आनन्दसागरस्तवः

विकिस्रोतः तः
Jump to navigation Jump to search
आनन्दसागरस्तवः
नीलकण्ठ दीक्षित



॥ आनन्दसागरस्तवः ॥

विज्ञापनार्हविरलावसरानवाप्त्या
मन्दोद्यमे मयि दवीयसि विश्वमातुः ।
अव्याजभूतकरुणापवनापविद्धा-
न्यन्तः स्मराम्यहमपाङ्गतरङ्गितानि ॥ १ ॥

आवेद्यतामविदितं किमथाप्यनुक्तं
वक्तव्यमान्तररुजोपशमाय नालम् ।
इत्यर्थ्यसे किमपि तच्छ्रवणे निधातुं
मातः प्रसीद मलयध्वजपाण्ड्यकन्ये ॥२॥

आक्रन्दितं रुदितमाहतमानने वा
कस्यार्द्रमस्तु हृदयं किमतः फलं वा ।
यस्या मनो द्रवति या जगतां स्वतन्त्रा
तस्यास्तवाम्ब पुरतः कथयामि खेदम् ॥ ३ ॥

पर्याकुले मनसि वाचि परिस्खलन्त्यां
आवर्तगर्त इव चक्षिषि घूर्णमाने ।
कस्तेऽभिदास्यति शिवे ममतामवस्थां
काले दयस्व कथयामि तवाधुनैव ॥ ४ ॥

भक्तिं करोतु नितरां सुरजातिमात्रे
ग्रामीणजन्तुरिव पौरजनेषु लोकः ।
अन्यत्र देवि भवदीयपदारविन्दा-
दाकृष्यमाणमपि मे हृदयं न याति ॥ ५ ॥

अङ्गीकुरु त्वमवधीरय वा वयं तु
दासास्तवेति वचसैव जयेम लोकान् ।
एतावतैव सुकरो ननु विश्वमातः
उद्दण्डदण्डधरकिङ्करमौलिभङ्गः ॥ ६ ॥

वेदान्तवाक्यजनितं विमलं विचारैः
आसाद्य बोधमनुचिन्तनतोऽपरोक्षम् ।
मुक्तिं व्रजन्ति मनुजा इति सूक्तिमाद्या-
मालम्ब्य कस्तरितुमर्हति शैलकन्ये ॥ ७ ॥

एकैकवेदविषयाः कति नामशाखा-
स्तासां शिरांसि कति नाम पृथग्विधानि ।
अर्थावबोधविधुरोऽक्षरलाभ एव
केषां नृणां कतिभिरस्तु शरीरबन्धैः ॥ ८ ॥

न्यायाः परस्परविभिन्नदिशः सहस्र-
मुच्छावचानि च भवन्त्युपबृंहणानि ।
एवं स्थिते गिरिसुते निगमोपलानां
तात्पर्यसारमवधारयितुं क्षमः कः ॥ ९ ॥

अस्त्वक्षरग्रहविधिर्जनुषां सहस्रै-
रापाततो भवतु नाम ततोऽर्थबोधः ।
दुर्वादिकल्पितविकल्पतरङ्गसान्द्रान्
दुष्पूर्वपक्षजलधीन् कथमुत्तरेयः ॥ १० ॥

ब्रह्मेति शक्तिरिति बन्धविमोचनीति
मायामयीति मदनान्तकवल्लभेति ।
सप्ताष्टशब्दपरिवर्तनमात्र एव
सामर्थ्यमावहति शास्त्रपरिश्रमोऽयम् ॥ ११ ॥

तस्यै प्रसीदसि गिरीन्द्रसुते य इत्थं
सम्पादयेत शनकैरपरोक्षबोधम् ।
यस्मै प्रसीदसि स च क्षमतेऽवबोद्धु-
मित्थं परस्परसमाश्रयमेतदास्ते ॥ १२ ॥

आकर्णय त्वमिममभ्युपगम्य वादं
जानातु कोऽपि यदि वा हृदयं श्रुतीनाम् ।
तस्याप्यसङ्ख्यभवबन्धशतार्जितोऽयं
द्वैतभ्रमो गलतु जन्मशतैः कियद्भिः ॥ १३ ॥

काले महत्यनवधावपतन्क्वदापि
क्वाप्यन्तिमे जनुषि कोऽपि गतिं लभेत ।
इत्थं समर्थनविधिः परमागमानां
पर्यायसूक्तिविधया नयनं नञर्थे ॥१४ ॥

एकापवर्गसमये जगतोऽपवर्गः
सर्वापवर्गसमये पुनरस्तशङ्कः ।
ईदृग्विधं कमपि पक्षमिहावलम्ब्य
स्थातुं सुखं क्षममनेव पथा प्रवृत्तैः ॥ १५ ॥

अभ्यस्य वेदमवधार्य च पूर्वतन्त्र-
मालक्ष्य शिष्टचरितानि पृथग्विधानि ।
अध्यापनादिभिरवाप्य धनं च भूरि
शर्माणि मातरलसाः कथमाचरेयुः ॥ १६ ॥

आयस्य तावदपि कर्म करोतु कश्चि-
त्तेनापि मातरधिकं किमिवानुभाव्यम् ।
अस्ते सुखं य इह भारतवर्षसीम-
न्यास्ते स किञ्चिदित उत्तरतोऽपसृत्य ॥ १७ ॥

कर्म त्यजेम यदि नूनमधः पतेम
यद्याचरेम न कदापि भवं तरेम ।
कर्म त्यजेदिति चरेदिति च प्रवृत्ताः
भावेन केन निगमा इति न प्रतीमः ॥ १८ ॥

कर्मण्यकर्मविधिरेष यदाचरन्ति
कर्माणि तत्तदनुबन्धजिहासयेति ।
सत्यं तथाप्यभिनवो भविता न बन्धः
प्राचीनबन्धहरणे क इवाभ्युपायः ॥ १९ ॥

प्रारब्धकर्म कियदारभते कियद्वा
प्रारप्स्यते कियदिदं क इवावधत्ताम् ।
कालः कियानिव मया प्रतिपालनीयो
यस्य क्षणार्धमपि कल्पशतत्वमेति ॥ २० ॥

पुंसः क्षणार्धमपि संसरणाक्षमस्य
साङ्ख्यादयः सरणयो न विशन्ति कर्णम् ।
सङ्ख्याय गाङ्गसिकताः सकलाश्च सूक्ष्मा
भुङ्क्ष्वेति वागिव महाक्षुधयार्दितस्य ॥ २१ ॥

भक्तिस्तु का यदि भवेद्रतिभावभेद-
स्तत्केवलान्वयितया विफलैव भक्तिः ।
प्रीतिस्त्वयि त्रिजगदात्मनि कस्य नास्ति
स्वात्मद्रुहो न खलु सन्ति जनास्त्रिलोक्याम् ॥ २२ ॥

आत्मा समस्तजगतां भवतीति सम्य-
ग्विज्ञाय यद्वितनुते त्वयि भावबन्धम् ।
सा भक्तिरित्यभिमतं यदि सिद्धमिष्टं
व्यर्थं विशेष्यमलमस्तु विशेषणं नः ॥ २३ ॥

स्वात्मेतरत्वमवधार्य परत्वबुद्ध्या
यत्प्रीयते गुरुजनेष्विव सैव भक्तिः ।
स्यादेतदेवमियमेव तु मे जिहास्या
द्वैतभ्रमात्किमधिकं भवबन्धमूलम् ॥ २४ ॥

सेवैव भक्तिरिति कर्मपथप्रवेशः
सेव्यप्रसादफलका किल कर्मसेवा ।
ध्यानप्रवाह इति चेच्छ्रवणात् तृतीयः
प्रागेव मातरयमाकलितोऽभ्युपायः ॥ २५ ॥

अत्रैव दास्यसि विमुक्तिमथापि याचे
मातः शरीरपतनं मणिकर्णिकायाम् ।
अस्तु स्वकृत्यमनुकम्पनमीश्वराणां
दासस्य कर्मकरतैव तथा स्वकृत्यम् ॥ २६ ॥

सद्यो भवेत्सुकृतिनामुपदेशलाभः
पापात्मनां बहुतिथे समये व्यतीते ।
इत्यादिभिः किल पुराणवचोभिरम्ब
वाराणसीमपि न याचितुमुत्सुकोऽस्मि ॥ २७ ॥

आक्रान्तमन्तररिभिः मदमत्सराद्यैः
गात्रं वलीपलितरोगशतानुविद्धम् ।
दारैः सुतैश्च गृहमावृतमुत्तमर्णैः
मातः कथं भवतु मे मनसः प्रसादः ॥ २८ ॥

धन्याः कति त्रिभुवने परमोपभाग्यं
संसारमेव परमेश्वरि भावयन्तः ।
आभासरूपमवबोधमिमं समेत्य
क्लिश्ये कियत्कियदहं त्वमुना भवेन ॥ २९ ॥

का संस्कृतिः किमपचारनिबन्धनेयं
कीदृग्विधस्य तव किं क्षतमेतयेति ।
प्रश्ने तु नास्मि कुशलः प्रतिवक्तुमेव
खेदस्तु मे जननि कोऽप्ययमेवमास्ते ॥ ३० ॥

एवं गतस्य मम साम्प्रतमेतदर्ह-
मत्रेदमौपयिकमित्थमिदं च साध्यम् ।
अस्मिन्प्रमाणमिदमित्यपि बोद्धुमम्ब
शक्तिर्न मे भुवनसाक्षिणि किं करोमि ॥ ३१ ॥

न ज्ञायते मम हितं नितरामुपायो
दीनोऽस्मि देवि समयाचरणाक्षमोऽस्मि ।
तत्त्वामनन्यशरणः शरणं प्रपद्ये
मीनाक्षि विश्वजननीं जननीं ममैव ॥ ३२ ॥

किञ्चिन्मया श्रुतिषु किञ्चिदिवागमेषु
शास्त्रेषु किञ्चिदुपदेशपथेषु किञ्चित् ।
आघ्रातमस्ति यदतो भवतीं वरीतुं
गोप्त्रीति काचिदुदपद्यत बुद्धिरेषा ॥ ३३ ॥

ब्रह्मैवमेवमहमेष तदाप्त्युपाय
इत्यागमार्थविधुराः प्रथमे दयार्हाः ।
त्वद्रक्षकत्वगुणमात्रविदो द्वितीया
इत्यर्थये सदधिकार निरूपणाय ॥ ३४ ॥

माता करोषि ममतां मयि यावदीश-
त्तावद्यते मम ततः किमिवास्ति साध्यम् ।
मामित्थमित्थमुपयुङ्क्ष्व न विस्मरेति
किं स्वामिनं त्वरयते क्वचन स्वभृत्यः ॥ ३५ ॥

त्याज्यं त्यजानि विहितं च समाचराणि
नित्येषु शक्तिमनुरुध्य हु वर्तितव्यम् ।
तद्बुद्धिशक्तिमनुरुद्ध्य न कार्यशक्ति-
मित्येतदेव तु शिवे विनिवेदयामि ॥ ३६ ॥

आत्मैव भार इति तं त्वयि यो निधत्ते
सोऽङ्गानि कानि कलयत्वलसः प्रपत्तेः ।
विश्वस्य साक्षिणि विलक्षणलक्षणा या
विस्रम्भसम्पदियमेव समस्तमङ्गम् ॥ ३७ ॥

त्वत्प्रेरणेन मिषतः श्वसतोऽपि मातः
प्रामादिकेऽपि सति कर्मणि मे न दोषः ।
मात्रैव दत्तमशनं ग्रसतः सुतस्य
को नाम वक्ष्यति शिशोरतिभुक्तिदोषम् ॥ ३८ ॥

मुक्तिं निषाधयिषतां निजयैव बुद्ध्या
प्रारब्धकर्म भवतु प्रतिबन्धहेतुः ।
त्वामेव साधनतयापि समाश्रितानां
तुल्यं तदम्ब यदि कस्तव वीरवादः ॥ ३९ ॥

प्रारब्धकर्म गिरिजे भवदाश्रिताना-
मन्यत्र संक्रमय नाशय वा समूलम् ।
मर्त्याश्च खल्वपि विषं वपुषि प्रसक्तं
संक्रामयन्ति परतोऽपि च नाशयन्ति ॥ ४० ॥

त्वद्दर्शनश्रवणचिन्तनवन्दनादि-
ष्वक्षाणि देवि विनियुज्य यथाधिकारम् ।
रक्षेत्यसङ्ख्यभवसम्भृतयैव मैत्र्या
रुन्ध्यां यदि स्थिरममून्यधुनैव न स्युः ॥ ४१ ॥

त्रातव्य एष इति चेत्करुणा मयि स्या-
त्त्रायस्व किं सुकृतदुष्कृतचिन्तया मे ।
कर्तुं जगत्तिरयितुं च विशृंखलायाः
कर्मानुरोध इति कं प्रति वञ्चनेयम् ॥ ४२ ॥

त्वय्यर्पितं प्रथममप्पययज्वनैव
स्वात्मार्पणं विदधता स्वकुलं समस्तम् ।
का त्वं महेशि कुलदासमुपेक्षितुं मां
को वानुपासितुमहं कुलदेवतां त्वाम् ॥ ४३ ॥

मौढ्यादहं शरणयामि सुरान्तरं चे-
त्किं तावता स्वमपि तस्य भवामि मातः ।
अज्ञानतः परगृहं प्रविशन्परस्य
स्वत्वं प्रयास्यति पशुः किमु राजकीयः ॥ ४४ ॥

आधाय मूर्धनि वृथैव भरं महान्तं
मूर्खा निमज्जथ कथं भवसागरेऽस्मिन् ।
विन्यस्य भारमखिलं पदयोर्जनन्या
विस्रब्धमुत्तरत पल्वलतुल्यमेनम् ॥ ४५ ॥

क्वेदं पतिष्यति वपुः क्व ततो नु गम्यं
को दण्डयिष्यति कियंतमनेहसं वा ।
किं तस्य सन्तरणसाधनमित्यनन्ता
चिन्ता स्थिता त्वयि शनैरवतारिता सा ॥ ४६ ॥

ज्ञानं विशेयमुत तेन विनोद्धरेयं
प्रारब्धमप्यपलपेयमुतानुरुंध्याम् ।
इत्थं सकृत्प्रपदनैकवशंवदाया
मातुर्मयि प्रववृते महतीह चिन्ता ॥ ४७ ॥

एतज्जडाजडविवेचनमेतदेव
क्षित्यादितत्वपरिशोधनकौशलं च ।
ज्ञानं च शैवमिदमागमकोटिलभ्यं
मातुर्यदङ्घ्रियुगले निहितो मयात्मा ॥ ४८ ॥

षट्त्रिंशदावरणमध्यजुषि त्वदङ्घ्रौ
हालास्यनाथदयिते निहितो मयात्मा ।
भूभुतलत्रिदिववर्तिषु कः क्षमेत
तच्चक्षुशादि निभृतेन निरीक्षितुं माम् ॥ ४९ ॥

बन्धं हरिष्यसि सुखं वितरिष्यसीति
निश्चप्रचं निखिलमम्ब तदास्त एव ।
सम्प्रत्यहं त्वयि निधाय भरं समस्तं
यानिर्वृणोमिकिमितोऽपि ममापवर्गे ॥ ५० ॥

काश्यां निपातय वपुः श्वपचालये वा
स्वर्गं नय त्वमपवर्गमधोगतिं वा ।
अद्यैव वा कुरु दयां पुनरायतौ वा
कः सम्भ्रमो मम धने धनिनः प्रमाणम् ॥ ५१ ॥

नाहं सहे तव कथाश्रवणान्तरायं
नाहं सहे तव पदार्चनविच्युतिं वा ।
मोक्षं दिशैतदविरुद्धमिदं न चेत्या-
न्नैवास्तु मातरपवर्गमहोपसर्गः ॥ ५२ ॥

आचूडमाचरणमम्ब तवानुवार-
मन्तःस्मरन्भुवनमङ्गलमङ्गमङ्गम् ।
आनन्दसागरतरङ्गपरम्पराभि-
रान्दोलितो न गणयामि गतान्यहानि ॥ ५३ ॥

पाषाणतोऽपि कठिने शिरसि श्रुतीनां
प्रायः परिक्रमवशादिव पाटलाभम् ।
अम्ब स्मरेयममृतार्णवमाथलब्ध-
हैय्यङ्गवीनसु कुमारमिदं पदं ते ॥ ५४ ॥

ये नाम सन्ति कतिचिद्गुरविस्त्रिलोक्यां
तेषामपि स्वयमुपेतवता गुरुत्वम् ।
पादेन मूर्ध्नि विधृतेन वयं तवाम्ब
संसारसागरमिमं सुखमुत्तरामः ॥ ५५ ।
साधारणे स्मरजये नितिलाक्षिसाध्ये
भागी शिवो भजतु नाम यशः समग्रम् ।
वामाङ्घ्रिमात्रकलिते जननि त्वदीये
का वा प्रसक्तिरपि कालजये पुरारेः ॥ ५६ ॥

स्यात्कोमलं यदि मनो मम विश्वमातः
तत्पादयोर्मृदुलयोस्तव पादुकाऽस्तु ।
स्यात्कर्कशं यदि करग्रहणे पुरारेः
अश्माधिरोपणविधौ भवतूपयोगः ॥ ५७ ॥

प्रस्निग्धमुग्धरुचिपादतले भवत्या
लग्नं दृढं यदिह मे हृदयारविन्दम् ।
एषैव साग्रभुवनद्विशतीपतित्व-
साम्राज्यसूचनकरी तव पद्मरेखा ॥ ५८ ॥

अप्राकृतं मृदुलतामविचिन्त्य किञ्चि-
दालम्बितासि पदयोः सुदृढं मया यत् ।
तन्मे भवार्णवनिमज्जनकातरस्य
मातः क्षमस्व मधुरेश्वरि बालकृत्यम् ॥ ५९ ॥

यत्रानमन्पशुपतिः प्रणयापराधे
मन्दं किल स्पृशति चन्द्रकलाञ्चलेन ।
पुष्पार्चनेऽपि मृदितं पदयोर्युगं त-
न्मातस्तुदन्ति न कथं परुषा गिरो मे ॥ ६० ॥

अव्याजसुन्दरमनुत्तरमप्रमेय-
मप्राकृतं परममङ्गलमङ्घ्रिपद्मम् ।
संदर्शयेदपि सकृद्भवती दयार्द्रा
द्रष्टास्मि केन तदहं तु विलोचनेन ॥ ६१ ॥

दिव्या दृशोऽपि दिविषद्ग्रहणोचितानि
वस्तूनि काममवधारयितुं क्षमन्ते ।
त्वन्मात्रवेद्यविभवे तव रूपधेये
त्वद्भाव एव शरणं परिशेषितो नः ॥ ६२ ॥

अस्मिन्महत्यनवधौ किल कालचक्रे
धन्यास्तु ये कतिपये शुकयोगिमुख्याः ।
लीनास्त्वदङ्घ्रियुगले परिशुद्धसत्वान्
तानात्मनस्तव नखानवधारयामः ॥ ६३ ॥

आ शैशवान्ममतया कलितस्त्वयासा-
वानृण्यमम्ब तव लब्धुमना मृगाङ्गकः ।
स्वात्मानमेव नियतं बहुधा विभज्य
त्वत्पादयोर्विनिदधे नखरापदेशात् ॥ ६४ ॥

नान्तः प्रवेशमयते किमपि श्रुतं मे
नास्तिक्यवादशिलया प्रतिरुध्यमानम् ।
तत्पातयाम्यहमिमां महतीमधस्ता-
त्पादोदकेन कियता परदेवतायाः ॥ ६५ ॥

सन्नाहिभिः यमभटैः परिवार्यमाणे
मय्यर्भके करुणया स्वयमापतन्त्याः ।
आकर्णयेयमपि नाम विरामकाले
मातस्तवाङ्घ्रिमणिनूपुरशिञ्जितानि ॥ ६६ ॥

ब्रह्मेशकेशवमुखैर्बहुभिः कुमारैः
पर्यायतः परिगृहीतविमुक्तदेशम् ।
उत्सङ्गमम्ब तव दास्यसि मे कदा त्वं
मातृप्रियं किल जडं सुतमामनन्ति ॥ ६७ ॥

ऊरौ शिरस्तव निवेश्य दयावितीर्ण-
संव्यानपल्लवसमीरविनीतखेदम् ।
अत्रैव जन्मनि विभोः परमोपदेश-
माकर्णयेयमपि किं मणिकर्णिकायाम् ॥ ६८ ॥

काञ्चीगुणग्रथितकाञ्चनचेलदृश्य-
चण्डातकांशुकविभापरभागशोभि ।
पर्यङ्कमण्डलपरिष्करणं पुरारेः
ध्यायामि ते विपुलमम्ब नितम्बबिम्बम् ॥ ६९ ॥

गर्भे निवेश्य भुवनानि चतुर्दशापि
संरक्षितुं कलितनिश्चितया भवत्या ।
प्राकारमेव रचितं परितोऽपि नून-
मूहे सुवर्णमयमेदुरपट्टबन्धम् ॥ ७० ॥

मुक्ताश्च खल्वपि यदि त्रिपुरे भवत्याः
स्तन्याशया स्तनतटं न परित्यजन्ति ।
अस्माकमुद्भटभवज्वरतापिताना-
मार्द्रीभवन् तु वदनानि कुतो न हेतोः ॥ ७१ ॥

नष्टोपलब्धमधिगत्य शिशुं चिरान्मां
वात्सल्यविद्रुतहृदः परदेवतायाः ।
क्लिद्यत्पयोधरविनिःसृतदुग्धबिन्दु-
निष्यन्दपङ्क्तिरिव दीव्यति हारयष्टिः ॥ ७२ ॥

यत्तद्धनुर्जनमनोमयमैक्षवं ते
तस्यास्तु देवि हृदयं मम मूलदेशः ।
चापाधिरोपणविधौ चरणाञ्चलेन
सम्भाव्यते किल समाक्रमणं कदाचित् ॥ ७३ ॥

आस्थाय दारुणतरं कमपि स्वभाव-
मत्यन्तदुष्कृतकृतामपि शिक्षणाय ।
गृह्णासि सायकपदे कुसुमान्यमूनि
मातः सुतेषु महती किल रूक्षतेयम् ॥ ७४ ॥

पाशं सृणिं च करयोस्तव भावयन्तः
संस्तम्भयन्ति वशयन्ति च सर्वलोकान् ।
चापं शरं च सकृदम्ब तव स्मरन्तो
भूपालतां दधति भोगपथावतीर्णः ॥ ७५ ॥

पाशाङ्कुशौ तव करे परिचिन्त्य राग-
द्वेषौ जयन्ति परमार्थविदस्तु धन्याः ।
एकत्र चापमितरत्र शरं च मत्वा
व्यावर्तयन्ति हृदयं विषयान्धकूपात् ॥ ७६ ॥

उत्क्रान्तमान्तरमिदं शरणं जनाना-
मप्येति चन्द्रमिति हे श्रुतयो वदन्ति ।
आस्तामिदं मम तु देवि मनोऽधुनैव
लीनं दृढं वदनचन्द्रमसि त्वदीये ॥ ७७ ॥

विद्यात्मनो जननि तावकदन्तपङ्क्तेः
वैमल्यमीदृगिति वर्णयितुं क्षमः कः ।
तत्सम्भवा यदमला वचसां सवित्री
तन्मूलकं कवियशोऽपि ततस्तरां यत् ॥ ७८ ॥

स्वच्छापि ते वहति यत्किल दन्तपङ्क्तिः
स्वच्छन्दनिर्दलितदाडिमबीजशोभाम् ।
तन्मे रजोव्यतिकराधिकपाटलिम्नि
चित्ते परं परिचयादिति चिन्तयामि ॥ ७९ ॥

अर्धं जितत्रिपुरमम्ब तव स्मितं चे-
दर्धान्तरेण च तथा भवितव्यमेव ।
तच्चिन्तये जननि कारणसूक्ष्मरूप-
स्थूलात्मकत्रिपुरशान्तिकृते स्मितं ते ॥८० ॥

मत्क्लेशदर्शनपरिद्रवदन्तरङ्ग-
हैय्यङ्गवी नपरिवाहनिभं जनन्याः ।
अन्तस्तमोपहमनुस्मरतां जनानां
मन्दस्मितं भुवनमङ्गलमस्तु भूत्यै ॥ ८१ ॥

सांसिद्धिकाननसरोरुहदिव्यगन्ध-
सान्द्रीकृतेन्दुशकलाकलिताधिवासम् ।
ताम्बूलसारमखिलागमबोधसारं
मातर्विधेहि मम वक्त्रकलाचिकायाम् ॥ ८२ ॥

नासामणिस्तव शिवे चिरसंस्तवेन
प्रत्याहृते मनसि भाति तपोधनानाम् ।
अज्ञानसन्ततिनिशात्ययसूचनार्थं
आविर्भवन्त्यसुरदेशिकतारकेव ॥ ८३ ॥

ताम्बूलगर्भपरिफुल्लकपोललक्ष्य-
ताटङ्कमौक्तिकमणिप्रतिबिम्बदम्भात् ।
अस्तद्वयव्यतिकरामलसत्वमाद्यं
वर्णं बिभर्ति जठरे तव वक्त्रबिम्बम् ॥ ८४ ॥

दत्ते श्रियं बहुविधां कुशलानि दत्ते
दत्ते पदं सुरपतेरपि लीलयैव ।
ईदृग्विधाम्ब तव दृष्टिरितोऽधिका वा
नाद्यापि कर्णमतिवर्तितुमीश्वरीयम् ॥ ८५ ॥

पाशाणकूटकठिणे जनदुर्विगाहे
व्यर्थं महत्युपनिषद्विपिने प्रवृत्ता ।
सेव्येत केन तव लोचनचन्द्रिकेय-
मेनां निपातय सकृन्मयि तप्यमाने ॥ ८६ ॥

कामं शिवेन शमितं पुनरुज्जगार
दृष्टिस्तवेति किमियं जननि स्तुतिस्ते ।
लीलाप्रसूतपुरुषार्थचतुष्टयाया-
स्तस्याः परं तु स भवत्यवयुत्यवादः ॥ ८७ ॥

सोमो जगज्जनयितेति यदाह वेदो
नेदं लतापरमिति भ्रमितव्यमार्यैः ।
यः शैववामतनुवर्तिभवद्दृगात्मा
चन्द्रो जगत्सृजति तत्पर एष वादः ॥ ८८ ॥

सूच्यग्रवद्वसुमतीमणुवच्च मेरुं
दृष्टिर्यदम्ब तव पश्यति दानशौण्डा ।
दृष्टास्त्वया वयमपीह ततः स्मरामो
वेशन्तमेव भवसागरमुत्तरङ्गम् ॥ ८९ ॥

वाणीनिकेतनतया घनसारगौराः
कल्हारकेसररुचः कमलानुषङ्गात् ।
मातर्जयन्ति शरणागतलोकचेतो-
मालिन्यमार्जनवशादसिताः कटाक्षाः ॥ ९० ॥

आकर्णमुल्लसति मातरपाङ्गदेशे
कालाञ्जनेन घटिता तव भाति रेखा ।
शैवालपङ्क्तिरिवसन्ततनिर्जिहान-
कारुण्यपूरपदवीकलितानुबन्धः ॥ ९१ ॥

विश्वं सृजति हन्ति च यः कटाक्षो
विश्वस्यतां कथमसौ चपलस्वभावः ।
एषोऽपि यामनुसरल्लभते यशांसि
तामेव विश्वसिमि देवि तवानुकम्पाम् ॥ ९२ ॥

अर्धं कलङ्करहिता करुणैव शम्भो-
रर्धं गुणास्तदितरे सकलाः समेताः ।
इत्यम्ब सम्प्रति किल स्फुरितं रहस्यं
सम्पश्यतो मम भवन्मयमैशमर्धम् ॥ ९३ ॥

अम्ब भ्रुवोस्तव विचेष्टितमप्रमत्तं
सम्पश्यतां निजनिजार्थनिदेशहेतोः ।
तन्मूलदेशनिहिता निभृता सुराणां
दृष्टिः प्रयाति मृगनाभिविशेषकत्वम् ॥ ९४ ॥

सारं कणं कणमघर्मरुचां सहस्रा-
त्सङ्गृह्य निर्मितमिदं तव वक्त्रबिम्बम् ।
तावत्सुधाकरकलङ्ककुलानि पश्चा-
देकत्र देवि निहितानि कचापदेशात् ॥ ९५ ॥

विन्यस्तमिन्द्रमणिकन्दलसुन्दरेषु
केशेषु ते स्फटिकनिर्मलमिन्दुखण्डम् ।
आधारसङ्गतिवशादसितायमान-
मिन्दीवरच्छदवतंसदशां बिभर्ति ॥ ९६ ॥

चिन्तामणिस्त्रिभुवनेश्वरि कौस्तुभश्च
ख्यातौ मणी तव गृहाङ्गणकुट्टिमस्थौ ।
किं रत्नमन्यदुपलभ्य किरीटकोटिं
वाचस्पतिप्रभृतयस्तव वर्णयन्तु ॥ ९७ ॥

प्रादुर्भवत्तरणिबिम्बशतारुणानि
पर्याप्तशीतकिरणायुतशीतलानि ।
शृङ्गारसारपरिवाहमयानि मात-
रङ्गानि केऽपि चरमे जनुषि स्मरन्ति ॥ ९८॥

प्रत्युग्रकुङ्कुमरसाकलिताङ्गरागं
प्रत्यङ्गदत्तमणिभूषणजालरम्यम् ।
ताम्बूलपूरितमुखं तरुणेन्दुचूडं
सर्वारुणं किमपि वस्तु ममाविरस्तु ॥ ९९ ॥

अर्धं स्त्रियस्त्रिभुवने सचराचरेऽस्मि-
न्नर्धं पुमांस इति दर्शयितुं भवत्या ।
स्त्रीपुंसलक्षणमिदं वपुरादृतं य-
त्तेनासि देवि विदिता त्रिजगच्छरीरा ॥ १०० ॥

निर्मासि संहरसि निर्वहसि त्रिलोकीं
वृत्तान्तमेतमपि वेत्ति न वा महेशः ।
तस्येश्वरस्य गिरिजे तव साहचर्या-
ज्जातः श्रुतिष्वपि जगज्जनकत्ववादः ॥ १०१ ॥

सत्तास्यखण्डसुखसंविदसि त्रिलोकी-
सर्गस्थितिप्रतिहतिष्वपिनिर्व्यपेक्षा ।
त्वामन्तरेण शिव इत्यवशिष्यते कि-
मर्धं शिवस्य भवतीत्यनभिज्ञवादः ॥ १०२ ॥

नास्मिन्रविस्तपति नात्र विवाति वातो
नास्य प्रवृत्तिमपि वेद जगत्समस्तम् ।
अन्तःपुरं तदिदमीदृशमन्तकारे-
रस्मादृशास्तु सुखमत्र चरन्ति बालाः ॥ १०३ ॥

त्वत्सन्निधानरहितो मम मास्तु देश-
स्त्वत्तत्त्वबोधरहिता मम मास्तु विद्या ।
त्वत्पादभक्तिरहितो मम मास्तु वंश-
स्त्वच्चिन्तया विरहितं मम मास्तु चायुः ॥ १०४ ॥

त्वं देवि यादृगसि तादृगसि त्वमीदृ-
गेवेति वक्तुमपि बोद्धुमपि क्षमः कः ।
मामेव तावदविदन्नतिपामरोऽहं
मातः स्तुतिं त्वयि समर्पयितुं विलज्जे ॥ १०५ ॥

काचित्कृता कृतिरिति त्वयि साऽर्पितेति
कापि प्रमोदकणिका न ममांतरङ्गे ।
मौढ्यं मदीयमिह यद्विदितं ममैव
किं त्वम्ब विश्वसिमि दीनशरण्यतां ते ॥ १०६ ॥

कालानपास्य विषुवायनसङ्क्रमादी-
नस्तङ्गते हिमकरे च दिवाकरे च ।
अम्ब स्मरेयमपि ते चरणारविन्द-
मानन्दलक्षणमपास्तसमस्तभेदम् ॥ १०७ ॥

चतुरध्यायीरूपं कलहंसव्यञ्जनं जगन्मातुः ।
अपरब्रह्ममयं वपुरन्तः शशिखण्डमण्डनमुपासे ॥ १०८ ॥

॥ इति श्री नीलकण्ठदीक्षितविरचितः
श्रीआनन्दसागरस्तवः सम्पूर्णः ॥

"https://sa.wikisource.org/w/index.php?title=आनन्दसागरस्तवः&oldid=91605" इत्यस्माद् पुनः प्राप्तिः