्वा । द्विषते शत्रवे तदर्थं मा रधाम । परिपक्वा हननार्हा मा भूम ॥ ‘ रध हिंसासंराद्ध्योः । संराद्धिः पाक इति तद्वृत्तिः । माङि लुङि पुषादित्वात् च्लेरङादेशः ॥ ॥ १५ ।।


अग्ने॑ म॒न्युं प्र॑तिनु॒दन्परे॑षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम् ।

प्र॒त्यञ्चो॑ यन्तु नि॒गुतः॒ पुन॒स्ते॒३॒॑ऽमैषां॑ चि॒त्तं प्र॒बुधां॒ वि ने॑शत् ॥ ६

अग्ने॑ । म॒न्युम् । प्र॒ति॒ऽनु॒दन् । परे॑षाम् । अद॑ब्धः । गो॒पाः । परि॑ । पा॒हि॒ । नः॒ । त्वम् ।

प्र॒त्यञ्चः॑ । य॒न्तु॒ । नि॒ऽगुतः॑ । पुन॒रिति॑ । ते । अ॒मा । ए॒षा॒म् । चि॒त्तम् । प्र॒ऽबुधा॑म् । वि । ने॒श॒त् ॥६

अग्ने । मन्युम् । प्रतिऽनुदन् । परेषाम् । अदब्धः । गोपाः । परि । पाहि । नः । त्वम् ।

प्रत्यञ्चः । यन्तु । निऽगुतः । पुनरिति । ते । अमा । एषाम् । चित्तम् । प्रऽबुधाम् । वि । नेशत् ॥६

हे “अग्ने “परेषां शत्रूणां “मन्युं क्रोधं “प्रतिनुदन् प्रतिमुखं प्रेरयन् तिरस्कुर्वन् “अदब्धः केनाप्यहिंसितो “गोपाः गोपायिता ।। गुपू रक्षणे ' इत्यस्मात् आयप्रत्ययान्तात् क्विपि वेरपृक्तस्य लोपात पूर्वं चलि लोपे रूपमेतत् ।। ईदृशः “त्व “नः अस्मान् “परि “पाहि परितः सर्वतो रक्ष । “ते शत्रवः “प्रत्यञ्चः प्रत्यञ्चन्तः प्रतिनिवर्तमानाः “निगुतः । ‘ गुङ् अव्यक्ते शब्दे ' । अस्मात् क्विपि तुक् ।। भयेन गद्गदरूपमव्यक्तं शब्दं नितरां कुर्वन्तः “पुनः “यन्तु स्वकीयं स्थानं पुनर्गच्छन्तु । अपि व “प्रबुधां प्रबुध्यमानानाम् “एषां शत्रूणां “चित्तं ज्ञानसाधनं मनः “अमा सह युगपदेव “वि “नेशत् विनश्यतु ।। प्रत्येकाभिप्रायेणैकवचनम् ।' णश अदर्शने ' इत्यस्माच्छान्दसो लुङ् । पुषादित्वात् च्लेरादेशः । ‘ नशिमन्योरलिढ्येत्वं वक्तव्यम् ' ( पा.सू. ६.४, १२०.५) इत्यकारस्यैत्वम् ॥


धा॒ता धा॑तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हम् ।

इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा॑न्तु॒ यज॑मानं न्य॒र्थात् ॥ ७

धा॒ता । धा॒तॄ॒णाम् । भुव॑नस्य । यः । पतिः॑ । दे॒वम् । त्रा॒तार॑म् । अ॒भि॒मा॒ति॒ऽस॒हम् ।

इ॒मम् । य॒ज्ञम् । अ॒श्विना॑ । उ॒भा । बृह॒स्पतिः॑ । दे॒वाः । पा॒न्तु॒ । यज॑मानम् । नि॒ऽअ॒र्थात् ॥७

धाता । धातॄणाम् । भुवनस्य । यः । पतिः । देवम् । त्रातारम् । अभिमातिऽसहम् ।

इमम् । यज्ञम् । अश्विना । उभा । बृहस्पतिः । देवाः । पान्तु । यजमानम् । निऽअर्थात् ॥७

“धातॄणां स्रष्टॄणामपि “धाता स्रष्टा “भुवनस्य कृत्स्नस्य भूतजातस्य “यः इन्द्रः सविता वा “पतिः पालयिता तं “देवं देवनशीलं “त्रातारं सर्वेभ्यो भयेभ्यः पालयितारम् “अभिमातिषाहम् अभिमातीनां शत्रूणां सोढारमभिभवितारम् एवंगुणविशिष्टमिन्द्रं सवितारं वा स्तौमीति शेषः ॥ ‘ षह अभिभवे । ‘ छन्दसि सहः' इति ण्विप्रत्ययः । छान्दसं विभक्त्युदात्तत्वम् ॥ “उभा उभावश्विनौ “बृहस्पतिः चैतत्प्रमुखाः सर्वे “देवाः “इमं “यज्ञम् अनुष्ठीयमानं “यजमानं च “न्यर्थात् निकृष्टादर्थात् पापात् । यद्वा । अर्थस्य प्रयोजनस्याभावो न्यर्थम् । तस्मात् “पान्तु रक्षन्तु सफलं कुर्वन्त्वित्यर्थः ॥ ‘ नेरनिधाने ' ( पा. सू. ६. २. १९२) इत्युत्तरपदान्तोदात्तत्वम् ॥


उ॒रु॒व्यचा॑ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे॑ पुरुहू॒तः पु॑रु॒क्षुः ।

स नः॑ प्र॒जायै॑ हर्यश्व मृळ॒येन्द्र॒ मा नो॑ रीरिषो॒ मा परा॑ दाः ॥ ८

उ॒रु॒ऽव्यचाः॑ । नः॒ । म॒हि॒षः । शर्म॑ । यं॒स॒त् । अ॒स्मिन् । हवे॑ । पु॒रु॒ऽहू॒तः । पु॒रु॒ऽक्षुः ।

सः । नः॒ । प्र॒ऽजायै॑ । ह॒रि॒ऽअ॒श्व॒ । मृ॒ळ॒य॒ । इन्द्र॑ । मा । नः॒ । रि॒रि॒षः॒ । मा । परा॑ । दाः॒ ॥८

उरुऽव्यचाः । नः । महिषः । शर्म । यंसत् । अस्मिन् । हवे । पुरुऽहूतः । पुरुऽक्षुः ।

सः । नः । प्रऽजायै । हरिऽअश्व । मृळय । इन्द्र । मा । नः । रिरिषः । मा । परा । दाः ॥८

“उरुव्यचाः विस्तीर्णव्यापनः “महिषः महान् पूज्यो वा “पुरुहूतः बहुभिर्यजमानैराहूतः “पुरुक्षुः बहुनिवासः ॥ क्षियतेः ‘मितद्र्वादिभ्य उपसंख्यानम् ' (पा. सू. ३. २. १८०. १ ) इति डुप्रत्ययः ॥ यद्वा । पुरुभिर्बहुभिः शब्द्यमानः स्तूयमानः ॥ पूर्ववत् डुप्रत्ययः । औणादिके कर्मणि क्विपि वा ‘ अनित्यमागमशासनम् ' इति तुगभावः ॥ ईदृशः इन्द्रः “अस्मिन् “हवे यज्ञे । हूयन्ते अस्मिन् हवींषीति हवो यज्ञः । जुहोतेरधिकरणेऽप् ॥ यद्वा । अस्मिन् हवे त्वद्विषये आह्वाने ।। ‘ भावेऽनुपसर्गस्य ' इति ह्वयतेरप् संप्रसारणं च ।। "नः अस्मभ्यं “शर्म सुखं “यंसत् यच्छतु ददात्वित्यर्थः॥ यमेर्लेट्यडागमः । ‘ सिब्बहुलम् ' इति सिप् ॥ हे “हर्यश्व हरी अश्वौ यस्य तादृश हे “इन्द्र “सः त्वं “नः अस्माकं “प्रजायै । द्वितीयार्थे चतुर्थी। प्रजां पुत्रपौत्रादिकां “मृळय सुखय । “नः अस्मान् “मा “रीरिषः मा हिंसीः । “मा च “परा “दाः । परादानं परित्यागः । मा परित्याक्षीरित्यर्थः ।।


ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् ।

वस॑वो रु॒द्रा आ॑दि॒त्या उ॑परि॒स्पृशं॑ मो॒ग्रं चेत्ता॑रमधिरा॒जम॑क्रन् ॥ ९

ये । नः॒ । स॒ऽपत्नाः॑ । अप॑ । ते । भ॒व॒न्तु॒ । इ॒न्द्रा॒ग्निऽभ्या॑म् । अव॑ । बा॒धा॒म॒हे॒ । तान् ।

वस॑वः । रु॒द्राः । आ॒दि॒त्याः । उ॒प॒रि॒ऽस्पृश॑म् । मा॒ । उ॒ग्रम् । चेत्ता॑रम् । अ॒धि॒ऽरा॒जम् । अ॒क्र॒न् ॥९

ये । नः । सऽपत्नाः । अप । ते । भवन्तु । इन्द्राग्निऽभ्याम् । अव । बाधामहे । तान् ।

वसवः । रुद्राः । आदित्याः । उपरिऽस्पृशम् । मा । उग्रम् । चेत्तारम् । अधिऽराजम् । अक्रन् ॥९

“नः अस्माकं “ये “सपत्नाः शत्रवः “ते “अप “भवन्तु अपगता भवन्तु । स्वस्थानादपगताः प्रच्युता भवन्तु । “तान् सपत्नान् “इन्द्राग्निभ्यां हविर्भिः स्तुत्या च प्रसन्नाभ्यामनुगृहीता वयम् “अव “बाधामहे निकृष्टतरं विनाशयामः । अपि च “वसवो “रुद्रा “आदित्याः च “मा माम् उपरिस्पृशम् उन्नतपदस्य संस्प्रष्टारं सर्वेभ्यः श्रेष्ठम् “अक्रन् कुर्वन्तु । तथा “उग्रम् उद्गूर्णबलं “चेत्तारं चेतितारम् ।। छान्दस इडभावः ।। सर्वस्य ज्ञातारम् “अधिराजं सर्वेषामधीश्वरं च मां कुर्वन्तु ॥ करोतेश्छान्दसे लुङि ‘ मन्त्रे घस इत्यादिना च्लेर्लुक् ।। । १६ ।। ।। १० ।।

टिप्पणी

अग्न्यन्वाधाने सूक्तस्य विनियोगः शां.श्रौ.सू. ४.२.७ द्रष्टव्यः।


मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१२८&oldid=321687" इत्यस्माद् प्रतिप्राप्तम्