आपस्तम्बीय श्रौतप्रयोगः/साकमेधाः

विकिस्रोतः तः

॥ अथ साकमेधाः ॥
अनीकवतेष्टिः
पूर्वस्मिन् पर्वण्युपक्रम्य द्व्यहं साकमेधैर्यजते । प्रागुदयादुपक्रमः । साकमेधैर्यक्ष्ये । इति सङ्कल्प्य । समारोप्याग्निम् । पूर्ववदुदवसाय । प्राकृते विहारेऽनीकवतेष्टिः । इष्ट्या यक्ष्ये 1 । विद्युदसि । अस्मिन् साकमेधपर्वणि अध्वर्युं त्वां वृणीमहे । एवं ब्रह्माणं होतारमाग्नीध्रं च वृत्वा । विहरणादि पौर्णमासं तन्त्रम् । साकमेधीयꣳ हविः 2 । अष्टौ कपालानि । सह सूर्योदयेन निर्वापः । प्रचारो वा । तस्मिन्नेव तन्त्रे प्रातरग्निहोत्रम् । अग्नयेऽनीकवते जुष्टं निर्वपामि । अग्नेऽनीकवन् हव्यꣳ रक्षस्व । एवं प्रोक्षणमधिवापस्संवापश्च । मन्त्रेणाभिघारणम् । यज्ञोऽसीत्यादि । अग्नयेऽनीकवतेऽनुब्रूहि । अग्निमनीकवन्तं यज । अग्नयेऽनीकवत इदम् । अग्नेरनीकवतोऽहं देवयज्ययान्नादो भूयासम् । चतुर्धाकरणम् । अन्वाहार्यो दक्षिणा । अग्नेरनीकवतोऽहमुज्जितिमनूज्जेषम् । सिद्धमिष्टिस्सन्तिष्ठते
अथ सान्तपनेष्टिः
अग्नी परित्यज्य । मध्यन्दिने सान्तपनेष्टिः । इष्ट्या यक्ष्ये 3 । विद्युदसि। साकमेधीयꣳ हविः । पौर्णमासं तन्त्रम् । पात्रासादने स्थाली स्फ्यश्च द्वन्द्वम् । शम्या दृषदुपलवर्जम् । शेषं प्रकृतिवत् । मरुद्भ्यस्सान्तपनेभ्यो जुष्टं निर्वपामि । मरुतस्सान्तपना हव्यꣳ रक्षध्वम् । मरुद्भ्यस्सान्तपनेभ्यो वो जुष्टं प्रोक्षामि। उत्करे त्रिर्निनीय । धृष्ट्यादानादि, ध्रुवोऽसि इति स्थालीमासादयति । तण्डुलानुत्पूय अपश्चोत्पुनाति । स्थाल्यामासिञ्चति । घर्मोऽसि इति स्थाल्यां तण्डुलानावपति । अन्तरितम् । अविदहन्त । वेदिकरणादि । तूष्णीमभिघारणम् । आर्द्रो भुवनस्य इत्युद्वासनम् । अयं यज्ञ इत्यादि । मरुद्भ्यस्सान्तपनेभ्योऽनुब्रूहि । मरुतस्सान्तपनान् यज । मरुद्भ्यस्सान्तपनेभ्य इदम् । मरुताꣳ सान्तपनानामहं देवयज्यया वृत्रहा भूयासम् । मार्जनान्ते । इदं यजमानस्य इति निर्दिश्य वेदेन परिहरति । अन्वाहार्यो दक्षिणा । मरुताꣳ सान्तपनानामहमुज्जितिमनूज्जेषम् । फलीकरणहोमः । न पिष्टलेपहोमः । सिद्धमिष्टिस्सन्तिष्ठते ।
अथ गृहमेधीयाः
अथ सायमग्निहोत्रं हुत्वा । इष्ट्या यक्ष्ये 4। विद्युदसि । साकमेधीयꣳ हविः 2। पौर्णमासं तन्त्रम् । अबर्हिःपक्षमाश्रित्य प्रयोगः । शाखा हरणम् । नात्र वत्सापाकरणम् । देवो वस्सविता इत्यादि
१. साकमेधीयानीकवतेष्ट्या यक्ष्ये इति पाठान्तरम्। २. साकमेधꣳ हविः इति पाठान्तरम् । ३. साकमेधीय सान्तपन्या इष्ट्या यक्ष्ये इति पाठान्तरम् । ४. साकमेधीय गृहमेधीयेष्ट्या यक्ष्ये इति पाठान्तरम् ।
 
शाखोपगूहनान्तं न भवति । नेध्मा बर्हिराहरणम् । व्रतप्रवेशः । परिस्तरणादि त्रयाणामाहरणम् । वेदं कृत्वा नात्र वेदिकरणम् । अन्तर्वेदि शाखाया इत्यादि । न पर्णवल्कम् । उपवेषोऽसि । न तृतीयस्यै । वसूनां पवित्रमसि --- सहस्रधारम् । त्रिवृत्पलाशे --- पयो हव्यं करोतु मे । न कुम्भ्यालेपनम् । इमौ पर्णं च --- रक्षसि । शाखापवित्रं निधाय । ततो वत्सापाकरणम् । यावन्तो यजमानस्य वत्साः तेषां सर्वेषां पृथक्करणम् । अलङ्कृत्य परिस्तरणम् । नोभावग्नी । कर्मणे वां इत्यादि । महतीं स्थाली, प्रतिवेशार्थं अन्यां स्थाली च स्फ्येन द्वन्द्वम् । शम्यादृषदुपलवर्जम् । पुरतः प्राशित्रप्रणीतामदन्त्यन्वाहार्यस्थाली वर्जम् । योक्त्रं दर्व्युदायुवनेन द्वन्द्वम् । उपवेषं वेदाग्राणि । कुम्भीवर्जं प्रातर्दोहपात्राणि । यजमानः अमात्याश्च सस्त्रीकाः 1 पत्नीवर्जं तेषां सङ्ख्यया कांस्यपात्राणि अन्यानि वा प्रयुनक्ति । अपि वा पात्रद्वयमेव प्रयुनक्ति । पवित्रे स्थ इति पवित्रे कृत्वा । उपविष्टे ब्रह्मणि यजमान उपविशति । संविशन्तामित्यादि । मरुद्भ्यो गृहमेधिभ्यो जुष्टं निर्वपामि । तूष्णीं चतुर्थं बह्वन्वावपति । पात्रान्तरे तूष्णीं प्रतिवेशस्य निर्वापः । मरुतो गृहमेधिनो हव्यꣳ रक्षध्वम् । मरुद्भ्यो गृहमेधिभ्यो वो जुष्टं प्रोक्षामि । प्रतिवेशस्य अमन्त्रकं प्रोक्षणादि । कृष्णाजिनादानादि । हस्तेन तुषोपवापः । ध्रुवोऽसि इति स्थाल्यासादनम् । एता आचरन्ति इत्यादि सङ्क्षालननिनयनान्तम् । कुम्भीवर्जं सान्नाय्यपात्राणां प्रतितपनम् । धृष्ट्यादानादि । नात्र निरूढं मातरिश्वनः । भृगूणामङ्गिरसां तपसा तप्यस्व । प्रदक्षिणमङ्गारैः पर्यूह्य । वसूनां पवित्रमसि इत्यादि । कामधुक्षः प्र णो ब्रूहि मरुद्भ्यो गृहमेधिभ्यो हविरिन्द्रियम् । बहुदुग्धि मरुद्भ्यो गृहमेधिभ्यो देवेभ्यो हव्यमाप्यायतां पुनः । सङ्क्षालननिनयनान्तं कृत्वा देवोवस्सवितोत्पुनातु इति तण्डुलानुत्पूय । देवस्त्वा सवितोत्पुनातु पय उत्पुनाति । घर्मोऽसि इति तण्डुलानावपति । अन्तरितम् । अविदहन्त । दक्षिणाग्नौ पत्न्याः प्रतिवेशमोदनं पचति । तं नाभिघारयति ।
स्फ्यादानादि । सम्प्रेषणकाले प्रोक्षणीरासादय स्रुवं च स्रुचश्च संमृड्ढि पत्नीꣳ सन्नह्याज्येनोदे३हि । आज्यग्रहणकाले ध्रुवायामेव गृह्णाति । प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्रयते । ब्रह्मा- न प्रोक्ष यज्ञम् । ओं प्रोक्ष इत्यनुजानाति । वेदिरसि वेदिं प्रोक्षति । स्वधा पितृभ्यः इति प्रोक्षणीशेषं निनीय । अयं प्राणश्च इति वेद्यां पवित्रे अपिसृज्य । परिभोजनीयैरन्यैर्दर्भैश्च वेदिमन्तर्धाय । सूर्यस्त्वा पुरस्तात् पातु । युनज्मि त्वा । विशो यन्त्रे स्थः । तूष्णीं जुहूपभृतावासाद्य । मन्त्रेण ध्रुवां स्रुवं चाज्यस्थालीम् । एतावसदतां सुकृतस्य लोके तौ विष्णो पाहि --- यज्ञनियम् ॥ विष्णवसि वैष्णवं धामासि प्राजापत्यम् । सूर्यज्योतिर्विभाहि । तूष्णीमभिघारणम् । आर्द्रो भुवनस्य इत्युद्वासनम् । अग्रभागं
१. अमात्याः अस्त्रीकाः सस्त्रीका वा इति पाठान्तरम् ।
 
चरोरन्यस्मिन् पात्रे निधाय । पूर्वनिहितेषु पात्रेषु दर्व्युदायुवनेन उद्धरति । इदमस्मा इदमस्मा इति स्मृत्वा तूष्णीं दर्भाभ्यामुत्पुनाति । द्वयोरेव पात्रयोरुद्धरणं वाजसनेयिनस्समामनन्ति । देवस्त्वा सवितेत्यलङ्कृत्य पुनस्तूष्णीमभिघारितान् प्रियेणेत्यासादयति । न प्रतिवेशादुद्धरणम् । प्रतिवेषस्य तूष्णीमुद्वासनं तूष्णीमलङ्करणम् । नाभिघारणम् । न प्रियेणेति । अयं यज्ञ इत्यादि । वेदनिधानादि ।
होतरेहि इत्युक्त्वा । वेदेनाग्निं त्रिरुपवाज्य । उच्छुष्मो अग्ने, समिद्धो अग्निराहुतः । अग्नीदग्निं त्रिस्संमृड्ढि स्फ्येनैव संमार्ष्टि । क इदं --- मानुषः इत्युक्त्वा । आज्यभागौ यजति । जुह्वामुपस्तीर्य । नेदमादि ध्रुवाप्यायनं पञ्चावत्तिनाम् । सर्वतस्समवदाय । प्रतिपात्रं मन्त्रावृत्तिः अवत्तमभिघार्य । नेतः प्रभृति ध्रुवाप्यायनं चतुरवत्तिनाम् । सर्वेषां प्रत्यभिघारणम् । मरुद्भ्यो गृहमेधिभ्योऽनुब्रूहि । मरुतो गृहमेधिनो यज । मरुद्भ्यो गृहमेधिभ्य इदम् । मरुतां गृहमेधिनामहं देवयज्यया वृत्रहा भूयासम् । यदा द्वयोः पात्रयोरुद्धरणं तदा दक्षिणादेव मरुतो गृहमेधिनो यजति उत्तरस्मात् स्विष्टकृतम् । न दक्षिणादवदाय हविः प्रत्यभिघारः । नारिष्ठनिवृत्तिः । स्विष्टकृदादि । वैश्वानरे हविः ।
न प्राशित्रम् । न यजमानभागम् । सर्वत इडावदानम् । प्रस्तरदेशे मार्जनान्ते । यजमानस्यामात्याः यजमानश्च स्वान् स्वानोदनानश्नन्ति । ऋत्विजो अन्ये ब्राह्मणास्स्थालिगतान् अश्नन्ति । पत्नी प्रतिवेशमश्नाति । अमात्यानां तृप्त्यर्थं अन्यान्यन्नानि पचन्ति । अमात्यास्सुहितास्सुतृप्ताः प्रसन्नाः प्रीता अनवर्तिमुखिनः पुष्पैः केशालङ्कृता भवेयुः । अक्ष्णोरञ्जनम् । पादयोरभ्यञ्जनमेतां रात्रिं वसन्ति । वत्सान्मातृभिस्सह सं बध्नाति । स्थाली दर्व्युदायुवनयोर्न प्रक्षालनम् । शरं दर्व्युदायुवनं च स्थाल्यां अवदधाति । अर्धरात्रादूर्ध्वमभिवान्यायाः अग्निहोत्र्यै च वत्सौ बध्नाति । उषसि जातायां पूर्णादर्व्येण चरन्ति । पुराग्निहोत्रात् पूर्वनिहितशरेण उभयोर्निष्कासाभ्यां च दर्वीं पूरयित्वा । यजमानस्य ऋषभं स्वनाम्ना आहूय तस्य रवते जुहुयात् । यद्यृषभो न रूयात् ब्रह्मा ब्रूयात् जुहुधीति । गार्हपत्ये जुहोति । पूर्णा दर्वि परापत सुपूर्णा पुनरा पत । वस्नेव विक्रीणावहा इषमूर्जꣳ शतक्रतो । देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारमिन्नि मे हरा निहारं नि हरामि ते स्वाहा । इन्द्रायेदम् । निष्कासयोर्नाशे आज्येनैव जुहुयात् । यस्य ऋषभस्य रवते जुहोति तां दक्षिणां ददाति । यदा न रूयात् तदा न ददाति 1 ।
१. यदि यजमानस्य ऋषभो न विद्यते तदा ऋषभाह्वान लोपः । होमो अस्त्येव नित्यत्वात् अत्रापि ब्रह्मा ब्रूयात् जुहुधीति ॥
 
॥ क्रीडिनीष्टिः ॥
तदानीमेव क्रीडिनीष्टिः । सगुणो मारुतः पौर्णमासविकारः । वेदं कृत्वा, अग्नीन् परिस्तीर्य इति गृहमेधीये उक्तत्वात् । इष्ट्या यक्ष्ये 1 । विद्युदसि । विहरणादि । साकमेधीयꣳ हविः 2 । सप्तकपालानि । साकꣳ सूर्येणोद्यता निर्वपति । मरुद्भ्यः क्रीडिभ्यो जुष्टं निर्वपामि । मरुतः क्रीडिनो हव्यꣳ रक्षध्वम् । 3 मरुद्भ्यः क्रीडिभ्यो वो जुष्टं प्रोक्षामि । एवमधिवापस्संवापश्च । तूष्णीमभिघारणम् । प्रियेणेत्यासादनम् । अयं यज्ञ इत्यादि । मरुद्भ्यः क्रीडिभ्योऽनुब्रूहि । मरुतः क्रीडिनो यज । मरुद्भ्यः क्रीडिभ्य इदम् । मरुतां क्रीडिनामहं देवयज्यया वृत्रहा भूयासम् । अन्वाहार्यो दक्षिणा । सिद्धमिष्टिस्सन्तिष्ठते ॥
॥ महाहविः ॥
तस्मिन्नेव तन्त्रेऽग्निहोत्रम् । अग्नी परित्यज्य । ततो महाहविषस्तन्त्रं प्रक्रमयति । महाहविषा यक्ष्ये । विद्युदसि । तस्य वरुणप्रघासवद्वेदिं करोति । न दक्षिणवेदिः । ऋतमसि इति पूर्वपरिग्रहान्तं कृत्वा । वेद्यां वरुणप्रघासवदुत्तरवेदिमुपवपति । वित्तायनी मेऽसि इत्यादि दक्षिणतो निस्सारणान्तं कृत्वा । पशुबन्धवदग्निं प्रणयति । उद्यम्याग्निं ततो दक्षिणाग्निप्रणयनम् । उपयमनीभिरुपयम्य हरति । उपर्यग्नौ धार्यमाणे व्याघारणम । अग्नेर्भस्मासि इति ऊर्णास्तुकामेव निदधाति । अतिमुक्तिहोमान्ते देवा गातुविद इत्याद्यग्नीनन्वादधाति । साकमेधीयमाहाहविषꣳ हविः 4। पौर्णमासं तन्त्रम् । बर्हिराहृत्य व्रतप्रवेशः । द्वात्रिंशत्कपालानि । चतस्रस्स्थाल्यः । शूर्पद्वयं, सान्नाय्य वाजिनपात्रवर्जम् ।
वानस्पत्यासि इत्यग्निहोत्रहवणीम् । वेषाय वां इति शूर्पद्वयमादत्ते । निर्वापकाले सर्वे यवा भवन्ति । पौष्णान्तानि निरुप्य । अन्यस्मिन् शूर्पे पवित्रे निधाय । ऐन्द्राग्नं निरुप्य । पूर्वस्मिन् शूर्पे पवित्रे निधाय । इन्द्राय जुष्टं निर्वपामि । विश्वकर्मणे जुष्टं निर्वपामि । इदं देवानामित्यादि । अग्ने हव्यꣳ रक्षस्व सोम हव्यꣳ रक्षस्व सवितर्हव्यꣳ रक्षस्व सरस्वति हव्यꣳ रक्षस्व पूषन् हव्यꣳ रक्षस्वेन्द्राग्नी हव्यꣳ रक्षेथामिन्द्र हव्यꣳ रक्षस्व विश्वकर्मन् हव्यꣳ रक्षस्व । एवं प्रोक्षणादयः । कृष्णाजिनादानादि ऐन्द्राग्नव्यतिरिक्तानवहत्य तण्डुलप्रस्कन्दनान्तं कृत्वा । उलूखलं प्रक्षाल्य अग्नेस्तनूरसीत्यादि ऐन्द्राग्नस्य अवहननं कृत्वा । तुषप्रस्कन्दनान्तं कृत्वा तुषानन्यत्र निधाय । तण्डुलानेकीकृत्य । फलीकरणादि करोति । यथाभागं व्यावर्तध्वम् । इदमग्नेस्सवितुः पूष्ण
१. साकमेधीय क्रीडिन्या इष्ट्या यक्षे इति पाठान्तरम् । २. साकमेधꣳ हविः इति पाटान्तरम् । ३. अस्मिन्नेव तन्त्रेऽग्निहोत्रम् । हुतेऽग्निहोत्रे यजमानः कस्त्वा युनक्ति । पक्षे हविःप्रचारानन्तरम् । ४. साकमेधं महाहविषꣳ हविः इति पाठान्तरम् ।
 
इन्द्राग्नियोर्विश्वकर्मणः पुरोडाशार्थान् । इदꣳ सोमस्य सरस्वत्या इन्द्रस्य चर्वर्थान् । अꣳशवस्स्थ इत्यादि । ऐन्द्राग्नस्य एकादशकपालानि । इन्द्रस्य चरुस्थालीम् । विश्वकर्मण एककपालम् । मखस्य शिरोऽसि इत्यन्तं कृत्वा । यथाभागं व्यावर्तध्वम् आग्नेयम् । यथाभागं व्यावर्तध्वम् सौम्यतण्डुलान् । यथाभागं व्यावर्तध्वम् सावित्रम् । यथाभागं व्यावर्तेथाम् सारस्वतैन्द्रम् । यथाभागं व्यावर्तध्वम् पौष्णम् । यथाभागं व्यावर्तेथाम् इतरौ । इदमिन्द्राग्नियोः, इदं विश्वकर्मणः । इदं सरस्वत्याः, इदमिन्द्रस्य । इदमहꣳ सेनाया इत्यादि । मन्त्रेण अग्निं, सावित्रं, सारस्वतं, पौष्णं, विश्वकर्माणमभिघारयति । तूष्णीं सौम्यमैन्द्राग्नमैन्द्रम् । प्रियेणेत्यासादनम् ।
अग्निमन्थनादि वरुणप्रघासवत् । स्रुच्याघारे विशेषः अग्ने वेर्होत्रं वेर्दूत्यमूर्ध्वो अध्वरे स्यात् । अवतां त्वा द्यावापृथिवी अव त्वं द्यावापृथिवी स्विष्टकृदिन्द्राय देवेभ्यो भव जुषाणो अस्य हविषो घृतस्य वीहि स्वाहा इति स्रुच्यमाघारयति । वागस्याग्नेयी सपत्नक्षयणी वाचा मेन्द्रियेणाविश इति यजमानोऽनुमन्त्रयते । अग्नय इदम् । नव प्रयाजाः । ऐन्द्राग्नान्तं प्रचर्य, इन्द्रायानुब्रूहि । इन्द्रं यज । इन्द्रायेदम् । इन्द्रस्याहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । पूर्ववदेककपालेन उपांशुप्रचरति । विश्वकर्मणे, अनुब्रूहि । विश्वकर्माणम्, यज । विश्वकर्मण इदम् । विश्वकर्मणोऽहं देवयज्ययान्नादो भूयासम् । प्रत्याक्रम्य चतुर्भिर्मासनामभिरेककपालमभिजुहोति । सहश्च स्वाहा । सहायेदम् । सहस्यश्च स्वाहा । सहस्यायेदम् । तपश्च स्वाहा । तपायेदम् । तपस्यश्च स्वाहा । तपस्यायेदम् । धेनुर्दक्षिणा 1 । ऋषभो वा प्रवयाः । इन्द्रस्याहमुज्जितिम् । विश्वकर्मणोऽहमुज्जितिम् । यज्ञो म आगच्छतु । इदुवत्सरीणाᳪ、 स्वस्तिमाशासे । प्रणीताविमोककाले ऐन्द्राग्नतुषान् तूष्णीमप्सु प्रतिपादयति । ततो धारास्रावणादि । सिद्धमिष्टिस्सन्तिष्ठते ।।
॥ इति महाहविः ॥
१. ब्रह्मणी ब्रह्मण्यसि --- भव । इति ब्रह्मणोऽभिमर्शनमन्त्रः ।
 
॥ महापितृयज्ञः ॥
महापितृयज्ञविहारः
तदानीमेव पितृयज्ञस्य तन्त्रं प्रक्रमयति । दक्षिणाग्नेर्मध्यतः प्राग्रश्मिं निधाय दक्षिणाग्नेः पुरतः चतुरङ्गुलदेशे शङ्कुः । तस्य पुरस्तात् पादोनषोडाशाङ्गुलाधिक पञ्चारत्नौ शङ्कुः । अष्टारत्निपरिमितरज्जुमध्ये लक्षणं कृत्वा शङ्क्वोः पाशौ प्रतिमुच्य दक्षिणेन दक्षिणापायम्य शङ्कुं निहत्य एवमुत्तरतश्च । एवं शौल्बेन मानेन वेदिं कृत्वा । सर्वतः स्पन्द्यरेखया पर्यातनोति । वेदेः पूर्वार्धे उदग्द्विपद उत्करः 1 । वेदेर्मध्यतश्चतुर्दिक्षु सप्तदशाङ्गुलदेशे शङ्कुं निखाय ते चत्वारः कोणाः कार्याः । तत् पित्र्याहवनीयायतनम् ।
महापितृयज्ञप्रयोगः
पत्न्या सह प्राणानायम्य । पितृयज्ञेन यक्ष्ये इति सङ्कल्प्य । विद्युदसि । नात्र पत्नी तिष्ठति यावद्यज्ञसमाप्तिः । अग्नीन् विहृत्य । वेदं कृत्वा वेदिः । सर्वं प्राग्दक्षिणाभिमुखं कर्म 2 । स्फ्यादानादि । वेदेन दक्षिणपूर्वापवर्गया संमार्गः । पूर्वार्धे वेदेर्दर्भं निधाय आग्नेयाय स्तम्बयजुर्हरणम् । वेदेः पूर्वार्धे उदक् द्विपद उत्करः । बधान देवसवितरिति उदङ्मुखो निवपति । ऋतमसि इति पूर्वपरिग्रहः । अपारुरुम देवयजनं इत्युद्धननम् । आग्नीध्रः उत्करे त्रिर्निवपति । इमां नराः, देवस्य सवितुः, भूमिर्भूत्वा च न सन्ति ।
अनूहपक्षमाश्रित्यप्रयोगः । प्रागुत्तरात्परिग्राहात् कृत्वा । दक्षिणाग्नेरग्निमाहृत्य मध्ये वेद्या उपसमादधाति । एतस्मिन् पितृयज्ञे आहवनीयकर्माणि क्रियन्ते । गार्हपत्यदक्षिणाग्निवेदिगताग्नीनामन्वाधानम् । प्रकृत्याहवनीयस्य तूष्णीम । गार्हपत्याहवनीययोरन्तरागमने न दोषः । पितृयज्ञार्थाहवनीयान्तरागमने भवत्येव दोषः । अद्य यज्ञाय, इमामूर्जं पञ्चदशीम् । साकमेधीयपैतृयज्ञꣳ हविः । अग्नीनन्वाधायेध्माबर्हिराहरति समूलं बर्हिर्दाति । उत्तरेणगार्हपत्यमित्यादि । प्रस्तरवर्जम् । सुसम्भृता त्वा सम्भरामि निधनान्येव । नात्रालुभिता योनिः । बर्हिराहृत्य व्रतप्रवेशः । परिस्तरणाहरणादि । वर्षीयानर्थादिध्मो द्राघीयांश्च 3। पञ्चदश सामिधेनी समिधः । द्वौ परिधी शुल्बं निधाय । यत्कृष्णो रूपं कृत्वा --- ततस्त्वां विꣳशतिधा सम्भरामि सुसम्भृता । द्वौ परिधी तिस्रस्समिधो यज्ञायुरनुसञ्चरान् --- सम्भरामि सुसम्भृता । इध्मप्रव्रश्चननिधानम् । न वेदकरणम् । उपवेषं
१. पूर्वार्धे इति समीपसप्तमीयम् । वेदेः पूर्वार्धस्य समीपे उत्तरतः द्विपदे उत्करः इत्यर्थः । २. आग्नेयाभिमुखमित्यर्थः । ३. अर्थात् = प्राकृतात् इध्मलक्षणात्, इध्मः = पैतृको इध्मः ।
 
कृत्वा । अलङ्कृत्य । परिस्तृणीत, देवा देवेषु, कर्मणे वां इत्यादि । पात्र प्रयोगकाले षट्कपालानि भर्जनार्थं कपालं स्फ्यश्च द्वन्द्वम् । उदकुम्भमग्निहोत्रहवणीं च शूर्पेण द्वन्द्वम् । कृष्णाजिनादि षट्कम् । पुरतः पात्रीद्वयं शरावं च वेदेन द्वन्द्वम् । योक्त्रेडापात्रवर्जम् । शिष्टानि प्रकृतिवत् । पवित्रकरणादि ।
निर्वपणकाले सर्वतो वेदिं परिश्रित्य । उत्तरेण द्वारं कृत्वा । अग्निहोत्रहवण्यादानादि । प्रत्युष्टमिति गार्हपत्ये प्रतितप्य । अपरेण गार्हपत्यमवस्थितायां पात्र्यां यवानोप्य, पात्र्या दक्षिणतः प्राचीनावीती हवींषि निर्वपति । उत्तरतो वा यज्ञोपवीती । शूर्पे पवित्रे निधाय । सोमाय पितृमते जुष्टं निर्वपामि । पितृभ्यो बर्हिषद्भ्यो जुष्टं निर्वपामि । पितृभ्योऽग्निष्वात्तेभ्यो जुष्टं निर्वपामि । इदं देवानामित्यादि । सोम पितृमन् हव्यꣳ रक्षस्व पितरो बर्हिषदो हव्यꣳ रक्षध्वं पितरोऽग्निष्वात्ता हव्यꣳ रक्षध्वम् अपरेण गार्हपत्यमुपसादयति । उदकुम्भः प्रोक्षणीभाजनं भवति । यज्ञोपवीती भूत्वा उदकुम्भे पवित्रे निधाय उत्पूय ब्रह्माणमामन्त्र्य । देवस्य त्वा --- सोमाय पितृमते वो जुष्टं प्रोक्षामि पितृभ्यो बर्हिषद्भ्यो वो जुष्टं प्रोक्षामि पितृभ्योऽग्निष्वात्तेभ्यो वो जुष्टं प्रोक्षामि । शुन्धध्वं दैव्याय । कृष्णाजिनादानादि । अदित्यास्त्वगसीत्युत्तरेण गार्हपत्यं प्रतीचीनग्रीवमुत्तरलोमोपस्तृणाति 1। न पत्नी अवहननादि करोति । हविष्कृदेहीत्यनेनाध्वर्युरेवावहननं करोति । प्रोक्षणीशेषेण यवान् संयुत्य । त्रिष्फली क्रियमाणानां इत्युत्करे त्रिर्निनीय । यवान्त्रेधा कृत्वा द्विभागस्य यथाभागं व्यावर्तध्वम् । इदं सोमस्य पितृमतः पेषणार्थान् । इदं पितृणां बर्हिषदाम् पितृणामग्निष्वात्तानाम् धानार्थान् । कृष्णाजिनादानादि सोमाय पितृमते जुष्टमधिवपामि धान्यमसि । धृष्ट्यादानादि । आद्यैर्मंत्रैर्दक्षिणार्धे गार्हपत्यस्य षट्कपालान्युपधाय । प्रक्षाल्योपवेषम् । दक्षिणाग्नौ प्रथमेन कपालमन्त्रेण धानार्थं भर्जनकपालमधिश्रयति । भृगूणामङ्गिरसां तपसा तप्यस्व इत्येककपाले । मदन्तीरधिश्रयति । सोमाय पितृमते जुष्टꣳ संवपामि । पिष्टान्युत्पूय तण्डुलानुत्पुनाति । अधिश्रयणकाले पुरोडाशमधिश्रित्य । भर्जनकपाले घर्मास्थ विश्वायुषः तण्डुलानोप्य बहुरूपा धानाः करोति । विदह्यमानाः परिशेरत इति विज्ञायते । प्रथनादि पुरोडाशस्य अन्तरितꣳ सर्वेषां स्वेन स्वेनाग्निना । आप्यलेपं निनीय ।।
ब्रह्मन्नुत्तरं परिग्राहमित्यादि । वसवस्त्वा परिगृह्णन्तु इत्यादि उत्तरपरिग्राहः । सम्प्रैषकाले पत्नीवर्जं सम्प्रेष्यति । प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्याषकज्येनोदे३हि । उदक पूरणादि । न सन्नहनम । न अग्ने गृहपत इत्यादि । न युक्ता मे 2 । पूषा ते बिलं इत्यादि । ऊर्जे त्वा इत्यपादाय । तेजोऽसि तेजोऽनुप्रेहि हरति । अग्निस्ते तेजो मा वि नैत् वेदिगताग्नावधिश्रित्य ।
१. उत्तरेण गार्हपत्यमुत्करदेशे वा इति प्रकृतावेव विकल्पदर्शनात् सौकर्याय उत्तरेण गार्हपत्यमत्र नियम्यते । २. न पत्न्यन्वास्त इति श्रुतेः ।
 
अग्नेर्जिह्वासि । आज्यमसि । प्रोक्षणाद्युत्पवनान्तं कृत्वा । स्रुवं स्रुचः वेदमाज्यस्थालीं चादाय गत्वा । उत्तरेण गार्हपत्यं चतुर्गृहीतान्याज्यानि गृह्णाति पञ्चावत्तिनामपि । उपभृति पञ्चानां त्वा दिशाम, पञ्चानां त्वा पञ्चजनानाम्, चरोस्त्वा, ब्रह्मणस्त्वा । ध्रुवायां प्रकृतिवत् सुप्रजास्त्वाय त्वा । आपो देवीः इत्यादि । पूषा ते ग्रन्थिं विष्यतु ग्रन्थिं विस्रस्य । दर्भैर्वेदिमन्तर्धाय आग्नेयीमारभ्य त्रिः प्रसव्यं (अप्रदक्षिणं) वेदिं ऊर्जाम्रदसं त्वा इति मन्त्रावृत्या स्तृणन् पर्येति । चतुश्शिखण्डा इति यजमानः । सर्वां वेदिमास्तीर्य हस्ते प्रस्तरप्रमाणमवशेषयति । औद्धवान् 1 धारयमाणः त्रिरस्तृणन् प्रतिपर्येति । अयं प्राणश्च इति तत्र पवित्रे अपिसृज्य । प्राणापानाभ्यां त्वा इति यजमानाय प्रदाय पुनरादाय । परिधी परिदधाति । गन्धर्वोऽसि इति मध्यमम् । मित्रावरुणौ त्वा इत्युत्तरतः । यजमानः - ध्रुवोऽसि, अभिभूरसि । अस्मिन् यज्ञ उपभूय इन्नु मे अविक्षोभाय परिधी दधामि --- नुदातै । सूर्यस्त्वा इत्यादि । न विधृती। तूष्णीं प्रस्तरस्तरणम् । अयं प्रस्तर उभयस्य इत्यादि । दक्षिणाप्रागग्रं प्रस्तरं स्तृणाति । तत्र स्रुचां सादनम् । आज्यमभिमन्त्र्य । अङ्गारापोहनादि । सूर्यज्योतिषो विभात महत इन्द्रियाय धाना अभिमन्त्र्य । सर्वेषां तूष्णीमभिघारणम् । स्योनं ते पात्र्यामुपस्तीर्य । षट्कपालमुद्वास्य । तूष्णीं प्रतिष्ठापयति । स्योनं वस्सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि वः द्वितीयपात्र्यामुपस्तीर्य । स्योनं ते शरावे उपस्तरणम् । भुवनस्य गोपाश्शृता उत्स्नान्ति जनित्र्यो मतीनाम् 2 धाना उद्वास्य । यथा भागं व्यावर्तेथाम् विभज्य । इदं पितृणां बर्हिषदाम् । इदं पितृणामग्निष्वात्तानाम् । धानाः आज्येन संयुत्य पात्र्यां तूष्णीं प्रतिष्ठापयति । अर्धं पिष्टानामावृता सक्तून् करोति । कृष्णाजिनादानादि । पितृभ्योऽग्निष्वात्तेभ्यो जुष्टमधिवपामि धान्यमसि धिनुहि देवान् । अणूनि कुरुतादित्यन्तं कृत्वा । अभिवान्यायै दुग्धस्यार्धपूर्णशरावे पात्रीस्थानीये सक्तूनोप्य । इराभूतिः । एकया इक्षुशलाकया इक्षुकाण्डेन वा दक्षिणामुखः रज्वा बध्वा त्रिः प्रसव्यमनारभ्योपमन्थति । शलाकास्थं मन्थं 3 करोति । क्रमेणालङ्करणम् । देवो वस्सविता इति धानानाम् । यजमानः – तृप्तयस्स्थ गायत्रं छन्दस्तर्पयत मा तेजसा ब्रह्मवर्चसेन तृप्तयस्स्थ त्रैष्टुभं छन्दस्तर्पयत मौजसा वीर्येण तृप्तयस्स्थ जागतं छन्दस्तर्पयत मा प्रजया पशुभिः । मन्थस्य प्रकृतिवत् । एकैकशो हवींष्यासादयति । प्रियेणेति त्रिः । अयं यज्ञः, ममाग्ने, चतुर्होतेत्यासन्नाभिमर्शनम् । ततो वेदेर्दक्षिणतो कशिपूपबर्हणमाञ्जनमभ्यञ्जनमुदकुम्भमित्येकैकशस्तूष्णीमासाद्य वेदं निधाय सामिधेनीभ्यः प्रतिपद्यते ।
१. स्तरणार्थमुद्धूयमाने बर्हिषि ये हस्ते अवशिष्टाः ते औद्धवाः । . जनितारो मतीनाम् इति पाठान्तरम् ३. शलाका तिष्ठति यस्मिन् मन्थे = [सक्तुनि पयोमिश्रे] स शलाकस्थः । शलाकां शरावे क्षिपेत् इत्यर्थः
 
अग्नये देवेभ्यः पितृभ्यस्समिध्यमानायानु ब्रूहि इति सम्प्रेष्यति अनूहपक्षेऽपि । एकामनूयाजसमिधमवशिष्य समशः इध्मं त्रेधा विभज्य प्रणवे प्रणवे त्रिरादधाति । दशहोतेत्याद्यविकृतं याजमानम् । होतृप्रवरानुमन्त्रणवर्जम् । वेदेनाग्निं त्रिरुपवाज्येत्यादि स्रौवमाघारं कृत्वाप्याय्य ।अग्नीत्परिधी चाग्निं च इति विशेषः । मध्यमं संमृज्य उत्तमं संमार्ष्टि । अग्ने वाजजित् । भुवनमसि इत्यादि स्रुक्सादनान्तम् । क इदमित्यादि श्रौषडित्यन्ते सीद होतः इत्येतावान् प्रवरः । देवाः पितर इति यजमानः । स्रुगादापनादि । बर्हिर्वर्जं त्रीन् प्रयाजानिष्ट्वा अर्धमौपभृतं जुह्वामानीय उत्तमां प्रयाजां यजति । प्रत्याक्रम्य शेषेण ध्रौवमभिघार्येत्यादि । आज्यभागाविष्ट्वा प्रस्तरे स्रुचौ निदधाति ।
विस्रस्य यज्ञोपवीतानि प्राचीनावीतानि कुर्वते । ग्रन्थिं विस्रस्य सव्यस्कन्धगतानि कृत्वा, पुनश्च ग्रन्थिकल्पनम् । विपरिक्रामन्त्यृत्विजो विपरिहरन्ति स्रुचो हवींषि परिश्रयणानीति । अध्वर्युराग्नीध्रश्च दक्षिणतो गच्छतः । ब्रह्मा यजमानश्च उत्तरतो गच्छतः । दक्षिणेन जुहूमुपभृतं सादयति । दक्षिणेनोपभृतं ध्रुवां च सादयति । जुहू षट्कपालौ 1 न चलितौ भवतः । दक्षिणेन पुरोडाशं धानाः । ता दक्षिणेन मन्थम् । परिश्रयणानामपि व्यत्यासः पौरस्त्यं पश्चिमभागे पाश्चात्यं पूर्वभागे । एवं दक्षिणत उत्तरतश्च व्यत्यासः । षडवत्तः पञ्चवत्तिनां पञ्चावत्तश्चतुरवत्तिनाम् । सम्भिन्दन् पुरोडाशस्यावद्यति । द्विः प्रथमस्यावद्येत्पञ्चावत्तिनः । प्राचीनावीती भूत्वा स्रुचावादाय जुह्वामुपस्तीर्य । यजमानः पञ्चहोता । सोमाय पितृमते इत्युपांशूक्त्वा अनुस्वा३धा इत्युच्चैः सर्वत्र । पुरोडाशं मन्त्रेण सकृदवदाय । मा भैष्ट मा सं विग्ध्वं मा वो हिꣳसिषं मा वस्तेजोपक्रमीत् । भरतमुद्धरते मनुषिञ्चतावदानानि वः प्रत्यवदास्यामि नमो वोऽस्तु मा मा हिꣳसिष्ट इत्यूहेन सकृद्धानानाम् । मन्त्रेण सकृन्मन्थस्य । अवदानान्यभिघार्य । न हविः प्रत्यभिघारः । उदञ्चमतिक्रम्य दक्षिणामुखस्तिष्ठन् आ३स्वा३धा इत्यध्वर्युः । अस्तुस्वा३धा इत्याग्नीध्रः । सोमम् पितृमन्तं [उपांशु] स्वधा [उच्चैः] । देवतापदस्य प्रधानस्यैवोपांशु सर्वत्र । सोमाय पितृमत इदम् । सोमस्य पितृमतोऽहं देवयज्यया वृत्रहा भूयासम् । यां देवतां यजेत्तद्धविषः प्रथममवदानमवद्येत् । स च अवदानकल्पः । एतेनैव कल्पेन पितॄन् बर्हिषदो यजति । जुह्वामुपस्तीर्य पितृभ्यो बर्हिषद्भ्यः [उपांशु] । अनुस्वा३धा [उच्चैः] । मा भैष्ट मा संविग्ध्वं इति धानाभ्यः सकृदवदाय । पुरोडाशं मन्त्रेण सकृदवदाय । मन्थं मन्त्रेण सकृदवदाय । सर्वत्र हविषः मध्यादेवावदानम् । अभिघार्य । न हविः प्रत्यभिघारः । उदङ्ङतिक्रम्य ! आ३स्वा३धा । अस्तुस्वा३धा । पितॄन् बर्हिषदः [उपांशु] स्वधा [उच्चैः] । पितृभ्यो बर्हिषद्भ्य इदम् । पितॄणां बर्हिषदामहं देवयज्यया वृत्रहा भूयासम् । तेनैव कल्पेनाग्निष्वात्तान् यजति । जुह्वामुपस्तीर्य,
१. षट्कपालः पुरोडाशः इत्यर्थः ।
 
पितृभ्योऽग्निष्वात्तेभ्यः [उपांशु] अनुस्वाधा [उच्चैः] मन्थं मन्त्रेण सकृदवदाय । पुरोडाशं मन्त्रेण सकृदवदाय । धानाभ्यो मा भैष्ट इत्यूहेन सकृदवदाय अभिघार्य, यदवदानानि ते इति पुरोडाशं प्रत्यभिघार्य यदवदानानि वोऽवद्यन् --- तद्व आप्यायतां पुनः इति धानाः प्रत्यभिघार्य यदवदानानि ते इति मन्थं प्रत्यभिघार्य उदङङ्तिक्रम्य दक्षिणामुखस्तिष्ठन् आस्वा३धा । अस्तु स्वा३धा । पितॄनग्निष्वात्तान् [उपांशु] स्वधा [उच्चैः]। पितृभ्योऽग्निष्वात्तेभ्य इदम् । पितॄणामग्निष्वात्तानामहं देवयज्यया वृत्रहा भूयासम् । नारिष्ठान् हुत्वा । स्विष्टकृति ध्रौवसमाप्तिः । जुह्वामुपस्तीर्य । अग्नये कव्यवाहनाय [उपांशु]। अनुस्वा३धा [उच्चैः]। सर्वेषां हविषां उत्तरार्धात् सकृत्सकृदवदाय । द्विरभिघार्य । न हविः प्रत्यभिघारयति । उदङ्ङतिक्रम्य दक्षिणामुखस्तिष्ठन् । आ३स्वा३धा । अस्तुस्वा३धा । अग्निं कव्यवाहनं [उपांशु] स्वधा [उच्चैः] । यजमानः - अग्नये कव्यवाहनायेदम् । अग्नेः कव्यवाहनस्याहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् । वैश्वानरे हविः ।
प्राशित्रमवद्यति । तं ब्रह्मा मन्त्रेणावघ्राणं भक्षयति 1 । बहिस्त्यक्त्वा आचामेत् । न या अप्स्वन्तः, न घसीना मे । वाङ्म आसन्नित्यादि । मां जिन्वेत्यन्तं करोति । इडा पात्रवर्जम् । अनुपस्तीर्य मन्त्रेण मन्थे इडामवद्यति उत्तरयोर्हविषोः । मनुना दृष्टाम् । सरूप वर्षवर्ण इति यजमानः । यदा केवलो मन्थः इडा तदा अवदानमन्त्रस्य यजमानमन्त्रस्य च लोपः । उभयपक्षेऽपि यजमानभागावदानम् । अवघ्रेणावान्तरेडां होता प्राश्नाति । सर्वे षट्कपालधानानां इडां मन्त्रेणावजिघ्रन्ति । ततः शरावस्थं मन्थं होतुर्हस्ते आदधाति । तं होतावजिघ्रति । तत्रैव इडे भागं जुषस्व नः इति मन्त्रेण ब्रह्मादयो क्रमेणावजिघ्रन्ति । समशो वा प्रतिविभज्य मन्त्रेणैवावदानम् । भक्षयित्वा बर्हिषि लेपं निमृजन्ते 2 ।
मार्जनान्ते यजमानः पूर्वनिहितोदकुम्भमादाय । शुन्धन्तां पितरः इति सकृन्मन्त्रमुक्त्वा त्रिः प्रसव्यं वेदिं परिषिञ्चन् पर्येति । निधाय कुम्भं पुनरादाय । अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः । स प्रत्युदैद्धरुणो मध्वो अग्रᳪँ、 स्वायां यत्तनुवां तनूमैरयत इति सकृन्मन्त्रमुक्त्वा त्रिरपरिषिंचन् प्रतिपर्येति । मन्थवर्जं हविश्शेषान् संप्लोम्नाय । पिण्डान्कृत्वा तिसृषु स्रक्तीषु निदधाति पूर्वस्यां दक्षिणस्यामपरस्यामिति । एतत्ते तत यज्ञशर्मन् [अमुक शर्मन् ] प्रपितामहस्य प्रपितामह ये च त्वामनु इति पूर्वस्यां स्रक्त्याम् । एतत्ते पितामह यज्ञशर्मन् प्रपितामहस्य पितामह ये च त्वामनु इति दक्षिणस्यां स्रक्त्याम् । एतत्ते प्रपितामह यज्ञशर्मन् प्रपितामहस्य तत ये च त्वामनु इत्यपरस्यां स्रक्त्याम् । उत्तरस्यां स्रक्त्यां लिप्तलेपं निमृज्य । अत्र पितरो यथाभागं मन्दध्वम् यजमानेन सह ऋत्विजः एवमुक्त्वा उदञ्चो निष्क्रामन्ति ।
१. अवघ्राणमेव भक्षणमित्यर्थः । २. केचित् समश इति पक्षे एव निमार्गः इति वदंति ।
 
एतदादि परिश्रयणप्रवेशान्तं सर्वेषाम् । सुसन्दृशं त्वा वयं मघवन्मन्दिषीमहि । प्र नूनं पूर्णवन्धुरस्स्तुतो यासि वशाꣳ अनु । योजान्विन्द्र ते हरी त्र्यवसानयैन्द्रियर्चा सकृन्मन्त्रमुक्त्वा हरीपदस्यान्ते यावच्छक्यमनुच्छ्वसन्तः प्रकृत्याहवनीयमाम्लानेरुपतिष्ठन्ते । अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा न विष्ठया मती । योजान्विन्द्र ते हरी अनुच्छ्वसन्त एव पूर्ववत् अनया त्र्यवसानया पङ्क्त्या गार्हपत्यमुपतिष्ठन्ते । उभाभ्यां वा मन्त्राभ्यां आहवनीयमुपस्थाय, अक्षन्नमीमदन्त हि इति उत्तरया गार्हपत्यमुपतिष्ठन्ते । पुनश्च अक्षन्नमीमदन्त हीति एतया परिश्रितं प्रविशन्ति । आञ्जनादि पिण्डपितृयज्ञवदा पङ्क्त्याः । यजमानः - आङ्क्ष्व तत यज्ञशर्मन् [अमुक शर्मन्] प्रपितामहस्य प्रपितामह आश्व । आक्ष्व पितामह यज्ञशर्मन् प्रपितामहस्य पितामह आक्ष्व । आक्ष्व प्रपितामह यज्ञशर्मन् प्रपितामहस्य तत आश्व ॥ अभ्यक्ष्व तत यज्ञशर्मन् [अमुक शर्मन्] प्रपितामहस्य प्रपितामह अभ्यङ्क्ष्व । अभ्यङ्क्ष्व पितामह यज्ञ शर्मन् प्रपितामहस्य पितामह अभ्यङ्क्ष्व । अभ्यङ्क्ष्व प्रपितामह यज्ञशर्मन् प्रपितामहस्य तत अभ्यङ्क्ष्व । एतानि वः पितरो वासाᳪ、स्यतो नोऽन्यत्पितरो मा योष्ट इति वाससो दशां छित्वा निदधात्यूर्णास्तुकां वा पूर्वे वयसि । उत्तर आयुषि स्वं लोम । आञ्जनादि त्रिरनुपिण्डं ददाति ।
नमो वः पितरो रसाय नमो वः पितरश्शुष्माय नमो वः पितरो जीवाय नमो वः पितरस्स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वो य एतस्मिंल्लोके स्थ युष्माᳪ、स्तेनु येऽस्मिल्लोके मां ते नु य एतस्मिल्लोके स्थ यूयं तेषां वसिष्ठा भूयास्त येऽस्मिल्लोकेऽहं तेषां वसिष्ठो भूयासम् नमस्कारान्जपति । गृहान्नः पितरो दत्त सदो वः पितरो देष्म इति पितॄनुपतिष्ठते । ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ तर्पयत मे पितॄन् इत्युदकं निनीय । मनोऽन्वा हुवामहे नाराशꣳसेन स्तोमेन पितॄणां च मन्मभिः ॥ आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक्च सूर्यं दृशे ॥ पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातꣳ सचेमहि मनस्वतीभिरुपतिष्ठते । उत्तिष्ठत पितरः प्रेत शूरा यमस्य पन्थामनुवेता पुराणम् । धत्तादस्मासु द्रविणं यच्च भद्रं प्रणो ब्रूताद्भागधान्देवतासु इति पितॄनुत्थापयति । परेत पितरस्सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन् सुविदत्राꣳ अपीत यमेन ये सधमादं मदन्ति इति प्रवाहण्या पितॄन् प्रवाहयति ।
प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयᳪँ、 स्याम पतयो रयीणाम् यज्ञोपवीती गार्हपत्यदेशं गच्छति । यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिꣳसिम । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि
 
चकृम करोतु मामनेनसम् पङ्क्त्या गार्हपत्यमुपतिष्ठते । यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिꣳसिम । अग्नि तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् पङ्क्त्या पुनरेति परिश्रितम् ।
विस्रस्य प्राचीनावीतानि यज्ञोपवीतानि कुर्वते । विपरिक्रामन्त्यृत्विजः । विपरिहरन्ति स्रुचः । अपकर्षन्ति परिश्रयणानि । इदं यजमानस्य इति वेदेन यजमानभागनिर्देशः । अन्वाहार्यो दक्षिणा । ब्रह्मन् प्रस्थास्याम इति संप्रैषः । प्रथमवर्जं द्वावनूयाजौ यजति । देवौ यज इति सम्प्रेष्यति । नराशꣳसस्याहम् देवयज्यया पशुमान् । यज इत्युत्तरम् । अग्नेस्स्विष्टकृतोऽहं देवयज्ययायुष्मान् । प्रत्याक्रम्य । वाजस्य मा इत्यादि । आयुषे त्वा इत्यन्तं कृत्वा । अध्वर्युरितरे च सूक्तवाकं प्रति निवीतानि कुर्वते । आश्रवणादि । सोमस्य पितृमतोऽहमुज्जितिम् । पितॄणां बर्हिषदामहमुज्जितिम् । पितृणामग्निष्वात्तानामहमुज्जितिम् । एमा अग्मन् । सा मे सत्याशीरित्यादि । अगन्नित्यन्ते कृते यज्ञोपवीती भूत्वा 1। श्रावयेत्यादि । यज्ञस्य पाथ उप समिहि इत्युत्तरं परिधिम् । यजमानं प्रथतम् । वि ते मुञ्चामीत्यस्य नोहः अग्नेर्विमोकत्वात् । न हविश्शेषभक्षणम् । आज्यलेपान् प्रक्षाल्य । सस्रुवे जुहूपभृतौ स्फ्यमाज्यस्थालीं चादाय अध्वर्युरेव गार्हपत्यं प्रति गच्छति । न होता नाग्नीध्रः । स्फ्ये स्रुचोस्सादनम् । न पत्नीसंयाजाः । अनन्वारब्धायामपि सम्पत्नीयहोमः । इध्मप्रव्रश्चनाधानादि दक्षिणाग्नौ होमा भवन्ति । न पूर्णपात्रं निनयति । न पुष्टिमती । यथेतमित्यादि प्रायश्चित्तान्तम् । ध्रौवसमाप्तेः अत्र न समिष्टयजुर्जुहोति । तूष्णीं बर्हिप्रहरणम् । यजमानभागमवघ्रेण भक्षयति । प्रणीताविमोकः । यद्घर्मे कपालमुपचिन्वन्ति वेधसः । पूष्णस्तदपि व्रत इन्द्रवायू विमुञ्चताम् इत्येककपालोद्वासनम् । पितृयज्ञार्थवेद्यां विष्णुक्रमादि । पित्र्याहवनीयं नातिक्रामेत् । न यज्ञ शं च मे । ब्राह्मण तर्पणान्तम् । सन्तिष्ठते महापितृयज्ञः ॥
॥ इति महापितृयज्ञः॥
नम
१. श्रौषडित्यन्ते कृते यज्ञोपवीती भूत्वा स्वागा दैव्या इत्यादि । इति द्रा. प्र।
 
त्र्यम्बकेष्टिः
पितृयज्ञार्थान् अग्नीन् परित्यज्य । प्राकृते विहारे प्राणानायम्य । त्र्यम्बकैर्यक्ष्ये 1। विद्युदसि । तूष्णीमन्वाधानाद्युपचरितानि भवन्ति । तूष्णीं परिस्तरणीमाहरति परिभोजनीमुलपराजीं च । नेध्मः । वेदोपवेषयोः करणम् । समूहनालङ्करणौ । परिस्तीर्य । पाणी प्रक्षाल्य । पात्रप्रयोगे यावन्तो यजमानस्यामात्यास्सस्त्रीकास्तावन्त्येकातिरिक्तानि कपालानि स्फ्यश्च द्वन्द्वम् । अनपत्यस्य तु त्रीणि कपालानि । अपरतः दृषदुपलान्तानि प्रयुज्य । पुरतः - स्रुवं, वेदं, पात्रीं, आज्यस्थालीं, उत्पवनपात्रं, उपवेषं, मेक्षणं, मदन्तीं, पलाशपर्णं, तृणं च । पवित्रकरणादि । निर्वपणकाले निर्वापसङ्ख्यया यावन्तो यजमानस्यामात्यास्सस्त्रीकास्तावन्त्येकातिरिक्तानि निर्वपति । यजमानस्य प्रथमं, ततः पत्न्याः, ततो यावन्तो ज्येष्ठपुत्रादयः तेषां योषितां ज्येष्ठादिक्रमेण 2 । अप्रत्तायाः कन्यायाश्च । एवं क्रमेण निर्वापादीनि क्रियेरन् अन्वावापान्तमेकैकस्य । अस्मा अस्मा इति स्मृत्वा निर्वापः । अन्वावापान्तमेव एकातिरिक्तं निर्वपति । यावन्तो गृह्यास्स्मस्तेभ्यः कमकरम् निरुप्यमाणेषु यजमानस्सकृदेव जपति । उपसादनप्रोक्षणावहननादि करोति । उत्तरार्धे गार्हपत्यस्य प्रागपवर्गानि कपालान्युपधाय मदन्तीरधिश्रयति । संवापः । पिण्डं कृत्वा, विभज्य, इदमस्मा इदमस्मा इति चिह्नं कृत्वा निर्वापक्रमेणाधिश्रयति । पर्यग्निकरणादि आप्यलेपं निनीयेत्यन्तं कृत्वा ।
न वेदिकरणम् । आज्यं निरुप्य उत्पवनान्ते वेद्यां पवित्रे अपिसृज्य । तूष्णीमभिघारणादि । पुरोडाशानुद्वास्य । अलङ्कृत्य प्राकृतायामसंस्कृतायां वेद्यां तूष्णीमासादयति इदमस्माइदमस्मा इति चिह्नं कृत्वा पशूनाꣳ शर्मासि शर्म यजमानस्य शर्म मे यच्छ मूते संवपति । कोशापिधानेन 3 हरन्तीत्येके । शकृदिन्धनमुदकुम्भपलाशपर्णसमिद्दर्भपुरोडाशैस्सह चतुष्पथं गच्छन्ति । ऋत्विजो यजमानः पत्नी अमात्याः सपत्नीकाः अप्रत्ताः कन्याश्च । एक एव रुद्रो न द्वितीयाय तस्थे इति दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति । उत्तरपूर्वमवान्तरदेशं गत्वा । आखुस्ते रुद्र पशुस्तं जुषस्व इत्याखूत्करे एकमतिरिक्तं पुरोडाशमुपवपति । रुद्रायेदम् । अप उपस्पृश्य । गोमयेनोपलिप्ते चतुष्पथे 4 एकोल्मुकमुपसमाधाय । संपरिस्तीर्य । सर्वेषां पुरोडाशानां उत्तरार्धात्सकृत् सकृदवदाय मध्यमेन अन्तमेन वा पलाशपर्णेन जुहोति । एष ते रुद्र भागस्सह स्वस्राम्बिकया तं जुषस्व स्वाहा । रुद्रायेदम् । अप उपस्पृश्य । भेषजं गवेश्वाय पुरुषाय भेषजमथो अस्मभ्यम् भेषजꣳ सुभेषजम्, यथासति । सुगं मेषाय मेष्यै एताभ्यां चतुष्पथमग्निं परिषिञ्चति । अवाम्ब रुद्रमदि मह्यव देवं त्र्यम्बकम् । यथा
१. त्र्यम्बकेष्ट्या यक्ष्ये इति दा. प्र। २. ज्येष्ठपुत्रः तस्य पत्नी । द्वितीयपुत्रः तस्य पनी इत्येवं क्रमेण । ३. कोशः = पेटिका। ४. चत्वारः पंथानः यस्मिन् संगताः तस्मिन् स्थले ।
 
नश्श्रेयसः करद्यथा नो वस्यसः करद्यथा नः पशुमतः करद्यथा नो व्यवसाययात् यजमानो जपति । त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय माऽमृतात् त्रिः प्रदक्षिणमग्निं परियन्ति पुरोडाशिनः । सकृन्मन्त्रेण द्विस्तूष्णीम् । त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकमिव बन्धनादितो मुक्षीय मा पतेः इति पतिकामा कन्या परीयात् 1 ।
यजमानस्यामात्याः यजमानः पत्नी च स्वान् स्वान् पुरोडाशानादाय ऊर्ध्वं क्षिप्त्वा गृहीत्वा । त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीय माऽमृतात् इति यजमानस्य अञ्जलौ समोप्य । पतिकामानां कन्यानां पूर्ववन्मन्त्रसन्नामः । भगस्थ भगस्य वो लिप्सीय अपादाय । एवं त्रिः । ऊर्ध्वं क्षिप्त्वा गृहीत्वा इत्यादि आदाय इत्यन्तम् । अध्वर्युः यजमानहस्तस्थान् पुरोडाशान् तूष्णीं मूते समावपति । एष ते रुद्रभागस्तं जुषस्व तेनावसेन परो मूजवतोऽतीहि मूतसहितान् पुरोडाशान् वृक्षे आसजति । अवततधन्वा पिनाकहस्तः कृत्तिवासो३म् इति त्रिरवताम्यन्ति ऋत्विग्भिस्सह पुरोडाशिनः पत्नीयजमानश्च । यावत्प्राणधारणं कर्तुं शक्यं तावत्यन्तं आसित्वा प्राणान् विसृजेयुः । एवं अवततधन्वेति मन्त्रावृत्तिः । अध्वर्युः वृक्षमूलमपः परिषिञ्चति । सर्वे अप्रतीक्षास्तूष्णीमेत्य एधोऽस्येधिषीमहि । समिदसि । तेजोऽसि तेजो मयि धेहि इति मन्त्रत्रयेण एकैकं तिस्रस्समिध आहवनीये आधाय । अपो अन्वचारिषꣳ रसेन समसृक्ष्महि । पयस्वाꣳ अग्न आगमं तं मा सꣳ सृज वर्चसा इत्युपतिष्ठन्ते । सन्तिष्ठते त्र्यम्बकेष्टिः ॥
अथ आदित्येष्टिः
अथ आदित्यं घृते चरुं पुनरेत्य निर्वपति । आधानवत् । अग्नी परित्यज्य । न च त्र्यम्बकाग्निं परित्यजतीत्येके । इष्ट्या यक्ष्ये । विद्युदसि । विहरणादि । साकमेधीयꣳ हविः । सप्तदश सामिधेन्यः । पौर्णमासं तन्त्रम् । पात्रप्रयोगकाले स्थाली स्फ्यश्च द्वन्द्वम् । शम्या दृषदुपलवर्जम् । उत्पवनपात्रं प्रणीतापात्रं च इडापात्रेण सह । अन्वाहार्यस्थालीमेक्षणमदन्तीवर्जम् । इतराणि प्रयुनक्ति । पवित्रकरणादि । अदित्यै जुष्टं निर्वपामि । अदिते हव्यꣳ रक्षस्व । सशूकायामित्यादि । अदित्यै वो जुष्टं प्रोक्षामि । धृष्ट्यादानादि । तण्डुलानुत्पूय, देवस्त्वा सवितोत्पुनातु इति घृतं चोत्पूय स्थाल्यामासिञ्चति । घर्मोऽसि विश्वायुः इति तण्डुलानोप्य उदकमपि यथार्थम् । अन्तरितꣳ रक्षः । अविदहन्त । वेदिकरणादि । अदित्यै जुष्टमभिघारयामि । प्रियेणेत्यासादयति । यज्ञोऽस्ययं यज्ञो ममाग्ने चतुर्होतेत्यासन्नाभिमर्शनम् । अदित्या अनुब्रूहि । अदितिं यज । अदित्या इदम् । अदित्या
१. प्रदक्षिणं कुर्यादित्यर्थः ।
 
अहं देवयज्यया प्र प्रजया च पशुभिश्च जनिषीय । नारिष्ठादि । मार्जनान्ते न चतुर्धाकरणम् । आदित्यं चरुं ब्रह्मणे परिहरति । तं चत्वार आर्षेयाः प्राश्नन्ति । इदं यजमानस्य वेदेन यजमानभागं परिहृत्य । दक्षिणाकाले श्वेताश्वो दक्षिणा । गौर्वा श्वेतः, श्वेतन्यङ्गो 1 वा । अपि वा गोनिष्क्रयभूतं द्रव्यं अन्तर्वेद्यासाद्य । ब्रह्मन् ब्रह्मासि । ब्रध्न पिन्वस्व इत्यादि । सहस्रधारो उत्सो अक्षीयमाणः -- - तेन गवा अतितराणि मृत्युम् । अयं वो गौः अहिंसन्तः यथाभागं प्रतिगृह्णीध्वम् 2 । रुद्राय गां इति प्रतिग्रहः । अदित्या अहमुज्जितिम् । अन्यत्प्रकृतिवत् । ब्राह्मणतर्पणान्तम् । सिद्धमिष्टिस्सन्तिष्ठते।
वपनम् :-
अत्र पौर्णमास्या इष्ट्वा उन्दनादि, पूर्ववन्निवर्तनम् । सर्वं वा वापयेत् । मन्त्रादिर्विक्रियते । यो अस्याः पृथिव्यास्त्वचि निवर्तयत्योषधीः । अग्निरीशान ओजसा वरुणो धीतिभिस्सह । इन्द्रो मरुद्भिस्सखिभिस्सह । अग्निस्तिग्मेनेति समानम् ।
॥ इति साकमेधाः ॥

१. यस्य एकमङ्गं श्वेतं सः श्वेतन्यङ्गः । गौरत्र बलीवर्दः । पुल्लिंगविशेषणत्वात् ।
२. यदि गोप्रतिनिधि हिरण्यं ददाति चेत् ब्रह्मन् ब्रह्मासीति समानम् । सहस्रधारो उत्सो अक्षीयमाणः तेन गोप्रतिनिधि हिरण्येनातितराणि मृत्युम् । इदं वो गोप्रतिनिधि हिरण्यं यथाभागं प्रतिगृह्णीध्वम् । रुद्राय गामित्येव प्रतिग्रहः