उमासहस्रनामस्तोत्रम्/अष्टमशतकम्/द्वात्रिंशस्तबकः

विकिस्रोतः तः
Jump to navigation Jump to search

भक्तिर्योगश्च (आर्यागीतिवृत्तम्)

विदधातु सम्पदं मे
सकलजगन्नाथनयनहारिज़्योत्स्नः ।
शीतोऽन्धकारहारी
हासशशी कश्चिदङ्करहितो मातुः ॥ ३२.१॥

करुणारसार्द्रहृदया
हृदयान्तरनिर्यदच्छवीचिस्मेरा ।
प्रमथेश्वरप्रियतमा
पादप्रेष्यस्य भवतु कल्याणय ॥ ३२.२॥

कारणकार्यविभेदाद्
रूपद्वितयं तवाम्ब यदृषिप्रोक्तम् ।
तत्रैकं भर्तुमिदं
विहर्तुमन्यत्तु भुतभर्तुर्ललने ॥ ३२.३॥

श्रोतुं स्तोत्रविशेषं
भक्तविशेषं च बोद्धुमयमीदृगिति ।
दातुं च वाञ्छितार्थं
तव मातश्चन्द्रलोकरूपं भवति ॥ ३२.४॥

कीशकिशोरन्यायात्
कारणरूपं तवाम्ब योगी धत्ते ।
ओतुकिशोरन्यायाद्
भक्तं परिपासि कार्यरूपेण त्वम् ॥ ३२.५॥

दृढधारणा न चेत्त्व-
च्च्यवते योगी महेशनयनज्योत्स्ने ।
नायं ममेति भाव-
स्तव यदि सद्यः सवित्रि भक्तं त्यजसि ॥ ३२.६॥

शिथिलधृतिर्योगी स्याद्
बाह्यैर्विषयैर्नितान्तमाकृष्टो यः ।
स्वीयमतिर्लुप्यति ते
भक्तेऽहन्ताप्रसारकलुषे मातः ॥ ३२.७॥

साहङ्कृतिर्न भक्तिः
सबाह्यविषया धृतिर्न सर्वेश्वरि ते ।
अविजानन्तावेतद्
भक्तो योगी च नैव सिद्धौ स्याताम् ॥ ३२.८॥

व्यक्तित्वादपि यस्य
प्रियं त्वदीयं सवित्रि पादाम्भोजम् ।
सोऽद्भुतशक्तिर्भक्तो
भगवति किं किं करोति नास्मिन् जगति ॥ ३२.९॥

व्यक्तित्वलोभविवशे
सिद्धः कामोऽपि भवति समवच्छिन्नः ।
प्राप्तोऽपि सलिलराशिं
सलिलानि घटः कियन्ति सङ्गृह्णीयात् ॥ ३२.१०॥

जीवन्नेव नरो यः
सायुज्यं ते प्रयाति शम्भोः प्रमदे ।
सर्वे कामास्तस्य
प्रयान्ति वशमाशु वीतविविधभ्रान्तेः ॥ ३२.११॥

व्यक्तित्वं तुभ्यमिदं
मनीषया मे प्रदत्तमधिकारिण्या ।
बहुकालभोगबलतो
विवदति देहो मदम्ब किं करवाणि ॥ ३२.१२॥

स्थूलेन वर्ष्मणा सह
सूक्ष्मा कलहं मतिर्न कर्तुं शक्ता ।
सुतरां बलवति मातर्-
बलाद् गृहाण स्वयं त्वमस्मात्स्वीयम् ॥ ३२.१३॥

सर्वेषां हृदि यस्मात्-
त्वमसि प्राणात्मिकाम्ब हेतोस्तस्मात् ।
अखिलप्राण्याराधन-
माराधननिर्विशेषमगपुत्रि तव ॥ ३२.१४॥

जुह्वति केऽपि कृशानौ
तस्मात्प्राप्तिस्तवेति सम्पश्यन्तः ।
अपरे प्राणिषु जुह्वति
साक्षात्प्राणात्मिकाऽसि तेष्वन्तरिति ॥ ३२.१५॥

प्राणिष्वपि यः प्राणं
भूतादिमनादिमात्मनि स्थितमनघम् ।
सततमुपास्ते योगी
तस्मिन् होमेन तेऽम्ब तृप्तिस्सुलभा ॥ ३२.१६॥

आत्मनि योऽम्ब श्रेष्ठे
प्राणे प्राणान् जुहोति दहराभिमुखः ।
त्वद्रूपे हतपापे
तेन जितं सकलमीशचित्तारामे ॥ ३२.१७॥

उपसंहृतमखिलेभ्यो
विषयेभ्यो निर्निमेषमन्तःकृष्टम् ।
हृदि दृढपदेन चक्षु-
स्त्वद्रूपे हूयते मदम्ब प्राणे ॥ ३२.१८॥

अन्तस्स्वरं निगूढं
श्रेष्ठप्राणस्य देवि तव भागस्य ।
शृण्वदिव प्रणवाख्यं
श्रवणं तत्रैव भवति जगदम्ब हुतम् ॥ ३२.१९॥

सर्वेषां मन्त्राणां
स्तोत्राणां चेशचित्तनाथे प्रकृतौ ।
गूढं सदा स्वरन्त्यां
प्राणन्त्यां त्वयि जुहोति मौनी वाचम् ॥ ३२.२०॥

देहे स्खलति मनश्चेत्
विषयेषु हुतं दधाति विषयात्मत्वम् ।
आवृत्तं यदि देहाद्
सूक्ष्मायां त्वयि हुतं त्वदाकृति भवति ॥ ३२.२१॥

त्वग्रसनघ्राणाना-
मनुभूतीः प्राणशक्तिसात्कुर्वाणः ।
कं नार्पयते भोगं
भगवति ते सर्वलोकपार्थिववनिते ॥ ३२.२२॥

गच्छन् कुर्वन् विसृजन्
रममाणाश्चाम्ब सकललोकाधीशे ।
यः केवलां क्रियामपि
चिन्तयते तेन नित्ययज्ञः क्रियते ॥ ३२.२३॥

सर्वेषामग्नीनां
प्राणाग्निस्तव विभूतिरुक्तः श्रेष्ठः ।
तस्मिन्हुतं तु सुहुतं
द्रव्याणि धियः क्रियाश्च मन्त्रः प्रणवः ॥ ३२.२४॥

आर्यागीतीनामय-
मधरीकृतमधुसुधाधिमाधुर्यरसः ।
वर्गो गणपतिवदना-
न्निष्क्रान्तो भवतु शर्वसुदृशः प्रीत्यै ॥ ३२.२५॥