अहिर्बुध्नसंहिता/अध्यायः ५९
| ← अध्यायः ५८ | अहिर्बुध्नसंहिता अध्यायः ५९ [[लेखकः :|]] |
अध्यायः ६० → |
<poem> पुरुषसूक्तश्रीसूक्तवाराहमन्त्रार्थनिरूपणम् नाम एकोनषष्टितमोऽध्यायः
ध्यातं सकृद्भवानेककोट्यघौघं हरत्यरम् । सुदर्शनस्य तद् दिव्यं भर्गो देवस्य धीमहि ।।
ब्रह्मचक्रान्तर्गतसंभारादिमन्त्रार्थानिरूपणे कारणनिरूपणम्
अहिर्बुध्न्यः -
संभारा देवपत्न्यश्च दक्षिणा हृदयानि च । रुद्रा ब्रह्माणि चेत्येतन्निगदेन निरूप्यते (१) ।। ५९-१ ।।
__________________
१ अतीतेनाध्यायेन होतृवर्गः सग्रहो व्याख्यातः । अथ संभारादीनां व्याख्यानमवसरप्राप्तम् । तथापि निपुणधियां निगदेनैव तदर्थबोधसंभवाद् ग्रन्थविस्तरभयाच्च तेषां नेह व्याख्यानं प्रस्तूयत इति प्रथमश्लोकाभिप्रायः । संभारादिपदार्थस्वरूपमात्रमिहास्माभिः बुभुत्सुजनसौकर्याय प्रदर्श्यते । तथा हि- संभारादीनि षट् पदानि मन्त्रविशेषवाचकानि । तत्रैकविंशतिवाक्यात्मकः अग्निर्यजुर्भिः इत्ययं तैत्तिरीयारण्यकतृतीयप्रपाठकस्याष्टमोऽनुवाकः संभारयजुरित्युच्यते; यज्ञाङ्गत्वेन संभरणीयानां यजुःस्तोमदीनां तस्मिन्ननुवाके समाम्नानात् । षड्विंशतिवाक्यात्मकः सेनेन्द्रस्य इत्ययं नवमोऽनुवाको देवपत्न्याख्यः; ऊक् च सूनृता च देवानां पत्नयः इति मन्त्रलिङ्गोपसंहारदर्शनात् । एकोनपञ्चाशद्वाक्यात्मकः देवस्य त्वा सवितुः प्रसवे इत्ययं दशमोऽनुवाको दक्षिणाप्रतिग्रहमन्त्रः राजा त्वा वरुणो नयतु देवि दक्षिणेऽग्नये हिरण्यम् इत्यादिमन्त्रलिङ्गात् । हृदयशब्देन पञ्चहोतृहृदयाख्यो मन्त्रगणो विवक्षितः । स चाष्टाविंशत्युत्तरशतवाक्यात्मकः सुवर्णं धर्मं परिवेद वेनम् इत्ययमेकादशोऽनुवाकः । हृदयशब्दविवक्षितरहस्यार्थप्रति- पादकत्वादस्यानुवाकस्य हृदयशब्दबोध्यत्वम् । चित्तिः स्रुक् इत्यादीनां हि होतृमन्त्राणां पञ्चानां हृदयं रहस्यं तत्त्वं परमात्मस्वरूपमनेनानुवाकेन विस्पष्टं विस्पष्टं प्रतिपाद्यते । अत एवायमनुवाको भागपञ्चकात्मकः । तत्र सुवर्णं धर्मं इत्यादिः स मानसीन आत्मा जनानाम् इत्यन्तश्चतुर्दशवाक्यात्मकः प्रथमोभागः चित्तिः स्रुक् इत्यादिदशहोतृहृदयभूतपरमात्म- तत्त्वप्रकाशकः । ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् इत्यादिः कवयो निचिक्युः इत्यन्तो द्वादशवाक्यात्मको द्वितीयो भागः पृथिवी होता इत्यादिचतुर्होतृमन्त्रहृदयभूतपरमपुरुषप्रतिपादकः । शतं नियुतः इत्यादिः तेन कॢप्तोऽमृतेनाहमस्मि इत्यन्तो द्वादशवाक्यात्मक- स्तृतीयो भागः अग्निर्होता इत्यादिपञ्चहोतृमन्त्रहृदयभूतभग- वत्स्वरूपप्रतिपादकः । सुवर्णं कोशं इत्यादिः शतधा चरन्तम् इत्यन्तो द्वादशवाक्यात्मकश्चतुर्थो भागः वाग्घोता इत्यादि- षड्ढोतृमन्त्रहृदयभूतपरमपुरुषस्वरूपविशेषप्रतिपादकः । इन्द्रो राजा जगतो य ईशे इत्यादिरनुवाकसमाप्त्यन्तोऽष्टसप्ततिवाक्यात्- मकः पञ्चमो भागः महाहविर्होता इत्यादिसप्तहोतृमन्त्रहृदय- भूतस्य श्रियः पत्युर्भगवतः स्वरूपविशेषप्रतिपादकः । एकेनैव भागेन भगवत्स्वरूपप्रतिपादने भगान्तरेण पुनस्तत्प्रतिपादनवै- यर्थ्याशङ्का तूत्तरोत्तरभागस्य पूर्वपूर्वभागाप्रतिपन्नगुण- विशेषविशिष्टभगवत्स्वरूपप्रतिपादनपरत्वान्निराकर्तव्या । तदेवं समस्तोऽयमनुवाको हृदयशब्देन विवक्षितः । रुद्राः शतरुद्रीय- संज्ञका मन्त्राः । ते च तैत्तिरीयसंहितायाश्चतुर्थकाण्डस्य पञ्चमप्रपाठके नमस्ते रुद्र इत्यादिषु तं वो जम्भे दधामि इत्यन्तेष्वेकादशस्वनुवाकेषु समाम्नाताः । ब्रह्माणि- ब्रह्मलिङ्ग- कानि सूक्तानि ब्रह्म जज्ञानं इत्यादीनि तैत्तिरीयब्राह्मणद्वितीयाष्ट- कस्याष्टमप्रपाठकेऽष्टमानुवाके प्रसिद्धानि । __________________
प्. ५९६) पुरुषसूक्तश्रीसूक्तयोरर्थं निरूपयितुं जगद्धिताय
परमपुरुषाल्लक्ष्म्याश्च तयोराविर्भावकथनम्
सूक्तं तु पौरुषं पुंसः परस्मादुत्थितं पुरा । जगद्धिताय लक्ष्म्याश्च श्रीसूक्तं तत् समुद्गतम् ।। ५९-२ ।।
पुरुषसूक्तस्य ऋक्संख्यायां मतभेदप्रदर्शनम्
नानाभेदप्रपाठं तत् पौरुषं सूक्तमुच्यते । ऋचश्चतस्रः केचित्तु पञ्च षट् सप्त चापरे ।। ५९-३ ।।
प्. ५९७) ऋचः षोडश चाप्यन्ये तथाष्टादश चापरे । अधीयते तु पुंसूक्तं प्रतिशाखं तु भेदतः ।। ५९-४ ।।
पुरुषसूक्तप्रतिपाद्यप्रमेयप्रदर्शनम्
समस्तजगदुत्पत्तिहेतुः स्वर्गापवर्गदः । पौरुषो मानुषो यज्ञः सूक्तेऽस्मिन् प्रतिपाद्यते ।। ५९-५ ।।
आद्यानां चतसृणामृचां वासुदेवादिचातुरात्म्यस्वरूपविवेचकत्वम्
तत्राद्याभिश्चतसृभिश्चातुरात्म्यं विविच्यते ।
तत्राद्यमन्त्रस्य लक्ष्मीपतित्वपरिष्कृतवासुदेवाख्यप्रथमव्यूहप्रतिपादकत्वम्
यः परः पुण्डरीकाक्षः परमात्मा सनातनः ।। ५९-६ ।।
या च सा जगतां योनिर्लक्ष्मीस्तद्धर्मधर्मिणी । भगवान् वासुदेवोऽसावाद्यया प्रतिपाद्यते ।। ५९-७ ।।
मन्त्रस्य प्रतिपदमर्थं वर्णयितुं सहस्रशीर्षशब्दस्य श्रियः पतित्वपरत्वप्रदर्शनम्
सहस्रा सहगा यस्य सहभावमुपेयुषी । श्रीर्नाम परमा शक्तिः पूर्णषाड्गुण्यविग्रहा ।। ५९-८ ।।
निःसक्तासक्तको यश्च नित्यं सन् सकलाश्रयः । सहस्रशीऋस इत्येवं भगवान् परिगीयते ।। ५९-९ ।।
पुरुषशब्दस्यावाप्तसमस्तकामत्वपरत्वम्
पूर्णत्वात् पुरुषो नित्यं पृणातेः पूरणार्थकात् ।
प्. ५९८) सहस्राक्षशब्दस्य सहस्रत्वगुणविशिष्टबद्धात्मवैशिष्ट्यपरत्वम्
अश्नोतेरथवाश्नातेरक्षोऽजेरञ्चतेरुत ।। ५९-१० ।।
अक्षः पुरुष उद्दिष्टो यः प्रकृत्याश्रितो विभुः ।
सहस्रपाच्छब्दस्य सहस्रत्वगुणविशिष्टप्रकृतिवैशिष्ट्यपरत्वम्
पद्यतेः परिणामार्थात् पादित्येष निरुच्यते ।। ५९-११ ।।
पादिति प्रकृतिः प्रोक्ता सा नित्यपरिणामिनी ।
प्रकृतिपुरुषयोः सहस्रशब्दप्रवृत्तिनिमित्तप्रदर्शनम्
षण्णां गुणानां मध्ये या शक्तिः सा हस्र उच्यते ।। ५९-१२ ।।
प्रधानपुरुषौ तस्याः सृतौ सर्गे सनातनौ । तामेवापि श्रितावन्ते तौ सहस्रावतः स्मृतौ ।। ५९-१३ ।।
वासुदेवस्य प्रकृतिपुरुषवैशिष्ट्यनिगमनम्
सहस्रपुरुषाव्यक्तः सहस्राक्षः सहस्रपात् ।
उत्तरार्धस्य तात्पर्यार्थनिरूपणमुखेन कारणगतापरिच्छिन्नत्वगुणपरत्वप्रदर्शनम्
स भूमिं विश्वतो वृत्वेत्येतेनैव निरूप्यते ।। ५९-१४ ।।
यदतीत्य सृतं विश्वं नानासत्तात्मनः स्थितिः । कार्ये हि कारणेयत्ता पयसो दधिसंभवे ।। ५९-१५ ।।
कार्यं सत्संततौ क्वापि कार्येयत्तैव कारणे । मधूच्छिष्टमये पिण्डे यथाकारवियोगिनी ।। ५९-१६ ।।
नैवं भगवतः सर्गे प्रतिसर्गेऽपि वा सति । प्. ५९९) कार्येयत्तात्वमस्तीति स भूमिमिति वर्ण्यते ।। ५९-१७ ।।
भगवत्यार्जितानीति शुद्धाशुद्धमयानि च । भूमिं जगदुपादानं भूमिशक्तिरिहोच्यते ।। ५९-१८ ।।
शुद्धाशुद्धविभागो यः कालपुंप्रकृतिस्थितिः । स भूमिं विश्वतो वृत्वा विष्टभ्य स्वेन तेजसा ।। ५९-१९ ।।
स्वसंकल्पस्वरूपेण प्रभवाप्ययवेलयोः । अत्यतिष्टिअदतीत्यैव स्थितो भूयो दशाङ्गुलम् ।। ५९-२० ।।
दशाङ्गुलिभिरानन्त्यं कारणस्योपदिश्यते ।
द्वितीयमन्त्रस्य संकर्षणाख्यद्वितीयव्यूहपरत्वप्रतिपादनम्
अथ संकर्षणावस्था जगद्धेतुर्निरूप्यते ।। ५९-२१ ।।
यदिदं दृश्यते विश्वं भूतभव्यात्मरूपकम् । इदं पुरुष एवादौ सिसृक्षायामभूत् किल ।। ५९-२२ ।।
मन्त्रगतस्य पुरुषशब्दस्य संकर्षणपरत्वोपपादनम्
पुरुषः स्यन्दति व्यक्तं सम्यग्विज्ञानयोजनात् । अतः पुरुष इत्येवं संकर्षण उदीर्यते ।। ५९-२३ ।।
उत्तरार्धेन संकर्षणस्य ज्ञानोपदेष्ट्टत्वनिबन्धनमोक्षप्रदत्वप्रतिपादनम्
तिलकालकवद् विश्वं बिभ्रच्चिदचिदात्मकम् । संकर्षण उदेति स्म स एवं पुनरुच्यते ।। ५९-२४ ।।
उतामृतत्वस्येशान इति तस्यार्थ उच्यते । अन्नेन भोग्यभूतेन प्रकृतिप्राकृतात्मना ।। ५९-२५ ।।
प्. ६००) कालसंकलितेनैव नानाकारविधाजुषा । अचिदंशेन जीवात्मा यश्चिदंशोऽधिरोहति ।। ५९-२६ ।।
स्वस्यासंबन्धपूर्वं यः पूर्वसङ्गवशादिह । तस्य सद्गुणसंसर्गान्नानाबन्धक्षये सति ।। ५९-२७ ।।
अमृतत्वं स्वरूपाविर्भावमोक्षापराह्वयम् । तस्य संकर्षणो देव ईशानो ज्ञानदेशनात् ।। ५९-२८ ।।
तृतीयमन्त्रस्य प्रद्युम्नाख्यतृतीयव्यूहपरत्वप्रतिपादनम्
संसारानलसंतप्तचेतनानुजिघृक्षया । संकर्षणोदयो विष्णुरुच्यतेऽथ तृतीयया ।। ५९-२९ ।।
एतावानस्य महिमा विष्णोः संकर्षणात्मनः । यदयं धृतवान् विश्वं समुन्मीलनमादिमम् ।। ५९-३० ।।
ज्यायानतोऽपि पुरुषः प्रद्युम्न उपकारतः ।
मन्त्रगतेन पुरुषशब्देन प्रद्युम्नस्य ज्यायस्त्वोपपादनम्
पुरू प्रकृतिपुंरूपौ पुरुषः सृजतीति यत् ।। ५९-३१ ।।
विश्वोपकारचेष्टाभिर्ज्यायस्त्वं तस्य वर्ण्यते ।
चतुर्थमन्त्रस्यानिरुद्धाख्यचतुर्थव्यूहपरत्वप्रतिपादनम्
ऋचा तुरीयया सूक्ते त्रिपादूर्ध्व उदैदिति ।। ५९-३२ ।।
देवोऽपरिमितेहः सन्ननिरुद्धो निरूप्यते ।
मन्त्रगतस्य पुरुषशब्दस्यानिरुद्धपरत्वोपपादनम्
पुरा सीदति कार्याणि कारयन् प्राणिनोऽखिलान् ।। ५९-३३ ।।
प्. ६०१) फलानि पुरुषेभ्यश्च सनोति क्रिययार्चितः । ततः पुरुष इत्येवमनिरुद्धोऽभिधीयते ।। ५९-३४ ।।
पुरि सन् सन् पुरीवायं पुरादूर्ध्वमुदैत् परात् । तदवस्थेन नाघ्रातमित्यर्थोऽयमिहोच्यते ।। ५९-३५ ।।
पादोऽस्यैकांश एवेह चेतनाचेतनात्मकः । अन्तर्यामितया व्याप्तिस्तत्तन्नियमनेच्छया ।। ५९-३६ ।।
एतदेव व्यनक्तीह ततो विष्वङ्ङिति त्वृचा । विष्वक् समन्ततो भूत्वा व्यक्रामत् प्राविशद् बहु ।। ५९-३७ ।।
साशनानशने प्रोक्ते चेतनाचेतने उभे । तस्माद् विराडिति प्रोक्ता विराड् विद्या पराह्वया ।। ५९-३८ ।।
हिरण्यगर्भो विश्वात्मा स पूरुष इहोच्यते ।
अवशिष्टानां चतुर्दशमन्त्राणामर्थस्य लोकतो ज्ञेयत्वकथनपूर्वकं पुरुषसूक्तार्थनिगमनम्
शेषं तु लोकतः सिद्धमित्ययं सूक्त ईदृशः ।। ५९-३९ ।।
तन्त्रान्तरे विस्तरेण निरूपितस्य श्रीसूक्तार्थस्यातिसंक्षेपेण सूचनम्
हिरण्यवर्णां श्रीसूक्तं कृतोऽन्यत्रास्य विस्तरः । वर्णो वरयते रूपं वर्णो वर उदीरितः ।। ५९-४० ।।
हितश्च रमणीयश्च यस्या वर्ण इति स्थितिः । प्. ६०२) हिरण्यवर्णा सा देवी श्रीशक्तिः परमामृता ।। ५९-४१ ।।
तदेतत् सूक्तमित्युक्तं मिथुनं परचिह्नितम् । आदावन्योन्यमिश्रत्वादन्योन्यप्रतिपादकम् ।। ५९-४२ ।।
नियमपूर्वकं यथोक्तसूक्तद्वयनिष्ठस्य मोक्षप्राप्तिः फलम्
नियतो नियताहारो निरतो नियतेन्द्रियः । भजन् सूक्तद्वयं याति तद्विष्णोः परमं पदम् ।। ५९-४३ ।।
वराहमन्त्रे स्थूलार्थस्य लोकतो ज्ञेयत्वकथनम्
वाराहो नाम यो मन्त्रो ह्यत्यनुष्टुबितीरितः । तस्य सांसर्गिकी मुद्रा विदिता लोकतस्तव ।। ५९-४४ ।।
तस्यैव संक्षेपतः सूक्ष्मार्थनिरूपणम्
अस्य प्रतिपदार्थो यो मत्तस्तं त्वं निशामय । वराहादावभिव्यक्तं यस्य रूपं सनातनम् ।। ५९-४५ ।।
वराहरूपो भगवान् वसुधाहरणोद्यतः । संसारो रात्रिरुद्दिष्टो मोक्षो वरमहः स्मृतः ।। ५९-४६ ।।
वराहरूप उद्दिष्टो वरस्याह्नो निरूपणात् ।
तस्यैव परार्थनिरूपणम्
अशेषभुवनाधारो गोपनश्चैव सर्वदा ।। ५९-४७ ।।
प्रज्ञानामपि चाधारो रक्षोदैत्यदवानलः । प्. ६०३) पवित्रः सर्वलोकानामप्रमेयः सनातनः ।। ५९-४८ ।।
परमात्मा वराहोऽभूदित्थं स पर ईरितः । दिगियं दर्शिता सम्यगेषा मन्त्रान्तरे गतिः ।। ५९-४९ ।।
न्यायेनानेन मन्त्राणां गतिं पिण्डं निरूपय ।
शास्त्रार्थमुपसंहर्तुं संक्षेपतः सुदर्शनगतिनिरूपणम्
भूयश्च शृणु संक्षेपात् सुदर्शनगतिं प्रति ।। ५९-५० ।।
निमिषच्चोन्मिषच्चैव चरं चाचरमेव च । दिव्यं च प्राकृतं चैव सूक्ष्मं च स्थूलमेव च ।। ५९-५१ ।।
ह्रस्वं दीर्घं च यत् किंचिदीशितव्यमथेश्वरम् । विज्ञानं यदविज्ञानं सुखं वा यदि वासुखम् ।। ५९-५२ ।।
इति द्वन्द्वपदाद्यैर्यद् वस्तु किंचिद् विकल्प्यते । सुदर्शनसमुन्मेषं तत्तद् विद्धि मुनीश्वर ।। ५९-५३ ।।
शास्त्रार्थसंक्षेपः
लेशतो भगवानुक्तः स्वरूपगुणवैभवैः । तद्धर्मधर्मिणी शक्तिस्तस्य तत्त्वेन वर्णिता ।। ५९-५४ ।।
तस्या अत्यल्प उन्मेषो भूतिर्भाव्या त ईरिता । शुद्धाशुद्धमयी व्यक्तिस्तस्यास्तत्त्वेन वर्णिता ।। ५९-५५ ।।
भावकश्चापि शक्त्यंशः संकल्पो वैष्णवः परः । रूपतो वर्णितः सम्यक् सुदर्शनपराह्वयः ।। ५९-५६ ।।
देशकालादिका व्याप्तिस्तस्य तत्त्वेन वर्णिता । प्. ६०४) प्राणक्रिया बलं तेजः संकल्पो वैष्णवं यशः ।। ५९-५७ ।।
सुदर्शनं परोद्योगः प्राणो विष्णुसमुद्यमः । अव्याहतो महायोगो योगात्मा योगभावनः ।। ५९-५८ ।।
इत्यादिभिर्महाशब्दैस्तत्तदर्णविगाहिभिः । क्रियाशक्तिः परा विष्णोः शास्त्रे शास्त्रे निगद्यते ।। ५९-५९ ।।
यथा कारणतां याति यथैवाधारतामपि । यथा प्रमाणतां याति यथा याति तदर्थताम् ।। ५९-६० ।।
यथा याति विधायाभिस्तत्तदर्थाधिकारिताम् । निष्कलेन स्वरूपेण यथा दिव्योऽभवद्विधिः ।। ५९-६१ ।।
यथा च मध्यमं रूपं यन्त्रं तदुभयात्मकम् । सकलं यच्च तद्रूपं शस्त्रास्त्रमयमुज्ज्वलम् ।। ५९-६२ ।।
दिव्याः सौदर्शना व्यूहा वैश्वरूप्यं च तन्महत् । राज्ञोऽपि विजयः सर्वो रोदसीविजयस्तथा ।। ५९-६३ ।।
कृत्स्नो योगविधिश्चैव न्यासयोगविधिस्तथा । नानोपद्रवशान्तिश्च व्यवस्था योगगोचरा ।। ५९-६४ ।।
ब्रह्मास्त्रादिस्वरूपं च तत्तन्मन्त्रविधिस्तथा । महाभिषेचनविधिरस्त्रयोगविधिस्तथा ।। ५९-६५ ।।
ध्वजादिमन्त्रयोगाश्च सेतिहासविनिश्चयाः । स्थूलसूक्ष्मपरात्मानो दिव्यमन्त्रविनिश्चयाः ।। ५९-६६ ।।
इति ते निखिलेनार्था दर्शितास्ते मुनीश्वर । प्. ६०५) निधाय हृदये तत्त्वं स्वस्थो भव निरामयः ।। ५९-६७ ।।
व्याकृताः संशयाः सर्वे नारदर्षे मनःस्थिताः । करामलकवच्चैव दिव्या सौदर्शनी गतिः ।। ५९-६८ ।।
आदर्शनस्वरूपेण गुणैः सफलवैभवैः । संहितेयं समाख्याता नानाशास्त्रावगाहिनी ।। ५९-६९ ।।
एतत्संहितोपदेशानर्हजनपरिगणनम्
पञ्चरात्रमयी दिव्या सांख्ययोगादिसंमिता । संहितेयं महागुह्या नानामन्त्रमयी परा ।। ५९-७० ।।
नावासुदेवभक्ताय त्वया देया कथंचन । नास्तिके भिन्नमर्यादे कृतघ्नेऽनृतवादके ।। ५९-७१ ।।
निःस्वाध्यायवषट्कारे देवब्राह्मणदूषके । ब्रह्मचर्यव्रतभ्रष्टे पञ्चयज्ञपराङ्मुखे ।। ५९-७२ ।।
दूषणेऽपि च वेदानां ब्राह्मणे मन्त्रवर्जिते ।
योग्याधिकारिपरिगणनम्
वेदविद्याव्रतस्नाते श्रोत्रिये गृहमेधिनि ।। ५९-७३ ।।
ब्रह्मचारिणि वा सम्यग् गुरुस्वाध्यायतत्परे । वनस्थे वा व्रतोपेते भिक्षौ वा तत्त्ववित्परे ।। ५९-७४ ।।
कर्मणा मनसा वाचा भक्ते देवे जनार्दने । पञ्चरात्रप्रिये नित्यं वेदविद्यासुनिष्ठिते ।। ५९-७५ ।।
वक्तव्येयं परा विद्या सर्ववेदान्तबृंहणी ।
प्. ६०६) मङ्गलाचरणव्याजेन शास्त्रप्रमेयसारानुवादपूर्वकं शास्त्रसमापनम्
समस्तजगदुत्पत्तिस्थितिसंहारहेतवे । सुदर्शनाभिधानायै नमः शक्त्यै क्रियात्मने ।। ५९-७६ ।।
नारदः -
अज्ञानतिमिरध्वंसभास्करायादिवेधसे । शिवंकराय भूतानां नमः शान्ताय तेजसे ।। ५९-७७ ।।
इति श्रीपाञ्चरात्रे तन्त्ररहस्ये अहिर्बुध्न्यसंहितायां पुरुषसूक्तश्रीसूक्तवाराहमन्त्रार्थनिरूपणं नाम एकोनषष्टितमोऽध्यायः ।। ५९ ।।
आदितः श्लोकाः ३८५३
<poem>