उमासहस्रनामस्तोत्रम्/प्रथमशतकम्/चतुर्थस्तबकः

विकिस्रोतः तः

चतुर्थः स्तबकः
आध्यात्मिकविभूतयः (गीतिवृत्तम्)

अमृतांशुबिम्बसाराद् भूयोऽपि विनिर्गतो भृशं सूक्ष्मः ।
सारो गौरीवदनाद् दरहासो हरतु दुःखजालं नः ॥ ४.१॥

कुलकुण्डे प्राणुवन्ती चेतन्ती हृदि समस्तजन्तूनाम् ।
मूर्धनि विचिन्तयन्ती मृत्युञ्जयमहिषि विजयते भवती ॥ ४.२॥

तेजोजलान्नसारैस्त्रयोऽणवो मूलहृदयमस्तेषु
पाकात्ते निष्पन्नास्त्रैलोक्यव्यापिकेऽम्ब देहवताम् ॥ ४.३॥

पूर्णे शरीरशिल्पे द्वारेण ब्रह्मरन्ध्रसञ्ज्ञेन ।
नाडीपथेन गत्वा तैजसमणुमाविशस्यमेयबले ॥ ४.४॥

अंशेनाविश्यादौ यासि पुनस्तं ततश्च निर्यासि ।
मार्गाभ्यां द्वाभ्यां त्वं नाड्याः पश्चात् पुरश्च सिद्धाभ्याम् ॥ ४.५॥

यातायातविहारे मातस्तस्मिन् भवत्युपाधिस्ते
आरभ्य मस्तकस्थलमामूलाधारमस्थिपञ्जरिका ॥ ४.६॥

नृतनुषु विहरन्तीं त्वाम् उपाधिवीणाकृतेर्जगन्मातः ।
सादृश्यात् कुण्डलिनीं परोक्षवादप्रियाः प्रभाषन्ते ॥ ४.७॥

नभसः शीर्षद्वारा प्रवहन्तीं य इह विग्रहे शक्तिम् ।
अनुसन्दधाति नित्यं कृतिनस्तस्येतरैरलं योगैः ॥ ४.८॥

सर्वेषु विशसि तुल्यं निर्गच्छसि तुल्यमम्ब भुवनानाम् ।
ज्ञाता चेदसि शक्त्यै न ज्ञाता चेद्भवस्यहङ्कृत्यै ॥ ४.९॥

अवतरणं ध्यातं चेद् आरोहणमद्भुतं भवेच्छक्तेः ।
यस्मिन्निदं शरीरं भवति महद्वैद्युताग्नियन्त्रमिव ॥ ४.१०॥

आरोहणमध्यातृषु हृदयेऽहङ्कारमात्रनिष्पत्यै ।
तदनु शरीरमिदं स्यात् सुखाय दुःखाय वा यथाभोगम् ॥ ४.११॥

या व्यक्तिता जनिमतामहङ्कृतिः सकलभेदधीभूमिः ।
पृथगिव तवाम्बिके सा सत्तैवोपाधिसंश्रयाद् भान्ती ॥ ४.१२॥

एतामाहुरविद्यां बीजं संसारवृक्षराजस्य ।
सर्वरसफलयुतस्य प्रारब्धजलेन देवि दोहदिनः ॥ ४.१३॥

व्यक्तित्वार्पकदेहे निम्ने कुल्येव जनिमतां मातः ।
प्रवहत्यनारतं ते शक्तिश्चित्राणि देवि तन्वाना ॥ ४.१४॥

सारमपामणुभूतं हृदयस्थं सूरयो विदुश्चित्तम् ।
श्रेष्ठं प्राणं केचन पञ्चानिलमूलभूतमाहुरिमम् ॥ ४.१५॥

मन एव चित्तसञ्ज्ञं व्यवहरतां विभजनानभिज्ञानाम् ।
कविलोकव्यवहारस्तदधीनस्तत्त्वधीर्भवत्यन्या ॥ ४.१६॥

तदनाहतस्य विलसद् दक्षिणतो दहरनामकगुहायाम् ।
चित्तं कुलकुण्डात्ते काऽप्यनुगृह्णाति देवि रश्मिकला ॥ ४.१७॥

चित्तमणु श्लिष्टं ते कलयाऽङ्गुष्ठप्रमाणमिव भासा ।
दर्पणममलब्रह्मप्रतिबिम्बाकर्षकं शिवे भवति ॥ ४.१८॥

अन्तरमावर्ताभं प्रतिबिम्बमकायमेतदीशस्य ।
अङ्गुष्ठाभं प्राहुर्मानेनोपाधिचैत्तभासस्ते ॥ ४.१९॥

दम्पत्योर्वां रूपप्रतिबिम्बौ चक्षुषोः शिवे भवतः ।
कुलकुण्डे हृदये चाप्यरूपयोरेव कश्चिदुल्लासः ॥ ४.२०॥

चित्तमणीयो वित्तं य इदं मूल्ये प्रपञ्चतोऽप्यधिकम् ।
हृदयगुहायां निहितं जानीते स विजहाति बहिराशाः ॥ ४.२१॥

अप्राप्ता मूर्धानं हृदयात् सम्प्रस्थिता धृता नाड्या ।
त्वद्रुचिरुक्ता बुद्धिस्त्वयि निष्ठा भवति देवि तन्निष्ठा ॥ ४.२२॥

अन्नमयाणुं प्राप्तं धीज्योतिश्चन्द्रमार्कमिव तेजः ।
परिभाष्यते महेश्वरि मन इति सङ्कल्पसम्भवस्थानम् ॥ ४.२३॥

सङ्कल्पे सङ्कल्पे चिच्छक्तिं मनसि विस्फुरन्तीं त्वाम् ।
य उपास्ते स जनस्ते गृह्णाति महेशवल्लभे चरणम् ॥ ४.२४॥

आधारचक्रशयने ममेह निद्रां विहाय विचलन्तीम् ।
गीतय एताः परमामुपतिष्ठन्तां जगद्विभोः कान्ताम् ॥ ४.२५॥