आपस्तम्बीय श्रौतप्रयोगः/पिण्डपितृयज्ञप्रयोगः

विकिस्रोतः तः

॥ पिण्डपितृयज्ञप्रयोगः ॥
पिण्डपितृयज्ञस्य कालः, संकल्पश्च :-
अमावास्यायां यदहश्चन्द्रमसं न पश्यन्ति तदहः पिण्डपितृयज्ञं कुरुते । अपराह्नेऽधिवृक्षसूर्ये वा पिण्डपितृयज्ञेन चरन्ति । यजमानः – दर्भेष्वासीनो दर्भान् धारयमाणः पवित्रपाणिः पत्न्या सह प्राणानायम्य, संकल्प्य । प्राचीनावीतं = प्रथमे प्रयोगे = पिण्डपितृयज्ञमारप्स्ये 1 । तेन मासि मासि यक्ष्ये । ततः = पिण्डपितृयज्ञेन यक्ष्ये । उत्तरतो दर्भान् निरस्य, अप उपस्पृश्य । न विद्युत् 2। दर्विहोमत्वात् । तत्र यदौपवसथ्येऽहनि चरन्ति तदान्वाहित एवाग्नौ प्रयोगः । अन्यथा दक्षिणाग्निं योनित उत्पादयेत् । नाहवनीयम् । अर्थाभावात् । ततोऽध्वर्युर्दक्षिणाग्निमेव विहृत्य ।
दर्भाहरणम् :-
प्राचीनावीतं अपां मेध्यं यज्ञियꣳ सदेवꣳ शिवमस्तु मे । आच्छेत्ता वो मा रिषं जीवानि शरदश्शतम् समूलं सकृदाच्छिन्नं बहिराहरति । सकृदाच्छिन्नानि वा तृणान्युपमूलं दिनानि । तूष्णीं परिस्तरणीं अन्यं दर्भमुष्टिं च आहरति । दक्षिणाप्रागग्रैर्दर्भैः दक्षिणाग्निं परिस्तीर्य दक्षिणतः पश्चाद्वा दर्भान् संस्तीर्य दक्षिणाप्राञ्चि एकैकशः पिण्डपितृयज्ञपात्राणि प्रयुनक्ति । स्फ्यं, मेक्षणं, कृष्णाजिनं, उलूखलं, मुसलं, शूर्पं, आज्यस्थालीं, चरुस्थालीं, येन चान्येनार्थी भवति । उपस्तरणाभिघारणार्थं च दर्वीं, मृन्मयपात्रं, पर्णवल्कं 3 च सादयति ।
हविर्निर्वापः वेदिकरणं च :-
दक्षिणतः प्रागीषं व्रीहिमच्छकटमवस्थितं भवति । अध्वर्युरुपवीती स्थालीमेकपवित्रेणान्तर्धाय तया दक्षिणतश्शकटादधि निर्वपति । उत्तरतो वा । शकटाभावे पात्र्याः । प्राचीनावीतं तां व्रीहिभिः पूरयित्वा निमार्ष्टि । मृन्मये निर्वपति । पितृभ्यो वो जुष्टं निर्वपामि । तूष्णीं वा । अपरेणान्वाहार्यपचनं प्रत्यगुदग्ग्रीवे कृष्णाजिने उलूखले प्रतिष्ठिते दक्षिणाप्राची तिष्ठन्ती पत्न्यवहन्ति । परापावमविवेकम् । सकृत्फलीकरोति । दक्षिणाग्नौ जीवतण्डुलं श्रपयति । अपहता असुरा रक्षाꣳसि पिशाचा वेदिषदः अन्तरा गार्हपत्यान्वाहार्यपचनौ दक्षिणपूर्वेण वान्वाहार्यपचनं दक्षिणाप्राचीमेकस्फ्यां पराचीं वेदिमुद्धत्य । अप उपस्पृश्य । शुन्धन्तां पितरः अद्भिरवोक्ष्य । आयन्तु पितरो मनोजवस: 4 अभिमन्त्र्य ।
१. केचित् प्रथमप्रयोगेऽपि पिण्डपितृयज्ञेन यक्ष्ये इत्येव वदन्ति । २. विद्युदसि इति अ. ह पाठः । ३. पर्णवल्कं = होमशेषनिधानार्थं यस्यकस्यचिद्वृक्षस्य पर्णम् । ४. आयन्तु पितरो मनोजवसोऽग्निष्वात्ताः पथिभिर्देवयानैः । अस्मिन् यज्ञे स्वधया मदन्त्वधिब्रुवन्तु ले अवन्त्वस्मान् इति पाठान्तरम् ।
 
सकृदाच्छिन्नं बर्हिरूर्णामृदु स्योनं पितृभ्यस्त्वा भराम्यहम् । अस्मिन्त्सीदन्तु मे पितरस्सोम्याः पितामहाः प्रपितामहाश्चानुगैस्सह सकृदाच्छिन्नेन बर्हिषा वेदिं स्तृणाति ।
प्रधानहोमः :-
उत्पूतेन नवनीतेनानुत्पूतेन वा सर्पिषा स्थालीपाकमभिघार्य, एकस्फ्यायां मेक्षणमासाद्य स्थालीपाकमासादयति । दक्षिणतः कशिपूपबर्हणमाञ्जनमभ्यञ्जनमुदकुम्भमित्येकैकशः आसादयति । जीवपितुर्न कशिप्वादि । अध्वर्युरुपवीती दक्षिणं जान्वाच्य मेक्षणे उपस्तीर्य तेनावदायाभिघार्य सोमाय पितृपीताय स्वधा नमः दक्षिणाग्नौ सशेषं जुहोति । सोमाय पितृपीतायेदम् । मेक्षणे श्लिष्टमोदनं पर्णवल्के निधाय । पूर्ववन्मेक्षणे उपस्तीर्य तेनावदायाभिघार्य । यमायाङ्गिरस्वते पितृमते स्वधा नमः पूर्ववत् सशेषं जुहोति । यमायाङ्गिरस्वते पितृमत इदम् । पूर्ववत् श्लिष्टं निधाय । न कव्यवाहनस्योपस्तरणाभिघारणे भवतः । हविश्लिश्टद्वयं मेक्षणे निधाय अग्नये कव्यवाहनाय स्वधा नमः । अग्नये कव्यवाहनायेदम् । ये मेक्षणे तण्डुलास्तान् हुत्वा तूष्णीं मेक्षणमादधाति । न यमाय जुहोतीत्येके । एतदन्तमेव जीवपितृकस्य 1 ।
पिण्डप्रदानार्थमग्नेः निधानम् :-
अजीवपितृकस्य यजमानस्य अत ऊर्ध्वं कर्माणि । अध्वर्युः - प्राचीनावीती अपयन्त्वसुराः पितृरूपा ये रूपाणि प्रतिमुच्याचरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टाल्लोकात्प्रणुदात्वस्मात् 2 ॥ ये देवाः पितरो ये च मानुषा ये गर्भे मम्रुरुत ये परास्ताः । य उद्धता उत ये निखातास्ते सम्यञ्च इह मादयन्ताम् ॥ ये रूपाणि प्रतिमुञ्चमाना असुरास्सन्तस्स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टाल्लोकात्प्रणुदात्वस्मात् 3 । ये ज्ञातीनां प्रतिरूपाः पितॄन् माययासुराः प्रविष्टाः । परापुरो निपुरो ये भरन्त्यग्ने तानस्मात्प्रणुदस्व लोकात् इति दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति । उल्मुकं सव्ये हस्ते गृहीत्वा । दक्षिणेन हस्तेन दक्षिणपूर्वमवान्तरदेशं सकृत् स्फ्येनोल्लिख्य अप उपस्पृश्य उदीरतामवर उत्परास उन्मध्यमाः पितरस्सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु अद्भिरवोक्ष्य उल्लिखितान्ते निदधाति ।
पिण्डप्रदानम् :-
यजमानोऽत ऊर्ध्वं प्राचीनावीती कर्माणि करोति । अथ यजमानः पूर्वनिहितादुदकुम्भात मार्जनादीनि
१. सकृदाच्छिन्नस्य प्रहरणं, पात्राणामभ्युदाहरणं च अत्रैव जीवपितृकस्य । अजीवपितृकस्य तु उत्तरत्र वक्ष्यते । ये समानास्समनसः पितरो यमराज्ये । तेषां लोकस्स्वधा नमो यज्ञो देवेषु कल्पताम् इति सकृदाच्छिन्नं दक्षिणाग्नौ प्रहरति । ततः पात्राणि प्रोक्ष्य द्वन्द्वमभ्युदाहरति । २. प्रणुदात्यस्मात् इति पाठान्तरम् ।
३. प्रणुदात्यस्मात् इति पाठान्तरम् ।
 
सकृन्मन्त्रेण द्विस्तूष्णीम् 1। मार्जयन्तां मम पितरः । मार्जयन्तां मम पितामहाः । मार्जयन्तां मम प्रपितामहाः । दक्षिणापवर्गमेकस्फ्यायां त्रीनुदकाञ्जलीन् निनयति । प्रसव्यं वा त्रिः परिषिञ्चति । त्रीनुदपात्रान् वाजसनेयिनस्समामनन्ति । सव्यं जान्वाच्यावाचीनपाणिः सकृदाच्छिन्ने बर्हिषि दक्षिणापवर्गान् पिण्डान् ददाति । एतत्ते ततासौ [ अमुकशर्मन्, अमुकगोत्र, वसुरूप ] ये च त्वामनु । एतत्ते पितामहासौ [ अमुकशर्मन्, अमुकगोत्र, रुद्ररूप ] ये च त्वामनु । एतत्ते प्रपितामहासौ [ अमुकशर्मन्, अमुकगोत्र, आदित्यरूप ] ये च त्वामनु । तूष्णीं चतुर्थम्, स कृताकृतः । प्रपितामहप्रभृतीन् वा पिण्डान्निदधाति 2 । नानाम गृहीतं गच्छति 3 । यदि जीवपिता न दद्यादाहोमात् कृत्वा विरमेत् । यन्मे माता प्रममाद यच्चचाराननुव्रतम् । तन्मे रेतः पिता वृङ्क्तामाभुरन्योऽपपद्यताम् 4। पितृभ्यस्स्वधाविभ्यस्स्वधा नमः ॥ पितामहेभ्यस्स्वधाविभ्यस्स्वधा नमः ॥ प्रपितामहेभ्यस्स्वधाविभ्यस्स्वधा नमः 5 इत्युपस्थाय । अत्र पितरो यथाभागं मन्दध्वं इत्युक्त्वा परावर्तते । ओष्मणो व्यावृत उपास्ते । अमीमदन्त पितरस्सोम्याः व्यावृत्ते ऊष्मण्यभिपर्यावर्तते । अव्यावृत्ते वा । यस्स्थाल्यां शेषस्तमवजिघ्रति ये समानास्समनसः पितरो यमराज्ये । तेषां लोकस्स्वधा नमो यज्ञो देवेषु कल्पताम् ॥ वीरं धत्त पितरः इति । आमयाविना प्राश्योऽन्नाद्यकामेन प्राश्यो योऽलमन्नाद्याय सन्नाद्यात्तेन वा प्राश्यः । पूर्ववदेकास्फ्यायां मार्जयन्तां इति त्रीनुदकाञ्जलीनुपनिनीय । आञ्जनाभ्यञ्जने वासश्च त्रिरनुपिण्डं ददाति । आङ्क्ष्व ततासौ [अमुकशर्मन्] । आङ्क्ष्व पितामहासौ [अमुकशर्मन्] । आङ्क्ष्व प्रपितामहासौ [अमुकशर्मन्] इत्याञ्जनं ददाति । एवमभ्यञ्जनमभ्यङ्क्ष्वेति मन्त्रं सन्नमति । अभ्यङ्श्व ततासौ [अमुकशर्मन्] । अभ्यङ्श्व पितामहासौ [अमुकशर्मन्] । अभ्यङ्श्व प्रपितामहासौ [अमुकशर्मन्] । एतानि वः पितरो वासांस्यतो नोन्यत्पितरो मा योष्ट 6 इति वाससो दशां छित्वा निदधात्यूर्णास्तुकां वा पूर्वे वयसि । उत्तर आयुषि स्वं लोम ।
१. सकृन्मन्त्रेण द्विस्तूष्णीम् । इति अ.ह पाठे नास्ति ।
२. एतत्ते प्रपितामहासौ, एतत्ते पितामहासौ, एतत्ते ततासौ इत्येवं क्रमेण प्रातिलोम्येन दक्षिणापवर्गा एव भवन्ति पिण्डशेषत्वात् उदकाञ्जलयोऽपि प्रातिलोम्येन भवन्ति ।
३. यदि बन्धून् न विद्यात् स्वधा पितृभ्यः पृथिविषद्भ्य इति प्रथमं पिण्डं दद्यात् । स्वधा पितृभ्योऽन्तरिक्षसद्भ्य इति द्वितीयम् । स्वधा पितृभ्यो दिविषद्भ्य इति तृतीयम् । यदि द्विपिता स्यात् एकैकस्मिन् पिण्डे द्वौ द्वावुपलक्षयेत् . ४. अनेन मन्त्रेण पितृपिण्डमेवोपतिष्ठेत । उत्तरं मन्त्रत्रयं आनुपूर्वं पिण्डत्रयस्य ।
५. यन्मे पितामही प्रममाद यच्चचाराननुव्रतम् । तन्मे रेतः पितामहो वृङ्क्तामाभुरन्योऽपपद्यतां पितामहेभ्यस्स्वधाविभ्यस्स्वधा नमः ॥ यन्मे प्रपितामही प्रममाद यच्चचाराननुव्रतम् । तन्मे रेतः प्रपितामहो वृङ्क्तामाभुरन्योऽपपद्यतां प्रपितामहेभ्यस्स्वधाविभ्यस्स्वधा नमः इति पितामहप्रपितामहपिण्डयोरुपस्थानम् इति रुद्रदत्तमतम् ।
६. एतानि वः पितरो वासांस्यतो नोन्यत्पितरो मा योष्ट । एतानि वः पितामहा वासांस्यतो नोन्यत्पितामहा मा योष्ट । एतानि वः प्रपितामहा वासांस्यतो नोन्यत्प्रपितामहा मा योष्ट । इति अ.ह. पाठः ।
 
वीतोष्मसु पिण्डेषु नमो वः पितरो रसायेति नमस्कारान् जपति । नमो वः पितरो रसाय नमो वः पितरश्शुष्माय नमो वः पितरो जीवाय नमो वः पितरस्स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वो य एतस्मिन् लोके स्थ युष्माᳪ、स्तेऽनु येस्मिल्लोके मां तेऽनु य एतस्मिन लोके स्थ यूयं तेषां वसिष्ठा भूयास्त येऽस्मिन लोकेऽहं तेषां वसिष्ठो भूयासम् । गृहान्नः पितरो दत्त सदो वः पितरो देष्म पितॄनुपतिष्ठते । ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ तर्पयत मे पितॄन् इत्युदकं निनयति । मनोऽन्वा हुवामहे नाराशꣳसेन स्तोमेन पितॄणां च मन्मभिः ।। आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक्च सूर्यं दृशे ॥ पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातꣳ सचेमहि मनस्वतीभिरुपतिष्ठते । उत्तिष्ठत पितरः प्रेत शूरा यमस्य पन्थामनुवेता पुराणम् । धत्तादस्मासु द्रविणं यच्च भद्रं प्रणो ब्रूताद्भागधां देवतासु पितॄनुत्थापयति । परेत पितरस्सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त्सुविदत्राꣳ अपीत यमेन ये सधमादं मदन्ति इति प्रवाहण्या पितॄन् प्रवाहयति । यज्ञोपवीती प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयᳪँ、 स्याम पतयो रयीणाम् गार्हपत्यदेशं गच्छति । यदन्तरिक्षं पृथिवीमुत द्यां यन्मातरं पितरं वा जिहिꣳसिम । अग्निर्मा तस्मादेनसो गार्हपत्यः प्रमुञ्चतु दुरिता यानि चकृम करोतु मामनेनसम् पङ्क्त्या गार्हपत्यमुपतिष्ठते । प्राचीनावीती अपां त्वौषधीनाꣳ रसं प्राशयामि भूतकृतं गर्भं धत्स्व इति मध्यमं पिण्डं पत्न्यै प्रयच्छति । पत्न्यनेकत्वेऽपि मध्यमं पिण्डं विभज्य सर्वाभ्यः प्रयच्छति ।
अक्षता गुर्विणी वन्ध्या गतरक्ता रजस्वला ।
नाश्नीयान्मध्यमं पिण्डं स्वैरिणी तु विशेषतः ॥
प्रतिपत्नि मन्त्रावृत्तिः आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसत् इति तं पत्नी प्राश्नाति । पुमांसं ह जानुका भवतीति विज्ञायते । ये सजातास्समनसो जीवा जीवेषु मामकाः । तेषाᳪ、 श्रीर्मयि कल्पतामस्मिन् लोके शतꣳ समाः इत्यवशिष्टानामेकं यजमानः प्राश्नाति । न वा । स्थाल्यां पिण्डान् समवधाय ये समानास्समनसः पितरो यमराज्ये तेषां लोकस्स्वधा नमो यज्ञो देवेषु कल्पतां इति सकृदाच्छिन्नमग्नौ प्रहरति । अभून्नो दूतो हविषो जातवेदा अवाड्ढव्याणि सुरभीणि कृत्वा । प्रादाः पितृभ्यस्स्वधया ते अक्षन् प्रजानन्नग्ने पुनरप्येहि देवान् इत्येकोल्मुकं प्रत्यपिसृज्य ।1 उपवीती प्रोक्ष्य पात्राणि द्वन्द्वमभ्युदाहरति ।2 अपः
१. उपवीती अस्मिन्पिण्डपितृयज्ञे यजुर्भेषप्रायश्चित्तं करिष्ये । दक्षिणाग्नौ भूवस्स्वाहा । वायव इदम् इति अ. ह.
२. प्राचीनावीती वृष्टिरसि अप उपस्पृश्य । सन्तिष्ठते पिण्डपितृयज्ञः इति अ. ह पाठः ।
पा
पाठः ।
 
पिण्डानभ्यवहरेत् ब्राह्मणं वा प्राशयेत् । सोऽयमेवं विहित एव अनाहिताग्नेः । औपासने श्रपणधर्मा होमश्च । अतिप्रणीते वा जुहुयात् । यस्मिन् जुहुयात्तमुपतिष्ठेत तत्र गार्हपत्यशब्दो लुप्यते । संस्कारप्रतिषेधात्
न दर्शेन विना श्राद्धं आहिताग्नेर्द्विजन्मनः । इति ॥ (मनुः ३-२८२)
पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेग्निमान् ।
पिण्डान्वाहार्यकं श्राद्धं 1 कुर्यान्मासानुमासिकम् ।। मनुः ३-१२२ ।।
॥ इति पिण्डपितृयज्ञप्रयोगः ॥

१. स्मार्तं श्राद्धमित्यर्थः । यत् शिष्टाः दर्शतर्पणमिति अनुतिष्ठन्ति ।