उमासहस्रनामस्तोत्रम्/चतुर्थशतकम्/त्रयोदशस्तबकः

विकिस्रोतः तः
Jump to navigation Jump to search

कटाक्षः (उपजातिवृत्तम्)

भवाम्बुधिं तारयताद्भवन्तं
हासोऽद्भुतः कुञ्जरवक्त्रमातुः ।
यो हन्ति बिम्बाधरलङ्घनेऽपि
व्यक्तालसत्वो हरितां तमांसि ॥ १३.१॥

सक्तः सदा चन्द्रकलाकलापे
सर्वेषु भूतेषु दयां दधानः ।
गौरीकटाक्षो रमणो मुनिर्वा
मदीयमज्ञानमपाकरोतु ॥ १३.२॥

कृपावलोको नगकन्यकायाः
करोतु मे निर्मलमन्तरङ्गम् ।
येनाङ्कितः शङ्कर एकतत्त्वं
विश्वं लुलोके जगते जगौ च ॥ १३.३॥

कालीकटाक्षो वचनानि मह्यं
ददातु मोचामदमोचनानि ।
यत्पातपूतं रघुवंशकारं
नराकृतिं प्राहुरजस्य नारीम् ॥ १३.४॥

युष्माकमग्र्यां वितनोतु वाणी-
मेणीदृगेषा गिरिशस्य योषा ।
यस्याः कटाक्षस्य विसारि वीर्यं
गिरामयं मे विविधो विलासः ॥ १३.५॥

नगात्मजायाः करुणोर्मिशाली
दृगन्तसन्तानधुनीप्रवाहः ।
भीष्मेण तप्तान्भवनामकेन
ग्रीष्मेण युष्माँच्छिशिरीकरोतु ॥ १३.६॥

अजस्रमार्द्रा दर्ययाऽन्तरङ्गे
यथा भवो निम्नगयोत्तमाङ्गे ।
सन्तापशान्तिं भवसुन्दरी मे
करोतु शीतेन विलोकितेन ॥ १३.७॥

पुण्या सदाऽपीश्वर एव सक्ता
पतिव्रतासाम्यमिता तवेक्षा ।
कुलाचलाधीश्वरकन्यके मे
संहरमंहोविततेर्विधत्ताम् ॥ १३.८॥

शर्वस्य रामे नियमेन हीना
श्यामा तवेक्षा गणिकाङ्गनेव ।
नीचेऽपि मर्त्ये निपतत्यनर्घा
बिभर्ति ना षोडश यः सुवर्णान् ॥ १३.९॥

पद्मायताक्षि क्षितिधारिकन्ये
कटाक्षनामा तव कालसर्पः ।
यं सन्दशत्येष जगत्समस्तं
विस्मृत्य चाहो न दधाति मोहम् ॥ १३.१०॥

ईशद्विषा शैलमहेन्द्रकन्ये
करोति मैत्रीं विषमायुधेन ।
प्रभाषते पातकिनश्च पक्षे
कुतः कटाक्षो न तवाम्ब मुग्धः ॥ १३.११॥

कृपान्वितः कर्णसमीपचारी
श्रीमान्सदा पुण्यजनानुकूलः ।
साम्यं कुरुणामधिपस्य शम्भोः
प्राणप्रिये ते भजते कटाक्षः ॥ १३.१२॥

कर्णान्तिकस्थोऽपि न धर्मवैरी
कृष्णोऽपि मतार्नकुलं न पाति ।
शीतोऽपि सन्दीपयति स्मराग्निं
हरस्य ते शैलसुते कटाक्षः ॥ १३.१३॥

अयं कटाक्षस्तव तोयवाहः
कारुण्यकाले परिजृम्भमाणः ।
गृहेषु लीनान् सुखिनो विहाय
निराश्रयान् सिञ्चति विश्वमातः ॥ १३.१४॥

कस्यापि वाचा वपुषा बलेन
समस्य सर्वैरपि यन्निदेशाः ।
अम्भोधिवेलास्वपि न स्खलन्ति
शम्भोः प्रियेऽयं तव दृक्प्रसादः ॥ १३.१५॥

द्वारेषु तेषां विचरन्ति शूराः
सौधेषु सारङ्गदृशस्तरुण्यः ।
प्रगल्भवाचः कवयः सभासु
शर्वाणि ते येषु कृपाकटाक्षः ॥ १३.१६॥

यत्राम्ब ते कोऽपि कटाक्षलेशः
स दुर्जयः सङ्गरसीम्नि शूरः ।
पूर्वं दिवं पूरयति द्विषद्भि-
स्ततो यशोभिर्भुवमिन्दुगौरैः ॥ १३.१७॥

यं तारकाकान्तकलापकान्ते
न लोकसे कोऽपि न लोकते तम् ।
यं लोकसे तेन विलोकितोऽपि
श्रियं समृद्धां समुपैति लोकः ॥ १३.१८॥

सुधां हसन्ती मधु चाक्षिपन्ती
यशो हरन्ती वनिताधरस्य ।
परिष्करोत्यस्य कवित्वधारा
मुखं हरप्रेयसि लोकसे यम् ॥ १३.१९॥

सर्वेन्द्रियानन्दकरी पुरन्ध्री
विद्याऽनवद्या विपुला च लक्ष्मीः ।
इयं त्रिरत्नी पुरुषस्य यस्य
दुर्गे त्वया दृष्टमिमं तु विद्मः ॥ १३.२०॥

मुधा क्षिपस्यद्रिसुते कटाक्षान्
कैलासकान्तारमहीरुहेषु ।
इतः किरेषत्तव नास्ति हानिः
सिद्ध्यत्यभीष्टं च समस्तमस्य ॥ १३.२१॥

शीताचलाधीशकुमारि शीतः
संरक्षणे संश्रितमानवानाम् ।
दुर्धर्षदुष्टासुरमर्दनेषु
नितान्तमुष्णश्च तवावलोकः ॥ १३.२२॥

रुषा समेतं विदधाति नाशं
करोति पोषं कृपया सनाथम् ।
अम्बौषधस्येव तवेक्षितस्य
योगस्य भेदेन गुणस्य भेदः ॥ १३.२३॥

नाशाय तुल्योद्धतकामलोभ-
क्रोधत्रिदोषस्य भवामयस्य ।
शिवप्रिये वीक्षितभेषजं ते
क्रीणानि भक्त्या वद भोः कियत्या ॥ १३.२४॥

अभिष्टुतां चारणसिद्धसङ्घै-
स्त्रिष्टुब्विशेषा अपि मर्त्यसूनोः
कृपाकटाक्षैर्विनतान्पुनानां
कपर्दिनः सम्मदयन्तु कान्ताम् ॥ १३.२५॥