सामग्री पर जाएँ

अहिर्बुध्नसंहिता/अध्यायः ६०

विकिस्रोतः तः
← अध्यायः ५१ अहिर्बुध्नसंहिता
अध्यायः ६०
[[लेखकः :|]]
परिशिष्टम् →
अहिर्बुध्नसंहितायाः अध्यायाः

शास्त्रवैभवनिरूपणं नाम षष्टितमोऽध्यायः

ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् |
सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ||

भरद्वाजं प्रति दुर्वाससा वृत्तानुवादव्याजेनापेक्षितयावदर्थ-
प्रतिपादकत्वरूपशास्त्रवैभवप्रपञ्चनम्

दुर्वासाः -

इत्येतन्नारदायादौ पृष्टः प्रोवाच शंकरः |

रहस्यं भगवज्ज्ञानं ज्ञानानामुत्तमं महत् || ६०-१ ||

शास्त्रस्यास्य प्राधान्येन
जगज्जन्मादिकारणभूतब्रह्मस्वरूपरूपगुणविभवादिप्रतिपा-
दनपूर्वकं परदेवतानिष्कर्षकत्वम्

स्थित्युत्पत्तिप्रलयकृद् भूतानां यत्र चिन्त्यते |
स विष्णुश्चिन्त्यते यत्र स्वरूपगुणवैभवैः || ६०-२ ||

प्राधान्येन भगवदिच्छाशक्तिभूतलक्ष्मीस्वरूपरूपगुण-
विभवादिप्रतिपादकत्वम्

यत्र सा शक्तिसंख्याता विष्णोस्तद्धर्मधर्मिणी |
शीतरश्मेरिव ज्योत्स्ना भावाभावानुगामिनी || ६०-३ ||

अनन्या चान्यरूपा च ज्ञानानन्दक्रियामयी |
प्. ६०८) महाविभूतिसंस्थाना निर्विकारा निरञ्जना || ६०-४ ||

निःसक्तासक्तसन्मत्रा पूर्णा रिक्ता ऋतंभरा |
प्रत्यस्तमितभेदा सा समुन्मीलितभेदिनी || ६०-५ ||

षडध्वविषयातीता षडध्वविषयात्मिका |
निमेषोन्मेषरूपा सा भावाभावस्वलक्षणा || ६०-६ ||

चिन्त्यते यत्र सा लक्ष्मीः स्वरूपगुणवैभवैः |
भाव्यभावकरूपा सा शक्तिः शक्तिद्वयाभिधा || ६०-७ ||

चिन्त्यते यत्र विस्पष्टं स्वरूपगुणवैभवैः |
शुद्धाशुधस्वरूपा सा विष्णुशक्तिर्जगन्मयी || ६०-८ ||

भूतिर्विचिन्त्यते यत्र भाव्यका यत्र वर्तते |

तथा प्राधान्येन
भगवत्क्रियाशक्तिभूतसुदर्शनस्वरूपादिप्रतिपादकत्वम्

उत्प्रेक्षारूपिणी शक्तिः सुदर्शनपराह्वया || ६०-९ ||

सा पङ्कजा जगद्धातुर्भाविका यत्र चिन्त्यते |
यत्र कारणरूपत्वं क्रियाशक्तेर्विचिन्त्यते || ६०-१० ||

साकारताकारता च शुद्धाशुद्धविभेदिता |
चिन्त्यते यत्र विस्पष्टं विष्णुशक्तेः क्रियात्मनः || ६०-११ ||

प्रमाणरूपता यत्र त्रिविधा परिचिन्त्यते |
मर्यादास्त्रौघशस्त्रौघशास्त्रौघपरिभेदिता || ६०-१२ ||

पुरुषार्थात्मता शक्तेस्तथा तदधिकारिता |
प्. ६०९) जगद्रक्षणरूपत्वं मन्त्रयन्त्रास्त्रविस्तृतम् || ६०-१३ ||

इति सौदर्शनं रूपं निष्कलं यत्र चिन्त्यते |
नानाव्यूहसमुद्भेदं नानासंस्थानशोभितम् || ६०-१४ ||

चिन्त्यते सकलं रूपं यत्र सौदर्शनं महत् |
जगद्रक्षणविध्वंससृजिशालि महोदयम् || ६०-१५ ||

सुदर्शनाङ्गसंभूतमस्त्रजातमशेषतः |
स्वरूपशब्दविक्रान्तैर्निपुणं यत्र चिन्त्यते || ६०-१६ ||

सांख्ययोगाद्यर्थप्रतिपादकत्वरूपवैभवान्तरसूचनम्

सांख्ययोगविधिर्यत्र कार्त्स्न्येन परिचिन्त्यते |
विविधा मन्त्रयोगाश्च मन्त्राश्च विधयोऽखिलाः || ६०-१७ ||

नानासामर्थ्यभेदाश्च सेतिहासप्रविस्तराः |
आत्मन्यासविधिश्चैव विधीनामुत्तमो विधिः || ६०-१८ ||

मन्त्रार्था विविधाश्चैव स्थूलसूक्ष्मपरात्मकाः |
चिन्त्यन्ते यत्र विस्पष्टं विष्णुसंकल्पजृम्भिताः || ६०-१९ ||

एतच्छास्त्राधिकारिनिरूपणम्

तदेतदुपशान्तेन शान्तेन गुरुसेविना |
अध्येयं तन्त्रसाराख्यमाहिर्बुध्न्यं हि शासनम् || ६०-२० ||

अनधिकारिनिर्देशपूर्वकं तेभ्यः शास्त्रप्रदाननिषेधः

नाश्रोत्रियाय नाज्ञाय नाप्रातःस्नायिने तथा |
प्. ६१०) न शठाय न दृप्ताय न कूटविधिसेविने || ६०-२१ ||

नानन्तेवासिने चैव नासंवत्सरवासिने |
नैव देयं कृतघ्नाय नासूयानलशायिने || ६०-२२ ||

योग्याधिकारिनिर्देशपूर्वकं तेभ्यः शास्त्रप्रदानाभ्यनुज्ञा

सुपुत्राय सुशिष्याय सर्वस्वप्राणदायिने |
गुह्यगोपनशीलाय शास्त्रार्थस्थापकाय च || ६०-२३ ||

ऊहापोहसुदक्षाय
मन्त्रवत् संस्कृताय च |
देयमेतत् त्रिवर्णाय
नित्यमध्यात्मशालिने || ६०-२४ ||

शास्त्रवैभवनिगमनम्

षष्ट्यध्यायैः समुद्दिष्टा
संहिता सेयमुत्तमा |
यां ज्ञात्वा पुरुषः शश्वत्
सर्वज्ञत्वमवाप्नुयात् || ६०-२५ ||

परा च मध्यमा चैव ये
हि ते संहिते स्मृते |
तदर्थः सकलोऽप्यत्र
संक्षेपेण प्रदर्शितः || ६०-२६ ||

प्. ६११) ग्रन्थसमापनम्

नमः शिवाय शान्ताय नारदाय महर्षये |
नमः सुदर्शनायाथ विष्णोः संकल्परूपिणे || ६०-२७ ||

इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां
शास्त्रवैभवनिरूपणं नाम षष्टितमोऽध्यायः || ६० ||

आदितः श्लोकाः ३८८०

समाप्ता चेयमहिर्बुध्न्यसंहिता

इति श्रीकौशिकापरपर्यायश्रीमद्बालधन्विकुलावतंसश्रीमन्नृ-
सिंहार्यतनयस्य श्रीशेषार्यवंशमुक्ताफलश्रीमत्पाट-
रार्यतनूभवश्रीवेङ्कटार्यचरणयुगलसेवासमुज्जृम्-
भितवेदान्तद्वयतत्त्ववैशद्यस्य वाधूलवंशकल-
शोदधिपूर्णचन्द्रतर्कतीर्थपण्डितरत्नश्रीमत्क-
स्तूरिरङ्गनाथार्यकृपासमुत्तीर्णसाहिती-
धर्मशास्त्रपूर्वमीमांसादिपारा-
वारस्य श्रीदेवशिखामणेः रामा-
नुजार्यस्य कृतिषु सिद्धाञ्जनं
नाम अहिर्बुध्न्यसंहिता-
विषयविवेचनं
समाप्तम् |

जिज्ञासन्ते तु ये तत्त्वमहिर्बुध्न्यार्थगोचरम् |
नियतं तेऽभिवीक्षन्तां सिद्धाञ्जनमिदं मुहुः ||
सिद्धाञ्जानमिदं भूयाद् विदुषां मोदवृद्धये |
प्रीयतां तेन भगवान् वासुदेवः श्रिय पतिः ||