ऋग्वेदः सूक्तं ८.४६

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ८.४६ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ८.४५ ऋग्वेदः - मण्डल ८
सूक्तं ८.४६
वशोऽश्व्यः
सूक्तं ८.४७ →
दे. इन्द्रः, २१-२४ कानीतः पृथुश्रवाः, २५-२८, ३२ वायुः । गायत्री, १ - - - - - - - - - - ।


त्वावतः पुरूवसो वयमिन्द्र प्रणेतः ।
स्मसि स्थातर्हरीणाम् ॥१॥
त्वां हि सत्यमद्रिवो विद्म दातारमिषाम् ।
विद्म दातारं रयीणाम् ॥२॥
आ यस्य ते महिमानं शतमूते शतक्रतो ।
गीर्भिर्गृणन्ति कारवः ॥३॥
सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा ।
मित्रः पान्त्यद्रुहः ॥४॥
दधानो गोमदश्ववत्सुवीर्यमादित्यजूत एधते ।
सदा राया पुरुस्पृहा ॥५॥
तमिन्द्रं दानमीमहे शवसानमभीर्वम् ।
ईशानं राय ईमहे ॥६॥
तस्मिन्हि सन्त्यूतयो विश्वा अभीरवः सचा ।
तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम् ॥७॥
यस्ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः ।
य आददिः स्वर्नृभिर्यः पृतनासु दुष्टरः ॥८॥
यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्वस्ति तरुता ।
स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥९॥
गव्यो षु णो यथा पुराश्वयोत रथया ।
वरिवस्य महामह ॥१०॥
नहि ते शूर राधसोऽन्तं विन्दामि सत्रा ।
दशस्या नो मघवन्नू चिदद्रिवो धियो वाजेभिराविथ ॥११॥
य ऋष्वः श्रावयत्सखा विश्वेत्स वेद जनिमा पुरुष्टुतः ।
तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ॥१२॥
स नो वाजेष्वविता पुरूवसुः पुरस्थाता मघवा वृत्रहा भुवत् ॥१३॥
अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् ।
इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥१४॥
ददी रेक्णस्तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत वाजिनम् ।
नूनमथ ॥१५॥
विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः ।
कृपयतो नूनमत्यथ ॥१६॥
महः सु वो अरमिषे स्तवामहे मीळ्हुषे अरंगमाय जग्मये ।
यज्ञेभिर्गीर्भिर्विश्वमनुषां मरुतामियक्षसि गाये त्वा नमसा गिरा ॥१७॥
ये पातयन्ते अज्मभिर्गिरीणां स्नुभिरेषाम् ।
यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां प्राध्वरे ॥१८॥
प्रभङ्गं दुर्मतीनामिन्द्र शविष्ठा भर ।
रयिमस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते ॥१९॥
सनितः सुसनितरुग्र चित्र चेतिष्ठ सूनृत ।
प्रासहा सम्राट् सहुरिं सहन्तं भुज्युं वाजेषु पूर्व्यम् ॥२०॥
आ स एतु य ईवदाँ अदेवः पूर्तमाददे ।
यथा चिद्वशो अश्व्यः पृथुश्रवसि कानीतेऽस्या व्युष्याददे ॥२१॥
षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिं शता ।
दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा ॥२२॥
दश श्यावा ऋधद्रयो वीतवारास आशवः ।
मथ्रा नेमिं नि वावृतुः ॥२३॥
दानासः पृथुश्रवसः कानीतस्य सुराधसः ।
रथं हिरण्ययं ददन्मंहिष्ठः सूरिरभूद्वर्षिष्ठमकृत श्रवः ॥२४॥
आ नो वायो महे तने याहि मखाय पाजसे ।
वयं हि ते चकृमा भूरि दावने सद्यश्चिन्महि दावने ॥२५॥
यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम् ।
एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ॥२६॥
यो म इमं चिदु त्मनामन्दच्चित्रं दावने ।
अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः ॥२७॥
उचथ्ये वपुषि यः स्वराळुत वायो घृतस्नाः ।
अश्वेषितं रजेषितं शुनेषितं प्राज्म तदिदं नु तत् ॥२८॥
अध प्रियमिषिराय षष्टिं सहस्रासनम् ।
अश्वानामिन्न वृष्णाम् ॥२९॥
गावो न यूथमुप यन्ति वध्रय उप मा यन्ति वध्रयः ॥३०॥
अध यच्चारथे गणे शतमुष्ट्राँ अचिक्रदत् ।
अध श्वित्नेषु विंशतिं शता ॥३१॥
शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे ।
ते ते वायविमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः ॥३२॥
अध स्या योषणा मही प्रतीची वशमश्व्यम् ।
अधिरुक्मा वि नीयते ॥३३॥

सायणभाष्यम्

॥ श्रीगणेशाय नमः ॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

षष्ठे तृतीयमध्यायं व्याख्याय श्रीमतीसुतः ।

श्रीसायणार्यः संगृह्य चतुर्थं व्याकरोत्यथ ।

तत्र ‘त्वावतः' इति त्रयस्त्रिंशदृचं चतुर्थं सूक्तमश्वपुत्रस्य वशाख्यस्यार्षम् । प्राग्वत्सप्रपरिभाषयाद्याश्चतस्रो गायत्र्यः । तत्राद्या पादनिचृत् ‘त्रयः सप्तकाः पादनिचृत्' (अनु. ४. ४ ) इत्युक्तलक्षणोपेतत्वात् । ‘दधानो गोमदश्ववत्' इत्येषा पञ्चमी ककुप् अष्टकद्वादशाष्टकैः पादैरुपेतत्वात् ।' मध्यमश्चेत् ककुप्' (अनु. ५. ३) इति हि तल्लक्षणम् । 'तमिन्द्रम्' इति षष्ठी गायत्री । तस्मिन् हि सन्ति' इति सप्तमी बृहती। ' यस्ते मदः' इत्यष्टम्यनुष्टुप् । यो दुष्टरः' इति नवमी सतोबृहती। ‘ अयुजौ जागतौ सतोबृहती ' ( अनु. ८. ४) इति ह्युक्तम् । ‘गव्यो षु णः' इति दशमी गायत्री । नहि ते शूर' इत्येकादशी बृहती। ‘य ऋष्वः' इति द्वादशी विपरीता सतोबृहती प्रथमतृतीययोरष्टाक्षरा द्वितीयचतुर्थयोर्द्वादशाक्षरा च । ‘युजौ चेद्विपरीता' (अनु. ८.५) इत्युक्तत्वात् । स नो वाजेषु' इति त्रयोदशी चतुर्विंशत्यक्षरा द्विपदा । “ अभि वो वीरम्' इति चतुर्दशी पिपीलिकमध्या बृहती । त्रयोदशिनोर्मध्येऽष्टकः पिपलिकमध्या' (अनु. ७. ७ ) इत्युक्तत्वात् । ‘ददी रेक्णः' इति पञ्चदशी ककुम्न्यङ्कुशिरा • त्रैष्टुभजागतचतुष्काः ककुम्न्यङ्कुशिरा' (अनु. ५. ४ ) इत्युक्तत्वात् । विश्वेषाम्' इति षोडशी विराट् । “महः सु वः' इति सप्तदशी जगती । ये पातयन्ते' इत्यष्टादश्युपरिष्टाद्बृहती चतुर्थपादस्य द्वादशाक्षरत्वात् । ‘प्रभङ्गम्' इत्येकोनविंशी बृहती। ‘सनितः सुसनितः' इति विंशी विषमपदा बृहती नवकाष्ट्येकादश्यष्टिनो विषमपदा' (अनु. ७. ८) इत्युक्तत्वात् । ‘आ स एतु' ‘षष्टिं सहस्रा' इत्येकविंशीद्वाविंश्यौ पङ्क्ती । “दश श्यावाः' इति त्रयोविंशी गायत्री । “दानासः' इति चतुर्विशी पङ्क्तिः । पञ्चविंशीसप्तविंश्यौ बृहत्यौ। षड्विंश्यष्टाविंश्यौ सतोबृहत्यौ। एकोनत्रिंशी गायत्री । “गावो न यूथम् ' इति त्रिंशी विंशत्यक्षरा द्विपदा विराट्। एकत्रिंश्युष्णिक् । द्वात्रिंशी पङ्क्तिः । त्रयस्त्रिंशी गायत्री। ' आ स एतु' इत्यादिभिश्चतसृभिः कनीतपुत्रस्य पृथुश्रवसो दानं स्तूयते । अतस्तदेवताकाः। ‘आ नो वायो' इत्यादीनां चतसृणां द्वात्रिंश्याश्च वायुर्देवता । शिष्टा अनादेशपरिभाषयेन्द्रदेवताकाः । एतत्सर्वमनुक्रमण्यामुक्तं-- ‘त्वावतस्त्रयस्त्रिंशद्वशोऽश्व्य आ स आदि कानीतस्य पृथुश्रवसो दानस्तुतिराद्या पादनिचृत् पञ्चम्यादि ककुब्गायत्री बृहत्यनुष्टुप् सतो बृहती गायत्री विपरीतोत्तरः प्रगाथो द्विपदा चतुर्विंशिका बृहती पिपीलिकमध्या ककुम्न्यङ्कुशिरा विराड्जगत्युपरिष्टाद्बृहतीबृहत्यौ विषमपदोत्तरे पङ्क्ती गायत्री पङ्क्तिः प्रगाथौ च वायव्यौ गायत्री द्विपदोष्णिक् पङ्क्तिर्वायव्या गायत्री' इति । महाव्रते निष्केवल्ये ‘सनितः सुसनितः' इत्यन्तमेव सूक्तम् । तथा च पञ्चमारण्यके शौनकेन सूत्रितं - ’त्वावतः पुरूवसविति वशः सनितः सुसनितरित्येतदन्तः' (ऐ. आ. ५. २. ५) इति ॥


त्वाव॑तः पुरूवसो व॒यमिं॑द्र प्रणेतः ।

स्मसि॑ स्थातर्हरीणां ॥१

त्वाऽव॑तः । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । व॒यम् । इ॒न्द्र॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः ।

स्मसि॑ । स्था॒तः॒ । ह॒री॒णा॒म् ॥१

त्वाऽवतः । पुरुवसो इति पुरुऽवसो । वयम् । इन्द्र । प्रनेतरिति प्रऽनेतः ।

स्मसि । स्थातः । हरीणाम् ॥१

हे “पुरूवसो बहुधनेन्द्र “प्रणेतः कर्मणां पारं प्रकर्षेण प्रापयितः “इन्द्र “त्वावतः त्वत्सदृशस्य । इन्द्रसमानस्यान्यस्याभावात्तवेत्यर्थः । तव स्वभूताः “वयं “स्मसि स्मः । हे “हरीणाम् एतत्संज्ञकानामश्वानां “स्थातः अधिष्ठातः ॥


त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षां ।

वि॒द्म दा॒तारं॑ रयी॒णां ॥२

त्वाम् । हि । स॒त्यम् । अ॒द्रि॒ऽवः॒ । वि॒द्म । दा॒तार॑म् । इ॒षाम् ।

वि॒द्म । दा॒तार॑म् । र॒यी॒णाम् ॥२

त्वाम् । हि । सत्यम् । अद्रिऽवः । विद्म । दातारम् । इषाम् ।

विद्म । दातारम् । रयीणाम् ॥२

हे अद्रिवः । अत्ति शत्रुमित्यद्रिर्वज्रः । तद्वन्निन्द्र “त्वां “सत्यं निश्चयम् “इषाम् अन्नानां “दातारं “विद्म जानीमः । तथा “रयीणां धनानां “दातारं विद्म ।


आ यस्य॑ ते महि॒मानं॒ शत॑मूते॒ शत॑क्रतो ।

गी॒र्भिर्गृ॒णंति॑ का॒रवः॑ ॥३

आ । यस्य॑ । ते॒ । म॒हि॒मान॑म् । शत॑म्ऽऊते । शत॑क्रतो॒ इति॒ शत॑ऽक्रतो ।

गीः॒ऽभिः । गृ॒णन्ति॑ । का॒रवः॑ ॥३

आ । यस्य । ते । महिमानम् । शतम्ऽऊते । शतक्रतो इति शतऽक्रतो ।

गीःऽभिः । गृणन्ति । कारवः ॥३

हे “शतमूते अपरिमितरक्षण हे "शतक्रतो बहुकर्मयुक्तेन्द्र “यस्य “ते "महिमानं माहात्म्यं “कारवः स्तोतारः “गीर्भिः स्तुतिभिः “गृणन्ति स्तुवन्ति स्वाभीष्टाय ॥


सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम॑र्य॒मा ।

मि॒त्रः पांत्य॒द्रुहः॑ ॥४

सु॒ऽनी॒थः । घ॒ । सः । मर्त्यः॑ । यम् । म॒रुतः॑ । यम् । अ॒र्य॒मा ।

मि॒त्रः । पान्ति॑ । अ॒द्रुहः॑ ॥४

सुऽनीथः । घ । सः । मर्त्यः । यम् । मरुतः । यम् । अर्यमा ।

मित्रः । पान्ति । अद्रुहः ॥४

“स “मर्त्यः मनुष्यो यजमानः “सुनीथः सुयज्ञः सुनयनो वा भवति । “घ इति प्रसिद्धौ । स इत्युक्तं कमित्याह । “यं यजमानं “मरुतः देवाः "पान्ति रक्षन्ति “अद्रुहः अद्रोहकर्तारः । तथा “यमर्यमा पाति । यं च "मित्रः पाति । स एवं भवतीति ॥


दधा॑नो॒ गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू॑त एधते ।

सदा॑ रा॒या पु॑रु॒स्पृहा॑ ॥५

दधा॑नः । गोऽम॑त् । अश्व॑ऽवत् । सु॒ऽवीर्य॑म् । आ॒दि॒त्यऽजू॑तः । ए॒ध॒ते॒ ।

सदा॑ । रा॒या । पु॒रु॒ऽस्पृहा॑ ॥५

दधानः । गोऽमत् । अश्वऽवत् । सुऽवीर्यम् । आदित्यऽजूतः । एधते ।

सदा । राया । पुरुऽस्पृहा ॥५

“आदित्यजूतः आदित्यप्रेरित आदित्यानुगृहीतो यजमानः “गोमत् गोभिरुपेतम् “अश्ववत् अश्वैरुपेतं “सुवीर्यं शोभनवीर्योपेतं पुत्रं “दधानः धारयन् “एधते वर्धते “सदा सर्वदा । किंच “पुरुस्पृहा बहुभिः स्पृहणीयेन “राया धनेन सदैधते ॥ ॥ १ ॥


तमिंद्रं॒ दान॑मीमहे शवसा॒नमभी॑र्वं ।

ईशा॑नं रा॒य ई॑महे ॥६

तम् । इन्द्र॑म् । दान॑म् । ई॒म॒हे॒ । श॒व॒सा॒नम् । अभी॑र्वम् ।

ईशा॑नम् । रा॒यः । ई॒म॒हे॒ ॥६

तम् । इन्द्रम् । दानम् । ईमहे । शवसानम् । अभीर्वम् ।

ईशानम् । रायः । ईमहे ॥६

“तं प्रसिद्धम् “इन्द्रं “दानं देयं “रायः धनम् “ईमहे याचामहे । कीदृशमिन्द्रम् । “शवसानं बलमाचरन्तम् “अभीर्वम् अभीरुम् “ईशानं सर्वस्य स्वामिनम् ॥


तस्मि॒न्हि संत्यू॒तयो॒ विश्वा॒ अभी॑रवः॒ सचा॑ ।

तमा व॑हंतु॒ सप्त॑यः पुरू॒वसुं॒ मदा॑य॒ हर॑यः सु॒तं ॥७

तस्मि॑न् । हि । सन्ति॑ । ऊ॒तयः॑ । विश्वाः॑ । अभी॑रवः । सचा॑ ।

तम् । आ । व॒ह॒न्तु॒ । सप्त॑यः । पु॒रु॒ऽवसु॑म् । मदा॑य । हर॑यः । सु॒तम् ॥७

तस्मिन् । हि । सन्ति । ऊतयः । विश्वाः । अभीरवः । सचा ।

तम् । आ । वहन्तु । सप्तयः । पुरुऽवसुम् । मदाय । हरयः । सुतम् ॥७

“तस्मिन् इन्द्रे “ऊतयः गन्त्र्यः “विश्वाः सर्वाः "अभीरवः अकातराः "सचा सहायभूता मरुद्रूपाः सेनाः “सन्ति भवन्ति । अथवा तस्मिन् सर्वा रक्षणाः सह संभवन्ति। “तम् इन्द्रं “सप्तयः सर्पणशीलाः “हरयः अश्वाः पुरूवसुं बहुधनम् । बहुधनप्रदमित्यर्थः। तं "मदाय “सुतम् अभिषुतं सोमं प्रति “आ “वहन्तु आगमयन्तु ॥


यस्ते॒ मदो॒ वरे॑ण्यो॒ य इं॑द्र वृत्र॒हंत॑मः ।

य आ॑द॒दिः स्व१॒॑र्नृभि॒र्यः पृत॑नासु दु॒ष्टरः॑ ॥८

यः । ते॒ । मदः॑ । वरे॑ण्यः । यः । इ॒न्द्र॒ । वृ॒त्र॒हन्ऽत॑मः ।

यः । आ॒ऽद॒दिः । स्वः॑ । नृऽभिः॑ । यः । पृत॑नासु । दु॒स्तरः॑ ॥८

यः । ते । मदः । वरेण्यः । यः । इन्द्र । वृत्रहन्ऽतमः ।

यः । आऽददिः । स्वः । नृऽभिः । यः । पृतनासु । दुस्तरः ॥८

पूर्वमन्त्रे मदाय हरय इत्युक्तं स मदः स्तूयते । हे “इन्द्र “ते तव “यः “मदः “वरेण्यः वरणीयः । “यः च मदः संग्रामे “वृत्रहन्तमः शत्रूणामतिशयेन हन्ता । “यः च “आददिः आदाता “स्वः स्वरणं धनं “नृभिः नृभ्यः शत्रुभ्यः । “यः च “पृतनासु संग्रामेषु “दुष्टरः अनभिभाव्यः । तस्मै मदाय हरयो वहन्त्विति ॥


यो दु॒ष्टरो॑ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति॑ तरु॒ता ।

स नः॑ शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति व्र॒जे ॥९

यः । दु॒स्तरः॑ । वि॒श्व॒ऽवा॒र॒ । श्र॒वाय्यः॑ । वाजे॑षु । अस्ति॑ । त॒रु॒ता ।

सः । नः॒ । श॒वि॒ष्ठ॒ । सव॑ना । आ । व॒सो॒ इति॑ । ग॒हि॒ । ग॒मेम॑ । गोऽम॑ति । व्र॒जे ॥९

यः । दुस्तरः । विश्वऽवार । श्रवाय्यः । वाजेषु । अस्ति । तरुता ।

सः । नः । शविष्ठ । सवना । आ । वसो इति । गहि । गमेम । गोऽमति । व्रजे ॥९

हे “विश्ववार विश्वैर्वरणीयेन्द्र “वाजेषु युद्धेषु “यः तव “दुष्टरः दुःखेन तरीतुं शक्यः “तरुता शत्रूणां तारकः “अस्ति भवति हे “वसो वासक हे “शविष्ठ अतिशयेन बलवन्निन्द्र “सः त्वं “नः “सवना अस्माकं सवनानि “आ “गहि आगच्छ । वयं च “गोमति “व्रजे गोमन्तं व्रजं “गमेम गच्छेम ।।


ग॒व्यो षु णो॒ यथा॑ पु॒राश्व॒योत र॑थ॒या ।

व॒रि॒व॒स्य म॑हामह ॥१०

ग॒व्यो इति॑ । सु । नः॒ । यथा॑ । पु॒रा । अ॒श्व॒ऽया । उ॒त । र॒थ॒ऽया ।

व॒रि॒व॒स्य । म॒हा॒ऽम॒ह॒ ॥१०

गव्यो इति । सु । नः । यथा । पुरा । अश्वऽया । उत । रथऽया ।

वरिवस्य । महाऽमह ॥१०

हे “महामह महाधनेन्द्र “गव्या । गव्या उ इति निपातानिपातद्वयसमुदायस्यादिवद्भावेन निपातवद्भावात् प्रकृतिभावः । अस्माकं गवामिच्छया अस्माकं गा दातुं “यथा “पुरा पूर्वं यथास्माकं गवादिदानाय वरिवस्यसि तद्वदद्यापि “सु सुष्ठु वरिवस्य परिचर । आगच्छेत्यर्थः । न केवलं गवेच्छथा किंतु “अश्वया अश्वप्रदानेच्छया । “उत अपि च “रथया रथेच्छया च वरिवस्येति ॥ ॥ २ ॥


न॒हि ते॑ शूर॒ राध॒सोऽंतं॑ विं॒दामि॑ स॒त्रा ।

द॒श॒स्या नो॑ मघव॒न्नू चि॑दद्रिवो॒ धियो॒ वाजे॑भिराविथ ॥११

न॒हि । ते॒ । शू॒र॒ । राध॑सः । अन्त॑म् । वि॒न्दामि॑ । स॒त्रा ।

द॒श॒स्य । नः॒ । म॒घ॒ऽव॒न् । नु । चि॒त् । अ॒द्रि॒ऽवः॒ । धियः॑ । वाजे॑भिः । आ॒वि॒थ॒ ॥११

नहि । ते । शूर । राधसः । अन्तम् । विन्दामि । सत्रा ।

दशस्य । नः । मघऽवन् । नु । चित् । अद्रिऽवः । धियः । वाजेभिः । आविथ ॥११

हे "शूर विक्रान्तेन्द्र “ते तव “राधसः धनस्य “अन्तम् इयत्तां “सत्रा सत्यं “नहि विन्दामि न लभे। यस्मादेवं तस्मात् हे “मघवन् धनवन् हे “अद्रिवः वज्रवन्निन्द्र “नः अस्माकं “नू “चित् क्षिप्रमेव “दशस्य देहि तद्धनम् । किंच “वाजेभिः वाजैरन्नैः “धियः अस्मदीयानि कर्माणि "आविथ रक्षः ।।


य ऋ॒ष्वः श्रा॑व॒यत्स॑खा॒ विश्वेत्स वे॑द॒ जनि॑मा पुरुष्टु॒तः ।

तं विश्वे॒ मानु॑षा यु॒गेंद्रं॑ हवंते तवि॒षं य॒तस्रु॑चः ॥१२

यः । ऋ॒ष्वः । श्र॒व॒यत्ऽस॑खा । विश्वा॑ । इत् । सः । वे॒द॒ । जनि॑म । पु॒रु॒ऽस्तु॒तः ।

तम् । विश्वे॑ । मानु॑षा । यु॒गा । इन्द्र॑म् । ह॒व॒न्ते॒ । त॒वि॒षम् । य॒तऽस्रु॑चः ॥१२

यः । ऋष्वः । श्रवयत्ऽसखा । विश्वा । इत् । सः । वेद । जनिम । पुरुऽस्तुतः ।

तम् । विश्वे । मानुषा । युगा । इन्द्रम् । हवन्ते । तविषम् । यतऽस्रुचः ॥१२

"यः इन्द्रः “ऋष्वः दर्शनीयः “श्रावयत्सखा । श्रावयन्तः सखाय ऋत्विजो यस्य स तादृशः श्रावयत्सखा । “पुरुष्टुतः बहुभिर्यजमानैः स्तुतो य इन्द्रः “सः “विश्वेत् सर्वाण्यपि “जनिमा जन्मानि प्राणिनां “वेद जानाति । “तं “तविषं बलवन्तम् “इन्द्रं “विश्वे सर्वेऽप्यध्वर्य्वादयः “यतस्रुचः स्वीकृतहविष्काः सन्तः “मानुषा मनुष्यसंबन्धिनः "युगा युगानि कालान् सर्वेषु कालेषु “हवन्ते आह्वयन्ति स्तुवन्ति ।


स नो॒ वाजे॑ष्ववि॒ता पु॑रू॒वसुः॑ पुरःस्था॒ता म॒घवा॑ वृत्र॒हा भु॑वत् ॥१३

सः । नः॒ । वाजे॑षु । अ॒वि॒ता । पु॒रु॒ऽवसुः॑ । पु॒रः॒ऽस्था॒ता । म॒घऽवा॑ । वृ॒त्र॒ऽहा । भु॒व॒त् ॥१३

सः । नः । वाजेषु । अविता । पुरुऽवसुः । पुरःऽस्थाता । मघऽवा । वृत्रऽहा । भुवत् ॥१३

एषा द्विपदा जगती । “सः “पुरूवसुः बहुधनः “मघवा धनवान् “वृत्रहा शत्रूणां हन्तेन्द्रः “नः अस्माकं “वाजेषु संग्रामेषु "अविता रक्षिता “पुरःस्थाता तदर्थं पुरतो वर्तमानः भुवत् भवतु ॥


अ॒भि वो॑ वी॒रमंध॑सो॒ मदे॑षु गाय गि॒रा म॒हा विचे॑तसं ।

इंद्रं॒ नाम॒ श्रुत्यं॑ शा॒किनं॒ वचो॒ यथा॑ ॥१४

अ॒भि । वः॒ । वी॒रम् । अन्ध॑सः । मदे॑षु । गा॒य॒ । गि॒रा । म॒हा । विऽचे॑तसम् ।

इन्द्र॑म् । नाम॑ । श्रुत्य॑म् । शा॒किन॑म् । वचः॑ । यथा॑ ॥१४

अभि । वः । वीरम् । अन्धसः । मदेषु । गाय । गिरा । महा । विऽचेतसम् ।

इन्द्रम् । नाम । श्रुत्यम् । शाकिनम् । वचः । यथा ॥१४

हे उद्गात्रादयः “वः । यूयमित्यर्थः । अथवा हे यजमानाः वो युष्माकं हिताय “अन्धसः सोमस्य “मदेषु उत्पाद्यमानेषु सत्सु “वीरं शत्रूणामीरयितारं “नाम शत्रूणां नामकं “विचेतसं विशिष्टप्रज्ञं “श्रुत्यं सर्वत्र श्रोतव्यं “शाकिनं शक्तमीदृशम् “इन्द्रं “महा महत्या “गिरा स्तुत्या “वचः वाग्युष्मदीया “यथा येन प्रकारेण प्रवर्तते गायत्र्या त्रिष्टुभा वा तथा “गाय गायत । स्तुतिं कुरुत ।


द॒दी रेक्ण॑स्त॒न्वे॑ द॒दिर्वसु॑ द॒दिर्वाजे॑षु पुरुहूत वा॒जिनं॑ ।

नू॒नमथ॑ ॥१५

द॒दिः । रेक्णः॑ । त॒न्वे॑ । द॒दिः । वसु॑ । द॒दिः । वाजे॑षु । पु॒रु॒ऽहू॒त॒ । वा॒जिन॑म् ।

नू॒नम् । अथ॑ ॥१५

ददिः । रेक्णः । तन्वे । ददिः । वसु । ददिः । वाजेषु । पुरुऽहूत । वाजिनम् ।

नूनम् । अथ ॥१५

हे “पुरुहूत बहुभिराहूतेन्द्र त्वं “तन्वे मह्यं शरीराय “रेक्णः धनं “ददिः दाता भव । कदेति उच्यते । “नूनं क्षिप्रम् अद्येदानीमेव। एवं प्रतिवाक्यं योज्यम् । तथा “वसु धनं पुत्रादिभ्यः "ददिः दाता भव । तथा “वाजेषु संग्रामेषु “वाजिनम् अन्नवन्तं रयिं “ददिः दाता भवेति । 'अत्र सर्वेष्वपि वाक्येषु ददिः इत्यस्य लिड्भावात् ‘न लोकाव्यय°' इति षष्ठीप्रतिषेधः ॥ ॥ ३ ॥


विश्वे॑षामिर॒ज्यंतं॒ वसू॑नां सास॒ह्वांसं॑ चिद॒स्य वर्प॑सः ।

कृ॒प॒य॒तो नू॒नमत्यथ॑ ॥१६

विश्वे॑षाम् । इ॒र॒ज्यन्त॑म् । वसू॑नाम् । स॒स॒ह्वांस॑म् । चि॒त् । अ॒स्य । वर्प॑सः ।

कृ॒प॒ऽय॒तः । नू॒नम् । अति॑ । अथ॑ ॥१६

विश्वेषाम् । इरज्यन्तम् । वसूनाम् । ससह्वांसम् । चित् । अस्य । वर्पसः ।

कृपऽयतः । नूनम् । अति । अथ ॥१६

हे इन्द्र त्वां “विश्वेषां सर्वेषां “वसूनां धनानाम् “इरज्यन्तम् ईशानम् “अस्य “वर्पसः वारकस्य “कृपयतः युद्धं कल्पयतः शत्रोः सासह्वांसम् अभिभवितारं स्तुवत इति शेषः । स त्वं “नूनं क्षिप्रमद्यापीदानीमपि धनं प्रयच्छेत्यर्थः ॥


म॒हः सु वो॒ अर॑मिषे॒ स्तवा॑महे मी॒ळ्हुषे॑ अरंग॒माय॒ जग्म॑ये ।

य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषां म॒रुता॑मियक्षसि॒ गाये॑ त्वा॒ नम॑सा गि॒रा ॥१७

म॒हः । सु । वः॒ । अर॑म् । इ॒षे॒ । स्तवा॑महे । मी॒ळ्हुषे॑ । अ॒र॒म्ऽग॒माय॑ । जग्म॑ये ।

य॒ज्ञेभिः॑ । गीः॒ऽभिः । वि॒श्वऽम॑नुषाम् । म॒रुता॑म् । इ॒य॒क्ष॒सि॒ । गाये॑ । त्वा॒ । नम॑सा । गि॒रा ॥१७

महः । सु । वः । अरम् । इषे । स्तवामहे । मीळ्हुषे । अरम्ऽगमाय । जग्मये ।

यज्ञेभिः । गीःऽभिः । विश्वऽमनुषाम् । मरुताम् । इयक्षसि । गाये । त्वा । नमसा । गिरा ॥१७

हे इन्द्र “महः महतः “वः । तवेत्यर्थः। व्यत्ययेन बहुवचनम् । “अरं गमनमस्मद्विषयमिच्छामि । अर्तेररमिति रूपम् । तदर्थं “मीळ्हुषे सेक्त्रे “अरंगमाय संपूर्णगमनाय "जग्मये गमनशीलाय यज्ञं प्रति एवंभूताय देवाय “स्तवामहे । त्वां स्तुम इत्यर्थः । केन साधनेनेति तदुच्यते । “यज्ञेभिः यजनसाधनैर्हविर्भिर्यज्ञैरेव वा “गीर्भिः स्तुतिभिः । हे देव “विश्वमनुषां विश्वेषां मनुष्याणां यष्टॄणाम् “इयक्षसि एतैरिज्यसे । “मरुतां संबन्धी त्वम् । किंच “त्वा त्वां “नमसा नमस्कारेण “गिरा स्तुत्या च "गाये स्तुवे ।।


ये पा॒तयं॑ते॒ अज्म॑भिर्गिरी॒णां स्नुभि॑रेषां ।

य॒ज्ञं म॑हि॒ष्वणी॑नां सु॒म्नं तु॑वि॒ष्वणी॑नां॒ प्राध्व॒रे ॥१८

ये । पा॒तय॑न्ते । अज्म॑ऽभिः । गि॒री॒णाम् । स्नुऽभिः॑ । ए॒षा॒म् ।

य॒ज्ञम् । म॒हि॒ऽस्वनी॑नाम् । सु॒म्नम् । तु॒वि॒ऽस्वनी॑नाम् । प्र । अ॒ध्व॒रे ॥१८

ये । पातयन्ते । अज्मऽभिः । गिरीणाम् । स्नुऽभिः । एषाम् ।

यज्ञम् । महिऽस्वनीनाम् । सुम्नम् । तुविऽस्वनीनाम् । प्र । अध्वरे ॥१८

“ये मरुतः “गिरीणां मेघानां “स्नुभिः प्रस्नवद्भिः “अज्मभिः बलैः बलकरैरुदकैः सह “पातयन्ते पतन्ति गच्छन्ति “एषां मरुतां “महिष्वणीनां प्रभूतध्वनीनां “यज्ञं कुर्म इति शेषः । कृत्वा च “तुविष्वणीनां बहुध्वनीनां “सुम्नं सुखं तैः कृतम् “अध्वरे यज्ञे “प्र प्राप्नुयाम । अथवा चतुर्थ्यर्थे षष्ठी । प्रभूतस्वनेभ्यः सुम्नमुक्तलक्षणं हविः प्र प्राप्नुयामाध्वरे यज्ञे ।।


प्र॒भं॒गं दु॑र्मती॒नामिंद्र॑ शवि॒ष्ठा भ॑र ।

र॒यिम॒स्मभ्यं॒ युज्यं॑ चोदयन्मते॒ ज्येष्ठं॑ चोदयन्मते ॥१९

प्र॒ऽभ॒ङ्गम् । दुः॒ऽम॒ती॒नाम् । इन्द्र॑ । श॒वि॒ष्ठ॒ । आ । भ॒र॒ ।

र॒यिम् । अ॒स्मभ्य॑म् । युज्य॑म् । चो॒द॒य॒त्ऽम॒ते॒ । ज्येष्ठ॑म् । चो॒द॒य॒त्ऽम॒ते॒ ॥१९

प्रऽभङ्गम् । दुःऽमतीनाम् । इन्द्र । शविष्ठ । आ । भर ।

रयिम् । अस्मभ्यम् । युज्यम् । चोदयत्ऽमते । ज्येष्ठम् । चोदयत्ऽमते ॥१९

“दुर्मतीनां दुष्टमनस्कानां वृत्रादीनां “प्रभङ्गं प्रकर्षेण भञ्जकं त्वां याचामह इति शेषः । हे “इन्द्र “शविष्ठ अतिशयेन बलवन् स्तुतस्त्वम् “अस्मभ्यं “रयिं धनं “युज्यं योग्यमस्माकमुचितं धनम् “आ “भर आहर। हे “चोदयन्मते । चोदयन्ती धनं प्रेरयन्ती मतिर्यस्य स तथोक्तः । हे तादृश देव । किंच हे "चोदयन्मते उक्तार्थ “ज्येष्ठं धनमा भर ॥


सनि॑तः॒ सुस॑नित॒रुग्र॒ चित्र॒ चेति॑ष्ठ॒ सूनृ॑त ।

प्रा॒सहा॑ सम्रा॒ट् सहु॑रिं॒ सहं॑तं भु॒ज्युं वाजे॑षु॒ पूर्व्यं॑ ॥२०

सनि॑त॒रिति॑ । सुऽस॑नितः । उग्र॑ । चित्र॑ । चेति॑ष्ठ । सूनृ॑त ।

प्र॒ऽसहा॑ । स॒म्ऽरा॒ट् । सहु॑रिम् । सह॑न्तम् । भु॒ज्युम् । वाजे॑षु । पूर्व्य॑म् ॥२०

सनितरिति । सुऽसनितः । उग्र । चित्र । चेतिष्ठ । सूनृत ।

प्रऽसहा । सम्ऽराट् । सहुरिम् । सहन्तम् । भुज्युम् । वाजेषु । पूर्व्यम् ॥२०

हे "सनितः संभक्तर्दातर्वा “उग्र उद्गूर्णबल “चित्र चायनीय “चेतिष्ठ अत्यन्तं चेतयितः "सूनृत सुसत्य “प्रासहा प्रसह्य हे "सम्राट् सर्वस्य स्वामिन् सम्यग्राजमान वा त्वं “सहुरिं सहनशीलं “भुज्युं भोजयितारं "पूर्व्यं प्रवृद्धम् । मुख्यमित्यर्थः । ईदृशं धनं “वाजेषु संग्रामेष्वाभरेति शेषः ॥ ॥ ४ ॥


आ स ए॑तु॒ य ईव॒दाँ अदे॑वः पू॒र्तमा॑द॒दे ।

यथा॑ चि॒द्वशो॑ अ॒श्व्यः पृ॑थु॒श्रव॑सि कानी॒ते॒३॒॑ऽस्या व्युष्या॑द॒दे ॥२१

आ । सः । ए॒तु॒ । यः । ईव॑त् । आ । अदे॑वः । पू॒र्तम् । आ॒ऽद॒दे ।

यथा॑ । चि॒त् । वशः॑ । अ॒श्व्यः । पृ॒थु॒ऽश्रव॑सि । कानी॒ते । अ॒स्याः । वि॒ऽउषि॑ । आ॒ऽद॒दे ॥२१

आ । सः । एतु । यः । ईवत् । आ । अदेवः । पूर्तम् । आऽददे ।

यथा । चित् । वशः । अश्व्यः । पृथुऽश्रवसि । कानीते । अस्याः । विऽउषि । आऽददे ॥२१

अत्र शौनकः-‘वशायाश्व्याय यत्प्रादात्कानीतस्तु पृथुश्रवाः । तदत्र स्तूयते दानमा स एत्वेवमादिभिः' (बृहद्दे ६.७९-८०)। “एतु आगच्छतु “सः “यः “अदेवः देवादन्यो मनुष्यो वशः “ईवत् गमनवत् गवादिलक्षणं “पूर्तं पूर्णम् “आददे आदत्ते । स्वीकृतवानित्यर्थः । देवश्चेन्माययाप्यागन्तुमर्हति । अतः प्रकाशेनैवागच्छत्वित्यर्थः । कथमस्य धनावाप्तिप्रसङ्ग आगमनप्रसङ्गश्चेति तदुच्यते । “यथा “चित् । चिदिति पूरणः । येन कारणेन यस्माद्वा “वशः एतत्संज्ञकः “अश्व्यः अश्वपुत्रः “पृथुश्रवसि एतन्नामके राज्ञि “कानीते कनीतपुत्रे कन्यायाः पुत्रे “अस्याः उषसः “व्युषि व्युष्टौ “आददे आदत्ते तेन कारणेन तस्माद्वा कारणादायात्विति । एवमश्वो बन्धुवर्गो वा ब्रूते ॥


ष॒ष्टिं स॒हस्राश्व्य॑स्या॒युता॑सन॒मुष्ट्रा॑नां विंश॒तिं श॒ता ।

दश॒ श्यावी॑नां श॒ता दश॒ त्र्य॑रुषीणां॒ दश॒ गवां॑ स॒हस्रा॑ ॥२२

ष॒ष्टिम् । स॒हस्रा॑ । अश्व्य॑स्य । अ॒युता॑ । अ॒स॒न॒म् । उष्ट्रा॑नाम् । विं॒श॒तिम् । श॒ता ।

दश॑ । श्यावी॑नाम् । श॒ता । दश॑ । त्रिऽअ॑रुषीणाम् । दश॑ । गवा॑म् । स॒हस्रा॑ ॥२२

षष्टिम् । सहस्रा । अश्व्यस्य । अयुता । असनम् । उष्ट्रानाम् । विंशतिम् । शता ।

दश । श्यावीनाम् । शता । दश । त्रिऽअरुषीणाम् । दश । गवाम् । सहस्रा ॥२२

स वश आगत्य व्रूते । “अश्व्यस्य अश्वसंबन्धिनः “षष्टिं “सहस्रा सहस्राणि "अयुता अयुतानि च “असनम् अभजम् । "उष्ट्राणां “विंशतिं “शता शतानि चासनम्। “श्यावीनां श्याववर्णानां वडवानां “दश “शता शतानि चासनम् । “त्र्यरुषीणां त्रीण्यारोचमानानि शुभ्राणि ककुप्पृष्ठपार्श्वादिस्थानानि यासां तादृशीनां “गवां “दश “सहस्रा सहस्राण्यभजम् ॥


दश॑ श्या॒वा ऋ॒धद्र॑यो वी॒तवा॑रास आ॒शवः॑ ।

म॒थ्रा ने॒मिं नि वा॑वृतुः ॥२३

दश॑ । श्या॒वाः । ऋ॒धत्ऽर॑यः । वी॒तऽवा॑रासः । आ॒शवः॑ ।

म॒थ्राः । ने॒मिम् । नि । व॒वृ॒तुः॒ ॥२३

दश । श्यावाः । ऋधत्ऽरयः । वीतऽवारासः । आशवः ।

मथ्राः । नेमिम् । नि । ववृतुः ॥२३

"दश दशसंख्याकाः “श्यावाः श्याववर्णाः “आशवः अश्वाः “नेमिं रथनेमिं “नि “वावृतुः निवर्तयन्ति । रथं वहन्तीत्यर्थः । ईदृशास्ते “ऋधद्रयः प्रवृद्धवेगाः “वीतवारासः क्रान्तबलाः प्राप्तबला वा आशवः “मथ्राः' मथनशीलाः ॥


दाना॑सः पृथु॒श्रव॑सः कानी॒तस्य॑ सु॒राध॑सः ।

रथं॑ हिर॒ण्ययं॒ दद॒न्मंहि॑ष्ठः सू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒ श्रवः॑ ॥२४

दाना॑सः । पृ॒थु॒ऽश्रव॑सः । का॒नी॒तस्य॑ । सु॒ऽराध॑सः ।

रथ॑म् । हि॒र॒ण्यय॑म् । दद॑त् । मंहि॑ष्ठः । सू॒रिः । अ॒भू॒त् । वर्षि॑ष्ठम् । अ॒कृ॒त॒ । श्रवः॑ ॥२४

दानासः । पृथुऽश्रवसः । कानीतस्य । सुऽराधसः ।

रथम् । हिरण्ययम् । ददत् । मंहिष्ठः । सूरिः । अभूत् । वर्षिष्ठम् । अकृत । श्रवः ॥२४

पूर्वमन्त्रैः प्रतिपादितानि धनानि बन्धूनां पितुर्वा पुरस्तान्निर्दिशन्नाशास्ते । “पृथुश्रवसः “कानीतस्य “सुराधसः शोभनधनस्य । यतस्तस्य धनं दानाय कल्पितमतः स सुराधाः । तस्य “दानासः दाना दत्तानि धनानीमानि । स च पृथुश्रवाः पूर्वमुक्तानि “हिरण्ययं हिरण्मयं “रथं च “ददत् प्रयच्छन् “मंहिष्ठः अतिशयेन दाता “सूरिः सर्वस्य प्रेरकः प्राज्ञो वा “अभूत् भवति भवतु वा । “वर्षिष्ठम् अतिशयेन प्रवृद्धां “श्रवः कीर्तिम् “अकृत करोति करोतु वा ।।


‘आ नो वायो' इत्येषा पञ्चमेऽहनि प्रउगशस्त्रे वायव्यतृचे तृतीया । ‘आ नो वायो महे तन इत्येका रथेन पृथुपाजसा' (आश्व. श्रौ. ७. १२) इति हि सूत्रितम् ॥

आ नो॑ वायो म॒हे तने॑ या॒हि म॒खाय॒ पाज॑से ।

व॒यं हि ते॑ चकृ॒मा भूरि॑ दा॒वने॑ स॒द्यश्चि॒न्महि॑ दा॒वने॑ ॥२५

आ । नः॒ । वा॒यो॒ इति॑ । म॒हे । तने॑ । या॒हि । म॒खाय॑ । पाज॑से ।

व॒यम् । हि । ते॒ । च॒कृ॒म । भूरि॑ । दा॒वने॑ । स॒द्यः । चि॒त् । महि॑ । दा॒वने॑ ॥२५

आ । नः । वायो इति । महे । तने । याहि । मखाय । पाजसे ।

वयम् । हि । ते । चकृम । भूरि । दावने । सद्यः । चित् । महि । दावने ॥२५

हे “वायो त्वं “नः अस्मान् प्रति “आ “याहि आगच्छ । किमर्थम् । “महे महते “तने धनाय “मखाय महनीयाय “पाजसे बलाय च । उभयं प्रदातुमित्यर्थः । किमत्रास्तीति तदुच्यते । “वयं “हि वयं खलु “ते “भूरि “दावने प्रभूतधनदात्रे “चकृम स्तुतिं हविर्वा । “सद्यश्चित् तदानीमेव तवागमनानन्तरमेव चकृम “महि महतो धनस्य “दावने दात्रे ॥ ॥ ५ ॥


यो अश्वे॑भि॒र्वह॑ते॒ वस्त॑ उ॒स्रास्त्रिः स॒प्त स॑प्तती॒नां ।

ए॒भिः सोमे॑भिः सोम॒सुद्भिः॑ सोमपा दा॒नाय॑ शुक्रपूतपाः ॥२६

यः । अश्वे॑भिः । वह॑ते । वस्ते॑ । उ॒स्राः । त्रिः । स॒प्त । स॒प्त॒ती॒नाम् ।

ए॒भिः । सोमे॑भिः । सो॒म॒सुत्ऽभिः॑ । सो॒म॒ऽपाः॒ । दा॒नाय॑ । शु॒क्र॒पू॒त॒ऽपाः॒ ॥२६

यः । अश्वेभिः । वहते । वस्ते । उस्राः । त्रिः । सप्त । सप्ततीनाम् ।

एभिः । सोमेभिः । सोमसुत्ऽभिः । सोमऽपाः । दानाय । शुक्रपूतऽपाः ॥२६

“यः पृथुश्रवाः “अश्वेभिः अश्वैः “वहते गृहं “वस्ते च "उस्राः गाः । ताभिश्च गच्छतीत्यर्थः । त्रिः सप्तति तासां गवां संख्योक्ता । सा संख्या विशेष्यते । “सप्ततीनां “त्रिः “सप्त । उक्तसंख्याकाभिर्गोभिरश्वैश्च यो गच्छति स पृथुश्रवाः “एभिः “सोमेभिः सोमैः “सोमसुद्भिः सोममभिषुण्वद्भिश्च हे “सोमपाः । सोमस्य पातरिति वायोः संबोधनम् । हे शुक्रपूतपाः दीप्तपूतस्य च सोमस्य पातर्वायो “दानाय तुभ्यं सोमं दातुं सोमैर्युक्तो भवतीति शेषः ॥


यो म॑ इ॒मं चि॑दु॒ त्मनामं॑दच्चि॒त्रं दा॒वने॑ ।

अ॒र॒ट्वे अक्षे॒ नहु॑षे सु॒कृत्व॑नि सु॒कृत्त॑राय सु॒क्रतुः॑ ॥२७

यः । मे॒ । इ॒मम् । चि॒त् । ऊं॒ इति॑ । त्मना॑ । अम॑न्दत् । चि॒त्रम् । दा॒वने॑ ।

अ॒र॒ट्वे । अक्षे॑ । नहु॑षे । सु॒ऽकृत्व॑नि । सु॒कृत्ऽत॑राय । सु॒ऽक्रतुः॑ ॥२७

यः । मे । इमम् । चित् । ऊं इति । त्मना । अमन्दत् । चित्रम् । दावने ।

अरट्वे । अक्षे । नहुषे । सुऽकृत्वनि । सुकृत्ऽतराय । सुऽक्रतुः ॥२७

“यः पृथुश्रवाः “मे मह्यम् “इमं पुरतो वर्तमानं “चित्रं चायनीयं गवाश्वादिकं "दावने दानाय “त्मना आत्मना स्वबुद्ध्यैव “अमन्दत् अमन्दत अमाद्यत । स च "सुक्रतुः शोभनकर्मा राजा “सुकृत्तराय सुकृतकर्तृत्वाय "अरट्वे “अक्षे “नहुषे सुकृत्वनि च । एते तस्य राज्ञोऽध्यक्षाः । तेष्वन्वशात् अस्मै गवादिकान् संयोजयतेति । यद्वा । अरट्वादयोऽन्ये राजानः । तेषु मध्ये सुकृत्तरायामन्ददिति ॥


उ॒च॒थ्ये॒३॒॑ वपु॑षि॒ यः स्व॒राळु॒त वा॑यो घृत॒स्नाः ।

अश्वे॑षितं॒ रजे॑षितं॒ शुने॑षितं॒ प्राज्म॒ तदि॒दं नु तत् ॥२८

उ॒च॒थ्ये॑ । वपु॑षि । यः । स्व॒ऽराट् । उ॒त । वा॒यो॒ इति॑ । घृ॒त॒ऽस्नाः ।

अश्व॑ऽइषितम् । रजः॑ऽइषितम् । शुना॑ऽइषितम् । प्र । अज्म॑ । तत् । इ॒दम् । नु । तत् ॥२८

उचथ्ये । वपुषि । यः । स्वऽराट् । उत । वायो इति । घृतऽस्नाः ।

अश्वऽइषितम् । रजःऽइषितम् । शुनाऽइषितम् । प्र । अज्म । तत् । इदम् । नु । तत् ॥२८

“उचथ्ये वक्तव्ये स्तुत्ये “वपुषि शरीरे “यः “स्वराट् स्वयं राजते । यद्वा । उचथ्यो वपुश्चोभौ राजानौ । तयोरपि यः स्वराट् स्वाराज्यं करोति अतिशयेन वर्तते । हे “वायो यश्च “घृतस्नाः घृतवच्छुद्धः स राजा “अश्वेषितम् अश्वैः प्रापितं “रजेषितम् । रजःशब्देनोष्ट्रो गर्दभो वोच्यते । तेनाप्यानीतं “शुनेषितं च “अज्म अन्नं “प्र अदात् । तत् अन्नमश्वाद्यानीतम् “इदं पुरतो दृश्यते । “तत् तवैवानुग्रहादित्यर्थः । अथवैकस्तच्छब्दः पूरणः । अश्वाद्यानीतं यदस्ति तदिदं खल्विति ॥


अध॑ प्रि॒यमि॑षि॒राय॑ ष॒ष्टिं स॒हस्रा॑सनं ।

अश्वा॑ना॒मिन्न वृष्णां॑ ॥२९

अध॑ । प्रि॒यम् । इ॒षि॒राय॑ । ष॒ष्टिम् । स॒हस्रा॑ । अ॒स॒न॒म् ।

अश्वा॑नाम् । इत् । न । वृष्णा॑म् ॥२९

अध । प्रियम् । इषिराय । षष्टिम् । सहस्रा । असनम् ।

अश्वानाम् । इत् । न । वृष्णाम् ॥२९

“अध अधुना "इषिराय धनादिप्रेरयित्रे राज्ञे “प्रियं श्रद्धेयमश्वानामिव “वृष्णां सेक्तॄणां गवां “सहस्रा सहस्राणां “षष्टिं षष्टिसहस्रसंख्याकं प्रियभूतम् "असनम् अभजम् ॥


गावो॒ न यू॒थमुप॑ यंति॒ वध्र॑य॒ उप॒ मा यं॑ति॒ वध्र॑यः ॥३०

गावः॑ । न । यू॒थम् । उप॑ । य॒न्ति॒ । वध्र॑यः । उप॑ । मा॒ । आ । य॒न्ति॒ । वध्र॑यः ॥३०

गावः । न । यूथम् । उप । यन्ति । वध्रयः । उप । मा । आ । यन्ति । वध्रयः ॥३०

“गावो “न गाव इव ता यथा संगवे “ यूथमुप “ यन्ति उपगच्छन्ति तद्वत् “ वध्रयः छिन्नमुष्का वृषभाः पृथुश्रवसा दत्ताः “मा माम् “उप “यन्ति समीपं प्राप्नुवन्ति । मा मां “वध्रयः उपा यन्तीति पुनरुक्तिरादरार्था ॥


अध॒ यच्चार॑थे ग॒णे श॒तमुष्ट्राँ॒ अचि॑क्रदत् ।

अध॒ श्वित्ने॑षु विंश॒तिं श॒ता ॥३१

अध॑ । यत् । चार॑थे । ग॒णे । श॒तम् । उष्ट्रा॑न् । अचि॑क्रदत् ।

अध॑ । श्वित्ने॑षु । विं॒श॒तिम् । श॒ता ॥३१

अध । यत् । चारथे । गणे । शतम् । उष्ट्रान् । अचिक्रदत् ।

अध । श्वित्नेषु । विंशतिम् । शता ॥३१

“अध अथ “यत् यदा “चारथे। चरथं चरणं गमनम्। तत्संबन्धिनि चार्यमाणे । वनाय प्रेर्यमाण इत्यर्थः। तादृशे “गणे उष्ट्रसंघे “उष्ट्रान् शतम् उष्ट्राणां शतम् “अचिक्रदत् अस्मभ्यं प्रदानायाजुहाव । “अध अपि चास्मदर्थमेव “श्वित्नेषु श्वेतवर्णेषु गोयूथेषु “विंशतिं च "शता शतानि च अथवा शतानां विंशतिमचिक्रदत् ॥


श॒तं दा॒से ब॑ल्बू॒थे विप्र॒स्तरु॑क्ष॒ आ द॑दे ।

ते ते॑ वायवि॒मे जना॒ मदं॒तींद्र॑गोपा॒ मदं॑ति दे॒वगो॑पाः ॥३२

श॒तम् । दा॒से । ब॒ल्बू॒थे । विप्रः॑ । तरु॑क्षे । आ । द॒दे॒ ।

ते । ते॒ । वा॒यो॒ इति॑ । इ॒मे । जनाः॑ । मद॑न्ति । इन्द्र॑ऽगोपाः । मद॑न्ति । दे॒वऽगो॑पाः ॥३२

शतम् । दासे । बल्बूथे । विप्रः । तरुक्षे । आ । ददे ।

ते । ते । वायो इति । इमे । जनाः । मदन्ति । इन्द्रऽगोपाः । मदन्ति । देवऽगोपाः ॥३२

अयं “विप्रः मेधावी वशो जनोऽहं “बल्बूथे एतन्नामके “दासे “तरुक्षे गवाश्वादीनां तारके गवाद्यधिकृते राज्ञास्माकं प्रदिष्टधनदातरि “आ “ददे । किं दानम् । गवाश्वादीनां “शतम् । शतशब्दोऽपरिमितवचनः । हे “वायो “ते तव स्वभूताः “ते स्तोतारः “इमे “जनाः । वयमित्यर्थः । आत्मन एव परोक्षत्वेन वादः । त्वयानुगृहीतत्वात् “इन्द्रगोपाः । इन्द्रो गोपायिता येषां ते तथोक्ताः । इन्द्रेण रक्षिताः “मदन्ति । तथा “देवगोपाः “मदन्ति । इन्द्रं देवांश्च राज्ञो लब्धेन धनेन यजन्तो मदन्तीत्यर्थः ॥


अध॒ स्या योष॑णा म॒ही प्र॑ती॒ची वश॑म॒श्व्यं ।

अधि॑रुक्मा॒ वि नी॑यते ॥३३

अध॑ । स्या । योष॑णा । म॒ही । प्र॒ती॒ची । वश॑म् । अ॒श्व्यम् ।

अधि॑ऽरुक्मा । वि । नी॒य॒ते॒ ॥३३

अध । स्या । योषणा । मही । प्रतीची । वशम् । अश्व्यम् ।

अधिऽरुक्मा । वि । नीयते ॥३३

“अध अधुना “स्या सा “योषणा योषा राज्ञा प्रदत्ता “मही महती पूज्या “प्रतीची अस्मदभिमुखी “अश्व्यम् अश्वपुत्रं “वशं मां प्रति साधिरुक्माभरणा सती “वि “नीयते । तां कन्यां मां प्रत्यानयन्तीत्यर्थः । अत्र वायव्यास्वृक्षु यत्र वायुर्न स्तूयते परं दानप्रशंसैव तासु सर्वासु हे वायो त्वदनुग्रहादेवमिति योज्यं वायुपरत्वमवगन्तव्यम् ॥ ॥ ६ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.४६&oldid=208995" इत्यस्माद् प्रतिप्राप्तम्