आपस्तम्बीय श्रौतप्रयोगः/अग्निष्टोमप्रयोगे द्वितीयोऽध्यायः

विकिस्रोतः तः

॥ अथ द्वितीयोऽध्यायः ॥
[१] तानूनप्त्रावदानमभिमर्शनमवघ्राणं च :-
अथाध्वर्युः आतिथ्याया ध्रौवात् स्रुचि चमसे वा तानूनप्त्रं समवद्यति । आपतये त्वा गृह्णामि । प्राणायेदम् । परिपतये त्वा गृह्णामि 1 । मनस इदम् । तनूनप्त्रे त्वा गृह्णामि । अग्नय इदम् । शाक्वराय त्वा गृह्णामि । शक्त्या इदम् । शक्मन्नोजिष्ठाय त्वा गृह्णामि 2 । जीवात्मन इदम्3 । तूष्णीं सकृदाप्याय्य ध्रौवसमाप्तिः । यजमानः - अनु मे दीक्षां दीक्षापतिर्मन्यतामनु तपस्तपस्पतिरञ्जसा सत्यमुपगेषꣳ सुविते मा धाः तानूनप्त्रमभिमृशति । अनाधृष्टमस्यनाधृष्यं देवनामोजोऽभिशस्तिपा अनभिशस्तेन्यम् ऋत्विजस्सर्वे युगपत् स्पृशन्ति 4 । प्रजापतौ त्वा मनसि जुहोमि यजमानस्तानूनप्त्रं त्रिरवजिघ्रति । सकृन्मन्त्रेण द्विस्तूष्णीम् । प्रजापतय इदम् ।
सोमाप्यायनम् :-
अध्वर्युः - अग्नीन्मदन्त्यापाः इति पृच्छति । मदन्ति देवीरमृता ऋतावृधः आग्नीध्रः प्रत्याह । अध्वर्युः - ताभिरेहि इति सम्प्रेष्यति । एवा वन्दस्व वरुणं बृहन्तं नमस्याधीरममृतस्य गोपाम् । स नश्शर्म त्रिवरूथं वियꣳसत्पातं मा द्यावापृथिवी उपस्थे एतेनैव राजानं गच्छति सर्वत्र 5। मदन्तीरुपस्पृश्य तानूनप्त्रिणो विस्रस्य राजानम् । अꣳशुरꣳशुस्ते देव सोमाप्यायतामिन्द्रायैकधनविद आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वाप्यायय सखीन्त्सन्या मेधया स्वस्ति ते देव सोम सुत्यामशीय सहिरण्यैः पाणिभिराप्याययन्ति । अथ निह्नुवते दक्षिणे वेद्यन्ते प्रस्तरं निधाय दक्षिणान् पाणीनुत्तानान् कृत्वा सव्यान्नीचः एष्टा रायः प्रेषे भगायर्तमृतवादिभ्यो नमो दिवे नमः पृथिव्यै ।
अवान्तरदीक्षाग्रहणम् :-
अथ यजमानोऽवान्तरदीक्षामुपैति । अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि या मम तनूरेषा सा त्वयि या तव तनूरियꣳ सा मयि सह नौ व्रतपते वतिनोर्व्रतानि आहवनीयमुपतिष्ठते । संतरां मेखलां समायच्छते । सन्तरां मुष्टी कर्षते । तप्तव्रतो भवति । मदन्तीभिर्मार्जयते । या ते अग्ने रुद्रिया तनूस्तया नः पाहि तस्यास्ते स्वाहा एतेनैवात ऊर्ध्वं व्रतयति ।
प्रवर्ग्यसम्भरणम् :-
१. इदं पञ्चावत्तिनः इति केचित् ।
२. इदं पञ्चावत्तिनः इति आंड्विल्ला । ३. आत्मन इदम इति द्रा. पा ।
४. अध्वर्युप्रमुखाः तानूनप्त्रं समवमृशन्ति इति पाठान्तरम् ५. एतया सर्वत्र राजानमासीदेत् इति पाठान्तरम्
 
प्रवर्ग्येण प्रचर्योपसदा चरन्ति । अथ प्रवर्ग्यसम्भरणम् । प्रवर्ग्यं सम्भरिष्यन्नमावास्यायां पौर्णमास्यामापूर्यमाणपक्षस्य वा पुण्ये नक्षत्रे तूष्णीं काण्टकीं समिधमाधाय युञ्जते मन इति चतुर्गृहीतं जुहोति । अथ यदि दीक्षितः काण्टकीमेवैतया समिधमादध्यात् । यजुरेव वदेदित्येके । युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिस्स्वाहा 1। सवित्र इदम् । देवस्य त्वा --- हस्ताभ्यामा ददे वैणवीमभ्रिमादाय । अभ्रिरसि नारिरस्यध्वरकृद्देवेभ्यः अभिमन्त्रयते । उत्तिष्ठ ब्रह्मणस्पते । देवयन्तस्त्वेमहे ब्रह्माणमामन्त्रयते । उपोत्तिष्ठति ब्रह्मा । उप प्र यन्तु मरुतस्सुदानवः । इन्द्र प्राशूर्भवा सचा अध्वर्युर्ब्रह्मा च उत्तरमर्धर्चं जपतः । आददते कृष्णाजिनं अनुनयन्त्यजां पुञ्श्छगलां. अश्वं वृषाणमिति । प्रैतु ब्रह्मणस्पतिः प्रदेव्येतु सूनृता । अच्छा वीरं नर्यँ पङ्क्तिराधसं देवा यजं नयन्तु नः प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति अध्वर्युब्रह्मयजमानाः । अग्रेणाहवनीयं मृत्खनः, पूर्वःपूर्व इतरः । उत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य । देवी द्यावापृथिवी अनु मेमꣳसाथां मृत्खनमभिमन्त्रयते । ऋध्यासमद्य मृत्खनेऽभ्रिया प्रहृत्य । अप उपस्पृश्य । मखस्य शिरः अपदाय । मखाय त्वा हरति । मखस्य त्वा शीर्ष्णे कृष्णाजिने निवपति । एवं द्वितीयं तृतीयं च हरति । ऋध्यासमद्येत्यादि निवपनान्तम् ।
तूष्णीं चतुर्थम् । एवमितरान् संभारान् । अभिमन्त्रणे विकारः । इयत्यग्र आसीः वराहविहितमभिमन्त्रयते । ऋध्यासमद्येत्यादि तूष्णीं चतुर्थमित्यन्तं पूर्ववत् । देवीर्वम्रीरस्य भूतस्य प्रथमजा ऋतावरी: वल्मीकवपामभिमन्त्रयते । ऋध्यासमद्येत्यादि पूर्ववत् । इन्द्रस्यौजोऽसि पूतीकानभिमन्त्रयते । ऋध्यासमद्येत्यादि पूर्ववत् । अजलोमानि कृष्णाजिनलोमानि च संसृज्य । अग्निजा असि प्रजापते रेत: अभिमन्त्रयते । ऋध्यासमद्येत्यादि पूर्ववत् । आयुर्धेहि प्राणं धेहि । अपानं धेहि व्यानं धेहि । चक्षुर्धेहि श्रोत्रं धेहि । मनो धेहि वाचं धेहि । आत्मानं धेहि प्रतिष्ठां धेहि । मां धेहि मयि धेहि अश्वेनावघ्राप्य । मधु त्वा मधुला करोतु अजयाऽभिदोहयति । बहव आर्याः परिगृह्य हरन्ति । उत्तरेण विहारमुद्धतेऽवोक्षिते सिकतोपोप्ते परिश्रिते निदधति । मधु त्वा मधुला करोतु मदन्तीभिरुपसृजति । ये चोखासंसर्जनास्सम्भाराः यच्चान्यद्दृढार्थ उपार्धं मन्यते । यत्किञ्च प्रवर्ग्ये उदककृत्यं मदन्तीभिरेव तक्रियते । नैनं स्त्री प्रेक्षते, न शूद्रः । न कुर्वन्नभिप्राणिति । प्रवर्ग्यपात्राणां करणम् :-
सम्प्रक्लिश्य मृदम् । मखस्य शिरोऽसि पिण्डं कृत्वा । यज्ञस्य पदे स्थः अङ्गुष्ठाभ्यां निगृह्य

१. अत्र होमः समिदाधानं वा आहवनीये कार्यम् ।

महावीरः

अपहायमुखमनभिप्राणन् वेणुना महावीरं करोति । त्र्युद्धिं पञ्चोद्धिमपरिमितोद्धिं वा । प्रादेशमात्रमूर्ध्वसानुमुपरिष्टादासेचनवन्तं मध्ये सन्नतं वायव्यप्रकारम् । गायत्रेण त्वा छन्दसा करोमि प्रथमम् । मखस्य रास्नासि उपबिलं रास्नां करोति । अदितिस्ते बिलं गृह्णातु पाङ्क्तेन छन्दसा वेणुपर्वणा बिलं करोति तृतीयवेलामतिनयति । सूर्यस्य हरसा श्राय उत्तरतस्सिकतासु प्रतिष्ठाप्य । मखोऽसि अनुवीक्षते । एवं द्वितीयं तृतीयं च करोति । मखस्य शिरोऽसीत्यादि । त्रैष्टुभेन त्वा छन्दसा करोमि द्वितीयम् । मखस्य रास्नासीत्याद्यनुवीक्षणान्तं पूर्ववत् । मखस्य शिरोऽसीत्यादि । जागतेन त्वा छन्दसा करोमि तृतीयम् । मखस्य रास्नासीत्याद्यनुवीक्षणान्तं पूर्ववत् । तूष्णीमितराणि । एतस्या एव मृदो दोग्धे करोति । हस्त्योष्ठ्ये प्रसेचनवती यथा स्रुगदण्डैवम । वर्षीय आध्वर्यवं प्रतिप्रस्थानात् । आज्यस्थालीं दधिस्थालीं रौहिणकपाले च परिमण्डले घोटप्रकारे करोति । श्लक्ष्णीकरणैश्श्लक्ष्णीकुर्वन्ति अहतचण्डातकैर्गवीधुकैः क्लीतकाभिर्वेणुपर्वभिराज्येनेति । वृष्णो अश्वस्य शकृत् गार्हपत्ये प्रदीप्य प्रथमकृतं महावीरं शफाभ्यां परिगृह्य धूपयति वृष्णो अश्वस्य निष्पदसि वरुणस्त्वा धृतव्रत आधूपयतु । मित्रावरुणयोर्रु ववेण धर्मणा । एवं द्वितीयं तृतीयं च धूपयति । तूष्णीमितराणि । शफाभ्यामेवात ऊर्ध्वं महावीरानादत्ते । अग्रेण गार्हपत्यमवटं खात्वा, लोहितपचनीयैस्संभारैरवस्तीर्य तेषु महावीरानुपावहरति । अर्चिरसि प्रथमम् । शोचिरसि द्वितीयम् । ज्योतिरसि तपोऽसि तृतीयम् । तूष्णीमितराण्यन्ववधाय । लोहित पचनीयैस्संभारैः प्रच्छाद्य । गार्हपत्ये मुञ्जानादीप्योपोषति । अर्चिषे त्वा पुरस्तात् । शोचिषे त्वा दक्षिणतः । ज्योतिषे त्वा पश्चात् । तपसे त्वा उत्तरतः । अपि वा सर्वैस्सर्वतः । अभीमं महिना दिवम् । मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम् पच्यमानान् मैत्र्योपचरति ।
पक्वप्रवर्ग्यपात्राणामुद्वासनम् :-
पक्वेषु सिद्धै त्वा, सिद्धै त्वा इति द्विः धृष्टी आदाय । भस्मापोह्य । प्रथमकृतं महावीरं शफाभ्यां परिगृह्य । देवस्त्वा सवितोद्वपतु सुपाणिस्स्वङ्गुरिः । सुबाहुरुत शक्त्या उद्वास्य । अपद्यमानः पृथिव्यामाशा दिश आपृण । उत्तिष्ठ बृहन्भवोर्ध्वस्तिष्ठ ध्रुवस्त्वम् उत्तरतस्सिकतासु प्रतिष्ठाप्य । सूर्यस्य त्वा चक्षुषान्वीक्षे । ऋजवे त्वा । साधवे त्वा । सुक्षित्यै त्वा भूत्यै त्वा अनुवीक्षते । एवं द्वितीयं तृतीयं चोद्वासयति । देवस्त्वा सवितेत्याद्यनुवीक्षणान्तम् । तूष्णीमितराण्युद्वास्य । इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामि 1 एतान् प्रदक्षिणं सिकताभिः पर्यूह्य । प्रभूतेनाजापयसा छृणत्ति । गायत्रेण त्वा छन्दसाऽऽच्छृणद्मि । छृणत्तु त्वा वाक् । छृन्धि वाचम् प्रथमम् । त्रैष्टुभेन त्वा छन्दसाऽच्छृणद्मि । छृणत्तु त्त्वोर्क् । छृन्ध्यूर्जम् द्वितीयम् । जागतेन त्वा छन्दसाऽऽच्छृणद्मि ।
१. यथानामगोत्रं रामशर्माणं काश्यपं इतिवत् ।
 
छृणत्तु त्वा हविः । छृन्धि हविः तृतीयम् । तूष्णीमितराणि । अथैनान् कृष्णाजिन उपनह्य आसजति देवपुरश्चर सघ्यासं त्वा ।
प्रवर्ग्यकर्मारम्भः :-
प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्ति द्वाराणि परिश्रयन्ति पत्न्याः । पश्चाद्धोतोपविशति, पुरस्तादध्वर्युर्दक्षिणतो ब्रह्मा यजमानः प्रस्तोता च, उत्तरतः प्रतिप्रस्थाताऽग्नीध्रश्च । मन्दतीरुपस्पृश्य । प्रथमेनानुवाकेन शान्तिं कुर्वन्ति ।
पूर्वशान्तिपाठः :-
नमो वाचे या चोदिता या चानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नम ऋषिभ्यो मन्त्रकृद्भ्यो मन्त्रपतिभ्यो मा मामृषयो मन्त्रकृतो मन्त्रपतयः परादुर्माहमृषीन्मन्त्रकृतो मन्त्रपतीं परादां वैश्वदेवीं वाचमुद्यासꣳ शिवामदस्तां जुष्टां देवेभ्यश्शर्म मे द्यौश्शर्म पृथिवी शर्म विश्वमिदं जगत् । शर्म चन्द्रश्च सूर्यश्च शर्म ब्रह्म प्रजापती । भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपो वदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये तस्मा अहमिदमुपस्तरणमुपस्तृण उपस्तरणं मे प्रजायै पशूनां भूयादुपस्तरणमहं प्रजायै पशूनां भूयासं प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टं मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यासꣳ शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनु मदन्तु । ओं शान्तिः शान्तिः शान्तिः ।
प्रवर्ग्यस्य पात्राणामासादनम् :-
प्रथमेनानुवाकेन शान्तिं कृत्वा अग्रेण गार्हपत्यं दर्भान् संस्तीर्य तेषु महावीरानुपावहरति देवपुरश्चर सघ्यासं त्वा । अत्रैव सर्वं परिघर्म्यम् । 1 अथौदुम्बराणि = संराडासन्दीं नितरां, राजासन्द्या वर्षीयसीमेके समामनन्ति । मौञ्जिभी रज्जुभिरेकसराभिर्यु्दताम् । चतस्रस्स्रुचो द्वे अनिष्टुब्धे । निष्टुब्धयोर्वर्षीयस्युपयमनी प्रोक्षणीधान्याः । स्रुवौ शफौ महावीरसंमिताऽऽव्रस्क्यौ । धृष्टी मेथीं मयूखान् षट् शकलान् काण्टकीं च समिधम् । त्रयोदश वैकङकतान् परिधीन्वैकङ्कतानि घर्मेंधनानि । त्रीणि कार्ष्णाजिनानि धवित्राणि शुक्ल कृष्णलोमानि । तेषां वैणवा दण्डा बाहुमात्रा भवन्तीति विज्ञायते । औदुम्बरदण्डानीत्यपरम् । द्वौ रुक्मौ, रजतसुवर्णौ शतमानौ भवतः ।
१. महावीरान् सर्वं परिघर्म्यं च पुरस्तादारभ्य प्रत्यगपवर्गमासादनमिति द्राविडान्ध्रानां सम्प्रदायः । अस्माकं तु प्रागपवर्गाण्युदगपवर्गाणि वा । प्रोक्षणं तु द्राविडाः प्रतीच आरभ्य प्राञ्चं प्रति कुर्वन्ति । आन्ध्राः प्राच आरभ्य प्रतीचः प्रति कुर्वन्ति । अस्माकं तु आसादनवत्प्रोक्षणम् ।
 
अथ मौञ्जानि = वेदौ, तयोरन्यतरः परिवासितः । अभिधानीं निदाने त्रीणि विशाखदामानि । प्रभूतान् मुञ्जप्रलवान् । रौहिणयोः पिष्टान्यफलीकृतानाम् । खरेभ्यस्सिकताः । तूष्णीं पवित्रे कृत्वा मौञ्जे पवित्रे, दर्भमये इत्यपरम् । प्रोक्षणपात्रे निधाय मदन्तीरानीय तूष्णीमुत्पूयाभिमन्त्र्य । ब्रह्मन् प्रवर्ग्येण प्रचरिष्यामः । होतुर्घर्ममभिष्टुहि । अग्नीद्रौहिणौ पुरोडाशावधिश्रय । प्रतिप्रस्थातर्विहर । प्रस्तोतस्सामानि गाय इति संप्रेष्यति ।
ब्रह्मा- यजुर्युक्तꣳ सामभिराक्तखं त्वा । विश्वैर्देवैरनुमतं मरुद्भिः । दक्षिणाभिः प्रततं पारयिष्णुम् । स्तुभो वहन्तु सुमनस्यमानम् । स नो रुचं धेह्यहृणीयमानः । भूर्भुवस्सुवः उपांशूक्त्वा । ओं३ इन्द्रवन्तः प्रचरत इत्युच्चैरनुजानाति ।
प्रवर्ग्यपात्राणां प्रोक्षणम् :-
अध्वर्युः :- यमाय त्वा मखाय त्वा । सूर्यस्य हरसे त्वा सर्वं परिघर्म्यमभिपूर्वं त्रिः प्रोक्षति । सकृन्मन्त्रेण द्विस्तूष्णीम् । प्रोक्षितानि व्यायातयति1 । अधिश्रयत्याग्नीध्रो रौहिणौ पुरोडाशौ तूष्णीमुपचरितौ । धृष्ट्यादानादि भस्माध्यूहनपर्यन्तं, नात्र पात्र्यां संवापः मदन्तीभिः संयवनम् । अत्र प्रतिप्रस्थाता दर्विहोमसंस्कारेणाज्यं संस्करेति । अपरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामित्यादि पवित्रानुप्रहरणान्तं करोति । गार्हपत्ये दध्यधिश्रयति । दधि चाधिश्रित्योत्पूय पवित्रेऽनुप्रहरति । अध्वर्युः संराडासन्दीमादायाग्रेणाहवनीयं पर्याहृत्य पुरस्ताद्राजासन्द्यास्सादयति । तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नप्रचरणीयौ महावीरावुपावहरति । देव पुरश्चर सघ्यासं त्वा द्विः । अथैतां मेथीं मयूखान् विशाखदामानीत्यादायाग्रेण होतारं जघनेन गार्हपत्यं दक्षिणया द्वारोपनिर्हृत्य दक्षिणेन दक्षिणं द्वारं मेथीं निहन्ति, होतुस्समीक्षायै । एतस्यैव द्वारस्य पूर्वस्यै द्वार्यायै दक्षिणतो वत्साय शङ्कुं, एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजाया अभ्यन्तरमुत्तरतो बर्कराय । तेषु विशाखदामानि व्यायातयति । तान्येव व्यायातितानि भवन्ति आ उद्वासनात् तैरेनान् काले बध्नन्ति । ततः खरानुपवपति । उत्तरेण गार्हपत्यमेकम् । उत्तरेणाहवनीयमेकम् । उत्तरपूर्वं द्वारं प्रत्युच्छिष्टखरं करोति बाह्यतो निष्षेचनवन्तम् । प्रतिप्रस्थाता उत्तरेणाहवनीयं शृतदध्यासादयति । षट्छकलान् काण्टकीं च समिधम् ।
महावीरस्य संमार्जनमाज्याहुतीश्च :-
अध्वर्युः :- अर्थतं प्रचरणीयं महावीरं शफाभ्यां परिगृह्याप्रच्छिन्नाग्रेण वेदेन आहवनीयस्योपरिष्टात्संमार्ष्टि देव पुरश्चर सघ्यासं त्वा । अथाज्याहुतीर्जुहोति । प्राणाय स्वाहा । प्राणायेदम् । व्यानाय स्वाहा । व्यानायेदम् । अपानाय स्वाहा । अपानायेदम् । चक्षुषे स्वाहा । चक्षुष इदम् । श्रोत्राय
१. विभज्य गमयति इत्यर्थः ।
 
स्वाहा । श्रोत्रायेदम् । मनसे स्वाहा । मनस इदम् । वाचे सरस्वत्यै स्वाहा । वाचे सरस्वात्या इदम् । दक्षाय स्वाहा । दक्षायेदम् । क्रतवे स्वाहा । क्रतव इदम् । ओजसे स्वाहा । ओजस इदम् । बलाय स्वाहा । बलायेदम् । स्रुवेणाहवनीये सप्तैकादश वा आज्याहुतीर्हुत्वा ।
महावीरस्य समञ्जनं प्रतिष्ठापनं आज्यपूरणं च :-
देवस्त्वा सविता मध्वानक्तु समञ्जनस्रुवेण उपर्याहवनीये महावीरमङ्क्त्वा 1[२] । पृथिवीं तपसस्त्रायस्व अपरस्मिन् खरे राजतं रुक्मं निधाय 2[३]। खरसमीपे महावीरं प्रतिष्ठाप्य अन्यस्मै वा प्रदाय द्वयान्मुञ्जप्रलवानादाय दक्षिणेषामग्राणि । अर्चिषे त्वा गार्हपत्ये प्रदीपयति । तेषामग्रैरुत्तरेषां मूलानि शोचिषे त्वा प्रदीपयति । तेषां मूलैर्दक्षिणेषां मूलानि ज्योतिषे त्वा प्रदीपयति । तेषां मूलैरुत्तरेषामग्राणि तपसे त्वा प्रदीपयति । तान् व्यत्यस्तान् । अर्चिरसि शोचिरसि ज्योतिरसि तपोऽसि उपरि रुक्मे निदधाति । सꣳसीदस्व महाꣳ असि शोचस्व देववीतमः । विधूममग्ने अरुषं मियेध्य सृज प्रशस्तदर्शतम् तेषु महावीरं प्रतिष्ठाप्य । अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः । पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयं न सादीत् आज्येनाभिपूरयति । अध्यधि महावीरमसंस्पृशन् यजमानः प्राञ्चं प्रादेशं धारयमाणो जपति अनाधृष्या पुरस्तात् । अग्नेराधिपत्ये । आयुर्मे दाः पुरस्तात् । पुत्रवती दक्षिणतः । इन्द्रस्याधिपत्ये । प्रजां मे दाः दक्षिणतः । सुषदा पश्चात् । देवस्य सवितुराधिपत्ये । प्राणं मे दाः पश्चात् । आश्रुतिरुत्तरतः । मित्रावरुणयोराधिपत्ये । श्रोत्रं मे दाः उत्तरतः । विधृतिरुपरिष्टात् । बृहस्पतेराधिपत्ये । ब्रह्म मे दाः क्षत्रं मे दाः । तेजो मे धा वर्चो मे धाः । यशो मे धास्तपो मे धाः । मनो मे धाः इत्युपरिष्टात् 3[४]। मनोरश्वासि भूरिपुत्रा । विश्वाभ्यो मा नाष्ट्राभ्यः पाहि । सूपसदा मे भूया मा मा हिꣳसीः उत्तरतः पृथिवीमभिमृशति ।
अङ्गारैः पर्यूहणं, परिधिभिः परिधानम् :-
अध्वर्युः प्रतिप्रस्थाता च सिद्ध्यै त्वा द्विः धृष्टी आदत्तः । तपोष्वग्ने अन्तराꣳ अमित्रान् । तपाशꣳसमररुषः परस्य । तपावसो चिकितानो अचित्तान् । वि ते तिष्ठन्तामजरा अयासः गार्हपत्यादुदिचोऽङ्गारान्निरूह्य । चितः स्थ परिचितः । स्वाहा मरुद्भिः परिश्रयस्व प्रदक्षिणमङ्गारैः पर्यूह्य वैकङ्कतैः परिधिभिः परिधत्तः । मा असि, मा असि प्राञ्चावध्वर्युर्निदधाति । प्रमा असि, प्रमा असि उदञ्चौ प्रतिप्रस्थाता । प्रतिमा असि, प्रतिमा असि पूर्ववददध्वर्युः । संमा असि, संमा
१. एतस्मिन् काले प्रस्तोता शार्ङसाम गायति । २. एतस्मिन् काले प्रस्तोता शुक्रसाम गायति । ३. एतस्मिन् काले प्रस्तोता घर्मतनूसाम गायति ।
 
असि पूर्ववत्प्रतिप्रस्थाता । विमा असि, विमा असि पूर्ववदध्वर्युः । उन्मा असि, उन्मा असि पूर्ववत्प्रतिप्रस्थाता अन्तरिक्षस्यान्तर्धिरसि अध्वर्युरेव दक्षिणतः त्रयोदशं निदधाति ।
सौवर्णेन रुक्मेणापिधानं, अभिमन्त्रणं, उपवाजनं च :-
दिवं तपसस्त्रायस्व सौवर्णेन रुक्मेणापिधाय 1[५]। आभिर्गीर्भिर्यदतो न ऊनमा प्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम ॥ शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥ अर्हन् बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम् । अर्हन्निदं दयसे विश्वमब्भुवं न वा ओजीयो रुद्र त्वदस्ति इति तिसृभिरभिमन्त्र्य । धवित्राण्यादत्ते । गायत्रमसि प्रथमम् । त्रैष्टुभमसि द्वितीयम् । जागतमसि तृतीयम् । तैरेनं त्रिरूर्ध्वमुपवाजयति मधु, मधु, मधु । तेषामेकं प्रतिप्रस्थात्रे प्रयच्छति । एकमाग्नीध्राय । आग्नीध्रप्रथमास्त्रिः प्रदक्षिणमूर्ध्वं धून्वन्तः परियन्ति । तमभिमुखाः पर्युपविशन्ति । पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थाता उत्तरत आग्नीध्रः । अव्यतिषङ्गं ऊर्ध्वं धून्वन्तो होतृप्रणवैस्संराधयन्त इन्धानास्समञ्जन्तो वाग्यता आसते । प्रज्वलिते रुक्ममपादत्त इति विज्ञायते ।
महावीरस्याभिमन्त्रणम् :-
यत्राभिजानाति याभिर्वर्तिकां ग्रसिताममुञ्चतमिति तदध्वर्युर्महावीरमभिमन्त्रयते । दश प्राचीर्दश भासि दक्षिणा । दश प्रतीचीर्दश भास्युदीचीः । दशोर्खा भासि सुमनस्यमानः । स नो रुचं धेह्यहृणीयमानः ॥ अग्निष्ट्वा वसुभिः पुरस्ताद्रोचयतु गायत्रेण छन्दसा । स मा रुचितो रोचय ॥ इन्द्रस्त्वा रुद्रैर्दक्षिणतो रोचयतु त्रैष्टुभेन छन्दसा । स मा रुचितो रोचय ॥ वरुणस्त्वादित्यैः पश्चाद्रोचयतु जागतेन छन्दसा । स मा रुचितो रोचय ॥ द्युतानस्त्वा मारुतो मरुद्भित्तरतो रोचयत्वानुष्टुभेन छन्दसा । स मा रुचितो रोचय ॥ बृहस्पतिस्त्वा विश्वैर्देवैरुपरिष्टाद्रोचयतु पाङ्क्तेन छन्दसा । स मा रुचितो रोचय ॥ रोचितस्त्वं देव घर्म देवेष्वसि । रोचिषीयाहं मनुष्येषु । संराड्घर्म रुचितस्त्वं देवेष्वायुष्माᳪ、स्तेजस्वी ब्रह्मवर्चस्यसि ॥ रुचितोऽहं मनुष्येष्वायुष्माᳪ、 स्तेजस्वी ब्रह्मवर्चसी भूयासम् ॥ रुगसि । रुचं मयि धेहि । मयि रुक्॥ दश पुरस्ताद्रोचसे । दश दक्षिणा । दश प्रत्यङ् । दशोदङ्ङ् । दशोर्ध्वो भासि सुमनस्यमानः । स नः सम्राडिषमूर्जं धेहि । वाजी वाजिने पवस्व । रोचितो घर्मो रुचीय इत्यनुवाकेन ।
१. एतस्मिन् काले प्रस्तोता चन्द्रसाम गायति ।
 
यत्राभिजानात्यप्नस्वतीमश्विना वाचमस्मे इति तदुपोत्तिष्ठन्नध्वर्युराह रुचितो घर्मः इति 1[६] । अध्वर्युप्रथमाः अनभिधून्वन्तस्त्रिः प्रतिपरियन्ति । धवित्राण्यादायाध्वर्युः प्रतिप्रस्थात्रे प्रयच्छति । तानि प्रतिप्रस्थाता अग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्यां सादयति ।
महावीरस्यावेक्षणम् :-
यथालोकमवस्थाय सर्व ऋत्विजो यजमानश्चाधीयन्तो महावीरमवेक्षन्ते । अपश्यं गोपामनिपद्यमानम् । आ च परा च पथिभिश्चरन्तम् । स सध्रीचीस्स विषूचीर्वसानः । आ वरीवर्ति भुवनेष्वन्तः । अत्र प्रावीः । मधु माध्वीभ्यां मधु माधूचीभ्याम् । अनु वां देववीतये । समग्निरग्निनागत । सं देवेन सवित्रा । सꣳ सूर्येण रोचते । स्वाहा समग्निस्तपसागत । सं देवेन सवित्रा । सꣳ सूर्येणारोचिष्ट । धर्ता दिवो विभासि रजसः । पृथिव्या धर्ता । उरोरन्तरिक्षस्य धर्ता । धर्ता देवो देवानाम् । अमर्त्यस्तपोजाः । हृदे त्वा मनसे त्वा । दिवे त्वा सूर्याय त्वा । ऊर्ध्वमिममध्वरं कृधि । दिवि देवेषु होत्रा यच्छ । विश्वासां भुवां पते । विश्वस्य भुवनस्पते । विश्वस्य मनसस्पते । विश्वस्य वचसस्पते । विश्वस्य तपसस्पते । विश्वस्य ब्रह्मणस्पते । देवश्रूस्त्वं देव घर्म देवान् पाहि । तपोजां वाचमस्मे नि यच्छ देवायुवम् । गर्भो देवानाम् । पिता मतीनाम् । पतिः प्रजानाम् । मतिः कवीनाम् । सं देवो देवेन सवित्रा यतिष्ट । सꣳ सूर्येणारुक्त । आयुर्दास्त्वमस्मभ्यं घर्म वर्चोदा असि । पिता नोऽसि पिता नो बोध । आयुर्धास्तनूधाः पयोधाः । वर्चोदा वरिवोदा द्रविणोदाः । अन्तरिक्षप्र उरोर्वरीयान् । अशीमहि त्वा मा मा हिꣳसीः । त्वमग्ने गृहपतिर्विशामसि । विश्वासां मानुषीणाम् । शतं पूर्भिर्यविष्ठ पाह्यꣳहसः । समेद्धारꣳ शतꣳ हिमाः । तन्द्राविणꣳ हार्दिवानम् । इहैव रातयस्सन्तु इत्यन्तेन । परिश्रिते प्रतिप्रस्थाता पत्नीं वाचयति त्वष्टीमती ते सपेय । सुरेता रेतो दधाना । वीरं विदेय तव सन्दृशि । माहꣳ रायस्पोषेण वियोषम् ।
रौहिणपुरोडाशयोः आसादनम् :-
अध्वर्युस्संप्रेष्यति अग्नीद्रौहिणौ पुरोडाशावासादय । आग्नीध्रः अङ्गारापोह- नाद्यभिघारणान्तं कृत्वा अनुष्टुब्धयोस्स्रुचोरुपस्तीर्णाभिघारितौ पुरोडाशावासादयति । स्रुचौ गृहीत्वाऽग्रेण होतारं पर्याहृत्य दक्षिणं परिधिसन्धिमन्वेकमुत्तरं परिधिसन्धिमन्वितरम् ।
दोहनम् :-
१. एतस्मिन् काले प्रस्तोता घर्मरोचनमिन्द्ररोचनं वा साम गायति ।
 
अध्वर्युः :- देवस्य त्वा --- आददे रशनामादाय । अदित्यै रास्नासि अभिमन्त्र्य । पूर्वया द्वारोपनिर्हृत्य । त्रिरुपांशु घर्मदुघमाह्वयति । इड एहि, अदित एहि, सरस्वत्येहि प्रत्येत्य दोग्ध्रे निदाने इत्यादाय दक्षिणया द्वारोपनिष्क्रम्य । गङ्ग ए३हि इति त्रिरुच्चैराह्वयति । अदित्या उष्णीषमसि रशनया घर्मदुघमभिदधाति । वायुरस्यैडः वत्सम् । पूषा त्वोपावसृजतु । अश्विभ्यां प्रदापय इत्युपावसृज्य 1[७] । यस्ते स्तनश्शशयो यो मयोभूः । येन विश्वा पुष्यसि वार्याणि । यो रत्नधा वसुविद्यस्सुदत्रः । सरस्वति तमिह धातवेऽकः घर्मदुघमभिमन्त्रयते । उस्र घर्मꣳ शिꣳषोर घर्मं पाहि घर्माय शिꣳष निदाय 2 वत्सम् । बृहस्पतिस्त्वोपसीदतु उपसीदति । दानवस्थ पेरवः विश्वग्वृतो लोहितेन स्तनान्त्संमृश्य । अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व पूष्णे पिन्वस्व बृहस्पतये पिन्वस्व इन्द्राय पिन्वस्वेन्द्राय पिन्वस्व वर्षीयसि दोग्ध्रे दोग्धि । तूष्णीं प्रतिप्रस्थाता ह्रसीयस्यजाम् । यत्राभिजानात्युत्तिष्ठ ब्रह्मणस्पत इति तदुपोत्तिष्ठन्तावग्नीधे पयसी प्रदाय पूर्वावतिद्रुत्य ।
शफोपयमनयोः आदानं, महावीरे पयसोरवनयनम् :-
अध्वर्युः – गायत्रोऽसि शफमादत्ते । त्रैष्टुभोऽसि द्वितीयम् । प्रतिप्रस्थाता जागतमसि उपयमनमादत्ते । यत्राभिजानात्युपद्रव पयसा गोधुगिति तदाग्नीध्रो अनुप्रपद्यते । अध्वर्युः - सहोर्जो भागेनोपमेहि पय आह्रियमाणं प्रतीक्षते 3[८] । इन्द्राश्विना मधुनस्सारघस्य । घर्मं पात वसवो यजता वट् महावीरे गोपय आनयति 4[९]। स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमि उद्यन्तमूष्माणमनुमन्त्रयते । यजमानः – इन्द्रायाश्विभ्यामिदम् । सूर्यस्य रश्मय इदम् । प्रतिप्रस्थाता – मधु हविरसि महावीरे अजापय आनयति 5। अग्नये स्विष्टकृत इदम् । सूर्यस्य तपस्तप उद्यन्तमूष्माणमनुमन्त्रयते ।
स्कन्नप्रायश्चित्तम् :-
घर्मे स्कन्ने अस्कान् द्यौः पृथिवीम् । अस्कानृषभो युवा गाः । स्कन्ने मा विश्वा भुवना । स्कन्नो यज्ञः प्रजनयतु । अस्कानजनि प्राजनि । आ स्कन्नाज्जायते वृषा । स्कान्नात्प्रजनिषीमहि स्कन्नमभिमन्त्र्य । भूपतये स्वाहा इति प्राञ्चं प्रादेशं मिमीते । भुवनपतये स्वाहा इति दक्षिणम् । भूतानां पतये स्वाहा इति प्रत्यञ्चम् । भूत्यै स्वाहा इत्युदञ्चम् । भूर्भुवस्सुवः इत्यूर्ध्वम् । भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा इति स्कन्नमनुमन्त्रयते । मा नो घर्म व्यथितो विव्यथो नः । मा नः परमधरं मा रजोनैः । मोष्वस्माᳪ、स्तमस्यन्तरा धाः । मा रुद्रियासो अभिगुर्वृधा नः । मा नः क्रतुभिर्हीडितेभिरस्मान् । द्विषा सुनीते मा परादाः । मा
१. एतस्मिन् काले प्रस्तोता धेनुसाम गायति । २. बध्वा
३. एतस्मिन् काले प्रस्तोता पयस्साम गायति ।
४. एतस्मिन् काले प्रस्तोता सिन्धुसाम गायति ५. अध्वर्युरेव आनयतीति द्रा. प्र
२. बध्वा
 
नो रुद्रो निर्ऋतिर्मा नो अस्ता । मा द्यावापृथिवी हीडिषाताम् । उप नो मित्रावरुणाविहावतम् । अन्वादीध्याथामिह नस्सखाया । आदित्यानां प्रसितिर्हेतिः । उग्रा शतापाष्ठाघविषा परि णो वृणक्तु ॥ इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ॥ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्युरुशꣳस मा न आयुः प्रमोषीः ॥ त्वन्नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः । यजिष्ठो वह्नितमश्शोशुचानो विश्वा द्वेषाꣳसि प्रमुमुग्ध्यस्मत् ।। स त्वन्नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणꣳ रराणो वीहि मृडीकꣳ सुहवो न एधि इति चतसृभिः घर्ममभिमन्त्र्य । पिष्टोदकेन महावीरं शीतीकृत्य ।
होमार्थं महावीरस्य नयनम् :-
द्यावापृथिवीभ्यां त्वा परिगृह्णामि शफाभ्यां परिगृह्य प्रच्छिन्नाग्रेण वेदेन भस्म प्रमृज्य 1[१०] । अन्तरिक्षेण त्वोपयच्छामि उपयमनेन प्रतिप्रस्थातोपयच्छति । देवानां त्वा पितृणामनुमतो भर्तुꣳ शकेयम् अध्वर्युः उपयमनेन सहादायोत्थाय । तेजोऽसि तेजोऽनु प्रेहि । दिविस्पृङ्मा मा हिꣳसीः । अन्तरिक्षस्पृङ्मा मा हिꣳसीः । पृथिविस्पृङ्मा मा हिꣳसीः । सुवरसि सुवर्मे यच्छ । दिवं यच्छ दिवो मा पाहि हरति । व्रजन्ननवानं पञ्च वातनामानि व्याचष्टे2[११] । समुद्राय त्वा वाताय स्वाहा सलिलाय त्वा वाताय स्वाहानाधृष्याय त्वा वाताय स्वाहाप्रतिधृष्याय त्वा वाताय स्वाहावस्यवे त्वा वाताय स्वाहा । अपान्य पञ्चोत्तराणि । अग्नये त्वा वसुमते स्वाहा । सोमाय त्वा रुद्रवते स्वाहा । वरुणाय त्वाऽऽदित्यवते स्वाहा । बृहस्पतये त्वा विश्वदेव्यावते स्वाहा । सवित्रे त्वर्भुमते विभुमते प्रभुमते वाजवते स्वाहा ।
दक्षिणरौहिणपुरोडाशस्य होमः :-
एतस्मिन्काले प्रतिप्रस्थाता उपयमनमन्यस्मै प्रदाय । दक्षिणं रौहिणं प्रतिष्ठितं जुहोति 3[१२] अहर्ज्योतिः केतुना जुषताꣳ सुज्योतिर्ज्योतिषाᳪ、 स्वाहा । अह्ने ज्योतिष इदम् ।
घर्मस्य होमः :-
अध्वर्युः - अपरेणाहवनीयं दक्षिणातिक्रामन् विश्वा आशा दक्षिणसत् ब्रह्माणमीक्षते । विश्वान्देवानयाडिह होतारम् । स्वाहाकृतस्य घर्मस्य मधोः पिबतमश्विना । स्वाहाग्नये यज्ञियाय शं यजुर्भिः घर्ममभिमंत्र्य । आश्राव्य प्रत्याश्राविते संप्रेष्यति । घर्मस्य यज। अश्विना घर्मं पातꣳ हार्दिवानम् । अहर्दिवाभिरूतिभिः । अनु वां द्यावापृथिवी मꣳसाताम् । स्वाहेन्द्राय स्वाहा वषट्कृते जुहोति । इन्द्रायाश्विभ्यामिदम् । स्वाहेन्द्रावट् अनुवषट्कृते जुहोति 4[१३]। अग्नये स्विष्टकृत
१. एतस्मिन् काले प्रस्तोता वसिष्ठशफयोः साम गायति । २. एतस्मिन् काले प्रस्तोता व्रतपक्षौसाम गायति ३. एतस्मिन् काले प्रस्तोता राजनसाम गायति ।
४. एतस्मिन् काले प्रस्तोता अश्विनोर्व्रते गायति
 
इदम् । घर्ममपातमश्विना हार्दिवानम् । अहर्दिवाभिरूतिभिः । अनु वां द्यावापृथिवी अमꣳसाताम् । तं प्राव्यं यथावट् । नमो दिवे । नमः पृथिव्यै । दिविधा इमं यज्ञम् । यज्ञमिमं दिविधाः । दिवं गच्छ । अन्तरिक्षं गच्छ । पृथिवीं गच्छ । पञ्च प्रदिशो गच्छ । देवान् घर्मपान् गच्छ । पितॄन् घर्मपान् गच्छ इत्यनुवाकशेषेणोपस्थाय । महावीरे दध्नाभिपूरणम् :-
उपर्याहवनीये धार्यमाणं प्रतिप्रस्थाता शृतदध्नाऽभिपूरयति । अध्वर्युः :- इषे पीपिहि । ऊर्जे पीपिहि । ब्रह्मणे पीपिहि । क्षत्राय पीपिहि । अद्भ्यः पीपिहि । ओषधीभ्यः पीपिहि । वनस्पतिभ्यः पीपिहि । द्यावापृथिवीभ्यां पीपिहि । सुभूताय पीपिहि । ब्रह्मवर्चसाय पीपिहि । यजमानाय पीपिहि । मह्यं ज्यैष्ठ्याय पीपिहि विक्षरन्तमनुमन्त्रयते ।
दिग्यागः :-
अथैनं दिशोऽनु प्रहावयति । त्विष्यै त्वा स्वाहा । त्विष्या इदम् । पुरस्ताद्धुत्वा प्रतिप्रस्थातरनु जुहुधीत्याह । तेनैव मन्त्रेण तस्यामेव दिशि प्रतिप्रस्थाता जुहोति । एवं सर्वत्र । द्युम्नाय त्वा स्वाहा दक्षिणतः । द्युम्नायेदम् । इन्द्रियाय त्वा स्वाहा पश्चात् । इन्द्रियायेदम् । भूत्यै त्वा स्वाहा उत्तरतः । भूत्या इदम् । प्रत्याक्रम्य उपयमने शेषमानीय अन्तर्वेद्युपयमनं निधाय पूर्वस्मिन् खरे राजतं रुक्मं निधाय । धर्मासि सुधर्मा मेऽन्यस्मे ब्रह्माणि धारय । नेत्वा वातस्स्कन्दयात् तस्मिन् महावीरं प्रतिष्ठापयति ।
उत्तररौहिणहोमः शकलहोमश्च :-
अत्र प्रतिप्रस्थाता पूर्ववत् उत्तरं रौहिणं जुहोति अहर्ज्योतिः केतुना जुषताꣳ सुज्योतिर्ज्योतिषाꣳ स्वाहा 1। अह्ने ज्योतिष इदम् । अथैतान् षट् शकलानुपयमनेऽञ्जन् जुहोति । पूष्णे शरसे स्वाहा । पूष्णे शरस इदम् । ग्रावभ्यः स्वाहा । ग्रावभ्य इदम् । प्रतिरेभ्यः स्वाहा । प्रतिरेभ्य इदम् । द्यावापृथिवीभ्याᳪ、 स्वाहा । द्यावापृथिवीभ्यामिदम् । प्राचीनावीती – पितृभ्यो घर्मपेभ्यस्स्वाहा । पितृभ्यो घर्मपेभ्य इदम् । यज्ञोपवीत्यप उपस्पृश्य । षष्ठं शकलं सर्वेषु लेपेष्वङ्क्त्वानन्वीक्षमाण उदञ्चन्निरस्यति । रुद्राय रुद्रहोत्रे स्वाहा । रुद्राय रुद्रहोत्र इदम् । अप उपस्पृश्य ।
अग्निहोत्रम् :-
विद्युदसीत्यप उपस्पृश्य । तूष्णीं काण्टकीं समिधमाधाय । प्रजापतय इदम् । एतस्मादेव शेषादुपयमनेनाग्निहोत्रं जुहोति । स्रुचं गृहीत्वा प्राण्यापान्य निमील्याऽवेक्ष्य अभिक्रम्य । ओं भूर्भुवस्सुवः
१. एतस्मिन् काले प्रस्तोता रौहिणसाम गायति ।
 
भूस्स्वाहा । अग्नय इदम् । हुत्वा महदभिवीक्षते । प्रथमामाहुतिं जुहुयात् । ऊर्जे त्वा । ओषधीभ्यस्त्वौषधीर्जिन्व । ओषधीभ्य इदम् । बर्हिषि लेपं निमृज्य । वर्चो मे यच्छ स्रुचं सादयित्वा । अग्ने गृहपते मा मा सन्ताप्सीरात्मन्नमृतमधिषि प्रजा ज्योतिरदब्धेन त्वा चक्षुषा प्रतीक्षे गार्हपत्यं प्रतीक्षते । ओं भूर्भुवस्सुवस्स्वाहा । प्रजापतय इदम् । हुत्वा स्रुचमुद्गृह्य । रुद्र मृडानार्भव मृड धूर्त नमस्ते अस्तु पशुपते त्रायस्वैनम् । रुद्राय पशुपतय इदम् । अप उपस्पृश्य । प्राचीनावीती। ऊर्जे त्वा । स्वधा पितृभ्यः पितॄन् जिन्व । पितृभ्य इदम् । यज्ञोपवीत्यप उपस्पृश्य । प्रजां मे यच्छ 1 । उपयमनं सादयित्वा । वृष्टिरसीत्यप उपस्पृश्य ।
घर्मभक्षणम् :-
उपयमनं होत्रे प्रयच्छति । अथवा तूष्णीमप उपस्पृश्य तूष्णीं काण्टकीं समिधमाधाय भूस्स्वाहेति हुत्वा होने प्रयच्छति । होतरुपह्वयस्व, ब्रह्मन्नुपह्वयस्व, प्रतिप्रस्थातरुपह्वयस्व, अग्नीदुपह्वयस्व, यजमानोपह्वयस्व । एवमेव सर्वे समुपाह्वानं कृत्वा । हुतꣳ हविर्मधु हविः । इन्द्रतमेऽग्नौ । पिता नोऽसि मा मा हिꣳसीः । अश्याम ते देव घर्म । मधुमतो वाजवतः पितुमतः । अङ्गिरस्वतस्स्वधाविनः । अशीमहि त्वा मा मा हिꣳसीः भक्षयति । एवं ब्रह्मादयोऽपि भक्षयेयुः । अपि वा यजमान एव प्रत्यक्षमवघ्रेणेतरे ।
मदन्तीभिः मार्जनं, घर्मप्रायश्चित्तं च :-
भक्षयित्वोपयमनं प्रतिप्रस्थात्रे प्रयच्छति । तदुच्छिष्टकरे प्रक्षाल्याऽन्तर्वेद्युपयमनं निधाय । तस्मिन् रुक्माववधाय मदन्तीरानीयाऽपो हि ष्ठा मयोभुव इति तिसृभिर्माजयित्वाऽन्तर्वेद्यां शेषं निनीयोपयमनेन घर्मप्रायश्चित्तानि जुहोति । प्राणाय स्वाहा । व्यानाय स्वाहा । अपानाय स्वाहा । चक्षुषे स्वाहा । श्रोत्राय स्वाहा । मनसे स्वाहा । वाचे सरस्वत्यै स्वाहा । चतुर्थ्यंता देवताः । पूष्णे स्वाहा । पूष्ण इदम् । पूष्णे शरसे स्वाहा । पूष्णे शरस इदम् । पूष्णे प्रपथ्याय स्वाहा । पूष्णे प्रपथ्यायेदम् । पूष्णे नरन्धिषाय स्वाहा । पूष्णे नरन्धिषायेदम् । पूष्णेऽङ्घृणये स्वाहा । पूष्णेऽङ्घृणय इदम् । पूष्णे नरुणाय स्वाहा । पूष्णे नरुणायेदम् । पूष्णे साकेताय स्वाहा । पूष्णे साकेतायेदम् । व्याहृतीभिर्विहृताभिस्समस्ताभिश्च हुत्वा, ऋक्तो यज्ञभ्रेषप्रायश्चित्तमित्यादि हुत्वा ।
प्रवर्ग्यस्य समाप्तिः :-
अत्रैव सर्वं परिघर्म्यं समवधाय वेद्याम् । घर्माय संसाद्यमानायानुब्रू३हि इति संप्रेष्यति । आ यस्मिन्त्सप्त वासवा इति होतुरभिज्ञाय । स्वाहा त्वा सूर्यस्य रश्मिभ्यः
१. यज्ञोपवीत्यप उपस्पृश्य उपयमनं होत्रे प्रयच्छति । इति अ. ह. पाठः ।
 
अग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्यां सादयति1[१४] । यत्राभिजानात्यद्धि तृणमघ्निये विश्वदानीं इति तद्गामवसृज्य ।
उत्तरशान्तिपाठः :-
मदन्तीरुपस्पृश्य शन्नो वातः पवताम् इति शान्तिं कुर्वंति । शन्नो वातः पवतां मातरिश्वा शं नस्तपतु सूर्यः । अहानि शं भवन्तु नश्शꣳ रात्रिः प्रतिधीयताम् । शमुषा नो व्युच्छतु शमादित्य उदेतु नः । शिवा नश्शन्तमा भव सुमृडीका सरस्वति । मा ते व्योम सन्दृशि । इडायै वास्त्वसि वास्तुमद्वास्तुमन्तो भूयास्म मा वास्तोश्छित्स्मह्यवास्तुस्स भूयाद्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ प्रतिष्ठासि प्रतिष्ठावन्तो भूयास्म मा प्रतिष्ठायाश्छित्स्मह्यप्रतिष्ठस्स भूयाद्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥ आ वात वाहि भेषजं वि वात वाहि यद्रपः । त्वꣳ हि विश्वभेषजो देवानां दूत ईयसे ॥ द्वाविमौ वातौ वात आ सिन्धोरा परावतः । दक्षम्मे अन्य आवातु परान्यो वातु यद्रपः ॥ यददो वात ते गृहेऽमृतस्य निधिर्हितः । ततो नो देहि जीवसे ततो नो धेहि भेषजम् ॥ ततो नो मह आवह वात आवातु भेषजम् । शम्भूर्मयोभूर्नो हृदे प्र ण आयूꣳषि तारिषत् । इन्द्रस्य गृहोऽसि तं त्वा प्रपद्ये सगुस्साश्वः । सह यन्मे अस्ति तेन । भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवस्सुवः प्रपद्ये वायुं प्रपद्येऽनार्तां देवतां प्रपद्येऽश्मानमाखणं प्रपद्ये प्रजापतेर्ब्रह्मकोशं ब्रह्म प्रपद्य ओं प्रपद्ये । अन्तरिक्षम्म उर्वन्तरं बृहदग्नयः पर्वताश्च यया वातस्वस्त्या स्वस्तिमान् तया स्वस्त्या स्वस्तिमानसानि । प्राणापानौ मृत्योर्मा पातं प्राणापानौ मा मा हासिष्टं मयि मेधां मयि प्रजां मय्यग्निस्तेजो दधातु मयि मेधां मयि प्रजां मयीन्द्र इन्द्रियं दधातु मयि मेधां मयि प्रजां मयि सूर्यो भ्राजो दधातु ॥ द्युभिरक्तुभिः परिपातमस्मानरिष्टेभिरश्विना सौभगेभिः । तन्नो मित्रो वरुणो मामहन्तामदितिस्सिन्धुः पृथिवी उत द्यौः ॥ कया नश्चित्र आ भुवदूती सदावृधस्सखा । कया शचिष्ठया वृता ॥ कस्त्वा सत्यो मदानां मꣳहिष्ठो मत्सदन्धसः । दृढा चिदारुजे वसु ॥ अभीषुणस्सखीनामविता जरितॄणाम् । शतं भवास्यूतिभिः ॥ वयस्सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥ शन्नो देवीरभिष्टय आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः ॥ ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् । अपो याचामि भेषजम् ॥
१. एतस्मिन् काले प्रस्तोता आरूढवदाङ्गिरससाम गायति ।
 
सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान्द्वेष्टि यं च वयं द्विष्मः ॥ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वश्शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ पृथिवी शान्ता साग्निना शान्ता सा मे शान्ता शुचꣳ शमयतु । अन्तरिक्षꣳ शान्तं तद्वायुना शान्तं तन्मे शान्तꣳ शुचꣳ शमयतु । द्यौश्शान्ता सादित्येन शान्ता सा मे शान्ता शुचꣳ शमयतु । पृथिवी शान्तिरन्तरिक्षꣳ शान्तिर्द्यौश्शान्तिर्दिशश्शान्तिरवान्तरदिशाश्शान्तिरग्निश्शान्तिर्वायुश्शान्तिरादित्यश्शान्तिश्चन्द्रमाश्शान्तिर्नक्षत्राणि शान्तिरापश्शान्तिरोषधयश्शान्तिर्वनस्पतयश्शान्तिर्गौशान्तिरजा शान्तिरश्वशान्तिः पुरुषश्शान्तिर्ब्रह्म शान्तिर्ब्राह्मणश्शान्तिश्शान्तिरेव शान्तिश्शान्तिर्मे अस्तु शान्तिः । तयाहꣳ शान्त्या सर्वशान्त्या मह्यं द्विपदे चतुष्पदे च शान्तिं करोमि शान्तिर्मे अस्तु शान्तिः । एह श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मोत्तिष्ठन्तमनूत्तिष्ठन्तु मा माᳪ、 श्रीश्च ह्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यं धर्मश्चैतानि मा मा हासिषुः ॥ उदायुषा स्वायुषोदोषधीनाꣳ रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाममृताꣳ अनु ॥ तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ॥ पश्येम शरदश्शतं जीवेम शरदश्शतं नन्दाम शरदश्शतं मोदाम शरदश्शतं भवाम शरदश्शतꣳ शृणवाम शरदश्शतं प्रब्रवाम शरदश्शतमजीतास्स्याम शरदश्शतं ज्योक्च सूर्यं दृशे ॥ य उदगान्महतोऽर्णवाद्विभ्राजमानस्सरिरस्य मध्यात्स मा वृषभो लोहिताक्षस्सूर्यो विपश्चिन्मनसा पुनातु ॥ ब्रह्मणश्चोतन्यसि ब्रह्मण आणी स्थो ब्रह्मण आवपनमसि धारितेऽयं पृथिवी ब्रह्मणा मही धारितमेनेन महदन्तरिक्षं दिवं दाधार पृथिवीꣳ सदेवां यदहं वेद तदहं धारयाणि मा मद्वेदोऽधि विस्रसत् । मेधामनीषे मा विशताꣳ समीची भूतस्य भव्यस्यावरुध्यै सर्वमायुरयाणि सर्वमायुरयाणि ॥ आभिर्गीर्भिर्यदतो न ऊनमा प्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम ॥ ब्रह्म प्रावादिष्म तन्नो मा हासीत् ॥ ओं शान्तिः शान्तिः शान्तिः ॥
उपसत्प्रारम्भः :-
उपसदस्तन्त्रं प्रक्रमयति । आतिथ्याबर्हिरुपसदामग्नीषोमीयस्य च । तदेव प्रस्तरपरिधि । यां जाता इत्यादि । यत्कृष्णो --- ततस्त्वां दशधा । एकाꣳ समिधं यज्ञायुरनुसञ्चराम् । ततो
 

वेदं कृत्वा । परिस्तृणीत, देवा देवेषु, कर्मणे वां इत्यादि । पात्रप्रयोगकाले स्फ्यमग्निहोत्रहवणीमपरतः। स्रुवं जुहूमुपभृतं ध्रुवां वेदमाज्यस्थालीं वेदाग्राणि चेति द्वन्द्वं प्रयुज्य । पवित्रे कृत्वा । उपविष्टे ब्रह्मणि यजमान वाचं यच्छ इति संप्रेष्यति । संविशन्तां पात्राणि संमृशति । यजमानः – अग्निꣳ होतारम् । यज्ञयोगः । अध्वर्युः - प्रोक्षणीस्संस्कृत्य । ब्रह्माणमामन्त्र्य । पात्राणि प्रोक्षति । अत्र वाचं विसृजते । देवस्य त्वेत्यादि । लोमभ्योऽधि1 स्तम्बयजुर्हरति । अवबाढा यातुधाना इत्यन्तं कृत्वा । ब्रह्मन्नुत्तरं परिग्राहम् । ऋतमसि । यज्ञस्य त्वा । धा असि, उदादाय न स्तः । प्रोक्षणीरासादयेध्ममुपसादय स्रुवं च स्रुचश्च संमृड्ढ्याऽज्येनो३देहि । आज्यग्रहणकाले ध्रुवायामेव गृह्णाति सुप्रजास्त्वाय त्वा गृह्णामि इत्यादि । प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य । कृष्णोऽस्याखरेष्ठः इध्मं प्रोक्षति । वेदिरसि इति वेदिं प्रोक्षति । स्वधा पितृभ्य इति प्रोक्षणीशेषं निनीय । अयं प्राणश्च इति प्रस्तरे पवित्रे अपिसृज्य। सूर्यस्त्वा पुरस्तात्पातु इत्याहवनीयमभिमन्त्र्य । युनज्मि त्वा इति यजमानः । वीतिहोत्रं त्वा इति एकामाघारसमिधमाधाय । विशो यन्त्रे स्थः । विच्छिनद्मि । तूष्णीं जुहूपभृतावासाद्य । ध्रुवासि इति ध्रुवामासाद्य । यो मा वाचा इति यजमानः । ऋषभोऽसि । स्योनो मे सीद । इयᳪँ、 स्थाली । एतावसदतां सुकृतस्य लोके तौ विष्णो पाहि --- यज्ञनियम् । विष्ण्वसि वैष्णवं धामासि प्राजापत्यम् । अयं यज्ञो, ममाग्ने चतुर्होतेत्यासन्नाभिमर्शनम् । वेदं निधाय, सामिधेनीभ्यः प्रतिपद्यते । स्रौवमाघारयेत् समानमाप्रवरात् । आश्राव्याह सीद होतः इत्येतावान् प्रवरः । देवाः पितर इति यजमानः 2 । पञ्चहोता च । ध्रौवादष्टौ जुह्वां गृह्णाति । चतुरुपभृति । एकमाप्याय्याऽनाप्याय्य त्रीणि । घृतवतीशब्दे तूष्णीं जुहूपभृतावादाय दक्षिणा संकृदतिक्रान्तः उपांशुयाजवत् प्रचरति । अग्नये, अनुब्रूहि । अग्निम्, यज । अर्धेन जौहवस्याग्निं यजत्यर्धेन सोमम् । अग्नय इदम् । दब्धिरसि । सोमाय, अनुब्रूहि । सोमम्, यज । सोमायेदम् । दब्धिरसि । औपभृतं जुह्वामानीय । विष्णवे, अनुब्रूहि । विष्णुम्, यज । विष्णव इदम् । दब्धिरसि ।
उपसद्धोमः :-
प्रत्याक्रम्य । ध्रौवाज्यं सर्वं स्रुवेणादायोपसदं जुहोति । या ते अग्नेऽयाशया तनूर्वर्षिष्ठा गह्वरेष्ठोग्रं वचो अपावधीं त्वेषं वचो अपावधीᳪ、 स्वाहा । अग्नेरयाशयायै तन्वा इदम् 3 । अग्नीन्मदन्त्यापा इत्येतदादि आ निह्नवात्कृत्वा । सुब्रह्मण्योपाह्वानम् :-
१. बर्हिषामुपरि इत्यर्थः । २. देवाः पितर इति न वा । इति अ,ह पाठः ।
३. अग्नयेऽयाशयायै तन्वा इदं अ. ह. पाठः ।
 

अग्नीद्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यामाह्वय इति संप्रेष्यति । अपरेण गार्हपत्यमाग्नीध्र उपविश्य देवपत्नीर्व्याष्टे । सेनेन्द्रस्य । धेना बृहस्पतेः । पथ्या पूष्णः । वाग्वायोः । दीक्षा सोमस्य । पृथिव्यग्नेः । वसूनां गायत्री । रुद्राणां त्रिष्टुक् । आदित्यानां जगती । विष्णोरनुष्टुक् । वरुणस्य विराट् । यज्ञस्य पङ्क्तिः । प्रजापतेरनुमतिः । मित्रस्य श्रद्धा । सवितुः प्रसूतिः । सूर्यस्य मरीचिः । चन्द्रमसो रोहिणी । ऋषीणामरुन्धती । पर्जन्यस्य विद्युत् । चतस्रो दिशः । चतस्रोऽवान्तरदिशाः । अहश्च रात्रिश्च । कृषिश्च वृष्टिश्च । त्विषिश्चापचितिश्च । आपश्चौषधयश्च । ऊर्क्च सूनृता च देवानां पत्नयः । उत्करे सुब्रह्मण्यामाह्वयति 1 । पूर्ववदेनां यजमानोऽनुमन्त्रयते । सुपूर्वाह्णे पूर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां चरन्ति । स्वपराह्ण आपराह्णिकीभ्याम् ।
प्रवर्ग्योपसदां विशेषाः :-
प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्तीत्यादि । अग्रेण गार्हपत्यं दर्भान् संस्तीर्य । देव पुरश्चरेति महावीरानासादयति । सर्वाणि च प्रवर्ग्यपात्राणि । मेथीं मयूखान् सम्राडासन्दीं विशाखदामानीति वर्जयित्वा । पवित्रकरणादि पूर्ववत् । तस्मिन्नप्रचरणीयौ महावीरावुपावहरतीत्यंतं कृत्वा । उत्तरेणाहवनीयं शृतदध्यासादयतीत्यादि । प्रतिप्रस्थाता :- रात्रिर्ज्योतिः केतुना जुषताꣳ सुज्योतिर्ज्योतिषाᳪ、 स्वाहा । रात्रियै ज्योतिष इदम् । सायं रौहिणं जुहोति । अपीपरो माह्णो रात्रियै मा पाह्येषा ते अग्ने समित्तया समिध्यस्वायुर्मे दा वर्चसा मांजीस्स्वाहा सायं काण्टकीं समिधमादधाति । अह्ने ज्योतिष इदम् । भूर्भुवस्सुवः अग्निर्ज्योतिर्ज्योतिरग्निस्स्वाहा सायमग्निहोत्रं जुहोति । अग्नये ज्योतिष इदम् । इषे त्वा । ओषधीभ्यस्त्वौषधीर्जिन्व बर्हिषि लेपं निमृज्य इत्यादि । स्वाहा त्वा नक्षत्रेभ्यः सायं परिघर्म्यं संम्राडासन्द्यां सादयति । पूर्ववदुपसदं कृत्वा । अग्नीन्मदन्त्यापा इत्यादि । सव्योत्तानैस्तु सायं निह्नवः । अधिवृक्षसूर्ये अग्नीन्ज्योतिष्मतः कुरुतेत्यादि । यदहस्सोमं क्रीणीयुश्चतुरस्सायं दुह्युस्त्रीन् प्रातर्द्वौ सायमेकमुत्तमे । सर्वान् सायमाशिरे । अत्र चतुस्तनं व्रतं यजमानाय प्रयच्छति या ते अग्ने रुद्रिया तनूः इति व्रतयति । जागर्त्येतां रात्रिम् । सन्तिष्ठते द्वितीयमहः ।।
तृतीयदिनस्य कर्मारम्भः :-
उपोदये अग्नीन्ज्योतिष्मतः कुरुतेत्यादि । वाग्विसर्गे कृते पूर्ववत् पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति । अपीपरो मा रात्रिया अह्नो मा पाहि इति समिदाधानम् । भूर्भुवस्सुवः सूर्यो ज्योतिर्ज्योतिस्सूर्यस्स्वाहा इति होमः । या ते अग्ने रजाशया तनूर्वर्षिष्ठा गह्वरेष्ठोऽग्रं वचो अपावधीन्त्वेषं वचो अपावधीᳪ、 स्वाहा इत्युपसद्धोमः । अग्ने रजाशयायै तन्वा इदम् 2 ।
१. छन्दोगमतात् अग्रेण वा प्राग्वंशं सुब्रह्मण्यामाह्वयति इति भाष्यकारः ।
२. अग्नये रजाशयायै तन्वा इदम् । इति अ. ह. पाठः ।
 
वेदिकरणम् :-
अन्तरा मध्यमे प्रवर्ग्योपसदौ वेदिं कुर्वन्ति । प्राग्वंशस्य मध्यमाल्लालाटिकात् त्रीन् प्राचः प्रक्रमान् प्रक्रम्य शङ्कुं निहन्ति । तस्मात्पञ्चदशसु दक्षिणतः एवमुत्तरतः ते श्रोणी । प्रथमनिहताच्छङ्कोष्षट्त्रिंशतिः पुरस्तात् । तस्मात् द्वादशसु दक्षिणतः । एवमुत्तरतः तावंसौ इति शुल्बमानं कृत्वा । विमिमे त्वा पयस्वतीन्देवानां धेनुꣳ सुदुघामनस्फुरन्तीम् । इन्द्रस्सोमं पिबतु क्षेमो अस्तु नः इति पुनर्मानं कृत्वा । सर्वतः स्यन्द्यया 1 पर्यातनोति । मध्ये पृष्ठ्याम् । इमान्नराः कृणुत वेदिमेत्य वसुमतीꣳ रुद्रवतीमादित्यवतीं वर्ष्मं दिवो नाभा पृथिव्या यथाऽयं यजमानो न रिष्येद्देवस्य सवितुस्सवे संप्रेष्यति । स्फ्येन विघनेन पर्श्वा परशुना च सर्वे अध्वर्यवो वेदिं कुर्वन्ति । वेदिकरणानि प्रज्ञातं निधाय । त्वया वेदिमिति वेदं कृत्वा । स्फ्यादानादि दर्शपूर्णमासवत्सन्नमनवर्जं प्रागुत्तरात्परिग्राहात्करोति । उपरवदेशे स्तम्बयजुर्हरणम् । ऋतमसीति पूर्वपरिग्रहः । उत्तरस्माद्वेद्यंसादुदक्प्रक्रमे चात्वालः । चतुरस्रोऽवटाकारः । उत्तरवेदिपरिमितः । चात्वालाद्द्वादशसु प्रक्रमेषु प्रत्यगुत्करः । तस्मिन्निवपति । चतुश्शिखण्डा युवतिस्सुपेशा घृतप्रतीका भुवनस्य मध्ये । तस्याꣳसुपर्णावधि यौ निविष्टौ तयोर्देवानामधि भागधेयम् वेदिमभिमन्त्र्य । अथोत्तरवेदिमुपवपति । वित्तायनी मेऽसि इत्यादि दक्षिणतो निस्सारणान्तं कृत्वा ।
[ तद्यथा = अपरेण यूपावटदेशं सञ्चरमवशिष्य वेद्यां शम्यामात्रीमुत्तरवेदिं करोति । शम्यां पुरस्तादुदगग्रान्निधाय । स्फ्येनोदीचीमभ्यन्तरं परिलिखति वित्तायनी मेऽसि। अप उपस्पृश्य । एवं दक्षिणतः प्राचीं तिक्तायनी मेऽसि । पश्चादुदीचीं अवतान्मा नाथितम् । उत्तरतः प्राचीं अवतान्मा व्यथितम् ।
चात्वालकरणं, उत्तरवेदिकरणं च :-
उत्तरस्माद्वेद्यंसादुदक्प्रक्रमे चात्वालः । तमुत्तरवेदिवत्तूष्णीं शम्यया परिमित्य देवस्य त्वा --- हस्ताभ्यामाददेऽभ्रिरसि नारिरसि अभ्रिमादाय । परिलिखितꣳ रक्षः परिलिखिता अरातय इदमहꣳ रक्षसो ग्रीवा अपि कृन्तामि योऽस्मान्द्वेष्टि यं च वयं द्विष्म इदमस्य ग्रीवा अपि कृंतामि त्रिः प्रदक्षिणं परिलिख्य । तूष्णीं जानुदघ्नं त्रिवितस्तं वा खात्वोत्तरवेद्यर्थान्पांसून हरति विदेरग्निर्नभो नामाग्ने अङ्गिरो योऽस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे । सिꣳहीरसि महिषीरसि उत्तरवेद्यां निवपति । एतेनैव विदेरग्निर्नभो नामाग्ने अङ्गिरो यो द्वितीयस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे इति द्वितीयम् ।
१. स्पन्द्यया इति अ. ह पाठः । द्विगुणेन शुल्बेन इत्यर्थः ।
 
विदेरग्निर्नभो नामाग्ने अङ्गिरो यस्तृतीयस्यां पृथिव्यामस्यायुषा नाम्नेहि यत्तेऽनाधृष्टं नाम यज्ञियं तेन त्वाऽऽदधे इति तृतीयम् । तूष्णीं चतुर्थं हृत्वा । सिꣳहीरसि महिषीरसि इति निवपति । उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् प्रथयित्वा । ध्रुवासि शम्यया संहत्य । देवेभ्यः कल्पस्व अभिमन्त्र्य । देवेभ्यश्शुन्धस्व अद्भिरवोक्ष्य । देवेभ्यश्शुम्भस्व सिकताभिरवकीर्य । प्रोक्षणीशेषमुत्तरत उत्तरवेद्यै निनीय । आपो रिप्रं निर्वहत स्फ्येनोदीचीमेकस्फ्यां निस्सार्य । विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् । वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा विराजति उत्तर वेद्या अन्तान्त्संमृशति । अथास्या मध्ये प्रादेशमात्रीं गोपदमात्रीमश्वशफमात्रीं वोत्तरनाभिं चतुस्स्रक्तिं कृत्वा । चतुश्शिखण्डे युवती कनीने घृतप्रतीके भुवनस्य मध्ये । तयोर्देवा अधि सं वसन्त उत्तमे नाक इह मादयन्ताम् उभे अभिमन्त्र्य । इन्द्रघोषस्त्वा वसुभिः पुरस्तात्पातु पुरस्तात्प्रत्यङतिष्ठन्नुत्तरवेदिं प्रोक्षति । मनोजवास्त्वा पितृभिर्दक्षिणतः पातु दक्षिणतः । प्रचेतास्त्वा रुद्रैः पश्चात्पातु पश्चात् । विश्वकर्मा त्वादित्यैरुत्तरत: पातु उत्तरतः । त्वष्टा त्वा रूपैरुपरिष्टात्पातु मध्यम् । प्रोक्षणीशेषं दक्षिणत उत्तरवेद्यै निनयेत् शुचा त्वार्पयामि पाप्मन् । आपो रिप्रं निर्वहत। पूर्ववदेकस्फ्यां दक्षिणतो निस्सार्य । ] _
वेदिकरणकाले ब्रह्मा दक्षिणत आस्ते यजमानश्च । उदुम्बरशाखाभिः प्लक्षशाखाभिर्वा प्रच्छन्ना वसति । अत्र त्रिस्तनव्रतं यजमानाय प्रयच्छति । ततो गार्हपत्ये दीक्षितस्य व्रतं श्रपयतीत्यादि नाभ्यभिमर्शनान्तम् । या ते अग्ने रुद्रिया तनूः इति व्रतयति । ततो यूपकर्म । उरु विष्णो विक्रमस्वेत्यादि चषालकरणान्तं पशुवत् ।
यूपाहरणम् :-
[ तद्यथा = स्रुवेणाहवनीये यूपाहुतिं जुहोति उरु विष्णो विक्रमस्वोरु क्षयाय न: कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर स्वाहा । विष्णव इदम् । स्रुवमाज्यशेषं चाध्वर्युरादत्ते । तक्षा शस्त्रम् । यत्र यूपस्तद्यन्ति । यूप्यावृक्षाः पलाशखदिरबिल्वरौहीतकाः । समे जातमशाखाजं बहुपर्णशाखमप्रतिशुष्काग्रमसुशिरमव्यावृत्तमघूर्णमृजुमूर्ध्वमूर्ध्वशकलमग्रे ईशदुपावनतं प्रागुदक् प्रत्यग्वोपनतम् । न दक्षिणावनतम् । अतिक्रम्य यूप्यान् यं जोषयते तमभिमन्त्रयते अत्यन्यानगान्नान्यान्नुपागामर्वाक्त्वा परैरविदं परोऽवरैः । अथैनमुपस्पृशति तं त्वा जुषे वैष्णवं देवयज्यायै । देवस्त्वा सविता मध्वानक्तु स्रुवेण सर्वतो मूलं प्रदक्षिणं पर्यणक्ति । ओषधे त्रायस्वैनम् ऊर्ध्वाग्रं दर्भमन्तर्धाय । स्वधिते मैनꣳ हिꣳसीः स्वधितिना प्रहरति । प्रथमपरापातिनं शकलमाहरति । तं प्रज्ञातं निदधाति । गुल्फदघ्ने वृश्चेज्जानुदघ्नेऽनक्षसङ्गं वा । दिवमग्रेण मा लेखीरन्तरिक्षं मध्येन मा हिꣳसीः
 
पृथिव्या संभव प्राञ्चं पातयति । वनस्पते शतवल्शो वि रोह स्वाहा आव्रश्चने जुहोति । वनस्पतय इदम् । सहस्रवल्शा वि वयꣳ रुहेम आत्मानं प्रत्यभिमृश्याप उपस्पृश्य । यं त्वा यᳪँ、 स्वधितिस्तेऽतिजानः प्रणिनाय महते सौभगाय अन्वग्रम(?)श्छिनत्ति । एकं, द्वे, त्रीणि, चत्वारि, पञ्च, अच्छिन्नो रायस्सुवीरः अग्रं परिवासयति । पञ्चारत्निर्मूलतोऽतष्टमुपरम् । अष्टाश्रिरनुपूर्वोऽग्रतोऽणीयान्प्रज्ञाताग्निष्ठाश्श्रिरस्थूलोऽनणुः । अवतक्षणानां स्वरुरधिमन्थनश्च शकलः । अग्राच्चषालं पृथमात्रमष्टाश्रि मध्ये सन्नतम् । यावदुत्तममङ्गुलिकाण्डं तावदूर्ध्वं चषालाद्यूपस्यातिरिक्तं द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं वा । ]
प्रवर्ग्योपसदां विशेषाः :-
आपराह्णिकीभ्यां प्रचर्य । अग्नीन्ज्योतिष्मतः कुरुतेत्यादि । अत्र द्विस्तनव्रतं यजमानाय प्रयच्छति । व्रतानन्तरं यजमानः अग्ने त्वꣳ सुजागृहि वयꣳ सुमन्धिषीमहि गोपाय नस्स्वस्तये प्रबुधे नः पुनर्ददः स्वप्स्यन्नाहवनीयमभिमन्त्रयते । दक्षिणेनाहवनीयं प्राङ शेते । न न्यङ् नोत्तानो नाग्नेरपपर्यावर्तेत । यद्यपपर्यावर्तेत त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा । त्वं यज्ञेष्वीड्यः प्रबुध्याभिमन्त्र्य । विश्वे देवा अभि मा माववृत्रन् जपति । पुनर्मनः पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरोऽदब्धस्तनूपा अव बाधतां दुरितानि विश्वा इति च मुष्टी वाचं वा विसृज्य । अदीक्षितवादं वोदित्वा । त्वमग्ने व्रतपा असि इत्याहवनीयमभिमन्त्रयते । सन्तिष्ठते तृतीयमहः ।
उपोदये प्रतिप्रस्थाता वाचं यमयति । अग्नीन्ज्योतिष्मतः कुरुतेत्यादि वाग्विसर्जनान्तम् । पौर्वाह्णिकीभ्यां प्रचरन्ति । अहर्ज्योतिः इति रौहिणौ जुहोति । अपीपरो मा रात्रिया इति समिदमाधाय । सूर्यो ज्योतिः इति जुहोति । स्वाहा त्वा सूर्यस्य रश्मिभ्य इति सादयति । या ते अग्ने हराशया तनूः इत्युपसदं जुहोति । अग्नेर्हराशयायै तन्वा इदम् 1 । सुब्रह्मण्यान्ते तदानीमेव आपराह्णिकीभ्यां प्रचरन्ति । रात्रिर्ज्योतिः इति रौहिणौ जुहोति । तृष्णीं समिधमाधाय भूस्स्वाहेत्यग्निहोत्रं जुहोति । स्वाहा त्वा नक्षत्रेभ्य इति सादयति ।
प्रवर्ग्योद्वासनम् :-
सुब्रह्मण्यान्ते प्रवर्ग्यमुद्वासयिष्यन् अग्नीदजां ते ददामि । ब्रह्मन् पष्ठौहीं ते ददामि । होतर्धेनुं ते ददामि । अध्वर्यो रुक्मौ ते ददामि । अथवा तत्तन्निष्क्रयद्रव्यं ते ददामि । अध्वर्युः - अपरं खरं पूर्वस्मिन् खरे न्युप्योच्छिष्टखरं सङ्कृष्योत्तरेणाहवनीयं सम्राडासन्दीं प्रतिष्ठाप्य । तस्यां सर्वं परिघर्म्यं समवधायोपयमन्यां चतुर्गृहीतं गृहीत्वा । घर्म या ते दिवि शुक्। या गायत्रे छन्दसि । या ब्राह्मणे
१. अग्नये हराशयायै तन्वा इदं अ. ह. पाठः ।
 
। या हविर्धाने । तां त एतेनावयजे स्वाहा । घर्मायेदम् । तिष्ठन्नास्यदघ्ने जुहोति । घर्म या तेऽन्तरिक्षे शुक् । या त्रैष्टुभे छन्दसि । या राजन्ये । याग्नीध्रे । तां त एतेनावयजे स्वाहा । घर्मायेदम् । नाभिदघ्ने जुहोति । घर्म या ते पृथिव्याꣳ शुक् । या जागते छन्दसि । या वैश्ये । या सदसि । तां त एतेनावयजे स्वाहा । घर्मायेदम् । जानुदघ्ने जुहोति । अनु नोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतां दाशुषे मयः परिश्रिते प्रतिप्रस्थाता पत्नीमुदानयति । अन्विदनुमते त्वं मन्यासै शं च नः कृधि । क्रत्वे दक्षाय नो हिनु प्र ण आयूꣳषि तारिषः पत्नीसहिताः प्रवर्ग्यकर्तारः प्राग्वंशादुपनिष्क्रामन्ति । अनुहरन्ति मेथीमभ्रिं मयूखान् विशाखदामानि खराविति । दक्षिणत उच्छिष्टखरं परिहरति । एकस्यां पात्र्यामुच्छिष्टखरं निधाय । पात्रं गृहीत्वा जघनेन गार्हपत्यं दक्षिणाग्नेर्दक्षिणतो गत्वा पूर्वया द्वारोपनिष्क्रम्य दक्षिणेन वेदिं गत्वा मार्जालीयदेशे पात्रं निदधाति । खरनेतुराचमनम् । सम्राडासन्द्या द्वावन्तर्वेदि पादौ द्वौ बहिर्वेदि प्रतिष्ठाप्य सम्प्रेष्यति । प्रस्तोतस्साम गाय । सर्वे सहपत्नीकास्त्रिस्साम्नो निधनमुपयन्ति । दिवस्त्वा परस्पायाः । अन्तरिक्षस्य तनुवः पाहि । पृथिव्यास्त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे प्रथमेऽभि प्रव्रजन्ति । अर्धाध्वे द्वितीयं संप्रेष्यति । प्रस्तोतस्साम गाय । ब्रह्मणस्त्वा परस्पायाः । क्षत्रस्य तनुवः पाहि । विशस्त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे द्वितीयेऽभि प्रव्रजन्ति । प्राप्यापरेणोत्तरवेदिं तृतीयं संप्रेष्यति । प्रस्तोतस्साम गाय । प्राणस्य त्वा परस्पायै । चक्षुषस्तनुवः पाहि । श्रोत्रस्य त्वा धर्मणा । वयमनुक्रामाम सुविताय नव्यसे तृतीयेऽभि प्रव्रजन्ति । उत्तरेणोत्तरवेदिं सम्राडासन्दीं प्रतिष्ठाप्य संप्रेष्यति प्रस्तोतर्वार्षाहरं साम गायेष्टाहोत्रीयं साम गाय। इष्टाहोत्रीयस्य साम्नो निधनमुपयन्ति । न वार्षाहरस्य । उदकुम्भमादायाध्वर्युः वल्गुरसि शंयुधायाः । शिशुर्जनधायाः त्रिः प्रदक्षिणमुत्तरवेदिं परिषिञ्चन् पर्येति । निधाय कुम्भं पुनरादाय 1 शं च वक्षि परि च वक्षि त्रिरपरिषिञ्चन् प्रतिपर्येति । चतुस्सक्तिर्नाभिर्ऋतस्य उत्तरवेदिमभिमृश्योत्तरेणोत्तरनाभिं खरौ न्युप्य । सदो विश्वायुश्शर्म सप्रथाः अनुव्यूहति । अप द्वेषो अप ह्वरः । अन्यद्व्रतस्य सश्चिम मार्जालीयदेशे उच्छिष्टखरं न्युप्यानुव्यूहति । आचम्य । उत्तरेणोत्तरनाभिं खरे हिरण्यं निधाय तस्मिन् प्रचरणीयं महावीरमुपावहरति । अत्रैवेतरौ पूर्वापरौ दक्षिणोत्तरौ वा । अत्रैव सर्वं परिघर्म्यं सर्वतः परिमण्डलमादित्यस्य रूपं करोति । महीनां पयोऽसि विहितं देवत्रा महावीरे गोपय आनयति । ज्योतिर्भा असि वनस्पतीनामोषधीनाꣳ रसः मध्वानयति । वाजिनं त्वा वाजिनोऽवनयामः । ऊर्ध्वं मनस्सुवर्गम् दध्यानयति । एवं द्वितीये तृतीये चाऽनयति । अपि वा आज्यमेव महीनामिति प्रथमे आनयेत्, मधु द्वितीये, दधि तृतीये ।
१. अकुम्भहस्तः कुम्भहस्तो वा इति पाठान्तरम् ।
 
घर्मैतत्तेन्नमेतत्पुरीषम् । तेन वर्धस्व चाच प्यायस्व । वर्धिषीमहि च वयम् । आ च प्यासिषीमहि दध्ना मधुमिश्रेण पात्राणि पूरयति यान्यासेचनवन्ति । अभ्युक्षतीतराणि । प्रतिपात्रं मन्त्रावृत्तिः । अथैनमुपतिष्ठन्ते रन्तिर्नामासि दिव्यो गन्धर्वः । तस्य ते पद्वद्धविर्धानम् । अग्निरध्यक्षाः । रुद्रोऽधिपतिः । समहमायुषा । सं प्राणेन । सं वर्चसा । सं पयसा । सं गौपत्येन । सꣳ रायस्पोषेण । विपाप्मा । योऽस्मान् द्वेष्टि । यं च वयं द्विष्मः । अचिक्रदद्वृषा हरिः । महान् मित्रो न दर्शतः । सꣳ सूर्येण रोचते । चिदसि समुद्रयोनिः । इन्दुर्दक्षश्श्येन ऋतावा । हिरण्यपक्षश्शकुनो भुरण्युः । महान्त्सधस्थे ध्रुव आ निषत्तः । नमस्ते अस्तु मा मा हिꣳसीः । विश्वावसुꣳ सोम गन्धर्वम् । आपो ददृशुषीः । तदृतेनाव्यायन् । तदन्ववैत् । इन्द्रो रारहाण आसाम् । परि सूर्यस्य परिधीꣳरपश्यत् । विश्वावसुरभि तन्नो गृणातु । दिव्यो गन्धर्वो रजसो विमानः । यद्वाघा सत्यमुत यन्न विद्म । धियो हिन्वानो धिय इन्नो अव्यात् । सस्निमविन्दच्चरणे नदीनाम् । अपावृणोद्दुरो अश्म व्रजानाम् ॥ प्रासां गन्धर्वो अमृतानि वोचत् । इन्द्रो दक्षं परिजानादहीनम् इति पत्नी च परिश्रयणीं विहाय परिश्रयणवेष्टनं प्रस्तोत्रे प्रयच्छति । एतत्वं देवघर्म देवो देवानुपागाः इत्यभिमन्त्र्य । इदमहं मनुष्यो मनुष्यान् । सोमपीथानु मेहि । सह प्रजया सह रायस्पोषेण प्रदक्षिणमावृत्य । सुमित्रा न आप ओषधयस्सन्तु दुर्मित्रास्तस्मै भूयासुर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मः उच्छिष्टखरे मार्जयित्वा । उद्वयं तमसस्परि पश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् इत्यादित्यमुपतिष्ठन्ते । उदुत्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यᳪँ、 स्वाहा ॥ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः । आऽप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस्तस्थुषश्च स्वाहा इति द्वाभ्यां गार्हपत्ये जुहोति । उपतिष्ठन्त इत्येके । इममूषुत्यमस्मभ्यꣳ सनिम् । गायत्रं नवीयाꣳसम् । अग्ने देवेषु प्रवोचस्स्वाहा इत्याहवनीये जुहोति । उपतिष्ठन्त इत्येके ।
॥ इति द्वितीयः प्रश्नः ॥



  1. माश ३.४.२
  2. शार्ङसाम
  3. शुक्रसाम
  4. घर्मतनूसाम
  5. चन्द्रसाम
  6. घर्मरोचनम्
  7. धेनुसाम
  8. पयःसाम
  9. सिन्धुसाम
  10. वसिष्ठशफौ
  11. व्रतपक्षौ
  12. राजनम्
  13. अश्विनोर्व्रते
  14. आरूढवदङ्गिरसं