सामग्री पर जाएँ

आचारसारतन्त्रम्

विकिस्रोतः तः
आचारसारतन्त्रम्
स्वात्माराम


हठप्रदीपका - समयाचारः

  • * * * श्चलौल्यं च षड्भिर्योगो विनश्यति ॥ १५ ॥


उत्साहात् साहसाधैर्यात् तत्वज्ञानाश्च निश्चयात् ।
जनसंगपरित्यागात् षड्भिर्योगः प्रसिध्यति ॥ १६ ॥

वसिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः ।
अंगीकृतान्यासनानि कथ्यंते कानि चिन्मया ॥ १७ ॥

हठस्य प्रथमां गत्वा दासनं पूर्वमुच्यते ।
तत् कुर्यादासनस्थैर्यमारोग्यं चांगलाघवं ॥ १८ ॥

जानूर्ध्वोरंतरे सम्यक् कृत्वा पादतले उभे ।
ऋजुकायः समासीत स्वस्तिकं तत् प्रचक्ष्यते ॥ १९ ॥

सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ।
दक्षिणे तु तथा सव्यं गोमुखं गोमुखं यथा ॥ २० ॥

एकं पादं तथैकस्मिन् विन्यस्योरुणि संस्थितं ।
इतरस्मिस्तथा चोरुं वीरासनमितीरितं ॥ २१ ॥

गुडं निवध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः ।
कूर्मासनं भवेदेतदिति योगविदो विदुः ॥ २२ ॥

पद्मासनं तु संयोज्य जानूर्वोरंतरे करौ ।
विन्यस्य भूमौ संस्थाप्य व्योमस्थः कुक्कुटासनं ॥ २३ ॥

कुक्कुटासनवंधस्थो दोर्भ्यां संवध्यकंधरं ।
शेवे कूर्मवदुत्तानमेतदुत्तानकूर्मकं ॥ २४ ॥

पादांगुष्टौ तु पाणिभ्यां गृहीत्वा श्रवणावधि ।
धनुराकर्षणं कृत्वा धनुरासनमीरितं ॥ २५ ॥

वामोरुमूलार्पितदक्षपादो जान्वोर्बहिर्वेष्टित दक्षदोष्णा ।
प्रगृह्य तिष्ठन् परिवर्तितांगः श्रीमत्स्यनाथोदितमासनं स्यात् ॥ २६ ॥

मत्स्येन्द्रपीठं जठरप्रचंपिप्रचंडरुन्मंडलखंडनास्त्रं ।
अभ्यस्य तां कुंडलिनीं प्रवोधं दंडस्थिरत्वं च ददाति पुंसां ॥ २७ ॥

प्रसार्य पादौ भुवि दण्डरूपौ दोर्भ्यां च पाद द्वितयं गृहीत्वा ।
जानू परिन्यस्तललाट देशोविशेदिदं पश्चिमता न वाहुः ॥ २८ ॥

३३अ)

इति पश्चिमता न मासनाग्र्यं पवनं पश्चिमवाहनं करोति ।
उदरं जठरानलस्य कुर्यादुदरे कार्श्पमरोगतां च पुंसां ॥ २९ ॥

धरामवष्टभ्य करस्थलाभ्यां तत्कूर्परस्थापित नामि पार्श्वः ।
उच्चासनोदंड वदुत्थितः खेमायूर मेतत्प्रवदंति पीठं ॥ ३० ॥

हरति सकलरोगानाशु गुल्मोदरादीनभि भवति च दोषानासनं श्रीमयूरं ।
बहुकदशन भुक्तं भस्मकुर्यादशेषे जनयति जठराग्नि जारयेत्
कालकूटं ॥ ३१ ॥

उत्तान शववद्भूमौ शयनं तु शवासनं ।
सर्वासन भ्रांति हरं चित्त विभ्रांति साधनं ॥ ३२ ॥

चतुराशीत्यासनानि शिवेन कथितानि तु ।
तेभ्यश्चतुष्कमादाय सारभूतं व्रवीम्यहं ॥ ३३ ॥

सिद्धं पद्मं तथा भद्रं सिंहं चेति चतुष्टयं ।
श्रेष्ठं तत्रापि च सखे तिष्ठ सिद्धासने सदा ॥ ३४ ॥

सिद्धासनं ॥

योनिद्वारकमंघ्रि मूलघटितं कृत्वा दृढं त्रिन्यसे मेढ्रे
पादमयैकमेव हृदये धृत्वासनं विग्रहं ।
स्थाणुः संयमितेन्द्रियो चलदृशापश्येद्भ्रुवोरंतरं चैतन्मोक्षकपाट
भेदजनकं सिद्धासनं प्रोच्यते ॥ ३५ ॥

मतांतरे ॥

मेढ्राधः परिविन्यस्य वामगुल्फं तयोपरि ।
गुल्फांतरं च निक्षिप्य सिद्धासनमिदं भवेत् ॥ ३६ ॥

पूर्वोक्तमेव मत्स्येन्द्र स्तनं एतसिद्धासनं प्राहुरन्येवज्ञासनं विदुः

मुक्ताप्राणं वदत्यन्ये प्राहुर्गुप्तासनं परे ॥ ३७ ॥

यमेष्वेवमिताहारमहिंसा नियमेष्वपि ।
मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः ॥ ३८ ॥

चतुराशीति पीठेषु सिद्धमेव सदाभ्यसेत् ।
द्वासप्तति सहस्रेषु सुषुम्णामिव नाडिषु ॥ ३९ ॥

३३ब्)

आत्मध्यायी मिताहारी यावद् द्वादश वत्सरं ।
सदा सिद्धासनाभ्यासाद्योगिनीप्यंति माप्नुयात् ॥ ४० ॥

श्रमदैर्वहुभिः पीठैः किं स्यात् सिद्धासने सति ।
प्राणानिले सावधानं वद्धे केवल कुंभतः ॥ ४१ ॥

उत्पद्यते निरायासा स्वयमेवोन्मनीयथा ।
अथेकस्मिन्नेव दृढं वद्धे सिद्धासने सदा ॥ ४२ ॥

वंधत्रयमनायासात् स्वयमेवोपजायते ।
नासनं सिद्धसदृशं न कुंभः केवलोयमः ।
न खेचरी समा मुद्रा न नाद सदृशोलयः ॥ ४३ ॥

अथ पद्मासनं ॥

वामारूपरि दक्षिणं च चरणं संस्थाप्य वामं तथायाम्योरूपरि
पश्चिमेन विधिना धृत्वा कराभ्यां दृढं ।
अंगुष्ठो हृदये निधाय चिवुकं नासाग्रमालोकयेदेतद्व्याधि
विनाशकारियमिनां पद्मासनं प्रोच्यते ॥ ४४ ॥

मतांतरे तु ॥

उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः ।
ऊरु मध्ये तयोत्तानौ पाणी कृत्वा ततो दृढौ ॥ ४५ ॥

नासाग्रे विन्यसेद्राज दंतमूलं च जिह्वया ।
उत्तभ्य चिवुकं वक्षस्फच्छाप्य पवनं शनैः ॥ ४६ ॥

इदं पद्मासनं प्रोक्तं सर्वव्याधि विनाशनं ।
दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥ ४७ ॥

पश्चादुक्तं मत्स्येन्द्रमंतं ॥

कृत्वा संघटितौ करौ दृढतरं पध्वा?तु पद्मासनं ।
गांढं वक्षसि संनिधाय चिवुकं ध्यानं च तच्चैतसि ॥

वारंवारमपानमूर्द्धमनिलं प्रोच्चालयन् पूरयन् मुंचन्
प्राणामुपैति वोधमतुलं शक्तिप्रमावादतः ॥ ४८ ॥

पद्मासन स्थितो योगी नाडी द्वारेषु पूरयेत् ।
मारुतं धारयेद्यस्तु समुक्तो नात्र संशयः ॥ ४९ ॥

अथ सिंहासनं ॥

गुल्फौ च वृषनस्याधः शीवन्याः पार्श्वतो न्यसेत् ।
दक्षिणे सव्यगुल्फ च दक्षगुल्फं च सव्यके ॥ ५० ॥

३४अ)

हस्तौ जानोस्तु संस्थाप्य स्वांगुलीः संप्रसार्य च ।
व्यात्त वक्त्रो निरीक्षेन नासागं सुसमाहितः ॥ ५१ ॥

सिंहासनं भवेदेतत् पूजितं योगिभिः सदा ।
वंधस्य संधानं कुरुते चासनोत्तमं ॥ ५२ ॥

अथ भद्रासनं ॥

गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ।
पार्श्वपादौ च पाणिभ्यां दृढं वध्वा सुनिश्चलं ॥ ५३ ॥

भद्रासनं भवेदेतत् सर्वव्याधिविनाशनं ।
गोरक्षासनमिदं वै प्राहुस्ते सिद्धयोगिनः ॥ ५४ ॥

एवमासन वंध्येषु योगीन्द्रो विजितश्रमः ।
अथाभ्यसेन्नाडि शुद्धं मुद्रादि पवन क्रियां ॥ ५५ ॥

आसनं कुंभकश्चित्रं मुद्रास्वीकरणं तथा ।
अथ नादानुसंधानमभ्यासानुक्रमो हठे ॥ ५६ ॥

ब्रह्मचारी मिताहारो योगीयोगपरायणः ।
अव्दादूर्ध्वं भवेत् सिद्धो नात्रकार्याविचारणा ॥ ५७ ॥

सुस्निग्ध मधुराहार चतुर्थांश विवर्जितं ।
भुज्यते शिवसंप्रीत्यै मिताहारः स उच्यते ॥ ५८ ॥

कट्वम्लतिक्तलवणोष्णहरीतथा शाक सौवीर तैलतिलसर्षपमत्स्यमघाः ।
आजादि मांसदधितक्र कुलच्छकोलपिपाकहिंगुलसुनाघमे पथ्यमाहुः ॥
५९ ॥

भोजनं सहित विंद्या पुनरप्युष्टी कृतं रूक्षं ।
अतिलवणासवपललंकदशनशाकोत्कटपिष्टं ॥ ६० ॥

वर्जये दुर्जन प्रीतिं वह्निस्त्रीपथि सेवनं ।
प्रातः स्नानोपवासादि कायं क्लेश विधिं तथा ॥ ६१ ॥

गोधूमशालियवषष्टिक शोभनान्नं क्षीराज्य खंडनवनीत
सितामधूनि ।
शुंठी फटोलफलकादि च पंचशाकं मुद्रादि गव्यमुदितं च यमीन्द्र पथ्यं ॥ ६२ ॥

३४ब्)

मिष्टं सुमधुर स्निग्धं गव्यं धातु प्रपोषकं ।
मनोभिलषितं योग्यं योगी भोजनमाचरेत् ॥ ६३ ॥

युवावृद्धोति वृद्धो वा व्याधितो दुर्वलोपि वा ।
अभ्यासात् सिद्धिमाप्नोति सर्वयोगेष्वतंद्रितः ॥ ६४ ॥

पीठानि कुंभकश्चित्रा दिव्यानि करणानि च ।
सर्वोप्ययं हठाभ्यासो राजयोग फलावधिः ॥ ६५ ॥

इति स्वात्मारामयोगीन्द्रविरचितायां हठप्रदीपकायां
यमनियमासनोपदेशलक्षणो नाम प्रथमोपदेशः ॥


अथासने दृढे योगीवसीहि नमिताशनः ।
गुरूपदिष्टमार्गेण प्राणायामान् समभ्यसेत् ॥ १ ॥

चले वाते चलं सर्वं निश्चले निश्चलं तथा ।
योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ॥ २ ॥

ज्ञानं कुतो मनसि जीवति देवि यावत् प्राणोपि जीवति मनो म्रियतेन तावत् ।
प्राणं मनो द्वयमिति प्रलयं नयेत मोक्षं तु गच्छति नरो न कथं
चिदन्यः ॥ ३ ॥

यावद्वायुः स्थिरो देहे तावज्जीवितमुच्यते ।
मरणं तस्य निःक्रांतिस्तनोवायुं निरोधयेत् ॥ ४ ॥

मलाकुलासु नाडीषु मारुतो नैव मध्यगः ।
कथं स्यादुन्मनी भावः कायसिद्धिः कथं भवेत् ॥ ५ ॥

 बुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलं ।
तदैव जायते योगी प्राणसंग्रहणे क्षमः ॥ ६ ॥

प्राणाभ्यासं ततः कुर्यान् नित्यं सात्विकयाधिया ।
यथा सुषुम्णा नाडीस्था मलाशेषं प्रयांति च ॥ ७ ॥

वद्ध पद्मापद्मासनो योगी प्राणं चंद्रेण पूरयेत् ।
धारयित्वा यथाशक्तिर्भूयः सूर्येण रेचयेत् ॥ ८ ॥

विधिवत् कुंभकं कृत्वा पुनश्चंद्रेण रेचयेत् ॥ ९ ॥

३५अ)

येन त्यजेत् तेन पूर्वं धारयेदनिरोधतः ।
रेचयेच्च ततोन्येवशनैरेव न वेगतः ॥ १० ॥

प्राणं चेदिडया पिवेन्नियमितं भूयोऽन्यया रेचयेत् ।
पीत्वा पिंगलया समीरणमथो वद्ध्वा त्यजेद्वामया ॥ ११ ॥

सूर्याचंद्रमसोरनेन विधिनाभ्यासंसमातन्वंतां ।
शुद्धानाडी गणा भवति यमिनां मासत्रयादूर्ध्वतः ॥ १२ ॥

प्रातर्मध्यदिने सायं मध्यरात्रे च कुंभकान् ।
शनैरशीति पर्यंतं चतुर्वारं समभ्यसेत् ॥

कनीयसी भवेत् स्वेदकंपो भवति मध्यमे ।
उत्तिष्ठत्युत्तमे प्राणरोधे पद्मासनं महुः ॥ १३ ॥

जलेन श्रमजातेन गात्रमर्दनमाचरेत् ।
दृढता लघुना वापि तेन गात्रस्य जायते ॥ १४ ॥

अभ्यासकाले प्रथमे शस्तं क्षीराज्य भोजनं ।
ततोभ्यासेदृढीभूतेन तथा नियमग्रहः ॥ १५ ॥

यथा सिंहोगजोव्याघ्रो भवेद्वश्य शनैः शनैः ।
तथैव साधितो वायुरन्यथा हंति साधकं ॥ १६ ॥

प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् ।
अयुक्ताभ्यास योगेण सर्वरोगसमुद्भवः ॥ १६ ॥

हिक्का श्वासश्च काशश्च शिरकर्णाक्षि वेदना ।
भवंति विविधा दोषाः पवनस्य व्यतिक्रमात् ॥ १७ ॥

युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् ।
युक्तं युक्तं च वध्नीयादेवं शुद्धिमवाप्नुयात् ॥ १८ ॥

यदा तु नाडी शुद्धिः स्यात् तदा चिह्नानि वाह्यतः ।
कायस्य कृशताकांतिस्तदाजायत निश्चितं ॥ १९ ॥

यथेष्टं धारणं वायोः अनलस्य प्रदीपनं ।
नादाभिव्यक्तिरारोग्यं जायते नाडि शोधनात् ॥ २० ॥

मेदश्लेष्मादि संपूर्णः षट्कर्माणि समाचरेत् ।

३५ब्)

अन्यस्तु नाचरेत् तानि दोषाणां समभागिकः ॥ २१ ॥

धौतिर्वस्तिश्च नीतिश्च त्राटकं नौलिका तथा ।
कपालि भाति चैतानि षट्कर्माणि प्रचक्षते ॥ २२ ॥

कर्मषट्कमिदं प्रोक्तं घटशोधनकारकं ।
विचित्रगुणसंधायि पूजये स्तुति पुंगवैः ॥ २३ ॥

तत्रधौति ॥

चतुरंगुलविस्तारं वस्त्रांसनैर्ग्रसेत् ।
ततः प्रत्याहरेच्चैतदुदितं धौति कर्म तत् ॥ २४ ॥

कासः श्वासः प्लीहकुष्टं कफरोगाश्च विंशति ।
धौति कर्म प्रभावेन गच्छंत्येव न संशयः ॥ २५ ॥

अथ वस्ति ॥

नाभिदध्नजले पान न्यस्तनालोत्कटासनः ।
आधाराकुंचन कुर्या क्षालनंवस्ति कर्मकृत् ॥ २६ ॥

गुल्मप्लीहोदरं वापि वातपित्तकफोद्भवा ।
वस्तिकर्मप्रभावेण वार्यंते स कलामयाः ॥ २७ ॥

धात्विंद्रियातः करणप्रमोदं दद्याच्च कांतिं दहनप्रदीप्तिं ।
अशेष दोषोपचयंमिहन्यादभ्यस्य मानं जलवस्ति कर्म ॥ २७ ॥

उदरगतपदार्थशुद्धमंती पवनमपानमुदीर्य कंठनाले ।
क्रमपरिचय वश्य वायुमार्गा गजकरणीति गद्यते हठज्ञैः ॥ २८ ॥

अथनिती सूत्रं वितस्ति सुस्निग्धं नासानाले प्रवेशयेत् ।
नशामुखान्निर्गमयेच्चैषानीति सिद्धैर्निगद्यते ॥ २९ ॥

कपालशोधनी कंठद्दिव्यदृष्टि प्रदायिनी ।
जानूर्ध्वजातरोगौघं जगत्याशु सतीनति ॥ ३० ॥

अथ त्राटक ॥

निरीक्षेन्निश्चल दृशा सूक्ष्मं लक्षं समाहितः ।
अश्रु संपातपर्यंतमाचार्यैस्त्राटकं स्मृतं ॥ ३१ ॥

मोटकं नेत्ररोगानां तंद्रादीनां कपाटकं ।
यत्नतः त्राटकं गोप्यं यथा हाटकपेटकं ॥ ३२ ॥

अथ नौलिः ॥

३६अ)

आमंदावर्तवेगेन तुंदं सव्यापसव्यतः ।
नतांसो भ्रमयेद् देषानौलिगौडैः प्रकाश्यते ॥ ३३ ॥

मंदाग्नि संदीपन पाचनादि संधायिकानन्दकरी सदैव ।
अशेषदोषामय शोषणी च हठक्रिया मौलिरियं च नौली ॥ ३४ ॥

अथ कपालभाति ॥

भस्त्रेवलोहकारस्य रेचपूरौ स संभ्रमौ ।
कपालभाती विख्याता कफदोषो विशोषिणी ॥ ३५ ॥

षट्कर्म निर्गतस्थौल्य कफमेदोमलानूजयेत् ।
प्राणायामं ततः कुर्यादनायासेन सिध्यति ॥ ३६ ॥

प्राणायामैरेव दृढं प्रभुष्यंति मला इति ।
आचार्याणां तु केषां चिदन्यत् कर्म न संमतं ॥ ३७ ॥

ब्रह्मादयोपि त्रिदशाः पवनाभ्यास तत्पराः ।
अभूवन्नंतकभयास्तस्मात् पवनमभ्यसेत् ॥ ३९ ॥

वह्वामयोपि नाप्नोति पवनाभ्यास तत्परः ।
समनस्कोंतकभयं तस्मात् पवनमभ्यसेत् ॥ ४० ॥

यावद्वद्धो मरुद्देहे तावच्चित्तं निराश्रयः ।
यावत् पश्चोद्भ्रुवोर्मध्यं तावत् कालभयं कुतः ॥ ४१ ॥

विधिवत् प्राणसंपाकैर्नाडी चक्रे विशोधिते ।
सुषुम्णा वदनं भित्वा मुखाद्विशति मारुतः ॥ ४२ ॥

मारुते मध्यसंचारे मनः स्थैर्यं प्रजायते ।
यो मनः सुस्थिरी भावः सैषावस्था मनोन्मनी ॥ ४३ ॥

तत्सिद्धये विधानज्ञश्चित्रान् कुर्वीत कुंभकान् ।
विचित्र कुंभकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात् ॥ ४४ ॥

सूर्यभेदनमुज्जायी सीत्कारी शीतली तथा ।
भस्त्रिका भ्रमरी मूर्छा केवलश्चाष्टकुंभकाः ॥ ४५ ॥

पूरकांते च कर्तव्यो वंधो जालंधराभिधः ।
कुंभकांते रेचकादौ कर्तव्यः सूडियाणकः ॥ ४६ ॥

आधारा कुंचनेनाशु कंठसंकोचने कृते ।
मध्ये पश्चिमतानेन स्यात् प्राप्यो ब्रह्मनाडिगः ॥ ४७ ॥

३६ब्)

अपान मूर्ध्वमुच्छाप्य प्राणं कंठादधो नयेत् ।
योगीजरा विनिर्मुक्तः षोडशीवयसा भवेत् ॥ ४८ ॥

तत्र सूर्यभेदनं ॥

असने सुखदे योगी वध्वा वज्रासनं ततः ।
दक्षनाड्या समाकृष्य बहिस्थं पवनं शनैः ॥ ४९ ॥

आकेशादानखाग्राच्च निरोधावधि कुंभयेत् ।
ततः शनैर्वामनाड्या रेचयेत् पवनं शनैः ॥ ५० ॥

कपालशोधनं वातदोषघ्नं कृमिदोषनुत् ।
पुनः पुनरिदं कार्यं सूर्यभेदेनमुत्तमं ॥ ५१ ॥

अथोजायी ॥

मुखं नियम्य नाडी स्यामां कृष्यपवनं शनैः ।
यथालगति कंठात्तु हृदयावधि सस्वनं ॥ ५२ ॥

पूर्ववत् कुंभवत् प्राणं रेचयेदिडया ततः ।
श्लेषदोषहरं चैवं देहानलविवर्धनं ॥ ५३ ॥

नाडीजलोद्रा धातु गत दोष विनाशनं ।
गच्छतां गच्छतां कार्यमुज्जाप्याख्यं तु कुंभकं ॥ ५४ ॥

अथ सीत्कारी ॥

छिकां दद्यात् सदा वक्त्रे घ्राणे चैव विजृंभकां ।
एवमभ्यास योगेन कामदेवो द्वितीयकः ॥ ५५ ॥

योगिनीचक्र सामान्य सृष्टिसंहारकारकः ।
न क्षुधा न तृषा निद्रा नैवालस्य प्रजायते ॥ ५६ ॥

भवेत् स्वच्छंद देहस्तु सर्वोपद्रववर्जितः ।
अनेन विधिना नित्यं योगींद्रो भुविमण्डले ॥ ५७ ॥

एवमेवोक्त गोरक्षेण रसना तालुमूलेन यः प्राणं सततं पिवेत् ।
अष्ठाद्दूर्ध्व भवेत् तस्य सर्वरोग परिक्षयः ॥ ५८ ॥

अथ शीतली ॥

जिह्वया वायुमाकृष्य पूर्ववत् कुंभकादनु ।
शनैस्तु घ्राणरंध्राभ्यां रेचयेदनिलंधिया ॥ ५९ ॥

गुल्मप्लीहादिकान् दोषान् ज्वरपित्तं क्षुधां तृषा ।
विषाणी शीतलीनाम कुंभकायं निहंति च ॥ ६० ॥

अथ भस्त्रिका ॥

३७अ)

ऊर्वोरु रेचयेद्धत्तेनोभे पादतले यदा ।
पद्मासनं भवेत् सम्यक् सर्वपाप प्रनाशनं ॥ ६१ ॥

सम्यक् पद्मासनं वध्वा समग्रीवोदरः सुधीः ।
मुख नियम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ ६२ ॥

यथा लगति हृत्कंठ कपोले सस्वनं ततः ।
वेगेन पूरयेत् किंचिद्धृदयावधि मारुतं ॥ ६३ ॥

पुनर्विरेचयेत् तद्वत् पूरयेच्च पुनः पुनः ।
यथैवलोहकाराणां भस्त्रावेगेण चाल्पते ॥ ६४ ॥

यथोदरं भवेत् पूर्णं पवनेन तथा लघुः ।
धारयेन्नासिकां मध्य तर्जनीभ्यां विना दृढैः ॥ ६६ ॥

कुंभकं पूर्ववत् कृत्वा रेचयेदिडयानिलं ।
वातपित्तश्लेष्महरं देहानलविवर्धनं ॥ ६७ ॥

कुंडली वोधनं सर्व दोषघ्नं सुखदं शुभं ।
ब्रह्मनाडी मुखांतस्थ कफाद्यार्गलनाशनं ॥ ६८ ॥

गुणत्रयसमुद्भूतं ग्रंथित्रयविभेदकं ।
विशेषेण तु कर्तव्यं भस्त्राख्यं कुंभकं त्विदं ॥ ६९ ॥

अथ भ्रमरी ॥

वेगोघोषं पूरकं भृंगनादं भृंगीनादं रेचकं
मंदमंदं ।
योगींद्राणामेवमभ्यास योगाच्चित्तेजाताका चिदानंदमूर्छा ॥ ७० ॥

अथ मूर्छा ॥

पूरकांते गाढतरं वध्वा जालांधरं शनैः ।
रेचयेन् मूर्छनाख्येयं मनोमूर्छा सुखप्रदा ॥ ७१ ॥

अंतः प्रवर्तिता धीरामारुता पूरितोदरः ।
पयस्यगाधेपि सुखात् प्लवते पद्मपत्रवत् ॥ ७२ ॥

अथ केवलकुंभकः ॥

प्राणायाम त्रिधा प्रोक्तो रेचे पूरक कुंभकैः ।
सहितः केवलश्चेति कुंभको विविधो मतः ॥ ७३ ॥

रेचकः सपूरकः कार्य शनै सहित कुंभकः ।
यावत् केवलसिद्धिः स्यात् तावदेवं समभ्यसेत् ॥ ७४ ॥

रेचकं पूरकं मुक्त्वा सुखं यद्वायु धारणं ।

३७ब्)

प्राणायामो यमित्युयुक्तः सवै केवलकुंभकः ॥ ७५ ॥

केवले कुंभके सिद्धे रेच पूरक वर्जिते ।
न किंतु दुर्लभं तस्या त्रिषु लोकेषु विद्यते ॥ ७६ ॥

शक्तः केवल कुंभेन यथेष्टं वायुधारणं ।
राजयोगपदं सम्यक् लभते नात्र संशयः ॥ ७७ ॥

हठं विनाराजयोगो राजयोगं विना हठः ।
न सिध्यंति ततो युग्ममानिःष्यन्तेः समभ्यसेत् ॥ ७८ ॥

कुंभितः प्राणरेचांते कुर्याच्चितं निरामयं ।
एवमभ्यास योगेन राजयोगपदं व्रजेत् ॥ ७९ ॥

कुंभकात् कुंडली बोध कुंडली बोधतो भवेत् ।
अनर्गला सुषुम्ना च हठसिद्धिश्च जायते ॥ ८० ॥

वपुः कृशत्वं वदने प्रसन्नता नाडी स्फुटत्वं नयने च निर्मले ।
अरोगता विंदुजयोग्नि दीर्घता भवेयुरेतानि कृतेत्र कुंभके ॥ ८१ ॥

इत्यात्मारामयोगीन्द्रविरचितायां हठप्रदीपिकायां
चित्रकुंभकप्राणायामलक्षणं नामाद्वितीय उपदेशः ॥


स शैलवन धात्रीणां यथाधारो हि नायकः ।
सर्वेषां योगतंत्राणां तथारौधो हि कुंडली ॥ १ ॥

सुप्तागुरु प्रसादेन येन जागर्ति कुंडली ।
तदा सर्वाणि पद्माणि भिद्यते ग्रंथयोपि च ॥ २ ॥

प्राणस्य शून्यपदवी तथा राजपथायते ।
यत चित्तं निरालम्बं तथा कालस्य वंचनं ॥ ३ ॥

तस्मात् सर्वप्रयत्नेन प्रवाधयितुमीश्वरीं ।
ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासं समभ्यसेत् ॥ ४ ॥

महामुद्रामडा वंधो महावेधश्च खेचरी ।
ऊडीयाणो मूलवंधो वंधोजालं धराभिधः ॥ ५ ॥

करणी विपरीताख्या वज्रोली शक्तिचालनं ।
इदं हि मुद्रा दशकं जरामरणनाशकं ॥ ६ ॥

३८अ)

आदिनाथोदितं सम्यगष्टैश्वर्य प्रदायकं ।
वल्लभं सर्वसिद्धानां दुर्लभं मरुतानपि ॥ ७ ॥

गोपनीयं प्रयत्नेन यथा रत्नरकरंडकं ।
कस्यचिन्नैव वक्तव्यं कुलस्त्री सुरतं यथा ॥ ८ ॥

तत्र महामुद्रा ॥

पादमूजेन वामेण योनिं संपीड्य दक्षिणं ।
पादं प्रसारितं कृत्वा कराभ्यां धारयेद् दृढं ॥ ९ ॥

कंठे वंधं समारोप्य धारयेद् वायुमूर्ध्वतः ।
यथा दंडहतः सर्पो दंडाकारः प्रजायते ॥ १० ॥

ऋज्वी भूता तथा शक्ति कुंडली सहसा भवेत् ।
तदासौ मरणावस्था जायते द्विपुटाश्रिता ॥ ११ ॥

ततः शनैः शनैरेव रेचयेन्न तु वेगतः ।
इयं खलु महामुद्रा महासिद्धैः प्रशस्यते ॥ १२ ॥

महाक्लेशायतो दोषा जीयंति मरणादयः ।
महामुद्रा च ते नैव वदंति विवुधोत्तमाः ॥ १३ ॥

चंद्रांगे तु समभ्यस्य सूर्यांगे पुनरभ्यसेत् ।
यावतुल्या भवेत् संख्या ततो मुद्रां विसर्जयेत् ॥ १४ ॥

नहि पश्यमपश्यं वा रसाः सर्वेपि नीरसाः ।
अपि भुक्तं रसयोरं * पीयूषमिवजीर्यते ॥ १५ ॥

क्षयकुष्टगदावर्त गुल्मप्लीहपुरोगमाः ।
तस्य रोगाः क्षयं यांति महामुद्रां च यो भ्यसेत् ॥ १६ ॥

कथिते यं महामुद्रा महासिद्धिकरी नृणां ।
गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ १७ ॥

अथ महावंधः ॥

पार्ष्णि वामस्य पादस्य योनि स्थाने नियोजयेत् ।
वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा ॥ १८ ॥

पूरयित्वा ततो वायुं हृदये चिकुकं दृढः ।
निःपीड्ययोनिमाकुच्यमनोर्मद्ये नियोजयेत् ॥ १९ ॥

धारयित्वा यथाशक्ति रेचयेदनिलं शनैः ।

३८ब्)

सव्यांगे च समभ्यस्य गक्षांगे पुनरभ्यसेत् ॥ २० ॥

मतमत्र च केषांचित् कंठवद्धं तु वर्जयेत् ।
राजदंतद्वयं तत्र जिह्वयात्तं भयेदिति ॥ २१ ॥

अयं खलु महावंधो महासिद्धि प्रदायका ।
कालपाश महावंधो विमोचन विचक्षणः ॥ २२ ॥

अयं तु सर्वनाडीनामूर्द्धं गति विवोधकः ।
त्रिवेणी संगमं धत्ते केदारं प्रापयेन्मनाः ॥ २४ ॥

रूपलावण्यसंपन्ना यथा स्त्री पुरुषं विना ।
महामुद्रा महावंधौ निःफलौ विधिवर्जितौ ॥ २५ ॥

अथ महावेधः ॥

महावंध स्थितो योगी कृत्वा पूरकमेकधीः ।
वायूनांगति मावृत्य निभंतं कण्ठमुद्रया ॥ २६ ॥

न्यस्त हस्त युगो भूमौ प्राणं संताडयेच्छनैः ।
जंघा द्वयं समाकृष्य वायुः स्फुरति सत्वरं ॥ २७ ॥

सोमसूर्याग्नि संवंधा जायते चामृतायवै ।
मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् ॥ २८ ॥

महावेधा समभ्यस्य महासिद्धि प्रदायकः ।
वलीपलित वेधघ्नः कथ्यते साधकोत्तमैः ॥ २९ ॥

वंधत्रयं महागुह्यं जरामृत्यु विनाशनं ।
वह्नि वृद्धिकरं चिंतदणिमादिशुनप्रदं ॥ ३० ॥

अष्टधा क्रियते चैव यामं यामं दिने दिने ।
पुण्यसंभारसंभावि पापौघभिदुरं तथा ॥ ३१ ॥

सम्यक् शिक्षावतामेव स्वल्पं प्रथमसाधनं ।
वह्निस्त्रीपथ सेवानांमादौ वर्जन माचरेत् ॥ ३२ ॥

अथ खेचरी ॥

छेदनं चालनं दोहैः कला क्रमेण वर्द्धयेत् ।
तावद्यावत् भ्रूमध्यं रसनास्पृशति खेचरी ॥ ३३ ॥

सिद्धिः कपाले कुहरे जिह्वा प्रविष्टा विपरीतगा ।
भ्रुवोरंतर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ३४ ॥

३९अ)

कला पराङ्मुखी नीत्वा क्षणार्धं यदि तिष्ठति ।
क्षणेन मुच्यते व्याधि जरामृत्यु भरादिकैः ॥ ३५ ॥

न रोगो मरणं तस्या न निद्रा न क्षुधा तृषा ।
न च मूर्छा भवेत् तस्य यो मुद्रावेत्ति खेचरी ॥ ३६ ॥

पीड्यतेन सरोगेण लिप्यतेन सकर्मणा ।
वाध्यतेन सकालेन यस्य मुद्रास्ति खेचरी ॥ ३७ ॥

चित्तं चरति खे यस्य जिह्वा चरति खे गता ।
तेनैषा खेचरी नाम मुद्रासिद्धैर्नमस्कृता ॥ ३८ ॥

खेचर्या मुद्रितं येन विवरं लंविकोर्धतः ।
न तस्य क्षरते विंदुः कामिन्या श्लेषितस्य च ॥ ३९ ॥

चलितोपि यदा विंदुः संप्राप्तो योनिमंडलं ।
नयेदूर्ध्वं हठाच्छक्त्या निवद्धे योनि मुद्रया ॥ ४० ॥

ऊर्ध्वं जिह्वा स्थिरो भूत्वा सोमपानं करोति यः ।
मासार्धेण न संदेहो मृत्युं जयति योगवित् ॥ ४१ ॥

नित्यं सोमकल्पपूर्णे शरीरं यस्य योगिनः ।
तक्षकेनापि दष्टस्य विषं तस्य न सर्पति ॥ ४२ ॥

इंधनानि तथा वह्निस्तैलवर्ती च दीपकं ।
तथा सोमकलापूर्णं देही देहं न मुंचति ॥ ४३ ॥

गोमांसं भक्षयेद्योगी पिवेदमरुवारिणीं ।
कुलीनं तमहंमन्ये त्वितरे कुलघातकः ॥ ४४ ॥

गोशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि ।
गोमांस भक्षणं तत्तु महापातक नाशनं ॥ ४५ ॥

जिह्वाप्रवेशसंभूता वह्निनोत्पादिता खलु ।
चंद्राद्रवति यः सारः सस्यादमरवारुणी ॥ ४६ ॥

ऊर्द्धं षोडश पद्मपत्र गलितं प्राणादवाप्तं हठादूर्ध्वंसे
रसनानियम्य विवरे शक्तिं परां चिंतयन् ॥ ४७ ॥

उक्त लोलकलांजल विमलं धारामृतयः पिवेत् ।
निर्दोषः समृणालकोमलतनुर्योगी चिरं जीवति ॥ ४८ ॥

३९ब्)

चुंवुती यदि लंविकाग्रमनिशं जिह्वारसस्पंदनी सक्षाराकटुकाम्ल
दुग्धसदृशामध्वाज्य तुल्याथ वा ।
व्याधीनां हरणं जरामरणं शास्त्राद्गमोद्गीरणं तस्य
स्यादमरत्वमष्टगुणितं सिद्धांगणाकर्षणं ॥ ४८ ॥

एकं सृष्टमयं वीजमेका मुद्रा च खेचरी ।
एको देवो निरालंवो एकावस्था मनोन्मनी ॥ ४९ ॥

पाताले यद्विशति सुखिरं मेरु मूले यदस्ति तद्दृच्चैतत् प्रवदति
सुधीस्तन्मुखं निम्नगानां ।
चंद्रासारः स्रवति वपुषस्तेन मृत्युर्न्नराणां
तद्वध्नीयासुकरणमथोनान्यथाकाय सिद्धिः ॥ ५० ॥

अथ मूलवंधाः ॥

पार्ष्णिभागेन संपीड्य योनिमाकुंचये दृढं ।
अपानमूर्ध्वमाकृष्य मूलवंधो निगद्यते ॥ ५१ ॥

अधोगतिमपानं वै ऊर्ध्वगं कुरुते वलात् ।
आकुंचनेन तं प्राहुर्मूलवंधं च योगिनः ॥ ५२ ॥

गुदं पार्ष्ण्या तु संपीड्य वायुमाकुंचयेद् वलात् ।
वारंवारं यथा चोर्ध्वं समोयाति समीरणः ॥ ५३ ॥

प्राणापानौ नादविंदू मूलवंधेन चैकतां ।
गत्वा योगस्य संसिद्धं गच्छतो नात्र संशयः ॥ ५४ ॥

अपाण प्राणयोरैक्यं क्षये मूत्रपुरीषयोः ।
युवा भवति वृद्धोपि सततं मूलवन्धनात् ॥ ५५ ॥

अपाने चार्धगोयाते प्रयाते वह्निमंडले ।
तदानल सिखं दीर्घावर्धते वायुनाहता ॥ ५६ ॥

ततौ यातौ वह्ना पाणौप्राणामुष्णाति रूपकं ।
तेनात्यंत प्रदीप्तश्च ज्वलनो देहगस्तथा ॥ ५७

तेन कुंडलिनी सुप्ता संतप्ता संप्रवुध्यते ।
दंडाहता भुजगीवनिःश्वस्य ऋतुजा व्रजेत् ॥ ५८ ॥

४०अ)

विलं प्रविष्टे पवने ब्रह्मनाड्यंतरे व्रजेत् ।
तस्मान्नित्यं मूलवंधः कर्तव्यो योगिभिः सदा ॥ ५९ ॥

अथोडियाणवंधः ॥

वद्धो येन सुषुम्णायां प्राणस्तद्दीयते यतः ।
तस्मादुड्यापाकाख्योयं योगिभिः समुदाहृतः ॥ ६० ॥

उड्यानं कुरुते यस्मादविश्रांतो महाखगः ।
उड्याणं तु तदेव स्यात् तत्र वंधोभिधीयते ॥ ६१ ॥

उदरे पश्चिमांतानं नाभेरूर्ध्वं तु कारयेत् ।
उड्डियाणो ह्ययं वंधो मृत्युमातंग केसरी ॥ ६२ ॥

उड्डियाणं तु सहजं गुरुणा कथितं सदा ।
अभ्यसेदनिशं योगी वृद्धोपि तरुणो भवेत् ॥ ६३ ॥

नाभेरूर्ध्वमधश्चापि तानं कुर्यात् प्रयत्नतः ।
षण्मासाभ्यासयोगेण जरामृत्युं न संशयः ॥ ६४ ॥

सति वज्रासना पादौ कराभ्यां धारये दृढं ।
गुल्फदेश समीपे च कंपं तत्र प्रपीड्यते ॥ ६५ ॥

पश्चिमंतान मुदरे कारयेद्धृदये गले ।
शनैः शनैर्यथा प्राणः स्कंधसंधि न गच्छति ॥ ६६ ॥

सर्वेषामेव वंधानां उत्तमो ह्युडियाणकः ।
उडियाणे कृते वंधे मुक्तिः स्वाभाविकीं भवेत् ॥ ६७ ॥

अथ जालांधरबंधः ॥

कंठमाकुंच्य हृदये स्थापयेच्चिवुकं दृढं ।
वंधो जालांधराख्योयं मृत्योर्मृत्युपरो मतः ॥ ६८ ॥

वध्नाति हि शिराजालमधोजाति नभो जलं ।
ततो जालाधनो वंधः कंठ दुःखौघनाशनं ॥ ६९ ॥

जालंधरे कृते वंधे कंठसंकोच लक्षणे ।
न पीयूषं पचत्यग्नौ न च वायुः प्रधावति ॥ ७० ॥

कंठसंकोचने नैवद्देनाड्यौ स्तंभये दृढं ।
मध्य चक्रमिदं ज्ञेयं षोडशाधारवंधनं ॥ ७१ ॥

वंधत्रयमिदं श्रेष्ट महासिद्धैर्निषेवितं ।
सर्वेषां योगतंत्राणां साधनं योगिनां विदुः ॥ ७२ ॥

अधस्था कुंचने नैव कंठसंकोचनेन च ।

४०ब्)

मध्ये पश्चिमताने स्यात् प्राणरंध्रे ब्रह्मरंध्रगः ॥ ७३ ॥

मूलस्थानं समाकुंच्य उडियाणं तु कारयेत् ।
इडा च पिंगला वध्वा वाहयेत् पश्चिमं पयं ॥ ७४ ॥

अनेनैव विधानेन प्रयाति पवनोलयं ।
ततो न जायते मृत्युर्जरारोगादिकं तथा ॥ ७५ ॥

अथ विपरीत लक्षणं ॥

ऊर्ध्वनाभिरधस्ता तु रूर्द्धभानुरधः शशी ।
करणं विपरीताख्यं गुरुवाक्येन लभ्यते ॥ ७६ ॥

नित्यमभ्यास युक्तेन जठराग्नि विवर्धनं ।
आहारो वहुलस्तस्य संपाद्यः साधकस्य तु ॥ ७७ ॥

अल्पाहारे भवेदग्नि देहं भवति तत्क्षणात् ।
अधः शिरश्चोर्द्धपादः क्षणं स्यात् प्रथमे दिने ॥ ७८ ॥

क्षणात् तु किंचिदधिकंमभ्यसेच्च दिने दिने ।
बलितं पलितं चैव षण्मासार्धेन दुष्यते ॥ ७९ ॥

याममात्रं तु यो नित्यंमभ्यसेत् स तु कालजित् ।

अथवज्जोली ॥

स्वेच्छया वर्तमानोपि योगोक्तैर्नियमैर्विना ॥ ८० ॥

वज्जोलींयोभि जानाति स योगी सिद्धिभाजनं ।
तत्र वस्तु द्वयं मन्ये दुर्लभं यस्य कस्यचित् ॥ ८१ ॥

क्षीरमेकं द्वितीयं तु नारी च वशवर्तिनी ।
मोहनैर्न शनैः सम्यगूर्ध्वा कुंचनमभ्यसेत् ॥ ८२ ॥

पुरुषो वाथ नारी वा वज्जाली सिद्धिमाप्नुयात् ।
यत्नतः शरजालेन फूत्कारं कज्जकंधरं ॥ ८३ ॥

शनैः शनैः प्रकुर्वीत वायुः संचारकारणात् ।
चक्रितनिजविंदुं च ऊर्ध्वमाकृष्य रक्षयेत् ॥ ८४ ॥

एवं सरक्षयेद्विंदुं मृत्युं जयति योगवित् ।
मरणं विंदुपातेन जीवितं विंदुधारणात् ॥ ८५ ॥

सुगंधिर्योगिनो देहो जायते विंदुधारणात् ।
सुगंधिर्योगिनो देहो जायते विंदुधारणात् ॥ ८६ ॥

४१अ)

यावद्विंदुस्थिरो देहे तावन्मृत्यु भयं कुतः ।
चित्तायत्तं नृणां शुक्रं शुक्रायत्तं च जीवति ॥ ८६ ॥

तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः ।
ऋतुमत्यारजोप्येवं निजविंदुं च रक्षयेत् ॥ ८७ ॥

मेढ्रेणाकर्षयेदूर्ध्व सम्यगभ्यासयोगतः ।
अयं योगः पुण्यवतां धन्यानां तत्वशालिनां ॥ ८८ ॥

निर्मत्सराणां सिद्धेत न तु मत्सर शालिनां ।
सहजोलिश्रामरोलिर्वज्जाल्पा एव वोधतः ॥ ८९ ॥

जले भस्म विनिक्षिप्य दग्धगोमय संभवं ।
वज्जोलीमेहनादूर्ध्वं स्त्रीपुंसो स्वांग लेपनं ॥ ९० ॥

आसीनयोः सुखे नैव मुक्तव्यापरयो क्षणं ।
सहजौलिरियं प्रोक्ता श्रद्धया योगिभिः सदा ॥ ९१ ॥

अयं शुभकरो योगो भोगे मुक्तेपि मुक्तिदः ।
पुंसो विंदु समाकुंच्य सम्यगभ्यास पाटवान् ॥ ९२ ॥

यदि नारी रजो रक्षेद्वज्जोल्या सहयोगिनी ॥ ९३ ॥

तस्याः किंचिद्रजोनाशं न गच्छंति न संशयः ।
तस्याः शरीरे नादस्तु विंदुनामव गच्छति ॥ ९४ ॥

स विंदुस्तद्रजश्चैव एकीभूयौ स्वदेहयौ ।
वज्जोल्याभ्यास योगेन सर्वसिद्धिं प्रकुर्वते ॥ ९६ ॥

अतीतानागतं वेत्ति खेचरी च प्रजायते ।
देहसिद्धिं च लभते वज्जोल्याभ्यासयोगतः ॥ ९६ ॥

तस्मादयं साधकाय भोगे मुक्तेपि सुक्तिदः ।
तस्मात् पुण्य वतामेव ह्ययं योगः प्रसिध्यति ॥ ९७ ॥

अथ शक्तिचालनं ॥

कुटिलांगी कुडलिनी भुजंगी शक्तिरीश्वरी ।
कुंडल्यरुंधती ह्येव शब्दापर्याय वाचकाः ॥ ९८ ॥

उद्घाटयेत् कपाटं तु यथा कुंचिकया हठात् ।
कुंडलिन्या तथा योगी मोक्षद्वारं विभेदये ॥ ९९ ॥

४१ब्)

येन मार्गेण गंतव्यं ब्रह्मद्वारनिरामयं ।
मुखेनाच्छाद्यते द्वारं प्रसुप्ता परमेश्वरी ॥ १०० ॥

कुंडोर्ध्वं कुंडली शक्तिरष्ठया कुंडली कृता ।
वंधना यंत्रमूढानां योगिनां मोक्षदायिका ॥ १०१ ॥

कुंडली कुटिलाकारा सर्पिवत् परिवर्तिता ।
सा शक्तिश्चालिता येन समुक्तो नात्र संशयः ॥ १०२ ॥

गंगायमुनयोर्मध्ये वालरंडा तपस्विनी ।
वलात्कारेण गृह्णीयात् तद्विष्णोः परमं पदां ॥ १०३ ॥

पुच्छं प्रगृह्य भुजगी सुप्ता मुद्धोधयेदभीः ।
निद्रां विहाय सा ऋज्वी उर्ध्वमुत्तिष्ठते हठात् ॥ १०४ ॥

सव्यासनस्थस्य फणवती सांप्रतश्च सायं प्रहरार्धमात्रं ।
प्रसूर्य सूर्यात् परिधान युक्ता प्रगृह्य नित्यं परिचालनीया ॥ १०५ ॥

वितस्ति प्रमितं दैर्घे विस्तारं चतुरंगुलं ।
मृदुलं धवलं प्रोक्तं चेष्टतांवर लक्षणं ॥ १०६ ॥

भानोराकुंचनं कुर्या कुंडली चालयेत् ततः ।
मृत्युचक्र गतस्यापि तस्य मृत्युभयं कुतः ॥ १०७ ॥

नासादक्षिणमार्गवाहि पवनाऽत्प्राणोति दीर्घी कृतश्चंद्रांभः
परिपूरिता मृततनुः प्राग्घंटिकायाः सदा ॥
छंदकाले विशालवह्नि वशगाद्रूरंधनाडी गणात्कायं कुरुते पुनर्न
वितरं छिन्नद्रुमस्कंधवत् ॥ १०८ ॥

कुंडली चालयित्वा तु भस्त्रीं कुर्याद् विशेषतः ।
एवमभ्यासतो नित्यं यमिनः शंकते यमः ॥ १०९ ॥

तथाभ्यासात् सूर्यभेदनमुज्जापि चापि शीतली ।
एवमभ्यास युक्तस्य शमिनोयमिन कुतः ॥ ११० ॥

मुहूर्त द्वय पर्यंतं निर्भयश्चालनादसौ ।
ऊर्ध्वमाकृष्यते किंचित् सुषुम्नागत कुंडली ॥ १११ ॥

तेन कुंडलिनी तस्याः सुषुम्नायाः समुद्धृता ।

४२अ)

जहाति तस्मात् प्राणोयं सुषुम्नां व्रजति स्वतः ॥ ११२ ॥

तस्मात् संचालयेन्नित्यं शंभु गर्भामरुंधतीं ।
यस्मात् संचालेनाशु योगी रोगैर्विमुच्यते ॥ ११३ ॥

येन संचालिता शक्तिः स योगी सिद्धिभाजनं ।
किमत्र वहुनोक्तेन कालं जयति लीलया ॥ ११४ ॥

ब्रह्मचर्य व्रतस्यैनं नित्यं हितमिताशिनः ।
मंडलात् दृश्यते सिद्धिः कुंडल्यभ्यासयोगतः ॥ ११५ ॥

अभ्यासनिःसृतां चांद्री विभूत्या सहमिश्रयेत् ।
तद्वारेदुत्तमागे तु दिव्यदृष्टिप्रदायकं ॥ ११६ ॥

द्वासप्तति सहस्राणां नाडीनां मलशोधनां ।
कुतः प्रक्षालनोपायः कुंडल्याभ्यासना दृते ॥ ११७ ॥

इति शक्तिचालनं ॥

इति मुद्रा दशप्रोक्ता ह्यादिनाथेन शंभुना ।
करणे सर्वसिद्धीनामेकैकापि क्षमैव सा ॥ ११८ ॥

राजयोगं विना पृथ्वी राजयोगं विनानिशि ।
राजयोगं विना मुद्रा विचित्रापि न राजते ॥ ११९ ॥

मासतोभ्यसनं सर्व मनो युक्तं समाचरेत् ।
इतस्रन च कर्तव्या मनोवृत्तिर्मणीषिणा ॥ १२० ॥

खिलापि मध्यमानाडी दृढाभ्यासेन योगिना ।
आसनं प्राणसंयाम मुद्राभिः सकला भवेत् ॥ १२१ ॥

अभ्यासेषु विनिद्राणां मनुद्भूतसमादिषु ।
रुद्राणी वा परामुद्राभद्रां सिद्धिं प्रयच्छति ॥ १२२ ॥

उपदेशं हि मुद्राणां यो दत्ते सांप्रदायिकं ।
स एव सुगुरुः स्वामी साक्षादीश्वर एव सः ॥ १२३ ॥

तस्य वाक्य परोमुद्रां यो भ्यस्यति समीहितः ।
अणिमादि गुणैः सोयं जायते कालवंचकः ॥ १२४ ॥

इति स्वात्मावंदचिंतामणिनास्वात्मारामयोगीन्द्रविरचितायां
हठप्रदीपिकायां मुद्रालक्षणं नाम तृतीय उपदेशः ॥


४२ब्)

नमः शिवाय गुरवे नादविंदु लयात्मने ।
निरंजनं पदं यांति नित्यं यत्र परायणाः ॥ १ ॥

इंद्रियाणां मनोनाथ मनोनाथस्तु मारुतः ।
मारुतस्य लयो नाथस्तं नाथ महमाश्रये ॥ २ ॥

प्रणष्टश्च सित श्वास प्रध्वस्तो लीन विग्रहः ।
निश्चेष्टो निर्विकारश्च लयो जयति योगिनां ॥ ३ ॥

उच्छिन्न सर्वसंकल्पो निःशेषगत चेष्टितः ।
स्वावर्गलभ्यये ज्ञापि जीवत्या चंद्रतारकं ॥ ४ ॥

यत्र दृष्टिर्लयस्तत्र भूतेन्द्रिय विविक्तया ।
वेदशास्त्रपुराणानि सामान्य गणिका इव ॥ ५ ॥

एकैव शांभवी मुद्रा गोप्याकुलवधूरिव ।
अंतर्लक्षं वहिर्दृष्टिर्निमेषोन्मेषवर्जिता ॥ ६ ॥

एषा सा शांभवी मुद्रा सर्वतंत्रेषु वर्जिता ।

अंतर्लक्षविलीन चित्तपवनो योगी यदा वर्तते दृष्ट्या नि श्चल तारया
वहिरधः पश्येन्न पश्ये तदा ।
मुद्रेयं खलु खेचरी भवति या प्राप्या प्रसादाद्गुरोः शून्याशून्य
विवर्जितं स्फुरति यत् तत्वं पदं शांभवं ॥ ७ ॥

सा भव्या अपि खेचर्या अवगम्य च भिद्यते ।
भिन्ने च स्रवते चंद्रादमृतं दिव्यरूपिणः ॥ ८ ॥

तत्सर्वं ग्रसते सूर्यस्तेन पिंडो जरायुतः ।
तत्रास्ति करणं दिव्यं सूर्यस्य परिपंथि च ॥ ९ ॥

गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थ कोटिभिः ।
इदं सर्वात्मना शिष्यै रूपासीत ततो गुरुं ॥ १० ॥

श्री आदिनाथेन तु सार्धकोटिलयप्रकाराः कथिता जयंति ।
नादानुसंधानकमेकमेवमन्यामहेमुख्यतमं लयानां ॥ ११ ॥

मुक्तासने स्थितो योगी मुद्रां संधाय शांभवीं ।
शृणुयां दक्षिणे कर्णे नादमंतस्थमेकधीः ॥ १२ ॥

४३अ)

काष्ठ प्रवर्तितो वह्नि काष्ठेन सहसाम्यति ।
नाद प्रकर्तिनं चित्तं नादेन सह साम्यति ॥ १३ ॥

विस्मृत्य सकलं वाद्यं नादे दुग्धांवुवन्मनः ।
एकीभूयादथ सह चिदाकाशेन लीयते ॥ १४ ॥

उदासीन परो भूयात् सदाभ्यासेन संयमी ।
उन्मनीकरणं सद्योनाद एवावधार्यते ॥ १५ ॥

सर्वचिंतां समुत्सृज्य सर्वचेष्टां च सर्वदा ।
नादस्यैवानु संवंधा द्विधा चित्तं प्रलीयते ॥ १६ ॥

आरंभश्च घटश्चिअव यथा परिचयस्तथा ।
निष्पत्तिः सर्वयोगेषु योगावस्था भवंतिताः ॥ १७ ॥

ब्रह्मग्रंथौ भवेद् भेद स्वानंदः शून्यसंभवः ।
विचित्र तत्क्षणादेहे सर्वतः श्रूयते ध्वनिः ॥ १८ ॥

दिव्यदेह स्वतेजस्वी दिव्यगंधस्त्वरोगवान् ।
संपूर्णे हृदयं शून्ये त्वारंभो योगिनो भवेत् ॥ १९ ॥

अथ घटावस्था ॥

द्वितीयायां घटी कृत्य वायुर्भवति मध्यगः ।
दृढासनो भवेद्योगी ज्ञानादेव समेस्तथा ॥ २० ॥

विष्णुग्रंथेस्तदा भेदात् परमानंदसूचकः ।
अतिशून्ये मर्दलस्य भेरीशब्दस्तथा भवेत् ॥ २१ ॥

तृतीयायां ततो भूत्वा सिंहस्येव महाध्वनिः ।
महाशून्यं तदा याति सर्वसिद्धि समाश्रयः ॥ २२ ॥

चित्तानंदस्तथाजज्ञे सहजानंदसंभवः ।
सुखदुःख जरामृत्यु क्षुधानिद्रा विवर्जितः ॥ २३ ॥

रुद्रग्रंथि ततो भित्वा सर्वं पीड्यगतानिलः ।

अथ निष्पत्सवस्था ॥

निष्पत्तौ वेगतः शब्दो वंशिकध्वनिवद् भवेत् ।
एकभूतं तदा चित्तं राजयोगाभिधानकं ॥ २४ ॥

सृष्टिसंहारकर्तासौ योगीश्वरसमो भवेत् ।

४३ब्)

अस्तु वामस्तु वा शक्ति गात्रे वा खंडितं महत् ॥ २५ ॥

लये मृतमये सौख्यं राजयोगादवाप्यते ।
राजयोगमजानंतः केवलं हठकर्मणाः ।
सेवकान् कर्षकान् मन्ये प्रयासे फलवर्जितान् ॥ २६ ॥

तत्वं वीज हठक्षेत्रमौदासीन्यं जलं तथा ।
उन्मनी कल्पलतिका सद्य एव भविष्यति ॥ २७ ॥

राजयोगः समाधिश्च चोन्मनी च मनोन्मनी ।
अमरश्चापि चाद्वैतं निरालंवं निरंजनं ॥ २८ ॥

अमनस्को मनस्तत्वं शून्यशून्यं परं पदं ।
जीवन्मुक्तिश्च सहजं तुरीयं त्वेक वाचकं ॥ २९ ॥

उन्मन्य व्याप्तये शीघ्रमुभौ द्वौ मम सम्मतौ ।
तत्वं परं तथा शख्यं नादोपासनमेव च ॥ २९ ॥

सर्वचिंतां परित्यज्य सावधानेन चेतसा ।
नाद एक सुसंध्येयो योगसाम्राज्यमिच्छता ॥ ३० ॥

कर्णेपिधाथ मूले च यः शृणोति ध्वनिं मुनिः ।
तत्र चित्तं स्थिरं कुर्याद् यावस्थिर पदं व्रजेत् ॥ ३१ ॥

अभ्यस्यमानो नादोयं वाह्यमावृणाते ध्वनिं ।
तत्रासु प्रथमाभ्यासे नादो नानाविधो महान् ॥ ३२ ॥

वर्धमाने ततोभ्यासे श्रूयते सूक्ष्मसूक्ष्मकः ।
यत्र यत्रापि नादे चलगति प्रथमं मनः ॥ ३३ ॥

तत्रैव यः स्थिरो भूत्वा तेन सार्धं विलीयते ।
मनोन्मत्त गजेन्द्रस्य विश्रमोद्यानचारणः ॥ ३४ ॥

नियामनः प्रसंवद्धे निनादो निशितां कुशः ।
श्रवणमुख नयननासा निरोधने नैव कर्तव्यं ॥ ३५ ॥

शुद्धौ सुषुम्नासरणौ स्फुटममलः श्रूयते वादः ।
ज्ञात्वा सुषुम्ना संभेदं कृत्वा वायुं च मध्यगं ॥ ३६ ॥

कृत्वा सा चैन्दवस्थाने प्राणरंध्रे नियोजयेत् ।

४४अ)

तथा वसिष्टवचनं ॥ ३६ ॥

इडाया पिंगलायां च चरतश्चंद्र भास्करौ ।
चंद्रस्तामस इत्युक्तः सूर्यो राजस उच्यते ॥ ३७ ॥

सर्वे हठलयोपाया राजयोगस्य सिद्धये ।
राजयोग समारूढः पुरुषः कालपंचकः ॥ ३८ ॥

इति श्रीसकलशास्त्रसमुच्चये स्वात्मारामयोगीन्द्रविरचितायां
हठप्रदीपिकायां चतुर्थः उपदेशः समाप्तः ॥


श्रीरामाय नमः ॥

श्रीमत्कामपीठकमलायै नमः ॥

श्रीत्रिपुरांतक महारुद्र सकलमंत्रदीक्षादीक्षक कामपीठ गुरवे
नमः ॥

अथ सम्यक् प्रवक्ष्यामि कामाक्षा शवरीरितं ।
शावरीतंत्रमत्यर्थं सद्यःप्रत्ययकारकं ॥

कदाचिद्धिमवत् पार्श्वे कार्तिकेय गवेषणा ।
शवरीरूपमास्थाय गौधित्किन्नमानसा ॥

पप्रच्छशंभुं सर्वेश सर्वागम फलप्रदं ॥

गौर्युवाच ॥

देवसंति समस्तानि तंत्राणि जगतीतले ।
पौराणवैदिकान्यन्यान्यतुला निरसातले ॥

सिद्धानि यक्षजान्याशु पैशाचानि परींचिहि ।
यक्षिणी पटलान्पत्रसौरंगाण चराणि वै ॥

त्रैपुरान्यथ शैवानि चांडानि चुवुकानि च ।
कौलानिभिल्लसंज्ञानि कैरातान्पथपंचि च ॥

पंचारात्राणि पर्वाणि सर्वाणि विहितानि च ।
पिहितानि परांचीणि धर्मगुप्तानि यान्यपि ॥

मंत्र यंत्रादि संभूत रसौषधशतान्यपि ।
तानि सर्वाणि गिरिश सिद्धशावरमित्यपि ॥

फलंति न फलंत्याशु तेनाविश्वासितान्यपि ।
किमत्र कारणं देव तद्व्रूहि ह्यपरं च मे ॥

जंतुमात्रक तं सद्यः फलत्याशु महीतले ।
ज्ञानिनां ज्ञानिना वापि अधिकार विवर्जिता ॥

४४ब्)

कृतमात्रं फले कृद्यन्तु यन्मनस्यागतं हि तत् ।
येन च प्राप्तमतुलं ससिद्धो नात्र संशयः ॥

ब्रह्मक्षत्रियविट्शूद्रा ये चान्येप्यन्यजातिजाः ।
अधिकारिणस्ते सर्वे सद्यः फल विभूषिताः ॥

एतद्व्रूहि महादेव करुणा शतसागर ।
त्वत् प्रसादादहं सद्यः प्राप्नुयां तदनुत्तमं ॥

शंभुरुवाच ॥

साधु पृष्टं महादेवि मंत्रयंत्र रहस्यकं ।
इदं कस्यापि नाख्येयं तथापि पुरतस्तव ॥

भवानि वल्लभासित्वं तच्छृणुष्व वरानने ।
पंचतंत्राणि सर्वाणि मयासंमथ्य वै पुरा ॥

निःसाराणि कृतात्पाशु न फलंति ततस्ततः ।
सिद्धशावरसंज्ञं तु वीरभद्रस्वरूपिणा ॥

मया सदग्धवीजं तन्नफलंत्येव कस्यचित् ।
मोहार्थं रचितं देवि तत्तु पाषण्डवर्धनं ॥

अतोत्रैव फलत्येव तथा कौलागमादिकं ।
दक्षेण धूर्तरूपेण सिद्धशावरसंज्ञकं ॥

प्रयुंजितं पुरा तेन क्षोभितं जगतीतत्रयं ।
अतो मया महादेवि तस्य शक्तिः प्रणाशिता ॥

यो योगीत्यक्ते हो?हादि विषयस्तस्थ केवलं ।
कदाचित् सिध्यतेतोवा स्वाधिकार विदूषितं ॥

अभ्यर्हित तमंतुभ्यं तंत्रं सर्वफलप्रदं ।
कामरूपाभिधं तत्र कामकल्पविवर्धनं ॥

त्वयाप्येतद्यदाचीर्णं भविष्यति वरानने ।
शवरी तंत्रं नामाग्रसं भविष्यति ॥

देवमानुषभाषाभिर्भूयांसो मनवस्त्विह ।
यक्षराक्षसपैशाच भाषाभिर्मनवस्तथा ॥

नानादेशोद्भवाभाषा तु लोमविलोमजा ।
तथा कालस्य नियमः सूक्ष्मकालस्य निश्चयः ॥

ग्रहयोगादि नियमस्तथौषधविधि निश्चितिः ।
एतान्यत्र हि मुख्यानि ध्यानादि नियमो न हि ॥

(दक्षिणकर्णशब्देन अकारः तमारभ्य वामकर्णशब्देन क्षकारः
तत्पर्यंतं जपेत् । पुनः प्रतिलोमविलोमेनेत्यादि
ग्रंथांतरोक्तरोत्याक्षमालेत्या कृतमिति ।)

४५अ)

नापिन्या स विधिः प्रोक्तो न प्राणस्य प्रतिष्ठिताः ।
भूतशुद्धिर्न वाह्यंत मातृकान्या स इष्यते ॥

अक्षमालाविधानेन जपः कार्यस्त्वयानघे ।
ध्यानं विधाय पुरतो देवतायास्तु दक्षिणात् ॥

कर्णादादि विसर्गः स्याद् विंदुना मातृकाक्षरं ।
उत्रा पंचमनुं पश्चात् पुनस्तं मातृकाक्षरं ॥

एवमग्रे ततो वाम कर्णांतं प्रजपेन्मनुं ।
एवं तु प्राति लोमेन दक्षिणश्रवणावधि ॥

नमेरुं लंघयेत् तत्र मेरुर्देव शिरोमतः ।
आदिक्षांतं इयं माला विज्ञेया ह्यक्षमालिका ॥

अयं ध्यानविधिः प्रोक्तः सद्यो मानसजिन्मतः ।
कामरूपाख्य देशे तु कामाक्षा यत्र देवता ॥

कामशैलोस्ति तत्रासौ कामपीठमिति स्मृतः ।
तत्र संलेख्य मंत्रं हि यत्रोपरि यथाक्रमं ॥

गुरुणा वावनीयः सस्वयं पश्चात् पठेन्मनुं ।
गुरोरभावे तस्यैव मूले शैलस्य पर्वणि ॥

लिखित्वा प्रपठेन्मंत्रं कामं पीठं गुरुर्मतः ।
अथ वा योगीशैले दक्षिणस्यां दिशि ध्रुवं ॥

योगां वा यत्र देवी सा लिखित्वा प्रपठेन्मनुं ।
ज्वालामुखी समीपे वा हिंगुलाजसमीपतः ॥

लिखित्वा प्रपठेन्मंत्रं नान्यथैषा प्रसीदति ।
मुख्यतस्त्री समीपे हि कामपीठेर्मनोर्ग्रहः ॥

अत्रकां आंक्षमालेति यदुक्तं तस्यायमथः ।
पंचाशदक्षरेषु अकारं प्रथमुच्चार्यसानुस्वारं ततः ॥

शावरी तंत्र स्थितं मंत्रं पुनः अंकार सप्रणवं एवं ध्यानात्
परः समुपस्थापिताया देवताया दक्षिण श्रवणमारभ्य वाम
श्रवणपर्यंतं मध्ये तेषु ते स्वंगेषु वर्णान् स्थापयन्
क्षकारपर्यंतं पुनः वामश्रवणात् क्षकारमारभ्य अंकारांतं
दक्षिण श्रवणांतं इयमक्षमाला प्रसिद्धा तदक्षाणां स्फटिकादि
मणीनां माला ॥

४५ब्)

अयं ध्यानविधिः मनः समाधि महान् अनेन मनो जपो भवति । देवता च
सन्मुखा सद्यः प्रसीदति । अत्र मुख्यतः कामरूपदेशे कामशैल
रूपकामाक्षपीठे गुरुणा मुख्यतस्त्रीरूपेण पुरुषरूपेण वा ॥

लिखित्वा यंत्रो परिमनुः स्थापनीयः गुरुः पठति प्रथमतः पश्चात्
शिष्यः पठत् ॥

अयं मंत्रस्योपदेशविधिः ॥

अथवा दक्षिणदेशे योगां वा नगरे योगशैले पूर्ववल्लिखित्वा मंत्रो
ग्राह्यः ॥ अथवा नगरकोटे वा हिंगुलाजनगरे तत्तदेवता संनिधौ मंत्रो
ग्राह्यः ॥

मुख्यतः कामरूपविधिः ॥

तत्र तथा लोकानां सिद्धयोप्यनुभूयंते ॥ इति शावरी तंत्रमंत्राणां
ग्रहणोपायः ॥ तत्रादौ मंत्राणां संग्रहो वक्ष्यते ॥ सामान्यतः
सर्वमंत्रशास्त्रेषु तत्तन्मंत्राणां षडयोगा उक्ता संति
तत्तदनुष्ठानेषु दक्षिणपितरमार्गविधानेन
चक्रमंत्रमुद्रानिरूपभ्रमेण भ्रामिताः साधकाभ्रंशिताश्च
तद्वदिदं न भवति सफलं च तत्क्षणात्कालकर्मक्रियाज्ञानवशत इति
निरूप्यते ॥

भूयांसः संति कूटानि मंत्राणां भ्रंशसाधनं ।
जातिभ्रंशादि हेतु त्वात् सव्येतर विधानतः ॥

मंत्रमुद्रा प्रयोगादि चक्रमंडलविभ्रमैः ।
तथोपहारस्तपनं दुष्टद्रव्यादिभिर्ध्रुवं ॥

ब्रह्मक्षत्रियविट्शूद्र जाति साधारण क्रमात् ।
फलभ्रम प्रवृत्ताश्च कामांधामति मोहिताः ॥

इंद्रियादि विदुष्टाश्च स्वेच्छाचारविमोहिताः ।
स्वप्रवृत्ति प्रवृत्ताश्च केवलं पाप हेतवः ॥

तेनेदं दूषितं देवि प्राजमंत्रागमादिकं ।

४६अ)

ततोतिरिक्तमेतद्धि सद्यः प्रत्ययसुंदरं ॥

प्रवक्ष्ये मंत्रजातं हि देशकालादि निर्णयात् ।
नात्र किंचिद्विधि फलं नवाजाति विगुंठनं ॥

दुष्टद्रव्यादिभिर्न्नापि नवामुद्रादिभिर्विधिः ।

तत्रादावनुक्रमणिका ॥

शांभवी पटलं तत्रादौ कालिका पटलं ततः ।
दुर्गायाः पटलं पश्चान् महेशी पटलं ततों ॥

भैरवी पटलं पश्चात् त्रिपुरापटलं ततो ।
विंध्यजापटलं पश्चाद् वनजा पटलं ततः ॥

ऐंदवी पटलं पश्चाद् भानवी पटलं ततो ।
हेमंती पटलं पश्चाद्धेमजा पटलं ततः ॥

कामिनी पटलं पश्चात् कांतजा पटलं ततः ।
काश्मीरी पटलं पश्चात् कंवुजा पटलं तथा ॥

सुकेशी पटलं पश्चात् सैंधवी पटलं ततः ।
साक्षिणी पटलं पश्चात् शताक्षी पटलं ततः ॥

शतभार्यास्तु पटलं ततः सेवंती पटलं ततः ।
सुशीला पटलं पश्चात् शोमना पटलं ततः ॥

करुणा पटलं पश्चाद् वरुणा पटलं ततः ।
दारुणा पटलं पश्चाद् भयजा पटलं ततः ॥

रत्नजा पटलं पश्चाद् रविजा पटलं ततः ।
राक्षसी पटलं पश्चाद् रमणी पटलं ततः ॥

वसुजा पटलं पश्चादवनी पटलं ततः ।
सामुद्री पटलं पश्चाच्छताक्षी पटलं ततः ॥

सुमुखी पटलं पश्चाद् दुःखघ्नी पटलं ततः ।
उपांग ललिता पटलं ललिता पटलं ततः ॥

षट्चत्वारिंशदेतानि देवीनां पटलानि वै ।
अद्यापि कामरूपेस्मिन् कामशैले शिरस्तले ॥

खेलंति मातृका शैला प्रत्यहं गममागमैः ।
तथा नगरकोटेस्मिन् ज्वाला मुख्याश्च सन्निधौ ॥

खेलति देवताः सर्वा मध्याह्नेथदिनो?दये ।
कृत त्रेतादि सर्वेषु पुरेषु प्रोक्त देवताः ॥

४६ब्)

अत एव हि कामाख्य शैलोसौ देवतामयः ।
तत्र पादनिधानेन नरोनाशं प्रयाति हि ॥

सर्वलोकैस्तु मध्याह्ने मध्यरात्रौ तथा ध्रुवं ।
सायंदिनोदये तद्वदानंदभरनिर्भरं ॥

गीतनादादि सकलं श्रूयतेधित्यकाजनैः ।
तथा मातृ माहाशैले आत्रेयाश्रमसंनिधौ ॥

आश्विनस्यशिते पक्षे दिवारात्रांजनैः समं ।
आनुशेयस्य शिखरे जनयोगिभ्रमेन हि ॥

योगिनीस्त्री भ्रमेणैव प्रणीता पुलिनावधिः ।
तथा गह्वरगेहेषु निमित्तेषु शिलाशितैः ॥

शैलस्य हि पुरोभागे वटवृक्षस्य संनिधौ ।
द्वारमेकं च गेहस्य विद्यते दक्षिणावधि ॥

तत्र नृत्यंतिताः सर्वा देवतास्तु दिनोदये ।
वालोप्यथ युवा वृद्धो मूर्खः सुज्ञोथवा ध्रुवं ॥

पश्यतु स्वेच्छया देवी निर्मुक्तो मंत्र विद्यया ।
योगां वा भूधरे तद्वत् वसतन्तु समागमे ॥

योगिनी योगसंभ्रांत्यापति ब्रह्मिष्ट संभ्रमात् ।
येन केनापि लिंगेण संचरंत्याशु देवताः ॥

मधुमाधवपूर्णायां बुद्धि पूर्वं हि साधकः ।
आरूढयोगशैलांतं तत्र पश्यति निश्चितं ॥

तथा रत्नाकर गिरौ फाल्गुणे मासि निश्चितं ।
क्रीडंति सकला देव्यो योगिव्रात भ्रमेण च ॥

त्वरिता शैलशिखरे न्यग्रोधांतर गह्वरौ ।
सर्वकालेषु ता देव्यः क्रीडंती जनसंभ्रमैः ॥

कुष्टी खजातिदिकाणादिविवचराचारादि संभ्रमैः ।
शैलस्य दक्षिणे भागे मधु वृक्षस्य संनिधौ ॥

यमुनाख्ये महातीर्थे स्नात्वा साधकपुंगवः ।
सुचित्तमनसा तस्मिन् स्त्रियं कांचन पश्यति ॥

पन पश्यति तत्कालं सर्वदेवमयीं शिवां ।
संध्यायास्तानमाख्यातं यस्य कस्यापि देहिनः ॥

४७अ)

तस्य शैलस्य निकटे धारागिरिरिति स्मृतः ।
मातृकाः सकला देव्यः तत्र संति दिनं दिनं ॥

रामतीर्थ जले स्नातः ब्रह्मक्षत्रियविट् तथा ।
दृष्ट्वा रामेश्वरं देवं तथा कादंविनी जले ॥

सुस्नातः कमलां देवीं पूजयित्वा दिनोदये ।
अभ्रभृंगां महादेवीं भृंगीवादन तत्परा ॥

कंथाख्ये मालां ललितां पश्यत्पाशु न संशयः ।
तां दृष्ट्वा तत्क्षणादेतत् प्रादौ प्रणमेन्नरः ॥

संस्तवेच्चित्रभाषाभिः प्राकृताभिरथापि वा ।
सा तुष्टा परमा देवी ग्रहीत्वा तत्करे करं ॥

पूर्वोक्ता देवताः सर्वा दर्शयत्येव तत्क्षणात् ।
अत्र पूर्वोक्त स्थानेषु देवीनां साक्षात् प्रत्ययो दर्शिताः ॥

  • * चववाद्यापि पूर्वोक्त विधानेन प्रत्ययो वलोकनीयः । अस्ति

दक्षिणस्यांदिशि विंध्यात्तसस्वशैल इति प्रसिद्धः । तदंतः शिखरं
मातृका शैल इति प्रसिद्धः मंत्रे स्थानं तदाभ्यास प्रत्यहं कामरूप
देशांतर्गत कामशैलावधि देव्यः क्रीडंति ।
दृश्यंते चाद्यापि । आश्विनसितपक्षे आनूपस्थले योगिनी योगिव्याजेन क्रीडंति
देवताः प्रतीता तटावधि । तत्र शैलस्य एकस्मिन् देशे विश्वकर्म निर्मितं
ततः शैलग्रहस्य दक्षिणद्वारि । अस्ति यक्षिणी वट इत्येको वटवृक्षस्तस्याधः
स्थित्वा साधकसुंधि समयो । दिनादौवादिनमध्ये महानिशायां वा
पश्यति पूर्वोक्त देवगणं । इति प्रत्ययविधिरद्याप्यस्ति । तत्र यदा कदाचित्
समये एक एव योगी आत्रेय पर्वतो परिदृष्टः स आत्रेयः । तन्न्मस्कृत्याभि
वादयेत् । स एवोक्तं देवतागणं दर्शयति ॥

तथान्यत्रापि नगर ॥

कोटादौ इति इदं प्रत्ययार्थं गुल्यसंकेत स्थान देवीनां प्रोक्तं ।

४७ब्)

एतत् कस्यापि नाख्येयं ॥ साधकः स्वप्रत्ययार्थ पश्येदिति अस्य
शावरीतंत्रस्य गुरुदेववीश्वासवतां फलप्रत्ययार्थं देवता
साक्षात्कार करणो पायो दर्शितः । किमुत मंत्रानुष्ठानवतां
देशकालकर्मक्रियाज्ञानवतां साधकानां प्रत्ययो भविष्यत्येवेति चित्रं


तत्र शांभवी पटलविधिः ॥

श्यामा शिवाथ वाला च वल्लभावेत्र वासिनी ।
स्फुटाक्षीहरितालाक्षी कुटजाक्षी च कंकरी ॥

शताक्षीदा नेत्र कुंडीनांमधुवासिनी ।
मेठ्यराहंसगाहंसी विचित्राविधिपूर्वका ॥

विधात्री वैनतेयाक्षी विरूपावेणुवासिनी ।
कमलारम्यां पंकजाक्षी । पयोदिनी पांडवी पृथुमध्यां च पार्थिवा
पंकवासिनी ॥

वराणना विधिश्रेष्टा विविधा वामलोचना ।
चित्राक्षी चित्रकण्ठी च चिह्नगम्या त्रिलोचना ॥

नारीरम्यानिधि प्रांतानष्टवेषानिनादिनी ।
द्विचत्वारिंशदेतास्तु शांभव्यः संति शक्तयः ॥

तर श्यामामनुविधिः ॥

ज्येष्ठे मासि त्व माया हि नदीतीरे सुनिर्मले ।
तालीतालवनेरम्ये जपेत् श्यामां निशाविधौ ॥

संध्याकाले तु संध्याजं नित्यं कर्म समाप्यहि ।
तातश्चंपक तैलेन नीलांवर परीवृतः ॥

पद्माक्षमाला सुभगो निर्भयः शांतमानसः ।
तालीमूलेखनित्यातु पंचहस्तमितस्ततः ॥

जानुदध्नंस्थलं तस्मिन् कीरकान् नुरषा?तयेत् ।
भूतांकुशस्य शाखोत्थान् पूर्वादि क्रमतस्ततः ॥

चतुर्दिक्षु च चत्वारः कीलकाः परिकीर्तिताः ।
प्रथमो भैरवस्तंभः द्वितीयश्छिन्नमस्तकः ॥

क्रूरकर्मा तृतीयश्च सिद्धिदश्च चतुर्थकः ।

पूर्वकीलकनिखातन मंत्रः ॥

कीलकभैरवस्तंभ भैरवस्तम्भय २ भैं स्वाहा ॥

द्वितीय कीलकनिखानमंत्रः ॥

(तालफलस्याभ्यंतरतो मज्जासरसंतिष्काशा तस्याहुति परिमितात् गोलकान्
कृत्वेति भावः ॥)

४८अ)

चित्रांगच्छिन्नमस्तभयं मा कुरु २ पिशाचान् स्तंभय २ मं स्वाहा ॥

तृतीय ।

क्रूरकर्मत् क्रौर्यं मा कुरु २ मा कुरु चेतः समाधय २ क्रौं स्वाहा ॥

चतुर्थं ॥

सिद्धिदभयं मा कुरु सिद्धिं देहि २ अनुकूलो भव २ सींधं स्वाहा ॥

स्वमूर्धजं समुत्पाद्य आवेष्ट्यैतांश्च कीलकान् ।
दशावृत्यामनुं जप्त्वा एकैकं प्रतिरोपयेत् ॥

रक्तचंदनजैः पश्चादक्षतैः पूजयेत् त्रतान् ।
जपाकुसुमगुच्छैश्च पूजयेत् कीलकाननु ॥

पुराधूपं प्रदत्वा तु नारिकेल जलं ततः ।
नैवेद्यं परिकल्प्याशु मध्ये कीलं ततः परम् ॥

सुषासीनाभिधं नीलं नीलीतरुसमुद्भवं ।
रोपयेत् करवीरोत्थैः कुसुमैः पूजनं ततः ॥

कस्तूरी धूपमादद्यान्नैवेद्यं कदलीफलैः ।

मंत्रः ॥

मध्ये कीलसुखासनममासनं स्थिरय २ चेतः समाधाय खं स्वाहा ॥

ततश्चोपरि विशेन्मंत्री तस्मिन् भूमितले सुखं ।
श्यामां जपेन् महादेवी अयुतं शांतमानसः ॥

आदौ ध्यानं प्रकुर्वीत पूर्वोक्त विधाना जपः ।
तालावनांतरेखेल्लक २ ताली मनोरमां ॥

आलीभिः सहगीताली करणी श्यामिकां मनुं ।

इति ध्यानं ॥

जपांते होममादध्यात् ताली गुग्गुलु सुगोलकैः ।
दशांशेन ततः पूर्णां कर्पूरागरुणा सह ॥

प्रदक्षिण त्रयं कुर्यादेतन्मध्ये वनांतरे ।
झं झा मारुतवत् कश्चिज्जायते मर्मरः स्वरः ॥

तस्मिनुपरि तत्काले संपश्येत् साधकोत्तमः ।
ततो नादात्मकंत्योतिर्जायते चुक्षुषो पुरः ॥

तन्मध्ये तु महादेवी श्यामा षोडशवार्षिकी ।
नीलांशुक परीधाना कस्तुरी वंदत प्रिया ॥

स्वतनुद्युतिभिस्वच्छमिंद्रनीलप्रभाभरं ।
न्यकुर्वति निरातंका नीलोत्पल विभूषणा ॥

४८ब्)

तां नमस्कृत्य विश्वेशीं तुष्टा भव वरानने ।
इत्युक्त्वा मंत्रिणे तुष्टा सा ददाति वरत्रयं ॥

परमानसविज्ञानं विद्यां चाति मनोरमां ।
सौंदर्यं च कुरूपस्य जगती मोहन क्षमं ॥

मंत्रः ॥

प्रवलतालतलवासिनी श्यामले श्रीसिद्धिं देहि स्वाहा ॥

अस्यैव प्रतिरूपो हि कामरूपेक भाषया ।
प्रोच्यते तत्र नैवैषा यथाविधिविकल्पता ॥

तालीवनांतरे गत्वा ज्येष्टा मायां निशांतरे ।
जपेत् श्यामामनुं तत्र सहस्र द्वितयं किल ॥

महारात्रौ गते पश्चात् तालीपत्र सुदर्भकैः ।
होमं कुर्यात् सहस्रं हि पूर्णाताला फलेन च ॥

प्रसन्नावरदा देवी अतीतादि प्रवोधकं ।
अनागत प्रवोधं च मंत्रिणे प्रददंति हि ॥

मंत्रः ॥

आगोहानेमानह देवो हु हु कलि विलिविकरिवोकरिवोहुं ॥

अत्रायं क्रमविधिः ॥

ज्येष्ठे मासि अमायां कृत संध्या कर्मानुष्ठानो रात्रौ
तालीतालवनांतरे गत्वा नदीतीरे तालवनमध्यप्रदेशे तालमूले समीप
भूमीं जानुमात्रं खनित्वा इतस्ततश्चतुरस्रं पंचहस्तं विशोध्य
परितः मृत्तिकां परिधी कृत्य तन्मध्ये भूतांकुशवृक्षं
शाखाकृतांतश्चतुरकीलकान् पूर्वोक्त मंत्रैः दशवार पठितैः
प्रत्येकं पूर्वादि क्रमेण प्रतिरोपयेत् ॥ तैरेव मंत्रैः पूजादि नैवेद्यं
समर्पणं रक्तचंदनमिश्रिताक्षतैः पूजा जपः श्यामा मंत्रस्य
पूर्वोक्ताक्षमालविधानेन । एतस्य प्रतिरूप मंत्रः ॥ कामरूप भाषया
प्रोक्तः ॥

तत्र न कीलकाद्यारोपविधिः ॥

जपः पूर्वस्माद्विगुणः फलस्यातीतानागतज्ञानं । तदेवस्य भाषा
मंत्रस्य प्रतिलोम्यात् पठने फलांतरमाह ॥

श्यामामंत्रस्तु पूर्वोक्तः कामरूपैक भाषया ।
तस्यैव प्रतिलोम्येन पठनादयुतं ध्रुवं ॥

तस्मिन् काले वने तस्मिन् कपित्थ फलकारितः ।
होमस्ततो जगद्धात्री रससिद्धिं प्रयच्छति ॥

मंत्रः ॥

हुं वोरिकवोरिक चिलिविलिक हु हु वो देह नमा मोहयो तुं ।

वैपरित्ये तु यो वर्णः आदिगः प्रांतगोचरः ।

४९अ)

सानुस्वाराप्राचाचोपः प्रतिलोमविधिस्त्वयं ॥

तत्र प्रतिलोम्येन भाषा मंत्रपठने पूर्वानुपूर्व्यायः । प्रथमो वर्णः
सप्राति लोम्ये प्रांतगो भवति । स च विंदुना सह पठनीयः । एतस्येव फलं
ससिद्धिः । तेत्र कुष्टकुणपखंजान्धादयः सिद्धा भवंति स्वांगाश्च
भवंति ॥ इति श्यामाविधिः ॥

अथ शिवाविधिः ॥

श्रावणेमासि चाष्टम्यां कृष्णपक्षे निशांतरे ।
शतपत्रीवनांतस्थः स्नातः कौसुंभतैलकैः ॥

कौसुंभवसनावृतः । तथा कौसुंभगंधान् अत्रापि च स्थलं शोध्यं
पूर्ववत् कीलसंविधिः ॥ होमः सहस्रं त्रितयं कौसुंभ कुसुमैः किल
तत्संख्यानको जपः । प्रोक्तो मध्यरात्रे गते सति ।

शतं निनादा जायंते मंडलादा समं ततः ।
घोराः कर्कशभाषिण्यो डाकिन्योक्त महाभयाः ॥

शाकिन्योपि शतं तत्र नदंति भयदारुणाः ।
तत्कील प्रतिरोपैस्तु नायांति जपमंडलं ॥

इदं मिथ्येति मनसा भावयन् साधकोत्तमः ।
स्वांत ध्यानैक निरतो जपमालोक्तमानसः ॥

न पश्यति पुरो विघ्नान् जपहोमांतरायकान् ।
एवं यदा यदा तस्मिन् शपत्री वनांतरे ॥

अंतरायादिकं पश्येत् तन्मिथ्येति च भावयेत् ।
तस्मिन् तस्मिन् क्षणे मंत्री समाहितमनाः स्वयं ॥

देवानां ध्याननिरतो जपमालाकृतोद्यमः ।
एवं काले गते तस्मिन् देवी देवशतैर्वृता ॥

नृत्यं किन्नरसंयुक्ता उद्गास्यद्गणशोभिता ।
जपाकुसुमसंकाश तनु ज्योतिः शतावृता ॥

स्वकरावस्थितं चैक फलं तत्साधकाय हि ।
प्रयच्छति सदा तुष्टा ते नासौ साधकोत्तमः ॥

दूरं याति क्षणैतेवमनः पवनवेगवान् ।
अदृश्यः सर्वलोकानां अपि राजगृहांतरे ॥

मंत्रः ॥

ओं शिवे शिवदूती शं शं सीखकरपंकजफले देहि मनोजवचरणयोर्देहि
भ्रंमभं नमः ॥

अस्यापि भाषा मंत्रोस्ति स चोच्यते ॥ पांड्य भाषया ॥

मंत्रः ॥

अनविलकुंड इलि निमातंमिभुंभं ॥

४९ब्)

अस्यापि जपस्तद्वत् षट्सहस्रं विधीयते ।
तेन काराग्रहान्मंत्री पश्यत्वादी प्रयाति हि ॥

अत्यंत निगडावद्धः सोपि पाति क्षणेन हि ।
तथा राजाराजपुत्रस्तथासौ वहिरुद्गतेः ॥

न केन प्रतिरुद्धोसौ कृतांत इव दृश्यते ।
इदमद्यापि सामुद्रीः पांड्या देशांतरे स्थिताः ॥

कुर्वंति राजपुत्राश्च पश्यतो हरणं ध्रुवं ।
पश्यतो हरणी विद्यानास्त्यन्या जगती तले ॥

ध्यानं ॥

उद्यद्भानु सहस्राभां कमलासन पूजितां ।
हस्ते मोहमयं पाशं दधानां प्रभजेच्छिवां ॥

अत्र पूर्वे मंत्रे डाकिन्यादयः शतमायांति प्रतिवंधकारिण्यो
जपमध्ये वा तत्र अक्षमाला समाहितो भूत्वा मंत्री तन्मिथ्येति मनसि
संचिंत्य जपहोमादि कारयेत् ॥ एव मुक्तेन प्रकारेण देवी प्रसन्ना भवति ।
तेन स्वकर स्थित फलं मंत्रिणे प्रयच्छति तेनैव सिद्धयो भवंति ।
दूरगमनं अप्रत्यक्षी करणं राजाद्यंतर गृह संचरणं तथा च
पांड्यभाषया शिवामंत्रः पूर्वोक्तः स चक्षणैवदीकृतं मोचयति ॥
राजापराधिनमपि राजवद्देवकारमति । इदं पश्यतो हरणं नाम
महाविद्या ॥ पांड्यदेशीय लोकानां प्रसिद्धा ॥ अत एव पांड्याः
समुद्रांतरं नौका स्थिताः । राजानं राजभंडारं स्वेच्छया
लुंठयंति । इदमद्यापि प्रसिद्धं तदेवान्य विधया प्राह ॥

सिंहलद्वीपदेशे तु प्रयाशारत्नकारिणां ।
इयं वलवतीविद्या सर्वसौख्य प्रदायिनी ॥

मोहयित्वा तु नृपतिं सद्योधनपतिं प्रभुं ।
समुद्रमपि भूशंते समस्तारत्नजातयः ॥

कंदर्प्य चित्रकारेण भूतलेस्मिन् प्रकाशिताः ।
तेनैव योगेन ताहि भूमौ सम्यक् चरंति हि ॥

इयं वलवतीविद्या कामरूपेपि वर्तते ॥

इति शिवामंत्रविधिः ॥ अथ वालामंत्रविधिः ॥

उद्वसग्रामसद्वने हेमवृक्षशताकुले ।
हेमंतर्तौ पुष्पमासि पूर्णमास्यां विधूदयात् ॥

५०अ)

हेमवीजसुतैलेन कृत स्नान विधिर्न्नरः ।
कौशेय वसनस्तद्वत् कषाय वनस्तथा ॥

नग्नोथ वा जपेन्मंत्रं वालाया वालकोपमः ।
गोमयेन समालिप्य शून्य गेहस्य भूमिकां ॥

चंदनेन समालिप्य तत्पश्चात् कुंकुमेण तु ।
तत्र दूर्वादलैः पूज्यो भूतले सुकृतासनः ॥

जपेद्वालामनुं लक्ष्यं धत्तूरं कुसुमैः सकृत् ।
होमं कुर्यात् सहस्रं हि हेमवीजेन चार्चनं ॥

ततो रात्रेः प्रांतभागे वालासापंचवार्षिका ।
हेमवस्त्रपरीधाना मुक्ता भरणभूषिताः ॥

दूरान्मंत्रिद्रुमारूढा लालसावालभूषणा ।
तां दृष्ट्वा दूरतो धावन् गच्छे तत्संनिधौ तदा ॥

सापि मोदप्रहृष्टा हि चुंवंत्पाशुतदाननं ।
तच्चुम्बनेन मंत्री स जायते रसनायकः ॥

सभा मध्ये तु यां वार्तां करोति स हि साधकः ।
रससंदोहिनीसास्यान्मोहिनी सर्वसंपदः ॥

वार्ताभिर्मुह्यते राजा मुह्यते कामिनी तथा ।
मुह्यते वारवनिता मुह्यते राजभामिनी ॥

व्याघ्रादि पशुजातीनां मोहनं तद्वचो भवेत् ॥

ध्यानं ॥

कनककपिलमौली रोचनारंजित श्रीशतमुख मुखदेवैः पूज्यमाना
मनोज्ञा ।
ललितवचन चेष्टाचारु चंद्रावतं सा नयनसुभगभालामन्मुखे
सास्तुवाला ॥

मंत्रः ॥

ओं पंचवार्षिकिवालेवचनमाधुसिं मम देहि देहि करुणां कुरु २ ह्लीं
ह्लीं ॥ मुख्यतश्चात्र मंत्रोस्या वाले ह्लीं ह्लीं इति ध्रुवं ॥

ध्यानार्थं पल्लवः प्रोक्तः नासावावस्यको मतः ।
एतस्य प्रतिरूपो हि मंत्रोमगधभाषया ॥

तस्या युतं जपः प्रोक्तस्तस्मिन्तु द्वसमंदिरे ।
जपांते ललिता देवी वाला प्रत्यक्ष गोचरा ॥

ह्लीं ह्लीं मिति वदंत्याशु मंत्रिणः कर्णमंडले ।
तद्वीज स्मरणान्मंत्री त्रैलोक्यावश्यकारकः ॥

मंत्रः ॥

ओं मायी ओं मायी दायी मोहिवसंदेहि वालिके वालि ह्लीं ह्लीं ॥

अत्र वालामंत्रस्य चतुरक्षरत्वमेव मुख्यतः ।

५०ब्)

अन्येतूपमंत्राः । अत्रैव प्रोक्ताः । तथाहि ॥

पंचवार्षिकी ह्लीं ह्लीं इत्येको मंत्रः ॥ वाले च वनमाधुरीं देहि
ह्लीमित्यपरो मंत्रः । पंचवार्षिकी करुणां कुरु २ ह्लीमित्यपरः । इति मंत्र
चतुष्टयी ॥ महाविद्येति विख्याता । अत एव महामोहकरी ॥ नृपामात्यास्त्री
वेश्या राजस्त्री मोहकरी । एतस्य प्रतिरूपं कंमगधभाषया
मंत्रातरं तस्मिन्नेव काले पौषपौर्णमास्यां उद्वाससदने
हेमवृक्षाः । धत्तूरवृक्षाः तदा कुले तैर्वासे धत्तूरकुसुमैर्होमः ॥
धत्तूरवृक्षवीजैः पूजा ॥

एतस्यैव प्रथांतरमाह ॥

मागधेषु हि देशेषु शिव योगीति कश्चन ।
जप्त्वैनंमत्यर्थं च यथोक्तेन विधिना ततः ॥

जयसिंहस्य भूपस्य पुत्री कामकलाभिधा ।
वसी च कारतां सद्यः पुन्नाम द्वेषकारिणी ॥

अत्यंतवीतरागासास्वनामद्वेषकारिणी ।
योगाभ्यासैक निरता योगमाया विनिर्गता ॥

कृशांगी स्वशनासीता जातायौवनशालिनी ।
ततस्तां जयसिंहोपि दृष्ट्वा विक्लिन्नमानसः ॥

वरार्थं चिंतयामास भूपतीनां कुमारकान् ।
कदाचिद्वनिताद्वारापप्रच्छ स्वतनूद्भवां ॥

वालेकस्तेभिलषितो राजपुत्रेषु सुंदरः ।
इत्युक्तं तस्य चाकर्ण्य देवी कामकला हि सा ॥

नास्य पिंडस्य भर्तास्ति भवितावान कश्चन ।
इत्युवाच स्वजनकं विरक्ता विषयेषु सा ॥

इत्येतद्वचनं श्रुत्वा नृपश्चिंता शता वृतः ।
जगमसंघोरं मृगया व्याजतो ध्रुवं ॥

वने दूरं गतो राजाददर्शाश्रममुत्तमं ।
सुवर्चसो मुनीन्द्रस्य वेदघोषसमाकुलं ॥

प्रशांतश्चापदाकीर्णंमद्वैतं सुमनोहरं ।
वापीकूपसरस्संघैर्मध्ये मध्ये विराजितं ॥

तत्रावतीर्यचाश्वासंत्यतिर्मति सुंदरः ।
प्रतिवध्याश्चमस्मिह्निजगामाश्रम गह्वरं ॥

सदृष्ट्वामुनिराजं हि दंडवन्निपपात च ।
उत्तिष्टोत्तिष्ठ राजेन्द्र इत्यभाष्य मुनीश्वरः ॥

कस्य देशस्य राजात्वं कुतश्चात्र समागतः ।

५१अ)

इत्युक्तो मुनिना तेन प्रतिभाषत वै नृपः ॥

अहं मागधदेशस्य राजाचिंता वशोध्रुवं ।
त्वत्समीपमिहायातो यदीच्छसि कुरुष्व तत् ॥

पुत्रीकामकला मे हि त्यक्त कामास्ति सांप्रतं ।
इत्याकर्ण्य वचस्तस्य भावगर्भं मुनीश्वरः ॥

दिदेशमंत्रमेनं हि शिष्याय शिवयोगिने ।
राजापि शिवयोगीन्द्रं धृत्वा च करपंकजे ॥

निर्जगामाश्रमात् तस्माद्यातः स्वनगरी प्रति ।
ततस्तस्मै मुनीन्द्राय ददौ ग्रामाद्वहिर्गृहं ॥

शोणभद्रतटे रम्ये निववासस योगिवान् ।
राजपुत्री सदास्नाते मायांतीतं महानदं ॥

ददर्श शिवयोगीन्द्रमुह्यमानावभूवहि ।
कामपीडित चित्तासा जगामाच तदाश्रमं ॥

तं ददर्शलसद्रूपं ललितापांगसुंदरं ।
प्रस्फुरदधरं वक्त्रमावृणोति पुनः पुनः ॥

पुलकांकितदोर्दण्ड दृढकंचुक शालिनं ।
कंपसं सर्जितांगी च प्रस्फुरल्लोचनांचला ॥

स्वेदविन्दुलसद्वंददधाना वदनांवुजे ।
भीतभीते च सावाक्यं प्रस्खलद्वर्णवंधरं ॥

प्रहसद्वदनागुप्तं दंतमाणिक्यमालिका ।
प्रोवाच शिवयोगीन्द्रं भावाकूतमनोरमं ॥

मुने कुतः समायातं किन्नाम भगवन्वद ।
दर्शनीयोसि जगतामानंदशतदायकः ॥

जगदार्ति हरो राजा जगतां हि कलावतां ।
कामिनीनां मनो भावो मूर्तिमानिवलक्ष्यसे ॥

कास्ति पुण्यवतीकांता तक्तारुण्यनायका ।
कथं वाद्यतया युक्तस्त्वंनगसमः सदा ॥

योपिकोस्तुभवान्भव्य श्रोतुमिच्छतिमद्वचः ।
अहं दीनाऽवलानाथत्वंद्रूपपरिमोहिता ॥

कामाशुगपदीघात शतच्छिद्रित मानसा ।
मामनाथ भये नाथ पाणौ कर्तु त्वमर्हसि ॥

अवलानां वलं चैतत् कां भो पक्षा विधौ ध्रुवं ।
स्वजीवन परित्यागस्तन्निमित्तंस्त्वमेव हि ॥

इत्युक्तः कामकलया स योगी ज्ञातमानसः ।
उवाच तां मोहनांगी कामोरतिमिवा परां ॥

अये भद्रांगि भद्रं ते त्वस्ति लक्षणमति ध्रुवं ।

५१ब्)

अविश्वास्याः स्त्रियः पुंभिरहं कार्या विधौ ध्रुवं ॥

पुनः कामकला प्राहस्तं मुनीन्द्रं स्फुराशया ।
अये नाथ त्वदीयांघ्र छायाशैत्यैक जीविनी ॥

अथ त्वमेव वदसि विश्वास्याः नास्त्रियस्त्विति ।
रावमुक्तस्तया योगी कामिन्या मन्मथा श्रिया ॥

प्रोवाच सरसं वाक्यं सदा यादिष्ट मानसः ।
कमले क्षिणिते रूपं दृश्यते सुमनोहरं ॥

अस्यरादेशस्यराज्ञोत्वं पुत्री प्रेमवर्धिता ।
राजापराधः कर्तव्यः कथं वै योगिनामया ॥

एकांतवसति पुण्या योगीनामिति दुर्लभा ।
तपस्विषु परीहासो यन्मुनीनां परिग्रहः ॥

इत्युक्ता मुनिना वाला प्रोवाच चपले क्षणा ।
अहमेव पुरा ब्रह्मन् त्यक्तकांतकथा यथा ॥

इति कृत्वा गुरुर्मेपि चिंता संततमानसः ।
अद्यापि यतते मेहि पाणिग्रहविधौ मुने ॥

इति मां त्वत् संगतिः श्रुत्वा नृपोपि श्रुत सुंदरः ।
भद्रमित्युत्कटं चित्ते संतोषं तोषयिष्यति ॥

यदुक्तं नाथ योगो हि परिग्रह विदूषितः ।
यता नामेव सर्गो * परिव्रजन शोभितां ॥

संत्यन्येपि वसिष्टाद्याः श्रुतसंतुष्ट चेतसः ।
किं परिग्रह दुष्टास्ते नाथ चित्ते कुरुष्व तत् ॥

अहमेप्युपवासाद्यैः शुद्धचित्ता सदाशया ।
त्वं चेदुपेक्षसे नाथ मरणं शरणं मम ॥

इत्युक्तस्तुतया देव्या मुनिः कामकलाकुलः ।
अश्रद्धेति प्रतिवाक्येन स्वासयामासतां सखी ॥

ततस्तौ कृत संतोषो राजदूतीभिः परीक्षितौ ।
अन्योन्यवार्ताविज्ञातं शून्यंता दधती ध्रुवं ॥

एतस्मिन्नंतरे चार नारीभिः * * * * * ।
एतस्य प्रतिरूपं हि मंत्रोन्य गंधभाषया ॥

प्रजप्तस्तु तथा रात्रौ तत्रैव मृतभूमिषु ।
नात्र होमोस्ति देवी सा गुप्तरूपेण मंत्रिणे ॥

ददाति लघुवेत्रं हि तेन वेत्रेण साधकः ।
शृंखलां भंजयेत् सद्यो लोहकोटि प्रकल्पितं ॥

तथा द्वारकपाटानि कलिलानि तथा शतं ।

५२अ)

पाषाण कुड्यजातानि ककुभानि शतावधि ॥

लोहकील सहस्राणि गजवाजीनिवंधनं ।
निगडानां सहस्राणि भंजयेत् साधकः क्षणात् ॥

प्रत्ययार्थं प्रवक्ष्यामि तस्य मंत्रस्य कीलकं ।
येन केनापि भांडानां पाकशालानां प्रगम्य हि ॥

एतन्मंत्रेण संमंत्र्य वीजान्यंवरशाखिनः ।
संत्यजेत् तत्र शालायां भांडभंग क्षणेन हि ॥

जायतेद्यापि तस्यैषा प्रतीतेः सर्वगोचराः ॥

अथमंत्रः ॥

वांसथा उगोर हि तु केलकेला ओथातुकभीजभांडावः । अत्र फाल्गुण
कृष्णप्रतिपदि रात्रौ वेत्रवासिनी जपः । श्मशान भूमौ कार्यः
पूर्ववद्भूमिं * तस्ताः ॥ पंचहस्तं जानुदध्नं खनित्वा तत्र पूर्वोक्त
कीलकं चतुष्कं चतुर्दिक्षुनोपयित्वा मध्ये चासन्न कीलकं संरोप्य
तदुपरि संस्थित्वा जपः । पंचसहस्रं कार्यः होमो दशांशेन
वेत्रमूलैः ॥ ततो देवी वेत्रं प्रददति तेन वृश्चिक सर्पविषं तद्वेत्र नीरेण
पीते नश्यति ॥

अद्यापि वंगदेशे पुरुजलाठीति प्रसिद्धः ।
तस्य दंडस्य तस्यैव प्रतिरूपं भाषामंत्रः ॥

तत्र होमाभावेपि साफल्यमस्ति ॥ अत्र स एव क्रमो जपस्य फलांतरं । लोहादि
शृंखलाभंगः ॥ भांडपाकशाला ताम्रघटीघटन हठः । तत्र
गत्वा अम्वरशानाख्ये खेलवृक्षः । तस्य वीजानि अभिमंत्र्य पाकस्थले
चेत्यक्तानि तदा भांडानां शतच्छिद्राणि भवंति ॥ इत्यद्यापि वंगदेशे
प्रतीतिरस्ति । अवलाजनः कोपो न तथा करोति ॥ एतस्य प्रथांतरमाह ॥

यंत्रस्थानानि यत्रैतान्य तुलान्यग्नि भावनात् ।
जायते पृथिवीशानां तद्भंगे यं विधिः स्मृतः ॥

सिंसरूवृक्ष वीजानि मालिचूर्णे चतुद्वयं ।
संमंत्र्यानेन मंत्रेण रात्रौ स्वकर संपुटे ॥

तद्द्वयं मर्दयेन् मंत्री भज्यंते तानि तत्क्षणात् ।
रथनिर्माण काले हि तत्समीपे तु मंत्रिणा ॥

करंकी वीज भस्माशु मंत्रांते तु स निक्षिपेत् ।

५२ब्)

तन्निक्षेपनीयं तत्सरथो भज्यते ।

राजमंदिरनिर्माणे शाकवृक्षस्य भस्म हि ।
संमंत्र्य मंत्री तद्वारे निक्षिपेत् पंचमी तिथौ ॥

रात्रौ क्षणेन तद्गहे काष्ठभंगेन संपतेत् ।
गठदुर्गारि निर्माणे प्रजपेन्मनुमुत्तमं ॥

द्वादश्यां निशि भौमे च तत्कानि संपठेद्धि तत् ।
सामुद्रवालुकां मंत्री कुड्यादौ संप्रति क्षिपेत् ॥

तत्काल भंगमाप्नोति कुड्यादि पृथिवी तले ।
अत्र यंत्र स्थानानि रथारोह्याग्नि यत्र निर्माणे स्थाने
भूपालैर्युद्धार्थं क्रियमाणाग्नि वाणयंत्रस्थाना नित्यर्थः ॥
अत्रसिझर वृक्षवीजानि झर्झरवृक्षवीजानिमालिचूर्णगंधे मालि
चूर्णगंधमालि चूर्णं । तद्वयमनेन मंत्रेण मंत्रितं मंत्री
स्वकरे मंत्रयेत् ॥ मर्दनकालेग्नि च्छाणदि यंत्राणि मज्यते । करंकी वीजं
तद्भतेन मंत्रेण मंत्रितं रथनिर्माण कालेरथोपरि रात्रौ चेन्निक्षिप्ते
तदारथं ॥ क्षणाद्भज्यते शाकवृक्ष प्रसिद्धः ॥ तस्य भस्मसंमंत्र्य
राजगेहद्वारे पंचम्यां रात्रौ चेन्निक्षिप्तं तदाराजगेहं क्षणात् पतति ॥
तथा गड दुर्गादौ राज्ञां द्वादश्यां भौमवारे निशि तत्समीपे
जप्तोयं मनुस्तत्कालं गड दुर्गादि पातयेत् तिथा कुड्यादौ
समुद्रतीरवालुकां संमंत्र्य प्रक्षिपेत् पतति ॥ इदं दुर्गादावपि कार्यं
समान क्रियत्वादिति ॥ अत्र सर्वत्र वेत्रेण देवदत्तेन मंतेण संयोजयेत् ॥ जपेत्
तेन तत्कालं सिद्ध्यत्याशु यथोदितं ॥ अत्र भाषा मंत्र वीजादि मंत्रेण
समये देवता दत्तेन वेत्रेण सद्योन्य मंत्रयेत् ॥ तेनोक्त यंत्रादि भंगो
भवति ॥ इति वेत्रवासिनीविधिः ॥ अथ स्फुटाक्षीविधिः ॥
नारंगरनारीकेलीनावने वा वा नदीतटे माधवमासि चाष्टम्यां
कृष्णपक्षे निशाविधौ । अथ वा *? तरे रम्ये तादृग्वनविभूषिते । अथ वा
कमलाभूषिते स सरस्तटे वापी कुटजसंयुक्ता पुन्नागादि विराजिता ॥

५३अ)

तस्या तीरेऽथवा मंत्रं प्रजपेदेनमुत्तमं ।
सहस्रं प्रजपेन्मंत्रं खनित्वा भूमिमुत्तमां ॥

कीलादि विधिमाधाय जपेदेनं विधिं ततः ।
अत्रायांति महाघोरा वेताला कुंतपाणयः ॥

तानालोच्य पुनर्मंत्री वामपाणिना स्वसृता ।
तान्ससिच्य ततः सद्योयांतितेखमनाकुलं ॥

ततः पुनः समारंभ कुपी मंत्र जपस्य हि ।
एवं जपेत् समारंभे पुनः कात्यायनी स्वयं ॥

आयाति शवमुंडानि वर्षती च पुनः पुनः ।
भीषणाभीति नयना कराला दशनाकुला ॥

तामालोच्य पुनर्मंत्री वामजंघात् सृजाध्रुवं ।
सिंचयेत् तां ततः सापि प्रयाति गगनांतरं ॥

ततः पुनः समारंभे जपेन्मंत्री यथाविधिः ।
भैरवी पुनरायातिलंवांवररदद्वया ॥

गजमुंडं चेयंती वर्षंती शोणितं भुवि ।
तत्समीपे महाघोरा कराला लम्वपाणयः ॥

वीरवीरेश्वरीश्चान्ये च वेपंतः स्वशोणितं ।
भयनादकरा केचित् डमड्डमरुपाणयः ॥

हाहेति प्रतिभाषंतः शस्तमां दोलयंतिते ।
मंत्रिणंघ्नं तु मायांति जिह्वाललनभीषणा ॥

अन्योन्यं घातयंतस्तेव्येस्तमस्तक चेष्टिताः ।
आत्कालिताक्षि युगलामडिस्फालन तत्पराः ॥

ते सर्वे घोररूपा हि स्नात्ययंस्तु मंत्रिणां ।
धीरेण साधकेन्द्रेण तस्मिन् काले कपालजां ॥

सिरा माहत्य रक्तेन भैरवा भीषणाश्च तान् ।
आसिंच्यमाना संवीक्ष्य गच्छंतो वियत यथा ॥

पुनः समारभे मंत्रं जपं मंत्रं यथाविधि ।
ततः करोति निर्विघ्नं जपं मंत्री यथाविधिः ॥

सहस्रं प्रजपित्वा तु होमं कुर्याद् दशांशतः ।
नारंगैर्नालिकेलैश्च देवि प्रत्यक्ष गोचरा ॥

ददाति मंत्रिणे चैकं नारिकेलं मनोरमं ॥

तत्पूजयेत् सदा मंत्री तेनास्य सदनं सदा ।
गजांत लक्ष्मीक्रीडाभि नंदयेद् गजमंदिरं ॥

५३ब्)

जयेति च महालक्ष्मी संस्तौति प्रतिवासरं ।
अपि दासी कुले जातः सोपि धननायकः ॥

विक्रम प्रथितो लोकेशूरः संजितसंगरः ।
जायते पृथिवीयं हि द्वितीयः पृथिवीपतिः ॥

यावत् तिष्ठति मेदिन्यां तावत्सोधननायकः ।
स्त्रियः पूज्या सदा तेन जितेन्द्रेण विधानतः ॥

भ्रमंति च सर्वनार्यस्तं प्रेक्ष्य धननायकं ।
महादानादि कर्ता स जायते नात्र संशयः ॥

ध्यानं ॥

चंद्रसूर्य स्फुटालोल नयनामरुणप्रभां ।
अरुणांवरसंशोभां स्फुटाक्षीं प्रभजेत् सदा ॥

मंत्रः ॥

विशालाक्षि गजांत लक्ष्मीं देहि २ दारिद्र्यं दूरय २ ह्रीं स्फुटा भुं
स्वाहा ॥

एतस्य प्रतिरूपं हि मंत्रस्सोप्यंगभाषया ।
पूर्वोक्त वनमध्ये तु जपः कार्य सहस्रकं ॥

होमोपि पूर्ववत् कार्यः परलक्ष्मीं विकर्षति ।

अत्र भाषामंत्रेणोग्राभीतयः ॥ नापि देवतासां मुख्यं जपे होमे च
पूर्वोक्त समये कृते सतियो धनवानिति स्त्वस्य समं ता? * * * * * * * * * * * *?
नात्र संदेहः ॥ अंगदेशे चाद्यापि व्यापारिणः । प्रतिज्ञया मनुमेनं
जपति मंत्रः ॥ वडचखु आलारमा आरलखीदेनो पारपार स्फुटां ह्रीं
स्वाहा ॥ इति स्फुटाक्षीविधिः ॥

अथ हरितालाक्षीविधिः ॥

मृगप्रवेशे संजाते द्वितीय चरणे ध्रुवं ।
आदि मे दिवसे रात्रौ वने केवल निर्जने ॥

नदीं वापि सरोवीक्ष्य तत्र स्नात्व नरोत्तमः ।
हरितालं समालिप्य स्वमुखे शुद्धमानसः ॥

अयुतं हरितालाक्षः प्रजपेत् साधकोत्तमः ।
घृतकर्पूरकाश्मीरकौसुंभैर्होममाचरेत् ॥

पूर्णां कुर्यात् कुसुंभेन हरिताल रसे स्पृशा ।
ततो देवी समायाति ललिता हरितालका ॥

भीषणा हरितालाक्षी नग्नांगी व्याघ्र संस्थिता ।
तामालोच्य पुनर्मंत्री स्वाक्षमालां हृदि स्मरन् ॥

तद्व्यासंगैक योगेन सा पुनश्चीरधारणा ।
मोहयंती जगत्सर्वं अरुणद्युति मंडला ॥

५४अ)

तस्या वामे पुनर्भागे देवीरति कलाभिधा ।
सापुनर्मोहयंतीव दृश्यते मंत्रिणा स्वयं ॥

कुर्वंतु वचनालापं वहुधावहुभाषया ।
लावण्यामृतधाराभिर्मंत्रिराजं हि देवता ॥

मोहयंती ततो मंत्री तद्वाक्यानि न विश्वसेत् ।
ततः प्रभातसमये सा देवी मूलमंत्रजाः ॥

प्रायसो हरितालाक्षी द्वितीयांतां हि भागिनीं ।
गृहीत्वा स्वकरे मंत्री करे सम्यक् प्रयच्छति ॥

ततो मंत्री गृहीत्वा तां देवीं रति कलाभिधां ।
वशीभूता तु सा देवी गृहीत्वा मंत्रिणां ध्रुवं ॥

खेचरं कुर्वती सद्यो गणगंधर्वकिन्नरान् ।
दर्शयंती क्षणे त्वैव पुनर्भूतमंडली ॥

मनश्चिंतितं देशं हि क्षणान्मंत्री प्रधावति ।
यक्षिणी भूतवेताल भैरवानति भैरवान् ॥

आनयंति क्षणे नैव मंत्रिणे वशमादरात् ।
पद्मिनी स्त्री शतान्याशु दर्शयंति हि मंत्रिणे ॥

तद्भोगभोगिनं सद्यः कुर्वंती मंत्रनायकं ।
पुनर्भूमितलेवाटी वने भूमिषु सा ध्रुवं ॥

नवनारी गजेन्द्रं हि दर्शयंती स्वमंत्रिणे ।
नरवक्त्र व्याघ्र देहमेवं हि पुनरद्भुतं ॥

नरशार्दूलमेनं हि दर्शयंती स्वमंत्रिणे ।
नवनारी शरीराख्यं अर्धनारीश्वरं ध्रुवं ॥

दर्शयंती पुनर्देवी भूतलेषु वनांतरे ।
तथा कमलजां दैवीं दर्शयंती स्वमंत्रिणे ॥

तेभ्यस्तेभ्यो फलोपायं पुनर्वक्ष्यामि सादरं ।
नवनारी गजेंद्रो हि यो दृष्टो मंत्रिणा ध्रुवं ॥

संभाष्याः किलतानार्यः साधकेन तदैव च ।
तथैवतास्तुति पदैस्तोषणीयां वनांतरे ॥

संतुष्टा किलतानार्यो मंत्रिणं वसनांचलं ।
संप्रयच्छंति तेनाशु ज्ञायते जंतुमानसं ॥

अयमेव पुराजन्म न्यासीदिति च योनिजं ।
विज्ञायते तस्य मंत्रिणः सर्वमंत्रिणः ॥

यो दृष्टो नरशार्दूरस्तस्तुतिः पुनरुत्तमा ।
कर्तव्या स पुनस्तुष्टः खड्गमेकं ददाति हि ॥

वज्रतुल्येन खड्गेण स नरोवीरराद् भवेत् ।
पलायंते पुरस्तस्य युद्धे सर्वे नटेश्वराः ॥

५४ब्)

अर्धनारीश्वरो दृष्टः सस्तोतव्यानयांगिरा ।
देवकात्यायनी नाथ मां प्रसीद प्रियेश्वरी ॥

रावस्तुतः स भगवान् अर्धनारीश्वरो ध्रुवं ।
संगीतविद्यामतुलां प्रयच्छत्पाशु मंत्रिणे ॥

ध्यानं ॥

जपा पुष्प सहस्रौघ द्योतमानां महेश्वरी ।
ध्यायेत् तां हरितालाक्षीं सिद्धि दीक्षां वितन्वतीं ॥

मंत्रः ॥

ओं ह्रीं हरितालाक्षि रतिकलां देहि २ स्वाहा ॥

अस्यैव प्रतिरूपं हि मंत्रो हेहैकभाषया ।
पूर्ववत् स तु जप्तव्यो नास्ति होमविधि ध्रुवं ॥

तेन तुष्य जगद्धात्री प्रददाति हि मंत्रिणे ।
आकर्षणीं महाविद्यां जगदानंददायिनीं ॥

पत्रपुष्पफलादीनां कामिनीनां करोति हि ।
आकर्षणं क्षणै चैव यदि धत्ता शिवो भवेत् ॥

मंत्रः ॥

ओं हरिता इंगिणो इणिंडु मेच्चिडुं भ्रूं भ्रीं ह्रूं स्वाहा ॥

अत्राक्षमालां पुनः स्मरेदिति आदिक्षांता माला तत्र मनो दत्वा जपः
कार्यः तेन मंत्रिणे भयं न भवति ॥ अयं सहचरी मंत्र इति
शुक्राचार्यात् ॥ प्रसिद्धं ॥ तथा च शावरशंभुः ॥

यन्मंत्रे खलु सिद्धे हि सिध्यंत्यन्या हि देवताः ।
सैषा सहचरी विद्या सर्वांगमसुगोपिता ॥

तथा च गौडपादाचार्यः ॥

मंत्रांतरे सुसिद्धे हि सिद्धेत्येन्यास्तु देवताः ।
एकावली महाविद्या सहचर्यपि गीयते ॥

तथा च एतस्यां हरितालिकायां रतिकला देवता सिद्धिः ।
ततश्च नवनारी कुंजरदेवता पुरुषशार्दूल चेटकः ॥

अर्धनारीश्वरश्च भगवान् गौरीपतिरिति एषा सहचरी महाविद्या प्रोक्ताः ।

अथ प्रतिरूपकंहैव भाषामंत्रः ॥

तेन पत्रपुष्पफलादीनामद्यापि राजविनोदि योगीश्वरा दिषु दृश्यंते ॥
कामिनी चक्षणेनाकर्षया कापि स्वमते विषयमागतः कामिनी तां दृष्ट्वा
स्मृत्वा चायं मंत्रानुसंधेयस्तत्कालं सा
केनाप्यदृश्यमाणवद्वायुवशादंवरचरी भूत्वा मंत्रिगेहमायाति ॥
अद्यापि तेषु तथा नीलकण्ठ नेपालादौ प्रसिद्धेयं

५५अ)

विद्याजनेषु राजकुमारीमपिते अंतेः पुरादानयति केनाप्य ज्ञातचरां
तथा कामरूपदेशेषु नौकाकर्णधारे श्रियं विद्या प्रसिद्धा यथा
कापालिष्वपि ॥ इयं तु परमाविद्या सिद्धा प्रवरावर स्वामिने
शंभुनादत्ता पुनर्गृहीता तस्मात् सपार्वतीपति कुटिलवुद्धि भावनासीदिति
कामरूपे प्रसिद्धिः ॥ इति हरितालाक्षीविधिः ॥

अथ कुंडिनीविधिः ॥

कालंजले महाशैले नीलकंठस्य मंदिरे ।
रात्रौ शिवचतुर्दश्यां जपेद् देवीं च कुंडिनीं ॥

तन्मंदिरे पिवेताल देवता भूमिमंडले ।
जपः सहस्र त्रितयं कुंडिन्या किलमंत्रिणा ॥

कर्तव्यो विल्वमूलेन होमस्तु तद्दशांशतः ।
कालंजर महाशैलं नीलकंठस्य मंदिरात् ॥

पुरोभागेस्ति सुभगः कलाणो नाम शंकरः ।
तस्य देवालये वाथ जप्तव्यो यं मनुस्तथा ॥

जपे होमे कृते सद्यः कुंडनागो महावली ।
विस्तीर्ण वदनो लंवो दृश्यते युगविंशति ॥

फणां प्रसार्यनागोसौ सद्यस्तिष्ठति मंत्रिणः ।
पुरस्तात् तत्र निर्भात्या स्थातव्यं तेन मत्रिणा ॥

फूत्काराणां सहस्राणि कुरुते स फणां ध्रुवं ।
तस्य ज्वाला शतं वक्त्रा निःसरंति पुनः पुनः ॥

तथा विषाणि वहुधा नीलपीतच्छवीनिहि ।
पलासानि ततो धूम सलिलं तदनंतरं ॥

कामलं च ततोंडानि पक्षिणः पक्षशालिनः ।
एवं विधान्यनेकानि चित्राणि च तदा ननात् ॥

तदा निर्भीतिनाभाव्यं साधकेन मनस्विना ।
ततो देवी तमारूढा दृश्यते सुमनोरमा ॥

पक्षणी शतसंसेव्यातक्षकस्त्रीभिरावृताः ।
सा कुंडिनीति चपला विशाला रक्तलोचना ॥

सास्तोतव्या मुनीन्द्रेण स्तुत्यैवंविधया ध्रुवं ।
नमस्ते जगतांधात्रि नमस्ते कमलेक्षणि ॥

नमस्ते नादरूपिण्यै भैरव्यै ते नमो नमः ।
कलाकाष्ठादि रूपायै स्वरूपायै नमों शतं ॥

नमः कैशिकी रूपिण्यै हेमाक्षायै नमो नमः ।

५५ब्)

रजताद्रि विधात्र्यैते विशालायै नमो नमः ॥

वामनेत्र्यै नमस्तेस्तु वासुकि स्तुति भावने ।
नमस्ते नररूपे हि नमस्ते भावभाविनि ॥

नमो नारीस्वरूपे ते नमस्ते नारदात्मके ।
नमस्ते ललितापांगी नमस्ते धूर्जटी प्रिये ॥

नमस्ते कंसनाशिन्यै नामनीत्यै नमो नमः ।
वसुधायै नमस्तेस्तु सुधायै सततं नमः ॥

अखंडानंददायिण्यै भवान्यै सततं नमः ।
अपारायै विपारायै परदायै नमो नमः ॥

वीजधाम निधातायै विधानविधये नमः ।
विधात्र्यै वासुदेवायै शिवायै प्रसभं नमः ॥

कौमार्यै नारसिंह्यैते ऐन्द्र्यै देव्यै नमो नमः ।
सुधाकर महाधाम छटाछुरित तेजसा ॥

वपुषा विश्वमखिलं द्योतयंत्यै नमो नमः ।
वोधवोधित विश्वायै मोहकारिणि ते नमः ॥

आत्मज्योति स्वरूपिण्यै शाश्वतं नमः ।
रमाविलासदायिन्यै पुण्यदायै नमो नमः ॥

अखंडलक्रतु विधि प्रस्तुतायै नमो नमः ।
नरेन्द्रनीति निपुणे पुराणे त्वां भजाम्यहं ॥

एवं स्तुता हि सा देवी प्रसीदति तपश्विने ।
ददात्य मृतमुद्ग्राह्य गरुत्ममणिनिर्मिते ॥

पात्रे तदा तदायूय ततो मंत्रीसुतोषितः ।
करोति कालसंप्राप्ति वंचनं स तु योगवान् ॥

किंचिदु स्थितिमालोच्य स्वशरीरस्य मंत्रिणः ।
विंदुमात्रं पिवेन्मंत्री तेनासावमरो भवेत् ॥

देवांशो यस्तु मनुजस्तस्यैवायं विधिः ध्रुवं ।
साध्यो भवेदिदं शास्त्रं लभते देवतात्मकः ॥

अत्र इदं शास्त्रं नान्यस्य हस्तगत भवति शावरीतंत्रं तु तस्यैव हस्ते
पतति यो देवतांशो भवेत् ॥

ध्यानं ॥

आरूढं निजनागमद्भुतफणं व्यापारमिथ्या कृतं
त्रैलोक्यमंधकार सुभगं जिह्वा स्फुरद्रोचिषं ॥ फूत्काराहत
भूरुहं शशि शतं प्रद्योतमानां शिवामाताम्र स्फुटलोचनां
भजमनो हेमं कषां कुण्डिनीं ॥

५६अ)

मंत्रः ॥

ओं कुंडिनि नागवाहने फूः फूः स्वाहा ॥

एतस्य प्रतिरूपं हि मंत्रः ठ ठ र भाषया ।
जपोस्य द्विगुणं प्रोक्तो होमो नैवात्र विद्यते ॥

चिरकालं स वै जीवेत् प्रायो मृत्यु विभेतितं ।
प्रायोस्य जप कर्ता तु नेपालादौ क्वचित् क्वचित् ॥

नीलकण्ठेपि भूयासः पर्वतांतश्च राजनाः ।
द्विशतं त्रिशतं चापि वत्सराणां यथाक्रमं ॥

जीवंति नरयोगीन्द्रास्तत्र तत्र गुहांतरे ।
देवीनात्र भवेत् साक्षात् पींडीं जाप्या तदनंतरं ॥

स्वप्ने वदति सा देवी चिरंजीवी भवेति हि ।
मंत्रिणं कृतसंजाप्यं ततो मृत्यु दिनं ध्रुवं ॥

तमाख्याति च धीरं हि मनोयोगं प्रयच्छति ।
मनोयोगं समासाद्य संयोगी ज्ञात कालकः ॥

कालं वंचयते सोहि विद्रावन्मरणं क्षणं ।
अनुभूयं ततो मंत्री पुनरुत्थिति माप्नुयात् ॥

पुनः स्मरति संसारे यत्कृतं सकलं हि तत् ।
युवागलित पालित्यः वालकांति मनोरमः ॥

जायते योगमायावी पुनर्जीवति वै शतं ।
द्वित्रिवारं यथा कुर्यादेवं मंत्रमहिम्नया ॥

वौधानामप्ययं मंत्र सिद्ध आसीत् पुराकिल ।
तत्र श्रीशंकरस्तेभ्यो गृह्णादेनं वलादपि ॥

प्रायशो नैव जप्तव्यो गृहिणायं मनु ध्रुवं ।
निस्संततिर्भवेत् सद्यो योगी तस्माद्भवेदयं ॥

तस्मादियं महाविद्या जप्तव्यै काकिना भृशं ॥

मंत्रः ॥

ठ ठ लं श ल सोरक्ले इंजानी दशलकंरीदो ठः ठः ॥ इति कुंडिनीविधिः
॥ अथ मधुवासिनीविधिः ॥

मधुमाससिताष्टम्यां गौदातीरे विमानुषे ।
कुशतर्पण तीर्थे हि लतागुल्मांतरे ध्रुवं ॥

करंजतरुतीरे वा किं वा कोलमही भुवः ।
छायायां समनुर्जप्यः सहस्र नवसंख्यया ॥

अथवा मधु वृक्षस्य छायायं हि वनांतरे ।
जपेदेनं मनुं मंत्री सहस्र नवसंख्यया ॥

गोदावरी सुवृक्षस्य सिद्धयोगो महानघ ।
प्रजप्तव्या ततो देवी प्रसिद्धा मधुवासिनी ॥

५६ब्)

वासंती कुसुमैर्होमो मधुपुष्पैरथापि वा ।
कर्पूरा गुरुसंमिश्रैः सहस्रं होममुच्यते ॥

मधुनामा महाकश्चिद्यक्षोविघ्नकरी ध्रुवं ।
तत्रायाति महालोलजिह्वाललन भीषणं ॥

माहिषेण विद्यारणेन रुधिरापान तत्परः ।
वामेन पाणिनान्येन सुरापान समारतः ॥

जिह्वे यैव स यक्षो हि लता वृक्षादि गुल्मकान् ।
उत्पाद्य चर्वमाणो हि भक्ष्यं देहीति भाषया ॥

संल्लयत् साधकेन्द्रस्य मिथ्यात्रासन तत्परः ।
मुष्टिरक्तं प्रदातव्यं मंत्रिणाकरजं ध्रुवं ॥

ततस्तस्मिन् गते पक्षे देवी वृक्षतले तदा ।
प्रत्यक्षा जायते तस्य वसंतस्य रसंयुता ॥

ददाति मंत्रिणे तस्मै कार्मुकं पुष्पनिर्मितं ।
वितस्ति मात्रमतुले तद्गृहीत्वा तु साधकः ॥

कामिनी शतसंमोह चतुःषष्ठि कलाधरः ।
जायतेथ पृथिव्यां स मदनो मूर्तिमानिव ॥

चतुःषष्ठि कलाज्ञातं न कस्याद्यापि भूतले ।
मन्मथोथ शिवः कृष्णः प्रद्युम्न इतरो मतः ॥

चत्वार एव संजाताश्चतुःषष्ठि कलाधराः ।
पंचमः सस्वयं मंत्री जायते तत्कलाधरः ॥

ध्यानं ॥

कुसुमशरवसंतस्तूयमाना मृगाक्षी नवरसमय मूर्ति ब्रह्मसौख्य
प्रवृत्तिः ।
कनककमलपाणिर्मोहमाया यशः श्रीर्मम हि हृदयसध्ये संवसेत्
कामदेवी ॥

मंत्रः ॥

ओं मधुवासिनि कामदेवि क्लीं स्वाहा ॥

अस्यैव प्रतिरूपं हि मंत्रो मैथिलभाषया ।
तेन कांतवरायाति त्रिसंध्यं जप इष्यते ॥

न होमो नापि कालादि साधनं तस्य विद्यते ।
दृष्टिमात्रेण कामिन्यः कामयंति हि साधकं ॥

तन्नामापि दिवारात्रं जपंति शतधास्त्रियः ।
नरनारी महाप्रीति हेतुर्नान्यन्महीतले ॥

प्रातिलोम्येन संजप्तो भाषा मंत्रो वसंतके ।
चतुर्दश्यां शुक्लपक्षे चैत्रे मासि नदीतटे ॥

तेन देव्यति संप्रीता राजवश्यं प्रयच्छति ।
रात्रौनाम गृहीत्वा हि साध्यस्य स्वयमा जपेत् ॥

५७अ)

ततो देवी तर्हि साध्य स्वप्नांते वदति स्फुटं ।
अयं राजन् देवदत्तस्तेस्ति पूज्यो न संशयः ॥

नोचेत्तव भवेद्धानिरिति सास्फुटभाषिणी ।
इति स्वप्नांतरे साध्यं सावदत्पथ देवता ॥

मंत्रः ॥

माधवीमाहमरां मनोगत राजवश्यजहनेहोपिते हनेंकर उगु इहां
सर्वसमर्थ क्लीं ह्रीं स्वाहा ॥ इति मधुवासिनीविधिः ॥

अथ मंथरामंत्रः ॥ इक्षुवाटीवनां तर्हि गुडपाकस्य स्थलं हित तत् ॥

रसयंत्रसमीपे हि रचयित्वा शुभां स्थलीं ।
जपेत् तत्र मनुं देव्यामंथरायशदे द्वया ॥

इक्षुखंडैर्दशांशेन होमं सम्यक् समाचरेत् ।
मल्लारि षष्ठीरात्रौ हि जपः सोमे प्रकीर्तितः ॥

ततः सा मंथरा देवी प्रसीदति हि मंत्रिणे ।
ददादिति मधुपात्रं हि दिव्यमाध्वीकमिश्रितं ॥

तत्पूजयेत् त्रिसंध्यं हि तन्मुखान्मंथरा शिवा ।
मुखमात्राभि संव्यक्ता शुभाशुभविधिं तदा ॥

यद्यच्चिंतयते चित्ते स्यान्नचेति च सा वदेत् ।
यदा यदाति संकष्टं जायते मंत्रिणे ध्रुवं ॥

तदा तदा च सा देवी मधुपात्र प्रपूजनात् ।
इत्यमे वेति वदति प्रीता सा जगदंविका ॥

ध्यानं ॥

करेवहंतीको दंडमैक्षवं लोललोचनां ।
जपाकुसुमशोणांगीं मम चित्ते तु मंथरा ॥

मंत्रः ॥

ओं मंथरे इक्षु क्षितिवासिनि ममेष्टं वद २ भुं द्यं मं स्वाहा ॥

अस्यैव प्रतिरूपं हि मंत्रो मालव भाषया ।
तदर्धं तु जपः प्रोक्त पूर्वोक्त वनमंडले ॥

रसयंत्र समीपे तु भूमिपूजा विशेषतः ।
कर्तव्याथ जपापुष्प करवीर प्रसूनकैः ॥

कुंकुमैश्चापि सिंदूरै रक्तचंदनचंदनैः ।
यावदा लोहितं वस्तु तावद्भिः परिपूजयेत् ॥

ततो यंत्राविधौ स्थित्वायपः कार्यो यथाविधिः ।
तथैव रसयंत्रस्य पूजा सम्यक् प्रकीर्तिताः ॥

ते नैव मूलमंत्रेण भाषा शक्तियुतेन हि ।
ततो यंत्र मुखा देवी वदति स्वशुभाशुभं ॥

वार्षिकं च परस्यापि तद्विधिः प्रतिवार्षिका ।

५७ब्)

अत्रापि कालः षष्ठी स्यान्न च वारविधिर्मतः ॥

यंत्रवक्त्रान्न चेद्देवी स्वप्ने वापि वदेत् तदा ।

अथ मंथरा देव्या मंत्रः ॥ रसनिःसरणयंत्ररसपाकयंत्र
मध्यभूमि संमार्ज्य तत्र जापः दशद्वयमयुतद्वयं दशशब्दो
मंत्रः अयुत सास्त्रतनाम ॥ मल्लारि षष्ठीरात्रौ
मल्लारि षष्ठीमार्गशीर्षसित षष्ठी तद्रात्रौ सोमेयंयंत्र अनुष्ठेयः
इक्स्.उ षडैः दशांशेन होमे कृते सा देवी प्रसीदति ॥ आगत्य मंत्रिणे
मधुपात्रं अमृत मिश्रित मधु युतं ददाति ततस्तत्संकटकाल
त्रिसंध्यं तेनैव मंत्रेण पूजयेत् ॥ ततो देवी तन्मधुपात्र मुखान्
स्वमुखमाविः करोति ॥ ततो मंत्रिणः संकष्टे *? मैव विधया हरि
भविष्यति ॥ त्वमेवं प्रकारं कुरु अथवा तत्र भविष्यति त्वमस्मिन्नर्थे
यत्नं मा कुर्वीति वदति ॥ तथा परस्यापि वदति ॥ अस्यैव प्रतिरूपं हि
मालवभाषया उक्तः ॥ तस्य पूजा स्थलं रसयंत्रसमीपे पूजा तु
जपापुष्पकरवीरपुष्पैः तेनेव वक्ष्यमाण भाषामंत्रेण तथा
कुंकुमचंदनभूति यावदा लोहितं तावद्भिः पूजास्थलस्य
रसयंत्रस्यापि पूर्ववन्मल्लारि षष्ठी रात्रौ जपः नवारनियमः यस्मिन्
कस्मिंश्चिद्वासरेपि सा षष्ठी भवतु तथापि तत्र भाषा मंत्रो वश्यं
जाप्यः ॥ ततो देवी रसयंत्रमुखान्मंत्रिणः शुभाशुभं वदति तत इदं
विधानं मंत्रिणा प्रतिवर्षं कर्तव्यं । तथा च स्वपरस्य अभिलषितं
वदति ॥ न वदति चेत्तथा तदा स्वप्ने वा समागत्य वदतीति तात्पर्यं ।

मंत्रः ॥

ओं मंथ हरिह्मारे शुभषाचुंकहकह हूं हूं मं थं नमः ॥ इति
मंथराविधिः ॥

अथ हंसगाणविधिः ॥

हिरण्यकशिपु प्राणनाशकाले तिथौ ध्रुवं ।
संध्यामारभ्य जप्तव्यो हंसगाणमनुः खलु ॥

अयुतार्धं ततो होमः पद्माक्षैस्तत्र संमतः ।

५८अ)

जपो होमश्च कर्तव्यः पद्मयुक्त सरस्तटे ॥

ततो हंससमारूढा शतचंद्रसमप्रभा ।
सा देवी मंत्रिणे तस्मै प्रसीदति सुमोदिता ॥

पद्माक्षमालामेकां हि ददाति स्वीयमंत्रिणे ।
तन्माला जपतो मंत्री जायते शास्त्रपारगः ॥

अज्ञाताक्षरवर्गोपि जायते स वृहस्पतिः ॥

ध्यानं ॥

शतचंद्रसमज्योत्स्नां चंद्रार्धकृतशेखरां ।
वरदा भयहस्तांतांसंसेवे हंसगां शिवां ॥

मंत्रः ॥

ओं हंसगे वोधं देहिरो श्री स्वाहा ॥

अस्यैव प्रतिमंत्रो हि ज्ञेयः सौराष्ट्र भाषया ।
जपस्तद्वत् समाख्यातो नात्र होम विधिर्मतः ॥

ततस्तु गणना विद्यां सु चमत्कारकारिणीं ।
ददाति मंत्रिणे तस्मै राजसंसन्मनोरमां ॥

स भूभूधर वा राशि चराचरमिदं जगत् ।
भारती रूपतश्चापि गणयत्याशु तत्क्षणात् ॥

इयं तु भास्करी विद्या देवानामपि दुर्लभा ।
यस्य कस्यापि भाग्येन विना कस्मान् मुखी भवेत् ॥

गुणणागणनात्यक्ता सद्यो वदति निश्चितं ।
इदमेत्येवदित्येव मेतावत् परिमाणकं ॥

मंत्रः ॥

ओं हंषा वाहणिह्मारूविणुवा चू आंपिहांरो स्वाहा ॥ इति हंसगाविधिः ॥

अथ हंसीविधि ॥

तुंगभद्र तटे रम्ये यत्र लक्ष्मीश्वरः शिवः ।
तत्र स्नात्वा नदीतीरे ह्यमायामयुत त्रयं ॥

रविवासररात्रौ हि यजेद्धंसीं महेश्वरीं ।
मुस्तकंदैः सहोशीरैर्दशांशं होममाचरेत् ॥

ततो देवी सुधामध्यान् शुभां तासु मनोरमा ।
वामपाणौ स्वयं हंसीलालयंती पुनः पुनः ॥

ददाति मंत्रिणे शीघ्रं स्याठिकाक्षं मनोरमं ।
तस्मिन् पश्यति भूतं च भविष्यं वर्तमानकं ॥

तथा स्वस्य परस्यापि सर्वज्ञो जायते नरः ॥

ध्यानं ॥

सुधाकरसमज्योत्स्नां शुकशोभितकरां ।
वामे हंसं दधाना हि पाणौ हंसीं भजामितां ॥

मंत्रस्तु ॥

ओं हंसी सर्ववोधं देहि २ ह्ली ठः स्वाहा ॥

५८ब्)

एतस्य प्रतिरूपं हि मंत्रोहंडीरभाषया ।
तेन सद्यो जपः प्रोक्तो यत्र कुत्रापि वै तिथौ ॥

कामणीकफलैरम्यैरारक्तैर्होममाचरेत् ।
ततो होमांत समये देवी सौभाग्यरूपिणी ॥

ददाति वरमुत्तानं हठयोग गृहादिकं ।
सद्यो दर्शयतिस्वैर योगवान् भव पुत्रक ॥

इति दत्वा वरं देवी जायतें तर्हिता तदा ॥

मंत्रः ॥

हंसापि योगामाहि कलवलमिलं ह्रं हूं स्वाहा ॥ १७ ॥ इति हंसीविधिः ॥

अथ विचित्राविधिः ॥

चित्र ऋक्ष प्रवेशे हि चतुर्दश्यां निशांतरे ।
सरस्तीरे जपेन्मंत्रं विचित्राया विशेषतः ॥

अयुतं कमलाक्षैश्च होमं कुर्याद् दशांशतः ।
ततो देवी समायाति विचित्रवसनांचला ॥

ददाति मंत्रिणे तस्मै विचित्रवसनांचलं ।
तदंचलं तु संपूज्य रात्रौ संस्थापयेद् गृहे ॥

तद्गृहं पूर्यते वस्त्रै राजमंदिरगैरपि ॥

ध्यानं ॥

चित्रचैलांचल प्रीतिं चित्रमाल्यानुलेपनां ।
विचित्रा भरणां देवीं विचित्रां भजमानसे ॥

मंत्रः ॥

विचित्रे चित्रचैलांचल देहि वासः पूरय २ पूं स्वाहा ॥ ३२ ॥

अस्यापि प्रतिरूपं हि मंत्रः पंचाल भाषया ।
तथैव स तु जप्तव्यो मंत्रस्तत्र निशांतरे ॥

ततो देवी प्रसन्ना सा ददाति हि करंडकं ।
तस्य पूजा विधानेन जायते सर्व ऋद्धिमान् ॥

न कदाचिद् दरिद्रं हि सनरश्चानु भूयति ॥

मंत्रः ॥

विचित्रीत्तं विचित्र खेल २ णी प्रसन्न श्रीगुरु आणसिद्धावी श्रीं स्वाहा ॥ ३६ ॥
इति विचित्राविधिः ॥

अथ विधिपूर्वकाविधिः ॥

कृष्णातीरे महातीर्थ पंचगंगा समागमे ।
माघे मासि द्वितीयायां कृष्णपक्षे निशांतरे ॥

कृत्वा तृण कुसूलं हि निक्षिपेद्धि जनांतरे ।
कृत्वा सायांतकं कर्मं कुसूलं पूजयेत् ततः ॥

ततो देवीं स्मरन्मंत्री कुसूलांतर्विशेद्ध्रुवं ।
तत्र वद्धासनो योगी शीतवाधामुपेक्ष्य हि ॥

५९अ)

जपेत् पंच सहस्रं हि देवतां विधिपूर्वकां ।
ततस्तस्मिन् कुशूलांत विधिना सहसंयुतां ॥

पंचवक्त्रां त्रिनेत्रां हि पश्येदष्ट भुजां शिवां ।
ततः सा देवता तस्मै ददाति हि कमंडलुं ॥

जलपूर्णं ततस्तत्स्थ जलेना सेचयेद्धियं ।
सनरस्तत्क्षणादेव सप्तजन्म समुद्भवां ॥

जातिं वदति तत्कालं तत् तत्कर्म करोति च ।
पतितपालन इत्येतन्नाम तस्य भवेदिह ॥

ध्यानं ॥

अमलनीरपरीत कमण्डलुं स्वकरैर्दधती जगदंविकां ।
कनककुंडलमंडित गंडरुक सुचिरांभजे विधिपूर्वकां ॥

मंत्रः ॥

विधिपूर्वके आचक्रनखरे ह्रीं स्रीं स्वाहा ॥

अस्यापि प्रतिमंत्रोस्ति सम्यक्केरल भाषया ।
तेन सद्यो हि सा देवी जलाठ कष्टिं ददाति हि ॥

स तु माद्ये सिताष्टम्यां जप्तव्यः सरितो जले ॥

मंत्रः ॥

अरविंदु इदु अमलमेलमंगने विधि वाहिनींदु सीलं स्वाहा ॥ २४ ॥ इति
विधिपूर्वकाविधिः ॥

अथ विधात्री ॥

नदीतीरे तु यत्रास्ते धात्री वृक्षो मनोरमः ।
सफलस्तस्य भूमौ हि कार्तिके पौर्णमासिके ॥

सोमवारे तदा मंत्री निशायां त्रिशतं जपेत् ।
होमोधात्रा फलैः कार्यस्ततस्तत्तरुते ध्रुवं ॥

जायते तु महाशब्दः प्रसन्नास्मीति शोभन ।
तन्मंत्र पठनान्मंत्री नीरं क्षीरं भवेदिह ॥

इत्युक्तिं किल संभूत्वा स पठेन्मंत्रमुत्तमं ।
नीरोपरि ततो नीरं जायते क्षीरमादनात् ॥

ध्यानं ॥

धात्री तरुशरीरस्थां विधात्रीं कमलासनां ।
विशाललोचनां वंदे नीरक्षीरविधायिनीं ॥

मंत्रः ॥

ओं विधात्रि नीरक्षीर विधायिनि विट् स्वाहा ॥ १६ ॥

अस्यैव प्रतिमंत्रो हि वर्योवानर भाषया ।
तावानेव जपः कार्यः न होमविधिरिष्यते ॥

लवणसुरतीर्थे हि जपौस्य परिकीर्तितः ।
तस्मिन् काले महापुण्ये वानरः कश्चिदुत्तमः ॥

आगत्य साधकेन्द्राय दद्यात् कांचनकुंडलं ।

५९ब्)

तत्कुंडलवलान्मंत्री जायते हि महावली ॥

शिलावृक्षमहाकूपोत्पाटनं कुरुते क्षणात् ।
हस्तिनं वाजिनं वापि क्षणात् स्तंभयेत् किल ॥

महामल्लगणान्संह्हो जयत्याशु न संशयः ॥

मंत्रः ॥

हिलि विलि के डे के के डे भीं वीं भुं स्वाहा ॥ १४ ॥ इति विधात्रीविधिः ॥

अथवैनतेयाक्षी ॥

श्रावणे मासि नागानां पंचमीया प्रकीर्तिता ।
तस्यां जपेन्महामंत्री रात्रौ वाल्मीक भूमिषु ॥

अयुतं वैनते याक्षी होमस्यान्मातु लिंगकैः ।
ततः सा वैनते याक्षी प्रसन्ना मंत्रिणे खलु ॥

ददाति गारुडीं विद्यां सर्वसर्पविषापहां ।
सर्पांगजाति कथना सर्पदष्टसु नृत्यकां ॥

सर्पाकर्षण शक्तिं च महातक्षक दर्शनं ।
अन्यमंत्रि सहस्राणि न जयंतिह तत्परः ॥

ध्यानं ॥

कमलासनां हि सर्पादि वेष्टितां विंध्यवासिनीम् ध्यायामि वैनते
याक्षीं विषदोष हरांविकां ॥

मंत्रः ॥

ओं वैनतेयाक्षि सर्प सेविते नागदेवि स्फीं स्वाहा ॥ १८ ॥

अस्यास्तु प्रतिमंत्रा हि महासिद्धि प्रदायकाः ।
गौडश्रीहट्ट श्रीकामभाषाभिः सुमनोहराः ॥

सद्यो गारुड चैलं हि तद्वलात् संजयंतिते ।
सर्पदष्ट प्रनृत्यं हि तद्वारा जाति भाषणं ॥

विषवेलाप्रनिर्धामः निर्विष प्रहरादयः ।
जनंति मंत्रिणः सर्वे सर्वदेशगता इमाः ॥

विद्या प्रत्ययकारिण्यो भविष्यंति वरानने ।
गुरूपदेशेन विना सर्वं स्यात् तु निरर्थकं ॥

अत्रेयं गारुडी विद्या वैनते याक्षि नामतः ॥

एतस्यानुष्ठानेन गारुडिनो जायंते सहस्रशो मंत्रिणः ॥ तत्र गारुडविद्या
सर्पविषार्पहरणे सर्पधारणं । सर्पदृष्टस्य शरीरात् शुद्ध
नृत्यगानादि । तथा सर्पदष्टस्य मुखेन जात्यादि कथनं । सर्पस्य विषवेला
निर्णयः निर्विषप्रहरति निर्णयः । तथा सर्पस्तंभः सर्पाकर्षणमित्यादि
गारुडखेल ॥ हे वरानने पार्वति मंत्रिणः सिद्धिष्यंतीति पार्वतीं
प्रतिशिवेनोपदिष्टां ततः ॥ एते प्रकाराः सर्वे एतस्य मंत्रस्य संत्येव
सर्वदेशेषु लोकप्रसिद्धाः ॥

६०अ)

इति वैनतेयाक्षीविधिः ॥

अथ रूपा ॥

आषाढे मासि रात्रौ हि कृष्णपक्षेऽष्टमी तिथौ ।
सगर्भीस्त्री चिताभूमावथवारण भूमिषु ॥

शस्त्र नष्टाचिता भूमावयं जाप्यो मनुः किल ।
अयुतं च जपः प्रोक्तः पामरीवीजगुग्गुलैः ॥

होमो दशांशतः प्रोक्तस्ततो होमांतमागता ।
या यत्रगत हिमाद्रिं लंघयेन्नात्रसंशयः ॥

अभूमिचारी लोकेषु जायते योगवानसौ ॥

ध्यानं ॥

कुटजानां वनारूढ रूपसौभाग्यसुंदरी ।
योगिनी मम चित्तेस्तु कुटजाक्षी मनोरमा ॥

मंत्रः ॥

कुटजाक्षि कंवलं देहि २ भींधं स्वाहा ॥ १५ ॥

अस्यापि प्रतिरूपं हि कुगरैरल भाषया ।
तथैव स तु जप्तव्यो रात्रौ तत्र तिथौ ध्रुवं ॥

ददाति सा जलस्तंभं देवता कुटजाक्षिका ॥

मंत्रः ॥

इरलंगहू इति कामिनी भुवं ॥ १७ ॥ इति कुटजाक्षी ॥

अथ कंकरीविधिः ॥

अवृष्टि काले रात्रौ हि रवौ नद्यां जले किल ।
प्रजपन् कंकरी देवीमयुतं हि ततः परं ॥

प्रभाते वृष्टिरायाति सा हि पंचदिनावधि ।
अहोरात्रं ततो भूमीरापूर्णा नीरधारया ॥

ध्यानं ॥

कंकरीं वरुणापाणं ध्यायेज्जल तनुं शिवां ।
विद्युच्छत स्वरूपां तां घोरमार्जनभीषणां ॥

मंत्रः ॥

कंकरीजलं देवीजलं पूरय २ धं धं ॥

अस्यैव प्रतिरूपं हि मंत्रः का उरभाषया ।
तथैव फलदः सोपि जप्तः सद्यो हि मंत्रिणां ॥

अत्र सद्यो जपमात्रं ततः फलदो भवति ॥ न तु होमादि जपसंख्य नियमः ॥
अद्यापि मल्लि देशस्य प्रतीति सर्वसंमता ॥

मंत्रः ॥

हिलि किलि कंकरी कामाक्षा हमसममहीमंडलपाणीथा उथा
उधंरीधंरी स्वाहा ॥ इति कंकरीविधिः ॥

अथ शुभंकरी ॥

वरदायास्तटे रम्ये दक्षिणस्यां दिशि ध्रुवं ।
मासिभाद्रपदे षष्ठ्यां कृष्णायां हि निशांतरे ॥

६०ब्)

कृत संध्याविधिं सम्यक् समाहितमनाः किल ।
करवीरद्रुमां यत्र निर्गुंडी वनमेव वा ॥

तस्मिन् खनित्र विधिना कृतकीलकरोपणः ।
प्रजपेदयुतं मंत्रं करवीर प्रसूनकैः ॥

आरक्तै कील होमस्यात् ततो देवी मनोरमा ।
आयाति दिव्यरूपेण कलिकामविमोहिनी ॥

नीराजयति तं देवी स्वहस्तेन च मंत्रिणं ।
ततस्तं मंत्रिणे दिव्यान्मोगानाशु ददाति सा ॥

यदा यदा हि चित्ते सौ यं यं कामं करोति च ।
तं तमा पूरयेत् सद्यो विषया पूरयेद्धिसा ॥

स्रक्सुगंध कलानारी निर्माण कुरुते क्षणात् ॥

ध्यानं ॥

कलाकलापं परिपूरयंती विभावयंती विषयाननेकान् । नारीनरेन्द्रानपि
मोहयंती सामानसेमेस्तु शुभंकरी श्रीः ॥

मंत्रः ॥

ओं शुभंकरि परदेवते ममेष्टं देहि २ शुंभं श्री स्वाहा ॥ ३२ ॥

अस्यापि प्रतिरूपं हि प्रायः पैशाच भाषया ।
यत्र कुत्रापि देशेसौ तन्मासे तत्तिथौ निशि ॥

तथैव फलदासास्यादयुतं जपमिष्यते ।
द्राक्षाफलैर्भवेद्धोमं तथा सिद्धिर्भवेत् तदा ॥

मंत्रः ॥

मिलि २ किलि २ हलें शुभंकरि कामिदंगश्च देहि २ क्लीं ॥ २४ ॥ इति
शुभंकरीविधिः ॥

अथ शतनादाविधिः ॥

मासि श्रावणके मायां रात्रौ दूर नदीतटे ।
नवपूरपरिक्रांते ययोगर्जनयायुते ॥

जपेत् तत्र मनुं देव्याः सहस्राष्टं यथाविधिः ।
अमृता मूलपर्णैश्च कृते होमे दशांशतः ॥

ततो रात्रौ हि जायंते मंत्रिणः प्रत्ययाः पुरः ।
वीणा किन्नरीकायावपिनाकी कूर्मयंत्रिकाः ॥

इत्यादिना शतं नादा जायंतेन्येपि भीषणाः ।
ततः सा योगिनी रूपा वक्षोवीणा विनोदिनी ॥

नवनादकलाविष्टा प्रत्यक्षा मंत्रिणः किल ।
योगमुद्रां स्वयं तस्मै ददाति किलमंत्रिणे ॥

सद्यः कुंडलिनी मार्गं सा दर्शयति मंत्रिणे ।

६१अ)

ज्ञातस्वानु भावो मंत्री स्वानंदनरिपूरित ॥

सर्वकाममयं जित्वा ब्रह्मी भूय स तिष्ठति ॥

ध्यानं ॥

वीणानाद स्फुरदाघ भावविकंपयंती किलकुंडले स्वे ॥ सा योगिनी
विष्णुतया शिवाख्या चित्ते मदीये शतनादिकासा ॥

मंत्रः ॥

ओं शतनादे योगिनियोगं देहि २ ह्रीं ह्रूं स्वाहा ॥ १६ ॥

अस्यापि प्रतिमंत्रोस्ति पुण्यः पांडीरभाषया ।
संसार विषयाशक्तिं त्यक्त्वा योगी भवेन्नरः ॥

ददाति तस्मै सा देवी कंथामेकां मनोरमां ।
तया स वज्रदेही स्यात् काल कल्पं हि जीवति ॥

मंत्रः ॥

शतनादे अर्म अलमेकांलनतु इड्डरुकुंडुन्नु श्रां श्रीं ह्रीं कः ॥ इति
शतनादाविधिः ॥

अथ नेत्ररम्या ॥

कानने करवीराणां रात्रौ वैशाखमासि हि ।
चतुर्दश्यां जपेद् देवीं नेत्ररम्यां शतत्रयं ॥

भौमस्तु वासरः प्रोक्तस्तथा वा शुक्रवासरः ।
घृताक्त गुग्गुलैर्होमे देवी साप्य प्रयच्छति ॥

ददाति मंत्रिणे तस्मै स्वांजनं नेत्रवोधकं ।
निधीभूमि गतं वस्तु दूरदेशगतं तथा ॥

आलोकयति स सद्यो भवति भूपतिः ॥

ध्यानं ॥

विवोधयंती पिहितं हि वस्तु मायामयी पंकजनेत्र रम्या ।
पीतांवरा स्वर्णसुरत्नमाला पुरोक्तमे संप्रति नेत्ररम्याः ॥

मंत्रः ॥

ओं नेत्ररम्ये अंजनं देहि २ निधिदर्शय २ पटलं दूरी कुरु २ मंथं
स्वाहा ॥ ३२ ॥

अस्यास्तु प्रतिमंत्रो हि काश्मीर देश भाषया ।
तथैव फलदः प्रोक्तस्तथा चोरप्रवोधकः ॥

मंत्रः ॥

सोहि तनय नारी मोहिभालं मलकाल वोधकर भ्रीं ध्रीं स्वाहा ॥ इति
नेत्ररम्याविधिः ॥

अथ पंकजाक्षीविधिः ॥

वसंतकाले गंगायां भागीरथ्यां निशांतरे ।
अष्टम्यां चैत्रमासे हि कृष्णेपक्षे जपेन्नरः ॥

पंकजाक्षीं महाविद्यां पलाशानां वनांतरे ।
अत्र भौमोथ वा शुक्रो विहितो वासरो मतः ॥

६१ब्)

जपः सहस्रं त्रितयं पालाशैर्होममिष्यते ।
ततो देवी महारात्रौ गते सति मोरमा ॥

प्रत्यक्षा मंत्रिणे शीघ्रं ददाति फलमुत्तमं ।
जरामरण राहित्यं तत्कालं भक्षिते सति ॥

फलं तस्मिन् समाप्नोति सद्गुरु प्रार्थना युतः ॥

अथ ध्यानं ॥

आलोलनेत्रां कुसुमेषु जीवसंदायिनीं संप्रति पंकजाक्षीं ॥
ध्यायामि सर्वार्थकरीं भवानीं पुनर्भवेयां परिवारयंती ॥

मंत्रः ॥

ओं पंकजाक्षि अमृतफलं देहि २ स्वीं स्वाहा ॥ १७ ॥

अस्यापि प्रतिमंत्रोयं प्रोक्तश्चोत्कलभाषया ।
स सद्यो ज्वरपीडां हि हरत्या वृत्तिभिः किल ॥

दशभिः परिजप्तश्च शीतपीडां निवर्तयत् ।
यत्र क्वापि जपः प्रोक्तः कस्मिंश्चित् समयेथ वा ॥

कृत्त्रिमाणि हरत्याशु कृत्यादीनि स कृन्मनुः ।

ओं पंकजाक्षी गोमामोथेंयाजरतीय हरगोभी भूं भ्रूं स्वाहा ॥ इति
पंकजाक्षीविधिः ॥

अथ पयोदिनीविधिः ॥

वर्षासुचय दाष्टम्यां रोहिणी ऋष्यसंगमः ।
भौमो वृहस्पतिर्वाथ शुक्रः स्यात् तत्र साधकः ॥

रात्रौ स्नानविधिं कृत्वा सरस्तीरे मनोरमे ।
अयुतं प्रजपेद् देवीं पायसैर्होममाचरेत् ॥

दशांशेन ततो देवी साक्षात् सातु पयोदिनी ।
ददाति करकामेकां मंत्रिणे तोषमागता ॥

अग्निदास्य सां मुख्ये सा कृता करका यदा ।
तदा वृष्टिः पतेत् तत्र तत्कालं शमते हि सः ॥

ध्यानं ॥

वर्षंती जलविंदून् हि मेघमाला मनोरमा ।
श्यामांवर परीधाना मे चित्तेस्तु पयोदिनी ॥

मंत्रः ॥

ओं पयोदिनि जलधाराधरे अग्निंशमय वांडवंशमय ढ्रीं ह्त्रैं श्रीं
नमः ॥ २७ ॥

अस्यैव प्रतिरूपं हि मंत्रो वंगालभाषया ।
स जप्तस्तत्क्षणादेव जलवृष्टि करोति हि ॥

वाडवाग्निं महाग्निं स्थलाग्निं सर्वतो मुखं ।
नाशयेत् तत्क्षणादेव आवृत्या सिद्धिमागतः ॥

यत्र क्वापि जपः प्रोक्तो जपोस्य जलदागमे ।
अयुतं च ततः सिद्धस्त्वेका वृत्या हि सिद्धिदा ॥

६२अ)

मंत्रः ॥

अलिगलि आहे मापयोदिनिक्यमतकरि तु करि तु मरकार्यपानीथा उगुथा उगु
आग्निटा तु झा उ ढ्रीं ढ्रीं स्वाहा ॥ इति पयोदिनीविधिः ॥

अथ पांडवीविधिः ॥

वत्सरादौ च या प्रोक्ता प्रतिशुक्रस्य वासरे ।
तस्यां रात्रौ जपेन्मंत्रं पांडव्या अयुतावधि ॥

कौसुंभ कुसुमैर्होमैर्दशांशेन कृते सति ।
प्रसन्ना जगतां धात्रीं पांडवी पीतवाससा ॥

पादस्तंभं करोत्याशु वैरिणो द्वेषकारिणः ॥

ध्यानं ॥

पीतांवरापीतमाल्या पीतवर्ण प्रिया सदा ।
प्रेतासना तदा देवी चित्ते मे पांडवी भवेत् ॥

मंत्रः ॥

ओं पांडवी वगले वगलामुखि शत्रोः पादं स्तंभय २ क्लीं ध्रीं
भ्रूं वरं स्फ्रीं स्वाहा ॥ २२ ॥

अस्या हि प्रतिमंत्रोयं विद्यते पांड्यभाषया ।
गतिः स्तंभकरः सद्यः शुक्र प्रतिपदि ध्रुवं ॥

यदा कदापि जप्तव्यः सद्यः सिद्धिकरो हि सः ।
अत्र पूर्ववदयुतं जपः ॥ पूर्ववत् प्रतिपदि जपस्य नैस्यत्यो उक्त इदानीं
तद्वैपरीत्य यदा कदापि प्रतिपदि शुक्रवासरे जपोस्य विहितो फलं
पूर्ववदेव ॥

मंत्रः ॥

पांडवि इंदु अगमंडलपंटी कालुकुंटिमाड्डद्री स्फ्रीं स्वाहा ॥ २४ ॥
इति पांडवीविधिः ॥

अथ पृथुमध्याविधिः ॥

षष्ठ्यां कृष्णे कार्तिके हि स्वामिकार्तिक संनिधौ ।
गुहायां चूतवृक्षस्य तले स्थित्वा हि साधकः ॥

भूमिशुद्धिं विधायाशु कीलकाननुरोप्य च ।
पृथु मध्यांजपेर्देवीं सहस्रं साधकोत्तमः ॥

चूतपर्णैः कृते होमे दशांशेन सुगंधिभिः ।
मिश्रितैरगरूद्भूते तैलेन च यथाविधिः ॥

अत्र आम्रपर्णैरगरुतैल मिश्रितैर्होमः चकारो विशेषण द्वय
समुच्चयार्थः ॥

ततो देवी पृथु मध्या प्रसीदति हि मंत्रिणे ।
ददाति पीठमेकं हि भामिनी मोहकारकं ॥

तत्रोपविष्टोपि नरो नरकेनापि दृश्यते ।

६२ब्)

तत्पीठं पंचभूतानि वहंति शिरसि स्वयं ॥

तदा रूढः साधकोसौ जायते खेचरः सदा ॥

ध्यानं ॥

उन्मत्त गजगां देवीं स्थूलांगीं कनक प्रियां ।
कार्तिकेय गुहाखेलां पृथु मध्यां भजाम्यहं ॥

मंत्रः ॥

पृथु मध्ये मानविहस्तिनि पीठं देहि अंगनां प्रमोहय वायवीय गतिं
देहि २ फूः फूः ठः ॥

अस्या तु प्रतिमंत्रोस्ति सैहिलैक स्वभाषया ।
भाषया स तु जप्तव्य कार्तिकेय गुहांतरे ॥

सहस्र त्रितयं तस्य न होमो परिकीर्तितः ।
पांडुकांसं ददात्याशू मा देवी मंत्रिणे किल ॥

मंत्रः ॥

पृथु मध्यधि इलगुनेंगुण कालुकदंलु इंचुडोहाहः ॥ अत्र सैहिलैकस्वया
भावयेति सिंहलदेशजा भाषा प्रोक्ता ॥ इति पृथुमध्याविधिः ॥

अथ पार्थिवाविधिः ॥

नदीतीरे वृष्टिकाले चतुर्दश्यां निशांतरे ।
कूलं खनित्वा कुहरं कर्तव्यं युगसप्तकं ॥

तत्रांधकारपक्षे हि दीपशून्येदरी गृहे ।
पार्थिवां प्रजपेन्मंत्री सहस्रं दशपंच च ॥

होमः कदलिकाकांडैः कोमलैश्च दशांशतः ।
ततोध्व काले सा देवी दीपज्वाला स्फुरद्रुचिः ॥

ददाति मंत्रिणे शक्तिं पृथिव्यंतरवारिणीं ।
शैलेषु विवरेषूच्चैः सुघने पृथिवीतले ॥

कीटवद्भ्रमते मंत्री यावज्जलमसौ सदा ।
तत्र तत्रात्यंतमाश्चर्यं पश्यति प्रीति पूर्वकं ॥

जरामरण राहित्यं प्राप्नोति पृथिवीतले ॥

ध्यानं ॥

पृथिवीतलसंचार शालिनी वायुमालिनी ।
भजामि पार्थिवां देवीं तारुण्यैक प्रदां शिवां ॥

मंत्रः ॥

ओं पार्थिवि पृथिवीतल संचारिणि वायुमालिनि तारुण्यं कुरु २ वंधं
स्वाहा ॥

अस्यापि प्रतिरूपोस्ति मंत्रः पिंगलभाषया ।
तथैव फलदः प्रोक्तः जपो रात्रौ प्रकीर्तितः ॥

अष्टम्यां कृष्णपक्षे हि भौमोस्मिन् वा सरोत्तमः ॥

६३अ)

मंत्रः ॥

किलि २ हिलि २ मिलि २ चोलं रीठीं कुं स्वाहा ॥ इति पार्थिवाविधिः ॥

अथ पंकवासिनी ॥

वैशाखे शुष्क सरसि काननेजन वर्जिते ।
किंचित्यं किलिते किंचिज्जलस्थल मनोरमे ॥

सप्तरात्रं जपेन्मंत्रं दिवसं सूर्यमण्डलात् ।
लक्षसंख्यं जपः प्रोक्तो होमस्तत्र तत्पुष्पकैः ॥

दशांशेन विधातव्यस्ततसापंकवासिनी ।
ददाति मंत्रिणे तुष्टा त्रिजगद्वशकारणं ॥

केसरं च सुगंधं च मंत्री तत्तिलकी सदा ।
वसयेद्भुवनं सद्यो राजानं देवतास्तथा ॥

ध्यानं ॥

पंकवासिनि शिवे शिव इति स्मरवक्त्र नयनांवुजलीले ।
मानसे ममवशस्मर देवि प्रत्यहं कमलकाननसंस्थे ॥

मंत्रः ॥

ओं पंकवासिनि पंकजवनिवनदेवते केसरं देहि सिद्धिं कुरु २ क्लीं श्रीं
स्वाहा ॥

अस्या तु प्रतिरूपं हि मंत्रं सौभिल्ल भाषया ।
सद्यो मोहन विद्यैषा त्रिरात्रमयुतं जपेत् ॥

तस्मिन्काले हि दिवसे जपः सरसि संमतः ॥

मंत्रः ॥

इंदु कुंड नवल पुरु इंचुमाडिंचुरोपिनि दश वं वं वः ॥ इति
पंकवासिनीविधिः ॥

अथ वराननाविधिः ॥

राज्यरथ्याद्वारे भौमवासरे सप्तम्यां कृष्णपक्षे ।

जपेद्वराननां देवीं त्रिसहस्रं शुचिः स्थितः ।
शंखैः कपर्दकै होमो दशांशेन ततो मतः ॥

ततो वराणना देवी सकृत् स्त्रीभिषितो ध्रुवं ।
ददाति मंत्रिणे चैकं कपर्दकमनुत्तमं ॥

तदा तु पततो मंत्री वाणिज्यविधि जीवनः ।
कपर्दकं स्थापयेद्धिकनादीनां कुसूलके ॥

त्रिदिनावधि धान्यं तयावद्विक्रयकारकः ।
यथेच्छं तावदा स्वेत पुनस्त्रेत्त्रिदिनावधि ॥

रावंधान्यांतरे क्षिप्तंस्तदक्षयं करोति सः ॥

ध्यानं ॥

सौंदर्यामृतसन्दोह सारीभूतामिवा परां ।
विवर्द्धिनी स्थिरां देवीं सा भजेत्तां वराननां ॥

मंत्रः ॥

वराणने वामलोचनि पण्यपालिनि मालिनि २ व्रूं धूं धीं स्वाहा ॥

अस्यापि प्रतिमंत्रोस्ति दिव्यः पार्वत भाषया ।
स तथैव च जप्तव्यः पण्यद्वार निशाविधौ ॥

सर्वं द्विगुणं याति पण्यद्रव्यं गृहस्थितं ।

६३ब्)

मंत्रः ॥

कालिवालि सोहित वटय २ तूंधी स्वाहा ॥ इति वरानना ॥

अथ विधुश्रेष्ठा ॥

चंद्रग्रहे सोमवारे चित्रानक्षत्रसंगमे ।
यावद्विधु प्रमोच स्यात् तावन्मंत्रं जपेज्जलें ॥

ततो देवी विधुश्रेष्ठालोकविस्मयकारकं ।
ददाति मंत्रिणे सम्यक् ताटंकं सव्यकर्णगं ॥

पूर्णचंद्रप्रभाशोभित्वमांपूर्णां करोति तत् ।
प्रतिज्ञा वशगो योगी स्वभागे क्षपयेद्धि तत् ॥

ततो देवी पक्षपातातूस्मिंतदवलंवने ।
ततो कापि वदंत्येवममायां चंद्रमा कुतः ॥

ध्यानं ॥

चंद्रमंडलसंस्थातां विधुश्रेष्ठां वियद्रतां ।
कास्मीर चारुता टंकां ध्यायामि शिववल्लभां ॥

मंत्रः ॥

विधुश्रेष्ठे वियद्गते मानं पूरय कर्णता टंकं देहि २ थं ध्रूं
ह्स्रीं स्वाहा ॥

अस्यापि प्रतिरूपं हि मंत्रो वैदेह भाषया ॥

मंत्रः ॥

चादजीवनि चांदनिरीरपनी दीपमालखंमी देहि ह्स्रीं ह्स्रीं स्वाहा ॥ अत्र
जपतिथि कालस्यानुक्तं त्वेन पूर्वोक्तान्येव तिथिकाल फलानि ॥ इति विधुश्रेष्टा


अथ वामलोचन ॥

वामायाः संगमात् पूर्वं प्रजपेद्वामलोचनां ।
शतमात्रं पूर्णमास्यां विशाखादित्य संगमे ॥

सद्यः प्रसन्ना देवी सा वीर्या स्तंभं ददाति हि ।
अपिकांताशतासंगमे नासौ स्खलति मानवः ॥

ध्यानं ॥

रति देवी रति प्रीतिं कामकीर्तिं मनोरमां ।
मम कामप्रदां सद्यः प्रभजे वामलोचनां ॥

मंत्रः ॥

ईलीं भीरं वं वाम लोचने वीर्यं स्तंभय २ नादं मा कुरु २ स्वाहा ॥

अस्यैव प्रतिरूपं हि मंत्रः शिखरिभाषया ।
महानदी तटे जप्तो वेश्या विद्रावये क्षणात् ॥

पूर्ववज्जपसंख्या स्याद्धोमः पद्मैरिहोदितः ॥

मंत्रः ॥

वामलोचनिमाये म इसदारे गणं हां हं स्वाहा ॥ इति वामलोचना ॥

अथ चित्राक्षी ॥

अक्ष?याख्या तृतीयायां उद्दिश्य जलकुंभके ।

६४अ)

यमं वरुणमिंद्रं च तष्ठीरस्य तु संस्थितं ॥

कुंभापूरण काले हि मध्याह्ने प्रजपेन्मनुं ।
अथ ब्रह्मविष्ण्वीशाये पूर्वकुंभदेवताः ॥

तान्सर्वानधिरुह्यैषा जप्तव्या चापगा तटे ।
त्रिशतं च जपः प्रोक्तो होमः सीवफलेन हि ॥

ततो घटमुखादेवी प्रत्यक्षा वदति स्फुटं ।
अक्षयं कुरुते द्रव्यं मंत्रिणे नात्र संशयः ॥

तृतीया सोमसंयुक्ता तृतीया रवि संयुता ।
चित्रा ऋक्ष भवेद्योगस्तदासौ जप उच्यते ॥

अत्र चेन्द्रादयो देवाः पूर्वं कुंभस्थानधिरुह्यतिष्ठतीत्येका कल्पना ।
ब्रह्मविष्ण्ववीशेति निपात । ते ये देवता कुंभेतानाधिरुह्यतिष्ठतीत्य
परावर्णना ॥

ध्यानं ॥

इंद्रादि प्रेतमौलिस्थां कलशांकरमालिनीं ॥
चित्राक्षीं चित्रवेषांतां संभजेत् परमेश्वरीं ॥

मंत्रः ॥

चित्राक्षि चित्ररूपे इंद्रादि प्रेतसंस्थे प्रसीद २ श्रीं स्वाहा ॥

अस्यापि प्रतिमंत्रोसौ ज्ञातव्यः कोलभाषया ।
मध्याह्ने स तु जप्तव्यस्तत्तिथौ तत्फलप्रदः ॥

मंत्रः ॥

चित्रं चखुसीमारधन अपारभौरीं स्वाहा ॥ १६ ॥ इति चित्राक्षी ॥

अथ चित्रकंठी ॥

वसंते शुक्लपक्षे हि चैत्रे मासे निशाविधौ ।
चतुर्दश्यां जपेन्मंत्र चित्रकंठे फलप्रदं ॥

जपः सहस्र त्रितयं होमो दशगुणो मतः ।
मधूक कुसुमैः पश्चाद्धोमोसौ परिकीर्तितः ॥

ततो देवीमुदंयाता ददाति किलमंत्रिणे ।
कोकिलस्वरमत्यंत मोहनं जगतामपि ॥

अपि पक्षी मृगादीनां मोहनं सुस्वरो मतः ॥

ध्यानं ॥

चूतांकुरं कर्णयुगे वहंती वामं च रम्यारमणी शिवस्य ॥
सा मानसे मे सदा शुभास्या त्रैलोक्य पूज्या किल चित्रकण्ठी ॥

मंत्रः ॥

चित्रकंठी चित्रनादस्वरं देहि २ भीं रीं स्वाहा ॥ १७ ॥

अस्यैव प्रतिमंत्रो हि प्रायशो मरुभाषया ।
तथैव फलदः प्रोक्तः तत्काले परिसेवितः ॥

मंत्रः ॥

साम्हारोगलूं चित्रकेलि वांसं स्वाहा ॥ इति चित्रकंठी ॥

६४ब्)

अथ चिह्नगम्या ॥

चित्रायां कृष्णपक्षे हि रात्रौ सिद्धिप्रदां जपेत् ।
चतुर्थ्यां चिह्नगम्यातामयुतं चंद्रवासरे ॥

न होमो नापि पूज्यान्या देवी साक्षात् प्रियंवदा ।
ततो ददाति तस्मै सा मंत्रिणे वरमुत्तमं ॥

नवरात्रौ गृहे सम्यक् दिव्यान्नं यावदीप्सितं ।
तावद् ददामिहे मंत्रि दिव्यभोगानपि ध्रुवं ॥

ध्यानं ॥

कलशममृतपूर्णं पाणिनासं वहंती सुभग कमलमालां विभ्रती
चारु कण्ठी ॥ मम हृदय मनोज्ञा सर्वदा रात्रिरम्या फलतु मम
संभोगात् सर्वदा चिह्नगम्या ॥

मंत्रः ॥

देविकमले चिह्न गम्ये प्रसीद श्रीं स्वाहा ॥

अस्यापि प्रतिरूपं हि मंत्रं वंगालभाषया ।
स रात्रौ वटमूलेषु जप्तव्यः किल मंत्रिणा ॥

जप्तो शतमात्रं हि ततः प्रिय देवता ।
नित्यं तस्मै ददात्याशु दिव्यभोगां मनोरमां ॥

मंत्रः ॥

चिह्नगम्या शतरदेवी शतरसेव्यामोथें देहि २ पार हु हुं ॥ इति चिह्नगम्या


अथ त्रिलोचना ॥

त्रिलोचना महादेवी द्वादश्यां शनिवासरे ।
जपेद्रात्रौ सहस्रं हि होमोस्य तु समाहितः ॥

नारिकेलैर्दशांशेन कर्तव्यो वंशवृद्धि कृत् ।
ततो देवी मंत्रिहो हि ददाति फलमुत्तमं ॥

तत्फलादानतंस्तस्य पत्नी पुत्रवती भवेत् ।
अपि वंध्यापि सा नारी जायते पुत्र शालिनी ॥

अस्या हि प्रतिरूपं हि मंत्रंस्त्रिगुलभाषया ।
तथैव स तु जप्तव्यो मृतपुत्रवत्सला ध्रुवं ॥

जीवेत् पुत्रा भवेन्नारी मंत्रो जाप्यस्तस्यया किलं ॥

मंत्रः ॥

मामम्म इलि विन्दु इंदु वदकिसोधधं ॥ इति त्रिलोचनाविधिः ॥

श्रीगणेशाय नमः ॥ श्रीदेव्युवाच ॥

महाचीन क्रमाचारः सूचितो न प्रकाशितः ।
इदानीं कथयेशान यदि स्नेहोस्ति मां प्रति ॥

६५अ)

इति पृष्टः पुरा देव्या कैलासशिखरे हरः ।
चिंतया मास मनसा किंचिदा कलिते क्षणः ॥

इयमुत्कंठिता भूयो यन्मां प्रेरयति प्रिये ।
चीनाचार क्रमं वक्तुं तत्प्रकाश्य कथं मया ॥

इति गुप्ततरः सोपसाचारः सिद्धिदायकः ।
स्त्रीणां चंचलया वुद्ध्या कथं गोप्तं हि शक्यते ॥

इति संचिंत्य मनसा पुनराह महेश्वरी ।
महाचीन क्रमाचारं व्रूहि मे परमेश्वर ॥

श्रीशिव उवाच ॥

अलं यत्नैरलं यत्नैरलं यत्नैर्महेश्वरि ।
चीनाचारक्रमं श्रोतुं विरक्ता भव पार्वति ॥

एष एव महाचारो न प्रकाश्यं कदाचन ।
गुह्याद्गुह्यतरं साक्षात् तत्वज्ञानमयः शिवे ॥

स्त्री स्वभावेन भवती सश्वन्मां परिपृच्छसि ।
लक्षवारं वारितासि तथापि श्रोतुमिच्छसि ॥

श्रीपार्वत्युवाच ॥

यदि चीन क्रमाचारं नमे कथयसि प्रभो ।
प्राणत्यागं करिष्यामि पुरतस्तेन संशयः ॥

इत्युक्तः सततं शौरयो रुद्रः कारुणिको महान् ।
महाचीन क्रमाचारं गदितुं संप्रचक्रमे ॥

सर्वदा गोप्य एवायमाचारः सिद्धिदायकः ।
तवानुरोधो देवाहं कथयामि महेश्वरि ॥

ब्रह्मणे मानसः पुत्रो वसिष्ठोतीव संयमी ।
तारामाराधया मास पुरानीलाचले मुनिः ॥

जपन्सतारिणीं विद्यां कामाख्या योनिमंडले ।
गमयामास वर्षाणामयुतं ध्यान तत्परः ॥

वर्षेषु तेन तत्रैव चिरमाराधिता सती ।
नानुग्रहं चकारासौ तारासंसारतारिणी ॥

अथासौ पितरं गत्वा ब्रह्माणं परमेष्ठिनं ।
कोपेण ज्वलितो विद्यां तत्याजयतुरंतिके ॥

द्वादशादित्यसंकाशं तपोभिर्ज्वलितं मुनिः ।

६५ब्)

ब्रह्मासानु नयं प्राह शृणु पुत्रवचो मम ॥

तत्वज्ञानमयीं विद्यां तारां भुवनतारिणीं ।
आराधयत्वं सुचिरं मनुविग्नेन चेतसा ॥

अस्याः प्रसादादेवाहं भुवनानि चतुर्दश ।
सृजामि चतुरो वेदान् कल्पयामि च लीलया ॥

एतामेव समाराध्य विद्यां भुवनतारिणीं ।
तामाराध्यमहं विष्णुर्भुवनं पालयत्यसौ ॥

संहारकाले च हरो रुद्र मूर्तिधरं परं ।
तामेव रुद्र संपूज्य संहरत्यखिलं जगत् ॥

इत्युक्ता ब्रह्मणो योगी वसिष्ठः साधकोत्तमः ।
स्वपुत्रे कथयामास सर्वमाराधनं क्रमं ॥

वसिष्ठ उवाच ॥

देवतामादि भूतत्वं सर्वविद्यामय प्रभो ।
कथं दक्षदुराराध्याविद्या मह्यमियं त्वया ॥

सहस्रं वत्सरान्पूर्वमियमाराधिता प्रभो ।
नीलाचले निवसता हविष्यं भुंजता मया ॥

तथापि ताततारिण्याः करुणामयिना भवत् ।
ततो गंडूष मात्रं तु काले काले पिवन् जलं ॥

आराधयामितां देवीं वत्सराणां सहस्रकं ।
ततोपि यदि नैवा भूत्तारुण्याः करुणामयि ॥

तदाहमेक पादेन तिष्ठन्नीला चलोपरि ।
परं समाधिमास्थाय निराहारो दृढव्रतः ॥

तामेव केवलं ध्यायन् जपंस्तामेव सर्वदा ।
अति वाहितवान् वर्ष सहस्राष्टकंमुत्तमं ॥

एवं दशसहस्रं तु वर्षाणा महमीश्वरीं ।
कामाख्या योनिमाश्रित्य समाराधितवान्प्रभो ॥

अथाप्यनुग्रहस्तस्यास्तथापि न हि दृश्यते ।
अतल्पजामिदुःसाध्यां विद्यामेनांसु दुःखितः ॥

इति तद्वचनं श्रुत्वा ब्रह्मालोक पितामहः ।
उवाच सांत्वर्य पुत्र वसिष्ठं मुनिनांवरं ॥

ब्रह्मोवाच ॥

वसिष्ठवत्स गच्छत्वं पुनर्नीलाचलं प्रति ।
तत्रास्थितो महादेवीमाराधय दृढव्रतः ॥

कामाख्या योनिमाश्लित्य जपंस्तु परमेश्वरीं ।

६६अ)

अचिराद्देवते सिद्धिर्भविष्यति न संशयः ॥

एतस्याः सदृशी काचिद्विद्या न हि जगत् त्रये ।
इमां त्यक्त्वा पुनर्विद्यामन्यां कांत्वं ग्रहीष्यसि ॥

इति तस्य वचः श्रुत्वा प्रणम्य पितरं मुनिः ।
पुनर्जगाम कामाख्या योनिमंडलसन्निधिं ॥

तत्र गत्वा मुनिवरः पूजा संभाव तत्परः ।
आराधयन् महाविद्यां वसिष्ठोति जितेन्द्रियः ॥

अथाराधयतस्तस्य सहस्रं परिवत्सराः ।
जग्मुस्तारां महादेवीं पादैक जानुवर्तिनः ॥

तथापितं प्रतिप्रीता यद्यन्नाभून्महेश्वरी ।
तदा दोषेण महता प्रजज्वालमुनीश्वरः ॥

ततो जलं समादाय तां सप्तमुपचक्रमे ।
एतस्मिन्नेव काले तु रुष्टमालोक्यतं मुनिं ॥

च चाल वसुधा सर्वा स शैलवन काननाः ।
हाहाकारो महानासीद्देवी देवेषु सर्वतः ॥

ततोवभूव पुरतस्तारा संसारतारिणी ।
वसिष्ठस्तां समालोक्य शशापातीव दारुणः ॥

ततो देवी वसिष्ठेन शप्ता न फलदा क्वचित् ।
चीनाचारं विना नैव प्रसीदति कदाचन ॥

उवाच साधक श्रेष्ठमननीयतु धारिणी ।
रोषेण दारुणमनाकथं मामशयेद्भवान् ॥

मदीयाराधनाचारं वुद्धरूपी जनार्दनः ।
एक एव विजानाति नान्यकश्चन तत्वतः ॥

बृथैवायास बहुलः कालोयं गमितस्त्वया ।
विरुद्धाचार शीलेन मम तत्वमजानता ॥

तद्वुद्धरूपिणो विष्णोः सन्निधिं या हि संप्रति ।
तेनो यदिष्टाचारेण मामाराधय सुव्रत ॥

तदैवासु प्रसन्नस्यां त्वयि वत्स न संशयः ।

इत्याचारसारतन्त्रे प्रथमः पटलः ॥

शिव उवाच ॥

ततः प्रणम्यतां देवीं वसिष्ठोसौ महामुनिः ।
जगामाचार विज्ञान वांछया वुद्धरूपिणं ॥

ततो गत्वा महाचीने देशे स मुनि पुंगवः ।
ददर्श हिमवत् पार्श्वे साधकेश्वर सेवितं ॥

६६ब्)

निर्लज्जघनभावेन रूपयौवनशालिना ।
मदिरामत्त चित्तेन विलासोल्लाशतेन च ॥

शृंगाररसवेशेन जगन्मोहनकारिणा ।
भयलज्जा विहीनेन देवी ध्यान परेण च ॥

कामिनीनां सहस्रेण परिणारितमीश्वरं ।
मदिरापान संजात रक्तमन्थर लोचनं ॥

दूरादेव विलोक्यैनं वसिष्ठो वुद्धरूपिणं ।
विस्मयेन समाविष्टः स्मरन् संसारतारिणीं ॥

किमिदं क्रियते कर्म विष्णुना वुद्धरूपिणा ।
वेदवादविरुद्धो यमाचारः सम्मतो मम ॥

इति चिंतयतस्तस्य वसिष्ठस्य महात्मनः ।
आकाशवाणी प्रहाशुमैव चिंतय सुव्रत ॥

आचारः परमो यो यतारिणी साधके मुने ।
एतद्विरुद्धाचारस्य मते नासौ प्रसीदति ॥

यदि तस्याः प्रसादत्वमचिरेणाभिवांछसि ।
एतेन चीनाचारेण तदा तां भज सुव्रत ॥

आकाशवाणीमाकर्ण्य रोमांचित कलेवरः ।
वसिष्ठो दंडवद् भूमौ पपातातीव हर्षितः ॥

अथोत्थायाचिरेणासौ कृतांजलिपुटो मुनिः ।
जगाम विष्णोः स विधं बुद्धरूपस्य पार्वति ॥

अथासौ न समालोक्य मदिरामदविह्वलः ।
प्राह वुद्धः प्रसन्नात्मा किमर्थं त्वमिहागतः ॥

अथ वुद्धं प्रणम्याह भक्ति नश्रो महामुनिः ।
यदुक्त तारिणी देव्या निजाराधन हेतवे ॥

श्रुत्वा तु भगवान् वुद्धस्तत्वज्ञानमयो हरिः ।
वसिष्ठं प्राहतज्ञानं चिनाचारेऽधिकारवान् ॥

अप्रकाश्यस्तु तारिण्या आचारः सर्वदा मुने ।
तव भक्तिवसादस्मिन् न प्रकाश्यं कदाचन ॥

बुद्ध उवाच ॥

अथाचारविधिं वक्ष्ये देव्याः सर्वसमृद्धिदा ।
यस्यानुष्ठानमात्रेण भवाद्धौननिमज्जति ॥

समस्तशोकशमनमानंदाद्धि विवर्धनं ।
तत्वज्ञानमयं साक्षाद्विमुक्ति फलदायकं ॥

६७अ)

स्नानादिर्मानसः सौचो मानसः प्रवरो जपः ।
पूजनं मानसं दिव्यं मानसं तर्पणादिकं ॥

सर्व एव शुभः कालोनाशुभो विद्यते क्वचित् ।
नो विशेषो दिवारात्रौ न संध्यायां दिवानिशि ॥

वस्त्रासनस्तान गेह हट्टे स्पर्शादि वारिणः ।
शुद्धिनं चाचरेदत्र निर्विकल्पं मनश्चरेत् ॥

नात्रशुद्ध्याद्यपेक्षास्ति न चामेध्यादि दूषणः ।
सर्वथा पूजयेद् देवी यमस्नातः कृतभोजनः ॥

महानिशा शुचौदेशे वलिमंत्रेण दापयेत् ।
स्त्री द्वेषो नैव कर्तव्यो विशेषात् पूजनं महं ॥

तासां निंदां प्रहारं च कौटिल्यम प्रियं तथा ।
सर्वथा नैव कर्तव्यमन्यथा सिद्धिरोधकृत् ॥

स्त्रियो देवाः स्त्रियः प्राणा स्त्रिय एव विभूषणं ।
स्त्रीकुलेषु सदा भाव्यमन्यथा स्वस्त्रियामपि ॥

तद्धस्तरचितं द्रव्यं महादेव्यै निवेदयेत् ।
महाचीन क्रमजता वेष्ठितः साधकोत्तमः ॥

रात्रौ यदि जपेन्मंत्रं दुर्लभं तस्य किं भवेत् ।
महाचीन क्रमलता वेष्टिते न च यत्फलं ॥

तस्यापि षोडशांशेन कला नार्हंति केशवः ।
शवासनाधिकफलं लतागेहे प्रवेशनं ॥

शाशानालयमागत्य मुक्तकेशो दिगम्वरः ।
महाचीनक्रमलतावेष्टितो मुक्तिमाप्नुयात् ॥

जपस्थाने महाशंखं निवेश्योर्धं जपं चरेत् ।
दिक्लानियमो नात्र स्थित्यादि नियमो न च ॥

न जपेत् कालनियमो नार्चादिषु वलिष्वपि ।
स्वेच्छाचारोपि गदितः प्रचरेद् दृष्टमानसः ॥

कृतार्थं मन्यमानस्तु संतुष्टो निजमानसे ।
सुगंधि श्वेत लौहित्य कुसुमैरर्चयेत् कुलैः ॥

विल्वैः कुरु वकारैश्च तुलसी वर्जितः शुभैः ।
एकलिंग श्मशाने वा शून्यागारे चतुःपथे ॥

६७ब्)

तत्रस्था साधयेद्योगी तारां भुवनतारिणीं ।
तारिणी दक्षिणा काली सुंदरी भैरवी तथा ॥

महाचीनक्रमेणेताः सिद्ध्या एव न संशयः ।
सुंदरी भैरवी देव्याः प्रकारोपीह विद्यते ॥

तारिणी दक्षिणा सिद्धेर्न्नैव चीनक्रमं विना ।
महाचीन क्रमाचारः परः साधकसत्तमः ॥

तारिणीं प्रजपन् विद्यां कुलकोटीः समुद्धरेत् ।
नदंति पितरस्तस्य गाथागायंति ते मुदा ॥

अपिनः स कुले जातः कुलज्ञानी भविष्यति ।
स धन्यः कुलविज्ञानी स कविः स च पंडितः ॥

स कुलीनः स सुकृती सदृशी स च साधकः ।
स ब्राह्मणः स वेदज्ञः सोग्निहोत्री स दीक्षितः ॥

स तीर्थपीठे सन्यासी सनिराशी स सर्वगः ।
व्रति स सोमपायी स स यशस्वी स वै मनुः ॥

स वैष्णवः सवै शैवः स च गाणपतः स्मृतः ।
महाचीनक्रमाचारैस्तारिणीं यः सदा भजेत् ॥

इत्याचारतम्त्रे द्वितीयः पटल ॥

श्रीशिव उवाच ॥

इति तस्य वचः श्रुत्वा हरेर्वुद्धशरीरिणः ।
वसिष्ठस्तं पुनः प्राह कृतांजलिपुटो मुनिः ॥

वसिष्ठ उवाच ॥

भगवन् देवदेवेश तत्वज्ञानमयः प्रभो ।
महाचीन क्रमाचारः कथितो भवता मम ॥

प्रधानस्त्वयमेवास्ति मदिरायोषिदेव च ।
एतयोः किं प्रधानं तद्व्रूहि मे परमेश्वर ॥

श्रीभगवानुवाच ॥

एतस्मिन् परमाचार तुल्यमेव द्वयं मुने ।
प्राधान्यं योषितां किंतु देवानां च न संशयः ॥

यतो हि योषितां देहे स देवाधिष्ठिता शिवा ।
अतः पूजासु सर्वासु तासां प्राधान्य मुच्यते ॥

वसिष्ठ उवाच ॥

व्रूहि देवविधानज्ञ सर्वज्ञानमय प्रभो ।

६८अ)

यथा योषित्सु संपूज्या कृता साधकसत्तमैः ॥

श्रीभगवानुवाच ॥

योनिपीठे मंत्रपीठे यंत्रपीठे च पार्वती ।
त्रिधा भिन्ना महामाया पूज्यते साधकोत्तमैः ॥

सर्वेषामेव पीठानां प्रधानं योनि पीठकं ।
तत्र संपूजिता देवी झटित्येव प्रसीदति ॥

अणिमाद्यष्ट सिद्धीनां कारणं परमं मुने ।
योनिपूजा विधिसम्यग् मम सर्वार्थसाधनं ॥

नदी कापालिनी वेश्या रजकी नापितांगणा ।
ब्राह्मणी शूद्रकन्या च तथा गोपालकन्यका ॥

मालाकारकी वेश्या नव कन्याः प्रकीर्तिताः ।
अथवा सर्वजंतूनां विदग्धा लक्षणान्विताः ॥

आनीयानुत्तमा भद्रामेतेषामेव नायिकां ।
सुंदरी यौवनोन्मत्तां निर्लज्जां चारुहासिनीं ॥

कृत्वा दिगम्वरी तां च गंधकुंकुमचन्दनैः ।
अनुलिप्तां मुक्तकेशीं ततस्तद्योनिमंडले ॥

गुरुपंक्ति समाराध्य पूजयित्वा षडंगकं ।
पीठे पूजां विधायाथ तन्मध्ये पूजयेच्छिवां ॥

तत्र चावाहनं नास्तिजविन्यासो न वा मुने ।
उपचारैः पूजयित्वा अर्घ्यं दत्वा ततः पुनः ॥

जप्त्वा लिंगे भैरवं च पूजयित्वा महेश्वरं ।
गंधैश्च साक्षतैः पुष्पैर्होमं कुर्यादतः परं ॥

धर्माधर्मैर्हविर्दीप्ते आत्माग्नौ मनसास्रुचा ।
सुषुम्णा वर्त्मना नित्यमक्षवर्तीर्जुहोम्यहं ॥

स्वाहांतो होम मंत्रोयं प्रतिप्रत्य हुतिर्मुने ।
पूर्णाहुतिं जपांते च जुहुयाद मुनामुने ॥

प्रकाशाप्सरहस्ताभ्यामवलंव्योन्मनी स्रुचा ।
धर्माधर्म फलास्नेह पूर्णे वह्नौ जुहोम्यहं ॥

स्वाहांतोयं भवेन्मंत्रो घोरपातक मुक्तिदः ।

६८ब्)

पूजाकालं विनानैव पश्येच्छक्ति दिगंवरीं ॥

पूजाकालं विनानैव सुधापेया च साधकैः ।
आयुधा हीयते दृष्ट्वा पीत्वा च पशुतां व्रजेत् ॥

सौशमन्यां कुलाचारे ब्राह्मणः प्रपिवेत्सुरां ।
अन्यत्र कामतः पीत्वा प्रायश्चित्ती भवेन्नरः ॥

भार्गवेण पुरा सत्यां श्रुत्वा देवीस्तु वारुणीं ।
ब्रह्मालोक गुरुः साक्षात् प्रययौ भार्गवांतिकं ॥

प्रसम्नाधावरचितां ब्रह्माचारामृत समानयो ।
देवानाममृतं ब्रह्मस्तदिदं लौकिकी सुरा ॥

ब्रह्मज्ञानमयो देवी कुलाचारेण जायते ।
सौत्रामन्यां च देवेन्द्रस्तृप्यते सुरयैव हि ॥

सेयं सुरात्वया ब्रह्मन्तस्याः शायुं प्रमुच्यतां ।
ब्रह्माणं प्रणिपत्याह ततो सौ भृगुनंदनः ॥

मद्वाक्यं विफलं नस्यात्त्वद्वाक्यं च पितामह ।
अमोघं च करिष्यामि तदर्थं नियमं कृतः ॥

सौत्रामस्त्यां कुलाचारे सुराशाप विमुक्तये ।
मंत्रत्रयं प्रवक्ष्यामि शृणुष्वैक मनाप्रभो ॥

एकमेव परंब्रह्म स्थूलसूक्ष्ममयं ध्रुवं ।
कचोद्भवां ब्रह्महत्यां तेतते नाशयाम्यहं ॥

सूर्यमण्डलसंभूते वरुणालय संभवे ।
अमावीजमये देवी शुक्रशापाद्विमुच्यतां ॥

देवानां प्रणवो वीजं ब्रह्मान् यज्ञमयं यदि ।
तेन संपद्यते देवि ब्रह्महत्यां व्यपोहतु ॥

इत्युक्त्वा ब्रह्मणो त्रीणि भार्गवः प्रणिपत्यतं ।
जगामभवनं देवि ब्रह्मा स्वभवनं ययौ ॥

ब्रह्मज्ञानी कुलाचारे सुरापीत्वा स्खलन्मुहुः ।
पतितस्य तु तस्यांगे लगंति यदिरे नवः ॥

तावत् कालं रनुसंख्यं देवी लोके महीयते ।
पीत्वा पीत्वा पुनः पीत्वा पतित्वा च महीतले ॥

६९अ)

उत्थाय च पुनः पीत्वा पुनर्जन्म न विद्यते ।
पीत्वालिग कुलाचारे प्रमदां यौवनोन्वितां ॥

कोटि जन्मार्जितं पापं तत्क्षणादेव नाशयेत् ।
पीत्वा पीत्वा जपित्वा च मुक्तं कोटि कुलैः सह ॥

ब्रह्मलोके वसेद्देवीं सत्यं सत्यं न संशयः ।
तत्रैव वाप्तिमाप्नोति न पुनर्जायते भुवि ॥

पीत्वा च पूजयेद् देवीमीशत्वं लभते ध्रुवं ।
तत्रैव लयमाप्नोति पुनर्न्नैव निवर्तते ॥

पीत्वाग्नि होत्रे भूत्वा च त्रैलोक्यैश्वर्य भाजनं ।
जायते साधकः श्रेष्टो महाभोगी महासुखी ॥

पीत्वा योगी भोजयित्वा सोहं हंसस्ततः परं ।
स्वाहेति जायते वीरो जीवन्मुक्तोजमत्रये ॥

चिरजीवी जरायुक्तो विमुक्तः सर्वपातकैः ।
वलामिति वलांचापि सिद्धित्व समवाप्य च ॥

इत्येवं कथितं तुल्यं यथा पूज्या दिगंवरी ।
पूजयित्वा सकृद्देवीं मुच्यते सर्वपातकैः ॥

एवं देवीमर्चयित्वा किमसाध्यं जगत्त्रये ।
हरो प्रकुपिते वापि पूजयित्वा दिगम्वरीं ॥

सृष्टिस्थितिलयादीनां कर्तारो जगदीश्वराः ।
योगेभ्यो घोररूपेषु पूजयित्वा विमुच्यते ॥

अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् ।
आरभ्य शुक्लप्रतिपद्यावत् पंचदशी भवेत् ॥

प्रत्यहं पूजयेद् यस्तु तिथि संख्या दिगंवरी ।
मंत्रसिद्धिर्भवेत् तस्य सत्यं सत्यं न संशयः ॥

वीरसाधन कर्माणि दुःखसाध्यानि केवलं ।
सुसमंसाधनं ह्येतत् तव स्नेहात् प्रकाशितं ॥

गोपनीयं प्रयत्नेन पुत्रेभ्योपि न दर्शयेत् ।
इत्येष कथितस्तुभ्यं पूजाविधिरनुत्तमः ॥

६९ब्)

साधनं सर्वथा चैवं गोपयेन्मातृजारवत् ।


इत्याचारसारतम्त्रे तृतीयः पटलः ॥


वसिष्ठ उवाच ॥

कुलेशयानि पात्राणि पिशितानां च लक्षणं ।
कुलद्रव्यस्य निर्माणं वद माहात्म्यमेव च ॥

अविधानेन यत्पापं स विधानेन यत्फलं ।
तत्सर्वं श्रोतुमिच्छामि वदमे करुणा निधे ॥

श्रीभगवानुवाच ॥

मुने शृणु प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य स्मरणमात्रेण त्रिदशैः समतां व्रजेत् ॥

आधारेण विनाभ्रंशो न च तृप्यंति मातरः ।
तस्माद्विधिवदाधारं कल्पयेत् कुलनायकः ॥

अथवा वर्तुलाकारं कुर्याद्वृति मनोहरं ।
स्वर्णरूप्यशिलाकूर्म कपालानालांवु च मृन्मयं ॥

कुलद्रव्यं प्रवक्ष्यामि मुने शृणु समाहितः ।
अंभसां द्वादशप्रस्थं प्रस्थार्ध तक्तमेव च ॥

तंडुलानां चतुःप्रस्थं द्विप्रस्थं पयसस्तथा ।
मुष्टिमात्रांकुरं देयमेकस्मिन् योजयेद्घटे ॥

शीतादेवहित स्थाने स्थापयेद्दिवस द्वयं ।
ततो वह्नौ समारोप्य यन्मान सदृशं पचेत् ॥

अवरोप्य पराशीतामवस्था तां नयेद्बुधः ।
पयप्रस्थेन पिष्ट्वा तु हस्ताभ्यां मेलयेत् ततः ॥

सम्यक् सर्मव्यतक्रेण पयसालोड्यमेलयत् ।
एषा पैष्ठीति विख्याता पूजिता देवदानवैः ॥

कुलपूजाविनास्वार्थं यः करोतीह दुर्मतिः ।
प्रयाति नरकं घोरमेकविंशतिभिः कुलैः ॥

देवान्पितॄन्समभ्यर्च्य मुने शास्त्रोक्त वर्त्मना ।
गुरुं स्मरन्पिवन्मद्यं खादन्मांसं न दोषभाक् ॥

सेवतो व्रतसुखार्थाय मद्यादीन् स च पातकी ।
प्राशयेद् देवता प्रीत्यै स्वाभिलाष विवर्जितः ॥

७०अ)

श्वपचोपि कुलज्ञानी ब्रह्मणादति रिच्यते ।
यः कौलिकः कुलज्ञानं न पश्यति न वंद्यति ॥

धिक् तस्य जीवनं लोके धिक् धिक् तस्य च पौरुषं ।
ते वंद्याः पुण्यकर्मीणस्तेषां तास्ते च योगिनः ॥

येषां चित्ते भाग्यवशात् कुलज्ञानं प्रकाशते ।
ते वंद्यास्ते महात्मानस्ते कृतार्था नरोत्तमाः ॥

येषामुत्पाद्यते चित्ते कुलज्ञानमयोदितं ।
त्रासिताहि मया पूर्वं पशवः शास्त्रकोटिभिः ॥

कुलधर्मं न जानंति तत्वज्ञानाभिमानिनः ।
पशुशास्त्राणि सर्वाणि मयैव कथितानि वै ॥

स्मृत्युक्तरेण वलमंत्रे च मोहनाय दुरात्मना ।
महापश प्रयुक्तानां ते स्ववांछाभि जायते ॥

तेषां तु सद्गतिर्न्नास्ति कल्पकोटि शतैरपि ।
वहवः कौलिकं धर्मं श्रुत्वा ज्ञानवित् स्वकाः ॥

निंदतीहसुवुद्धैव पारस्पर्य विमोहितः ॥

वसिष्ठ उवाच ॥

मद्यपानेन मनुजा यदि सिध्यंति केवलं ।
मद्यपानरताः सर्वे सिद्धिर्यत्ने च पारवाः ॥

स्त्रीसंभोगेन लोकानां यदि मोक्षो भवेदिह ।
सर्वेपि जंतवो लोके मुक्तास्युः स्त्रीनिषेवणात् ॥

वुद्ध उवाच ॥

अत्र शृणूत्तरं पुत्रकुलधर्मा महालयं ।
मोक्षं ददाति भूतानामेतद्धर्म प्रवर्तिनां ॥

वृथापानं यत् क्रियते सुरापानं तदुच्यते ।
तन्महापातकायैव वेदादिषु निरूपितं ॥

वसिष्ट उवाच ॥

तन्मुखाच्छ्रोतु मिच्छामि कुलधर्मं विशेषतः ।
एतस्य हि विशेषज्ञस्त्वत् समोनास्तिकश्चन ॥

तस्य धर्मस्य माहात्म्यं सर्वधर्मोत्तमस्य च ।
वदमे परमेशान यदि तेस्ति कृपामयि ॥

श्रीभगवानुवाच ॥

७०ब्)

मुने शृणु प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण योगिनीनां प्रियो भवेत् ॥

शिवब्रह्म गुहादीनां यन्मया कथितं पुरा ।
कथयामि तवस्नेहाच्छृणुष्वेकाग्रमानसः ॥

पारंपर्य क्रमायेत मतिगोप्यं महद्भुतं ।
अकथ्यं परमार्थेन तथापि कथयामिते ॥

सर्वेभ्यश्चोत्तमा वेदाः वेदेभ्यो वैष्णवं परं ।
वैष्णवात् परमं शैवं शैवाद्दक्षिणमुत्तमं ॥

दक्षिणादुत्तमं वामं वामात् सिद्धांतमुत्तमं ।
सिद्धांतादुत्तमं कौलं कौलात्परतरं न हि ॥

गुह्याद्गुह्यतमं देवि सारात्सारं परंतरं ।
मथित्वा ज्ञानमंथेन वेदागम महार्णवं ॥

सर्वधर्म तवज्ञानं सर्वधर्म समुद्धृतः ।
एकतः सकला धर्माः यज्ञास्तीर्थ व्रतादयः ॥

एकतः कुलधर्मोयं सर्वयज्ञाधिक प्रिये ।
प्रविशंति यथा नद्यः सिंधौ नवशतोमितः ॥

तथैव समया सर्वे प्रतिष्ठाः कुलमेव हि ।
यथा हस्ति पदे लीनं सर्वप्राणि पदं भवेत् ॥

दर्शनानि च सर्वाणि कुल एव तथा मुने ।
यथा मरतरंगिण्या न समाः सकलापगाः ॥

तथैव समयाः सर्वे कुलधर्मेणनो समाः ।
मेरु सर्षपयोर्यद्वत् सूर्य खद्योतयोर्यथा ॥

तथास्य समयस्यास्य कुलस्य महदंतरं ।
अस्ति चेत् ज्ञानवान् कश्चिन् मत्समो भुविमानवः ॥

तथैव कुलधर्मेण समोस्ति भुवन त्रये ।
जन्मभिर्वहुभिर्ध्यानात् तपोभिर्मुनिसत्तम ॥

मोक्षं लभंते तु वुधा जीवन्मुक्तास्तु कौलिकाः ।
सत्यं सत्यं पुनः सत्यं सत्यमेव न संशयः ॥

वहुना किमिहोक्तेन शृणुत्वमवधानतः ।
न कौलेन समो धर्मः सत्यमेतद्वदामिते ॥

७१अ)

योगीचेन्नैव भोगी स्याद् भोगी चेन्नैव योगवान् ।
योगभोगात्मकं कौलं तस्मात् सर्वाधिकं त्विदं ॥

इत्याचारसारतन्त्रे चतुर्थः पटलः ॥

श्रीभगवानुवाच ॥

समयाष्टकं प्रवक्ष्यामि शृणुष्वैक महामुने ।
येन विज्ञानमात्रेण सिद्धिर्भवति साधकः ॥

घातयेद् गोपयेद् वापी निंदयेन् न विलोकयेत् ।
पूजयेद् भावयेच्चैव वर्जयेन् न जुगुप्सयेत् ॥

कामं क्रोधः समात्सर्यं विकारं चेन्द्रियोद् भवं ।
निद्रां लज्जां दौर्मनस्यं घातयेदष्टक प्रिये ॥

मंत्रमुद्राक्ष सूत्रस्तु योगिनी वीरसंभवं ।
भैरवागममाचारमेतत् सर्वं तु गोपयेत् ॥

देवं गुरुं सुरां विद्यां साधकं योषितां तथा ।
शुभाशुभं कर्मचिरं निंदयेन् नैव कदाचन ॥

कन्याशक्ति पशुक्रीडां नग्नस्त्रीं प्रकटस्तनीं ।
द्यूतविग्रह पापार्थी कुलीनं न विलोकयेत् ॥

गुरुं देवी तथा साधु न शक्ति चात्ममव्ययं ।
शक्ति तत्साधिकान् सर्वान् पूजयेच्च प्रयत्नतः ॥

गुरोर्वाक्योपदेशं च सद्दत्ततीर्थ देवताः ।
स्वधर्मं च कुलाचारं सदा तत्वेन भावयेत् ॥

अगम्यागमनं चैव धूर्तगोष्ठीं च चंचलं ।
अनृतं पापगोष्टी च वर्जयेत् सिद्धसाधकः ॥

विण्मूत्रं शोणितं क्लेदं हीइनांगो पिशितं सुरां ।
कपालहरणं चैव अष्टौ नैव जुगुप्सयेत् ॥

इत्येवं समयाचारं यः करोतीह साधकः ।
यद्वा न लभते वस्तु तत्रास्ति भुवनत्रये ॥

श्रीदेव्युवाच ॥

देव देव महादेव जगत्प्रलयकारक ।
कुलाचारेण मंवाम्वै कथं सिद्धिर्भवेत् प्रभो ॥

यदि तन्मदिरापानं यत् परस्त्री निषेवनं ।
अधर्मकरणाच्छिद्धि सर्वं मे संशयं प्रभो ॥

७१ब्)

शिव उवाच ॥

साधु पृष्टोऽस्मि देवेशि कथयामि शृणुष्व मे ।
पुरा दारुवने रम्ये मुनयः साधकाः पराः ॥

परस्त्रियं धर्षयंति मद्यं खादंति नित्यशः ।
तं दृष्ट्वानुचितं कर्म ब्रह्मामांसमुपस्थितः ॥

देवदेव महादेव सृष्टिस्थितिलयात्मक ।
एतदारुवने पायान्मद्यपानरतास्तथा ॥

परस्त्रीयं धर्षयंति मद्यं खादति मोहिताः ।
दिगंवराश्च मुंडाश्च गतिरेषा कथं भवेत् ॥

इति ब्रह्मवचः श्रुत्वा तमुवाच अहं प्रिये ।
पितामह न जानासि चीनाचारक्रमं भवान् ॥

उग्रतारां महाविद्यामेते नित्यं जयंति हि ।
पूजयंति च तामेव चीनाचारपरायणाः ॥

साधकाः सर्व एवेते महाकौला महाशयाः ।
जीवन्मुक्तिं गताः सर्वे देवी भक्तिपरायणाः ॥

परस्त्रीधर्षणाच्चैव मद्यपानाच्च नित्यशः ।
अश्वमेधादप्यधिक लभंते फलमुत्तमं ॥

एतास्तु निंदन्मोहाच्च महापातक वात्मवान् ।
इतो दूरं प्रयाहित्वं न मां स्पृश पितामह ॥

इत्यैव मुक्तसमया ब्रह्मालोक पितामहः ।
परं विस्मयमापन्नः संशया विष्टमानसः ॥

किमिदं शंभुना प्रोक्तं वेदाचारवहिष्कृतं ।
इति संचिंतयन् मौनं प्रायपंकजसंभवः ॥

ततो वैकुण्ठमासाद्य श्रीविष्णुं परमेश्वरं ।
कृतांजलि पुटो भूत्वा सर्वमेवमुवाचसः ॥

देवदेव महाविष्णो संसारस्थिति कारक ।
छिंधि मे संशयं देव महांतं मनसि स्थितं ॥

त्वदन्यः संशयस्यास्यच्छेत्ता कश्चिन्न विद्यते ।
तीर्थपर्यटनायद्यद्गतं दारुवनं मया ॥

७२अ)

तत्र सर्वे मुनिगणाः परस्त्रीधर्षणे रताः ।
मदिरापानसंजात सदा घूर्णितलोचनाः ॥

रममानी परस्त्रीभिर्निर्लज्जा सर्व एव हि ।
एवं तान् सुदुराचारान् दृष्ट्वा कैलासवासिनं ॥

महादेवमवोचं तत् सर्वमेव दयानिधे ।
पापाचारानपि मुनीन् प्रसंशं स महेश्वरः ॥

श्रद्धया परयाविष्टस्तानुद्दिश्य पुनः पुनः ।
उवाच साधवस्ते वै जीवन्मुक्तो महाशयाः ॥

तान्निंदित्वा महापाप जजुः दूरमितो यतः ।
ततो हं विस्मयाविष्टः प्राप्तस्त्वां जगदीश्वर ॥

एतन्मे संशयं छिंधि चेत् कृपामपि वर्तते ।
एवं स ब्रह्मणा प्रोक्ता विष्णुः सर्वेश्वरः प्रभुः ॥

भक्त्या परमयायुक्तस्तान् मुनीन्प्रणताम्यहं ।
उवाच च विधातारं तत्वज्ञानमयं वचः ॥

त्वया दारुवने दृष्ट्वा मुनयो ये पितामहः ।
तारामाराधयंते तु सर्वे साधकसत्तमाः ॥

परस्त्रियं धर्षयंति मद्यं खादंति नित्यशः ।
निर्वाणंते तु यास्यंति भगवत्याः प्रसाददः ॥

चीनाचारं समाश्रित्य मुनयस्ते महाशयाः ।
तत्वज्ञानमया सर्वे विहरंति महीतले ॥

त्वमाशुगच्छ तत्रैव तान् प्रसादय पद्मज ।
तेषु व्यष्टिषु भवतो ब्रह्मत्वमपि यास्यसि ॥

महादेवेन यत् प्रोक्तं तस्य मे तन्न संशयः ।
आवयोसन संस्पृश्य साधकान्यो विनिन्दति ॥

श्रीशिव उवाच ॥

ततो विष्णुं प्रणम्यासौ परमेष्ठी त्वरान्वितः ।
गत्वा दारुवनं सर्वान् प्रणनाम मुनीश्वरान् ॥

तुष्टाव परया भक्त्यास्तत्रैर्वहु विधैरपि ।
तेषां प्रसादय मासाद्य कृतकृत्यो भवद्विधिः ॥

७२ब्)

श्रीदेव्युवाच ॥

महाचीन क्रमाचारं ततो वुद्धादि वाशु च ।
वसिष्ठः स किमकरोत्तन्मे व्रूहि महेश्वर ॥

श्रीशिव उवाच ॥

महाचीन क्रमाचार ततो वुद्ध्यादि वाप्यसः ।
नीलाचलं समासाद्य कुलाचार परायणः ॥

ततोक्षमालां युवतीं चांडालीनु मयेन्मुनिः ।
जपन् संसाधयामांसतारां मुक्ति प्रदामिमां ॥

मदिराभिपानमत्ताभिर्मदिरा मदघूर्णितः ।
तारामाराधयामास कृत कृत्यो भवत् तदा ॥

साक्षाद्भूता महादेवी तारा संसारतारिणी ।
तमुवाच वसिष्ठत्वं वरान्वृणु यथेप्सितान् ॥

वसिष्ठ उवाच ॥

तारे देवि जगन्मातः ज्ञानविज्ञानदायिनि ।
वरमेव वृणेत्वन्नः प्रसन्ना देहि हिमे शिवे ॥

महाचीन क्रमाचारैर्यस्त्वां संपूजयिष्यति ।
सर्वदा तस्यार्चकस्य साक्षात्वं हि भविष्यसि ॥

श्रीदेव्युवाच ॥

चीनाचारेण यः कश्चित् तारां मां पूजयिष्यति ।
स मे पुत्र तयागत्य सत्यं सत्यं न संशयः ॥

इह भोगान् वरान् भुक्त्वा बृहस्पतिरिवापरः ।
अंते यास्यति मत्पार्श्वं यत्र मे गणनायकः ॥

रूपयौवनसंपन्नो रुद्रकन्यागणैः सह ।
विहरिष्यंत्यसौ वीरो यावच्चंद्रार्कतारकं ॥

तवापि भविता वत्स योग सिद्धिरनुत्तमा ।
अणिमाः सिद्धयस्त्वं मे भविष्यंति निरंतरं ॥

इति लब्धवरस्तस्या वसिष्ठोसौ महामुनिः ।
नक्षत्रलोकमासाद्य अद्यापि द्योतते दिवि ॥

एषते कथितो देवि चीनाचारः सुदुर्लभः ।
समाचरन् साधकेन्द्रो भुक्तिमुक्तिं च विंदति ॥

एतत् सर्वं प्रयत्नेन गोपितव्यं त्वया प्रिये ।

७३अ)

यथा ह्यन्यो न लभते तथार्पं च महेश्वरि ॥

स्वयोनिरिव देवेशि गोप्तव्य पशुसन्निधौ ।
यो भक्तः साधको ज्ञानी तस्मै वक्तव्यमेव हि ॥

इत्याचारसारतन्त्रे पंचमः पटलः ॥

श्रीशिव उवाच ॥

अथातः संप्रवक्ष्यामि रहस्यं शृणु पार्वति ।
योनिमण्डलमासाद्य मूलमंत्र जपेत् तु यः ॥

षण्मासे सिद्धिमाप्नोति विनाहोमार्चनादिभिः ।
योनिमुद्रां विजानाति मूलविद्यां शृणोति यः ॥

तस्या चिरादष्ट सिद्धिस्तन्नाति यन्न साधयेत् ।
यदि भाग्यवसादेव योनिमुद्रां विलोकयेत् ॥

प्रणम्य दण्डवद्भूमौ मनसा जपमाचरेत् ।
भगरूपा महादेवी योगिनी योनिरूपिणी ॥

तस्माद्यत्नेन मंत्रज्ञो महामुद्रा समर्पयेत् ।
अष्टम्यां च चतुर्दश्यां मंगले शनिवासरे ॥

योगिनी कुरु वंदैश्च संस्थिता योनिमंडले ।
योनिमंडल तत्वज्ञः कुलद्रव्यपरायणः ॥

स रुद्र इति विज्ञेयः सर्वशास्त्रेषु निश्चितं ।
योनौ पूजां नाचरंश्च मांसं मध्ये तथा मधु ॥

कुलद्रव्याणि चैतानि भक्षयेत् कुलकौलिकः ।
मदिरानंद सानंदो मांसमुद्राशनोनवा ॥

पंचतत्वं न सेवेत स कथं कुलकौलिकः ।
मद्यं मांसं तथा मत्स्यं मुद्रां मैथुन कर्म च ॥

न सेवते यदा देवी स कथं कुलकौलिकः ।
पंचतत्वं विनानास्ति शक्तीनां भुक्ति मुक्तिषु ॥

तस्मात् सर्वप्रयत्नेन पंचतत्वं निवेदयेत् ।
देवीं संपूजयित्वा तु तस्यां संभक्षयेन् नरः ॥

निषेव्य पंचतत्वानि सर्वदानंदमानसः ।
कुलज्ञानां मेलनेन विहरेत् कुलभैरवः ॥

७३ब्)

संस्थाप्यमामे कुलजां कुलपूजारतो भवेत् ।
देयं तस्मै मद्यमांसं खाद्यं तन्मुखतः प्रिये ॥

प्रविश्य योनिमुद्रां च जपेन् मंत्रमनन्यधीः ।
आत्मानं भैरवं मत्वा योनिं भगवतीं तथा ॥

भैरवाचर संपन्नः प्रविशेद्योनि मंडले ।
आलिंग्य युवतीं गाढं संचुंव्याधरमेव च ॥

दंतक्षतं नखाघातं तत्र तत्र विनिर्दिशेत् ।
कुलोद्भवेन द्रव्येण पूजयेत् तर्पयेच्चयः ॥

स एव साधकज्ञानी कुलज्ञानी न संशयः ।
यदि गच्छेद् भगवति कपटं चैव कारयेत् ॥

देवी गुणवती तस्य सर्वं नाशयति ध्रुवं ।
या शक्तिः सा महादेवी केवलानंदरूपिनी ॥

तद्योगे नैव मुक्त स्यात् साधको वीररूपधृक् ।
इति ज्ञात्वा जपेद् विद्यां केवलं भावतत्परः ॥

जाति स बन्ध वुद्धिं च न कदापि च साधकः ।
चिंतयेत् तं च देवेशि नरकं प्रतिपद्यते ॥

उच्छिष्टं भक्षयेत् तासां दद्यान्नोच्छिष्टमेव हि ।
शक्त्युच्छिष्टं पिवेद् द्रव्यं वीरोच्छिष्टं तु चर्वणं ॥

शक्तिवीर प्रसादेन किन्न सिध्यति भूतले ।
आनंदपूर्ण हृदयो विहरेत् कुलभैरवः ॥

रक्तचंदनदिग्धांगस्तांवूलपूरिताननः ।
रक्तमाल्यांवरधरो रक्त कोपीण भूषणः ॥

शक्तिमाकृष्य यत्नेन कुलाचाररतो भवेत् ।
तस्माद् यत्नेन मंत्रज्ञो तावच्छक्ति परायणः ॥

एवं तंत्रं च मंत्रं च गोपयेन् मातृजारवत् ।
मोहात् प्रकाशादचिरादधोयाति न संशयः ॥

इत्याचारसारतन्त्रे रहस्यकथने षष्ठः पटलः ॥

श्रीदेव्युवाच ॥

देवदेव महादेव महाकारुणिक प्रभो ।
योगिनीनां सदासेव्यं कौलानां वलपुष्टिदं ॥

७४अ)

मनश्चांचल्य हरणं किं समाधि फलप्रदं ।
वदस्व तद शेषेण यद्यहं तव वल्लभा ॥

श्रीशिव उवाच ॥

अकथ्यते तच्चार्वंगि देवासुर नरेष्वपि ।
कथयामि तव प्रीत्या गुह्याद्गुह्यतरं महत् ॥

श्रुत्वा त्वयापि गोप्तव्यं यत्नेन पशुसंकटे ।
वलो नाम महानासीदसुरावलवान् पुरा ॥

जित्वा सुरगणान् सर्वानिन्द्रोभूत् स्वयमेव सः ।
ततः पलायिताः सर्वे भयोद्विग्ना दिवौकसः ॥

पुरंदरः पुरोधानं मंत्रयित्वा सुनिश्चितं ।
नान्योस्ति तस्मादस्माकं त्राता श्रीमधुसूदनात् ॥

इति संचिंत्य सर्वे ते प्रययुः परमेश्वरं ।
संस्तूयमानमृषिभिः सिद्धकिन्नरसेवितं ॥

तां दृष्ट्वा पुण्डरीकाक्षः प्रणमेद् दण्डवद्भुवि ।
ऊचुः प्रांजल यश्चैते देवाः शक्र पुरोगमाः ॥

नमोस्तु हरये तुभ्यं सर्वदुःखं च हारिणे ।
सुराणामार्तिनाशाय सर्वेशाय नमो नमः ॥

नमस्त्रिमूर्तये तुभ्यं सृष्टिस्थित्यंत कारिणि ।
गुणातीताय शुद्धाय परतोपि पराय च ॥

सर्वात्मने ननस्तेस्तु सर्वशक्ति युतायते ।
सर्वज्ञाय सर्वलोकसाक्षिणे इति स्तुत्वा ॥

सकलं तद्वृत्तांतं निवेदय शरणं गताः ।
सर्वे त्राहि नस्तं निहत्य च दुराचारो वलमुखा यथायात्य चिरणते ॥

रक्षा स्माकं च शक्रस्य तथा कर्तुत्व मर्हसि ।
श्रुत्वेदं वचनं तेषामिदमाह पुरंदरं ॥

वृत्तांतमेतज्जानामि वलस्यास्य दुरात्मनः ।
ब्राह्मणा समया वापि न स वध्यः शिवेन वा ॥

त्वयि वध्यः स भविता स दुरात्मान संशयः ।
एतत् सर्वं महेशाय निवेदय पुरंदरः ॥

स एव भगवान् सर्वमेतज्जानाति शंकरः ।
तावत् तिलषिते सर्वं स विधास्याति गम्यतां ॥

७४ब्)

प्रसाद्यतां च यत्नेन त्वयासौ भक्तवत्सलः ।
अथ प्रणम्य शक्तस्त्वं स मायातो ममांतिकं ॥

आगत्य शुद्धभावोसौ प्रणम्य च कृतांजलिः ।

तुष्टुवे विविधैस्तोत्रैर्भक्ति गद्गदभाषितं माध्यानोपरतमीश्वरं ॥

स्तोत्र पाथैर्वहुविधै मनुद्भवनिनादितैः ।
महद्भिः परितो ज्ञातं सर्वतदेव शेषतः ॥

अस्य वध्य सवलोदुरात्मासौ भविष्यति ।
स विध्य भेद्विज्ञाय शक्रमाहूय सन्निधिं ॥

तस्मै तत्परमं ज्ञानं दत्वारोच् मिदं वचः ।
त्रैलोक्यविजयाज्ञां एतत् त्रैलोक्य दुर्लभं ॥

अशेषपापशमनं परात्मा स्वप्रकाशकं ।
अखंडानंदनिलयमद्वैतपरमास्पदं ॥

मनस्थैर्यः करं रोग शोकसंतापनाशनं ।
वलपुष्टिकरं सम्यक् योगसिद्धिकरं महत् ॥

निषेव्यतामियं संवित् स्थीयतां च मतांतिके ।
ततो गत्वा वत्सरांते स वले जेष्यते त्वया ॥

इत्येमुक्त समया प्रांजलिश्चेदमव्रवीत् ॥

शक्र उवाच ॥

देवदेव महादेव सर्वज्ञ सर्वतत्ववित् ।
विधिनाकेन सेव्योयं को वा मंत्रविशोधने ॥

तर्पणस्वीकृतौ मंत्रः सविदे कृपया विभो ।
सर्वमेतदशेषेण सांगोपांग वदस्व मे ॥

श्रीशिव उवाच ॥

शृणु शक्र महाभाग सर्वमेतद् वदामि ते ।
श्रुत्वा गोपय यत्नेन तदेवाचर नित्यशः ॥

त्रैलोक्यविजयाक्ष्यापानामानि प्रथम क्रमात् ।
कथयामि तव स्नेहादति गुप्तानि सर्वतः ॥

त्रैलोक्यविजया सिद्धिमासोथ शुद्धिमूलिका ।
ज्ञानं च सम्विदा श्यामा भंगा गंजारशायणा ॥

योगदा योगसंसेव्या योगमार्गाप्रदर्शिनी ।
ब्रह्माणी ब्रह्मसंभूता ब्रह्मानंदप्रदायिनी ॥

वाग्देवता वशंकरी विजया विजयप्रदा ।

७५अ)

समाधिरिवदाज्ञान नाशिनीत्वेकविंशतिः ॥

श्वेतरक्तपीतकृष्णपुष्पभेदैश्चतुर्विधा ।
श्वेतपुष्प ब्राह्मणी सा क्षत्रिया रक्तपुष्पिका ॥

पीतपुष्पा तु वैश्या सा शूद्रा तु कृष्णपुष्पिका ।
आकृष्णम्पत्राण्ये तेषा स विजानीया प्रयत्नतः ॥

भर्जितानि घृतेनैव चूर्णितानि शिलातले ।
त्रिकटु त्रिफला शृंगी कुष्टं धन्याक सैंधवं ॥

शठी ताली स पत्रं चरूक्कलं नागकेसरं ।
यवानी द्वयमेथी च जीरकत्वयमेव च ॥

एतानि समभागानि रौद्रशुष्कानि चूर्णयेत् ।
गृहीत्वा चूर्णमेतेषां संविच्चूर्णं तु तत्समं ॥

उये च समं दत्वा सितातन्मिश्रयेद् गुडं ।
मिश्रयित्वा चतुर्थांश समं मधु घृतं तथा ॥

पुनः शिलातले पिष्ट्वा त्रिषुगंधो प्रवर्तयेत् ।
स्वर्णादि पात्रे पुरतः स्थापयित्वा ततः क्रमात् ॥

चतुर्भिर्मनुभिस्तासां शोधनं च समुच्चरेत् ।
निवेश्य तत्र पाल्यग्नं यथाविधि विशोधयेत् ॥

ओं सम्विदे ब्रह्मसंभूते ब्रह्मपुत्रि सदा नघे ।
भैरवानां च तृप्त्यर्थं परित्रा भव सर्वदा ॥

ओं ब्राह्मण्यै नमः स्वाहा ॥ ब्राह्मणी शोधनमनुः ॥

ओं सिद्धिमूलि क्रिये देवि हीनवोध प्रवोधिनि ।
राजाप्रजावशकरी शत्रूकंठ त्रिशूलिनी ॥

ओं क्षत्रियायै नमः स्वाहा ॥ शोधयेद परा ततः ॥

अज्ञाने धनदीप्ताग्ने ज्वालाग्नि ब्रह्मरूपिणी ।
आनंदस्याहुति प्रीतिं सम्यक् ज्ञानं प्रयच्छमे ॥

ओं ह्रीं वैश्यायै नमः स्वाहा ॥ शूद्रां शोधयेत् ततः ॥ ओं नमस्यामि
योगमारर्जप्रदर्शिनी ॥

त्रैलोक्य विजये मातः समाधि फलदा भव ॥

क्लीं शूद्रायै नमः स्वाहा ॥ ओं अमृते अमृतोद्भवे अमृतवषिणि ॥

७५ब्)

अमृतमाकर्षयाकर्षसिद्धिं देहि अमुकंमेव वशमानय स्वाहा ॥

इति पठित्वा तत्र आनंदभैरवानंदभैरव्योर्मंत्रवयत् ॥

शिवसोमो मातृकांतं कालभूवरुणानना ।
वामकर्णसमायुक्तं वायुमूर्धेन्दु संयुतं ॥

अनंदभैरवायेति शिखामंत्रं ततो वदेत् ।
आनंदभैरवाप्या तु मानंद भैरवीं शृणु ॥

पूर्ववद्वीजमालिख्य चंद्रं हित्वादिमंलयेत् ।
कर्णे वामाक्षि संयोज्य सुधा देव्यै दृशोः * * ॥

मूलमंत्रं सप्तवारं तस्योपरि नियोजयेत् ।
आवाहन्यादि मुद्रां च धेनु योनी ततः परं ॥

दिग्वंधनं छोटिकाभिः तालत्रयपुरःसरं ।
दिव्यदृष्ट्या तथा पार्ष्णिघातैर्विघ्नान् विघातयेत् ॥

सायुधा तर्पयेद् ब्रह्मरंध्रे मूलं जपन्मनुं ।
गुरुं पद्मसहस्रारे तथा संकेतमुद्रया ॥

त्रिधा वा तर्पयेद् भक्त्या सकृद्वापि निजेच्छया ।
परमाख्यं गुरुं तत्र परापर गुरुं ततः ॥

तंत्रेणानंदभैरव्योस्तर्पयेच्च मनुं स्मरन् ।
हृदये तर्पयेद् देवीं मूलेन तत्वमुद्रया ॥

सम्विदात्रि सकृद्वापि तिलमुद्गप्रमाणया ।

ऐं ऐं वद २ वाग्वादिनि मम जिह्वाग्रे स्थिरी भवः सर्वं सत्वरवशंकरि
स्वाहा ॥ इत्यकौ जुहुयान् मुखे । मुखामृतेरदिचैने स्वीकुर्यात् ततः ॥

दुग्धां तु घृतमाध्वीकसै करैर्नवलेन वा ।
सितयाथ गुदेनापि पंकेन कदलेन वा ॥

यद्यद्वा मधुरं द्रव्यं पक्वाम्रं पनसादिकं ।
तेन सर्वेण विजयां स्वीकुर्यात् साधकोत्तमः ॥

दुग्ध योगेन विजया केवलानंददायिनी ।
महातेजस्करी चक्षुर्दोषादि विनिवारिणी ॥

घृतेन मेधामाधत्ते वाग्देवी वशकारिणी ।
प्रतिभा मुत्तमाधत्तेधिषणां चाति निर्मलं ॥

७६अ)

कफदोषानशेषांश्च मधुना सह नाशयेत् ।
सैंधवेन महावह्नि प्रदास्याल्लवणेन च ॥

सितयाथ गुडेनापि शूलाम्ल पित्तनाशिनी ।
अतिसारोपशमनी श्वासकाश प्रमर्दिनी ॥

आमवात समुद्भूत ग्रहणी विनिवारिणी ।
सर्वैर्वा मधुरैर्युक्ता सर्वामयविनाशिनी ॥

वलपुष्टिप्रदा चैव मधुरस्वरदायिनी ।
ज्ञानविज्ञानदा नित्यं शीलमार्गप्रकाशिनी ॥

वहुनात्र किमुक्तेन केवलाचित् प्रकाशिनी ।

प्रकाशिता तव स्नेहात् सर्वमानवेषु गोपिता ।
अथ स्वीकृत्य संचिंत्य सहस्रारे गुरुं यजेत् ॥

पादुकामंत्रमुच्चार्य चतुर्थ्यंतं निवेदयेत् ।
पंचभूतोत्थ वीजैश्च गंधादि पंचकं दिशेत् ॥

प्रणमे दंडवद्भूमौ जप्त्वा श्रीगुरुपादुकां ।
इष्टदैवत्वतन्मंत्रं प्रजपन् विहरेत् कृती ॥

एवमद्यात् ततः शक्र प्रत्यहं वत्सरं ततः ।
तेजस्वी वलवान् वाग्मी मेधावी प्रियदर्शनः ॥

रूपयौवनसंपन्नो नानागुणसमाश्रयः ।
भविष्यति न संदेहो द्रव्यस्यास्य निषेवणात् ॥

संविदः केवलाया तु सेवनात् किं प्रसिध्यति ।
संविदासारयोर्मध्ये सम्विदैकगरीयसि ॥

संवित् प्रयोगते नेहं कर्तव्यः साधकोत्तमः ।
एककालं द्विकालं वा त्रिकालं पंचकालकं ॥

तोलकं वा तदर्धे वा तोलक द्वयमेव च ।
न च न्यूनाधिकामात्रा यथा भवंति नित्यसः ॥

न्यूनाधिका या मात्रा या फलंतक्षन्न जायते ।
तस्मात् प्रमाणमात्रा हि कर्तव्या सिद्धिमिच्छता ॥

एतत् ते कथितं सर्वं विजयाकल्पमुत्तमं ।
प्रसादादचिरादन्यं वांछितं ते भविष्यति ॥

७६ब्)

इत्युक्तः समया शक्तो निर्भवानंदमार्दवैः ।
भक्त्या परमया युक्तस्तत्कर्तुमुप चक्रमे ॥

संवत्सरं प्रतिदिनं प्रयतस्त्रिकालं शक्रो निषेव्य विजयां विधिना
वसिष्ठ ॥ जित्वा वलासुरमभूथ देवराज प्रापप्य विश्वशमनस्य स
लब्धकामः ॥ एतद्रहस्यमुदितं परमं निगूढं कुत्रापि नैव
कमनीयमिदं कदाचित् ॥ उत्कंठया तव मयाननु पूर्ववृत्तं देवित्वमपि
विधिना प्रविधीयता तत् ॥

इत्याचारसारतन्त्रे हरगौरीसंवादे परमरहस्यातिरहस्यकथने
संविदाकल्पे संविच्छोधनस्वीकारविधिः समाप्तः पटलः ॥

अथ समयाचारः ॥

श्रीगणेशाय नमः ॥

पार्वत्युवाच ॥

भगवन् गुणगुणाधार सर्वत्र करुणानिधे ।
इदानीं श्रोतुमिच्छामि समयाचारमुत्तमं ॥ १ ॥

यत्पुरा समयाचारं पूर्वाम्नायेषु कीर्तितम् ।
पुण्यश्च श्रोतुमिच्छामि षडाम्नायेषु कीर्तितं ॥ २ ॥

किं नाम समयानाथ तस्यश्चरणमुत्तमम् ।
तस्य संकेत विज्ञानं वांछितं फलमश्नुते ॥ ३ ॥

पूर्वाम्नायादि चाम्नायादेवताय प्रकीर्तिताः ।
पृथक् पृथक् कृते नाथ पुनर्व्रूहि महेश्वर ॥ ४ ॥

आम्नायाधिष्ठितानां च देवतां च पृथक् पृथक् ।
जपमालासनानां च तेषां वद दयानिधे ॥ ५ ॥

भैरव उवाच ॥

शृणु देवि प्रवक्ष्यामि गुह्याद् गुह्यतरं महत् ।
समयाचारसंकेतं तत्वं परमदुर्लभं ॥ ६ ॥

पूजनादिषु यः कालो देवता ये पृथक् पृथक् ।
स कालः समयो नाम ये ज्ञात्वाऽमृतमश्नुते ॥ ७ ॥

कालेष्वाचरणं देवि यस्य देवस्य यद्विधिः ।
तं नाम समयाचारं देवानामपि दुर्लभं ॥ ८ ॥

७७अ)

संकीर्तनात् पुनर्देवी रहस्यानां रहस्यकं ।
समयाचारसंकेतं नाम्ना तत्र प्रकीर्तितं ॥ ९ ॥

अथवा समयाचारात् समयाचारमुच्यते ।
समया गोपनीयानां सदा गोप्या प्रकीर्तिताः ॥ १० ॥

विधिना समया देवी ये भुंजंति च साधकः ।
ते नरास्तद्गता नित्यं भोगं कृत्वा सदा भुवि ॥ ११ ॥

इत्येवं समयानाम्ना सिद्धगंधर्वसेविताः ।
अस्या विधानकथनादिदृतंत्रं प्रकीर्तितं ॥ १२ ॥

इदानी य च या देवी किं नाम समया भुवि ।
कथितं विधिना भद्रे तत् शृणुष्व वरानने ॥ १३ ॥

अस्य श्रीवाग्वादिनी मंत्रस्य ब्रह्मा ऋषिर्देवी विजयाशक्तिर्गायत्रीच्छंदो
वाग्वादिनी देवता १ वीजं २ कीलकं ३ शक्तिः श्रीवाग्वादिनी प्रीत्यर्थे जपे
विनियोगः ॥

एतैरंगन्यासं कृत्वा संविद्गृहीत्वा एवं पठनीयं मंत्रं ॥

ऐं वद २ वाग्वादिनी सां स्वाहा ॥ इत्यनेन सप्ताभिमंत्रितं भक्षयेत् ॥

अथवा ऐं जय २ विजय एवं ब्रह्मस्वरूपिणी सर्वजन मे वशमानयेत्
यनया स्वाहा ॥ इत्यनेन वा जपित्वा भक्षयेत् ॥

अथानंतरतो देवि समयास्तोत्रमुत्तमं ।
येन श्रुत्वा सिद्धि मूलीभक्षिता फलदा भवेत् ॥ २० ॥

संविदे ब्रह्मसंभूते ब्रह्मपुत्रि सदा नघे ।
भैरवानंद हेतुस्तु स पठित्वा सदा भव ॥ २१ ॥

नमामि यामिनी नाथां लेखालंकृतमस्तकम् ।
भवानीं भवसंतापपविर्वाण सुधानिधिम् ॥ २२ ॥

सिद्धिमूली श्रियो देवी हि न वोधप्रवोधिनि ।
राजाप्रजावशकरी कालकंठी त्रिशूलिनी ॥ २३ ॥

अज्ञानेंधन दीप्ताया ज्ञानाग्नि ज्वालरूपिणी ।
आनंदाद्याहुतिः सम्यक् ज्ञानं प्रयच्छति ॥ २४ ॥

७७ब्)

दंडादिरूढ परिपूरित भोगमोक्ष शुंडक्रमेण मदनं
जयकामिनीनाम् ।
आराधयामि वहुशत्रु पराजयंति विश्वेश्वरीं त्रिभुवने विजयेति देवीम् ॥ २५ ॥

आनंदानंदिनी वंदे सदानन्दे पद द्वयं ।
उल्लास कदलीकंदे स्वच्छंदे वोधरूपिणी ॥ २६ ॥

कवयति कविता लहरीं कुरुते तत्वार्थ दर्शनं पुंसां ।
अपहरति दुरित निलयं किं किं न करोति संविदुल्लासः ॥ २७ ॥

संविदासमयोर्मध्ये संविदेव गरीयसी ।
भक्षिताभवनाशाय निर्गंधा वोधरूपिणी ॥ २८ ॥

सुसंवित् छूलिनी देवी विजया स चिदं कुरु ।
वैष्णवी तुलसी तुंगा तेजो वल्लीरसेश्वरी ॥ २९ ॥

विमर्शाद्वैतरत्वंतं वीरलक्ष्मीर्महोदरी ।
समया मोदिनी चैव सिद्धमौली महौषधी ॥ ३० ॥

मातुलानी ज्ञानरूपा सिद्धविद्या सरस्वती ।
यानि चैतानि नामानि सेवयेत् सिद्धिमूलिकाम् ॥ ३१ ॥

समाप्नोति परां विद्यां भुक्तिमुक्तिं च विंदति ।
पांडित्यं सुकवित्वं च मंत्रसिद्धिं स विंदति ॥ ३२ ॥

समयां गोपयेद् यस्तु शिष्यभ्यश्चापि सुंदरि ।
विना न समया देवि भुक्तिं मुक्तिं कथं लभेत् ॥ ३३ ॥

विना समया देवि सामर्थ्यं नैव जायते ।
सामर्थं सहितो देवि कार्याणि साधयेत् ॥ ३४ ॥

विना समया पूजां न कुत्रापि शुभोदयी ।
ब्राह्मे मुहूर्ते चोत्थाय पक्षिता पापनाशिनी ॥ ३५ ॥

तथा सूर्योदयो जाते मध्याह्ने भक्षिता तथा ।
तथा पराह्ने विधिवत् सर्वपापविनाशनि ॥ ३६ ॥

अर्धरात्रौ विशेषेण वांछितार्थ फलप्रदः ।
विना तु समया देवि जपपूजादिकं चरेत् ॥ ३७ ॥

नवसिद्धिमवाप्नोति अभिचाराय कल्पयेत् ।
अपमृत्युहरानूनं रोगशोकविनाशिनी ॥ ३८ ॥

७८अ)

दुष्टशत्रुप्रशमनी सर्वलोकनिरंजनी ।
सिद्धयो ह्यणिमाद्याश्च तस्य हस्ते सदैव हि ॥ ३९ ॥

कायिकं वाचिकं चापि मानसं चैव दुःकृतं ।
एतत् सर्वं क्षयं यांति ब्रह्महत्यादि पातकं ॥ ४० ॥

समयाभक्तिना येन समयाधारितास्तथा ।
समयापासिता येन रहितः सर्वकिल्विषैः ॥ ४१ ॥

स शिवः स च योगी च स तपस्वी सती तथा ।
स एव मुक्तिमार्गस्थः समया येन भक्षिता ॥ ४२ ॥

भक्षयित्वा च समया यंत्रं मंत्रं जपेन्नरः ।
समंस्तत्फलमाप्नोति सत्यं सत्यं वरानने ॥ ४३ ॥

विना च सम्या देवि मंत्रं जपति नित्यशः ।
अल्पायुश्च भवेत् सद्यो देवता कोपयेद्ध्रुवम् ॥ ४४ ॥

द्रव्यादिकमभावेपि नित्यं कर्म न लोपयेत् ।
प्रमादा लोपयेद्यस्तु नारकी भवती ध्रुवं ॥ ४५ ॥

द्रव्यं चतुर्दशविधि शृणु देवि पृथक् पृथक् ।
तेषां मध्येन तं द्रव्ये द्वे नह्ये तु कदाचन ॥ ४६ ॥

क्षीरं दधि च तक्रं च घृतं क्षौद्रं गुडं तथा ।
शर्कराशीतलं तोय भैरमप्यारनालकं ॥ ४७ ॥

आफूकं समया चैव धत्तूरं संविषं तथा ।
धत्तूरं च विषं देवि द्रव्यं प्राणप्रहारकम् ॥ ४८ ॥

अन्यानि यानि द्रव्याणि आनंदार्थं च भक्षयेत् ।
आनंद परमं ब्रह्म पराशक्तिः सदाशिवः ॥ ४९ ॥

द्रव्यशुध्यादि सकलमानंदार्थं च भक्षयेत् ।
आनन्दे चापमानेपि भक्षयेन् न कदाचन ॥ ५० ॥

अतिपानाद् भवेत् सद्यो जपपूजादि निःफला ।
बुद्धिनाशो भवेद् देवि ततो मात्रांमितां चरेत् ॥ ५२ ॥

सा मात्रा वर्तते देवि ययानंदं प्रवर्तते ।
इत्येवं समयाचार कथितश्च वरानने ॥ ५३ ॥

७८ब्)

द्रव्यादिशोधनार्थं तं मंत्रं शृणु वरानने ।
गुरोः सकाशात् यंत्रमंत्रं नित्यं जपति यो नरः ॥ ५४ ॥

तेनैव मनुनामंत्री षडंगंन्यास्माचरेत् ।
न्यासं कृत्वा पुनर्मंत्री द्रव्यादीन् मंत्रयेद् बुधः ॥ ५५ ॥

सप्ताभिमंत्रितं कृत्वा फलं सर्वं भवेद्ध्रुवम् ।
गुरुं शिवं तथा देवीं निवेद्यां * च भक्षयेत् ॥ ५६ ॥

केवलं शिवरूपोहमित्यात्मानं विभावयेत् ।
जीवः शिवः शिवो जीवः स जीवः केवलः शिवः ॥ ५७ ॥

पाशवद्धः सदाजीवः पाशमुक्तः सदाशिवः ।
सदाशिवमयो भूत्वा द्रव्यादीनां चरेद् यदि ॥ ५८ ॥

स किल्विषादि रहितः साक्षाद्ब्रह्ममयो भवेत् ।
सदाशिवमयो भूत्वा पंचमुद्रादिकं चरेत् ॥ ५९ ॥

सर्वब्रह्ममयं यस्य स च दोषैर्न्न लिप्यते ।
मोहाद् वा कामलोभाद्वायः कश्चिदिह वर्तते ॥ ६० ॥

सोधमः साधकानां तु नारकी भवति ध्रुवम् ।
समयो नाम यः कालो मयाया पूर्वसूचितः ॥ ६१ ॥

तदिदानीं प्रवक्ष्यामि जपार्थं शृणु सुंदरि ।
प्रातमध्याह्नयोः काल प्रदोषश्च तृतीयकः ॥ ६२ ॥

रात्रो प्रथमयामश्च चतुर्थः परिकीर्तितः ।
पंचमं त्वर्धरात्रं च पंचकालाः प्रकीर्तिताः ॥ ६३ ॥

दिनस्य प्रहरस्यादौ कालः प्रथम ईरितः ।
दिनस्य मध्ये यः कालो द्वितीयः परिकीर्तितः ॥ ६४ ॥

सूर्येऽस्ते रजनी प्राप्ते यः कालः स तृतीयकः ।
ब्राह्मे मुहूर्तेमवधि अर्धरात्रादनंतरं ॥ ६६ ॥

यः कालो षष्ठको ज्ञेयो देवानामपि दुर्लभः ।
शांतिः कर्म तथा वश्यं स्तंभनं द्वेषकं तथा ॥ ६७ ॥

उच्चाटनं मारणं च षट्कर्माणि शृणु प्रिये ।

७९अ)

शांत्यर्थं प्रथमः कालो मध्यन्ये द्वेषणे तथा ॥ ६८ ॥

तृतीयः स्तंभने प्रोक्तो चतुर्थो वशकर्मणि ।
उच्चाटने पंचमश्च षष्ठो मारण कर्मणि ॥ ६९ ॥

पद्मासनं स्वस्तिके प्रोक्तें विकटं द्वेषणे तथा ।
स्तंभने कुक्कुटो विद्याद्वज्रयेद्वस्य कर्मणि ॥ ७० ॥

मारणे भद्रकं विद्या दासनं षट् प्रकीर्तितं ॥

इति समयास्तोत्रम् ॥

तोयं यत् शांतिके प्रोक्तमग्नि वश्ये प्रकीर्तितः ।
पृथिवी स्तंभने ज्ञेया आकाशे द्वेषणं तथा ॥ ७१ ॥

वायुरुच्चाटने प्रोक्ताः पुनरग्निर्मारणे मतः ।
यस्य भूतो देय देवी ततमंडलसंयुतम् ॥ ७२ ॥

तत्तत्कर्म विधानार्थं कुर्वता निशितात्मना ।
शीतांशु वीजं प्रथमेसलिस्य द्वितीयके ॥ ७३ ॥

क्षोणी वीजं तृतीये च व्योमवीजं चतुर्थकम् ।
पंचमं वायुवीजं च अग्निवीजं तु मारणे ॥ ७४ ॥

इत्येव समयाकालो भेद पूर्वप्रकाशितः ।
अथेदानीं प्रवक्ष्यामि आम्नाय फलकं तथा ॥ ७५ ॥

सर्वाम्नायस्तदा जातो यदादि प्राची दिशि स्थितः ।
सदाशिवोहं भगवानाचारः परिकीर्तितः ॥ ७६ ॥

एवं दक्षिण आम्नायो दक्षिणस्यादिशि स्थितः ।
एवं पश्चिम आम्नाय पश्चिमस्यां दिशि स्थितः ॥ ७७ ॥

एवमुत्तर आम्नायः उत्तरस्यांदिशि स्थितः ।
मुखमूर्ध्वं कृतं देवीं यत्प्रोक्तं त्वयि सन्निधौ ॥ ७८ ॥

स ऊर्ध्वाम्नाय कथितो देवाअनामपि दुर्लभः ।
अधोमुखं कृतं देवि यत्प्रोक्तो गिरिजे प्रिये ॥ ७९ ॥

अधाम्नाय इत्युक्तः सत्यं सत्यं वरानने ।
षडाम्नायश्च कथितश्चौत्पत्ति क्रमनामतः ॥ ८० ॥

यस्मिन् यस्मिंश्चये देवी ते ते देवाथ प्रकीर्तिताः ।
ते ते देवाः प्रवक्ष्यामि साधकानां सुखाय च ॥ ८१ ॥

श्रीविद्याभेदसहिता वाला च त्रिपुरा तथा ।
भुवनेश्वरी अन्नपूर्णा पूर्वाम्नाये प्रकीर्तिताः ॥ ८२ ॥

वसिनी वगला देवी त्वरितेन फलप्रदा ।
महिषासुरसंहंत्री महालक्ष्मीश्च दक्षिणा ॥

७९ब्)

यस्मिन् देवान् प्रवक्ष्यामि साधकानां सुखाय च ॥ ८३ ॥

श्रीविद्या भेदसहिता वाला च त्रिपुरा च या ।
भुवनेशी अन्नपूर्णा सर्वाम्नाये प्रकीर्तितः ॥ ८४ ॥

महासरस्वती विद्या तथा वाग्वादिनी च या ।
प्रत्यंगिरा भवानी च पश्चिमाम्नाय देवता ॥ ८५ ॥

कालिका भेद सहिता तारा भेदैश्च संयुता ।
माअंगी भैरवीच्छिन्ना तथा धूमावती मता ॥ ८६ ॥

उत्तराम्नाय कथिता शीघ्रकार्य फलप्रदा ।
समस्त भेद सहिता देवताय प्रकीर्तिताः ॥ ८७ ॥

द्वाविंशत्यक्षरी नाम दक्षिणाम्नाय संज्ञिकां ।
परा प्रासाद मंत्रश्च ऊर्ध्वार्धाय प्रकीर्तितः ॥ ८८ ॥

नागशक्त्यादयो विद्या अधोम्नाये प्रकीर्तितः ।
ऊर्ध्वाम्नायोश्चाधश्च केवलं मोक्षदोर्भवेत् ॥ ८९ ॥

धर्मार्थ काममोक्षार्थ आम्नायान्ये प्रकीर्तिताः ।
यथोक्त विधिनाव भक्षे कृत्वा फलमवाप्नुयात् ॥ ९० ॥

सर्वाम्नायदि सर्वेषां विधानार्थाप्य सुंदरि ।
कृत्वा येनाशु लभते फलराशिकयोः परं ॥ ९१ ॥

षट्कर्म फलदातॄणां सर्वाम्नाये प्रकीर्तितः ।
उत्तराम्नाय देवेशि तेषामाशु फलप्रद ॥ ९२ ॥

स्नातः शुक्लांवरो वीरः शुद्धवेषधरा तथा ।
देवपूजारतो नित्यं तथा च विपरो दिवा ॥ ९३ ॥

नक्तं द्रव्यादिकं सर्वं यथा लाभेन चोत्तमं ।
विधिवत् क्रियते शक्त्या सह सर्वफलं भवेत् ॥ ९४ ॥

पूर्वाम्नायादि सर्वेषां मालां शृणु वदाम्यहं ।
जप्ता येनाशु लभते फलैर्देवैः सुदुर्लभम् ॥ ९५ ॥

अक्षमाला प्रथमतो मातृकारण रूपिणी ।
अथ मुक्तमयी वापि मोक्ष फलप्रदायिनि ॥ ९५ ॥

सर्वसिद्धिकरामाला सर्वराज्यवशंकरी ।

८०अ)

प्रवालमाला वश्यार्थे सर्वकार्य फलप्रदा ॥ ९६ ॥

माणिक्य रचितामाला साम्राज्य फलदायिनी ।
पुत्रजीवकजामाला लक्ष्मीर्विद्या प्रदायिनी ॥ ९७ ॥

पद्माक्षमाला रचिता यशो लक्ष्मीश्च जायते ।
सुवर्णरौप्यमयीमाला स्फटिकी सर्वकामदा ॥ ९८ ॥

रक्तचंदनजामालावश्य भोगप्रदायिनी ।
रुद्राक्षनिर्मिता माला सर्वकामफलप्रदा ॥ ९९ ॥

सर्वमाला प्रपूजार्थं चंदनादि प्रलेपिता ।
समाश्रित्य जपेद् विद्यां यथोक्त फलमश्नुते ॥ १०० ॥

एतामालाश्च सुभगा पंचाम्नायेषु पूजिता ।
उत्तराम्नाये या माला गिरिजे ते वदाम्यहम् ॥ १०१ ॥

अथर्वणमयी माला सर्वोत्कृष्टा मता च या ।
महाशंखमयी चाथ वांछितार्थ फलप्रदा ॥ १०२ ॥

स्फाटिकै रचिताचार्थ रुद्राक्ष फलसंभवा ।
स्वर्णादि रत्नपर्यंतं रचितं फलदा मता ॥ १०३ ॥

गुंजामाला तथा कार्या वांछितार्थ फलप्रदा ।
उदुंवर फलस्यैव सूक्ष्मस्य च कृता च या ॥ १०४ ॥

इत्यादि माला देवेशि कुर्वीत विधिवन्नरः ।
अथेदानीं प्रवक्ष्यामि यंत्रस्य विधिमुत्तमं ॥ १०५ ॥

भूर्ये षड्वर्ष पर्यंतं ताम्रे द्वादशमेव च ।
रुक्मे च षड्व च * महाशंखे सहस्रकम् ॥ १०६ ॥

स्वर्णे च स्फटिके चैव वर्षसंख्या न विद्यते ।
सहसा कार्य सिध्यर्थं स्थापयेत् स्फटिकोपरि ॥ १०७ ॥

यथोक्त विधिनालिख्य यथोक्तं पूजनं सदा ।
वांछितं लभते मंत्री नान्यथा लभते फलम् ॥ १०८ ॥

आसनानि प्रवक्ष्यामि शृणु देवि वदाम्यहं ।
मेषासनं तु वश्यार्थे आकर्षे व्याघ्रचर्म च ॥ १०९ ॥

८०ब्)

शांतौ मृगाजिनं शस्तं मोक्षेषु व्याघ्रचर्मणि ।
गोचर्म स्तंभने देवि स्तंभने च गवाजिनं ॥ ११० ॥

चर्मोष्ट्रस्य तु उच्चाटे द्वेषे श्वानस्य चर्म च ।
मारणे महिषं विद्यात् क्रमोद्दिष्टं तु वा चरेत् ॥ १११ ॥

सर्वकामप्रदं देवि वस्त्रपट्टासनं तथा ।
ऊर्णासनं कंबलाद्यं सर्वकर्म सुपूजितं ॥ ११२ ॥

दुःखदारिद्र्यशमनं विद्याकाठासनं प्रिये ।
स्वर्णादि रक्तजं देवि महासौभाग्यवर्धनम् ॥ ११३ ॥

शृणु देवि विशेषेण चोत्तराम्नायमासनम् ।
येनाशु लभते पुण्यं फलं चैव सुदुर्लभम् ॥ ११४ ॥

सवासनं तु सुभगे मृतमुंडासनं तथा ।
सा दर्शासनकं चापि मैथुनासनकं तथा ॥ ११५ ॥

कृत मैथुनकं चापि वांछितार्थ फलप्रदं ॥ ११६ ॥

जपस्थानादि देवेशि सिद्धितीर्थानियानि च ।
सिद्धिपीठं सिद्धिक्षेत्रे गिरौ देवालये तथा ॥ ११७ ॥

वटवृक्षे विश्ववृक्षे रंभाया विपिनेपि वा ।
नद्यादितीरे वा कुर्याद्गुहा पर्वतमस्तके ॥ ११८ ॥

शृणु देवि विशेषेण उत्तराम्नाय हेतवे ।
वेश्यागृहे श्मशाने वा गत्वा मैथुन समाचरेत् ॥ ११९ ॥

जपादिकं ततो देवि कृत्वा सु लभते फलं ।
अथवा स्वगृहे रात्रौ भक्तिमान्यः समाचरेत् ॥ १२० ॥

स प्राप्नोति फलं सर्वं चिंता भयविवर्जितः ।
अथेदानीं प्रवक्ष्यामि भगपूजां समासतः ॥ १२१ ॥

गुरौ सकाशात् यन्मंत्रं नित्यं जपति साधकः ।
तेनैव मनुनामंत्री भगपूजां करोति च ॥ १२२ ॥

तदा तु भगमध्ये तु चिंतयेद् ब्रह्मरूपिणीं ।
शिवो भूत्वा स्मरेद् देहे त्वात्मानं च विभावयेत् ॥ १२३ ॥

शक्तिः सा तन्मयी विद्यात्तवावै मैथुनं चरेत् ।
यथोक्त कुरुते देवि प्राप्यते परमं पदम् ॥ १२४ ॥

यानि कल्पित मंत्राणि कथितानि वरानने ।

८१अ)

ज्ञातव्या यद्विधा देवि सर्वतंत्रेषु निश्चितं ॥ १२५ ॥

मंत्राः केचित् प्रकथ्यंते कश्चिद् विद्या प्रकीर्तिताः ।
उर्णामदेवता मंत्रा विद्या स्त्रीनाम तत् स्मृता ॥ १२६ ॥

नपुंसका भवंत्येते मंत्राः सर्वसमीरितः ।
पुमांसो हुं फडंतास्युः वाजांतास्युः स्त्रियो मताः ॥ १२७ ॥

नपुंसका नमोंतास्युस्त्रिविधाजातिभिः पुनः ।
ग्रंथनं च विदर्भश्च संपुटो रोधनं तथा ॥ १२८ ॥

योगः फलवदित्येके कथिता फट् सु कर्मसु ।
नामवर्णाश्च विधिना मंत्राणांतरितास्तथा ॥ १२९ ॥

कुर्याद्ग्रंथनं नाम शांति कर्मणि शस्यते ।
मंत्रार्ण द्वय मध्यस्थे साध्यानामाक्षरं लिखेत् ॥ १३० ॥

विदर्भराष विजयो वश्य कर्मणि शस्यते ।
आदावंते च मंत्रस्यान्नाम्नोसौ संपुटस्मृतः ॥ १३१ ॥

प्रशस्तस्तंभने देवि यथोक्तं क्रियते यदि ।
नाम्न अद्यंत मध्येषु मंत्रस्थोद्रोदनं मतं ॥ १३२ ॥

विद्वेषण विधानेषु प्रशस्तमिदमीरितं ।
मंत्रस्यांते भवेन् नाम योगः प्रोच्चाटने मतः ॥ १३३ ॥

अन्ते नाम्नो भवेन् मंत्रः पल्लवो मारणे मतः ।
आगतः शिववक्त्राच्च गतश्च गिरिजामुखे ॥ १३४ ॥

तेन आगम तंत्राणि कथितानि वरानने ।
पाणिकानि च शास्त्राणि कथितान्यागमस्य च ॥ १३५ ॥

तानि तानि प्रकथ्यंते लोकाचाराणि सुंदरि ।
आचारः कथितो यस्तु तया च कृतवान्भुवि ॥ १३६ ॥

तस्याचारस्य नाम्ना च कुलाचारः प्रकीर्तितः ।
पंचमुद्रादि रहितो दक्षिणाचारसंज्ञकः ॥ १३७ ॥

नानामंत्राणि देवेशि यामलानि पृथक् पृथक् ।
अपराणि च सर्वाणि मंत्राणां हृदयाणि च ॥ १३८ ॥

समासतः प्रवक्ष्यामि शृणु देवि वदाम्यहं ॥ १३८ ॥

८१ब्)

चतुःषष्ठीनि तंत्राणि यामलान्यष्ट सुंदरि ।
अमराणि च त्रीणि स्युः कथयामि शुभानने ॥ १३९ ॥

तंत्राणि वहुधा देवि मया पूर्वं प्रकाशितं ।
यामलान्यत्र वक्ष्यामि अमराणि तथा पुनः ॥ १४० ॥

विष्णुब्रह्मशिवानां च यामलानि पृथक् पृथक् ।
शक्तेर्गणपतेश्चैव कार्तिके यस्य पृथक् पृथक् ॥ १४१ ॥

सूर्यचंद्रमसोश्चैव कथितानि वरानने ।
उड्डीशडामरं नाम भूतडामरकं तथा ॥ १४२ ॥

शक्तिडामरकं नाम अमराणि च पार्वति ।
कथं चाद्य प्रवक्ष्यामि तंत्राणि च वरानने ॥ १४३ ॥

चतुषष्ठि च तंत्राणि विख्यातं वामकेश्वरे ।
तस्मान्नोक्तानि तंत्रेषु कुलाचार गुरु शृणु ॥ १४४ ॥

आगमाचारनिपुनः सर्वशास्त्रभृतांवर ।
सुवेषधारि दक्षश्च सत्यवक्ता प्रियंवद ॥ १४५ ॥

एव लक्षण संयुक्तश्चागमस्य गुरुर्मतः ।
शिष्यस्त्वयि गुणैर्युक्तो गुरुभक्तिरतः सदा ॥ १४६ ॥

धर्मकर्मादि युक्तश्च गुरुमंत्र परायणः ।
सत्यमब्धिर्गुरौ मंत्रे देवपूजन तत्परः ॥ १४७ ॥

गुरुणोद्दिष्टमार्गेण कृतवुद्धिरुदारधीः ।
एवं लक्षणसंयुक्तो शिष्यश्चापि परीक्षकः ॥ १४८ ॥

माया निन्दादि रहितश्चालस्यादि विवर्जितः ।
समयाचारसंपन्नो धनाढ्यश्च त्रियावरः ॥ १४९ ॥

श्रीसदाशिव उवाच ॥ १

द्रव्यं पूजां प्रवक्ष्यामि पूजकाभीष्ट सिद्धयेत् ।
ज्ञात्वा मंत्रं विना सम्यक् फलमाप्नोति पूजने ॥ १५० ॥

मद्यं मांसं तथा मत्स्यं मुद्रा मैथुनमेव च ।
मकाराः पंच शुभगे सांग कर्मसु हेतवे ॥ १५१ ॥

या सुरा सर्वमंत्रेषु कथिता भुवि दुर्लभा ।
तथानाम भवेद् देवि तीर्थं यद्ज्ञान दुर्लभं ॥ १५२ ॥

८२अ)

पशूनां भक्ष योग्यानां मांसं देवि विनिर्मितम् ।
देविमंत्रे च विधिवत् तस्योक्ता सिद्धिरुत्तमाः ॥ १५३ ॥

मांस भक्षणे कथिताअ ये मत्स्याश्च वरानने ।
ते रहस्ये मया प्रोक्ता मीनाः सिद्धिप्रदायकाः ॥ १५४ ॥

गुडादि मध्ये निक्षिप्य कुर्वंति द्युति वर्धिनी ।
मुद्रा तां विधि प्राहुश्चणकादींश्च भर्जितान् ॥ १५५ ॥

यारोटिकापोलिका च भयेषु कथिता शुभा ।
तस्यानाम भवेद् देवि मुद्रामुक्ति प्रदायिनी ॥ १५६ ॥

भगे लिंगस्य योगेन मैथुनं यद्भवेत् प्रिये ।
तस्य नाम भवेद् देवि पंचमं परिकीर्तितम् ॥ १५७ ॥

प्रथमं तु भवेन् मद्ये मांसे चापि द्वितीयकं ।
मत्स्ये ह्यपि तृतीयं स्यानाम मुद्रा चतुर्थकं ॥ १५८ ॥

पंचमे मैथुनं विद्या पंचैते नाम तत् स्मृता ।
पंचानां पंचनामानिमकाराणि वरानने ॥ १५९ ॥

प्रथमस्य द्वितीयस्य तृतीयस्य चतुर्थयोः ।
पंचमस्य तथा देविमकाराः पंचदुर्लभाः ॥ १६० ॥

पंचमं देवि सर्वेषु मम प्राणो भवेत् प्रिये ।
पंचमेन विना देवि चंडीमंत्रं वृथा जपेत् ॥ १६१ ॥

यदि सर्वमकारेषु भ्रांतिं च कुरुते प्रिये ।
तस्य सिद्धिः कथं देवि शक्तिमंत्रं जपेत् कथं ॥ १६२ ॥

पंचमेन विना देवि भुक्तिमुक्तिः कथं भवेत् ।
पंचमेन विना देवि कथं च फलदा भवेत् ॥ १६३ ॥

पंचमेन विना देवि यदा नंदो भवेद्ध्रुवं ।
तन्नाम मोक्षो विदुषां अनुधानां च पातकं ॥ १६४ ॥

आनंदं परमं ब्रह्ममकारानंदसूचकं ।
तथा विशेषतो देवि पंचमं परिकीर्तितं ॥ १६५ ॥

भगस्य स्मरणे पुण्यं भगस्य दर्शने तथा ।
भगस्य पूजने पुण्यं भगस्य पंचमे तथा ॥ १६६ ॥

भगस्य पंचमे देवि यत्सुखं समजायते ।

८२ब्)

न तत्सुखं जपैर्होमैर्न्नदानैस्तपसा तथा ॥ १६७ ॥

पंचमस्य कृते देवि यत्पुण्यं समजायते ।
न तत्पुण्यसमं देवि कोटि तीर्थादि दर्शनं ॥ १६८ ॥

जपहोमस्तथादानं दीक्षायोगादि कल्पना ।
कृतपंचमभक्तस्य कलां नार्हंति षोडशीं ॥ १६९ ॥

त्रयोदशाब्दादूर्ध्वं हि पंचविंशति वार्षिकीं ।
अप्रसूना विशेषेण पंचमार्हा भवेत् प्रिये ॥ १७० ॥

अप्रसूता विशेषेण प्रसूता वा प्रसूतिका ।
अवश्यं पंचमं कुर्याच्छक्तिमात्रं महेश्वरि ॥ १७१ ॥

पंचमे च कृते देवि यत् कुर्यात् पूजनादिकं ।
तदक्षयं लभेत् पुण्यं नात्र कार्या विचारणा ॥ १७२ ॥

गुरुं संतोषयेत् तत्र यत् पत्नी वा सुता दिवा ।
नानाभरणवस्त्राद्यैस्तथा द्रव्येण सुंदरि ॥ १७३ ॥

पंचमार्था यथा शक्तिस्तस्यां कुर्याच्च पंचमं ।
तस्यास्तोत्रं प्रकुर्याच्च विशेषेण शृणु प्रिये ॥ १७४ ॥

द्रव्येण भूषणैश्चैव वसना लिंगनादिभिः ।
स्नानार्थं देवतानां च रहस्यं परमं शृणु ॥ १७५ ॥

येन स्नाते कृते देवि देवता सुप्रसीदति ।
रात्रौ पंचमकारेषु कृत्वा पंचममुत्तमम् ॥ १७६ ॥

भगमध्येषु यद्द्रव्यं गृह्नीयाच्च प्रयत्नतः ।
तस्या कुंडोद्भवं तोयं विज्ञेयं भुक्तिमुक्तिदम् ॥ १७७ ॥

लभते भाग्य योगेण देवतानां च दुर्लभं ।
तस्मिन् किंचिज्जलं क्षिप्त्वा ताम्रपात्रेषु धारयेत् ॥ १७८ ॥

तं द्रव्यं स्नानमात्रेण देवता सुप्रसीदति ।
स्त्रियो रजश्च प्रथम यस्मिन्वयसि जायते ॥ १७९ ॥

गृहीयात्राशु शुभगे ब्रह्मादीनां च दुर्लभं ।
स्वयंभू कुसुमं नाम देवतानां च प्रीतये ॥ १८० ॥

यदि भाग्यवसाद् देवि लभते कुसुमं त्विदम् ।
तत्तस्वदेवतानां च प्रकुर्यात् स्नानमुत्तमं ॥ १८१ ॥

वांछितं लभते मंत्री सत्यं सत्यं वरानने ।

८३अ)

स्वगुरुर्दत्तमंत्रेण षडंगन्यासमाचरेत् ॥ १८२ ॥

शक्तिदेहे स्वदेहे वा पंचमं कारयेत् ततः ।
ततो जपादिकं कुर्याच्चाक्षयं लभते फलम् ॥ १८३ ॥

इदं रहस्यं कथितं देवता स्नान हेतवे ।
षडाम्नायेषु तंत्रेषु रहस्यमिदमीरितम् ॥ १८४ ॥

उत्तराम्नाय मंत्रेषु प्रकुर्याच्च विशेषतः ।
जीवती भर्तरी नारीणां पंचमं कारयेत् प्रिये ॥ १८५ ॥

तस्या भगस्य यद्रव्यं तच्चकुंडोद्भवमुच्यते ।
मृते भर्तरि नारीणां पंचमं कारयेद् यदि ॥ १८६ ॥

तस्या भगस्य यद्द्रव्यं तच्च गोलोद्भवं मृतं ।
कुंडगोलोद्भवे द्रव्यं अभावे शृणु सुंदरि ॥ १८७ ॥

कथं स्नानं प्रकुर्याच्च देवतातोष हेतवे ।
यस्य कस्य तरोः पुण्यं गृहीचाशु प्रयत्नतः ॥ १८८ ॥

तेषा मध्ये द्वयं ग्राह्यं हस्ताभ्यां मनसा तदा ।
उभयोः पंचमं तत्र कुर्वीत विधिवन्नरः ॥ १८९ ॥

रक्तचंदन घृष्टेन जलै चैव क्षिपेत् तदा ।
तज्जलेन प्रकुर्वीत देवता स्नानमुत्तमं ॥ १९० ॥

वांछितं फलमाप्नोति सत्यं सत्यं वरानने ।
वल्ली पुष्पाणि सर्वाणि तरोः पुष्पाणि यानि च ॥ १९१ ॥

औषधीषु च सर्वासु यानि पुष्पाणिकानि च ।
तानि सर्वाणि शुभगे देवताभ्यो नियोजयेत् ॥ १९२ ॥

सर्वाम्नाये ष्वधिष्ठानं तुलसी वर्जितानि च ।
अपराजिताः पुष्पं च द्वयं पुष्पं च यद्भवेत् ॥ १९३ ॥

करवीरस्य यत्पुण्यं यत्पुष्पं बुध्वजीवकं ।
कमलस्य च यत्पुष्पं यत्पुष्पं पंचकस्य च ॥ १९४ ॥

विशेषतश्च योग्यानि सर्वपुष्पेषु सुंदरि ।
पत्राणां विल्वपत्राणि पूजार्थे च शु * नने ॥ १९५ ॥

अथेदानीं प्रवक्ष्यामि जपार्थे पीठमुत्तमं ।
कृते पूर्णगिरिं योग्यं त्रेता उपान संज्ञकं ॥ १९६ ॥

८३ब्)

जालंधरे द्वापरे तु कामपीठं कलौयुगे ।
चतुःपीठानि शुभगे शक्तिदेहेषु यानि तत् ॥ १९७ ॥

तानि चत्वारि वक्ष्यामि गुह्याद्गुह्यतराणि च ।
शक्तिः सर्वशरीरं तु पीठं पूर्णगिरिं मतं ॥ १९८ ॥

तस्याः शिरश्च सुभगे उड्यानं कीर्तितं मया ।
स्तनौं जालंधरे ज्ञेयं कामपीठं भगस्मृतं ॥ १९९ ॥

सर्वेषु कामपीठं यद्देवानामपि दुर्लभं ।
येषु पीठेषु संस्थित्वायं यं यं मंत्रं जपेत् प्रिये ॥ २०० ॥

तत्तस्य फलमाप्नोति देवता सुप्रसीदति ।
सर्वांतफलमाप्नोति देवता सुप्रसीदति ॥ २०१ ॥

सर्वासां वलिदानं च देवतानां शृणु प्रिये ॥ २०१ ॥

येन कृत्वासुलभये यथेच्छं फलमुत्तमं ।
नित्यं स्वभोजने काले मूलमंत्रेण साधकः ॥ २०२ ॥

कारयेद् वलिदानं च भोजनात् प्रथमं प्रिये ।
ततश्चानंदते देवि शुचिस्तद्गतवान् भवेत् ॥ २०३ ॥

वलिं समुद्धरे यत्नादेकांते स्थापयेत् तदा ।
स्थापयित्वा वलिं तत्र विहरेच्च यथा सुखं ॥ २०४ ॥

उत्तराम्नाय देवेशि मातंगीया प्रकीर्तिताः ।
तस्यां वलिं भोजनांते विनैवाचमने कृते ॥ २०५ ॥

मूलमंत्रेण शुभगे वलिं कृत्वा प्रयत्नतः ।
किंचिज्जपादिकं कृत्वा तत आचमनादिकं ॥ २०६ ॥

पुनश्चरात्रौ सर्वेषां वलिं कृत्वा प्रयत्नतः ।
यथोक्त विधिना कुर्याद् यथोक्तं फलमश्नुते ॥ २०७ ॥

बलिश्च विविधो देव्यः सात्विको राजसस्तथा ।
सात्विको वलराख्यातो मांसरक्तादि वर्जितः ॥ २०८ ॥

राजसो मांसरक्तादि युक्तः संप्रोच्यते प्रिये ।
साधकास्त्रिविधा प्रोक्ता सात्विका राजसामता ॥ २०९ ॥

तामसाश्च तथा देवी तेषां वक्ष्यामि लक्षणं ॥ २१० ॥

सात्विकं वलिदानादि नित्यं कुर्यात् प्रयत्नतः ॥ २११ ॥

८४अ)

राजसोराजस गुणैर्युक्तो नित्यं शुभानने ।
राजसंबलिदानादि सुवेषै राजसैर्युतः ॥ २१२ ॥

तामसास्तामसगुणैरोषादि संयुतः प्रिये ।
न श्रद्धा बलिदानेषु पूजनादिषु सुंदरि ॥ २१३ ॥

न स्तोत्र पठने देवि नाम मात्रेण साधकः ।
अथेदानीं प्रवक्ष्यामि मम मंत्राणि सुंदरि ॥ २१४ ॥

यान्यत्र मम मंत्राणि प्रसिद्धानि स्वभावतः ।
अघोराख्य महामंत्रमापदुद्धारणं तथा ॥ २१५ ॥

चिंतामणिं तथा देवि तथा मृत्युंजयंवरं ।
चंडोवरं च सुभगे अर्धनारी नटेश्वरं ॥ २१६ ॥

नाना तंत्रेषु देवेशि मम मंत्राणि यानि च ।
ज्ञातव्यानि सदा भद्रे षडाम्नायेषु तानि च ॥ २१७ ॥

वामाचारेण वा देवि जप्त्वा फलमवाप्नुयात् ।
दक्षिणाचार योगेन जप्त्वा फलमवाप्नुयात् ॥ २१८ ॥

विषोपतश्च शुभगे मम मंत्राणि यानि च ।
सर्वाम्नायेन विधिना शीघ्रकाल फलप्रदः ॥ २१९ ॥

नाना पापहरा देवी मंत्राः कामदुघा प्रिये ।
यं यं मंत्रं जपे देवि वीरस्तद्गतमानसः ॥ २२० ॥

तं तं भावं समासाद्य फलं तल्लभते नरः ।
तव मंत्राणि देवेशि मम मंत्राणि यानि च ॥ २२१ ॥

यानि यानि प्रसिद्धानि तानि तानि च तानि च ।
यथा स्वयंभुवा देवि वेदाश्चत्वार कीर्तितः ॥ २२२ ॥

तातव्यानादि संसिद्धां पर्येण्य देवताः ।
पारंपर्येपि ते ज्ञेया श्रुताम्नायेषु भेदतः ॥ २२३ ॥

तथा त्वयि मया प्रोक्ता षडाम्नायाश्च संनिधौ ।
स चाम्नाय श्रुति ज्ञेयः श्रुतिश्च वेदतो लभेत् ॥ २२४ ॥

अतस्त्वयापि गिरिजे गोपनीयः स्वयोनिवत् ।

८४ब्)

अथातः संप्रवक्ष्यामि रहस्यं परमं शुभं ॥ २२५ ॥

बहुमंत्री यदा * * साधको दैव योगतः ।
अत्र कस्य जपं कुर्यात् सज्जनादिभिरेव च ॥ २२६ ॥

सर्वदेव नमस्कारं नित्यं कुर्यात् प्रयत्नतः ।
जापादिकं ततस्यैव यस्य संगते मनः ॥ २२७ ॥

गुरोर्गृहीत मंत्रं तु जप्त्वा त्यजति साधकः ।
दुष्टाचारात् प्रमादाद्वा आलस्याद्वापि सुंदरि ॥ २२८ ॥

शंकया वा गृहीतस्य कथनं यत्र कुत्रचित् ।
हीनवीर्यमवाप्नोति मंत्रादिकं वरानने ॥ २२९ ॥

इत्यादि दोषनाशार्थं विधानं शृणु सांप्रतम् ।
प्रथमं जननं नाम जीवनं तु द्वितीयकं ॥ २३० ॥

तृतीयं ताडनं नाम गोपनं दशमं स्मृतं ।
पंचममभिषेकश्च विमुखी कर्णषष्ठकम् ॥ २३१ ॥

आप्यायनं सप्तमं तु अष्टमं तर्पणं मतं ।
नवमं दीपनं नाम गोपनं दशमं स्मृतं ॥ २३२ ॥

मनूनां मातृका मध्यादुद्धारो जननं मतं ।
मंत्रवर्णान् जपेन्नित्यं प्रणवांतरितान् क्रमात् ॥ २३३ ॥

एतज्जीवनकं नाम ताडनं शृणु धापरं ।
मनुवर्णान् समालिप्य ताडयेच्चंदनांभसा ॥ २३४ ॥

प्रत्येकं वायुनामंत्री ताडनं नाम तत् स्मृतम् ॥ २३५ ॥

मनुलिप्य विधानेन यदा मंत्रार्णसंख्यया ।
अश्वत्थ पल्लवैर्मंत्रमभिषिंचेद्विशुद्धये ॥ २३६ ॥

संचिंत्यमनसा मंत्री ज्योतिर्मंत्रेण निर्दहेत् ।
मंत्रे मलत्रये देवि विमली करणे त्विदम् ॥ २३७ ॥

ताल व्योमाग्नि मनुयुक् दंडीज्योतीर्थमनुर्मतः ।
कुशोदकेन जप्तेन प्रत्यणं प्रोक्षणं मनोः ॥ २३८ ॥

तेन मंत्रेण विधिवदेतदाप्यायनं शुभं ।
नयुना वारिणा मंत्र तर्पणं तर्पणं भवेत् ॥ २३९ ॥

८५अ)

तारमाया रमायोगं मनोद्वीपनमुच्यते ।
जप्यमानस्य गोपनं त्वपनंत्वप्रकाशनम् ॥ २४० ॥

एते च दशसंस्काराः सर्वमंत्रेषु गोपिता ।
एतान् कृता जपेन् मंत्रं स दोषरहितः प्रिये ॥ २४१ ॥

निर्गुणं यत्परं ब्रह्म आकादि विवर्जितं ।
साकारं यद् भवेद् देवि वहुधा तर्पणादिषु ॥ २४२ ॥

दृश्यते तु तथा चात्र राद्यात्वं सर्व देहिनाम् ।
एकमेवापरंब्रह्म ज्योतिरूपमनक्षरम् ॥ २४३ ॥

साकारं यदि जायेत स्वेच्छया तु वरानने ।
रूपद्वयं तथा भूत्वा देहिनां देहमव्ययं ॥ २४४ ॥

भकारांते च तद्ब्रह्म लिंगाकारं स्वरूपतः ।
केचित् सुभगे जानंति लिंगाकारस्य रूपिणः ॥ २४५ ॥

भगाकारस्य सेवेत विदुषो ज्ञानिनः सदा ।
स्त्रीजाति रूपा सर्वत्र सर्वदेहेषु या मता ॥ २४६ ॥

सा शक्तिरूपा विज्ञेया पुरुषः शिवरूपवान् ।
तासां भगस्त्रिकोणं च कुण्डं प्रोक्तं तु चोत्तमं ॥ २४७ ॥

पुरुषस्य लिंगं यद् देवि शिवो ज्ञेयः सनातनः ।
तत्त तेषां विशेषाश्च नरदेहे वरानने ॥ २४८ ॥

शक्तिः शिवश्च विज्ञेयो मम संकेतमुत्तमम् ।
भगः कुंडं च सुभगे शिवो लिंगं प्रकीर्तितम् ॥ २४९ ॥

रजस्तु अग्निः सुभगे भगमध्येषु क्षेपणम् ।
आज्यरूपं मतं शुक्रं मनोहोता प्रकीर्तितः ॥ २५० ॥

फलरूपं च तत्रैव एषा संसारकामना ।
एवं विज्ञाययो मंत्री मनोरूपं च ब्रह्मवित् ॥ २५१ ॥

नित्यं होमयिता देवि तस्य पुण्यमनंतकम् ।
यं यं कामादिकं देवि मनसा चिंत्यकारयेत् ॥ २५२ ॥

न दोषस्तत्र विज्ञेयस्तं तं काममवाप्नुयात् ।
यथोक्त देवता चाराद्यथोक्त फलमश्नुते ॥ २५३ ॥

८५ब्)

आयुर्लक्ष्मीर्यशोदेवि कीर्तिं च मोक्षमाप्नुयात् ।
अस्मिन् स्तोत्रे च समया यामया परिकीर्तिताः ॥ २५४ ॥

सा पूर्वं विजयाकल्पे चतुर्थांसंप्रकीर्तिताः ।
इमां विद्यां च तंत्रेस्मिन् रहस्या ये प्रकीर्तिताः ॥ २५५ ॥

गोप्तव्याश्च प्रयत्नेन कथनीया न कस्यचित् ॥ २५६ ॥

गोप्यागोप्य पुनर्गोप्यागोप्यागोप्या पुनः पुनः ॥ २५६ ॥

गोप्यागोप्या पुनर्गोप्या जननीजार गर्भवत् ।
अंतृशक्ताश्च सुभगे वहिः शैवा च वैष्णवाः ॥ २५७ ॥

एवं ये साधकालोके फलमायुर्नसंशयः ।
आचारो मम देवेशि तवाचारोपि च प्रिये ॥ २५८ ॥

दिवसो गोपनं कृत्वा रात्रौ चैव समाचरेत् ।
नानाशक्ति सहालापैर्ये कुर्वंति च साधकाः ॥ २५९ ॥

ते शीघ्रकालां सुभगे फलं प्राप्ताश्च मानवाः ।
आद्र शुष्कविभागेन द्विधाचारः पुनः शृणु ॥ २६० ॥

आद्राचारः स विज्ञेयो मकरैः पंचभिर्युतः ।
मकरैः पंचरहितः शुष्काचारः प्रकीर्तितः ॥ २६१ ॥

कलौ विशेषतो देवि आद्राचार फलप्रदः ।
पूर्वाम्नायेषु कथिता नाना तंत्रे च देवताः ॥ २६२ ॥

विद्यामंत्र विभागेन ते देवाश्चाद्रतः कलौ ।
विशेषात् फलदा देवि साधकानां जितात्मनाम् ॥ २६३ ॥

रहस्यं शृणु देवेशि परमां गोपनं सदा ।
सर्वाम्नायाश्च कथितास्तव पार्श्वे पृथक् पृथक् ॥ २६४ ॥

सर्वेभ्यश्चोत्तराम्नाय पश्चात् संकीर्तिते मया ।
गोप्याद्गोप्यतरो गुह्यो गुह्याद्गुह्यतरो महान् ॥ २६५ ॥

उत्तराम्नाय सुभगे सदा गोप्यः प्रकीर्तितः ।
यदिवेत्त्वत् समालोके नारी भवति निश्चला ॥ २६६ ॥

८६अ)

मत्समः पुरुषो देवि साधको यदि भूतले ।
भ्रांति मायाति रहितस्तदा साधयितुं प्रिये ॥ २६७ ॥

सक्तश्च साधको देवि अन्यथा हास्यतां व्रजेत् ।
आगमाचारस्तु प्रिये सर्वदा गोपनः स्मृतः ॥ २६८ ॥

उत्तराम्नायो देवेशि विशेषाद् गोपनः कलौ ।
साधकास्तु कलौ देवि माया निद्रादि संयुतः ॥ २६९ ॥

अजितेन्द्रिया लोके या यथोक्ताचारवर्जिताः ।
अहं वुद्धिरता नित्यं तस्माद्गोप्याद्विशेषतः ॥ २७० ॥

सुपरीक्षिताय पुत्राय विनीताय प्रकाशयेत् ।
श्रष्ठेभः साधकेभ्यश्च न प्रकाश्यं कदाचन ॥ २७१ ॥

यदि चेद्वै वरारोहे साधकोपि प्रकाशयेत् ।
सिद्धिहानिस्तु लभते सदा तस्य प्रकाशनात् ॥ २७१ ॥

अतस्तु गोपयेद् देवि यदित्वं मम वल्लभा ।
उत्तराम्नाये या माला कथिता भुविदुर्लभा ॥ २७२ ॥

तासामभावे सुभगे मालां शृणु वदाम्यहं ।
अथ वर्णमयी माला अलाभे हस्तयर्वजा ॥ २७३ ॥

महाशंखमयी माला अभावे स्फाटिकी मता ।
स्फाटिक्याश्च अभावे तु रुद्राक्ष फलनिर्मिता ॥ २७४ ॥

रुद्राक्षमाला भावे तु कमस्य फलैश्चया ।
आसनान्युत्तराम्नाये कथितानि शुभानने ॥ २७५ ॥

सर्वाभावे व्याघ्रचर्म ऐणं वा कंवलादिकं ।
यत्र पूजा अभावे तु प्रतिमासु प्रपूजयेत् ॥ २७६ ॥

जले अग्नौ पृथिव्यां च सूर्ये वा हृदि सुंदरि ।
ताम्रे वा लेखयित्वा तु नित्यं वा सर्पजेत् प्रिये ॥ २७७ ॥

दीपस्य ज्योतिर्मध्ये तु मूलमंत्रेण पूजयेत् ।
सर्वत्र सर्वपूजांसु मूले नैव प्रपूजयेत् ॥ २७८ ॥

८६ब्)

विसर्जनांत मूलेन मनसा ब्रह्मचिंतयेत् ।
सर्वद्रव्याद्य भावे तु आर्द्रकं तु प्रकीर्तितम् ॥ २७९ ॥

जलं वा तत्र क्षीरं वा भक्षयेत् कर्ममाचरेत् ।
मकार पंचाभावे तु पंचमं कारयेत् प्रिये ॥ २८० ॥

अभावे पंचमे देवि मनसा पंचमं चरेत् ।
एवं श्रुत्वा ततो देवि समयाचारमुत्तमं ॥ २८१ ॥

सा शिवा च प्रसन्ना भूद्याथा तथ्य प्रकाशनात् ।
शिवोप्यंतः प्रसन्नोभूत् स्वयं च परमेश्वरः ॥ २८२ ॥

तदा प्रसन्न मनसा उवाच गिरिजां प्रति ।
सर्वाण्यागम तंत्राणि यानि यान्यपि सुंदरि ॥ २८३ ॥

तंत्रादीण्यपि सर्वाणि विद्याम्नायादि कान्यपि ।
चतुर्युगेषु वर्तंते पारपायोपदेशतः ॥ २८४ ॥

तेषां वेदयिता केचिन्न समर्थोस्मि भूतले ।
कृपया तव देवेशि किंचित् किं वर्णितं शुभं ॥ २८५ ॥

अतो ज्ञात्वा मया देवि यत् किंचिद्वर्णितं शुभं ।
एतत्सर्वं तु नियतं सर्वस्वमिद मे प्रिये ॥ २८६ ॥

राज्यं देयं शिरोदेयं न देयं तंत्रमद्भुतं ।
षडाम्नायेषु कथितं तंत्रं परमदुर्लभं ॥ २८७ ॥

तथा गोप्यं च शुभगे मातृजारपदं यथा ।
यदि चेद्वै वरारोहे मया तुभ्यं प्रकाशितं ॥ २८८ ॥

अतस्तु गोपयेन्नित्यं यदित्वं मम वल्लभा ॥ २८९ ॥

इति श्रीपार्वतीश्वरसंवादे समयाचारं सम्पूर्णम् ॥


श्रीगुरुगणेशाय नमः ॥

श्रीमद्भैरवशेखरं प्रविलसच्चंद्रामृतं प्लावितं
क्षेत्राधीश्वरयोगिनी मुनिगणैः सिद्धैः समाराधितं ।
आनंदार्णवकं परात्मकमिदं साक्षात् त्रिखंडामृतं वन्दे
श्रीप्रथमंकरांवुजगतं पात्रं विशुद्धिप्रदं ॥ १ ॥

८७अ)

हैमं मीन रसावहंदथितयादत्तं च पेयादिभिः किंचिच्चंचल
रक्तपंकजदृशा तस्मै समावेदितम् ।
वामे स्वादुतरं विशुद्धिकरणं पाणौ निधायात्मके वंदे पात्रमहं
द्वितीयमधुना नंदैक संवर्धनं ॥ २ ॥

सर्वाम्नाय कलाकलाप कलितं कौतूहल द्योतनं चंद्रोपेन्द्र कृशानु
शंभु वसा ब्रह्मादिभिः सेवितं ।
ध्यातं देवगणैः परं मुनिवरैर्मोक्षार्थिभिः सर्वदाः वंदे
पात्रमहं तृतीयमधुना विज्ञानवोधक्षमं ॥ ३ ॥

द्रव्यं मीनरसावहं हरिहर ब्रह्मादिभिः पूजितं मुद्रा मैथुन धर्म
कर्म निरतं क्षाराम्लतिक्ताश्रितं ।
आचार्याष्टक सिद्धभैरव कुलाधीशेन संशोधितं पायात्
पंचमकारतत्व सहितं पात्रं चतुर्थं नमः ॥ ४ ॥

सर्वं धर्मकलागमाधिक परं वेदैर्मुखैर्भाषितं देवानामपि
दुर्लभं सुखकरं गुप्तं रहस्यान्वितं ।
आनंदोद्भवनादविंदु परमा योगीन सद्भैरवं पीतं ब्रह्ममयं
सदोदितकरं पात्रं भजे पंचमं ॥ ५ ॥

छत्रं चामर भद्रपीठ परमानंदोधिकः पातुमां रामाराज्य
मनोहरं शुभकरं संयोज्य साम्राज्यदं ।
नाना व्याधि भवां *? कार हरणं जन्मादि निर्नाशनं श्रीमत्सुंदरि
तर्पणाद्रवरसंपात्रं भजे षष्ठमं ॥ ६ ॥

जाग्रत्स्वप्नसुषुप्ति तूर्यपुरतो चैतन्य साक्षीप्रदं
विद्युद्भास्करचंद्रसेन्द्र धनुषो ज्योतिः कलाव्याधितम् ।
ईडा पिंगल मध्यमादि चलया सत्कुण्डली चोर्धगं पात्रं सप्तम
पूरणे नत्वरयानन्दादिकं पातुमान् ॥ ७ ॥

खड्गं पादुकमज्जनं च गुटिका सारस्वतं यत्पदं
मृत्युर्वंचनमुग्रकालहरणं देहस्थितं कारणं ।

८७ब्)

वाचा सिद्धिकरं मनस्थिरकरं वश्याज्जगज्जोषितं पात्रं
चाष्टममष्टसिद्धिकरणं प्रौढं प्रसन्नं सदा ॥ ८ ॥

सर्वानंदकरं सदाशिवपदं द्वंद्वैकमुक्तिप्रदं
साम्राज्यं सुखदं मनोरथकरं अज्ञानविध्वंसनं ।
आयुःकीर्तियशोविवर्धनकरं संसारमोहछिदं पात्रं
यन्नवनाथ शक्तिजननं प्रौढः प्रतापोदितं ॥ ९ ॥

इति श्रीरुद्रयामले तन्त्रे पात्रवन्दननवस्तोत्रं समाप्तं ॥


श्रीगणेशाय नमः ॥

अथोलूककल्पः ॥

रुद्राज्ञापयति तेन विष्णुसत्वेन उलूक आगच्छ २ प्रविश २ धुन २ आकर्षय २
मंडल प्रवेशय २ स्वाहा ॥ उलूकस्य शिरश्चैव हरिताल मनःशिला ।

अनेन चांजनं कृत्वा दृश्यते स चराचरं ।
विधानानि विचित्राणि वीवराणि च पश्यति ॥

उलूकस्य वसा चैव नवनीतसमन्वितं ।
गोरोचनसमायुक्ता अंतर्धूमेन पाचयेत् ॥

अजनेनांजयेन्नेत्रं दृश्यते स चराचरं ।
उलूकस्य रसं चैव आत्मरक्तसमन्वितं ॥

त्रिकटुकेन समायुक्तं अंजयेत् तेन चक्षुषु ।
अदृश्यकरणं सद्यो नात्र कार्या विचारणा ॥

उलूकस्य च मांसानि तगरं चंदनं तथा ।
कुंकुमेन समायुक्तं पेषयेद्रोचना सह ॥

अन्नेपानेन दातव्यं स्त्री वा पुरुषे वश्यवा ।
सर्ववश्यं भवेत् तस्य स्वात्मं स्व च परस्व च ॥

उलूकस्य च पक्षाणि विडालस्य नखानि च ।
पादापांशु समासाद्य काकपक्षेण सैव हि ॥

कटुकीफलसमायुक्तं होमयित्वा वशीकरं ।
विद्वेषश्च न संदेहो भवते शत्रुषु क्षयं ॥

उलूकस्य तथास्थीनि राजिकात्व च मेव च ॥

८८अ)

कटुकीतैलसमायुक्ता सोध्यते साधकोत्तमः ।
मारयेन्नात्र संदेहो सर्वस्यादेहधारणं ॥

अथ मंत्रः ॥ अष्टोत्तरशतं जपेत् ॥

ओं ह्रीं ह्रैं ह्रः हुं फट् नमः ॥ ओं नमो भगवत्यै आर्यतारा देव्यै पुरा
देवासुरे युद्धे विवाहे वस्य संस्थिता ।

तस्य वाहनमत्युग्र उलूकोनामसोत्तमः ।
तस्येष्टे समारुह्ये दानवानां वधोश्रितः ॥

शुक्र उवाच ॥

कथंचरमते भूमौ कथमाहारमेव च ।
कीदृशं कर्म कुरुते स च काकि तु कीदृशी ॥

अल्पायुश्चयोर्मत्यै अल्पवीर्यस्तथापरे ।
रोगादयो न वाध्यंते वहु क्लेशवशं कुतः ॥

हितार्थसर्वसत्वानां व्रूहि कामांगनाशनः ॥

ईश्वर उवाच ॥

साधु साधु महावाहो साधकानां हिताय च ।
वचनं शृणु वक्ष्यामि प्रियासि त्वं यथाकुलं ॥

पर्वते हिमवत्कूटे वचनं वहु भयाकुले ।
ततः पिवति पानीयं दुर्गा दुर्गा समुक्षये ॥

तत्र स्थाने स्थितौ सौ हि छुबुको नामनामतः ।
बिडाल सदृशं नेत्र कर्णौ वापि तथैव च ॥

दिवाकरस्तस्य शत्रु मांसाशी च तथैव च ।
दिवसंतिषुते नेत्रौ रात्रौचर्या समाचरे ॥

अधुना संप्रवक्ष्यामि लक्षणं तस्य तादृशं ।
सौभाग्यकरणं साध्वी विद्वेषोच्चाटनं तथा ॥

चातुर्थिकविनाशीनं सर्वज्वरविनाशनं ।
एकाहिकं द्व्याहिकं च भूतापस्मारनाशनं ॥

संप्राण शमया याति गरुडस्य च पन्नग ।
उलूक चक्षुरादाय गोरोचनसमन्वितं ॥

वारिणा सह दातव्यं वशीकरणमुत्तमं ।
उलूक जिह्वा मुद्धृत्य धर्तूररससमभावितं ॥

८८ब्)

धूपं यस्या प्रदातव्यं विद्वेषोच्चाटनं भवेत् ।
उलूकस्य च कर्णौ द्वौ पिंडिका च समन्वितं ॥

सूक्ष्मचूर्णं ततः कृत्वा मस्तके यस्य निक्षिपेत् ।
अथ पानेषु भक्षेषु पुष्पेषु तिलकेषु च ॥

गंधयुक्ते तथावस्त्रे यस्य दद्यात् कदाचन ।
नारी तस्य वशं यांति स्वात्मनेन धनेन वा ॥

जनाः सर्वे वशं यांति यावज्जीवं न संशयः ।
निशाचरस्य नेत्रे द्वे मधु ज्येष्टिःकयै सह ॥

हरितालस्य कर्षौ द्वौ काकमाची समांसकैः ।
अंतर्धूमं दहेत् सर्वं छागी मूत्रेण भावयेत् ॥

नेत्राणामंजनं दद्याच्चातुर्थिक विनाशनं ।
मंगस्य तद्रोमाणि यवसक्तु समन्वितं ॥

तिलतैलेनसंयुक्तं यस्य धूपं प्रदा * येत् ।
भूतग्रहा च कुष्मांडां डाकिनी साकिनी तथा ॥

नाममात्रेण दत्तेन कुर्वंत्या वेशणं क्षणात् ।
पलायंते ततो सर्वे दशासु विदशासु च ॥

क्षयमा * स्तथायांति सिद्धगणा मृगा इव ।
उलूक दक्षिणं पक्षं श्वेतसूत्रेण वंधयेत् ॥

दक्षिणे कर्णमूले तु द्व्याहिकं हरति ज्वरं ।
उलूकस्योत्तरं पक्षं रक्तसूत्रेणवंधयेत् ॥

दक्षिणे कर्णमूले तु त्र्याहिकं हरति ज्वरं ।
मांगल्यं पुच्छपक्षैस्तु पंचरंगेन भावितः ॥

यस्य पक्षगले वध्वा त्र्याहिकं तस्य नश्यति ।
वधातु दक्षिणे वाहुमंगल्यं दक्षिणे पदं ॥

पूर्वोक्तं चाक्षयं दद्या सक्र वीजप्रणाशनं ।

८९अ)

उलूकस्य पदं वामंभुजा वामेन बंधयेत् ॥

दुष्टज्वरप्रशमनं सर्वज्वरविनाशनं ।
निशाचरस्य रक्तस्तु द्विस्त्री रक्त समंन्वितं ॥

यस्य नाम लिखेद्भूर्जे कृष्णसूत्रेण वेष्टयेत् ।
शिखाग्रे वंधयित्वा तु तस्य चोच्चाटनोत्तमं ॥

ततः क्षीरेणसंक्षाल्य पुनः शांति भविष्यति ।
उलूक्सय च मांसानि धूपं यस्य प्रदापयेत् ॥

सर्वे ग्रहा विनश्यंति नात्र कार्या विचारणा ।
उलूकस्य तथा चांत्रं लेपो यस्य प्रदापयेत् ॥

एकविंशसमायुक्तो सोर्शरोगैः प्रमुच्यते ।
पिंडिका कंडुरोगैश्च मुक्तो भवति तत्क्षणात् ॥

सर्वे रोगाः पलायंते सिंहस्याग्रे गजा इव ।
उलूकस्य तु पादं तु श्रोतोजनसमन्वितं ॥

छायाशुष्कं ततो कृत्वा नेत्राणामंजयेत् तु यः ।
दत्तमात्रेण तेनैव सोदृशो भवति क्षणात् ॥

निर्मलानि च नेत्राणि सदा तस्य भवंति च ।
इदं रहस्यं परमं न देयं यस्य कस्यचित् ॥

पापात्मेषु न दातव्यं दातव्यं भक्तवत्सले ।
इत्यौ चसनसे शास्त्रे कल्पं नक्तचरं अलं ॥

अथ द्वितीय कल्पवर्वरष्यस्यलिष्यते ॥
वर्वरो रात्रि पक्षिनी सायोमटते सदा ॥

तस्य कर्मं च किं प्रोक्तं प्रसादं कुरु संकर ॥

शिव उवाच ॥

शृणु देवि प्रदातव्यं रहस्यं परमं प्रिये ।
निशायां रमते शोपि माचुषोणां विद्याषु च ॥

शौनको नाम ऋषयः मंगलो नाम संभवः ।
तस्य श्रापददौ ब्रह्मा उलूको पक्षिको भवेत् ॥

८९ब्)

तस्य कर्म प्रवक्ष्यामि विधानेन तु पार्वति ।
न तिथिर्न च नक्षत्रं न च नात्योपवासनं ॥

न वारं न जपो होमं कालवेलादिवर्जितं ।
केवलं भावनागम्यं कुर्यात् कर्मं यथोचितं ॥

उलूकशौनकश्चैव * वारारात्रि पक्षिकः ।
मंगलस्थलशिरः षट्नामानि तस्य च ॥

अथ उलूकस्य प्रयोगः ॥

नामुक्तां मोहनस्तंभने उच्चाटनं रक्षणं मारणं वशीकरण
व्ययेत् ॥ यदुक्तं उलूकस्य च नेत्रे च रोचनागौरसर्षपा ।

कुंकुमं नागपुष्पं च समभागानि कारयेत् ॥
नेशप्तदिवसं भूषंडनिधापयेत् ॥

यस्य दद्यामुखोवासं स वस्यो मरणांतकं ।
उलूकस्य च नेत्रे द्वे मार्जरस्य तथैव च ॥

एकत्र मिलितं कृत्वा वक्त्री कुर्याद् विचक्षणः ।
महातैलेन प्रज्वाल्य श्मशाने वा चतुष्पथे ॥

तथैव कज्जलं ग्राह्यं नेत्रे तत्कालमंजयेत् ।
दत्तमात्रेण तेनैव नष्टच्छायो भवेन् नरः ॥

उलूकचंचु संग्राह्य गोरोचना कुंकुमेन तु ।
तत्समं नागपुष्पेषु समभागेन चूर्णयेत् ॥

अनेन तिलकं कुर्यात् त्रैलोक्यं वशमानयेत् ।
उलूकस्य च जिह्वाया अजा गंध मनःशिला ॥

वचाचर्मवटं कुष्टं मत्स्या शृंगावरोचनं ।
कुंकुमं चाश्वलालाशु गोमूत्रेण च पेषणात् ॥

अनेन तिलकं कुर्यात् राजस्त्रीवशमानयेत् ।
उलूकस्य शिरोग्राह्यं वायसश्चवस्तथा ॥

एकत्र धूपदि च तु विद्वेषो जायते क्षणात् ।
उलूकस्य च ग्रीवायां मार्जारस्य नखस्तथा ॥

९०अ)

उन्मत्तकरसंग्राह्य निंबकाष्ठास्थि मानुषं ।
एकत्र गुटिकां कृत्वा शत्रुहारेषु निक्षिपेत् ॥

उच्चाटयेन् न संदेहो यदि शत्रसमोपि च ।
उलूकस्य तु वै क्रोडं मत्स्यतैलेन वर्वपेत् ॥

महाकेक्षे ददेदग्धं नवेभांडेन दापयेत् ।
चुह्ल्याग्रे तत्क्षिपेत् भांडं यावत् सप्तदिनानि च ॥

अस्तमे दिवसे प्राप्ते मृयते तंतु तत्क्षणात् ।
उलूकस्य तु पक्षानि अंतर्धूमेन दापयेत् ॥

सूक्ष्मचूर्णं ततः कृत्वा घृतेन सहपाचयेत् ।
तेनैवाज्ञित नेत्रस्तु लोकानां कुरुते वशं ॥

उलूक मांस नेत्रे च महामज्जा तथैव च ।
रोचनेन क्षतं युक्तं मत्स्यतैलेन भावयेत् ॥

तत् तैलं ग्राहये यत्नात् शरीरोभ्यंजनं ततः ।
तेन पृष्ठे वशं यांति यावज्जीवं न संशयः ॥

उलूकस्य तु चास्थीनि ग्राहयेच्च तथैव च ।
अजास्तु मानुषस्यास्थि तत् युक्तं स्वात्मने तुमं ॥

अनेन लेपयेल्लिंगं प्रमदानि च वशीकरं ।
उलूकस्य पदं रक्तं अनामरक्तलोचनं ॥

लिखित्वा साध्यनाम्नैव या पाद्यं च संपुटं ।
भूर्जपत्रे तु संरक्षेत् रक्तसूत्रेण वेष्टयेत् ॥

वाहुकंठे शिखायां वा धारयेत् तं वशं नयेत् ।
उलूकस्य काकपक्षाणि सर्पस्यापि च कंचुकीं ॥

मूषकश्च तथा विष्टा गुग्गुलं घृतमेव च ।
एष धूपवरं चोक्तं सर्वदुष्टविनाशनं ॥

स्कंदन नदीगणा सद्यापवना ब्रह्मराक्षसा ।
अतिग्रहश्च डाकिन्या धूपोन्मादन नाशनं ॥

दत्त मात्रेण धूपेण दुष्टाराशु पलायते ।

९०ब्)

उलूकस्य च जंघा च परा च तपरीषकं ॥

रोचनं कुंकुमं चैव तिलकं कारयेत् ततः ।
दृष्टमात्रेण तेनैव वश्यो भवति गर्विता ॥

उलूकस्य समग्रं वै अंतर्धूपेन दापयेत् ।
सूक्ष्मचूर्णं ततो कृत्वा छागी मूत्रेण भावयेत् ॥

यमूत्र भावयेद्यल शरीरे चानुलेपयेत् ।
लेपमात्रेण तेणैव सद्यो ज्वरनाशनं ॥

अन्य कर्म सहस्राणि कुरुते नात्र संशयः ।
उलूकस्य शिरोग्राह्या हरि बालमनःशिला ॥

अनेनां जयते चक्षुः पश्यते स चराचरं ।
अथ पदादि तस्यैव दह्ययित्वा सुवर्णयेत् ॥

पादलेपो प्रदातव्य योजनानां शतं व्रजेत् ।
उलूकस्य जिह्वाया कालीष्य वहुमालती ॥

संयुतं तेन कृत्वा च गुटिका त्रिलोहेन तु वेष्टयेत् ।
मुखप्रक्षेप मात्रेण दृश्यो भवति तत्क्षणात् ॥

उलूकस्य तु पक्षाणि मंत्रितानि च सप्तधा ।
स्थापयित्वान्यपि द्वारे यावच्छत्र मतद्गतं ॥

अथ मंत्रः ॥

ओं नमो कालरात्रि त्रिशूलहस्तमहिषवाहिनि रुद्रकपालमालाकृतशेषरे
आगच्छ भगवती अतुलवलकारिणी सर्वकर्माणिमेव संकुरु महेश्वर
आज्ञापयति ॥ श्रीं श्रीं श्रीं फट् स्वाहा ॥

उलूकस्य च विष्ठा च वालामोथो सुसंयुतं ॥
दद्यात् शिरसि यस्यैव स वश्यो मराणान्वितं ॥

उलूकस्य तु लिंगानि पारावत पुरीषकं ।
रोचना कुंकुमैर्युक्तं तिलकं कारयेत् ततः ॥

उलूक हृदयं ग्राह्य गोरोचनसमास्तुते ।

९१)

सप्तवारान्मंत्रयित्वा चक्षुस्तेनैवमंजयेत् ॥

दृष्टमात्रेण तेनैव तस्यैव वश्यो भवति तत्क्षणं ॥

अथ मंत्र प्रवक्ष्यामि यद्दत्तो शंभुना मुने ।
सर्वसिद्धिकरं ह्येत सर्वसृष्टि प्रदायकं ॥

ओं नमो महायक्षिणी अमुकवशमानय स्वाहा ॥

छुछुंदरी खंजरीस्तु क्षारकोट प्रपेषयेत् ।
मायामादास्तु संयुक्त चतुर्थ्यां च रवौ दिने ॥

विंदुनाद स्थितं मूर्ध्नि प्रथमं वीजमुक्तमं ।
पंचमस्या द्वितीयं तु पंचमस्वरवेदिने ॥

विसर्गयुक्तं देवेशि तृतीयं वर्णमुत्तमं ।
सूयमज्जां स्वरोपेते विंदुयुक्तं सुरेश्वरि ॥

चतुर्थे भवते विप्र स्वर उषष्ठे प्रकीर्तिण ।
ओंकारयुक्तं च तया नमस्कारं तु विन्यसेत् ॥

अष्टाक्षरमिदं मंत्रं सर्वसिद्धिप्रदायकां ॥

ओं नमो लोहितपिंगलाय मातंगराजाय स्त्रीणां रुधिरस्तंभय २ मुद्ग २
लक २ कीलय २ चिलि २ स्वाहा ॥ अयं स्त्रीणामतिरजोनिवारणमंत्र ॥

इति द्वितीयकल्पं च उलूकस्य अलंकृतं ॥ शुभमस्तु ॥




"https://sa.wikisource.org/w/index.php?title=आचारसारतन्त्रम्&oldid=408717" इत्यस्माद् प्रतिप्राप्तम्